गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०६१-०६५

विकिस्रोतः तः
← अध्यायाः ५६-६० गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः ६१-६५
[[लेखकः :|]]
अध्यायाः ६६-७० →

अध्याय ६१ प्रारंभ :-
विनायक उवाच ।
नेदृशो दृष्टपूर्वो मे बली च वीर्यवत्तरः ।
इदानीं पौरुषं पश्य मम बालस्य चेष्टितम् ॥१॥
इत्युक्त्वा पुनरेवासौ बाणं तूणादकर्षयत् ।
आकर्णं धनुराकृष्य प्राक्षिपत्तं नरान्तकम् ॥२॥
प्रकाशयन्व्योमतलं पातयन्वृक्षसंचयम् ।
आन्दोलयन्निव ययौ पुष्पवत्तं नरान्तकम् ॥३॥
स बाणोऽछेदयत्तस्य चरणौ स पपात ह ।
अर्धकाये निपतिते दैत्येऽगर्जद्विनायकः ॥४॥
चरणौ व्योममार्गेण भ्रमन्तौ पतितौ गृहे ।
देवान्तकस्य महति चूर्णयन्तौ बहून्जनान् ॥५॥
अर्द्धकायः स दैत्येन्द्रो मुखं कृत्वा भयानकम् ।
अभ्यधावद्बलेनासौ ग्रसन्निव जगत्त्रयम् ॥६॥
तथैव चरणावस्य मायया संबभूवतुः ।
विनायकस्य निकटे बभाषेऽभ्येत्य दैत्यराट् ॥७॥
त्वया यद्दर्शितं मह्यं पौरुषं कायभेदनात् ।
छेत्से तवापि चांगानि पश्य मे पौरुषं तथा ॥८॥
श्रुत्वा वाक्यं पुनस्तस्य जगर्जासौ विनायकः ।
शरवृष्टिं पुना रौद्रमसृजद्दैत्यपुंगवे ॥९॥
सोऽपि तां भक्षयामास संख्यातीतां महाबलः ।
तत एकं महाबाणमभिमन्त्र्य विनायकः ॥२.६१.१०॥
अग्नितुण्डं रुक्मपुंखं गर्जमानं भयानकम् ।
आकर्णं ज्यामपाकृष्य तत्याज दैत्यमस्तके ॥११॥
स ययौ वायुवेगेन दारयन्निव पर्वतान् ।
संहरन्पक्षिसंघातान्पातयन्वृक्षसंचयान् ॥१२॥
श्रुत्वा तदीयनिनदं ययुः सेना दिशो दश ।
पपात दैत्यकण्ठे स गिरिसानौ यथा पविः ॥१३॥
तदाघाताच्छिरोऽप्यस्य पक्षीव गगनं ययौ ।
न्यपतत्परिकूजत् पितुर्गेहे भयानकम् ॥१४॥
पुनरन्यच्छिरोऽस्याभूदच्छिन्नमिव पूर्वतत् ।
ततः कोपेन दैत्योऽकि चक्रे क्ष्वेडितमुच्चकैः ॥१५॥
बिभ्युः सुराः पक्षिसंघा सर्वे च जनसंचयाः ।
धर वृष्टिं पुना रौद्रां चक्रे तस्मिन्विनायके ॥१६॥
स सर्वां बाणवृष्ट्यैव मध्ये चिच्छेद लाघवात् ।
अहोरात्रमभूद्युद्धं गिरिबाणमयं नवम् ॥१७॥
परिशश्राम देवोऽपि सोऽपि दैत्यो महाबलः ।
चिन्तामवाप महतीं प्रजज्वाल च तेजसा ॥१८॥
ततो जग्राह परशुं ज्वालामालासमाकुलम् ।
तोलयामास बलवांश्चकम्पे धरणी तदा ॥१९॥
विमानगाः सुराः सर्वे युद्धं द्रष्टुमुपागताः ।
चकम्पिरे तदा शेषो बिभाय च रसातले ॥२.६१.२०॥
अवासृजद्दैत्यपतो स तस्याशु शिरोऽहरत् ।
पुनरन्यदभूच्चारुशिरोमुकुटकुण्डलम् ॥२१॥
पुनस्तत्पातयामास शिरः क्रुद्धो विनायकः ।
पुनरन्यदभूत्तस्य छिन्ने तस्मिन्पुनःपुनः ॥२२॥
एवं शतसहस्त्राणि शिरांसि सोऽच्छिनद्विभुः ।
पुनश्च चिन्तयामास मृतौ दैत्यस्य कारणम् ॥२३॥
मोहयामास सहसा मायया तं नरान्तकम् ।
शिवस्य वरदानेन गर्वितं बलवत्तरम् ॥२४॥
नाज्ञासीच्च तदा दैत्योऽपरं चात्मानमेव च ।
क्षणाच्च भासते रात्रिः क्षणाच्च दिनमेव च ॥२५॥
क्षणाच्च भासते स्वर्गं पृथ्वी पातालमेव च ।
जागरश्च सुषप्तिश्च तुरीया स्वप्न एव च ॥२६॥
विनायकोऽपि देवो वा नारी वा पुरुषोऽपि वा।
गुहयको वाथ सिद्धो वा यक्षो राक्षस एव च ॥२७॥
स्वकीयो वा परो वापि पिता वा जननी तु वा ।
निर्जीवो वा सजीवो वा भ्रमादेवममन्यत ॥२८॥
चिन्तां च परमामाप तर्कयामास चेतसि ।
एवं मे तु वरा दत्ताः शिवेन शूलधारिणा ॥२९॥
अयं च समयः प्राप्तः प्रायो मृत्युर्भविष्यति ।
क उवाच । एवं यावच्चिन्तयते पुरस्तावद्ददर्श सः ॥२.६१.३०॥
विनायकं विराड्रूपं गगनोर्ध्वगमस्तकम् ।
पातालव्याप्तचरणं दिक्श्रोत्रं वृक्षरोमकम् ॥३१॥
भ्रमद्ब्रह्माण्डरोमांच पयोंघ्रिश्रमबिन्दुकम् ।
नखाग्रे यस्य देवानां भान्ति त्रिंशस्त्रिकोटयः ॥३१॥
उदरे भान्त्येकदशे भुवनानि चतुर्दश ।
ततो विनायको दैत्यं मर्दयामास तत्क्षणात् ॥३३॥
पादांगुष्ठनखाग्रेण मत्कुणं बालको यथा ।
ततो देवाश्च मुनयो जयशब्दै मुहुर्मुहुः ॥३४॥
तुष्टुवुर्मुमुचुः पुष्पवृष्टिं भक्त्या प्रहर्षिताः।
अन्तर्हिते तु वैराटे रूपेऽगाद्धरणी विभुम् ॥३५॥
नत्वा प्रोवाच देवेशमर्धभारो हृतो मम ।
पूर्णे हृते परा प्रीतिर्मे स्यात्तस्मात्सदा कुरु ॥३६॥
तस्यामन्तर्हितायां तु काशीराजः पुपूज तम् ।
उवाच च प्रसन्नात्मा विनयावनतो नृपः ॥३७॥
अत्याश्चर्यं विभो दृष्टं मनोवाण्योरगोचरम् ।
अवतीर्णोऽसि भूभारं हर्तुं तच्च कृतं त्वया ॥३८॥
त्रयस्त्रिंशत्कोटिदेवैरवध्योऽयं हतो यतः।
अतिपुण्येन द्रष्टं ते विराड्रूपं सुरेश्वर ॥३९॥
क उवाच ।
एवं ब्रुवति राजेन्द्र पौराः सर्वेऽब्रुवंस्तदा ।
धन्योऽसि बालभावेन सर्वान्नो भ्रामयस्यहो ॥२.६१.४०॥
यशः प्रथयितुं सर्वं कृतमेतद्विभो त्वया ।
पुपूजुश्च महाभक्त्या प्रार्थयन्निति तं विभुम् ॥४१॥
भक्तिं ते देहि नो देव स्ववियोगं च मा कुरु ।
ततो राजा च ते लोका ददुर्दानान्यनेकशः ॥४२॥
ब्राह्मणान्प्रार्थयामासुरेवमेव जयोऽस्तु नः ।
उपायनानि च तदा ददू राज्ञे परस्परम् ॥४३॥ (२७५६ )
इति श्रीगणेशपुराणे क्रीडाखंडे दैत्यदमनं विराड्दर्शनं नामैकषष्टित्तमोऽध्यायः ॥६१॥
अध्याय ६२ प्रारंभ –
क उवाच ।
रौद्रकेतोस्तु या भार्या शारदाख्या द्विजस्य सा ।
विदर्भ्यामुपविष्टा सा सखीभिः कौतुकान्विता ॥१॥
नरान्तकस्य च शिरोऽकस्मात्ताभिर्ददर्श ह ।
पतितं प्रांगणे कर्णकुण्डलाभ्यां विराजितम् ॥२॥
नादयत्पत्तनं सर्वं शिखरं पार्वतं यथा ।
श्यामलं हिमसंसृष्टं विशोभं कमलं यथा ॥३॥
बिभ्यतो रौद्रकेतुश्च शारदाघातविह्वला ।
सावधानौ ददृशतू रुदतः स्म भृशं तदा ॥४॥
लुण्ठतः स्म धरण्यां तौ ताडयन्तौ च वक्षसि ।
मूर्च्छामवापतुरुभौ मुहूर्तादिव चेतनाम् ॥५॥
माता शुशोच तदा हृदि स्थाप्य त तच्छिरः ।
चक्रन्दे विह्वला सा गौर्मृतवत्सा यथा भृशम् ॥६॥
शारदोवाच ।
वीरश्रिया व्याप्ततनू रणायैव समुत्सुकः ॥७॥
प्रोक्तवान्न हि किचिन्मामिदानीं गिरमाहर ॥८॥
क्व गतः पूर्वकायस्ते शिरसैव समागतः ।
एकाकी कथमायातः क्व ते सैन्यं महत्तरम् ॥९॥
क्व ते जलधरा यासांश्छत्रचामरधारिणः ।
यं दृष्ट्वा वरकामिन्यो म्लायन्ते विरहाग्निना ॥२.६२.१०॥
स कथं म्लानतां यातो रविरस्तानुगो यथा।
किं मया ह्यपराद्धं ते पित्रा वा वत्सलेन च ॥११॥
किमर्थं वदसे नैव रुददश्रु प्रमार्ज्य नः ।
परार्ध्यास्तरणोपेते मंचक स्वापतत्परः ॥१२॥
क्वेदानीं परिसुप्तोऽसि खिद्यते मे मनो भृशम् ।
विनाभूतौ त्वया नेशावास्यं सन्दर्शितुं सुत ॥१३॥
क उवाच ।
शारदायाः शुचं श्रुत्वा रौद्रकेतुः शुशोच ह ।
विना वृत्तान्तकथनात्क्व गतोऽसि प्रियात्मज ॥१४॥
प्रत्यहं सर्ववृत्तान्तं जातं भाविनमेव च ।
संश्रावयसि स्वस्थानमिदानीं किन्न भाषसे ॥१५॥
यदि त्वं संमुखे युध्यन्धारापूतो दिवं गतः ।
मामपृच्छ्य च मां त्यक्त्वा कथं त्वं परिजग्मिवान् ॥१६॥
कथं त्वया कृता पित्रोः पुत्रता शत्रुतापि च ।
यदा त्वं सेवककरात्खड्गं गृह्णासि स्वं करे ॥१७॥
तदा सपर्वतवना सस्वर्गा कम्पते च भूः ।
स केन पातितो मह्यां न जाने कालपर्ययम् ॥१८॥
दैवं हि बलवल्लोके पौरुषं तु निरर्थकम् ।
भूषणं मम वंशस्य लोकस्य च गतं क्व नु ॥१९॥
लोकस्यापि च यः कालः पंचास्योऽरिगजस्य यः ।
स कथं त्वं द्विधाभूतो वाताहत इव द्रुमः ॥२.६२.२०॥
प्रतापसविता राजंस्तूलदाहहुताशनः ।
क उवाच ।
एवं नानाविधं शोकं रौद्रकेतुच्छ शारदा ॥२१॥
कृत्वा मूर्धानमादाय देवान्तकमगच्छताम् ।
भद्रासनात्समुत्थाय त्वरया तौ तथाविधौ ॥२२॥
दृष्ट्वा कण्ठं समालिंग्य रुरोदावरजं तदा ।
तत्परीवारभूता ये दैत्याः कालयमोपमाः ॥२३॥
रुरुदुः सुस्वरं तत्र दृष्ट्वा नारान्तकं शिरः ।
मातुर्हस्ताच्छिरो गृहय तत्स्वे हृदि निधाय च ॥२४॥
चक्रन्द कुररीवासौ भ्रातृस्नेहेन दुःखितः ।
देवान्तक उवाच ।
समं भुक्तं समं पीतं क्रीडितं सुप्तमुत्थितम् ॥२५॥
समं तप्तं समं जप्तं क्व गतोऽसि विहाय माम् ।
यस्य ते दर्शनान्मर्त्याः सुरा यान्ति दिशो दश ॥२६॥
स कथं निहतः केन दुष्टेन च बलीयसा ।
रसा रसातलं चैव तवैव च निवेदितम् ॥२७॥
विहाय मां कथं स्वर्गं गतोऽसि भ्रातृवत्सल !
यस्य ज्याघोषमाकर्ण्य कम्पते स्म चराचरम् ॥२८॥
असंख्याता नृपा यस्य साम्ने द्वारगता बभुः ।
स कथं पितरौ हित्वा गतश्च सुन्दरां स्त्रियम् ॥२९॥
एवं तत्क्रन्दनं श्रुत्वा वीरलोका समाययुः ।
हेतुभिर्वारयामासुर्बलाद्धृत्वा तु तत्करैः ॥२.६२.३०॥
जना ऊचुः ।
न वीराः परिशोचन्ति वीरे युद्धे हते नृप ।
निघ्नन्ति तं बलाद्गत्वा येनासौ निहतो भवेत् ॥३१॥
मृत्युस्तु सर्वजन्तूनां सह देहेन जायते ।
सोऽद्य वर्षशतेनापि भविष्यति न संशयः ॥३२॥
स्वस्य वान्यस्य वा राजस्तत्र का परिदेवना ।
श्रुत्वा वाक्यं तु लोकानां तदा देवान्तकोऽसुरः ॥३३॥
सावधानमना भूत्वा पितरौ प्राह धर्मवित् ।
मा शोचतमहं यामि ग्रसितुं तं निजं रिपूम् ॥३४॥
वदतं क्व निवासोऽस्य येन बन्धुहतो मम ।
तं हत्वा सुखमेष्यामि बन्धुं यास्यामि वा मृतः ॥३५॥
मम भ्रूभंगमात्रेण कम्पते भुवनत्रयम् ।
मयि क्षुब्धे तु कस्त्राता लोकानां पितरौ यतः ॥३६॥
क उवाच ।
श्रुत्वा देवान्तकवचः आश्वस्तौ तावुभौ तदा।
शोकसागरमग्नौ तावद्धतौ तेन वाक्यतः ॥३७॥
ऊचतुः परमं वाक्यं ज्येष्ठपृष्टौ सविस्तरम् ।
काशिराजेति विख्यातो राजा परमधार्मिकः ॥३८॥
वैवाहिको महोत्साहस्तद्गृहे समपद्यत ।
आकारिताः सर्वजनाः कश्यपस्यात्मजोऽपि च ॥३९॥
स बाल एव बलवान्विनायक इति स्मृतः ।
तेन मार्गे हतो भ्राता धूम्राक्षो मम पुत्रक ॥२.६२.४०॥
तस्य प्रत्याम्नायकृते प्रेषिता वीरसंमताः ।
धावमाना ययुस्ते च सहस्रार्द्धं निशाचराः ॥४१॥
सप्तवर्षेण ते सर्वे नाशिता मुनिसूनुना ।
तेषां प्रत्याम्नायकृते स्वयं यातो नरान्तकः ॥४२॥
अनेकशस्त्रसंपन्नश्चतुरङगबलान्वितः ।
एकोऽपि नागतस्तस्मादकस्माद्ददृशे शिरः ॥३४॥
शोकं कृत्वा तव पुर आनीतं तच्छिरोऽधुना।
क उवाच ।
इति तद्वाक्यमाकर्ण्य चकम्पे रक्तलोचनः ॥४४॥
देवान्तकश्चोदतिष्ठद्ग्रसन्निव जगत्त्रयम् ।
उवाच गर्वमोहेन पितरं वेगवत्तरम् ॥४५॥
कालं हनिष्येऽखिलघ्नं न्युब्जां पृथ्वीं विधाय च ।
करिष्ये क्रोधदृष्ट्यैव ब्रह्मांडं भस्मसात्क्षणात् ॥४६॥
इत्युक्त्वा क्ष्वेडितं कृत्वा जगतीं कम्पयन्निव ।
देवाधिकारे ये दैत्यास्तान्सर्वानाजुहाव च ॥४७॥
नत्वा तौ पितरौ वाक्यं प्रोचे देवान्तकस्तदा ।
इदानीं मुनिपुत्रं तमानयिष्यामि सत्वरम् ॥४८॥
सहैव तेन दास्यामि मूर्ध्न्यस्य च धनंजयम् ।
एवमुक्त्वा बलात्सर्वे उड्डीय सहसा च ते ॥४९॥
देवान्तकोऽप्यसंख्याता विहंगा इव शीघ्रगाः ।
काशिराजपुरीं प्राप्य वेष्टयेयुः समन्ततः ॥२.६२.५०॥
कोलाहलो महानासीद्रजसाच्छादिता दिशः ।
न प्रकाशो रवेरासीत्पौराश्च चुक्रुशुर्भृशम् ॥५१॥
नरान्तके हते द्वित्रिदिवसा नैव यद्गताः।
तत्कथं पुनरायातः प्रलयोऽत्र जनापहः ॥५२॥
कोऽयं प्रचण्डदेहेन दुष्प्रेक्ष्यो वै समागतः ।
क्षमः कालं कलयितुं भक्षितुं वा जगत्त्रयम् ॥५३॥
दैत्यानां परिखा जाताः प्रेषिता दैत्यपुंगवाः ।
हतास्तेनाथ ते सर्वे गन्तुं मार्गो न विद्यते ॥५४॥
एवं तदस्तु पौरेषु तावद्दूताः समागताः ।
काशिराजं कथयितुं देवान्तकसमागमम् ॥५५॥ (२८११ )
इति श्रीगणेशपुराणे क्रीडाखण्डे नगरीनिरोधो नाम द्विषष्टितमोऽध्यायः ॥६२॥


दूता ऊचुः ।
देवान्तको महारौद्रो रौद्रैर्दैत्यैः समावृतः ।
असंख्यैर्विविधैः कालभीतिदैर्व्योममस्तकः ॥१॥
वयं तद्दर्शनभ्रान्तः पलाय्य त्वामुपागताः ।
नगरी वेष्टिता राजन्यत्करिष्यसि तत्कुरु ॥२॥
क उवाच ।
श्रुत्वा दूतमुखाद्राजा वृत्तात्तं समकम्पत ।
अतिम्लानतया यातो बालकं स विनायकम् ॥३॥
क्रीडन्तं शिशुमध्ये तं वृत्तान्तं सर्वमब्रवीत्।
राजोवाच ।
परब्रह्मन्नमस्तेऽस्तु लीलामानुषविग्रह ॥४॥
चराचरगुरो नानालीलाकर नमोऽस्तु ते।
अनेकशो वयं त्रातास्त्वया बालस्वरूपिणा ॥५॥
इदानीमपि रक्षास्मानस्माद्देवान्तकात्प्रभो ।
क उवाच ।
एवं संप्रार्थितस्तेन काशिराजेन बालकः । ॥६॥
देहं कृत्वा विशालं स सिंहारूढो धनुष्करः ।
सिद्धिबुद्धियुतो गर्जन्नादयन्गिरिकन्दराः ॥७॥
तेजसा लोपयन्सूर्यं वमन्नग्निकणान्मुखात् ।
बाणं खड्गं च परशुं धनुर्हस्ते विधारयत् ॥८॥
नभोमार्गेण नगराद्बहिर्यातो विनायकः ।
श्वेडितेन स दैत्यानां मनांसि परिकम्पयन् ॥९॥
ददर्श दुष्टसैन्यं तं देवान्तकममर्षणम् ।
असंख्यातास्तदा दैत्या बभ्रमुः शलभा इव ॥२.६३.१०॥
दृष्ट्वा नानाविधं सैन्यं सिद्धिं प्रोवाच विघ्नराट् ।
एकाकिना न साध्येयं सेना नाना विधीयताम् ॥११॥
स्वकीया साधितुं दैत्यं कुरु शीघ्रमिदं वचः ।
क उवाच ।
ततः सिद्धिर्नमस्कृत्वा परमात्मांघ्रिपंकजम् ॥१२॥
देवान्तकं योधयितुं ययौ चाथ जगर्ज च ।
निनादैः सर्वजन्तूनां दैत्यानां भयदायिनी ॥१३॥
चचाल शेषो द्यौश्चापि पर्वता वृक्षसंचयाः ।
तद्गर्जितमहारावैः प्रतिशद्वैरनेकशः ॥१४॥
सस्मार चाष्टसिद्धीः सा ताश्च याता मुदान्विताः ।
अणिमा प्रथमं प्राप्ता गरिमा तदन्तरम् ॥१५॥
महिमा लघिमा चापि संप्राप्ते तदन्तरम् ।
प्राप्तिश्चैव तु प्राकाम्यं वशित्वं च समाययौ ॥१६॥
ईशित्वं तदनु प्राप्तं तासां सैन्यमभूदनु ।
गजाश्वरथपादान्तं नानायुधविराजितम् ॥१७॥
वर्षाकाले यथा नद्यः सागरं यान्ति सर्वतः ।
तथा सैन्यं दश दिशो याति स्म युद्धलालसम् ॥१८॥
असंख्यवाद्यनिर्घोषं वीरशद्वैर्नदद्भृशम् ।
कृतान्तसदृशान्वीरान्भूगोलप्राशनोत्सुकान् ॥१९॥
दृष्ट्वा देवान्तकः स्वान्तं चिन्तयामास चेतसि ।
बालं क्षणेन षेष्यामीत्येवं युद्धाय चागतः ॥२.६३.२०॥
अकस्मादीदृशं सैन्यं कुत एतद्विनिर्गतम् ।
दृष्टं विचित्रसामर्थ्यं बालस्य मायया कृतम् ॥२१॥
मरिष्ये मारयिष्ये वा जीवत्स्याज्यो यशो न हि ।
एवं वदति दैत्येन्द्रे सेनान्यः प्राब्रुवन्वचः ॥२२॥
वयं योत्स्यामहे सैन्ये रक्ष पृष्टं जयो भवेत् ।
पीत्वा वाक्यामृतं तेषां हृष्टो देवान्तकोऽब्रवीत् ॥२३॥
सम्यगुक्तं महावीरा यान्तु युद्धाय यामि च ।
जयोऽस्तु मम वाक्येन भवतां पुण्यकर्मणाम् ॥२४॥
आशिषं परिगृह्यैव नमस्कृत्वा सुरान्तकम् ।
कर्दमो नाम दैत्योऽथ ययौ व्यूहं रथाकृतिम् ॥२५॥
दीर्घदन्तो ययौ चक्रव्यूहं परमदुर्जयम् ।
गरिम्णा वीरमुख्यस्तु रचितं वीरमोहनम् ॥२६॥
प्रथिम्णा पालितं व्यूहं तालजंघो ययौ मुदा।
महिम्ना रचितं व्यूहं यक्ष्मनामा समाययौ ॥२७॥
प्राप्त्या विरचितं व्यहं ययौ घण्टासुरो महान् ।
प्राकाम्यरचितं व्यूह रक्तकेशो बलान्वितम् ॥२८॥
कालान्तको ययौ व्यूहं वशितारचितं परम् ।
ईशितारचितं व्यूहं दुर्जयोऽभिययौ बली ॥२९॥
एतेषां वचसाऽशक्यं वक्तुं सामर्थ्यमंजसा ।
अष्टौ व्यूहानयुध्यन्त दैत्या अष्टौ महाबलाः ॥२.६३.३०॥
परस्परं विनिघ्नन्तः परान्परमदुर्जयान् ।
शरधारा विमुंचन्तो जलधारा यथा घनाः ॥३१॥
चिच्छिदुरुत्तमांगानि शस्त्रैर्नाविधैर्भटाः ।
निहतैश्च तदा वौरैर्गजैरश्वैर्वसुन्धरा ॥३२॥
ऊरुभिर्जानुभिर्हस्तैश्छिन्नैरासीत्सुदुर्गमा ।
खेटानि पुरतः कृत्वा जघ्नुः पादांश्च केचन ॥३३॥
उड्डीय गिरिवत्केचित्पेतुर्वीरेषु चूर्णितुम् ।
रजोऽन्धकारे नाज्ञासीत्स्वीयः स्वीयं परस्परम् ॥३४॥
ततो निपेतुः सहसा दैत्या देवहता भुवि ।
देवा हताश्च दैत्याश्च कुर्वते भैरवान्रवान् ॥३५॥
कबन्धा युयुधुस्तत्र मुमुदुश्चाप्सरोगणाः ।
शुशुभुः शस्त्रसंघातैः पुष्पिताः किंशुका यथा ॥३६॥
शुक्रस्तत्र मृतान्दैत्यानुज्जीवयति विद्यया।
अष्टौ व्यूहा ययुश्चिन्तां मृतशेषा बलान्विताः ॥३७॥
ईशितायै ततः प्रोचुः सर्वे ते शुक्रचेष्टितम् ।
तस्याः क्रोधवशादेका कृत्या स्यान्निर्गता पुरः ॥३८॥
कटाक्षेण तयाज्ञप्ता भार्गवं तु निजे भगे।
कृत्वा तदाऽन्तर्दधे सा पश्चात्तत्याज बर्बरे ॥३९॥
तेन बर्बरदेशीयं यं तं वदन्ति मनीषिणः ।
ततो मुमुदिरे देवा युयुधुश्च बलान्विताः ॥२.६३.४०॥
निहन्यमाना दैतेयाः पलायनपरा ययुः ।
केचिच्च शरणं प्राप्ता रक्ष रक्षेति चापरे ॥४१॥
प्रत्यूचुर्देवगन्धर्वानणिमादिकृतांस्तदा ।
कदा विजयिनो दैत्याः कदाचिद्देवतागणाः ॥४२॥
अभवन्युद्ध निरताः परस्परजयैषिणः ।
द्वन्द्वयुद्धमभूद्घोरं तस्मिन्नुपरते युधि ॥४३॥ (२८५४)
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते शुक्रत्यागो नाम त्रिषष्टितमोऽध्यायः ॥६३॥

क उवाच ।
कालान्तकेन दैत्येन प्राकाम्येन परस्परम् ।
कालान्तको विजयेते प्राकाम्यं यावदेव हि ॥१॥
तावत्साहाय्यमकरोद्वशित्वं वेगवत्तरम् ।
तत्याज गिरिशृंगं तन्मस्तके हस्तलाघवात् ॥२॥
तेन कालान्तको भूमौ सहसा निपपात ह ।
रुधिराक्तं द्विधाभूतं दृष्ट्वा कालान्तकं तदा ॥३॥
हाहाकारो महानासीद्दैत्यसेनाचरेश्वथ ।
मुसलो नाम दैत्येशो भल्लश्चैवापरोऽसुरः ॥४॥
महिमा चैव चत्वारो ययुर्युद्धाय सादराः ।
प्राकाम्येन युयुधिरेऽनेकशस्त्रप्रहारिणः ॥५॥
असंख्याता हता देवाः पतिता भग्नवृक्षवत् ।
असृग्जलप्रवाहिन्य आसन्नद्यः सहस्रशः ॥६॥
ईशिता च वशित्वं च विभूतिश्च ययुस्ततः ।
साहाय्यं चक्रिरे तस्य प्राकाम्यस्य तदा युधि ॥७॥
चत्वारः पर्वतास्ताभिश्चतुर्ष्वपि निपातिताः ।
तैश्च ते चूणिताः सर्वे गताः स्वर्गं सुदुर्लभम् ॥८॥
अणिमा तु शिखां धृत्वा कर्दमस्य रणे बलात् ।
अपाटि सहसा भूमौ शतधा स व्यशीर्यत ॥९॥
अस्रवद्रुधिरं वक्त्राल्लुठन्प्राणां जहौ तदा।
महिमा लघिमा चैव गरिमा वृक्षसंचयान् ॥२.६४.१०॥
यक्ष्मासुरे तालजंघे दीर्घदन्ते न्यपातयन् ।
ततो घण्टासुरो रक्तकेशो दैत्योऽथ दुर्जयः ॥११॥
आययुः सर्वसैन्यानि निश्वसन्तो महाबलाः ।
तैराहतं बलं दृष्टवा वशितासिद्धिबुद्धयः ॥१२॥
मुष्टिघातैर्निजघ्नुस्ता भालदेशे दृढं तदा ।
तेऽपि भूमौ निपतिताः शतधा चूर्णितास्तदा ॥१३॥
ततो जगर्जुः सर्वास्ता जयं लब्धा स्वशक्तितः ।
विनायको विजयते सर्वास्ता एवमूचिरे ॥१४॥
अन्ये क्षुद्रतरा दैत्यास्तेऽपि ताभिर्विनाशिताः।
पुनः सर्वे दैत्यसिंहाः सिद्धिसेनां व्यनाशयन् ॥१५॥
कोलाहलो महानासीत्सेनयोरुभयोरपि ।
हन्तु निघ्नन्तु बध्नन्तु सावधाना भवन्त्विति ॥१६॥
प्रादुरासीत्ततश्चाग्निः शस्त्रसंघदृसंभवः ।
भग्ने शस्त्रे मल्लयुद्धं चक्रुर्वीरा रुषान्विताः ॥१७॥
पुनश्चानियतं युद्धं परस्परविनाशनम् ।
अभवत्तुमुलं सूर्यस्ततश्चास्तमयं गतः ॥१८॥
अन्धकारेण महता दिशो व्याप्ताः समन्ततः ।
ततो दिव्यौषधीर्गृह्य निजघ्नुस्ते परस्परम् ॥१९॥
अहोरात्रत्रयं घोरं युद्धमासीन्निरन्तरम् ।
असृङ्नद्यो दशदिशो याता वीरवहास्तदा ॥२.६४.२०॥
खेटकूर्माः खड्गझषाः शिरःकमलशोभिताः ।
गजग्राहाः प्रेतकाष्टाः केशशैवलराजिताः ॥२१॥
भीरुभीतिकरा वीरमहाहर्षविवर्द्धनाः ।
ततो जयत्सु देवेषु सर्वदा बलशालिषु ॥२२॥
देवान्तको ययौ चिन्तां तर्कयामास चेतसि ।
येन सर्वे देवगणा जितास्ते स्वप्रभावतः ॥२३॥
क्वेयं तत्र बालमाया सामान्या जनमोहिनी ।
अष्टसिद्धी: सर्वसैन्यमिदानीं नाशयाम्यहम् ॥२४॥
धृत्वा विनायकं बालं गमिष्यामि स्वमालयम् ।
एवमुक्त्वा खड्गपाणिः स्वनेनापूरयन्दिशः ॥२५॥
आययौ परसैन्यानि निघ्नं खड्गेन सर्वशः ।
भयेन मूर्छिता देवा निपेतुर्धरणीतले ॥२६॥
स्मृत्वा विनायकं देवं जहुः प्राणांस्तु केचन ।
असृङ्नदीवहाः केचित्कचित्स्वर्गं गताः सुराः ॥२७॥
केचिद्दैत्यं विलोक्यैव जहुर्जीवितमात्मनः ।
ततो भग्ना देवसेना पपाल च दिशो दश ॥२८॥
सोऽपि दैत्यः खड्गपाणिर्निघ्नन्पृष्ठे जघान ताम् ।
गरिमा तन्निरीक्ष्याथ पर्वतं वृक्षसङकुलम् ॥२९॥
तत्याज दैत्याहे स खड़गेन शतधाऽच्छिनत् ।
ततोऽष्टसिद्धयः क्षुब्धास्तत्यजुः पर्वतान्बहून् ॥२.६४.३०॥
चिच्छेद त्वरया तान्स खड्गाघातेन लाघवात् ।
उड्डीय महिमा तस्य स्कन्धे स्थित्वा तमाददे ॥३१॥
खड्गं दैत्यकराच्छीघ्रमन्तर्धानं ययौ तदा ।
बलाच्चिक्षेप तं खड्गं तस्य दैत्यस्य मस्तके ॥३२॥
स एव शतधा जातो न तु मूर्द्धां तदद्भुतम् ।
शरवृष्टिं तदा दैत्यो भग्नपृष्ठश्चकार ह ॥३३॥
एकैकस्यां दशदशपंचसप्तशरानसौ ।
क्षिप्त्वा व्याकुलयांचक्रे ततस्ता भुवि पेतिरे ॥३४॥
ततो देवा युयुधिरे पतितास्वष्टसिद्धिषु ।
मुहूर्तात्सावधानास्ता ययुर्देवं विनायकम् ॥३५॥
तमुदन्तं परिज्ञाय बुद्धि प्रोचे विनायकम् ।
कथं विचारस्तस्य स्याद्यत्र बुद्धिर्न दृश्यते ॥३६॥
पराजिताः सिद्धयस्ते देह्यनुज्ञां व्रजाम्यहम् ।
योद्धुं दैत्येन तेनाथ पौरुषं चास्य लक्षये ॥३७॥
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते चतुःषष्टितमोऽध्यायः ॥६४॥ (२८९१)

क उवाच ।
श्रुत्वा बुद्धिवचो देवो हर्षं प्राप्य जगाद ताम् ।
देव उवाच ।
गच्छ युध्यस्व दैत्येन जहि तं यश आप्नुहि ॥१॥
एवमुक्त्वा सुवासांसि ददौ तस्यै विनायकः ।
सा च नत्वा तदा देवं ययौ दैत्यं रणं प्रति ॥२॥
तस्याः क्ष्वेडितशब्देन कम्पितं भुवनत्रयम् ।
वदनान्निर्ययौ तस्या एका शक्तिर्गरीयसी ॥३॥
जटिला विकृतास्या च जगद्भक्षणलालसा ।
विशालाभ्यां तु नेत्राभ्यां त्यजन्ती ज्वालसंचयान् ॥४॥
दहन्ती दैत्यसेनां सा ययौ सा च पपाल ह ।
दर्शने पतिता दैत्यास्तस्याः केचिद्गतासवः ॥५॥
अन्ये त्वतर्कयन्क्वाद्य गन्तव्यं क्व सुखं भवेत् ।
केचिदाहुर्धाव धाव देवान्तक मृता वयम् ॥६॥
एवं कोलाहलं श्रुत्वा ययौ देवान्तकः पुरः ।
सज्यं कृत्वा धनुः शीघ्रं शरानाशीविषोपमान् ॥७॥
ससर्ज तस्या गात्रेषु दर्शयन्पाणिलाघवम् ।
आच्छाद्य भानुं तन्मूर्ध्नां बाणजालैस्तथाविधैः ॥८॥
सा प्रसार्य महद्वक्त्रं बिसवद्गिलते शरान् ।
तूणीरास्तस्य दैत्यस्य सर्वे रिक्तास्तदाऽभवन् ॥९॥
न तस्यास्तृप्तिरभवद्राक्षसस्येव मानुषैः ।
देवान्तकं क्षीणशक्तिं दृष्ट्वा सा सैन्यमाययौ ॥२.६५.१०॥
भक्षयामास तान्दैत्यान्कां श्चिद्धस्तादपातयत् ।
कांश्चिद्गले विनिक्षिप्य चूर्णयामास चापरान्॥११॥
असंख्यकोटीर्दैत्यानां भक्षिताश्चूर्णिता हताः ।
चूर्णयन्ती पदाघातैः कांश्चिद्देवान्तकं ययौ ॥१२॥
तमुवाच तदा सा तु विश मे भगगह्वरम् ।
यत्र ते शेरते दैत्या मातुर्गर्भं गता इव ॥१३॥
ये भक्षिता मृतास्ते मे जठरे जीर्णतां गताः ।
तद्भित्या स पपालाशु मूत्रविड्गन्धविह्वलः ॥१४॥
यत्र यत्र प्रलीनोऽभूत्तत्र तत्रापि सा ययौ ।
बभ्राम स्वर्गलोकान्स पातालानि दिशो दश ॥१५॥
ततः शिखां समाक्रम्य धृत्वा तं प्राक्षिपद्भगे ।
तया सह ततो बुद्धिर्विनायकमुपाययौ ॥१६॥
ननाम तां पुरस्कृत्य मदघूर्णितलोचनाम् ।
पातयन्तीमुभयतः स्तनाघाताद्वनस्पतीन् ॥१७॥
शरधाराश्च घनवत्स्रवन्ती मन्दगामिनी ।
निराकरोत्करालां तां दृष्ट्वा देवो विनायकः ॥१८॥
निराकृतायां तस्यां तद्भगाद्दैत्योऽपतद्भुवि ।
सोऽपि दुर्गन्धिरित्येव दूतैः संत्याजितो बहिः ॥१९॥
स तु संज्ञां समासाद्य स्नात्वा तूष्णीं गृहं ययौ ।
व्रीडितोऽधोमुखश्चिन्तां यातो म्लानोऽसिदुःखितः ॥२.६५.२०॥
बुद्ध्या निवेदिता सा तु ननाम तं विनायकम् ।
तां दृष्ट्वा जहसुर्बिभ्युर्मम्लुः पेतुश्च केचन ॥२१॥
तता सैनं जगादाशु भक्षिता दैत्यवाहिनी ।
सोऽपि देवान्तकः पायौ निक्षिप्य स्थापितो भया ॥२२॥
इदानीं वसतिस्थानं देहि देव दयानिधे ।
देव उवाच ।
वञ्चयित्वा गतो दैत्यो गृहं स्वं दैत्यनाशिनि ॥२३॥
तवापि पौरुषं ज्ञातं शक्रादिभ्योऽधिकं मया ।
विश वक्त्रं ममैव त्वं विश्रान्तिं तत्र गच्छ च ॥२४॥
अहं तं साधयिष्यामि मा चिन्तां कर्तुमर्हसि ।
क उवाच ।
एवमाकर्ण्य तद्वाक्यं दृष्ट्वा वक्त्रं विवेश सा ॥२५॥
सुष्वाप परमप्रीता मातुरङ्के यथाऽर्भकः ।
उदरे देवदेवस्य सर्वलोकनिवासिनि ॥२६॥ (२९१७)
इति श्रीगणेशपुराणे क्रीडाखंडे बुद्धिविजयो नाम पंचषष्टितमोऽध्यायः ॥६५॥