गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः १४६-१५०

विकिस्रोतः तः
← अध्यायाः १४१-१४५ गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः १४६--१५०
[[लेखकः :|]]
अध्यायाः १५१-१५५ →

अध्याय १४६ प्रारंभ :-
वरेण्य उवाच ।
अनन्यभावस्त्वां सम्यङ्मतिमन्तमुपासते ।
योऽक्षरं परमं व्यक्तं तयोः कस्ते मतोऽधिकः १
असि त्वं सर्ववित्साक्षी भूतभावन ईश्वरः ।
अतस्त्वां परिपृच्छामि वद मे कृपया विभो २
श्रीगजानन उवाच ।
यो मां मूर्तिधरं भक्त्या मद्भक्तः परिसेवते ।
स मे मान्योऽनन्यभक्तिर्नियुज्य हृदयं मयि ३
खगणं स्ववशं कृत्वाऽखिलभूतहितार्थकृत् ।
मध्येयमक्षराव्यक्तं सर्वगं कूटगं स्थिरम् ४
सोऽपि मामेत्य निर्देश्यं मत्परो य उपासते ।
संसारसागरादस्मादुद्धरामि तमप्यहम् ५
अव्यक्तोपासनादुःखमधिकं तेन लभ्यते ।
व्यक्तस्योपासनासाध्यं तदेवाव्यक्तभक्तितः ६
भक्तिश्चैवादरश्चात्र कारणं परमं मतम् ।
सर्वेषां विदुषां श्रेष्ठो ह्यकिंचिज्ज्ञोऽपि भक्तिमान्।
भजन्भक्त्या विहीनो यः स चाण्डालोऽभिधीयते।
चाण्डालोऽपि भजन्भक्त्या ब्राह्मणेभ्योऽधिको मम ८
शुकाद्याः सनकाद्याश्च पुरा मुक्ता हि भक्तितः ।
भक्त्यैव मामनुप्राप्ता नारदाद्याश्चिरायुषः ९
अतो भक्त्या मयि मनो निधेहि बुद्धिमेव च ।
भक्त्या यजस्व मां राजंस्ततो मामेव यास्यसि २.१४६.१०
असमर्थोऽर्पितुं स्वान्तं ध्रुवं मयि नराधिप ।
अभ्यासेन च योगेन ततो गन्तुं यजस्व माम् ११
तत्रापि त्वमशक्तश्चेत्कुरु कर्म मदर्पणम् ।
ममानुग्रहतश्चैव परां निर्वृतिमेष्यसि १२
अथैतदप्यनुष्ठातुं न शक्नोषि तदा कुरु ।
प्रयत्नतः फलत्यागं त्रिविधानां हि कर्मणाम् १३
श्रेयसी बुद्धिरावृत्तेस्ततो ध्यानं वरं मतम् ।
ततोऽखिलपरित्यागस्ततः शान्तिर्गरीयसी १४
निरहंममताबुद्धिरद्वेषः करुणःसमः ।
लाभालाभे सुखेदुःखे मानामाने स मे प्रियः १५
यं वीक्ष्य न भयं याति जनस्तस्मान्न च स्वयम् ।
उद्वेगभीः कोपमद्भी रहितो यः स मे प्रियः । १६
रिपौ मित्रेऽथ गर्यास यां स्तुतौ शोके समः समुत् ।
मौनी निश्चलधीभक्तिरसंगः स च मे प्रियः १७
संशीलयति यश्चैनमुपदेशं मया कृतम् ।
स वन्द्यः सर्वलोकेषु मुक्तात्मा मे प्रियः सदा १८
अनिष्टाप्तौ च न द्वेष्टीष्टप्राप्तौ न च तुष्यति ।
क्षेत्रतज्ज्ञौ च यो वेत्ति स मे प्रियतरो भवेत् १९
वरेण्य उवाच ।
किं क्षेत्रं कश्च तद्वेत्ति कि तज्ज्ञानं गजानन ।
एतदाचक्ष्व महयं त्वं पृच्छते करुणाम्बुधे २.१४६.२०
श्रीगजानन उवाच।
पंचभूतानि तन्मात्राः पंचकर्मेन्द्रियाणि च ।
अहंकारो मनो बुद्धिः पंचज्ञानेन्द्रियाणि च२१
इच्छाव्यक्तं धृतिद्वेषौ सुखदुःखे तथैव च।
चेतनासहितश्चायं समूहः क्षेत्रमुच्यते २२
तज्ज्ञं त्वं विद्धि मां भूप सर्वान्तर्यामिणं विभुम् ।
अयं समूहोऽहं चापि यज्ज्ञानविषयौ नृप २३
आर्जवं गुरुशुश्रूषा विरक्तिश्चेन्द्रियार्थतः ।
शौचं क्षान्तिरदम्भश्च जन्मादिदोषवीक्षणम् २४
समदृष्टिइर्दृढा भक्तिरेकान्तित्वं शमो दमः ।
एतैर्यच्च युतं ज्ञानं तज्ज्ञानं विद्धि बाहुज २५
तज्ज्ञानविषयं राजन्ब्रवीमि त्वं शणुष्व मे ।
यज्ज्ञात्वैति च निर्वाणं मुक्त्वा संसृतिसागरम् २६
यदनादीन्द्रियैर्हीनं गुणभुग्गुणवर्जितम् ।
अव्यक्तं सदसद्भिन्नमिन्द्रियार्थावभासकम् २७
विष्वभृच्चाखिलव्यापि एकं नानेव भासते ।
बाह्याभ्यन्तरतः पूर्णमसंगं तमसः परम् २८
दुर्ज्ञेयं चातिसूक्ष्मत्वाद्दीप्तीनामपि भासकम् ।
ज्ञेयमेतादृशं विद्धि ज्ञानगम्यं पुरातनम् २९
एतदेव परं ब्रह्म ज्ञेयमात्मा परोऽव्ययः।
गुणान्प्रकृतिजान्भुङ्क्ते पुरुषः प्रकृतेः परः २.१४६.३०
गुणैस्त्रिभिरियं देहे बध्नाति पुरुषं दृढम् ।
यदा प्रकाशः क्षान्तिश्च विद्धिः सत्त्वं तदाधिकम् ३१
लोभोऽशमः स्पृहारम्भः कर्मणां रजसोगुणः ।
मोहोऽप्रवृत्तिश्चाज्ञानं प्रमादस्तमसो गुणाः ३२
सत्त्वाधिकः सुखं ज्ञानं कर्मसंगो रजोधिकः ।
तमोधिकश्च लभते निद्रालस्यं सुखेतरत् ३३
एषु त्रिषु प्रवृद्धेषु मुक्तिसंसृतिदुर्गतिः ।
प्रयान्ति मानवा राजंस्तस्मात्सत्त्वयुतो भव ३४
ततश्च सर्वभावेन भज त्वं मां नरेश्वर ।
भक्त्या चाव्यभिचारिण्या सर्वत्रैव च संस्थितम्३५
अग्नौ सूर्ये तथा सोमे यच्च तारासु संस्थितम् ।
विदुषी ब्राह्मणे तेजे विद्धि तन्मामकं नृप३६
अहमेवाखिलं विश्वं सृजामि विसृजामि च ।
ओषधीस्तेजसा सर्वा विश्वं चाप्याययाम्यहम् ३७
सर्वेन्द्रियाण्यधिष्ठाय जाठरं च धनञ्जयम् ।
भुनज्मि चाखिलान्भोगान्पुण्यपापाविवर्जितः ३८
अहं विष्णुश्च रुद्रश्च ब्रह्मा गौरी गुणेश्वरः ।
इन्द्राद्या लोकपालाश्च ममैवांशसमुद्भवाः ३९
येन येन हि रूपेण जनो मां पर्युपासते ।
तथा तथा दर्शयामि तस्मै रूपं सुभक्तितः २.१४६.४०
इति क्षेत्रं तथा ज्ञाता ज्ञानं ज्ञेयं मयेरितम् ।
अखिलं भूपते सम्यगुपपन्नाय पृच्छते ४१ (६६१४)
ॐतत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतर्थ शास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे 'क्षेत्रक्षेत्रज्ञविवेकयोगो' नवमोध्यायः । ॥९॥१४६॥

अध्याय १४७ प्रारंभ :-
श्रीगजानन उवाच ।
दैव्यासुरी राक्षसी च प्रकृतिस्त्रिविधा नृणाम् ।
तासां फलानि चिह्नानि संक्षेपात्तेऽधुना ब्रुवे १
आद्या संसाधयेन्मुक्तिं द्वे परे बन्धनं नृप ।
चिह्नं ब्रवीमि चाद्यायास्तन्मे निगदतः शृणु २
अपैशुन्यं दया क्रोधश्चापलं धृतिरार्जवम् ।
तेजोऽभयहिंसा च क्षमा शौचममानिता ३
इत्यादिचिह्नमाद्याया आसुर्याः शृणु सांप्रतम् ।
अतिवादोऽभिमानश्च दर्पोऽज्ञानं सकोपता ४
आसुर्या एवमाद्यानि चिह्नानि प्रकृतेर्नृप ।
निष्ठुरत्वं मदो मोहोऽहंकारो गर्व एव च ५
द्वेषो हिंसा दया क्रोध औद्धत्यं दुर्विनीतता ।
आभिचारिककर्तृत्वं क्रूरकर्मरतिस्तथा ६
अविश्वासः सतां वाक्येऽशुचित्वे कर्महीनता।
निन्दकत्वं च वेदानां भक्तानामसुरद्विषाम् ७
मुनिश्रोत्रियविप्राणां तथा स्मृतिपुराणयोः ।
पाखण्डवाक्ये विश्वासः संगतिर्मलिनात्मनाम् ८
सदम्भे कर्मकर्तृत्वं स्पृहा च परवस्तुषु ।
अनेककामनावत्त्वं सर्वदाऽनृतभाषणम् ९
परोत्कर्षासहिष्णुत्वं परकृत्यपराहतिः ।
इत्याद्या बहवश्चान्ये राक्षस्याः प्रकृतेर्गुणाः २.१४७.१०
पृथिव्या स्वर्गलोके च परिवृत्य वसन्ति ते।
मद्भक्तिरहिता लोका राक्षसीं प्रकृतिं श्रिताः ११
तामसीं ये श्रिता राजन्यान्ति ते रौरवं ध्रुवम् ।
अनिर्वाच्यं च ते दुःखं भुञ्जते तत्र संस्थिता: १२
दैवान्निःसृत्य नरकाज्जायन्ते भुवि कुब्जकाः ।
जात्यन्धाः पंगवो दीनाहीनजातिषु ते नृप १३
पुनः पापसमाचारा मय्यभक्ताः पतन्ति ते ।
उत्पतन्ति हि मद्भक्ता यां कांचिद्योनिमाश्रिताः १४
लभन्ते स्वर्गतिं यज्ञैरन्यैर्धर्मैश्च भूमिप ।
सुलभा सा सकामानां मयि भक्तिः सुदुर्लभा १५
विमूढा मोहजालेन बद्धाः स्वेन च कर्मणा।
अहं हर्ता अहं कर्ता अहं भोक्तेति वादिनः १६
अहमेवेश्वरः शास्ता अहं वेत्ता अहं सुखी ।
एतादृशी मतिर्नृणामधःपातयतीह तान् १७
तस्मादेतत्समुत्सृज्य दैवीं प्रकृतिमाश्रय ।
भक्तिं कुरु मदीयां त्वमनिशं दृढचेतसा १८
सापि भक्तिस्त्रिधा राजन्सात्विकी राजसीतरा ।
यद्देवान्भजते भक्त्या सात्त्विकी सा मता शुभा १९
राजसी सा तु विज्ञेया भक्तिर्जन्ममृतिप्रदा ।
यद्यक्षांच्चैव रक्षांसि यजन्ते सर्वभावतः २.१४७.२०
वेदेनाविहितं क्रूरं साहंकारं सदम्भकम् ।
भजन्ते प्रेतभूतादीन्कर्म कुर्वन्ति कामिकम् २१
शोषयन्तो निजं देहमन्तस्थं मां दृढा ग्रहाः ।
तामस्येतादृशी भक्तिर्नृणां सा निरयप्रदा २२
कामो लोभस्तथा क्रोधो दम्भश्चत्वार इत्यमि ।
महाद्वाराणि वीचीनां तस्मादेतांस्तु वर्जयेत् २३ (६६३७)
ॐतत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थ शास्त्रे श्रीमदादि श्रीन्महागाणेश्वरे महापुराणे उत्तरखंडे बालचरिते श्रीगजाननवरेण्यसंवादे ' उपदेशयोगो' नाम दशमोऽध्यायः ॥१०॥१४७॥

अध्याय १४८ प्रारंभः –
श्रीगजानन उवाच ।
तपोऽपि त्रिविधं राजन्कायिकादिप्रभेदतः।
ऋजुतार्जवशौचाश्च ब्रह्मचर्यमहिंसनम् १
गुरुविज्ञद्विजातीनां पूजनं चासुरद्विषाम् ।
स्वधर्मपालनं नित्यं कायिकं तपईदृशम् २
मर्मांस्पृक्च प्रियं वाक्यमनुद्वेगं हितं ऋतम् ।
अधीतिर्वेदशास्त्राणां वाचिकं तप ईदशम् ३
अन्तःप्रसादः शान्तत्वं मौनमिन्द्रियनिग्रहः ।
निर्मलाशयता नित्यं मानसं तप ईदृशम् ४
अकामतः श्रद्धया च यत्तपः सात्त्विकं तु तत् ।
सत्कारपूजार्थं सदम्भं राजसं तपः ५
तदस्थिरं जन्ममृती प्रयच्छति न संशयः ।
परात्मपीडकं यच्च तपस्तामसमुच्यते ६
विधिवाक्यप्रमाणार्थं सत्पात्रे देशकालतः ।
श्रद्धया दीयमानं यद्दानं तत्सात्विकं मतम् ७
उपकारं फलं वापि कांक्षद्भिर्दीयते नरैः ।
क्लेशतोऽदीयमानं वा भक्त्या राजसमुच्यते ८
अकालदेशतोऽपात्रेवज्ञया दीयते तु यत् ।
असत्काराच्च यद्दत्तं तद्दानं तामसं स्मृतम् ९
ज्ञानं च त्रिविधं राजन्शृणुष्व स्थिरचेतसा ।
त्रिधा कर्म च कर्तारं ब्रवीमि ते प्रसंगतः २.१४८.१०
नानाविधेषु भूतेषु मामेकं वीक्ष्यते तु यः ।
नाशवत्सु च नित्यं मां तज्ज्ञानं सात्त्विकं नृप ११
तेषु वेत्ति पृथग्भूतं विविधं भावमाश्रितः ।
मामव्ययं च तज्ज्ञानं राजसं परिकीर्तितम् १२
हेतुहीनमसत्यं च देहात्मविषयं च यत् ।
असदल्पार्थविषयं तामसं ज्ञानमुच्यते १३
भेदतस्त्रिविधं कर्म विद्धि राजन्मयेरितम् ।
कामनाद्वेषदम्भैर्यद्रहितं नित्यकर्म यत १४
कृतं विना फलेच्छां यत्कर्म सात्त्विकमुच्यते ।
यद्बहुक्लेशतः कर्म कृतं यच्च फलेच्छया १५
क्रियमाणं नृभिर्दम्भात्कर्म राजसमुच्यते ।
अनपेक्ष्य स्वशक्तिं यदर्थक्षयकरं च यत् १६
अज्ञानात्क्रियमाणं यत्कर्म तामसमीरितम् ।
कर्त्तारं त्रिविधं विद्धि कथ्यमानं मया नृप १७
धैर्योत्साही समोऽसिद्धौ सिद्धौ चाविक्रियस्तु यः ।
अहंकारविमुक्तो यः स कर्ता सात्त्विको नृप १८
कुर्वन्हर्षं च शोकं च हिंसा फलस्पृशम् च यः ।
अशुचिर्लुब्धको यस्तु राजसोऽसौ निगद्यते १९
प्रमादाज्ञानसहितः परीच्छेदपरः शठः ।
अलसस्तर्कवान्यस्तु कर्ताऽसौ तामसो मतः २.१४८.२०
सुखं च त्रिविधं राजन्दुःखं च क्रमतः शृणु ।
सात्त्विकं राजसं चैव तामसं च मयोच्यते २१
विषवद्भासते पूर्वं दुःखस्यान्तकरं च यत ।
इच्छ्यमानं तथा वृत्या वदन्ते मृतवद्भवेत् २२
प्रसादात्स्वस्य बुद्धेर्यत्सात्त्विकं सुखमीरितम् ।
विषयाणां तु यो भोगो भासतेऽमृतवत्पुरा २३
हालाहालमिवान्ते यद्राजसं सुखमीरितम् ।
तन्द्रिप्रमादसंभूतमालस्यप्रभवं च यत् २४
सर्वदा मोहकं स्वस्य सुखं तामसमीदृशम् ।
न तदस्ति यदेतैर्यमुक्तं स्यात्त्रिविधैर्गुणैः २५
राजन्ब्रह्मापि त्रिविधमोंतत्सदिति भेदतः ।
त्रिलोकेषु त्रिधाभूतमखिलं भूप वर्तते २६
ब्रह्मक्षत्रियविट्शूद्राः स्वभावाद्भिन्नकर्मिणः ।
तानि तेषां तु कर्माणि संक्षेपात्तेऽधुना वदे २७
अन्तर्बाह्येन्द्रियाणां च वशत्वमार्जवं क्षमा।
नानातपांसि शौचं च द्विविधं ज्ञानमात्मनः २८
वेदशास्त्रपुराणानां स्मृतिनां ज्ञानमेव च ।
अनुष्ठानं तदर्थानां कर्म ब्राह्ममुदाहृतम् । २९
दार्यंर् शौर्यं च दाक्ष्यं च युद्धे पृष्ठप्रदर्शनम् ।
शरण्यपालनं दानं धृतिस्तेजः स्वभावजम् २.१४८.३०
प्रभुता मनऔन्नत्यं सुनीतिर्लोकपालनम् ।
पंचकर्माधिकारित्वं क्षात्रकर्म समीरितम् ३१
नानावस्तुक्रयो भूमेः कर्षणं रक्षणं गवाम् ।
त्रिधाकर्माधिकारित्वं वैश्यानां कर्म ईदृशम् ३२
दानं द्विजानां शुश्रूषा सर्वदा शिवसेवनम् ।
एतादृशं नरव्याघ्र कर्म शौद्रमुदीरितम् ३३
स्वस्वकर्मरता एते मय्यार्प्याखिलकारिणः ।
मत्प्रसादात्स्थिरं स्थानं यान्ति ते परमं नृप ३४
इति ते कथितो राजन्प्रसादाद्योग उत्तमः ।
सागोपांग सविस्तारोऽनादिसिद्धौ मया प्रिय ३५
युङ्क्ष्व योगं मयाख्यातं नाख्यातं कस्यचिन्नृप।
गोपयैनं ततः सिद्धिं परां यास्यस्यनुत्तमाम् ३६
क उवाच ।
इति तस्य वचः श्रुत्वा प्रसन्नस्य महात्मनः ।
गणेशस्य वरेण्यः स चकार च यथोदितम् ३७
त्यक्त्वा राज्यं कुटुंबं च कान्तारं प्रययौ स्यात् ।
उपदिष्टं यथायोगमास्थाय मुक्तिमाप्नुयात् ३८
इमं योप्युत्तमं योगं शृणोति श्रद्धया तु यः ।
सोऽपि कैवल्यमाप्नोति यथा योगी तथैव सः ३९
य इमं श्रावयेद्योगं कृत्वाऽस्यार्थं सुबुद्धिमान् ।
यथा योगी तथा सोऽपि परं निर्वाणमृच्छति २.१४८.४०
यो गीतां सम्यगभ्यस्य ज्ञात्वाचार्थं गुरोर्मुखात।
कृत्वा पूजां गणेशस्य प्रत्यहं पठते तु यः ४१
एककालं द्विकालं वा त्रिकालं वापि यः पठेत् ।
ब्रह्मीभूतस्य तस्यापि दर्शनान्मुच्यतेतरः ४२
न यज्ञैर्न व्रतैर्दानैर्नाग्निहोत्रैर्महाधनैः।
न वेदैः सम्यगभ्यस्तैः सम्यग्ज्ञातैः सहांगकैः ४३
पुराणश्रवणैर्नैव न शास्त्रैः साधु चिन्तनैः।
प्राप्यते ब्रह्म परममनया प्राप्यते नरैः४४
ब्रह्मघ्नो मद्यपः स्तेनो गुरुतल्पगमोऽपि यः।
चतुर्णां यस्तु संसर्गी महापातककारिणाम्४५
स्त्रीहिंसा गोवधादीनां कर्तारो ये च पापिनः ।
ते सर्वे प्रतिमुच्यन्ते गीतामेतां पठन्ति चेत् ४६
यः पठेत्प्रयतो नित्यं स गणेशो न संशयः ।
चतुर्थ्यां य: पठेद्भक्त्या सोऽपि मोक्षाय कल्पते ४७
ततःत्क्षेत्रं समासाद्य स्नात्वाऽभ्यर्च्य गजाननम् ।
सकृद्गीतां पठेद्भक्त्या ब्रह्मभूयाय जायते ४८
भाद्रमासे सिते पक्षे चतुर्थ्यां भक्तिमान्नरः ।
कृत्वा महीमयीं मूर्तिं गणेशस्य चतुर्भुजाम् ४९
सवाहनां सायुधां च समभ्यर्च्य यथाविधि ।
यः पठेत्सप्तकृत्वस्तु गीतामेतां प्रयत्नतः २.१४८.५०
ददाति तस्य तुष्टोसौ गणेशो भोगमुत्तमम् ।
पुत्रान्पौत्रान्धनं धान्यं पशुरत्नादिसंपदः ५१
विद्यार्थिनो लभेद्विद्या सुखार्थी सुखमाप्नुयात् ।
कामानन्याँल्लभेत्कामी मुक्तिमन्ते प्रयान्ति ते ५२ (६६८९)
ॐतत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थ शास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे 'गुणत्रयकृतियोगो' नामैकादशोध्यायः ॥११॥ ॥१४८॥

अध्याय १४९ प्रारंभ :-
क उवाच ।
एवं पूजां संप्रगृहय तत्रैव न्यवसद्विभुः ।
भक्तानां पूरयन्कामान्सदने राजपूजिते १
मुनिरुवाच ।
विनायकस्य माहात्म्ये कथा भिन्ना निरूपिताः ।
अवतीर्य वरेण्यस्य गृहे विघ्नासुरो हतः २
गजासुरमुखप्राप्तिर्वर्णिता चतुरानन ।
अत्रैव पार्वती गर्भादाविर्भावो निरूपितः ३
गजाननतया देव संशयोऽतो ममाभवत् ।
त्वदन्यः संशयेच्छेत्ता नास्त्येव भुवनत्रये ४
क उवाच ।
न कार्यः संशयो व्यास नानाशक्तियुते विभौ।
निजेच्छावशतोऽनेकरूपकः कल्पभेदतः ५
शम्भुवक्त्राच्च क्रोधाच्च प्रादुर्भूतो गजाननः ।
गौर्याश्च तेजसो जात उदराच्च क्वचिन्मुने ६
क्वचिद्गौरीमलाच्चापि द्विमुखो द्विकरः क्वचित् ।
क्वचित्पंचमुखः क्वापि षण्मुखो दशबाहुकः ७
क्वचिद्वाखःदशहस्तश्च सहस्रभुजमण्डितः ।
आगमेषु समस्तेषु नानाध्यानानि सन्ति हि ८
न चात्र संशयः कार्यो विस्मयो वा मुने प्रभौ ।
शिवाद्ब्रह्मा च विष्णुश्च लैंगे जातौ निरूपितौ ९
स्कान्दे विधातुर्नेत्राच्च शिवोत्पत्तिर्निरूपिता ।
विष्णुः शिवं ध्यायति च शिवोऽपि विष्णुमेव च २.१४९.१०
पंचाक्षरं समन्त्रं च तारकं वदति प्रभुः ।
शतकोटिमितं रामचरितं च त्रिधाकृतम् ११
मर्त्यलोके तारकं स स्थापयामास शंकरः ।
क्वचिच्छिवात्सृष्टिरुक्ता ब्रह्मणश्च क्वचिद्धरेः १२
भगवत्याः क्वचित्प्रोक्ता क्वचित्सूर्याद्गजाननात् ।
क्वचिच्च ब्रह्मणः प्रोक्ता सर्वं तच्छास्त्रसंमतम् १३
संशयं कुरुते यस्तु स याति नरकं ध्रुवम् ।
क उवाच ॥
एवं त्रेतायुगकथा प्रोक्ता सर्वा मुने तव १४
इदानीमभिधास्यानि कथां कलियुगाश्रिताम् ।
कलिप्रान्ते मुने लोका भ्रष्टाचारास्तथानृताः १५
ब्राह्मणा वेदरहिताः स्नानसन्ध्याविवर्जिताः ।
यजनं याजनं दानं न करिष्यन्ति कर्हिचित् १६
प्रतिग्रहं च दुण्टानां करिष्यन्ति सुदुर्लभम् ।
परापवादं तन्निन्दां परस्रीधर्षणं तथा १७
करिष्यन्ति जनाः सर्वे विधिलोपं च सर्वशः।
विश्वासघातं सर्वत्र कुर्वन्ति च जना ध्रुवम् १८
विधिलोपे च शपथं करिष्यन्ति धरातले।
न करिष्यन्ति मेघाश्च वृष्टिं क्वापि मुनीश्वर १९
महानदीतीरदेशे करिष्यन्ति कृषिं जनाः ।
यो बलि सोप्यबलिनो हरिष्यन्ति धनं बलात् २.१४९.२०
हरिष्यतस्ततो द्वौ च त्रयस्ताभ्यां बलात्पुनः ।
शूद्रा वेदं पठिष्यन्ति ब्राह्मणाः शूद्रकर्मिणः २१
क्षत्रिया वैश्यकर्माणो वैश्याश्च शूद्रकर्मिणः।
प्रतिग्रहं करिष्यन्ति चाण्डालस्य द्विजातयः २२
दरिद्राश्च भविष्यन्ति हाहाभूता विचेतसः ।
वदिष्यन्ति च न मया गृहीतं धनमण्वपि २३
गृहीत्वापि च कृत्याय याचितारो धनं परात् ।
उत्कोचं च गृहीत्वैव वृथा साक्ष्यं ब्रुवन्ति च २४
सतां निन्दा करिष्यन्ति मैत्रीं चासद्भिरेव च ।
वृथा मांसस्य भक्ष्यं च करिष्यन्ति द्विजातयः २५
उच्छेदः सज्जनानां स्यादितरेषां च वैभवम् ।
हित्वा देवान्भविष्यन्ति जनाः सर्वे तथैन्द्रिकान् २६
भूतप्रेतपिशाचानां भजने सक्त मानसाः ।
वेषान्नानाविधान्कृत्वा भक्षयिष्यन्ति वाडवाः २७
केचिच्च क्षत्रिया भिक्षां चरिष्यन्त्यकुलोचिताम् ।
व्रतानि निर्ममांश्चापि नाचरिष्यन्ति कर्हिचित् २८
वर्णसंकरकारीणि कर्ता कर्माणि भूजनः ।
पतिव्रता भ्रष्टव्रता भविष्यन्ति कलौ युगे २९
म्लेच्छप्रायाः सर्वलोकाः परद्रव्यापहारिणः ।
निर्दयाः कुपथासक्ताः सर्वदा सत्यवर्जिताः २.१४९.३०
धरित्री सस्यहीना च रसहीना महीरुहाः।
पंचमे वाथ षष्ठे वा वर्षे कन्यां प्रसूयते ३१
षोडशाब्दपरं चायुर्भविप्यति तदा युगे।
तीर्थानि गुप्तरूपाणि देवतायतनानि च ३२
एवं पापे प्रवृद्धे तु धर्मे विश्वार्थमात्रकः ।
भविष्यन्ति तदा देवा उपवासपरायणाः ३३
स्वधास्वाहावषट्कारैर्वजिताभयविह्वलाः ।
यास्यन्ति शरणं देवं गजाननमनामयम् ३४
स्तुतिं नानाविधां तस्य करिष्यन्ति नतिं बहु ।
प्रार्थयिष्यन्ति देवेशं सर्वविघ्नविनाशनम् ३५
एवं सर्वं विचार्यासौ आविर्भावं करिष्यति ।
गजाननः शूर्पकर्णो धूम्रवर्णोऽपि नामतः ३६
नीलमश्वं समारुह्य खड्गहस्तो रुषा ज्वलन् ।
कल्पयिष्यति सेनां स नानारूपां निजेच्छया ३७
शस्त्राणि च महास्त्राणि कल्पयिष्यत्ययत्नतः ।
वधिष्यति महाम्लेछान्सेनया स्वेन तेजसा ३८
म्लेच्छभूतांस्तथा लोकान्वधिष्यति तदाऽखिलान् ।
लीलान्कन्दरदेशेषु ब्राह्मणान्वन्यभक्षिण: ३९
समानाय्य प्रपूज्यैतान्भूमिं दास्यति देवराट् ।
सत्कर्मकारिणः सर्वान्विचाल्यति च सज्जनान् २.१४९.४०
तदा धर्ममयं विश्वं भविष्यति कृते युगे।
एवं कृत्वा धूम्रवर्णस्ततोन्तर्धानमेष्यति ४१
एवं चतुर्युगे व्यास विघ्नेशस्य महात्मनः ।
कथितानि च नामानि रूपाणि च तवानघ ४२
कर्माण्यद्भुतरूपाणि तस्य चोक्तानि सर्वशः ।
येषां श्रवणमात्रेण मुच्यन्ते सर्वजन्तवः ४३
अनन्यस्याणि रूपाणि न वक्तुं शक्तिरस्ति मे ।
यत्र वेदाश्च चत्वारो विकुण्ठास्तत्र का कथा ४४
मम वा मद्विधस्यापि महिम्नस्तस्य वर्णने ।
अनुष्ठानाय गच्छ त्वं व्यवसायं करोम्यहम् ४५
भृगुरुवाच ।
एवं श्रुत्वा सोमकान्त व्यासो ब्रह्ममुखात्कथाम् ।
अतिप्रीतमनाः प्राह सर्वपापप्रणाशिनीम् ४६
मुनिरुवाच ।
न तृप्तिमधिगच्छामि । श्रुत्वाख्यानं महाद्भुतम् ।
धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वया सर्वसंशयाः ४७
दूरीकृताः कथासंगाद्गणेशचरिता श्रयात् ।
अमृतस्येव मे तृप्तिः श्रुत्वा श्रुत्वा न जायते ४८
अस्य श्रवणमात्रेण जन्मजन्मान्तरार्जितम् ।
वृजिनं नाशमायाति सर्वे कामा भवन्ति च ४९
पूर्वपुण्यबलादस्य श्रवणं जायते नृणाम् ।
न श्राव्यं दुर्जनायेदं पुराणं सर्वसिद्धिदम् २.१४९.५०
एवमुक्त्वा नमस्कृत्य परिक्रम्य स्वयं भुवम् ।
गृहीत्वाज्ञां ययौ व्यासस्तपसे वनमुत्तमम् ५१
यत्र कन्दफलान्यासन्नुत्तमानि जलानि च ।
न वायुः प्रबलो यत्र नातपो नाग्निरेव च ५२
तत्रोपविष्टैकनिष्ठो जपन्नेकाक्षरं मनुम् ।
व्यतीयुर्द्धादशाब्दानि मुनेस्तस्य तपस्यतः ॥
ततः प्रादुरभूत्तस्य पुरतस्तु गजाननः ५३ (६७४२)
इति श्रीगणेशपुराणे क्रीडाखण्डे मुनिविसर्जनं नामैकोनपंचाशदुत्तरशततमोऽध्यायः ॥ १४९ ॥


अध्याय १५० प्रारंभ :-
सोमकान्त उवाच ।
कथं प्रादुरभूद्देवः पुरस्तस्य महात्मनः ।
भृगो तत्सर्वमाख्याहि श्रुत्वा पापक्षयो यतः १
भृगुरुवाच ।
यथा तत्पुरतः प्रादुरासीद्देवो गजाननः ।
तत्सर्वं कथयिष्येऽहं सादरं शृणु भूमिप २
रक्तमाल्याम्बरधरो रक्तगन्धानुलेपनः ।
गजाननोऽब्जनयनः सिन्दूरारुणमस्तकः ३
अनेकसूर्यसंकाशो दिव्यकुण्डलमण्डितः ।
अंगदे मुकुटं बिभ्रत्कंकणे शेषमेव च ४
मुनिरित्थं निरीक्ष्यैनं निमील्य नयने पुनः ।
चकम्पे भयसंत्रस्तः स्मृत्वा मन्त्रं मुमूर्छ च ५
ततोऽब्रवीन्नागमुखो मा भैस्त्वं मुनिसत्तम ।
यं ध्यायसि दिवारात्रौ सोऽहं त्वां समुपागतः ६
ब्रह्मादीनामगम्यो यो वरं दातुं मुने तव ।
भृगुरुवाच ।
श्रुत्वेत्थं मधुरां वाणीं जहर्ष मुनिपुंगवः ७
मूर्धानं न्यस्य तत्पादे धन्योऽहं पितरौ तपः ।
धन्योऽहं धरणी वृक्षाः पुनः पुनरवीवदत् ८
यतो दृष्टः सर्वरूपो गुणातीतोऽखिलाश्रयः।
चिदानन्दघनोऽनन्तोऽखिलकारणकारणम् ९
एवं स्तुत्वा प्रार्थयन्स वरदं तं गजाननम् ।
मुनिरुवाच ।
निरस्य भ्रान्तिं सर्वा मे यच्छ भक्तिं दृढां त्वयि २.१५०.१०
अष्टादशपुराणानां यथा स्यां करणे क्षमः ।
तवापि स्तवने शक्तिः स्याद्यथा तत्कुरुष्व भोः ११
हृदये वस देवेश प्रसन्नश्चेन्ममानघ ।
गजानन उवाच ।
त्वया यत्प्रार्थितं वत्स सर्वमद्य भविष्यति १२
सर्वमान्यो व्यास नामा सर्वपावनपावनः ।
अपरोक्षज्ञानवांश्च भविष्यसि गुरोर्गुरुः १३
नारायणपरः ख्यात्या गुणैः कीर्त्या श्रियापि च ।
अष्टादशपुराणानां कर्ता त्वं हि भविष्यसि १४
तथैवोपपुराणानां तावतां च मुनीश्वर ।
त्वया पूर्वं दम्भवशान्न कृतं मम पूजनम् १५
स्मरणं वा ततः स्तम्भो जातो वाण्या महाद्भुतः ।
धातुर्मुखाच्छ्रुतो यस्मान्महिमा तेन मेऽनघ १६
विलीनं सर्वमधुना प्रविशामि तवोदरम् ।
भृगुरुवाच ।
एवमुक्त्वा प्राविशत्स तन्मुनेरुदरं विभुः १७
प्रकाशमतुलं लेभे सूर्यकोटिसमं मुनिः ।
दीपयामास ककुभस्ततो मूर्तिं विधाय सः१८
गजाननस्य महतीं प्रासादेऽस्थापयच्च सः ।
पूजयामास विविधैरुपचारैः पृथक्पृथक् १९
सिद्धिक्षेत्रमिदं सर्वलोकानां पावनं दृशोः।
अनुष्ठानवतां मन्त्रनानासिद्धिप्रदं शुभम् २.१५०.२०
एवमुक्त्वाप्यनुज्ञाप्य व्यासो नारायणस्तदा ।
पुराणं तद्गणेशस्य यच्छ्रुतं ब्रह्मणोमुखात् २१
प्राह वैशम्पायनाय ततस्तद्भुवि पप्रथे ।
तदेतदखिलं तेऽद्य मयापि कथितं नृप २२
नानेन सदृशं किंचित्पावनं त्रिषु विद्यते ।
लोकेषु परमानन्ददायकं नृपसत्तम २३
सोमकान्त न चाख्येममिदं दुष्टजने त्वया।
विनीतेषु च भक्तेषु त्वयाख्येयं प्रयत्नतः २४
मया निरन्तरमिदं जप्यते स्मर्यतेऽपि च ।
तवापि करुणायोगात्कथितं राजसत्तम २५
गजाननध्यानपरो नित्यं जपपरोभव २६ (६७६८)
इति श्रीगणेशपुराणे क्रीडाखण्डे व्यासानुग्रहसिद्धिक्षेत्रवर्णनं नाम पंचाशदुत्तरशततमोऽध्यायः॥१५०॥