गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०९६-१००

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः ९१-९५ गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः ९६--१००
[[लेखकः :|]]
अध्यायाः १०१-१०५ →

अध्याय ९६ प्रारंभ :-
क उवाच ।
ततः कदाचिद्गिरिजा प्रसन्नं प्राह शंकरम् ।
शिवोवाच ।
देवेश सप्तमं वर्षं प्रवृत्तं सांप्रतं शिशोः १
क्रियतां व्रतबन्धोऽस्य सुमुहूर्ते महोत्सवात् ।
शिव उवाच ।
सम्यगुक्तं त्वया भद्रे ज्ञात्वा चेतोगतं मम २
संपादयिष्ये साध्वस्य व्रतबन्धं यथाविधि ।
क उवाच ।
इत्युक्त्वा गिरिजां देवः समाकार्य च गौतमम् ३
विचार्य सुदिने लग्नं सामग्रीः समपादयत् ।
मण्डपं च सुविस्तीर्णं सर्वानृषिगणान्मुनीन् ४
आकार्य परिपूज्यैतांस्तदाज्ञावशगो हरः ।
यथाविधि चकारास्य व्रतबन्धं मुदा तदा ५
उपायनानि सर्वे ते शिवयोर्बालकस्य च ।
अष्टाशीतिसहस्रेभ्यो नमस्कृत्य हरोऽपि च ६
संपूज्य विधिवत्प्रादान्नानोपायनसंचयान् ।
त्रिंशत्त्रिकोटिदेवेभ्यो यक्षेभ्योऽपि तथैव च ।
किन्नरेभ्यश्चारणेभ्यो वाद्यघोषे नदत्यपि ७
गायत्सु किन्नरेष्वाशु नर्तकीनां गणेषु च ।
नृत्यत्सु सर्वलोकेषु पश्यत्सु सुमहोत्सवम् ८
उपायनानि दानानि ददौ हर्षात्सदाशिवः ।
देवतास्थापनं कृत्वा भोजयामास चाखिलान् ९
प्रातःकाले बटुं स्नाप्य चौलकर्म समाप्य च ।
चतुर्भिर्ब्राह्मणैः सार्धं तं भोज्य संस्नाप्य वै पुनः २.९६.१०
वेदिकायामन्तरा दु धृत्वा पटमनुत्तमम् ।
मुहूर्तं साधयामास मुनिभिर्मन्त्रवादिभिः ११
एतस्मिन्नन्तरे दैत्यौ कृतान्तकालसंज्ञकौ।
गजरूपधरौ मत्तौ मदोदस्राविणौ दृढौ १२
तीक्ष्णदन्तौ दीर्घशुण्डौ गगनस्पर्धिपुष्करौ ।
चीत्कारभीषितजनौ सिन्दूरारुणमस्तकौ १३
कम्पते पादघातेन ययोराशु वसुन्धरा ।
दन्ताघातेन युध्यन्तौ रजसाच्छाद्य रोदसी १४
सभाद्वारगतं शक्रकारिणं समुपागतौ ।
दन्तप्रहारैस्तद्गण्डं भिन्दन्तौ बलवत्तरम् १५
स्रवद्रक्तः पपातोर्व्यां मूर्छितो गजराट् क्षणात् ।
ऐरावतः पपालाशु मुहूर्तात्प्राप्य चेतनाम् १६
करिणौ पृष्ठलग्नौ तौ दन्ताघातैर्निजघ्नतुः ।
ततस्तौ मत्तमातंगौ सभामध्यं समीयतुः १७
शुण्डाभ्यां मण्डपं तौ तु ताडयामासतुस्तदा ।
उत्तस्थुः सर्वलोकास्ते श्रुत्वा कोलाहलं तयोः १८
यतो यतो गच्छतः स्म ततो देवाः पलायिताः ।
मुनयश्च तयोर्भीत्या दशदिक्षु पलायिताः १९
शिवं तत्र समाचख्युर्विघ्नमेतदुपस्थितम् ।
गणा ऊचुः ।
सेन्द्रा सभा मुनियुता विध्वस्ता गजभीतितः २.९६.२०
ततः पलायिता गौरी सखीभिर्गृहमागता ।
बालस्ततो निरीक्ष्यैतौ दन्तिनौ बलवत्तरौ २१
जगर्ज घनवच्छीघ्रं तयोः शुण्डे दधार ह ।
उभाभ्यामपि हस्ताभ्यां चीत्कारं तौ प्रचक्रतुः २२
भ्रामयित्वास्फालयत्स एकस्मिन्नपरं गजम् ।
उभौ तौ शतधा जातौ पतितौ धरणीतले २३
धरा चकम्पे वृक्षाश्च निपेतुश्चूर्णिता भुवि ।
ततः खण्डानि तान्याशू दूरतश्चिक्षिपुर्गणाः २४
बटुं जग्राह जननी शीघ्रमागत्य स्वे कटौ ।
सर्वे पलायिता देवा मुनयोऽनेन दानवौ २५
बालेन निहतौ शीघ्रमित्युवाच शिवां सखी ।
ततस्ते मीलिता देवा इन्द्राद्या मुनयोऽपि च २६
ऊचुर्गुणेशं ते सर्वे स्वामिन्सर्वंगुणाकर ।
सर्वप्राणहरौ दैत्यौ कापट्याद्गजरूपिणौ २७
निहतौ लीलया देवमायिनौ बलवत्तरौ ।
इत्युक्त्वा शक्रमुनयो देवाश्च विविशु सभाम् २८
उपविष्टेषु सर्वेषु ननृतुश्चाप्सरोगणाः ।
ततो वाद्यान्यवाद्यन्त ब्रह्मा रुद्रसमीपगः २९
दत्त्वा परस्परं प्रैषं बबन्ध मेखलां शिशोः ।
यज्ञोपवीतमजिनं होमं च समिधामपि २.९६.३०
कारयामास विधिवत्सावित्रीवाचनं ततः ।
ततो माता ददौ भिक्षामंशुके भूषणानि च ३१
उत्तरीयं च रत्नानि मुक्ताफलयुतानि च ।
लड्डूकान्भक्ष्यखाद्यानि त्रिशूलं शशिनं शिवः ३२
ददौ नाम चकारास्य भालचन्द्र इति स्फुटम् ।
शूलपाणिरिति परं ततश्चक्रं हरिर्ददौ ३३
शोचिष्केशेति नामास्य चक्रे सम्यङ्महात्मनः ।
ततः पुरन्दरः पूज्य कण्ठे चिन्तामणिं ददौ ३४
नाम चिन्तामणिरिति चक्रे सर्वार्थदं शुभम् ।
ददौ तदैव कमलमभ्यर्च्य कमलासनः ३५
विधातेति च नामास्य स्थापयामास संसदि ।
ततः सर्वे सुरगणाः समभ्यर्च्य गुणेश्वरम् ३६
नानाविधानि नामानि चक्रुः स्वस्वेच्छया सुराः ।
अदितिः कश्यपश्चाथ तं पुपूजतुरादरात् ३७
दर्शयामास देवोऽपि पूर्वरूपं तयोश्शुभम् ।
भालचन्द्रं दशभुजं मुकुटेन विराजितम् ३८
दिव्याम्बरं दिव्यगन्धं दिव्याभरणभूषितम् ।
सिंहारूढं विराजन्तमुरगोदरबन्धनम् ३९
दृष्ट्वेत्थमदितिर्ह्रष्टा लिलिगं स्नेहनिर्भरा ।
रोमांचितशरीरा सा प्रेमगद्गदनिःस्वना २.९६.४०
विस्मयं परमं प्राप्ता स्रवदश्रुजलाविला।
परमानन्दमग्नाऽभूत्स्नेहस्तुतपयोधरा ४१
तथैव कश्यपो देहभावं तत्याज तत्क्षणात् ।
ऊचतुस्तौ सुतस्नेहाद्वत्सावां ते वियोगतः ४२
कृशतां गमितौ तेऽद्य दर्शनात्पुष्टतां गतौ ।
नावां त्यज सुतेदानीं जनौ त्वच्चरणे रतौ ४३
गजानन उवाच ।
प्रतिश्रुतं मया मातर्दास्ये दर्शनमेकदा ।
तदिदानीं मया दत्तं न शोकं कर्तुमर्हसि ४४
सर्वान्तर्यामिणो मे वै वियोगो न कदाचन ।
क उवाच ।
एवं तु वदतोरेवं पार्वती समुपागता ४५
उवाच परमप्रीता दृष्ट्वा स्नेहं तयोः शिशौ ।
अदिते देहि मे पुत्रं गृहीतं चिरकालतः ४६
नायं तव सुतः सुभ्रु सम्यक्पश्य शुचिस्मिते ।
साऽपश्यत्पुनरेवैनं स्वस्यैव तनयं विभुम् ४७
अदितिरुवाच ।
त्वमेव गौरि पश्याशु तनयं मे पुरः स्थितम् ।
साऽपश्यत्पुनरेवैनं गुणेशं तनयं स्वकम् ४८
अदितिस्तां ममेत्याह पार्वती तां ममेति च ।
एवं विवदमाने तु प्राहुर्देवाः सुविस्मिताः ४९
अनादिनिधनो देवः सृष्टिस्थित्यन्तुकारकः ।
अनन्तरूपोऽनन्तश्रीरनेकशक्तिसंयुतः २.९६.५०
कस्या अयं भवेत्पुत्र उभे भ्रान्तेऽस्य मायया ।
ते ऊचतुः ।
यस्या अयं भवेत्पुत्रस्तस्या हस्ते प्रदीयताम् ५१
क उवाच।
ततो देवा निरीक्ष्यैनं नानारूपिणमीश्वरम् ।
कश्चिदाह विधाताऽयं कश्चिद्विष्णुं चतुर्भुजम् ५२
कश्चित्त्रिलोचनं प्राह वरुणं विस्मिताः सुराः।
ऊचुस्ते निश्चयोऽस्माभिर्विधातुं नैव शक्यते ५३
भवतीभ्यां विवेकेन ग्राहयोऽयं परमः पुमान् ।
ततो गौरी गृहाणाशु तं विभुं तनयं स्वकम् ५४
स्तनपानं ददौ स्नेहाददितिर्नीरसाऽभवत् ।
ममचेद्बालकोऽयं स्यात्कथं यायात्परं प्रति ५५
अहं भ्रान्त्याऽभवं सक्ता परस्य तनये वृथा।
मुनयः कश्यपश्चैनं पुपूजुस्ते गुणेश्वरम् ५६
नमस्कृत्याभ्यनुज्ञाप्य ययुः स्वं स्वं निवेशनम् ।
भवानी च गृहं याता पुत्रमादाय हर्षिता ५७
ततः समागताः सर्वे प्रागमन्निलयान्स्वकान् ५८ (४३४६)
इति श्रीगणेशपुराणे क्रीडाखण्डे गौर्यादितिविवादो नाम षण्णवतितमोऽध्यायः ॥९६॥

अध्याय ९७ प्रारंभ :-
मुनिरुवाच ।
त्वया विनायको देवो मयूरेश्वरसंजितः ।
ततो गुणेशनाम्ना मे महिमाऽयं निरुपितः १
स कथं प्राप तन्नाम किं च तेन कृतं महत् ।
कर्म तन्मे समाचक्ष्व साम्प्रतं विश्वसृग्विभो २
क उवाच ।
यथा तेन कृतं कर्म मयूरेश्वरनाम च ।
प्रापद्विनायको देवो निरूपिष्येऽखिलं तव ३
पातालभवने शेषः सभामध्यगतोऽभवत् ।
वासुकिप्रमुखै सर्वैः समन्तात्परिवारितः ४
ततः कद्रूः समायाता तेजोरूपा सुरूपिणी ।
मुक्तामणियुतं चारु बिभ्रती कंचुकं शुभम् ५
बिम्बोष्ठी चन्द्रवदना दिव्यभूषाम्बरावृता ।
तां दृष्ट्वा जननीं शेषो वासुकिप्रमुखाश्च ये ६
नेमुर्मातर्बहुदिनैरभवद्दर्शनं तव ।
कांक्षन्ते दर्शनं सर्वे त्वं तु निष्ठुरतां गता ७
इत्यूचुस्तां करे धृत्वाऽस्थापयन्पैत्र्य आसने ।
पुपूजुः परया भक्त्या ततः शेषोऽब्रवीत्तु ताम् ८
शेष उवाच ।
त्वं मातः कश्यपस्यापि पत्नी चारुतरा सती।
सर्वविद्यानिधानस्य सष्टिस्थित्यन्तकारिणः ९
ब्रह्मादयो देवगणास्तत्त्वं यस्य न वै विदुः ।
त्वं चापि सहसा शापानुग्रहे च क्षमा ह्यसि २.९७.१०
तव पुत्रा वयं मातस्त्रैलोक्यग्राससाहसाः ।
सा कथं त्वमिहायाता किमुद्दिश्य प्रयोजनम् ११
कद्रूरुवाच ।
विना प्रयोजनं पुत्र कोपि नायाति किंचन ।
तच्च ते कथयिष्येऽहं शृणु सादरमात्मज १२
विनता मे सपत्नी या जननी पुत्र पक्षिणाम् ।
तस्या दर्शनकांक्षा मे कदाचित्संबभूव ह १३
अनादृता तयाऽहं तु तद्गृहं सहसा गता।
नासनं न च सत्कारं स्वागतं न च साऽकरोत् १४
पूर्ववैरं स्मरन्ती सा जटायुं पुत्रमादिशत् ।
तेन चाकर्षिता वेणी विवस्त्राऽहं कृता क्षणात् ।
मामुवाच महादुष्टे नावलोक्यं मुखं तव १५
मम मातुस्तु दासीत्वं पूर्वमासीः कृतं त्वया ।
तदा न करुणालेशो धूतो मनसि कर्हिचित् १६
इतो गच्छ न चेत्प्राणान्गृहीष्यामि महाखले ।
श्रुत्वा तदीयवाक्यानि दुःखिताऽहं फणीश्वर १७
आक्रन्दं परमं प्राप्ता प्रणत्यागे तु निश्चिता।
आगताऽहं ततो युष्मद्दर्शनार्थं सुदुःखिताः १८
यदि वो मयि भक्तिः स्यात्साहाय्यं क्रियतां मम ।
सत्पुत्रा यदि मान्याऽहं तदा तस्या विनाशनम १९
कर्तव्यं च सपत्न्या मे ततो हृदि सुखं भवेत् ।
क उवाच ।
एवमाकर्ण्य तद्वाक्यं शेषो रोषसमन्विताः २.९७.२०
जज्वाल सहसा वह्निर्घृतेनेव प्रदीपितः ।
मम मातुः कृता पीडा विनतातनयैर्यदि २१
तदाऽहं तत्प्रतीकारं करिष्यामि न संशयः ।
एवमुक्त्वा स शेषोऽथ वासुकिप्रमुखैर्युतः २२
तत्र गन्तुं मनश्चक्रे यत्र सा विनताऽभवत् ।
वासुकिरुवाच ।
अहमेव गमिष्यामि कोटिनागैर्युतोऽनघ । २३
विनतामानयिष्यामि तिष्ठ त्वं भुजगाधिप ।
क उवाच ।
एवमुक्त्वा ययौ शीघ्रं वासुकिर्विनताश्रमम् । २४
असंख्यानुरगान्दृष्ट्वा बिभाय विनता तदा ।
तदैव वेष्टिता सर्पैः क्रूरैर्दुष्टस्वभावकैः २५
निन्युस्ते शेष निकटं सा च तानब्रवीत्तदा ।
विनतोवाच ।
किमर्थं बन्धनं कृत्वा मम नेतुं समुद्यताः २६
अपराधविहीनायाः पापिष्ठा गदताशु मे।
मम पुत्रस्यानुभवो ज्ञातोऽस्ति सर्वपन्नगैः २७
अतो मुंचन्तु मां नो चेत्स संहारं करिष्यति ।
क उवाच ।
धार्यंट्ां तेषां समीक्ष्यैव सस्मार गरुडं तु सा २८
सोऽपि ज्ञात्वा स्मृतिं तस्या आगतः पक्षिभिः सह ।
श्येनः सम्पातिरथ च जटायुः पक्षिपुंगवः २९
येषां पक्षसमीरेण चकम्पे भुवनत्रयम् ।
भुजगास्ते तु सर्वेऽपि वमद्विषकणाभवन् २.९७.३०
युद्धमासीन्महाघोरं भुजगेन्द्रपतत्त्रिणाम् ।
ततो जटायुं सम्पातिं श्येनं बद्ध्वानयंस्तु ते ३१
मातुः स्मृते तु संप्राप्तो गरुडः पक्षवातताः ।
कम्पयंजगतीं सर्वां पातयन्द्रुमपर्वतान् । ३२
तद्गन्धं भुजगा घ्रात्वा पलायनपरा ययुः ।
पक्षवातेन गगने बभ्रमुर्भुजगाः परे ३३
मुक्ता तु विनता बन्धात्स्वस्थानं गन्तुमुद्यता ।
तां दृष्ट्वा वासुकिः क्रुद्धो दहन्व्योम वमन्विषम् ३४
पक्षाघातेन गरुडोऽपातयद्भूतले च तम् ।
विनता तु गता वेगात्स्वस्था स्वस्थानमुत्तमम् । ३५
प्रतापं वासुकेर्दृष्ट्वा गरुडः सूक्ष्मरूपधृक् ।
विनतां रक्षितुं यातो याते तस्मिंश्चुकोप ह ३६
वासुकिर्विषमत्यन्तमसृजज्जगतीं दहन् ।
नागलोकं निनायाशु बद्ध्वा तान्विवरेऽक्षिपत् ३७
पिधाय द्वारं शिलया ततो मातरमभ्यगात्।
उदन्तं सर्वमाचख्यौ मात्रे शेषाय चारुधिः ३८
शुशोच विनता श्रुत्वा बद्ध्वा नीतान्सुतांस्तु तान् ।
प्रययौ कश्यपं शीघ्रं नमस्कृत्याब्रवीदिदम् ३९
विपरीतमिदं जातं प्रत्यक् सूर्योदयो यथा।
गृहे स्थितां मामनयत्सहसा वासुकी रिपुः २.९७.४०
पृष्ठतोऽनुययौ श्येनो जटायुर्मोचितुं च माम् ।
सम्पातिः सर्पसङ्घांस्ते मारयामासुरोजसा ४१
पराजितेषु तेष्वाशु भुजगैर्बहुभिर्मुने ।
गरुडं चास्मरं तेन जित्वा सर्पगणांस्तु तान् ४२
मोचिता चाणुरूपेण तेनाप्यागमनं कृतम ।
जटायुस्तेन सम्पातिः श्येनो वासुकिना बलात् ४३
नीताः पातालविवरे पिधाय स्थापिता दृढम् ।
गमिष्यन्ति मम प्राणांस्तान्विना निश्चितं मुने ४४
एतावद्दुःखचाप्ताऽहं त्वयि नाथे सति प्रभो ।
क उवाच ।
इति श्रुत्वा प्रिया वाक्यं प्राह तां कश्यपो मुनिः ४५
मुनिरुवाच ।
मा चिन्तां कुरु भद्रे त्वं व्येतु ते मानसो ज्वरः ।
ऋतुं तेऽहं प्रदास्यामि पुत्रस्तेऽन्यो भविष्यति ४६
अभेद्यमण्डं वज्रेण पार्वत्या यदि बालकः ।
क्रीडन्भेत्स्यति पादाभ्यां ततः पुत्रो भवेत्तव ४७
स नीलकण्ठो बलवान्नीलकण्ठ इवापरः ।
श्रवणात्तस्य शब्दस्य भुजगास्ते पराभवम् । ४८
यास्यन्ति च गुणेशोऽपि तमारुह्य भुवो भरम् ।
हरिष्यति तदा पुत्रा मोक्ष्यन्ते नागबन्धनात ४९
एवमुक्त्वा मुनिस्तस्यै रहो नीत्वा ऋतुं ददौ ।
विनताथ ययौ हर्षात्काननं जन्तुवर्जितम् २.९७.५०
कालेन सुषुवे चाण्डमभेद्यं वज्रपर्वतैः।
मृद्भाण्डे वल्कलैर्वेष्ट्य निक्षिप्याण्डं स्थिराऽभवत ५१
यथा भूमिगतं द्रव्यं भुजगो बलवत्तरः ५२(४३९८)
इति श्रीगणेशपुराणे क्रीडाखण्डे सप्तनवतितमोऽध्यायः ॥९७॥

अध्याय ९८ प्रारंभ:-
क उवाच।
एवं गतं सप्तमेऽद्वे त्वष्टमे स गुणेश्वरः ।
उषः स्नात्वा स्थितो ब्रह्म जपन्वेदचतुष्टयम् १
कस्तूरीतिलको नानाभूषणः सुविराजितः ।
दिव्याम्बरधरो दिव्यगन्धमालाविभूषितः २
ततस्ते तापससुता आगतास्तं गुणेश्वरम् ।
तद्दीप्त्या भासिताः सर्वेऽरुणदीप्त्या यथा घनाः ३
तान्दृष्ट्वाऽध्ययने बुद्धिर्जाता तस्यार्भकैः सह ।
सर्वेषां मस्तके हस्तं न्यधात्तत्समये विभुः ४
त्रिचतुः पंचवर्षांणां वेदस्फूर्तिस्ततोऽभवन् ।
विना तु चेतनां शब्दो नभोवाण्या हि श्रूयते ५
चतुर्णामपि वेदानां सर्वे पारायणं व्यधुः ।
नाभक्षयन्पशुगणा ग्रासं मुखगतं तदा ६
श्रवणे तत्परा जाताः शब्दानां वेदचारिणाम् ।
समाप्ते वेदद्वितये सामगानमथारभन् ७
हरिणाः सिंहशार्दूला भुजगाः पक्षिजातयः ।
गानस्य श्रवणे सक्ता अश्रुपातान्प्रसुस्रुवः ८
अष्टाशीतिसहस्राणि मुनयः श्रवणे रताः ।
आनन्दह्रदसंमग्नाः शेरते स्म यथा निशि ९
प्रमथाद्या गणाः सर्वे शिवाया हर्षनिर्भराः ।
अस्रवच्चामृतं चन्द्र शिवभालस्थितस्तदा २.९८.१०
तत्संसर्गाद्रुण्डमालारुण्डानि पुरूषा बभुः ।
लज्जिताः किन्नराः सर्वे गन्धर्वाश्चास्य गानतः ११
स्मरतप्ताः स्त्रियः शान्ता आरार्तिक्यं व्यधुस्तदा ।
तत्राजगाम सहसा दैत्यश्चाभिनवाकृतिः १२
यस्य शब्देन दीर्णास्ता मन्दराद्रिगुहास्तदा।
हलदन्तो वापिनासस्तडागनयनोऽरिहा १३
स तु श्वापदरूपेण बभ्राम तत्र तत्र ह ।
पंचनेत्रश्चतुःशृंगो वसुपादश्चतुःश्रुतिः १४
त्रिमुखश्च द्विपुच्छोऽसौ जहासोच्चैर्निरीक्ष्य तम् ।
पश्यन्तु कौतुकं बालाः प्रोवाचेति शिशून्विभुः १५
अत्यद्भुतं दृष्टमिदमित्यूचुस्ते गुणेश्वरम् ।
ततो दैत्यो ननर्तोच्चैरुड्डीय न्यपतद्भुवि १६
क्षणं लीनः क्षणं तिष्ठन्दृश्यादृश्यस्वरूपधृक् ।
ध्रियतां ध्रियतामेष इत्युवाच शिशून्विभुः १७
इत्युक्त्वा दैत्यमगमद्वेगेन च गुणेश्वरः ।
पलायति महादैत्यो याति पृष्ठे स बालकैः १८
महारण्यं गताः सर्वे यत्र वायुर्न सर्पति ।
गर्जन्ति सिंहशार्दूला गजसूकरवानराः १९
तं धर्तुं तत्र यातोऽसावुड्डीय दैत्यपुंगवः ।
क्वापि यातो दूरदेशं ततः खिन्नो गजाननः २.९८.२०
क्रोधसंरक्तनयनो मुमोच पाशमुल्बणम् ।
चकम्पे धरणी व्योम भ्रमन्मेघमभूत्तदा २१
न्यपतन्भानि खात्पृथ्वीं ककुभो व्यनदन्स्वनात् ।
स पाशो दैत्यमाक्रम्य क्षणेनायाद्गुणेश्वरम् २२
श्वासरोधात्पपातोर्व्याँ लुण्ठन्पादौ भुजौ मुखम् ।
नेत्रद्वारा गताः प्राणाः पश्यत्सु बालकेष्वपि २३
पतितो रूपमास्थाय चतुर्विंशतियोजनम् ।
सपाशकण्ठं तं केचिद्विचकर्षुरितस्ततः २४
गुदे काष्ठं मुखे धूलिं प्राक्षिपन्नपरेऽर्भकाः ।
केचिन्मूत्रं पुरीषं च चक्रुस्तन्मस्तकेऽर्भकाः २५
गुणेशनिकटे याताः सर्वे बालाः क्षुधातुराः ।
रसालानि बभक्षुस्ते केचित्तन्मस्तके गताः २६
आजघ्नुः फलघातेन भूमिस्था उपरिस्थितान् ।
पतितान्यपरे खादन्ददृशुर्विनतां ततः २७
अण्डमाच्छाद्य तिष्ठन्ती साऽधावद्बालकान्प्रति ।
पलायमानांस्तान्दृष्ट्वा विनता पृष्ठतो ययौ २८
निघ्नती पक्षवातेन श्वापदानि द्रुमानपि ।
गुणेशस्तत्समालोक्य लीनो वृक्षस्य कोटरे २९
ददर्शाण्डं श्वेततरं मण्डलं शशिनो यथा ।
दधार हस्ते सहसा गुणेशो बलवत्तरम् २.९८.३०
अस्फुटत्तत्र ददृशे पतत्त्री नीलकण्ठवान्।
दीर्घपक्षो विशालाक्षो वमञ्ज्वालाकणान्मुखात् ३१
व्याधूनयदुभौ पक्षौ कम्पयंजगतीतलम् ।
चेलुवेलामतिक्रम्य समुद्रास्तस्य शब्दतः ३२
चचाल मण्डलं भानोरर्भकास्ते पलायिताः ।
पृष्ठतोऽनुययौ सोऽथ पक्षघातेन ताडयन् ३३
तदृष्ट्वा कदनं तेषां योद्धुकामो गुणेश्वरः ।
जग्राह पक्षे तं क्रूरं ततो युद्धमवर्तत ३४
पक्षघातैश्चञ्चुपुटैर्जघान पक्षिपुंगवः ।
आरक्तनयनः सोऽपि तं जघ्ने मुष्टिघाततः ३५
अतिदार्यंऽप तस्य दृष्टवा चतुर्भिरप्यथायुधैः ।
गुणेशस्तं जघानाशु तानि पेतुर्धरातले ३६
उड्डीय स पपालाशु बालानादाय सत्वरः ।
गुणेशस्तान्समुन्मुच्य समारूढोऽण्डजे ततः ३७
वशे तमण्डजं कृत्वा चारुरोह गुणेश्वरः ।
ततस्तमाययुर्बाला विनतापि समाययौ ३८
तुष्टाव परमात्मानं गुणेशं तं धिया स्वया ।
त्वं सृष्टिकर्ता रजसा ब्रह्मा सत्त्वेन पालकः ३९
विष्णुस्त्वमसि तमसा संहरञ्शंकरोऽपि च ।
न देवा नर्षयस्तत्त्वं विदुस्ते सगुणस्य ह २.९८.४०
निर्गुणस्य तु को वेद चराचरगुरोरपि ।
एवं स्तुत्वाऽवदीत्सा तं प्रणता भक्तितत्परा ४१
कश्यपस्य मुनेर्भार्या विनतां विद्धि मामिह ।
तस्य पुत्रः शिखण्डी च सेवकस्ते भविष्यति ४२
मुनिना पूर्वमुक्तं मे योऽण्डमेतद्भिनत्ति च ।
सोऽस्य स्वामी न संदेहो मोचयिष्याति ते सुतान् ४३
प्रतीक्षन्त्या मया दृष्टं पादपद्मं चिरं तव ।
जटायुः श्येनसंपाती नीता कद्रूसुतैस्त्रयः ४४
तान्मोचय जगन्नाथ शीघ्रं दर्शय मे सुतान् ।
गणेश उवाच ।
मा चिन्तां कुरु मातस्त्वं दर्शयिष्ये सुतांस्तव ४५
क उवाच ।
एवमुक्त्वा तु विनतां बहुहर्षसमन्वितः ।
शिखिनं च ततः प्राह वरं मत्तो वृणीष्व ह।।४६ .
मयूर उवाच ।
यदि मे त्वं प्रसन्नोऽसि यदि देयो वरो मम ।
तदा मन्नामपूर्वं ते नामाख्यातं भवेद्भुवि ४७
एतन्मे देहि सर्वेश तव भक्ति दृढां तथा ।
देव उवाच ।
साधु साधु त्वया प्रोक्तं निर्लोभेनान्तरात्मना ४८
त्वन्नामपूर्व मन्नाम मयूरेश्वर इत्यथ ।
विख्यातं त्रिषु लोकेषु भक्तिर्मयि दृढा भवेत् ४९
क उवाच ।
एवमाकर्ण्य सा सर्वं विनता स्वाश्रमं ययौ ।
शिखण्डिनं समारूढो मयूरेशो निजं गृहम् २.९८.५०
मयूरेश मयूरेश मयूरेशेति चासकृत् ।
गृणद्भिर्मुनिबालैस्तैरन्वितः शोभयन्दिशः ५१
मातरं प्रणिपत्याह वृत्तान्तं सर्वमंजसा ।
वर्णयन्तो मयूरेशं मुनिपुत्रा गृहान्ययुः ५२
इत्थं मयूरेशनाम प्राप चासौ गुणेश्वरः ५३ (४४५१)
इति श्रीगणेशपुराणे क्रीडाखण्डे शिखण्डिवरप्रदानं नामाष्टनवतितमोऽध्यायः ॥९८॥

अध्याय ९९ प्रारंभ :-
क उवाच ।
अद्भुतं कृतवान्वर्षे नवमेऽसौ गुणेश्वरः ।
शिखण्डिनं समारुह्य चतुरायुधभूषितः १
नानालंकारसंयुक्तो नृगनाभिजशोभितः ।
दिव्याम्बरधरो बालः क्रीडितुं समुपाययौ २
पूर्णचन्द्रनिभः श्रीमांजयशब्दैरभिष्टुतः ।
केचिन्नमन्ति तं बालाः केचिच्छत्रं ध्वजं परे ३
दध्रुः केचिद्वीजयन्तस्तद्दर्शनमहोत्सवाः ।
क्रीडन्तः सरसीं याताः पंचयोजनविस्तृताम् ४
अगाधोदां नक्रझषकूर्ममण्डूकसंयुताम् ।
लतातरुपरीवारां नानापक्षिगणैर्युताम् ५
उड्डीय पतिताः केचित्तस्यां केचिच्छनैर्ययुः ।
चूतं तत्तीरगं दृष्ट्वा विशालं फलसंयुतम् ६
आरुरोह मयूरेशो बालाः फलजिघत्सया।
रसालैस्ते निजघ्नुस्तानभिन्नांगांन्पलायिताः ७
बालाः स्कन्धान्दारयन्तो निपेतुः केऽपि तज्जले ।
एवं क्रीडत्सु बालेषु दैत्योऽगादश्वरूपवान् ८
यस्य पादप्रहारेण चूर्णतां यान्ति पर्वताः ।
यस्य ह्रेषितशब्देन कम्पते भुवनत्रयम् ९
पुच्छचांचल्यतो जीवान्हन्ति स्कन्धं जघर्ष ह ।
यस्मिंश्चूतेऽस्य शब्देन कम्पिते पतितेऽर्भके २.९९.१०
केचित्पलायिता बालाः केचिद्भग्नाश्च मस्तके ।
केचिन्निपतिताश्चाशु गुणेशो पतितो जले ११
निमग्ने द्विमुहूर्तेस्मिन्प्रारुदन्मुनिबालकाः ।
किं वक्तव्यमुमायै च दर्शनीयं मुखं कथम् १२
शंकरोऽपि रुषाविष्टो भस्मसान्न: करिष्यति ।
अगाधेस्मिंज्जले मग्नं प्रवेष्टुं च न शक्नुमः १३
माता पिता पालयिता भ्राता त्राता सखा च नः ।
क उवाच ।
एवं शोचत्सु बालेषु मयूरेशो दधार तम् १४
कर्णयोर्जलमध्ये तु चकर्ष बलवान्विभुः ।
आरुरोह बलाद्दैत्यं भारेणामज्जयन्मुहुः १५
स दैत्यो निर्वमन्नेत्रान्मुखाद्बहु जलं मुहुः ।
जलपूर्णश्रुतिश्वासोऽत्यजन्प्राणान्महारवः १६
एकहस्तेन धृत्वा तं दोलयित्वा जलाद्बहिः ।
मयूरेशस्ततो बाला जहृषुर्ननृतुर्भृशम् १७
भुवि ते शतधा जातं ददृशुर्दैत्यपुंगवम् ।
प्रशशंसुर्मयूरेशं महाबलपराक्रमम् १८
त ऊचुस्तं तदा देवं मृतं मत्वा रुदामहे ।
तावदेव हि दृष्टोऽसि हतदैत्यो बहिर्गतः १९
पुनस्ते जलमाविश्य प्रासिंचन्नंजलीन्मिथः ।
एकमत्या च सर्वे ते प्रासिंचन्गणनायकम् २.९९.२०
वर्षाकाले यथा मेघा धरणीं पर्वतानपि ।
षड्भुजैः परिषिंचन्सन्नपर्याप्तोऽभवद्यदा २१
तदासंख्यभुजैर्वारी चिक्षेप बालकेषु सः ।
तदाश्चर्यं तु ते दृष्ट्वा परस्परमथाब्रुवन् २२
षड्भुजोऽयं कथमभूदनन्तभुजमण्डितः ।
मन्दीभूता मुनिसुताः क्व द्विहस्ता वयं विभो २३
असंख्यभुजवीर्योजाः क्व च त्वं भुवनेश्वर ।
पुनः सर्वे सिषिचुस्ते मयूरेशं रुषान्विताः २४
सोऽनन्तरूपस्तान्सर्वान्सिषेचे गणनायकः ।
एकैकस्याग्रतो भूत्वा षड्भुजो निजतेजसा २५
तावच्छिखण्डिनिष्ठोऽसौ चतुरायुधभूषितः ।
प्रणेमुस्तेऽञ्जलिपुटं बद्ध्वा देवम् गुणेश्वरम् २६
पश्यन्तस्तन्मुखे विश्वं सर्वस्वर्गान्वितं तु ते ।
गन्धर्वयक्षरक्षांसि सरिदब्धिद्रुमानपि २७
सर्वं चराचरं विश्वं सदेवासुरमानुषम्।
प्रार्थयामासुरथ ते दृष्ट्वेत्थं ते भयातुराः २८
बाला ऊचुः ।
न विदामः स्वमात्मानं परं वा नापि किंचन ।
एकरूपो भव विभो कृपां कृत्वाऽखिलेश्वर २९
क उवाच ।
इति तत्प्रार्थनां श्रुत्वा जातोऽसौ पूर्ववद्विभुः ।
एतस्मिन्नन्तरे तत्र चिक्रीडुर्नागकन्यकाः २.९९.३०
या निरीक्ष्याभवच्चाष्टनायिकानां त्रपा भृशम् ।
नेत्रे निरीक्ष्य ह्रीमन्त्यः प्रापलन्हरिणस्त्रियः ३१
अतिसुन्दरगात्रास्ताः सर्वालंकारभूषिताः ।
ता निरीक्ष्य मयूरेशं विह्वला मदनाग्निना ३२
ता ऊचुश्च मिथः सर्वा अयं भर्ता भवेद्यति ।
सफलं नस्तदा जन्म जीवितं च वयोऽपि च ३३
धैर्यात्तमूचुस्ताः सर्वाः कुत आगमनं तव ।
दृष्ट्वा ते वदनं चेतो विह्वलं नोऽभिजायते ३४
विश्रान्तं कुरु चेतो नः स्वांगसंगान्नृषूत्तम ।
देव उवाच ।
अहं शिवसुतो नाम्ना मयूरेश इति स्फुटम् ३५
विख्यातो मुनिपुत्रैस्तु मज्जिता बलवत्तरैः ।
दृष्टवान्पादकमलं भवतीनां प्रसंगतः ३६
ता ऊचुः ।
अस्मद्गृहे क्षणं स्थित्वा विश्रामं कर्तुमर्हसि ।
देव उवाच ।
पार्वती मद्वियोगेन परितप्येद्भृशं यतः ३७
अतो नायामि वः स्थानं गच्छन्तु नागकन्यकाः ।
क उवाच ।
एवं वदति तस्मिंस्तु धृत्वा निन्युर्गृहं तु ताः ३८
तमदृष्ट्वा पुनः शोकं व्यधुर्मुनिसुतास्तदा ।
बाला ऊचुः ।
कथं कठिनतां यातो दयालुः स गुणेश्वरः ३९
अमृतस्राविकिरणो न चन्द्र उष्णतां व्रजेत् ।
न पिता त्यजते बालानपराधायुते सति २.९९.४०
क्व गतोऽसि विना त्वां हि गमिष्यन्ति हि नोऽसवः ।
क उवाच ।
केचिन्निपतिता भूमौ केचिद्भालं निजघ्निरे ४१
केचिद्ययुः स्वाश्रमं ते पथि तस्य पदाम्बुजे।।
दृष्ट्वा नेमू रुदन्तस्ते ददृशुस्ते भगासुरम् ४२
मूर्धजाघाततो यस्य भानि भूमौ निपेतिरे ।
शतयोजनपादाब्जो भूमावास्यं प्रसार्य सः ४३
तेषां मार्गे प्रसुष्वाप ततस्ते शिशवो ययुः ।
ध्यायन्तस्तं मयूरेशं शोचन्तः पथिविह्वलाः ४४
उदरे तस्य ते याता आपगा जलधीनिव ।
भ्रान्ताः परस्परं चक्रुर्वार्ता नानाविधास्ततः ४५
मयूरेशो गतः क्वापि वयं कुत्र व्रजामहे ।
न जानीमो दिशं सर्वे नो दृश्यन्ते गृहाणि च । ४६
इन्द्रियाणामधिपतिर्मनो नीतं तु तेन नः ।
विना नो मनसा ज्ञानं कथमुत्पत्स्यतेऽर्भकाः ४७
क्व मातरो भ्रातरो वा पितरः क्व गुणेश्वरः ।
एवं वदत्सु बालेषु मयूरेशोऽखिलार्थकृत् ४८
आविरासीत्तत्पुरतश्चतुरायुधभूषितः ।
गुणेश उवाच ।
मा शोचन्तु भवद्दुःखं ज्ञात्वाऽहं शीघ्रमागतः ४९
भगासुरोदरगता नात्मानं विदुरर्भकाः ।
क उवाच ।
निद्रया मोहयामास मुनिपुत्रान्गुणेश्वरः २.९९.५०
दैत्यदेहान्तरगतो ववृधे वामनौ यथा ।
विपाट्य देहं तस्याशु शकले द्वे व्यधाद्विभुः ५१
ततोऽस्तमित आदित्ये नागतेष्वर्भकेषु च ।
मातरः पितरश्चैव चिन्तामापुः शुचान्विताः ५२
ऊचुः परस्परं ते तु शिवापुत्रो महाबलः ।
बालान्नीत्वा गतः कुत्र मृतो वा शिशुभिः सह ५३
जीवंश्चेदागतः स स्यात्सायंकाले बुभुक्षितः ।
केचित्प्राणान्विना तैस्तु तत्यजुर्मातरोऽपि च ५४
केचिदूचुरुमायैतत्वृत्तं सर्वं निवेद्यताम् ।
केचित्तेषु वनं याता बभ्रमुर्वनपर्वतान् ५५
नापुस्तं च स्वकान्बालान्खिन्नाः प्रापुर्गृहान्पुनः ।
नानाकोलाहलं चक्रुर्जनन्यः पिदृसोदराः ५६
तेषामाक्रन्दितं श्रुत्वा कृपालुः स मयूरराट् ।
तत्तद्रूपं स्वमात्मानं तत्तद्भूषासमन्वितम् ५७
तत्तद्वासःपरीधानं तत्तच्छीलगुणान्वितम् ।
तत्तदंगं चकाराशु विवेशासौ गृहे ततः ५८ ।।
कृत्वा तत्तद्वयोवेषं तत्तन्मानयुतं शुभम् ।
जनन्यस्ताः समुत्थाय बालानादाय सत्वराः ५९
स्तनपानं ददुः प्रीत्या परमानन्दनिर्भराः।
ततो ददृशिरे बालाः पितृभिर्मातृभिस्तदा २.९९.६०
ता ऊचुः क्व स्थिता रोषादुषःकाले गताः कुतः।
न स्नानं न च भुक्तं वा न चान्यद्वापि भक्षितम् ६१
मयूरेश्वरसंगेन नेदानीं गन्तुमर्हथ ।
क उवाच ।
एवं शिक्षाप्य तान्बालानालिंग्य बुभुजुः सुखम् ६२
शिवापि पुरतोऽपश्यन्मयूरेशं समागतम् ।
आलिंग्य परिपप्रच्छ कि भुक्तं वनगोचरे ६३
त्वद्वियोगजदुःखेन मया किंचिन्न भक्षितम् ।
स्तनौ पिब पयोवृद्धौ भोजनं च समाचर ।
ततः सर्वं चकारासौ मातृवाक्यं गुणेश्वरः ६४ (४५१५)
इति श्रीगणेशपुराणे क्रीडाखण्डे नवनवतिमोऽध्यायः ॥९९॥

अध्याय १०० प्रारंभ :-
क उवाच ।
अनेकरूपवान्देवो मयूरेशोऽखिलेश्वरः ।
अतिसुन्दरदेहः सन्नागकन्याभिराहृतः १
गृहं स्वकीयं क्रीडार्थं पूजितो बहुविस्तरात् ।
सुगन्धतैलोद्वर्तनैः स्नाप्योष्णैरपि तं जलैः २
दिव्यवस्त्रैरलंकारैश्चन्दनैरपि पूज्य च ।
धूपदीपैश्च नैवेद्यैः फलतांबूलकांचनैः ३
ऊचुः करपुटं बद्ध्वा वयं धन्यतमा विभो ।
यद् दृष्टं ते पदं देव ब्रह्माद्यैरपि कांक्षितम् । ४
नागलोको धन्यतमो जीवितं नः सुजीवितम् ।
आनंदह्रदमग्नं नो मानसं तापमप्यजत् ५
यद्यत्ते ईप्सितं देव तत्तदत्रापि गृह्यताम् ।
अत्र स्थित्वा कति दिनं पश्चात्त्वं गन्तुमर्हसि. ६.
मयूरेश उवाच।
वांच्छितं वो विधास्येऽहं गिरिजा मां प्रतीक्षते ।
मद्वियोगेन तप्ता सा न भक्षयति किंचन ७
यूयं कस्यात्मजास्तस्य दर्शनं चेद्भवेन्मम ।
क उवाच ।
तत ऊचुर्नागकन्या वासुकेः पुत्रिका वयम् । ८
ब्रह्माद्या मुनयो देवा यान्ति यस्य गृहं सदा ।
यस्य विषभवा ज्वाला दहेत्त्रिभुवनं विभो ९
क उवाच ।
इत्युक्त्वा तं पुरस्कृत्य पितरं प्रापुरंगनाः ।
रत्नसिंहासने दीप्ते तिष्ठन्तं पन्नगैर्युतम् २.१००.१०
सूर्यकोटिनिभं रत्नमालया शोभितं तदा ।
मूर्धस्थरत्नकिरणैर्भासयन्तं दिशोऽखिलाः ।
तं दृष्ट्वा वासुकिं देवो गर्वितं बलवत्तरम् ११
उड्डीय तत्फणासंस्थं मणिं जग्राह सत्वरम् ।
येन पातालविवरे नान्धकारोऽभवत्किल १२
आन्दोलयामास शिरः कम्पयन्सप्तपर्वतान् ।
उदधीन्सप्तस्वर्गांश्च पातालानि रसातलम १३
हस्तेनैकेन तं गृह्य मयूरेशः स्वलीलया।
वासुकिं निजकण्ठं तं बबन्ध सर्पभूषणः १४
विख्यातः स्वर्गलोकेऽभून्ज्जगर्जानन्दतो विभुः ।
तद्गर्जितं समाकर्ण्य चुक्षुभे भुवनत्रयम् १५
ततः सर्पगणाः शेषं नीतुं वासुकिमब्रुवन् ।
स च क्रोधसमाविष्टो विस्तार्य निखिलान्फणान् १६
विषाग्निमुत्सृजन्दग्धुं त्रैलोक्यमुपचक्रमे ।
उवाच कः क्षमो जेतुं मम बन्धुं तु वासुकिम् १७
आवेशेन ययौ रोषाद्दावानल इव ज्वलन् ।
शीघ्रं यातो मयूरेशं तिष्ठ तिष्ठेति चाब्रवीत् १८
ततो नागकुलान्याशु तं शेषमन्वयुस्तदा ।
ततः पन्नगवृन्दं तं दृष्ट्वा देवो व्यतिष्ठत १९
शिखण्डिमस्तके हस्तं न्यधाद्युद्धाय पन्नगैः।
स ययौ तं नमस्कृत्य ग्रसन्निव महाद्भुतः २.१००.२०
दुधाव पक्षौ तद्वाताद्भ्रामयन्भुजगोत्तमान् ।
कांश्चित्स भक्षयामास चुचूर्ण चापरानपि २१
मारयामास कांश्चित्स भुजगान्बलवत्तरान् ।
निरीक्ष्य तं मृताः केचित्पन्नगा भयविह्वलाः २२
दृष्ट्वा पराक्रमं तस्य शेषः श्वासमपास्रजत् ।
शिखण्डी पतितस्तेन मूर्छितो धरणीतले २३
मयूरेशं ततः शेषो ययौ क्रोधद्दहन्निव ।
त्रैलोक्य विषवह्निस्थं समालोक्य गुणेश्वरः २४
विराटरूपं समास्थाय रुरोह तत्फणोपरि ।
उड्डीय बालभावेन गर्जन्मेघ इवापरः २५
ननर्त करतालेन पादाघातेन मर्दयन् ।
अनन्तकोटिब्रह्माण्डभारेण परिपीडितः २६
एकब्रह्माण्डवाही स कथं तद्भारमावहेत् ।
बबन्ध शेषं हि कटौ रज्जुं बालो यथा रमन् २७
ततस्ते भुजगाः सर्वे योद्धु कामास्तमन्वयुः ।
हुंकारेणैव तान्सर्वान्पातयामास विघ्नराट् २८
अबध्नान्मस्तके कांश्चित्कांश्चिच्च कर्णयोर्विभुः ।
परिश्रान्तस्तदा शेषस्तं नुनाव गुणेश्वरम् २९
न स्वरूपं विदुर्देवा ब्रह्माद्या मुनयोऽपि च ।
त्वमेव सृजसे विश्वं पासि हंसि त्वमेव हि २.१००.३०
नानावतारकर्ता त्वं नानादैत्यविमर्दनः ।
त्वमेव साक्षी सर्वस्य सर्वान्तर्यामितां दधत् ३१
सर्वत्र कारणं त्वं हि कारणानां च कारणम् ।
अज्ञानादभिमानेन योद्धुकामान्क्षमस्व नः ३२
क उवाच ।
सम्पातिं च जटायुं च श्येनमानीय सर्पराट् ।
निवेद्य च नमस्कृत्य शेषस्तूष्णीं बभूव ह ३३
तेऽपि तं प्रणिपत्याहुर्दीननाथ प्रसादतः ।
बन्धा मुक्ताः सर्पकृतान्नमस्ते परमेश्वर ३४
क उवाच ।
एवमुक्त्वा मयूरेश बन्धुं तं शिखिनं त्रयः ।
आलिलिंगुर्मुदा युक्तास्तदा गद्गदभाषिणः ३५
पप्रच्छुः कुशलं मात्रे ते च क्षेममथाब्रुवन् ।
ततः शिखण्डिनं सोऽथ रुरोह गणनायकः ३६
पातालाद्धरणीं प्रायात्तैस्त्रिभिः संयुतो वशी।
भगासुरं ददर्शार्द्धमार्गे शिशुहरं च तम् ३७
उद्यम्य परशुं दीप्तं शशिसूर्यनिभं विभु ।
तत्याज कण्ठे तं तस्य पशुमारममारयत् ३८
तच्छिरः परिबभ्राम शृंगवज्राहतं यथा ।
ततस्तदुत्थिता बाला योगमायाविमोहिताः ३९
मयूरेशः क्व चास्तीति प्राक्रोशन्सर्व एव ते।
आसने क्रीडने स्वापे जागृतौ भोजनेऽपि च २.१००.४०
तमेव ध्यायमानास्ते तन्मुखाद्बहिराययुः ।
गर्भवासादिवोत्तीर्णा ददृशुस्तं गुणेश्वरम् ४१
दृष्ट्वा ते रुरुदुः स्नेहादालिलिंगुर्मुदाखिला ।
ते ऊचु ।
त्यक्त्वाऽस्मान्दैत्यजठरे मृतान्क्वास्ति गतो भवान् ४२
त्वत्स्मृतेस्तस्य जठरे जीविता निर्गतास्ततः ।
मयूरेश उवाच ।
सर्वव्यापी सर्वगतः सर्ववेत्ताऽखिलेश्वरः ४३
न त्यक्तवान्कदाचिद्वो मा चिन्तां कर्तुमर्हथ ।
क उवाच ।
ततो ययौ मयूरेशो बालकैः परिवेष्टितः ४४
केचिद्धावन्ति पुरतो नानाशब्दकरा भृशम् ।
केचिच्छत्रधराः केचिद्दण्डचामरधारिणः ४५
धूलिध्वजं समालोक्य ययुर्मुनिगणा बहि ।
शिख्यारूढं मयूरेशं बालकै परिवेष्टितम् ४६
ऊचुः परस्परं सर्वे मुनयो विस्मयान्विताः।
गृहेऽस्मिन्शिशवश्चामी कुतोऽन्येऽस्य समीपतः ४७
तांश्च तान्मीलिताः सर्वेऽपश्यंते देवरूपिणः ।
विचारेण च तान्सर्वे परब्रह्मस्वरूपिणः ४८
आनन्दह्रदमग्नास्ते न विदुः स्वपरं पुनः ।
नापश्यंस्ते पुनस्तांस्तान्भ्रान्ता इव व्यलोकयन् ४९
मायया मोहिताः सर्वे स्वान्स्वान्बालान्व्यलोकयन् ।
कश्चित्पितरमासाद्य पठति स्म यथा पुरा २.१००.५०
कश्चिन्मातरमासाद्य पिबति स्म स्तनं मुदा।
आलिलिंगाथ जननीं पितरं वापि कश्चन ५१
भ्रातरं ताडयित्वाऽन्यो रुरोद ताडनादिव ।
उमापि तनयं दृष्ट्वालिंग्य प्रादात्स्तनं मुदा ५२
कथं चिरतरं यात इति क्रोधादभाषत ।
आदाय हस्ते गिरिजा मयूरेशं गृहं ययौ ५३
सर्वे ते मुनयो जग्मुः शिशुभिः स्वं स्वमाश्रमम् ५४ (४५६९)
इति श्रीगणेशपुराणे क्रीडाखण्डे भगासुरवधो नाम शततमोऽध्यायः ॥१००॥