गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ००१-००५
गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्) अध्यायाः १-५ [[लेखकः :|]] |
अध्यायाः ६-१० → |
अध्याय १
श्रीगणेशपुराणम्- उत्तरार्ध ( क्रीडाखंड भाग १)
श्रीगणेशाय नमः।
श्रीमहासिद्धि महाबुद्धि लक्ष लाभ नग्नभैरव राज चरणाभ्यां नमः ।
सकल गाणेशगुरूभ्यो नमः ।
मुनय ऊचुः ।
सम्यगाख्यानमाख्यातं त्वया सूत महामते ।
सादरं श्रुतमस्माभिर्न च तृप्तिं गता वयम् ॥१॥
यथा न तृप्यते जन्तुरन्नमश्नन्दिने दिने ।
अन्यत्कथान्तरं ब्रूहि येन तृप्यामहे वयम् ॥२॥
सूत उवाच ।
उक्तं चोपासनाखंडं क्रीडाखंडं वदामि वः ।
यथा कृतं गणेशेन नानादैत्य विहिंसनम् ॥३॥
साधुद्विजगवां चैव पालनं परमादरात् ।
तदहं संप्रवक्ष्यामि श्रूयतां स्थिरचेतसा ॥४॥
मुनय ऊचुः ।
यावद्यावत् कथ्यते तत् पुराणं, तावत्तावद वर्धते श्रोतुमिच्छा ।
तस्मात् सम्यक् कथ्यतां सर्वलोकः संसाराब्धेर्येन सद्यः प्रमुच्येत् ॥५॥
सूत उवाच ।
यदुक्तं बह्मणा पूर्वं व्यासायामिततेजसे ।
भृगुणा सोमकान्ताय तदेतद्वो ब्रवीम्यहम् ॥६॥
व्यास उवाच ।
पद्मयोने वद विभो गणेशचरितं शुभं ।
यद्यद्रूपं समास्थाय यद्यच्च कृतवान् विभुः ॥७॥
कृपावता त्वया ब्रह्मन् ममवाक्यादुदीर्यताम् ।
उपासनाखंडमिदं श्रुत्वा तृप्तिं न यामि च ॥८॥
येन येनावतारेण यं यं दैत्यं महाबलम् ।
अहनद् विकटस्तत्तत् कर्मास्य वक्तुमर्हसि ॥९॥
तदीयं बालचरितं लीला नानाविधा अपि ।
श्रुत्वा त्वद् वदनांभोजान् मनो निर्वृतिमेष्यति ॥२.१.१०॥
सूत उवाच ।
श्रुत्वा नानाविधान् प्रश्नानुवाच कमलासनः।
कथां नानाविधां दिव्यां व्यासाय परिपृच्छते ॥११॥
ब्रह्मोवाच ।
साधु पृष्टं त्वया व्यास हृदयानन्दकारिणा ।
वक्तुर्विवर्धते प्रीतिः सादरे श्रोतरि प्रभो। ॥१२॥
अवाच्यमपि वक्तुं मे पुण्यश्लोके भवेत् त्वयि ।
शक्तिर्गरीयसी यद्वद् वक्तुः श्रोतरि कथ्यताम् ॥१३॥
इदानीं सर्वमाख्यासे गणेशचरितं तव ।
नानावतारान् कृत्वा स भूभारं हृतवान् विभु: ॥१४॥
हत्वा नानाविधान् दैत्यान् स्वस्थानेऽस्थापयन् सुरान् ।
साधूनां पालनरतो दुष्ट निर्मूलनं क्षमः ॥१५॥
इतिहासं शृणु मुने गणेशाख्यानसंश्रयम् ।
विष्टरश्रवसा प्रोक्तं श्रवणात् सर्वकामदम् ॥१६॥
विष्णुरुवाच ।
युगे युगे भिन्ननामा गणेशो भिन्नवाहनः।
भिन्नकर्मा भिन्नगुणो भिन्नदैत्यापहारकः ॥१७॥
सिंहारूढो दशभुजः कृते नाम्ना विनायकः ।
तेजोरूपी महाकायः सर्वेषां वरदो वशी ॥१८॥
त्रेतायुगे बर्हिरूढः षड्भूजोप्यर्जुनच्छविः ।
मयूरेश्वर नाम्ना च विख्यातो भुवनत्रये ॥१९॥
द्वापरे रक्तवर्णोऽसा चाखुरूढश्चतुर्भुजः।
गजानन इतिख्यातः पूजितः सूरमानवेः ॥२.१.२०॥
कलौ तु धूम्रवर्णोऽसावश्वारूढो द्विहस्तवान् ।
धूम्रकेतुरिति ख्यातो म्लेच्छानीकविनाशकृत् ॥२१॥
यं यं स दैत्यं हन्ति स्म तदिदानीं ब्रुवे मुने ।
अंगदेशीयनगरे रौद्रकेतुरभूद्द्विजः ॥२२॥
सर्वशास्त्रार्थतत्वज्ञो वेदवेदांगपारगः ।
समोजीवेनाग्निहोत्री सुरगोद्विजपूजकः ॥२३॥
ईश्वरोपासको नित्यं सर्वागमविशारदः ।
यस्य पत्नी शारदाख्या रूपलावण्यशोभिता ॥२४॥
ईदृशी नाप्सरेःमध्ये नाष्टासुनायिकास्वपि ।
यद्वस्त्रनिर्जितश्चन्द्रश्चिन्तया क्षयमीयिवान् ॥२५॥
अनेकदिव्याभरणैर्भासयन्ती धरातलम् ।
यथा नक्षत्रमालाभिर्भासते व्योममंडलम् ॥२६॥
कदाचित्सा गर्भवती शारदोत्पललोचना ।
शारदा शारदे मासि शरच्चन्द्रसुशोभिते ॥२७॥
शरीरतेजसा यस्या न प्राज्ञायत किंचन ।
दोहदान्पूरयत्येष यं यं सा कामयत्सती ॥२८॥
एवं सा नवमे मासि यमलौ सुषुवे सुतौ ।
अतिकान्ततरौस्वान्तनन्दननावुभयोरुभौ ॥२९॥
आजानुबाहू दीर्घाक्षौ दृष्ट्वा प्रोवाच तत्पिता ।
अद्याहमनृणो जातो धन्यमद्य तपो मम ॥२.१.३०॥
वंशो धन्यो जनुर्धन्यं यत्पुत्रौ वीक्षितौ मया ।
अर्घ्याद्यैर्द्विजवर्यान्स संपूज्य च गणाधिपम् ॥३१॥
स्वस्तिवाच्यं चकराशु मातृपूजनपूर्वकम् ।
भक्त्याऽभ्युदयिकं श्राद्धं जातकर्मा करोद्द्विजैः ॥३२॥
संपूज्य ब्राह्मणान्भक्त्या ददौ दानान्यनेकशः ।
सुह्रदो मानयामास वासोरत्नधनादिभिः ॥३३॥
नानावादित्रनिर्घोषैः शर्करां च गृहे गृहे ।
दापयामास तांबूलं पुत्रजन्मसुनिर्वृतः ॥३४॥
यथा धान्यपरो योगी प्राप्य सद्वस्त्वनुत्तमम् ।
ततो दशाहेऽतीतेऽसावाकार्य द्विजपुंगवान् ॥३५॥
समर्च्य परया भक्त्या ज्योतिःशास्त्रविशारादान् ।
पप्रच्छ चैतयोर्नाम किं कार्यं द्विजसत्तमाः ॥३६॥
अतीतानागतज्ञानाद्विचार्य कथयन्तु मे।
ते चोचुः प्रणिधानेन देवान्तकनरान्तकौ ॥३७॥
नामनी अनयोब्रह्मन्नन्वर्थे कुरू नोमते ।
इति तद्वचनं श्रुत्वा द्विजभक्तिरतो द्विजः॥३८॥
स्वशाखोक्तेन विधिना नामनी विदधे तथा।
ब्राह्मणान्भोजयामास सर्वांश्च नागरांस्तथा ॥३९॥
ववृधाते ततस्तौ तु मेरुमन्दारसन्निभौ ।
यथा कच्छाश्रितौ तालौ यथा वंशांकुरौ बलात् ॥२.१.४०॥
यत्र यत्र पदन्यासं कुर्वाते तौ यदृच्छया ।
रसातलगतस्यात्र शेषस्य नमते शिरः ॥४१॥
दृश्यते मंडलं भानोस्तिष्ठतोः शिरसि स्थितम् ।
पित्रोः प्रदर्शयन्तौ तौ कौतुकानि भृशं तयोः ॥४२॥
कदाचिन्नारदोऽकस्माद्रौद्रकेतुगृहं ययौ ।
श्रुत्वा कीर्तिं बालकयोः कौतुकादग्रहीत्तु तौ ॥४३॥
मूर्ध्न्याघ्रायांकमारोप्य पितराववदत्तयोः ।
नारद उवाच ।
श्रुत्वा कीर्तिं समायातः पुत्रयोरद्भुतां शुभाम् ॥४४॥
अग्रेऽद्भुततरा चापि भविष्यत्यनयोर्मुने ।
महद्भाग्यं तव मुने यल्लब्धावीदृशौ सुतौ ॥४५॥
दृष्ट्वाऽन्यो हर्षमायाति का वार्ता स्वजनस्य ह ।
इत्याकर्ण्य शुभं वाक्यं नारदेन समीरितम् ॥४६॥
तावाहतुर्मुनिं नत्वा पितरौ नारदं तदा ।
तव प्रसादाद् बह्वायुः पुत्रयोरस्तु सांप्रतम् ॥४७॥
अनुग्रहं कुरु तथा यथैतौ वीर्यवत्तरौ ।
भवेतां लोकविख्यातौ सर्वज्ञौ रिपुदंडिनौ ॥४८॥
क उवाच ।
रुद्रकेतोः शारदायाः पुत्रयोर्भक्तिमीक्ष्य सः ।
पंचाक्षरीं महाविद्यामुभयोरुपदिष्टवान् ॥४९॥
उवाच पुत्रौ कामारिरनया संप्रसाद्यताम् ।
मस्तकेऽभय हस्तं च स्थाप्यानुष्ठानमादिशत् ॥२.१.५०॥
एवमुक्त्वा तमामन्त्र्य रौद्रकेतुं महामुनिः।
ततस्त्वन्तर्दधे ब्रह्मन्नारदो दिव्यदर्शनः ॥५१॥
अंतर्हिते मुनौ तौ चावदतां पितरौ मुदा।
अनुष्ठानाय नावज्ञां भवद्भ्यां संप्रदीयताम् ॥५२॥
इति श्रीमन्महागाणेश्वरे महापुराणे क्रीडाखंडे नारदोपदेशो नाम प्रथमोऽध्यायः ॥१॥
अध्याय २ प्रारंभ :-
व्यास उवाच ।
अनुष्ठानं कथं ब्रह्मन कुत्र वा तौ प्रचक्रतुः।
तत्सर्वं विस्तराद्ब्रूहि सादरं मम पृच्छतः ॥१॥
ब्रह्मोवाच ।
साधु पृष्टं त्वया व्यास सर्वं ते कथयेऽधुना ।
चाक्रतुस्तावनुष्ठानं देवान्तकनरान्तकौ ॥२॥
पित्रौराज्ञां गृहीत्वैव जग्मतुर्गहनं वनम् ।
गत्वारो यत्र वायोर्नानाद्रुमलताकुलम् ॥३॥
वापीकासारसहितं पुष्पपल्लव शोभितम्।
विशालगह्वरगिरि नानाप्रस्तरशालि च ॥४॥
तत्र स्थिातावुभावेतौ प्रारभेतां महत्तपः ।
एकांगुष्ठे स्थितौ चौभौ तत्र तौ स्थिरचेतसा ॥५॥
जपन्तौ नारदप्रोक्तां विद्यां पंचाक्षरीं शुभाम् ।
ध्यायन्तौ शंकरं देवं सहस्रपरिवत्सरान् ॥६॥
निराहारौ वायुभक्षौ शरदां द्विसहस्रकम् ।
सहस्रवर्षं पत्राणि पक्वानि जक्षतुश्च तौ ॥७॥
एवं दशसहस्राणि वर्षाणि जपतोर्ययुः ।
विवृद्धे भूरितपसि ततश्च तेजसा तयोः ॥८॥
सूर्योऽभून्मन्दकिरणो भस्मोद्धूलित देहयोः ।
व्याघ्राजिने चाक्षमाले बिभ्रतो गजचर्मणी ॥९॥
पुपूजतुरुषःकाले शम्भुं कुसुमपल्लवैः ।
तस्मिंस्तपोवने तात तयोरद्भुत तेजसा ॥२.२.१०॥
जातिवैराः सुनिर्वैरा आसन्सिंह गजादयः ।
एवं तत्तपसा तुष्टः पंचवक्त्रस्त्रिलोचनः ॥११॥
दशबाहूरपर्णांगो व्याघ्रेभचर्म शूलवान् ।
बिभ्रच्छिरसि गंगां च डमरुं दक्षिणे करे ॥१२॥
फणिहारसमायुक्तो रुंडमालालसद्गलः ।
वृषारुढो नीलकंठः प्रभया भासितांबरः ॥१३॥
नानालंकारसंयुक्तः श्वेतांगश्चंद्रशेखरः ।
दृष्ट्वा तौ तादृशं देवं हर्षमापतुरुत्तमम् ॥१४॥
ननर्ततुरुभौ पश्चात्साष्टांगं प्रणिपेततुः ।
बद्धांजलिपुटौ तौ तं देवदेवं समूचतुः ॥१५॥
धन्यौ नौ पितरौ देवजनुषी नयने तपः ।
धन्यं कुलं च देहौ च यतो दृष्टो महेश्वरः ॥१६॥
वेदांतागोचरोऽगम्यो वाचो यस्मादुपावृत्ताः।
आगमः कुंठितो यत्र षट्शास्त्राण्यथ मानसम् ॥१७॥
सहस्रवदनः स्तोतुं न क्षमः सनकादयः ।
न शक्ताः सर्वजगतः कर्ता पाताऽपहारकः ॥१८॥
रंकं करोति राजानं राजानं रंकमेव च ।
सर्पं करोति वलयं वलयं सर्पमेव च ॥१९॥
अधनं यो धनाढ्यं च धनाढ्यमधनं तथा ।
श्रुत्वैवं स तयोर्वाणीं प्रोवाच च उमापतिः ॥२.२.२०॥
साधु साधु श्रुतं वाक्यामृतं वां समुदा मया।
तपसा परितुष्टो वां वृषारूढा सहोमया ॥२१॥
आगतो ध्याननिष्ठाभ्यां याचेतां वांछितान् वरान् ।
क उवाच ।
अंधकारेरिदं वाक्यं श्रुत्वा तौ प्रोचतुस्तदा ॥२२॥
हर्षगद्गदया वाचा देवान्तकनरान्तकौ ।
यदि तुष्टोऽसि देवेश सर्वेश जगदीश्वरः ॥२३॥
यदि त्वया वरा देया यद्यनुग्राहयता च नौ ।
तदा देवमनुष्येन्द्र यक्षरक्षः पिशाचतः ॥२४॥
मानवोरगगन्धर्वाप्सरः किन्नरतोऽपि च ।
सर्व शस्त्रास्त्रतो वन्यग्राम्यपश्वादितोऽपि च ॥२५॥
ग्रहनक्षत्र भूतेभ्यो दानवा सुरतोऽपि च ।
न दिवा न च रात्रौ वा कृमिकीटादितोऽपि वा ॥२६॥
मृत्युः कदापि नौ स्याच्च प्रसादाज्जगदीश्वर ।
त्रैलोक्यराज्यं नौ यच्छ भक्तिं ते चरणेऽपि च ॥२७॥
क उवाच ।
तौ जगाद ततः शूली प्रसन्नस्तपसा तयोः ।
समाकर्ण्य वरान् सर्वान् भक्तयोर्वृषभध्वजः ॥२८॥
शिव उवाच ।
यदिष्टं वांछितं सर्वं तत्तथा न तदन्यथा।
अभयं सर्वतोऽमृत्यु त्रैलोक्ये राज्यमेव च ॥२९॥
लप्स्यथो लप्स्यते चापि भवद्भ्यामन्तको भयम् ।
तयोः शीर्ष्णोरधाच्छम्भुरभयं करपंकजम् ॥२.२.३०॥
एवं प्राप्येप्सितान् कामानन्तर्धानं ययो शवः ।
तावनुज्ञा ततो गृह्य तस्मिन्नन्तर्हिते गृहम् ॥३१॥
ईयतुस्तं परिक्रम्य प्रणम्य च प्रपूज्य च ।
हर्षेण पितरौ दृष्ट्वा नेमतुर्भृश हर्षितौ ॥३२॥
आलिंग्य पितरौ तौ तु निजवृत्तान्तमूचतुः।
आघ्राय मस्तकं प्राह पिता तौ तनयौ मुदा॥३३॥
युवयोः सुवरप्राप्त्या दर्शनाच्छंकरस्य च ।
पावितं जन्म च कुलमर्जितं सुमहद्यशः॥३४॥
श्रुत्वोदन्तं शीतलानि जातान्यंगानि मे सुतौ ।
जाता चामृतपानस्य परा तृप्तिर्न संशयः ॥३५॥
मात्राभ्यक्तौ बुभुजतुस्ततोऽन्नं विविधं शुभम् ।
पित्रासमं ब्राह्मणैश्च वेदशास्त्रविशारदैः ॥३६॥
ततः सा पूजयामास नानालंकारभूषणैः ।
तौ पुत्रौ ब्राह्मणांश्चैव तेभ्यो गृहयाशिषो बहु ।
विससर्ज प्रणम्यैतान्व्यतीयतुरुभौ निशाम् ॥३७॥ (८९)
इति श्रीमन्महागाणेश्वरे महापुराणे क्रीडाखंडे द्वितीयोऽध्यायः ॥२॥
अध्याय ३ प्रारंभ :-
क उवाच ।
ततः प्रातः समुत्थाय गुरूं ध्यात्वा सभाज्य च ।
स्मृत्वा नत्वाऽखिलान्देवान् जग्मतुर्नैऋतीं दिशम् ॥१॥
कृत्वा मूत्रपुरीषे तु दन्तजिह्वा विशोघ्य च ।
स्नात्वा सन्ध्यामुपास्यैता विष्टन्देवान्पुपूजतुः ॥२॥
संपूज्य बाह्मणानभक्त्या ददतुर्धनवाससी।
आज्यमालोक्य कांस्यस्थं ददतुर्ब्राह्मणाय तत् ॥३॥
सदक्षिणं समालोक्य दर्पणं निर्मलं तथा।
परिधाय च वासांसि विचारं चक्रतुस्तु तौ॥४॥
ज्येष्ठ उवाच ।
अहं विजेष्ये स्वर्लोकान् वरदानान्महेशितुः।
मृत्युलोकं च पातालं जय त्वं तत्प्रसादतः ॥५॥
क उवाच ।
एवं तौ निश्चयं कृत्वा विलोक्य शुभवासरं ।
एको ययौ स्वर्गलोकं वायुवेगसमो जवे ॥६॥
यातोऽमरावतीं तत्र बभंजाराममंडलम् ।
बद्ध्वा परिकरं तस्थौ शक्रस्य पुरतो बली ॥७॥
कोलाहलो महानासीद्देवानां धावतां भृशम् ।
कोऽयं कोऽयं कथं यातोऽकस्मादिन्द्रसमीपतः ॥८॥
घ्नन्तु बध्नन्तु सुदृढं दूरीकुर्वन्त्वमुं नरम् ।
इति ते धावमानास्ते सर्वे तेन निराकृताः॥९॥
उड्डीयोड्डीय सहसा निपत्य च पुनःपुनः।
तदुड्डानान् निपतिताः स्त्रीगर्भाश्च महाद्रुमाः॥२.३.१०॥
कम्पिता पृथिवी सर्वा सपर्वत वनाकरा ।
तदंगदीप्त्या श्यामास्ते जाता विबुधसत्तमाः॥११॥
यथाऽऽमयजितो मर्त्यो याति सद्यो विवर्णताम् ।
तद्वत्तद्दर्शनात्सर्वे विवर्णत्वं गताः सुराः ॥१२॥
इन्द्रोऽपि विह्वलो जातो विवर्णश्च तदा मुने ।
केचिद्दश दिशो याताः सन्नद्धा केऽपि चाभवन् ॥१३॥
केचित्तं शरणं याता अत्यधीराः सुराधमः ।
तत इन्द्रश्चतुर्दन्तं वज्रहस्तः समारुहत्॥१४॥
जगर्ज सुमहाभीमं चकम्पे भुवनत्रयम् ।
किं पश्यतेत्युवाचैनान् सन्नद्धान् सुरसत्तमान् ॥१५॥
पौरुषं क्व गतं तावद्यावदत्रा गतोऽसुरः ।
ततस्ते पुरतो जग्मुः संग्रामाय कृतोद्यमाः ॥१६॥
सद्योत्सुकान् सुरान्प्रेक्ष्य प्रोचे देवान्तको हरिम् ।
किमर्थं श्रमसे शक्र विचारय वरान्मम ॥१७॥
अन्तको भयसंत्रस्तः पलायनपरो गतः।
तृणप्रायं तु ते वज्रं मन्येऽहं शंकराज्ञया ॥१८॥
मच्छ्वासात्सर्वतो यान्ति देवास्त्वद् दृष्टिवर्तिनः ।
श्रूयतां मद्वचः शक्र साम्नैव दीयतां मम ॥१९॥
पदानि स्वानि सर्वाणि स्थीयतां यत्र कुत्रचित् ।
अन्यथा सकलं हित्वा वृथा मृत्युं प्रयास्यसि ॥२.३.२०॥
देवान्तकेति मन्नाम न जानासि कथं सुर ।
क उवाच ।
इति तद्वचनं श्रुत्वा बिभिदे हृदयं हरेः ॥२१॥
शक्रस्य च मुखादग्निः प्रबलो निर्गतो बहिः ।
अतितप्ते यथा तैले जलपाताद्यथा भवेत् ॥२२॥
तत ऊचे महेन्द्रस्तं क्रोधावेशसमन्वितः ।
त्वादृशाः कति कति न निहता दानवा मया ॥२३॥
त्वमिदानीं वराद् गर्वादागतोऽस्यसुराधम ।
वज्रपाताद्धतो नूनं धरण्यां निपतिष्यसि ॥२४॥
अन्यपदप्रधानो हि समासोन्नाम्नि ते बली ।
ततः शक्रोऽहनत्तं तु वज्रेण दृढमुष्टिना ॥२५॥
वज्रं तच्छतधा भिन्नमामभांडं च्युतं यथा ।
देवान्तकोऽच्छिन्नरो-- माऽतिष्ठदाजौ निराकुलः ॥२६॥
ततोऽसौ मुष्टिना पृष्ठे जघान सुरसत्तमम् ।
तेनासौ पतितो भूमौ वाताहत इव द्रुमः ॥२७॥
पौरुषं तस्य बुद्ध्वैव पपाल बलसूदनः ।
अधावद्वेगतः पृष्ठे सिंहो मृगगणानिव ॥२८॥
व्यादाय भीषणं वक्त्रं पलन्तं तमुवाच सः ।
पलायसे किमधुना वल्गना क्व गता तव ॥२९॥
संमुखो भव शक्र त्वं सर्वदेवगणैः सह ।
असंमुख पलायन्तं न हन्ति वीरसत्तमः ॥२.३.३०॥
स्वयं तत्पुरतो भूत्वा मारयामास तान्सुरान् ।
मुखे चपेटिकां दत्त्वा गतासूंस्तानपातयत् ॥३१॥
भ्रामयित्वा ततश्चैकं पोथयामास भूतले ।
लत्तया मुष्टिना कांश्चित्कुर्पराघाततोऽपरान् ॥३२॥
कंठेऽगृहीत्प्राणघातं चकर्ष चापरान्सुरान् ।
केषांच्चिज्जानुनी भीत्त्वा केषांच्चिच्च भुजावपि ।
उरुयुग्मं च केषांच्चिच्चिक्षेप दूरतोऽपि तान् ॥३३॥
उत्तानाः पतिताः केचित्केचिन् न्युब्जास्तथा सुराः ।
केचिन्मुखप्रहारं च चक्रुर्गन्तुं मनीश्वराः ॥३४॥
केचित्तु तर्कयामासुर्मनसा दुःखितेन च ।
अकस्मात्प्रलयं किं नु प्रारभज्जगदीश्वरः ॥३५॥
सुविशीर्णाः सुराः सर्वे गजा सिंहार्दिता यथा ।
ततः स्वयं जगर्जाशु जयशाली सुरान्तकः ॥३६॥
यथा मेघेषु गर्जत्सु गर्जते बर्हिमंडली।
भास्करीं भास्करस्त्यक्त्वा यातो दूरतरं ततः ॥३७॥
सर्वेऽपि पपलुर्देवास्त्यक्त्वा स्वस्वपदानि च ।
ततः स्वयं शक्रपदे तस्थौ निर्भयचेतसा ॥३८॥
सर्वे सुरा गता हैमगिरिगह्वरमुत्तमम् ।
कन्दमूलफलान्यादन्निन्युर्दुःखेन वासरान् ॥३९॥
ततोऽगुर्भूतलाद्दिग्भ्योऽसंख्यया दैत्यदानवाः ।
चक्रुर्नानाविधैर्द्रव्यैर्नानातीर्थाह्रतैर्जलैः ॥२.३.४०॥
नानर्षि मन्त्रनिचयैरभिषेकं सुरान्तके ।
शंख भेरि मृदंगादि दुन्दुभीनां च निस्वनैः ॥४१॥
ऊचुस्तं स्वामिनं दैत्या स्त्वादृग्दैत्यकुले न च ।
जातो वा भविता वापि भवानाज्ञां करोतु नः ॥४२॥
क उवाच ।
एवमेकाकिना तेन जिताः शक्र पुरोगमाः ।
राज्यं चकार देवानामरक्षच्चामरावतीम् ॥४३॥
ततोऽयात्सत्यलोकं स दैत्यकोटिसमन्वितः ।
ब्रह्माऽपि प्रययौ तत्र यत्र देवाः पुरागताः ॥४४॥
तत्रैकं नायकं स्थाप्य वैकुंठमगमच्च सः ।
ब्रह्मणो यानमारुह्य कदाचिच्छाक्रमेव च ॥४५॥
लक्ष्म्या सह ततः पूर्वं क्षीराब्धिमगमद्धरिः ।
अत्याप्तं परमं दैत्यं तत्र स्थाप्य व्यचारयत् ॥४६॥
किं मया न जितं दैत्या ब्रुवन्तु यामि तत्र वै ।
तेऽब्रुवन्नैव शेषोऽस्ति देवानां विषयः क्वचित् ॥४७॥
लोकपालपदे स्थाप्य नानादैत्यान्जनस्य च ।
निरातंको निरुद्योगः संरक्षस्वामरावतीम् ॥४८॥
इत्यमात्यवचः श्रुत्वा मुदा परमया युतः ।
देवान्तकश्चकारासौ तद्वाक्यं सम्यगीरितम् ॥४९॥ ( १३८)
इति श्रीमन्महागाणेश्वरे महापुराणे क्रीडाखंडे तृतीयोऽध्यायः ॥३॥
अध्याय ४ प्रारंभ –
व्यास उवाच ।
देवांतकस्य चरितं श्रुतं भक्त्या तवाननात् ।
इदानीं वद मे ब्रह्मन् नरांतक विचेष्टितम् । ॥१॥
क उवाच ।
शणुष्वावहितो ब्रह्मन् सम्यक् सत्यवती सुत ।
कथयिष्येऽधुना तत्तु दृष्ट्वा ते परमादरम् ॥२॥
नरांतको महीं गत्वा नानादैत्यगणान्वितः ।
चकार कदनं राज्ञां मारयामास काxश्चन ॥३॥
सर्वे तं शरणं याता दृष्ट्वा राज्ञो हतान्बहून् ।
यद्यत्सैन्यं पश्यति स्म तत्तद्याति दिशो दश ॥४॥
यथा ज्ञानेन चाज्ञानं यथा सूर्योदये तमः ।
एवं भूमंडलं सर्वं वशे चक्रे नरान्तकः ॥५॥
ये तु तं शरणं यातास्तदीयत्वात्पदे स्थिताः ।
ये हतास्तत्सुतास्तेन स्थापिताः करदाः कृताः ॥६॥
ये तु युद्धोद्यता भूपास्तेऽपि सेवाकृतोऽभवन् ।
तेषां पदेषु दैत्यान्सोऽस्थापयत्स्वस्य संमतान् ॥७॥
पालयामास पृथिवीं समुद्रवलयांकिताम् ।
आतंकभारसंतप्ता देवदानव किन्नराः ॥८॥
मुनयोऽयुर्गिरिगुहां यज्ञ स्वाध्यायवर्जिताः ।
वेदत्यागस्य दोषेण मनसा चाभ्यसं श्रुतीः ॥९॥
आतंकाक्रान्तमनसो न तपस्यां च चक्रिरे ।
ततो नरान्तको दैत्यान्नागलोक जिगीषया ॥२.४.१०॥
प्रास्थापयत् सुबलिनो नानामायाविशारदान् ।
ते तार्क्ष्यरूपाः संयाता बभक्षुरुरगोत्तमान् ॥११॥
असंख्याता भक्षितास्तैस्ततः शेषो ययौ पुरः ।
मुक्ताफलानि रत्नानि सहनागांगनायुतः ॥१२॥
अनेक दिव्यवस्त्राणि प्रगृहय रुचिराणि सः ।
तानि सर्वाणि दत्त्वैव साम चक्रेऽसुरैः सह ॥१३॥
शासनं परिजग्राह नरान्तक समीरितम् ।
करभारं वार्षिकं स स्वीचक्रेऽनन्त शीर्षका ॥१४॥
तथापि दैत्यस्तत्राप्य स्थापयद्दैत्यपुंगवम् ।
अनेक दैत्यसहितं सर्वाध्यक्षं रसातले ॥१५॥
आज्ञापयामास च तं तत्रस्थं स नरान्तकः ।
यदैव विकृतिं पश्ये रुरगाणां तदैव नः ॥१६॥
दूतमुखात् सूचयस्व हनिष्यामोऽखिलानहीन् ।
इत्थं शिक्षाप्य तं ते तु दैत्याः सर्वे नरान्तकम् ॥१७॥
मृत्युलोके स्थितं याता वृत्तांतं सर्वमब्रुवन् ।
नरान्तकः सदाऽप्रेषीन् मृत्युपाताल लोकजम् ॥१८॥
देवान्तकाय वृत्तान्तं सर्वस्य यमनुष्ठितम् ।
उपायनानि सर्वाणि स्वर्लोके दुर्लभानि च ॥१९॥
देवान्तकोऽथाप्रैषीत्तं दुर्लभं यच्च भूतले ।
एवं त्रैलोक्यराज्यं तौ चक्राते परया मुदा ॥२.४.२०॥
सोमकान्त उवाच ।
कथमेतौ हतौ केन रूपेण तद्वदस्व मे ।
केनास्त्रेण च शस्त्रेण अवतारेण केन च ॥२१॥
भृगुरुवाच ।
एवमेव कृतप्रश्नो व्यासमूचे चतुर्मुखः ।
यां कथां परया प्रीत्या तामेव त्वां ब्रवीम्यहम् ॥२२॥
क उवाच ।
दुर्जयौ वरगर्वौ तौ येन रूपेण घातितौ ।
येनावतारेण मुने येन शस्त्रेण चास्त्रतः ॥२३॥
संप्राप्ता ब्रह्मणा लोका देवाश्च स्वपदे स्थिताः ।
तत्सर्वं कथयिष्यामि सादरं श्रूयतां मुने ॥२४॥ (१६२)
इति श्रीमदादि श्रीमन्महागाणेशपुराणे क्रीडाखंडे चतुर्थोऽध्याय। ॥४॥
अध्याय ५ प्रारंभ –
ब्रह्मोवाच ।
ममैव मानसः पुत्रः कश्यपो बुद्धिमत्तरः ।
पुण्यवान् धर्मशीलश्च तपस्वी विजितेन्द्रियः॥१॥
अतिकारुणिको लोके दुःखशोकावमर्दनः ।
वर्तमानं भूतभावि जानाति मीलितेक्षणः॥२॥
मनसा सृष्टिसंहार कर्ता वेदान्त पारगः।
सर्वशास्त्रार्थतत्वज्ञ समलोष्ठाश्मकांचनः ॥३॥
अदितिर्यस्य ज्येष्ठाऽऽसीत्पत्नी नाम्नाऽतिवल्लभा।
सर्वलक्षणसंपूर्णाऽनुपमा सा त्रिविष्टपे ॥४॥
त्रिलोकीं भस्मसात् कर्तुं पातिव्रत्येन तेजसा ।
शेषो यस्या गुणान्वक्तुं नेशो वक्त्रसहस्रकैः॥५॥
सेवन्ते यां सदा चाष्टनायिका गुणलब्धये ।
शक्रादि सुरवृन्दानि जनयामास याऽनघा॥६॥
मूलप्रकृतिरूपा सातादृग्रूपं समाश्रिता।
सा कदाचित् स्वकं कान्तं मुदितं मुदिताऽब्रवीत् ॥७॥
स्वामिन् विज्ञप्तुमिच्छामि कृपां कृत्वा वदस्व तत् ॥८॥
पतिं विना न चान्याऽस्ति गतिं सद्योषितां प्रभो ।
कश्यप उवाच ।
सम्यगुक्तं त्वया भद्रे मम प्रीतिकरेऽनघे ॥९॥
तद्ब्रवीमी समापृच्छ यत्ते मनसि वर्तते ।
अदितिरुवाच ।
इन्द्रादयो देवगणाः स्वस्य पुत्रत्वमागताः ॥२.५.१०॥
परमात्मा चिदानन्द ईश्वरो यः परात्परः ।
यदा स्वपुत्रतामेष्ये तदा मे स्यात्स्थिरं मनः ॥११॥
तस्य सेवां कर्तुमीहे उपायं तत्र मे वद ।
येन स पुत्रतामेष्येत् कृतकृत्यं मनो भवेत् ॥१२॥
मुनिरुवाच ।
साधु प्रोक्तं महाभागे वचनं परितोषकम् ।
यथा जलं तृषार्तस्य क्षुधितस्य च भोजनम् ॥१३॥
तथा मे वचनं जातं तव देवि सुतोषकृत् ।
विना पुण्यं कथं यायात्परमात्मा स्वपुत्रताम् ॥१४॥
तत्रोपायं वदे तं च ह्रदि कुरु स्थिरं प्रिये ।
योऽगोचरः श्रुतीनां च ब्रह्मादीनामगोचरः ॥१५॥
निर्गुणो निरहंकारो निरीहो निर्विकल्पकः ।
यो मायाविषयो मायानर्तको मायिमोहनः ॥१६॥
मायातीतोऽपि मायाया आधारः कारणातिगः ।
मायाविस्तारकारी च कार्यकारणकारणम् ॥१७॥
कथं साकारतां गच्छेदनुष्ठानं विना प्रिये ।
अदितिरुवाच ।
कस्य ध्यानं कथं कार्यमनुष्ठानं मयाऽधुना ॥१८॥
केन मन्त्रेण वा कुर्वे तद् वदस्व महामुने ।
क उवाच ।
एवं पृष्टो मुनिस्तस्यै नाममन्त्रंसमादिशत् ॥१९॥
पंचाक्षरं चतुर्थ्यन्तमोंकारपल्लवान्वितम् ।
नमोन्तं ध्यानसहितं न्यासदैवतसंयुतम् ॥२.५.२०॥
पुरश्चरणमार्गं च सर्वं तस्यै न्यवेदयत् ।
ततः सा मुदिता ब्रह्मन् प्रणिपातपुरःसरम् ॥२१॥
कश्यपं निजभर्तारं पूजयामास सादरम् ।
तदनुज्ञां समादाय जगाम तपसे वनम् ॥२२॥
स्नाता पवित्रवसना ध्यायन्ति स्थिरचेतसा ।
विनायकं देवदेवं न्यासं कृत्वा यथाविधि ॥२३॥
स्थाने द्रुमलताकीर्णे निर्वाते निरुपद्रवे ।
अदिती रुद्धकरणा शुभासनपरिग्रहा ॥२४॥
जजाप परमं मन्त्रं स्मरन्ती सा विनायकम् ।
अनन्यवृत्ति मनसा साक्षात्कारमभीप्सती ॥२५॥
निराहारा वायुभक्ष्या जपध्यानपरायणा ।
तस्यास्तपः प्रभावेन निर्वैरा प्राणिनोऽभवन् ॥२६॥
धर्षिता देवताः सर्वा किमियं साधयिष्यति ।
एवं वर्षशतं तेपेऽदितिः सा परमं तपः ॥२७॥
क्लेशान् बहुविधांस्तस्या दृष्ट्वा देवो विनायकः ।
स्त्रीभावे च तथा धैर्यमाविरासीद्विनायकः ॥२८॥
तेजोराशिः पुरस्तस्याः सूर्यकोटिसमप्रभः ।
गजाननो दशभुजो कुंडलाभ्यां विराजितः ॥२९॥
कामातिसुंदरतनुः सिद्धिबुद्धि समायुतः ।
मुक्तामालां च परशुं बिभ्रद्यो मेघपुष्पजम् ॥२.५.३०॥
कांचनं कटिसूत्रं च तिलकं मृगनाभिजम् ।
उरगं नाभिदेशे तु दिव्यांबर विराजितम् ॥३१॥
महोराशिं पुरो दृष्ट्वा चकम्पे त्वदितिर्भृशम् ।
निमील्य नयने मूर्छामियाय न्यपतद्भुवि ॥३२॥
जपं ध्यानं विसस्मार चिन्तयामास चेतसा ।
किमागतं मम पुरो भाव्यं किमिदमद्भुतम् ॥३३॥
विस्मृताहं जपं ध्यानं किं वाऽयं परमेश्वरः ।
वरं दातुं समायातो महसा भासयन्दिशः ॥३४॥
एवं सा विह्वला यावत् तावद्देवो जगाद ताम् ।
विनायक उवाच ।
सोऽहं देवि दिवारात्रौ यं ध्यायसि च चेतसा ॥३५॥
दृष्टवा निष्ठां तपो घोरं वरं दातुमुपस्थितः।
वरयस्व वरान्मत्तो यान्यान्कामयसे ह्रदा ॥३६॥
तांस्तान्दास्यामि संतुष्टस्तपसाऽनेन सुवते ।
क उवाच ।
तदीयवाक्यमाकर्ण्य स्वस्था जाताऽदितिस्तदा ॥३७॥
बद्धांजलिपुटा दीना प्रणनाम विनायकम् ।
अवदच्च तदा देवमतर्क्यं मनसा सदा ॥३८॥
अदितिरुवाच ।
त्वमेव सृजसे विश्वं प्रासि हंस्यखिलेश्वरः ।
नित्यो निरंजनो देवो निर्गुणो निरहंकृतिः ॥३९॥
नानारूपधरो नित्यो योगगम्योऽखिलार्थकृत् ।
इदानीं सौम्यरूपेण वरं देहि विनायक ॥२.५.४०॥
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।
तदा मे पुत्रतां याहि ततो मे कृतकृत्यता ॥४१॥
ततस्ते सेवनं यास्ये साधूनां पालनं भवेत् ।
दुष्टानां निधनं देव लोकानां कृतकृत्यता ॥४२॥
विनायक उवाच ।
अहं ते पुत्रतां यास्य पास्ये साधूंश्च कंटकान् ।
हनिष्ये सकलां वांछां पूरयिष्ये तवापि च ॥४३॥
क उवाच ।
एवमुक्त्वाऽन्तर्दधेऽसो देवदेवो विनायकः ।
सादितिः कश्यपं गत्वा सर्व वृतान्तमब्रवीत् ॥४४॥
अदितिरुवाच ।
तवाज्ञया गताऽरण्यं तपस्तप्तं महत्तरम् ।
वरं दातुं महोरूप आगतोऽसौ गजाननः ॥४५॥
दृष्ट्वा स्वरूपं भीताऽस्मि ततो प्रार्थि विनायकः ।
तेन नानाविधा दत्ता वरा मे मुनिसत्तम ॥४६॥
यास्ये पुत्रत्वमित्युक्त्वाऽन्तर्दधेऽसौ विनायकः ।
सिद्धकार्या तव बलादागता स्वाश्रमं मुने ॥४७॥
क उवाच ।
इति तस्या वचः श्रुत्वा वरदानं सुधोपमम् ।
जहर्ष मुनिमुख्योऽसौ तया सह मुनीश्वर ॥४८॥
रेमाते परयप्रीत्या अमृतादिव निवृतौ ॥४९॥ (२११)
इति श्रीमदादि श्रीमन्महागाणेशपुराणे क्रीडाखंडे पंचमोऽध्यायः ॥५॥