गणेशपुराणम्/खण्डः १ (उपासना खण्डः)/अध्यायः ५६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५५ गणेशपुराणम्/खण्डः १ (उपासना खण्डः)
अध्यायः ५६
अज्ञातलेखकः
अध्यायः ५७ →

भृगुरुवाच ।
एवं ते कथितं राजन् माहात्म्यं सकलं मया ।
पुनश्च शृणु व्यासेन यच्छ्रुतं ब्रह्मणो मुखात् ।। १ ।।
सोमकान्त उवाच ।
कथं श्रुतं ब्रह्ममुखाद् व्यासेनामितबुद्धिना ।
न तृप्तिमधिगच्छामि तन्मे वद महामुने ।।२।।
भृगुरुवाच ।
एवं श्रुत्वा कथां व्यासोऽपृच्छद् ब्रह्माणमादरात् ।
स चापि कथयामास सादरं पृच्छतेऽनघ ।। ३ ।।
व्यास उवाच ।
पुनः कथय मे ब्रह्मन गणनाथ कथां पराम् ।
तृष्णा मे वर्धते भूयः श्रोतुं विघ्नेश सत्कथाम् ।।४।।
ब्रह्मोवाच ।
अपरां शृणु मे व्यास कथां कौतुकसंयुताम् ।
शूरसेन प्रभृतिभिरनुभूतां गजाननीम् ।।५ । ।
मध्यदेशेभवद्राजा शूरसेनो महाबली ।
सहस्राख्य पुरे रम्ये वेदवेदांग पारगः ।।६।।
धनवान् रुपवान् दाता होता पाता जनस्य ह ।
शक्तित्रययुतो मानी षाड्गुण्य परिनिष्ठितः ।।७।।
उपायानां चतुर्णां च चालने चतुरोऽरिहा ।
चतुर्विध बलोपेतो द्विजदेवेषु भक्तिमान् ।।८।।
पृथिवीमंडलं यस्य वशवर्त्यभवत्सदा ।
नगरं शक्रनगराद्विशिष्टं भाति भूतले ।।९। ।
यस्य पत्नी पुण्यशीला नाम्नाऽभूत् पुण्यशालिनी ।
यस्या रुपेण सदृशी नासीत् त्रैलोक्यमंडले ।। 1.56.१ ०।।
पातिव्रत्य गुणैर्यस्या लज्जां प्राप्ताऽप्यरुंधती ।
असूया त्यागयोगेनाप्यनसूयाऽभवल्लघुः ।। ११ ।।
स कदाचिन्नृपोऽमात्यैः संवृतो वीरसत्तमैः ।
उपविष्टो नृपसभां ददृशे गगनेचरम् ।। १ २।।
विमानं वह्निसदृशं नेत्रतेजोहरं परम् ।
गान श्रवण सक्तास्ते राज्ञा सह सभासदः ।। १३ । ।
विह्वलास्ते किं किमिति ज्ञातुं दूतानचोदयन् ।
ते दूता प्रागमन्द्रष्टुं विमानं सूर्यसन्निभम् ।। १४।।
कस्यचिद्वैश्यपुत्रस्य राजदूतस्य कुण्डिन. ।
पतितं दृष्टिपातेन तद्विमानं महीतले ।। १५।।
ततो दूताः समागम्य शशंसुः नृपतिं तदा ।
तद्विमानं महाराज पुण्यकृद्देव संयुतम् ।। १ ६।।
दैदीप्यमानं पतितं दुष्टदृष्ट्या महीतले ।
ततोऽति हर्षितो राजा प्रकृतिद्वयसंयुतः ।। १७।।
अश्वारुढो ययौ तत्र विमानं द्रष्टुमत्सुकः ।
मन्यमानो महाभाग्यं स्वजनैः परिवारितः ।। १८।।
अनेकवाद्य निर्घोषैः विमानस्यान्तिकं ययौ ।
ददृशुस्तत्र शक्रं वै नमुरुत्तीर्य यानतः ।। १९।।
नानालंकार संयुक्तं सर्वदेवगणैर्युतम् ।
बद्धांजलिपुटो राजा प्रोवाच बलसूदनम् ।।1.56.२ ० ।।
धन्येयमद्य धरणी धन्यं जन्म च संपदः ।
पूर्वजाः सर्वचक्षूंषि धन्यान्यद्य शचीपते ।। २१ ।।
यद्दर्शनं मृत्युलोके भवतां सानुगस्य मे ।
यस्य ते वशगा लोका ब्रह्मेशानादयः सुराः ।।२ २ ।।
शताश्वमेधतो दृश्यो नान्यथा जायते क्वचित् ।
न जाने केन पुण्येन सोऽद्य दृष्टोऽखिलैर्जनै ।।२ ३।।
इदं च ते विमानं यत् कथं निपतितं भुवि ।
एतन्मे संशयं देव छेत्तुमर्हसि सांप्रतम् ।।२४।।
यतवान्कुत्र च भवान्गन्ता वा शंस मे प्रभो ।
शक्र उवाच ।
राजन् शृणु महाश्चर्यं कथितं नारदेन मे ।।२५ ।।
तदहं कथयिष्ये त्वां शृणुष्वैकमना नृप ।
नारद उवाच ।
मृत्युलोकं गतः शक्र भ्रुशुंडेराश्रमं प्रति ।
गणेशस्य स्वरूपेण तिष्ठतो जपतोऽनिशम् ।। २६। ।
तद् ध्यानात्तत्स्वरूपस्य दृष्टं कौतुकमद्भुतम् ।
पूजितस्तेन मुनिना गजानन स्वरुपिणा ।। २७।।
न वा तं मुनिमापृच्छ्य दर्शनार्थे तवागत ।
भूमौ सारूप्यता नैव दृष्टाऽन्यत्र शतक्रतो ।।२८।।
शक्र उवाच ।
अहं च नारदं पूज्य विसृज्य च क्षणेन तम् ।
अत्युत्सुकतया यातो मुनिं दृष्टुं तथाविधम् । ।२९ । ।
विमानवरमास्थाय मनोमरुत वेगवत् ।
मुनिं दृष्टवा च संपूज्य द्विरदाननरूपिणम् ।। 1.56.३० ।।
भ्रुशुंडिं प्रणिपत्याथ तस्य पूजां प्रगृह्य च ।
चलितः सपरीवारो गन्तुकामोऽमरावतीम् ।। ३१ ।।
यावत्ते नगराभ्याशे विमानमिदमागतम् ।
तावद् दूतस्य ते दृष्ट्या कुष्ठिनः पापकारिणः ।। ३२ ।।
पतितं भूमिभागेऽस्मिन्सर्वं ते कथितं नृप ।
शूरसेन उवाच ।
तपसा केन वा शक्र गजानन स्वरुपता ।। ३३ ।।
प्राप्ता भ्रुशुंडिना तेन तद्वदस्व मम प्रभो ।
न हि मे तृप्तिरस्तीह शुण्वतस्तत्कथामृतम् ।।३४।।
इति श्री गणेशपुराण उपासनाखंडे षट्पचाशत्तमोऽध्यायः ५६ ( २४६३)