सामग्री पर जाएँ

गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः १६-२०

विकिस्रोतः तः
← अध्यायः १५ गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायाः १६-२०
[[लेखकः :|]]
अध्यायाः २१-२५ →

अध्याय १६ प्रारंभः –
राजोवाच ॥
श्रुत्वा कथां गणेशस्य हर्षश्चेतसि जायते ।
पुनश्च वद विप्रर्षे न तप्यामि कथामृतम् ॥१॥
अन्तर्हिते भगवति गणेशे परमात्मनि ।
कथं विनिर्ममे सृष्टिं ब्रह्मा तद्वर्णय प्रभो ॥२॥
यच्चाग्रे कथयामास व्यासायाख्यानकं विधिः ।
तदहं विस्तरेणैव श्रोतुमिच्छामि सन्मुने ॥३॥
भृगुरुवाच ॥
सिद्धक्षेत्रस्य माहात्म्यं व्यासायाकथयत्प्रभुः ।
आनुपूर्व्येण तत्तेऽहं कथयिष्येऽसृजच्च यत् ॥४॥
स ब्रह्मा निर्ममे पूर्वं मनसा सप्त पुत्रकान् ।
आह तान् सृष्टिसाहाय्यं सृजध्वं स्वस्वबुद्धितः ॥५॥
ते तु तद्वचनं श्रुत्वा तपसे कृत निश्चयाः ।
तपस्तप्त्वा सुविपुलं परं ब्रह्म समागताः ॥६॥
ततोऽन्यान् कल्पयामास सप्तपुत्रान् प्रजापतिः ।
तेऽत्यन्त ज्ञानसंपन्ना न चक्रुः सृष्टिमुत्तमाम् ॥७॥
मत्तः स्वयं समारेभे सनकादीन् विलोक्य तान् ।
मुखतो ब्राह्मणानग्निमसृजत् कमलासनः ॥८॥
बाहुरुपादतोऽन्यां स्त्रीन् वर्णाश्चन्द्रमसं ह्रदः ।
चक्षुभ्यां च रविं श्रोत्रान् मारुतं प्राणमेव च ॥९॥
अन्तरिक्षं तथा नाभेः शिरसो दिवमेव च ।
भूमिं पद्भ्यां दिश: श्रोत्रादन्याँल्लोकानकल्पयत् ॥१.१६.१०॥
अन्यदुच्चावचं विश्वं स्थावरं जंगमं च यत् ।
समुद्रान् सरितः शैलां तृण गुल्म महीरुहान् ॥११॥
ततः कतिपयाहः सु गतेषु मुनिसत्तमाः ।
निद्रितस्य महाविष्णोः श्रोत्राज्जातौ महासुरौ ॥१२॥
मधु कैटभ नामानौ विख्यातो भुवनत्रये।
दंष्ट्राकरालवदनौ पिंगाक्षौ दीर्घनासिकौ ॥१३॥
महाकायौ महासारावत्युच्चौ पर्वताविव ।
वर्षा मुदिर शब्दौ तौ गर्जन्तौ भृशगर्वितौ ॥१४॥
वचोभिर्बहुभिर्दुष्टो धिक्कारं तस्य चक्रतुः।
विप्रान् देवान् ऋषीन् साधून् शास्त्राणि च निनिन्दतुः ॥१५॥
तयोः शब्देन धरणी चकम्पे शेष एव च ।
उद्विग्नभासित् सकलं ब्रह्मांडं स्वनस्तयोः ॥१६॥
ततस्तौ क्रोध रक्ताक्षौ कं तं खादितुमुद्यतौ।
ततोऽसौ वरदां देवीं विष्णु मोहनकारिणीम् ॥१७॥
विष्णुनेत्रगतां निद्रां तुष्टाव कमलासनः ।
मधुकैटभनाशाय प्रबोधाय हरेरपि ॥१८॥
गजानन प्रसादेन विष्णु हस्तात्तयोर्वधम् ।
ज्ञात्वा सम्यग् विचार्यैव चिंता हर्ष समन्वितः ॥१९॥
ब्रह्मोवाच ॥
स्वाहा स्वधा रूपधरा सुधा त्वं मात्रार्धं मात्रा स्वरूपिणी च ।
कर्त्री च हर्त्री जननी जनस्य सतोऽसतः शक्तिरसि त्वमेव ॥१.१६.२०॥
श्रुतिः स्वरा कालरात्रिरनादि निधना क्षपा।
जगन्माता जगद्धात्री सृष्टि स्थित्यंतकारिणी ॥२१॥
सावित्री च तथा संध्या महामाया तृषा क्षुधा ।
सर्वेषां वस्तुजातानां शक्तिस्त्वमसि पार्वति ॥२२॥
त्रैलोक्यकर्ता त्वन्नाथो दैत्यदानवसूदनः ।
निद्रया व्याप्तलित्तौऽसौ ज्ञानविज्ञानवान्हरिः ॥२३॥
जगदुत्पाद्यते येन पाल्यते हियतेपि च ।
सोऽपि त्वयाऽवताराणां संकटे विनियोज्यते ॥२४॥
दुष्टात्मानौ मोहयैतौ त्वं दैत्यौ मधुकैटभौ ।
हन्तुमेतौ दुराधर्षौ ज्ञानमस्य प्रदीयताम् ॥२५॥
अहमाराधितश्चाभ्यां पूर्वजन्मन् यतद्रितम् ।
वरान् बहुविधान् प्रादामवध्यौ मम तावुभौ ॥२६॥
तयोरुच्चावचां शब्दा ततोऽहमसहं बहु।
मामेव हंतुकामौ तौ स्तुतौ नानाविधै स्तवैः ॥२७॥
तथापि मद्वधात्तौ न निवृत्तौ दुष्टभावतः ।
अतस्त्वां प्रार्थये देवि विष्णु बोधन हेतवे ॥२८॥ (५९८)
इति श्रीगणेशपुराण उपासनाखंडे देवीप्रार्थनं नाम षोडशोऽध्यायः ॥१६॥

अध्याय १७ प्रारंभः –
यावत्तिष्ठते विष्णुस्तावत्ताभ्यां त्रिविष्टपम् ।
आक्रांतमिन्द्रसदनम् याम्यं कौबेरमेव च ॥१॥
तौ दृष्ट्वा सर्वतो देवाः पलायनपरा बभुः ।
निपेतुर्बभ्रमुः केचिन् मुमूर्च्छुश्च स्खलुः परे ॥२॥
ततो देव्या विनिर्मुक्तो निद्रया हरिरीश्वरः ।
आश्वास्य सर्वं देवांस्तां स्तांभ्यां युद्धं चकार ह ॥३॥
आक्रमं सर्वदेवानां कृतं ताभ्यां निवारितुम् ।
शेषादि स वै नागानां मुनीनां यक्षरक्षसाम् ॥४॥
शुशुभे स हरिस्तत्र शंखचक्रगदाधरः।
किरीट कुंडलधरो नीलमेघ घनच्छविः ॥५॥
ततः स भगवान् शंखं प्रदध्मौ भृश वेगवान् ।
तेन शब्देन महता क्षोभयामास रोदसी ॥६॥
पांचजन्यस्वनं श्रुत्वा बिभिदै हृदयं तयोः ।
ततस्तौ भयसंविग्नौ परस्परमथोचतुः ॥७॥
भूमंडलं च पातालं स्वर्गाणामेकविंशतिः ।
आक्रान्ताः सम्यगावाभ्यां तदाऽयं न श्रुतः स्वनः ॥८॥
वज्रसारमयं येन चकंपे हदयं द्वयोः ।
तस्मादनेन योद्धव्यं पुरुषेण बलीयसा ॥९॥
रणकंडूति शांत्यर्थं विजयायेतराय वा ।
रिपुमेनं हनिष्यावो गच्छावो वा पुनर्भवम् ॥१.१७.१०॥
एवं तौ निश्चयं कृत्वा युयुत्सुं हरिमूचतुः ।
रणकंडूति शांत्यर्थं दृष्टोऽसि पुरूषोत्तम ॥११॥
कथमुत्तमतां यासि आवयोर्दृष्टिगोचरः ।
मुनिरुवाच ॥
इति वाक्यं तयोः श्रुत्वा जगाद विष्टरश्रवाः ॥१२॥
हरिरुवाच ॥
सम्यगुक्तं महादैत्यौ यथेष्टं युध्यतं मया।
न हि कामयते कश्चिन्मरणं स्वयमा मनः ॥१३॥
तावूचतुः ।
चतुर्भुजोऽसि देवेश बाहुयुद्धं ददस्व नौ ।
मुनिरुवाच ॥
एवमुक्तो हरिस्ताभ्यां तथेत्याह मुदान्वितः ॥१४॥
त्यक्त्वायुधानि युयुधे द्वाभ्यामेकच्चतुर्भुजः ।
जघ्नतुस्तौ शिरो मूर्ध्ना जंघाभिरथ जंघयोः ।
कूपरो कूपरैः स्वीयैर्बाहु बाहुभिरेव च ॥१५॥
गुल्फौ गुल्फैः कटिं ताभ्यां नासिकाभ्यां च नासिकाम् ।
मुष्टिभ्यां मुष्टिदेशं च पृष्ठाभ्यां पृष्ठमेव च ॥१६॥
आस्फोटनविकर्षाभ्यां बाहुभिर्मंडलैरपि ।
एवं परस्परं युद्धं प्रापर्तत चिरं तदा ॥१७॥
सहस्रं पंचगुणितमतिक्रान्तं महामुने।
वर्षाणां न तु तौ जेतुं शशाक हरिरीश्वरः।
ततो दधार रूपं स गांधर्वं गीतकोविदम् ॥१८॥
गत्वा वनांतरं चारू वीणागानं चकारः सः ।
हरिणाः श्वापदा लोका देव गन्धर्व राक्षसाः ॥१९॥
स्व स्व व्यापाररहिता सर्वे तत्परतां ययुः ।
आलापं तस्य गिरिशः कैलासे श्रुतवान्मुहुः ॥१.१७.२०॥
निकुंभं पुष्पदंतं च जगाद भगनेत्रहा ।
एतमानयतं शीघ्रं योऽसौ गायति कानने ॥२१॥
तौ गत्वा दर्शनं तस्य गृहीत्वा वै तमूचतुः ।
तव गीतस्वनं श्रुत्वा शंकरो हर्षनिर्भरः ॥२२॥
त्वां समाह्वयते देवो गानं श्रुंतुं तवानघ ।
आवाभ्यां सह याहि त्वं शीघ्र याम तदंतिकम् ॥२३॥
तयोर्वाक्यमिति श्रुत्वा गंधर्वो हरिभक्तिमान् ।
ताभ्यां सह ययौ तत्र यत्र देवो महेश्वरः ॥२४॥
ददर्श पार्वतीकांतं चंद्रार्धकृतशेखरम् ।
गजचर्म परीधानं रुंडमाला विभूषितम् ॥२५॥
राजत् पिंगटजटाभारं सर्पयज्ञोपवीतिनम् ।
ननाम भुवि विश्वेशं प्रणतार्तिविनाशनम् ॥२६॥
उत्थाप्य गिरिशः स्वेन पाणिना तदधोक्षजम् ।
आसनं च ददौ तस्मै पूजयामास शंकरः ॥२७॥
ततो जगाद स हरिरद्य मे सफलं जनुः ।
यतोऽद्य दर्शनं तेऽभूद्धर्मकामार्थमोक्षदम् ॥२८॥
तोषयामास तं देवं गंधर्वो गानतत्परम् ।
वीणारवैः कलपदैरालापैर्विविधैरपि ॥२९॥
स्कंदं गणेश्वरं देवीं पार्वतीं च सुरानृषीन् ।
ततो महेश्वरः प्रीत्या लिलिंग प्रकटं हरिम् ॥१.१७.३०॥
शंख चक्र गदा पद्म पीतांबरधरं शुभम् ।
उवाच च हरे मत्तो वृणु कामानशेषतः ॥३१॥
दास्यामि तव गानेन परा मुदमुपागतः ।
भृगुरुवाच ॥
तत ऊचे स्वभूस्तं तु वृत्तान्तं दैत्ययोः परम् ॥३२॥
हरिरुवाच ॥
मयि क्षीराब्धिशयने निद्रिते मधुकैटभौ ।
उत्पन्नौ कर्णमलतो ब्रह्माणं भक्षितुं गतौ ॥३३॥
तेन निद्रा स्तुता भर्ग तयाऽहं प्रतिबोधितः ।
युद्धं च कृतवांस्ताभ्यां मल्ल लीलामुपागतः ॥३४॥
नास्मि शक्ताविलेतुं तौ तत एतत्कृतं मया ।
इदानीं तद्वधोपायं वद मे करुणानिधे ॥३५॥
भर्ग उवाच ।।
विनायकमनर्च्यैव गतोऽसि रणभूमिकाम् ।
शक्तिहीनश्च तेनासि सुभृशं क्लेशवानपि ॥३६॥
गणेशं पूजयित्वैव व्रज युद्धाय मारिष ।
स च तौ मायया मोह्य वशतां प्रापयिष्यति ॥३७॥
मत्प्रसादेन दुष्टौ तौ वधिष्यसि न संशयः ।
हरिरुवात्र ।।
कथं विनायकं देवमुपासे भर्ग तद्वद ॥३८॥
ईश्वर उवाच ॥
उक्ता गणेश्वरस्यैव मंत्रणां सप्तकोटयः ।
तत्रापि च महामंत्रास्तेष्वप्येकाक्षरो महान् ॥३९॥
षडक्षरश्च भगवं स्तयोरेकं वदामि ते ।
तत एकाक्षरं त्यक्त्वा सिद्धारिचक्रयोगतः ॥१.१७.४०॥
ऋणं धनं शोधयित्वा तं जगाद षडक्षरम् ।
महामंत्रं गणेशस्य सर्वसिद्धिप्रदं शुभम् ॥४१॥
अस्यानुष्ठानमात्रेण कार्यं ते सिद्धिमेष्यति ।
ततो जगाम स हरिरनुष्ठानाय सत्वरः ॥४२॥ (६४०)
इति श्रीगणेशपुराण उपासनाखंडे मंत्रोपदेशोनाम सप्तदशोऽध्यायः ।।१७॥

अध्याय १८ प्रारंभः –
सोमकांत उवाच ॥
कथं जजाप हरिः कुत्र वा मंत्रमुत्तमम् ।
सिद्धिं चावाप स कथं वद ने तत् सविस्तरम् ॥१॥
भृगुरुवाच ॥
सिद्धिक्षेत्रमिति ख्यातं भुवि सिद्धिकरं परम् ।
तत्र गत्वा महाविष्णुस्तताप परमं तपः ॥२॥
ध्यायन् विनायकं देवं षडक्षरविधानतः ।
आराधयामास तदा जित्वा खानि प्रयत्नतः ॥३॥
बाणास्त्रेण तु कृत्वैव पूर्वं दिग्बंधमादृतः ।
भूतशुद्धिं विधायैव प्राणानां स्थापनं तथा ॥४॥
कृत्वांतर्मातृका न्यासमाधारादि क्रमेण तु ।
बहिश्च मातृका न्यासं मस्तकादि क्रमेण च ॥५॥
प्राणानायम्य मूलेन ध्यात्वा देवं गजाननम् ।
आवाहनादि मुद्राभिः पूजयित्वा मनोमयैः ॥॥
द्रव्यैर्नानाविधैश्चैव षोडशैश्चौपचारकैः ।
जजाप परमं मंत्रं विष्णुर्योगेश्वरेश्वरः ॥७॥
गते वर्षशते काले परमात्मा गणाधिपः ।
प्रत्यक्षतां ययौ तस्य कोटिसूर्याग्निसन्निभः ॥८॥
अति प्रसन्नहृदयो बभाषे गरुडध्वजम् ।
याचस्व त्वं वरान्मत्तो यांस्त्वं कामयसे हरे ॥९॥
ददामि तानहं सर्वांस्तपसाऽनेन तोषितः ।
पूर्वमेवार्चितः स्यां चेद्विजयस्ते ध्रुवं भवेत् ।।१.१८.१०॥
हरिरुवाच ॥
ब्रह्मेशानाविन्द्रमुख्याश्च देवां यं त्वां द्रष्टुं नैव शक्तास्तपोभिः ।
तं त्वां नानारूपमेकस्करूपं पश्ये व्यक्ताव्यक्त रूपं गणेशम् ।।११॥
त्वं योऽणुभ्योऽणु स्वरूपो महद्भ्यो व्योमा दिभ्यस्त्वं महान्सत्वरूपः ।
सृष्टिं चान्तं पालनं त्वं करोषि वारंवारं प्राणिनां दैवयोगात् ॥१२॥
सर्वस्यात्मा सर्वगं सर्वशक्तिः सर्वव्यापी सर्वकर्ता परेशः ।
सर्व द्रष्टा संहारकर्ता पाता धाता विश्वनेता पिताऽपि ॥१३॥
एतादृशस्य ते देव दर्शनान्मम सिद्धयः ।
संभविष्यन्ति सर्वत्र तथाऽप्येकं वदामि ते ॥१४॥
ममैव योगनिद्रान्ते श्रुतेर्मलसमुद्भवौ।
मधुकैटभौ महासत्वौ कं खादितुमुद्यतौ ।।१५।।
ताभ्यामहं ततो युद्धं कृतवान् बहुवत्सरम् ।
ततः क्षीणबलं स्वाऽहं शरणं समुपागतः ।
अतो यथा तयोर्मत्तो वधः स्यात्तद्विचार्यताम् ॥१६॥
अन्येषामपि दैत्यानां जयेन यश उत्तमम् ।
देहि मे परमेशान भक्तिं ते ह्यनपायिनीम् ॥१७॥
यया मे कीर्तिरतुलां त्रैलोक्यं पावयिष्यति ।
गणेश उवाच ॥
यद्यत्ते प्रार्थितं विष्णो तत्तत्ते भविता ध्रुवम् ॥१८॥
यशो बलं परा कीर्तिरविघ्नश्च भनिष्यति ।
मुनिरुवाच ॥
एवमुक्त्वा महाविष्णुं तत्रैवान्तर्दधे विभुः ॥१९॥
तत आनंदपूर्णोऽसौ मेने तावसुरौ जितौ।
प्रासादं निर्ममे तत्र स्फाटिकं भूरि रत्नकम् ॥१.१८.२०॥
लसत्कांचन शिखरं चतुःद्वारं सुशोभनम् ।
प्रतिमां स्थापयामास गंडकीयोपलैः कृताम् ॥२१॥
देवाश्च मुनयः सिद्धिर्विनायक इति प्रथाम् ।
चक्रुरत्र यतः सिद्धिः प्राप्तेयं हरिणा शुभा ॥२२॥
सिद्धक्षेत्रं ततस्तत्तु पप्रथे भुवि सर्वशः ।
ततो जगाम स हरिर्यत्र तौ मधुकैटभौ ॥२३॥
दृष्ट्वा तौ हरिमायांतं जहसतुर्निनिन्दतुः ।
मेघश्यामं मुखं तेऽद्य दर्शितं नौ कुतः पुनः ॥२४॥
आवां तु ते महामुक्तिं दास्यावोऽतः पुनः किल ।
लघुतां च प्रयातोऽसि किमर्थं रणमागतः ॥२५॥
हरिरुवाच ॥
सहसा दहते सर्वं लघुरेव हुताशनः ।
लघुदीपो महद्रात्रौ यथा संहरते तमः ॥२६॥
तथा वामहमद्यैव शक्तो नाशाय दुर्मदौ ।
मुनिरुवाच ।
इति तस्य वचः श्रुत्वाऽति क्रुद्धौ मधुकैटभौ ॥२७॥
सहसा जघ्नतुर्विष्णुं मुष्टिभ्यां हृदये भृशम् ।
ततः पुनर्मल्लयुद्धं तयोस्तस्य व्यवर्धत ॥२८॥
युद्ध्वा बहुदिनं ताभ्यां वरं दातुं सुमुत्सुकः ।
उवाच श्लक्ष्णया वाचा हरिस्तौ मधुकैटभौ ॥२९॥
मम प्रहारान्हि युवां सहार्थ बहुलाः समाः ।
युवयोः पुरुषार्थेन प्रीतोऽहं दैत्यपुंगवौ ॥१.१८.३०॥
युवयोः सदृशौ नैव संभूतौ न भविष्यतः।
तावूचतुः ।
अस्मत्तस्त्वं वरान् ब्रूहि दास्यावस्तान्हरे बहून् ॥३१॥
आवां हि तव युद्धेन संतुष्टौ च भृशं त्वयि ।
मुनिरुवाच॥ तयोर्वचनमाकर्ण्य मायामोहितयोर्हरिः ॥३२॥
श्रुत्वा बभाण सैत्यौ मे वरान्दातुं समुद्यतौ ।
तदा मे वध्यतां यातं वर एष वृतो मया ॥३३॥
तदा सर्वं जलमयं दृष्ट्वा तौ मधुकैटभौ।
ऊचतुः परमप्रीतौ तव हस्तान्मृतिः शुभा ॥३४॥
अन्ते त्वचिंतनात्सद्यो मुक्तिं यान्ति सनातनीम् ।
यत्र नोर्वी जलमयी तत्र नौ जहि माधव ॥३५॥
सर्वं त्यजावो नो सत्यं सत्ये सर्वं प्रतिष्ठितम् ।
मुनिरुवाच ॥
तयोरित्थं वचः श्रुत्वा जघने तौ दधार ह ॥३६॥
चक्रेण क्षुरधारेण चिच्छेद शिरसी तयोः ।
ततो देवा मुमुदिरे ववर्षुः कुसुमानि च ॥३७॥
गन्धर्वा ननृतुः सर्वे जगुरप्सरसां गणाः ।
ततस्तु विष्णुरभ्येत्य ब्रह्माणं परमेष्ठिनम् ॥३८॥
कथयामास वृत्तात्तं सर्वं हर्षविनिर्भरः ।
हरिरुवाच ॥
यदाऽशक्तो विजेतुं तौ तदाहं गिरिशं गतः ॥३९॥
शंकरेणोपदिष्टोऽहं षडर्णमन्त्रमुत्तमम् ।
आराधयमहं तेन देवं विघ्नेश्वरं विभुम् ॥१.१८.४०॥
तेन दत्ता वरा महयं नाना कामफलप्रदाः ।
तत्प्रभावान् मया दुष्टौ निहतौ मधुकैटभौ ॥४१॥
स्तुतः संपूजितः सोऽथ तदैवान्तर्दधे विभुः ।
विज्ञातो महिमा तस्य गणेशस्य महात्मनः ॥४२॥
शंकरस्य प्रसादेन हनिष्ये दैत्य दानवान् ।
देवाश्च मुनयः सर्वे स्तुत्वा देवं गजाननम् ॥४३॥
ब्रह्माणं शकरं मां च ययुः स्वं स्वं निकेतनम् ।
य इदं शृणुयान्नित्यं माहात्म्यं पापनाशनम् ॥४४॥
कस्मादपि भयं न स्याल्लभते सार्वकामिकम् ॥४५॥ (६८५)
इति श्रीगणेशपुराणे उपासनाखंडे सिद्धक्षेत्रोत्पत्तिकथनंनामाष्टादशोऽध्यायः ॥१८॥

अध्याय १९ प्रारंभः –
भृगुरुवाच ॥
श्रुत्वाख्यानमिदं व्यासः षडर्णविधिमप्यथ ।
पुनरूचे विधातारं नाति पूर्णाशयो यथा ॥१॥
व्यास उवाच ॥
सिद्धक्षेत्रस्य माहात्म्यं गणनाथस्य चैव हि।
श्रुतं पापहरं सर्वं कामदं पुण्यवर्द्धनम् ॥२॥
पुनश्च वद मे ब्रह्मन् विनायक कथानकम् ।
तृप्तिं न याति परमां पिबन्नपि कथामृतम् ॥३॥
ब्रह्मोवाच ॥
पाराशर्य महाख्यानं कथयामि तवाग्रतः ।
सर्वदेवाधिदेवस्य गणेशस्य विभोः शुभम् ॥४॥
विदर्भदेशे राजाऽभूद्दानशूरो महाबली ।
नाम्ना भीम इति ख्यातो दाता भीम पराक्रमी ॥५॥
कौंडिण्यनगरे तस्य निवासोऽभून्महामते ।
सामन्ताः करदा यस्य करदा इतरे नृपाः ।
वाजिनां वारणानां च पत्तीनां कोटयो दश ॥६॥
रथानामग्रतो यान्तं यान्ति तत्पृष्टतोऽपि च ।
ब्राह्मणानां सहस्राणि यमाश्रित्य मुदं ययुः ।
तस्य भार्या महाभागा नाम्नाऽभूच्चारुहासिनी ॥७॥
विकसत् पद्मवदना मृगशावाक्षिलोचना ।
ब्रह्मण्या दैवतपरा नित्यं धर्मपरायणा ।
पतिव्रता पतिप्राणा पतिवाक्यरता सदा ॥८॥
अपुत्रा दैवयोगेन जाता सा वरवर्णिनी।
तां निरीक्ष्य तदा भीमश्चारुसर्वांगशोभिनीम् ॥९॥
अवदद्दुःखितो वाक्यं पुत्रहीनो नृपोत्तमः ।
सर्वं राज्यं परित्यज्य गन्तव्यं वनमुत्तमम् ॥१.१९.१०॥
अपुत्रस्य गतिर्नैव स्वर्गो वा सुखमेव च ।
देवा हव्यं न गृह्णन्ति पितरः कव्यमेव च ॥११॥
वृथा मे जननी जन्म पिता गेहं धनं कुलम् ।
विफलं सकलं कर्म विना पुत्रेण निश्चितम् ॥१२॥
स एव निश्चयं कृत्वा द्वामात्यौ समाह्वयत् ।
मनोरंजन नामैकः सुमन्तुर्नामकोऽपरः ॥१३॥
आन्वीक्षिकीं त्रयीं वार्तां जानतौ षोडशीः कलाः।
आगत्य तत्क्षणादेव नृपं तं नेमतुर्मुने ॥१४॥
तावुवाच ततो भीमो राज्यं मे परिपाल्यताम् ।
मम वा मम पत्न्या वा दुरितं पूर्वजन्मजम् ॥१५॥
तेन नौ नास्ति सन्तानमुभयंत्र सुखावहम् ।
यद्यहं पुनरागन्ता तदा तन्मन दीयताम् ॥१६॥
नो चेदुभाभ्यां मे राज्यं विभज्य परिगृह्यताम् ।
एवं निश्चित्य स नृपः स्वस्तिवाचनपूर्वकम् ॥१७॥
कृत्वा दानानि बहुशो ब्राह्मणेभ्यो ययौ पुरात् ।
सपत्नीको नृपवरोऽमात्याभ्यां सह नागरैः ॥१८॥
गव्यूतिमात्रं गत्वा तु विससर्जाखिलांस्तदा ।
अमात्यावूचतु राजन्नावां यावः सहैव ते ॥१९॥
सुह्रदो नागराश्चैनं रुरुदुर्भृशदुःखिताः ।
तानुवाच न भी: कार्याऽमात्यौ वोऽधिपती कृतौ ॥१.१९.२०॥
यथाऽहं वस्तथैवैतौ पालनं स करिष्यतः ।
इति तान् समनुश्वास्य तावुवाच पुनर्नृपः ॥२१॥
दत्तं राज्यं भवद्भ्यां मे रक्षतं सर्वथा पुरम् ।
इति सर्वान् विसृज्यैव सपत्नीको ययौ पुरात् ॥२२॥
भ्रममाणो ददर्शैकं कासारं कमलैर्युतम् ।
पुष्पितं द्रुमसंशोभि नाना जलचरान्वितम् ॥२३॥
ततोऽस्य निकटे रम्यमाश्रमं पश्यतः शुभम् ।
राजा च राजपत्नी च सर्वानन्दविवर्धनम् ॥२४॥
यत्र वैरं न चक्रुस्ते जातिवैरा गजादयः ।
सिंहाश्च नकुलाः सर्पा विडाला मूषकादयः ॥२५॥
ददर्शतुस्तत्र मुनिं विश्वामित्रं कुशासने ।
शिष्यैः परिवृतं शान्तं वेदाध्ययनतत्परैः ॥२६॥
प्रणिपत्य महात्मानं कृतांजलिपुटावुभौ ।
पुनःपुनर्नमस्कारान् पादौ धृत्वा प्रचक्रतुः ॥२७॥
उत्थाप्य मुनिशार्दूलो विश्वामित्रस्तपोनिधिः ।
उवाच श्लक्ष्णया वाचा विज्ञातार्थो नृपं तदा ॥२८॥
विश्वामित्र उवाच ॥
भविता ते सुतो राजन् गुणयुक्तो सहायशाः ।
कुतस्त्वमागतः किं ते नगरं नाम तद्वद ॥२९॥
ततस्ते पापनाशार्थं यतिष्ये नृपसत्तम ।
भीम उवाच ।
विदर्भ विषये स्वामिन् कौंडिन्यं नगरं मम ॥१.१९.३०॥
भीम इत्येव नाम पत्नीयं चारुहासिनी ।
पुत्रार्थं च कृतो यत्नस्तपो दानव्रतादिभिः ॥३१॥
नागता करुणा दैवे पूर्वजन्मकृतादघात् ।
त्यक्त्वा राज्यं वने यातौ दृष्ट्वौ त्वच्चरणौ मुने ॥३२॥
भ्रमन् वनानि बहुशो दैवेनेहोपसादितः ।
साधूनां संगतिः सद्यो पदाति फलमुत्तमम् ॥३३॥
अतो मे भवदाशीर्भिर्जातः पुत्रो न संशयः ।
विद्या व्रत तपोदान यज्ञ स्वाध्यायकारिणः ॥३४॥
दया दमवतस्तेऽद्य नाशीर्व्यर्था भवेन्मुने।
परंतु कलुषं मे किं पूर्वजन्म कृतं मुने ॥३५॥
वद तत्र प्रतिकारं सर्वज्ञोऽसि मतो मम ।
ब्रह्मोवाच ॥
इति तस्य वचः श्रुत्वा विश्वामित्रो महामुनिः ।
तस्मै राज्ञे पूर्वकथां कथयामास सादरम् ॥३६॥
विश्वामित्र उवाच ॥
कुलधर्मास्त्वया त्यक्ताः श्रीमदान्धेन दुर्मते ।
वेदे शास्त्रे पुराणे च लौकिके च प्रतिष्ठिताः ॥३७॥
ते सर्वे पूर्वजा नित्यं पुपूजुर्गणनायकम् ।
तस्य क्रोधवशान्नैव सन्ततिस्तव जायते ॥३८॥
येन ते कुलदेवत्वं संप्राप्तोऽसौ गजाननः ।
भणे तत्ते महावीर शृणु सादरमादितः ॥३९॥
सप्तमः पुरुष स्वत्तः पूर्वं भीमो नृपोऽभमत् ।
रूपवान् धनसंपन्नो वल्लभो नाम सत्तमः ।
तस्यापि बहुकालेन शिशुरेकोऽभवन्नृप ॥१.१९.४०॥
अथ तस्याभवद्देहौ मूको बधिर एव च ।
अति दुर्गंधवत् पूय स्राववान् कुब्ज एव च ॥४१॥
तं दृष्ट्वा जननी त्वस्य कमला दुःखिता भृशम् ।
अचिन्तयत् स्वांतमध्ये लोके सम्यगपुत्रता ॥४२॥
नैतादृशं पुत्रवत्वं श्लाघ्यं दुःखकरं भृशम् ।
मरणं मे विधात्रा किं नास्य वा क्रियतेऽधुना ॥४३॥
कथं वा मुखद्याहं दर्शयिष्ये सुहृज्जनान् ।
एवं विलपती दुःखाद्रुरोद भृशदारुणम् ॥४४॥
श्रुत्वा तद्रुदितं भर्ता सूतिकागारमागमत् ।
दृष्ट्वा तथाविधं गालं भृश पत्नीं च दुःखिताम् ॥४५॥
बभाण मृदुवाक्येन सांत्वयन् कर्म मार्गवित् ।
मा दुःखं कुरु कल्याणि कर्मणां गतिरीदृशी ॥४६॥
पूर्वजन्मकृतात् पापाज्जायते दुःखभाङ्नरः ।
दुःखवान्सुखमाप्नोति सुखवानपि तत्पुन: ॥४७॥
न हि शोच्यो हि बालोऽयं समीचीनो भविष्यति ।
यथाऽस्य पूर्ववृत्तं स्यात्तथैवास्य भविष्यति ॥४८॥
वयं च प्रयतिष्यामो मणि मंत्र महौषधैः ।
तपोभिश्च जपैर्देवपूजा यात्रा विधानतः ॥४९॥
सम्यक् कर्तुं शिशुं सुभ्रु प्रस्तुतं यत्समाचर ।
एवं प्रबोधिता साध्वी त्यक्त्वा शोकं शिशुं ततः ॥१.१९.५०॥
क्षालयित्वा जलैस्तं तु जहर्ष सखिभिः सह ।
सर्वमाभ्युदयं चक्रे पुत्रस्य जननोचितम् ॥५१॥
पूजयामास विप्रान् स सा तत् पत्नीरनेकशः ॥५२॥ (७३७)
इति श्रीगणेशपुराणे उपासनाखंडे कमलापुत्र वर्णनं नामैकोनविंशतितमोऽध्यायः ॥१९॥

अध्याय २० प्रारंभः –
ब्रह्मोवाच ॥
ततः स ब्राह्मणान् साधून् दैवज्ञान् वेदनिष्ठितान्।
आकार्य प्रतिपूज्यादौ रत्नवासोधनादिभिः ॥१॥
पृष्ट्वा तान्दक्ष इत्येव नाम चक्रे सुतस्य सः ।
जप मंत्र प्रयोगांश्च चकारौषध संवयान् ॥२॥
स्वयं च द्वादशाब्दानि चकार परमं तपः ।
पुत्ररोगविमुक्त्यर्थं स्वसंतानस्य वृद्धये ॥३॥
नापश्यद्रोगनिर्मुक्तं पुत्रं तं स सदा नृपः ।
तदा निर्वेदमापन्नो जगाद क्रोधमूर्छितः ॥४॥
गच्छ मे भवनाद्राज्ञि कमले पुत्रसंयुता।
नेमं पुत्रं न च त्वाहं द्रष्टुं शक्त इतःपरम् ॥५॥
इति निर्भर्त्सिता तेन वल्लभेन तदा सुतम् ।
आदाय कमला तस्मान्नगरात् प्रस्थिता वनम् ॥६॥
रुदती शोकसंविग्ना दुःखिताऽश्रुप्रमार्जती।
वहन्ती पृष्ठभागे तं क्षुत्तृट्शमविकशिता ॥७॥
ग्रामाद्ग्रामान्तरं याता भिक्षाचारा भृशातुरा।
तस्करैर्लुंठितं तस्या वसनं भूषणादिकम् ॥८॥
ततो ग्रामान्तरं गत्वा न्यस्य पुत्रं शिवालये।
भिक्षायै पुरमध्ये सा बभ्राम नृपवल्लभा ॥९॥
कदाचित् सह पुत्रेण भिक्षितुं सा पुरं ययौ ।
कस्यचिद् द्विजमुख्यस्य वायुस्पर्शेन सोऽर्भकः ॥१.२०.१०॥
भक्तेरतिशयात् साक्षात्कृतो लंबोदरेण सः ।
चक्षुष्मान् श्रुतिसंपन्नो दिव्यदेहोऽभवत्तदा ॥११॥
जहर्ष कमला त्यक्त्वा सर्वं दुःखं निरीक्ष्य तम् ।
मंजुलां सुखदां वाचमुच्चरन्तं मुहुर्मुहुः ॥१२॥
तर्कयामास कमला मणिमंत्रमहौषधैः ।
अनुष्ठानैर्महाहोमैर्न सम्यग्यो बभूव ह ॥१३॥
स कथं मारुतस्पर्शात् समीचीनोऽभवत्सुतः ।
अथ तं पुरुषं क्वाहं द्रक्ष्ये दुष्कर्मनाशनम् ॥१४॥
इत्युक्त्वा सुतमालिंग्य सा तस्थौ विगतज्वरा।
तमादाय गता भिक्षां कर्तुं तन्नगरे पुनः ॥१५॥
नागरा भोजयामासुरुभावामन्त्र्य सादरम् ।
नाना पक्वान्नशाकाद्यैः शर्कराघृतपायसैः ॥१६॥
एवं प्रतिदिनं तौ तु भुक्त्वाऽनुदिवसं मुदा ।
आपतुर्धनवस्त्राणि नूतनानि वराणि च ॥१७॥
तमपृच्छन्नागरिक: पितुस्ते नाम वै वद ।
को देशः किं पुरं ज्ञातिः का च ते वृत्तमेव च ॥१८॥
इति तद्गिरमाकर्ण्य दक्षो नाम तमब्रवीत् ।
ततो मातरमागम्य पितरं नगरं कुलम् ॥१९॥
वृत्तं च परिपपृच्छ ततस्तं पुनरब्रवीत् ।
कर्नाटे भानुनगरे वल्लभो मे पिता महान् ॥१.२०.२०॥
क्षत्रियो बलसंपन्नः ख्यातो रिपुबलार्दनः ।
तस्येयं कमला जाया सुतोऽहं दक्षसंज्ञकः ॥२१॥
उत्पन्नोऽहं यदा ब्रह्मन्नन्धो बधिर एव च ।
अनेक क्षतसंपन्नो माता त्यक्तुं तदोद्यता ॥२२॥
पित्रा निषेधिता सा च यत्नं बहु तथाऽकरोत् ।
द्वादशाब्दं तपस्तप्त्वा पिता पुण्यं न्यवेदयत् ॥२३॥
न च मे पाटवं देहे पश्यति स्म पिता यदा।
तदा विसर्जयामास मातरं मां च नागर ॥२४॥
इति सर्वं जगौ तस्मै दक्षो मातृमुखोद्गतम् ।
अत्राहं सुभगो जातो वायुस्पर्शेन कस्यचित् ॥२५॥
श्रुत्वैवं तु गते तस्मिन् पुरुषे पुरवासिनि ।
दक्षो जगाम त्वरितो मातरं प्रति नन्दयन् ॥२६॥
ततस्तन्नगरे तौ द्वावुपदिष्टौ द्विजन्मना ।
गणेशाराधनविधौ करुणायुत चेतसा ॥२७॥
ततः सा कमला दक्षो निर्वाणं परमास्थितौ ।
एकांगुष्ठेन तपसा गणेशाराधने रतौ ॥२८॥
देवनाम चतुर्थ्यन्तमोंकार पल्लवान्वितम् ।
अष्टाक्षरं परं मंत्रं जपन्तौ भक्तितत्परौ ॥२९॥
वायुभक्षौ शुष्कतनू निरीक्ष्य भगवांस्तदा।
आविरासीत्तयोरग्रे करूणाब्धिर्विनायकः ॥१.२०.३०॥
चतुर्भुजो महाकायो वारणास्योऽतिसुंदरः ।
अनेक सूर्यसंकाशो निशि सूर्य इवोदितः ॥३१॥
रत्नकांचनमुक्तावन् मुकुटभ्राजिमस्तकः ।
पीतकौशेयवसनो हाटकांगदभूषणः ॥३२॥
एकजानु निपातेन सन्निविष्टो महासने ।
कटिसूत्र कांचनीयं मुद्रिकां रत्नसंयुताम् ॥३३॥
महार्हि जठरे बिभ्रदेकदंतं गजार्धकम् ।
एवं रूपं ददृशतुः पुनश्च द्विजरूपिणम् ॥३४॥
जगाद स द्विजस्तौ तु भवन्निर्वाणतोषितः ।
आगतोऽहं वरं दातुं वृणुतं मनसेप्सितम् ॥३५॥
विश्वामित्र उवाच ॥
एवं प्रसन्ने विघ्नेशे प्रत्यक्षे द्विजरूपतः ।
ननाम परया भक्त्याऽभणद् बद्धांजलिश्च तम् ॥३६॥
दक्ष उवाच ॥
पूर्वजन्मकृतं पुण्यं फलितं मे द्विजोत्तम ।
यन्मयाऽदर्शि रूपं ते द्विविधं परमं महत् ॥३७॥
वैनायकं च वैप्रं च जन्म मेऽजनि सार्थकम् ।
कारणानां परं त्वं च कारणं छन्दसामपि ॥३८॥
परं ज्ञेयं परं ब्रह्म श्रुतिमृग्यं सनातनम् ।
त्वमेव साक्षी सर्वस्व सर्वस्यान्तर्बहिस्तथा ॥३९॥
त्वमेव कर्ता कार्याणां लघुस्थूल शरीरिणाम् ।
नाना रूप्येकरूपी त्वं निरूपश्च निराकृतिः ॥१.२०.४०॥
त्वमेव शंकरो विष्णुस्त्वमेवेन्द्रोऽनलोऽर्यमा।
भूवायुखस्वरूपोऽपि जल सोमर्क्ष रूपवान् ॥४१॥
विश्वकर्ता विश्वपाता विश्वसंहारकारकः ।
चराचर गुरोर्गोप्ता ज्ञानविज्ञानवानपि ॥४२॥
भूतं भावि भवच्चैव त्वमेवेन्द्रियदेवताः ।
कला काष्ठा मुहूर्ताश्च श्रीर्धृतिः कान्तिरेव च ॥४३॥
त्वमेव सांख्य योगश्च शास्त्राणि श्रुतिरेव च ।
पुराणानि चतुःषष्टि कला उपनिषत्तथा ॥४४॥
त्वमेव ब्राह्मणो वैश्यः क्षत्रियः शूद्र एव च ।
देशो विदेशस्त्वं क्षेत्रं पुण्यक्षेत्राणि यान्युत ॥४५॥
त्वं प्रमेयोऽप्रमेयश्च योगिनां ज्ञानगोचरः ।
त्वमेव स्वर्गः पातालं वनान्युपवनानि च ॥४६॥
ओषध्योऽथ लतावृक्ष कन्दमूलफलानि च ।
अंडजा जारजा जीवाः स्वेदजा उद्भिजा अपि ॥४७॥
कामः क्रोधः क्षुधा लोभो दम्भो दर्पो दया क्षमा ।
निद्रा तन्द्री विलासश्च हर्षः शोकस्त्वमेव च ॥४८॥
विश्वामित्र उवाच ॥
इति दक्षवचः श्रुत्वा सुप्रसन्नो विनायकः ।
मेघगंभीरया वाचा स्मयन्निव जगाद तम् ॥४९॥
गजानन उवाच ॥
प्रीतोऽहं ते महाभाग स्तुत्या गंभीरयाऽनया ।
वरं दातुं समुत्कंठस्तथापि न ददामि ते ॥१.२०.५०॥
यद्यहं वरदः स्यां ते क्रुध्येद् भक्तो ममोपरि।
स एव दास्यति वरं यदैकस्य प्रभंजनात् ॥५१॥
दिव्यं देहमनुप्राप्तश्चक्षु श्रोत्र समन्वितः ।
जातस्त्वं तस्य नामापि वदामि मुद्गलेति च ॥५२॥
स ध्यातमात्रो विप्रेशः स्वरूपं दर्शयिष्यति ।
यान्यान् कामयसे कामान् स ते सर्वान् प्रदास्यति ॥५३॥
इत्युक्त्वा परमात्माऽसौ तत्रैवान्तरधीयत ।
तस्मिन्नन्तर्हिते दक्षो रुरोद भृशदुःखितः ॥५४॥
दरिद्रेण निधौ लब्धे गते तस्मिन्यथैव सः ।
गतायां गवि वत्सो वा रोरवीति यथा भृशम् ॥५५॥
मुंचन्नश्रूणि नेत्राभ्यां पपात धरणीतले।
क्व गतः क्व गत इति मुहुर्जल्पन्विनायकः ॥५६॥ (७९३)
इति श्रीगणेशपुराणे उपासनाखंडे दक्षस्तुतिर्नाम विंशतितमोऽध्यायः ॥२०॥