सामग्री पर जाएँ

गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः २१-२५

विकिस्रोतः तः
← अध्यााः १६-२० गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायाः २१-२५
[[लेखकः :|]]
अध्यायाः २६-३० →

अध्याय २१ प्रारंभः-
विश्वामित्र उवाच ॥
इतस्ततो भ्रमन् धावन् वल्लभस्यात्मजस्तदा ।
न विदेह गतं वस्त्रं भूषणं चातिविह्वलः ॥१॥
पप्रच्छ ब्राह्मणान्मार्गे वृक्षांश्चैव विनायकम् ।
विनायको गतः कुत्र क्वचिद् दृष्टो गदंतु मे ॥२॥
स एवं भ्रान्तहृदयो भ्रमच्चक्षु नृपोत्तम ।
निपपात धरापृष्ठे क्षणं विगतचेतनः ॥३॥
एतस्मिन्नंतरे स्वप्नेऽपश्यद् ब्राह्मणमग्रतः ।
दत्तं तवेप्सितं बाल मुद्गलेन मया हि तत् ॥४॥
यत्त्वया याचितं पूर्वं विघ्नेशाद् दृष्टिगोचरात् ।
इत्युक्त्वा प्रस्थिते तस्मिन् ब्राह्मणे नृपसत्तम ॥९॥
सुप्तोत्थित इव प्रायो दक्षो हृष्टमनाऽभवत् ।
कस्मैचित् परिपप्रच्छ त्वरिताय द्विजातये ॥६॥
अन्तिकं दर्शितं तेन बहुशिष्योपशोभितम् ।
मुद्गलस्यातिभक्तस्य गजाननरतस्य च ।
आश्रमं परमं दिव्यं सर्वसत्वाभयप्रदम् ॥७॥
मुद्गलं मनसा ध्यायन् भ्रमन्यातस्तदाश्रमम् ।
नानाश्चर्ययुतं रम्यमलकानन्दनातिगम् ॥८॥
ददर्श मुद्गलं तत्र परार्ध्यासनगं द्विजं ।
वेदवेदांगतत्वज्ञं सर्वशास्त्रविशारदम् ॥९॥
योगाभ्यासबलैर्नाना रूपिणं सूर्यतेजसम् ।
वैनायकीं महामूर्तिं रत्नकांचननिर्मिताम् ॥१.२१.१०॥
चतुर्भुजां त्रिनयनां नानालंकार शोभिनीम् ।
उपचारैः षोडशभिः पूजयंतं विधानतः ॥११॥
ननाम दक्षस्तं दृष्ट्वा दंडवत् पृथिवीतले।
मुंचन्नश्रूणि नेत्राभ्यां निश्वसंश्च मुहुर्मुहुः ॥१२॥
विश्वामित्र उवाच ॥
पप्रच्छ मुद्गलस्तं तु कस्त्वं कस्मादिहागतः ।
नुदामि दुःखं किं तेऽस्ति वद सर्वमशेषतः ॥१३॥
एवं विप्रवचः श्रुत्वा कमलानन्दनस्तदा।
सावधानमना भूत्वा जगाद द्विजपुंगवम् ॥१४॥
दक्ष उवाच ॥
सत्यमेव वदे ब्रह्मन्नभिप्रायं तवान्तिके ।
कर्णाटदेशे राजाऽभून्नगरे भानुसंज्ञिके ॥१५॥
वल्लभो नाम नीतिज्ञो ज्ञानी दाता दयान्वित: ।
तस्य पत्नी तु कमला जनयामास मां यदा ॥१६॥
तदा दुर्गन्धिक्षतयुक् शोणितस्राविनासिकः ।
अंधः कुब्जः कर्णहीनः शब्दहीनः श्वसन्बहु ॥१७॥
अभवन्नागरा दृष्ट्वा त्यजैनमिति चाब्रुवन् ।
पिता मे द्वादशाब्दानि नानायत्नमथाकरोत् ॥१८॥
शरीरपाटवार्थं मे नालभत्तन्महेश्वरात् ।
उपायं स ततो मां च मातरं कमलां च मे ॥१९॥
बहिर्निष्कासयामास निर्दयेनान्तरात्मना ।
ततो मे जननी खेदादटमाना पुरं पुरम् ॥१.२१.२०॥
आगत्य कौंडिन्यपुरं महा सह क्षुधार्दिता ।
भिक्षाटने क्रियमाणे पूर्वपुण्यप्रभावतः ॥२१॥
अभवद्दर्शनं तेषामन्धस्येव यथा दृशिः ।
तव गात्रभवाद्वायोः स्पर्शाद्दोषा गता मम ॥२२॥
रघुनाथांघ्रिसंस्पर्शादहल्याया यथा पुरा।
दिव्यदेहं समापन्नः प्रसादात्तव सुव्रत ॥२३॥
न मया विदितं किचिज्जनन्या मे निवेदितम् ।
अहं च विस्मितो भूत्वा निश्चयं कृतवान् हृदि ॥२४॥
यदंग वायुस्पर्शेन दिव्यदेहमहं गतः ।
तद्दर्शनं यदा स्यान्मे तदा देहं धराम्यहम् ॥२५॥
एवं भ्रमन्बहुदिनं ततोऽसौ करुणानिधिः ।
आविरासीन् मत्पुरतः कोटिसूर्यसमप्रभः ॥२६॥
उभयोस्तपसा तुष्टो देवदेवो गजाननः ।
तं दृष्ट्वा कमला कामान् संप्राप्ता मनसीप्सितान् ॥२७॥
ततो मामब्रवीद्देवः प्रसन्नो मंजुलां गिरम् ।
यदर्थं नियमं कृत्वा भ्रमन्खेदमुपागतः ॥२८॥
सोऽहं ते दर्शनं यातो मुद्गलो ब्राह्मणोत्तम ।
श्रुत्वा तद्वचनं हृष्टमभवन्मानसं मम ॥२९॥
ततो गजाननमहं स्तुतवान् विविधैः स्तवैः ।
उवाच सुप्रसन्नात्मा वरं वृणु महामते ॥१.२१.३०॥
अहं चाकथयं तस्मै यद्यन्मे मनसीप्सितम् ।
ततो ब्राह्मणरूपं तत् त्यक्त्वाऽन्यद्रूपमादधे ॥३१॥
चतुर्भुजं महाकायं मुकुटाटोपमस्तकम् ।
परशुं कमलं मालां मोदकानावहत्करैः ॥३२॥
दिव्याम्बरधरं भ्राजद्विषाण करपुष्करम् ।
कुंडले प्रावहच्छ्रुत्योः सूर्यबिम्बे इवापरे ॥३३॥
दिव्यालंकारसंयुक्तं भुजंगवलयोदरम् ।
देवर्षि गंधर्वगणैः किन्नरैरुपशोभितम् ॥३४॥
तत आनन्दपूर्णोऽहं दृष्ट्वा रूपं तथाऽभवम् ।
पूर्णचंद्रं यथा दृष्ट्वा पूर्णो भवति वारिधिः ।
तेनोक्तं मुद्गल: सर्वान् कामांस्ते परिपूर्यति ॥३५॥
तदेवांतर्हितं रूपं दृष्टं यावन्न सादरम् ।
यथा स्वप्नगतं सर्वं जागरे नैव दृश्यते ॥३६॥
ततोऽहं नितरां खिन्नो न्यपतं भुवि मूर्च्छितः।
प्रतिलभ्य ततः संज्ञां वरं वृण्विति संस्मरन् ॥३७॥
ययाचे देवदेवेशं सर्वव्यापिनमीश्वरम् ।
गृहे मे सुस्थिरा लक्ष्मीर्भक्तिर्मे तादृशी तव ॥३८॥
दृष्टश्चेत् पूर्वपुण्येन द्वयमेतत् प्रदीयताम् ।
ततोऽहं श्रुतवान्दत्तमिति वाचं नभोगताम् ॥३९॥
ततो हृष्टमना विप्र तव सान्निध्यमागतः ।
मुद्गलस्त्वं द्विपास्योऽसौ द्विपास्यस्त्वं स मुद्गलः ॥१.२१.४०॥
इति मे मनसि स्पष्टं भाति सर्वं गजाननः ।
भृगुरुवाच॥
इति तद्वचनं श्रुत्वा मुद्गलो वाक्यमब्रवीत् ॥४१॥
सभाग्यः कृतकृत्योऽसि भक्तिमान् कमलासुत ।
महिमा तव भक्तेर्हि वक्तुं शक्यो न केनचित् ॥४२॥
तपामि सुदृढं चाहं दशवर्षशतं तपः ।
न म एतादृशो देवो दृष्ट आसीत् कदाचन ॥४३॥
यः सर्वजगतां नाथश्चराचर गुरोर्गुरुः ।
यो रजः सत्व तमसां नेना नित्यं गुणाश्रयः ॥४४॥
यो ब्रह्मशिवविष्णूनां शरीराणि करोति हि ।
भूतानां च विभूतीनां मात्रेन्द्रिय धियामपि ॥४५॥
यं न देवा विदुः सम्यक् न वेदा नर्षयोऽपि च ।
एवं गजाननं त्वं हि प्रत्यक्षं दृष्टवान् स्फुटम् ॥४६॥
अहं त्वच्चरणौ वन्दे यतस्त्वं भक्मिान्परः ।
ततः परस्परं तौ तु नेमतुश्चालिलिंगतुः ॥४७॥
गुरुबंधू चिरंकालमेकचित्तौ समागतौ।
तत एकाक्षरं मंत्रं संजप ध्यानपूर्वकम् ॥४८॥
मुद्गलो राजपुत्राय नम्रायोपदिदेश ह।
उवाच चैनं भूयोऽपि मंत्रस्यास्य दिनेदिने ॥४९॥
अनुष्ठानं कुरुष्व त्वं प्रसन्नस्ते भविष्यति ।
गजाननो ददेत् कामान् मनसा वांछितांस्त्वया ॥१.२१.५०॥
एनं चेत्त्यजसे मन्त्रं सर्वशो नाशमेष्यसि ।
यद्यस्य भक्ति सुचिरं लोकेऽस्मिन् विचरिष्यसि ॥५१॥
इन्द्रादिलोकपालानां गणो वश्यत्वमेष्यति ।
इह भुक्त्वाऽखिलान् भोगानन्ते मोक्षमवाप्स्यसि ॥५२॥ (८४५)
इति श्रीगणेशपुराणे उपासनाखंडे मन्त्रोपदेशवर्णनं नामैकविंशतितमोऽध्यायः ॥२१॥

अध्याय २२ प्रारंभः –
राजोवाच ॥
आश्चर्यभूतं कथितं दक्षपुत्रस्य चेष्टितम् ।
विस्मयो मे महांस्तत्र संजातो मुनिसत्तम ॥१॥
अंधः कुब्जः स्रवद्रक्तः पूतिगन्धसमन्वितः ।
वाचा विहीनोऽमेध्यश्च श्वासमात्रावशेषितः ॥२॥
कथं मुद्गल देहोत्थ वायुना दिव्यदेहभाक् ।
संजातः केन पुण्येन मुक्तो वा पातकात् कुतः ॥३॥
दिव्यवर्षसहस्रं यस्तताप परमं तपः ।
कथं तस्याभवन्नैव दर्शनं देवकांक्षितम् ॥४॥
कथं वल्लभपुत्राय देवदेव इभाननः ।
प्रत्यक्षोऽभूद्विना क्लेशः स च कः पूर्वजन्मनि ॥५॥
एतत्संशय जातं मे नुद सर्वज्ञ ते नमः ।
न तृप्यामि पिबन्नित्यं गजानन कथामृतम् ॥६॥
विश्वामित्र उवाच ॥
सम्यक् पृष्टं त्वया राजन् संशयच्छेदनाय ते ।
वदामि निखिलं सम्यक् शृणुष्वैकमना नृप ॥७॥
सिंधुदेशेऽति विख्याता पल्ली नाम्ना ऽभवत्पुरी।
तस्यामासीद्धनी वैश्यः श्रेष्ठः कल्याणसंज्ञकः ॥८॥
वदान्यः कुशलो धीमान् द्विजदेवपरायणः ।
इन्दुमतीति विख्याता पत्नी तस्य शुभानना ॥९॥
पतिव्रता पतिप्राणा पतिवाक्यपरायणा ।
तयोः कालेन संजातो गुणवान् पुत्र उत्तमः ॥१.२२.१०॥
कल्याणः प्रददौ धेनूर्वस्त्रालंकरणानि च ।
ब्राह्मणेभ्योऽथ रत्नानि कांचनं भूरिदक्षिणाम् ॥११॥
ज्योतिर्विद्भिर्निगदितं नाम चक्रे सुतस्य सः ।
बल्लाल इति विख्यातं बलदेव्याच्छुभं (बलदय्वाच्छुभं) तदा ॥१२॥
स च कालेन महता वयस्यैश्च समन्वितः ।
देवपूजारतो नित्यं ग्रामाद् बहिरयान्मदा ॥१३॥
एकदा ते वनं याता बल्लाल प्रमुखाः सुता ।
नाना क्रीडारताः स्नाता उपले स्थाप्य सुन्दरम् ॥१४॥
गणेशबुद्ध्या संपूज्य दुर्वाकुरं सुपल्लवैः ।
केचिद्ध्यानरतास्तस्य नाम जाप्यं प्रचक्रिरे ॥१५॥
केचिच्च ननृतुस्तत्र यथेष्टं देवभक्तितः ।
केचिच्च गानकुशला जगुर्देवस्य तुष्टये ॥१६॥
केचित्काष्ठैः पल्लवैश्च मंडपं चक्रुरोजसा।
केचिद्भित्तिपरीवेषं केचित्प्रासादमुत्तमम् ॥१७॥
केचिन्मानसपूजाभिः केचित्पुष्पलतादिभिः ।
धूपं दीपं च नैवेद्यं फलतांबूलदक्षिणाः ॥१८॥
निवेद्य पुपुजुस्तस्मै मुदा परमया युताः ।
केचिच्च पंडिता भूत्वा पुराणान्यब्रुवंस्तथा ॥१९॥
व्याचक्रुर्धर्मशास्त्राणि ग्रंथानन्यांश्च केचन ।
एवं देवरताः सर्वे निन्युर्वै दिवसान्बहून् ॥१.२२.२०॥
न क्षुधा न तृषां कोऽपि जानन्देवस्य भक्तितः।
एकदा जनकास्तेषां कल्याणवैश्यमन्वयुः ॥२१॥
अब्रुवन् रोषिताः सर्वे स्वबल्लालं निवारय ।
शिशून् सर्वान् समाहूय वनं याति दिने दिने ॥२२॥
नायान्ति प्रातराशाय मध्याह्ने निशामुखे ।
कृशा नो बालका जाताः स्वसुतं शिक्षायाधुना ॥२३॥
नो चेद्वयं निबद्ध्वैनं ताडयामः इतः परम् ।
पुराधिपमथाभ्येत्य त्वां बहिः करवामहि ॥२४॥
इति तेषां वचः श्रुत्वाऽश्रुतपूर्वं कदाचन ।
रोषावेशात्स कल्याणो जपाकुसुमलोचनः ॥२५॥
महान्तं दंडमादाय ताडनार्थं सुतं ययौ।
दण्डाघातेन गत्वैव मंडपं प्रबभंज ह ॥२६॥
बालकाश्च ततः सर्वे जग्मुर्दश दिशो नृप ।
एक एव स बल्लालो दृढभक्त्या स्थिरोऽभवत् ॥२७॥
दृढमुष्ट्या स तं धृत्वा दंडेनाताड्यद् भृशम् ।
यथा सर्वशरीरात्तु धाराः शोणितसंभवाः ॥२८॥
प्रादुरासन् वारिधारा वर्षाकाले यथा गिरे ।
चिक्षेप दूरतः पश्चाद्देवं सिंदूरसुंदरम् ॥२९॥
बबंध तं सुतं वृक्षे वल्लीपाशशतैर्दृढम् ।
पुत्रस्नेहं परित्यज्य यमदूत इवापरः ॥१.२२.३०॥
मुक्तो दन्तैर्न हस्ताभ्यां पादाभ्यां न यथा भवेत् ।
उवाच पश्चात्तं पुत्रं देवस्त्वां मोचयिष्यति ॥३१॥
स दाता भोजनं पानं गोपनं च करिष्यति ।
यदि चेद् गृहमायासि तदा सत्यं मरिष्यसि ॥३२॥
मुनिरुवाच ॥
विभज्य देवालयमाशु यातः कल्याणवैश्योऽतिरुषानिविष्ट: ।
स्वमन्दिरं बध्य वने स्वपुत्रं दैवस्य योगादभवत् सुदुष्टः ॥३३॥
तस्मिन्प्रयाते स च वैश्यपुत्रः शुशोच देवं मनसा विचिन्त्य ।
विघ्नारिरित्येव कथं नु देव नामाभवत् सर्वजनेषु गीतम् ॥३४॥
दुष्टांश्च विघ्नानि न नाशयेस्त्वं दुष्टान्तकत्वेन कथं प्रसिद्धः ।
शेषोऽवनिं वा सविताऽथ दीप्तिं चन्द्रोऽमृतं वह्निरथोष्णतां च ॥३५॥
त्यजेत्स्वभक्तान्न च संत्यजेथा वेदेषु शास्त्रेषु कथं प्रसिद्धिः ।
एवं विलप्याथ निजं शशाप कल्याणसंज्ञं पितरं सुदुष्टं ॥३६॥
येनेदं मम विध्वस्तं देवालयमनुत्तमम् ।
गणेशमूर्तिविक्षेपं ताडनं च ममाकरोत् ॥३७॥
स चान्धो बधिरः कुब्जो मूको भवति निश्चितम् ।
यदि मे सुदृढा भक्तिर्द्विरदानन उत्तमा ॥३८॥
तदोक्तं मम सत्यं स्यात्तस्य सर्वं मयोदितम् ।
न बद्धे भक्तिमनसी शक्तोऽसौ देहबन्धने ॥३९॥
अनन्यबुद्ध्या परिचिन्त्य देवं, त्यजामि देहं विजने वनेऽस्मिन् ।
पलायनं नैव कृतं यदैव, तदैव देहोऽर्पित एष देवे ॥१.२२.४०॥
तस्यैवं निश्चयं बुद्ध्वा प्रादुरासीद्गजाननः ।
ब्राह्मणस्य स्वरूपेण बल्लालस्य प्रभावतः ॥४१॥
यथा निशातमोपाये च्छ्रीमूर्य उदयाचले।
तथैव बन्धनान्यस्य तेजसा शिथिलानि च ॥४२॥
जातानि तत एनं स नमश्चक्रेथ दंडवत् ।
देहस्य चारुता जाता न क्षतं न च शोणितम् ॥४३॥
ज्ञानं च निर्मलं जातं देवदेवस्य दर्शनात् ।
तुष्टाव विविधैर्वाक्यैर्यथामति गजाननम् ॥४४॥
बल्लाल उवाच ॥
त्वमेव माताऽसि पिताऽसि बन्धुस्त्वमेव कर्ताऽसि चराचरस्य ।
निर्मासि दुष्टांश्च खलांश्च साधून्योनौ वियोनौ विनियुंक्ष्यथापि ॥४५॥
त्वमेव दिक् चक्र नभोधराब्धि, गिरीन्द्र कालानल वायुरूपः ।
रवीन्दु ताराग्रह लोकपाल वर्णेन्द्रियार्थोषधि धातुरूपः ॥४६॥
मुनिरुवाच ॥ इति स्तुतिं समाकर्ण्य सुप्रसन्नो गजाननः ।
आलिंग्य निजभक्तं तमुवाच घननिस्वनः ॥४७॥
गजानन उवाच ॥
प्रासादो येन भग्नो मे नरके स पतिष्यति ।
तव शापोऽपि तस्यैवं भविष्यति ममाज्ञया ॥४८॥
अन्धोऽथ बधिरः कुब्जो मूकोऽसृक्स्रावसंयुतः ।
मम शापं समासाद्य भविष्यति न संशयः ॥४९॥
पिता समातृकं चैनं करिष्यति गृहाद् बहिः ।
अन्यत्ते वांछितं ब्रूहि दुष्प्रापमपि ते ददे ॥१.२२.५०॥
मुनिरुवाच ॥
बल्लालोऽथाब्रवीद्देवं त्वयि भक्तिर्दृढाऽस्तु मे ।
अस्मिन्क्षेत्रे स्थिरो भूत्वा लोकान् रक्षस्व विघ्नतः ॥५१॥
गणेश उवाच ॥
त्वन्नामपूर्व मन्नाम भविष्यति जने शुभम् ।
बल्लाल विनायकेति नगरे सुप्रतिष्ठितम् ॥५२॥
मयि चित्तं स्थिरं ते स्याद् भक्तिरव्यभिचारिणी।
यात्रा मम करिष्यन्ति नगरे पल्लिसंज्ञिके ॥५३॥
भाद्रपदशुक्लचतुर्थ्यां ये तेषां कामान्ददाम्यहम् ॥५४॥
भृगुरुवाच ॥
इति दत्वा वरं देवस्तत्रैवान्तरधीयत ।
ततो विनायकं स्थाप्य बल्लालो ब्राह्मणैः सह ॥५५॥
प्रासादं कारयामास नाना शोभासमन्वितम्।
विश्वामित्र उवाच ॥
बल्लालवैनायकेति कथितं ते कथानकम् ॥५६॥
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तः कामानवाप्नुयात ॥५७॥ (९०२)
इति श्रीगणेशपुराणे उपासनाखंडे बल्लालविनायककथनं नाम द्वाविंशोऽध्यायः ॥२२॥

अध्याय २३ प्रारंभः –
भृगुरूवाच ॥
विश्वामित्रवचः श्रुत्वा भीमः पप्रच्छ तं पुनः ।
वैश्यचरितवार्तायाः श्रवणे परमोत्सुकः ॥१॥
सोमकान्त नृपश्रेष्ठ कथयामि शृणुष्व तत् ।
भीम उवाच ॥
श्रुतं दक्षस्य चरितं विश्रान्तं मम मानसम् ॥२॥
कथं कल्याणवैश्यस्य गतिरासीद्वदस्व ताम् ।
विश्वामित्र उवाच ॥
शृणुष्वैकमना भीम कथामेतां वदामि ते ॥३॥
बल्लालशापात् कल्याणदेहात् सुस्राव शोणितम् ।
असंख्य क्षतसंयुक्तः स्रावो वाधिर्यमंधता ॥४॥
मूकता पूतिगन्धित्वं जातं तस्य दुरात्मनः ।
ददर्शेन्दुमती तस्य दशामाकस्मिकीं ततः ॥५॥
किमिदं किमिदं कस्माज्जातमेवं शुशोच तम् ।
ज्ञानिनोऽस्य वदान्यस्य देवद्विजरतस्य च ॥६॥
धर्मशास्त्रार्थनिष्ठस्य स्वदारपरितोषिणः ।
अवस्थेयं कथं जाता मम भर्तुर्निरेनसः ॥७॥
मुनिरुवाच ॥
एवं विलप्य बहुधा निश्वसन्ती पुनः पुनः ॥८॥
तेन बद्धं वने पुत्रं निशम्य रुदती मुहुः।
पौरेः सह ययौ तत्र यत्र बद्धो वने सुतः ॥९॥
तत्र देवालयं देवं ददर्श गणनायकम् ॥१.२३.१०॥
चतुर्भुजं त्रिनयनं सिन्दूरारुणविग्रहम् ।
बल्लालं च सुतं तत्र पूजयन्तं गजाननम् ॥११॥
मुक्तं निर्व्रणमव्यंगं निरीक्ष्य पुरवासिनः ।
उवाचेन्दुमती क्रुद्धा भर्त्सयन्ती पुनःपुनः ॥१२॥
कथं प्रतारिता तथ्यवादिभिर्भर्तृसन्निधौ ।
तादृशं तं परित्यज्य पुत्रस्नेहादिहागता ॥१३॥
पश्यंतु देवभक्तिं मे पुत्रं कुर्वन्तमीदृशीम् ।
मुनिरुवाच ॥
विस्मिताः सर्व एवैते न किंचित् प्रोचुरण्वपि ॥१४॥
केचिदूचुर्महाभक्तेर्महिमा केन गम्यते ।
वीक्ष्य सिंदूररक्तांगं रक्तचन्दनचर्चितम् ॥१५॥
रक्ताम्बरं रक्तपुष्पमालाभिरुपशोभितम् ।
निर्ममं निरहंकारमशुंडमिव विघ्नपम् ॥१६॥
निरीक्ष्य तादृशं पुत्रं त्यक्त्वा शोकं ननन्द सा ।
आलिलिंग तदा तं तु स्नेहनुतपयोधरा ॥१७॥
आह तं स्वगृहं याव पितुस्ते श्यसनं महत् ।
उत्थितं तत्र किचित्तं कुरूपायं महामते ॥१८॥
आवां धन्यतमौ लोके ययोः पुत्रस्त्वमीदृशः ।
सर्वांग क्षतवान् रक्तस्राववान् पूतिगंधवान् ॥१९॥
श्यामास्यः कृशतायुक्तो बधिरोऽथान्ध एव च ।
एवंविधः पिता तेऽस्ति तं निवेदितुमागता ॥१.२३.२०॥
पितृधर्मेण तेन त्वं तावितोऽनर्थकृद्यपि ।
तत्रापराधो नैवास्ति श्रुतिस्मतिपुराणतः ॥२१॥
पुत्रधर्मान्निरीक्षस्व कुर्वारोग्य विचारणम् ।
त्वया श्लाघ्यतमो लोके पिता ते पितृवत्सल ॥२२॥
माता पितृवचः कार्यं सत्पुत्रेण यशस्विना ।
पूजनं च तयोः कार्यं पोषणं पालनं तथा ॥२३॥
औषधान्मन्त्रतश्चापि देवताप्रार्थनादपि ।
उपायं कुरु पुत्र त्वं मयि दृष्टिं निवेशय ॥२४॥
यशस्ते भविता लोके सौभाग्यं मम बालक ।
इति तस्या वचः श्रुत्वा बल्लालो वाक्यमब्रवीत् ॥२५॥
बल्लाल उवाच ॥
कस्य माता पिता कस्य कस्य पुत्रोऽथवा सुहृत् ।
विघ्नराज कृतं सर्वं मानुषस्यखिलं स्मृतम् ॥२६॥
तस्मान्मम पिता भद्रे माता देवो विनायकः ।
यो यथा कुरुते कर्म स तथा फलमश्नुते ।
मया समर्पितो जीवो देवदेवे गजानने ॥२७॥
तेन जीवस्तथा ज्ञानं मम दत्तं सुभक्तितः ।
प्रासादभंजनाद्देवक्षेपणात्ताडनान्मम ।
विनायकातिभक्तस्य तथा प्राप्तं फलं शुभे ॥२८॥
विचार्यमाणे न त्वं मे माता वा स पिताऽपि च ।
सर्वस्य हि पिता देवो माता देवो गजाननः ॥२९॥
स एव ज्ञानस्त्राता संहर्ता कालरूपवान् ।
सर्वस्वरूपो देवेन्द्रो ब्रह्मविष्णुशिवात्मकः ॥१.२३.३०॥
वृथा मयेन दुष्टेन ताडनं निर्घृणेन च ।
कृतं देवस्य विक्षेपः प्रासादस्यापि भंजनम् ॥३१॥
तस्यास्य दर्शने दोषः पतितस्य महान्भवेत् ।
स्नेहं त्यक्वा मदीयं त्वं पतिं स्वं परिषेवय ॥३२॥
विश्वामित्र उवाच ॥
इति पुत्रवचः श्रुत्वा सा तं पुनरथाब्रवीत् ।
मातोवाच ॥
कृपयाऽनुग्रहात् स्नेहादुच्छापं वक्तुमर्हसि ॥३३॥
पुत्र उवाच ॥
भवान्तरेऽस्य जननी भवितासि वरार्थिनी।
अयमेतादृशः पुत्रो भविता तव सुव्रते ॥३४॥
कल्याण नामा भविता वल्लभः क्षत्रियर्षभः ।
कमलेति च विख्याता नाम्ना त्वं च भविष्यसि ॥३५॥
दक्ष इत्येव पुत्रस्य नाम ख्यातं भविष्यति ।
ततो द्वादश वर्षाणि वल्लभस्तप्स्यते तपः ॥३६॥
अन्धतां बधिरत्वं च क्षतानि मूकतां तथा ।
व्यपनेतुं तु दक्षस्य परं नियममास्थितः ॥३७॥
अलब्ध्वा स फलं तस्मात्सुपुत्रां त्वां शुभानने ।
निराकरिष्यते गेहाद्विदेशस्था भविष्यसि ॥३८॥
कस्यचिद् द्विजवर्यस्य द्विरदाननचेतसः ।
दैवात् स्पर्शेन भद्रे ते सम्यक्पुत्रो भविष्यति ॥३९॥
तत्रैव गणनाथस्य दर्शनं च भविष्यति ।
तदा स दिव्यदेहत्वं प्राप्स्यते द्विरदाननात् ॥१.२३.४०॥
इति सर्वं समाख्यातमुच्छापकारणं शुभे।
भविष्यं कथितं तेऽद्य यथेष्टं गम्यतां त्वया ॥४१॥
विश्वामित्र उवाच ॥
एवं निराकृता तेन जननी निरगात्तदा ।
दुःखशोकसमायुक्ता किंचिद्धर्षयुताऽपि च ॥४२॥
स चारुरोह तद्दिव्यं विमानं भक्तिभावितम् ।
गजाननेन विहितम् बल्लालोऽथागमद्दिवम् ॥४३॥
इति ते सर्वमाख्यातं यत् पृष्टोऽहमिव त्वया।
या गतिस्तेन वैश्येन संप्राप्ता जन्मनोर्द्वयोः ॥४४॥
यथा जगाद बल्लालः सर्वं तदभवत्तदा ।
सा जज्ञे कमला भूत्वा सोऽभवत् क्षत्रियर्षभः ॥४५॥ (९४७)
इति श्रीगणेशपुराणे उपासनाखंडे भविष्यकथनं नाम त्रयोविंशोऽध्यायः ॥२३॥

अध्याय २४ प्रारंभः –
भीम उवाच ॥
दक्षेण मुनिशार्दूल राजपुत्रेण धीमता ।
अनुष्ठानं कृतं कुत्र कथं वा कस्य वा मुने ॥१॥
एतद्विस्तार्य ब्रूहि त्वं शृण्वंस्तृप्याम्यहं न च ।
विश्वामित्र उवाच ॥
अविदूरे पुरस्तस्याः कौंडिन्यस्य महावनम् ॥२॥
रम्यं नानावृक्षयुतं नानाश्वापदसंकुलम् ।
नानापक्षिगणैर्युक्तं लताजालविराजितम् ॥३॥
सन्मनो निर्मलपयः सरोवापीविराजितम् ।
जीर्णप्रासादमध्यस्थ गजानन विराजितम् ॥४॥
तत्र स्थित्वा तपश्चक्रे गजाननसुतोषकम् ।
मुद्गलेनोपदिष्टेन मन्त्रेणैकाक्षरेण सः ॥५॥
तोषयामास तं देवं वर्षैर्द्वादशसंमितैः ।
स्नानैर्वस्त्रैः सुगंधैश्च माल्यैर्धूपैश्च दीपकैः ॥६॥
नैवेद्यं कन्दमूलैश्च भक्षणीयैरकल्पयत् ।
मनसा कल्पयामास दक्षिणां क्षत्रियर्षभः ॥७॥
एवं तस्यागमन्भूप दिनानि त्वेकविंशतिः ।
ततः प्रभातसमये स्वयमेवं ददर्श सः ॥८॥
एकं महामतंगं च सिंदूराक्तं सुशोभितम् ।
मदस्राविसुगंडाभ्यां सुंदरं गिरिसन्निभम् ॥९॥
चारुप्रसन्नवदनं दन्तशोभिमहत्करम ।
भ्रमरालिसमाकीर्णं गजाननमिवापरम् ।
तेन तत्कंठदेशे तु रत्नमाला समर्पिता ॥१.२४.१०॥
तत उत्थाप्य तं स्कन्धे स्थापयामास दन्तिराट् ।
स दन्ती नगरं यातः पताका ध्वजशोभितम् ॥११॥
ततः स प्रतिबुद्धः सन्पपृच्छ जननीं निजाम् ।
कमले वद मातस्त्वमस्याभिप्रायमद्य मे ॥१२॥
आरोहणं गजस्कन्धे शुभं वा यदि वाऽशुभम् ।
कमलोवाच ॥
धन्यस्त्वमसि दृष्टोऽयं गजरूपी विनायकः ॥१३॥
आरोहणफलं राज्यप्राप्तिरेव न संशयः ।
दक्ष उवाच ॥
यदि राज्यस्य प्राप्तिः स्यात्तदा तुभ्यं ददाम्यहम् ॥१४॥
नरयानं तथा ग्रामान् दीदिकां मौक्तिकं स्रजम् ।
धर्मं च कारयिष्यामि गवाष्टा पददानतः ॥१५॥
व्रतानि नियमांश्चैव दानान्यन्यान्यनेकशः ।
मुनिरुवाच ॥
श्रुत्वेत्थं कमला हृष्टा जगाद तनयं प्रति ॥१६॥
त्वयि राज्यस्थिते पुत्र परमानन्दता मम ।
सद्धर्मे रमतां चेतः सतः सारभृतस्तव ।
आयुष्य विपुलं तेऽस्तु द्विजदेवार्चने रतिः ॥१७॥ (९६४)
इति श्रीगणेशपुराण उपासनाखंडे स्वप्नकथनं नाम चतुर्विंशोऽध्यायः ॥२४॥

अध्याय २५ प्रारंभ:-
विश्वामित्र उवाच ॥
शृणु राजन् महाश्चर्यं दैवकालकृतं शुभम् ।
कौंडिन्ये नगरे राजा चंद्रसेनो महामतिः ॥१॥
स्वकर्मपरिपाकेन निधनं कालयोगतः।
अगमद्दिव्ययानेन धर्मबाहुल्यतो दिवम् ॥२॥
तच्च नागरिकाः श्रुत्वा हाहाकारं प्रचक्रिरे।
धावमाना ययुस्तत्र त्यक्त्वा कार्याण्यनेकशः ॥३॥
शिरांसि च विनिघ्नंतः पाणिभिः शोककर्शिताः ।
चस्खलुश्च पतन्तश्च ददृशुः प्रेतभूपतिम् ॥४॥
नेमुः पादौ प्रगृहयैव दुःखमोहवशं गताः ।
केचिद्धस्तं गृहीत्वैव स्वस्वमूर्ध्निन्यवेशयन् ॥५॥
रुरुदुः सुस्वरं केचित्पाणिपृष्टमुखस्वनाः ।
मृता इव निपेतुश्च स्नेहातिशयतोऽपरे ॥६॥
तस्य पत्नी तु सुलभा रुरोद करुणस्वरा ।
पाणिभ्यां निघ्नती स्वीयं हृदयं भृशदुःखिता ॥७॥
विकीर्णभूषणा मूर्च्छामागता पतितः भुवि ।
समानव्यसनाभिः सा पुरस्त्रीभिर्धृता तदा ॥८॥
विललाप तदा कान्ता चन्द्रसेनस्य सुंदरी।
निर्लज्जा निरनुक्रोशा नाथ नाथेति जल्पती ॥९॥
रे धातर्न दया तेऽस्ति बालवच्चरितं तव ।
युनक्षि स्नेहभावेन विनियुंक्ष्य कृतार्थकम् ॥१.२५.१०॥
राजन्न पृष्ट्वा क्व गतो वद मां करुणानिधे ।
दिने दिने वदस्येव यामि भद्रासनं प्रिये ॥११॥
अद्य निष्ठुरतां केन गमितोऽस्यागसा मम ।
तत्क्षमस्व नमाम्येषा जनमध्ये गतत्रपा ॥१२॥
नय मां यत्र यातोऽसि प्रियां ते प्रियकारिणीम् ।
त्रिलोकीं पश्यतीं शून्यामपुत्रां पतिता विना ॥१३॥
मुनिरुवाच ॥
सुमन्तुः प्रकृतिस्तस्य मनोरंजन एव च ।
द्वावप्यवोदितां ता किं राजस्य भविष्यति ॥१४॥
आवाभ्याविचार्यैव क्व गतो नृपसत्तम ।
कस्मान्न वदसे राजन् किमर्थं मौनमास्थितः ॥१५॥
न पश्यसि प्रियां भार्यामनाथामिव विह्वलाम् ।
सहैव यावो नृपते त्यक्त्वा सर्वं गृहाश्रमम् ॥१६॥
अनाथं नगरं तेऽद्य राष्ट्रं वा कोऽथ पास्यति ॥१७॥
मुनिरुवाच ॥
एतस्मिन्नंतरे तत्र बभाण ब्राह्मणः सुधीः ॥१८॥
वेदशास्त्रार्थतत्वज्ञः प्रस्तुतं निष्ठुरं वचः ।
सर्वे स्वार्थपरा यूयं नाप्तः कश्चन विद्यते ॥१९॥
सुहृदां रोदनाश्रूणि मुखे प्रेतस्य यान्ति हि ।
पृथिव्यां भारतां याति प्राणहीनं कलेवरम् ॥१.२५.२०॥
ब्रह्मांडगोलके को नु मृतमन्योऽनुगच्छति ।
इयं च सुलभा राज्ञी रोदते जीविताशया ॥२१॥
यस्या मनोऽनुगत्यर्थं न सा रोदिति कर्हिचित् ।
यूयं सर्वे नागरिकाः स्वकार्यगमनाकुलाः ॥२२॥
सूर्यवंश्याः सोमवंश्या ये राजानो मृता न किम् ।
तस्मादुत्थाय सर्वेऽपि राज्ञः कुर्वन्तु संस्कृतिम् ॥२३॥
मृतसंस्कारकारी यः स एवाप्तो न चापरः । ।
एतदर्थं हि लोकस्य ज्यायसी पुत्रगृध्नुता ॥२४॥
तस्मादानीयतां धर्मपुत्रो वाऽप्यन्य एव च ।
स हि क्रियामारभतु सर्वैर्देयस्तिलांजलि: ॥२५॥
मुनिरुवाच ॥
ततस्ते नागराः सर्वे द्वावमात्यौ स्त्रियश्च ताः ।
प्रबोधिता ब्राह्मणेन चक्रुस्तस्यौर्ध्वदेहिकम् ॥२६॥
सुमंतुना कृतं सर्वं सर्वैर्दत्तस्तिलांजलिः ।
पुनः स्नात्वा तु ते सर्वे नगरं विविशुश्चिरात् ॥२७॥
अश्नन्ति पिचुमन्दस्य पत्रं नत्वेश्वरं जनाः ।
सान्त्वयित्वा तु सुलभां ययुः स्वं स्वं निकेतनम् ॥२८॥
त्रयोदशाहे निर्वृत्ते राज्ञ्यै दत्त्वाऽम्बराणि ते।
चक्रुस्ते भोजनं प्रीत्या प्रत्यहं बहुवासरम् ॥२९॥
एकदा नागराः सर्वे द्वावमात्यौ नृपप्रिया ।
सर्वे संशयिता आसन् प्रजापालन कर्मणि ॥१.२५.३०॥
एतस्मिन्नंतरे तत्र मुद्गलो मुनिराययौ।
उवाच सर्वाशयविदस्य राज्ञो महागजः ॥३१॥
गहनो नाम गृह्णातु मालां पुष्करनिर्मिताम् ।
समाजे यस्य कंठे तां निक्षिपेत्स नृपो भवेत् ॥३२॥
तथेति च तदा सर्वे साधु साध्वित्यपूजयन् ।
अतीन्द्रिय ज्ञानवतो वचो मुद्गलशर्मणः ॥३३॥ (९९७)
इति श्रीगणेशपुराण उपासनाखंडे पंचविशोऽध्याय:॥२५॥