सामग्री पर जाएँ

गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः ४१-४५

विकिस्रोतः तः
← अध्यायाः ३६-४० गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायाः ४१-४५
[[लेखकः :|]]
अध्यायाः ४६-५० →

व्यास उवाच ।
वरदेन गणेशेन प्रभुणा सर्वकारिणां ।
किं कृतं तन्ममाचक्ष्व पृच्छते चतुरानन ॥१॥
ब्रह्मोवाच ।
ततो गजाननो विप्ररूपेण त्रिपुरं ययौ ।
महार्हासन संविष्टं ददर्श द्विजसत्तमः ।।२।।
स उत्थाय नमस्कृत्य स्वासने चोपवेशयत् ।
संपूज्य परिपपृच्छ कुत आगम्यते द्विज ॥३॥
का विद्या किं च ते नाम पृच्छते ब्रूहि मे द्विज ।
प्रयोजनं च किं तेऽस्ति शक्तिश्चेत् करवामहे ॥४॥
द्विज उवाच ।
सायंगृहा वयं दैत्य सर्वज्ञाः सर्ववेदिनः ।
इच्छाविहारा लोकानां भ्रमामो हितकाम्यया ।।५ ।।
कलाधरेत्येव नाम्ना विख्याता भुवनत्रये ।
दृष्टुकामा वैभवं ते संप्राप्ता भवनं तव ।६।।
अखिला : संपदस्ते तु दृष्ट्वा तृप्ताः स्म सांप्रतम् ।
न कैलासे न वैकुंठे ब्रह्मलोकेऽपि नेदृशी ।।७।।
पदे शाक्रे न वै संपद्यादृशी दृश्यते तव ।
दैत्य उवाच ।
नाममात्रां कलाधारः किं वा जानासि तां द्विज ॥८।।
संपदः सर्वलोकेषु याभ्य एता प्रशंससि ।
जानासि चेद्दर्शय मे तासां मध्ये महोत्कटाम् ॥९॥
दृष्ट्वा दास्ये वांछितं ते प्रियं प्राणमपि द्विज ।
न स्मरे परिहासेऽपि वितथं भाषितं मुने ।१.४१.१०।।
कलाधर उवाच ।
परेषां संपदं दृष्ट्वा किं स्यात्तव सुरद्विष ।
विनयात्ते प्रसन्नोऽहं कलया ते ददामि वै ॥११॥
कांचनं राजतं लौहं त्रिपुरं शरसंस्थितम् ।
रम तत्र स्थिरो दैत्य चिरकालं यथासुखम् ।।१२॥
अभेद्यं देव गंधर्वैर्मानुषैरुरगैरपि ।
कल्पितार्थप्रदं तत्ते कामगं कामदं शुभम् ।।१३।।
यदैवैकेन बाणेन कस्मिंश्चित् कालपर्यये ।
भेत्स्यते तद्धरो दैत्य तदा नाशमुपैष्यति ।। १४॥
ब्रह्मोवाच ।
इत्युक्त्वा धनुरादाय संस्तभ्य शरमन्तरा।
पुरत्रयं निर्ममेऽसौ भुवनत्रय सन्निभम् ॥१५॥
विचित्रैर्भवनै रम्यै दीर्घिकाराम संयुतः ।
नानानक्षि गणैर्जुष्टं सर्वकामप्रदं खगम् ।।१६।।
मायया मोहितो दैत्यस्तत्रस्थो चहृषे भृशम् ।
जगर्ज घनवद्दैत्यो लोकत्रयविकम्पनः ।।१७।
न मत्तः श्रेष्ठ इत्येवं गर्वदर्प समन्वितः ।
त्रैलोक्यं क्षोभयामास ब्राह्मणं तमथाब्रवीत् ॥१८॥
याचस्व दुर्लभतरं तत्ते दास्ये द्विजोत्तम ।
इत्युक्त्वा स द्विजः प्राह तं दैत्यं निस्पृहोऽपि सन् ॥१९॥
द्विज उवाच ।
अहं कैलासमगमं दृष्टवान् मूर्तिमुत्तमम् ।
शिवेन पूजितां सम्यग् गाणेशीं चिन्तितार्थदाम् ॥१.४१.२०॥
तामानय त्वं मे देहि शक्तिर्यद्यसुरेश्वर ।
नेतादृशी मया मूर्तिस्त्रैलोक्यं चरतेक्षिता ॥२१॥
अतो मम मनस्तस्यामासक्तं दैत्यसत्तम ।
तां प्राप्य कृतकृत्योऽहं भविष्याम्यसुरेश्वर ॥२२॥
कीर्तिं ते प्रथयिष्यामि त्रैलोक्ये सचराचरे ।
न दाता त्रिपुराच्छ्रेष्ठो वांछितं यः प्रयच्छति ॥२३॥
दैत्य उवाच ।
शंकर किकरं मन्ये गणये न च देवताः ।
आनयित्वा प्रदास्यामि तां मूर्तिं द्विजपुंगव ॥२४॥
ब्रह्मोवाच ।
इत्युक्त्वा पूजयामास तं कलाधरमादरात्।
ददौ तस्मै दश ग्रामान् गोवस्त्र भूषणानि च ॥२५॥
मुक्ताफलानि भूरीणि महार्हाणीतराणि च ।
रत्नानि च प्रवालानि रांकवास्तरणानि च ॥२६॥
दासीदास शतं नाना भूषायुक्तं ददेऽसुरः ।
सदश्वान् सवरूथांश्च स्वर्णाक्षान् राजतान् रथान् ॥२७॥
प्रगृह्यै तत् बलाद्दत्तं प्रययों स कलाधर ।
स्वाश्रमं हर्षयन् पत्नी सर्वानाश्रमवासिनः ॥२८॥
ब्रह्मोवाच ।
एवं च सर्वं वृत्तान्तं नारदोऽकथयत्सुरान् ।
तेऽपि कालं प्रतीक्षन्तो दिवसानतिचक्रमुः ॥२९॥ (१६०२)
इति श्रीगणेशपुराण उपासनाखंडे कलाधरगमनं नामैकचत्वारिंशत्तमोऽध्यायः ॥४१। ।

व्यास उवाच ।
कृतवान् किमु दैत्यः स गते तास्मिन्कलाधरे।
कथमानीय दत्ताऽस्मै मूर्तिश्चिन्तामणेः शुभा ॥१॥
एतत्कथय मे सर्वं विस्तार्य चतुरानन ।
लीला गजाननीः शृण्वन् न तृप्यामि समासतः ॥२॥
ब्रह्मोवाच
तस्मिन्गते यदकरोत् स दैत्यो मुनिसत्तम ।
तत्सर्वं कथयिष्यामि शृणुष्वावहितो मुने ॥३॥
दूतौ संप्रेषयामास मन्दराद्रिस्थितं शिवम् ।
अशिक्षयच्छिवं गत्वा ब्रूतं मद्वाक्यमादरात् ॥४॥
मूर्तिश्चिन्तामणेस्तेऽस्ति गृहे सर्वार्थदा शुभा।
देहि तां दैत्यराजाय साम्नैव गिरिजापते ॥५॥
पाताले स्वर्गलोके वा मर्त्ये वा पुनरद्भुतम् ।
तत्सर्वं तेन दैत्यैन ह्यानीतं स्वगृहे तलात् ॥६॥
शीघ्रमानीयतां देव यावो दैत्यं महाबलम् ।
न दास्यसे यदा साम्ना तदा दैत्यः पराक्रमी ॥७॥
ग्रहीष्यति बलात्तां तु ततो दुःखमवाप्स्यसि ।
इति दैत्यवचः श्रुत्वा जग्मतुस्तौ शिवं प्रति ॥८॥
आहतुस्तौ महादेवं दैत्यराजेन शिक्षितम् ।
इत्थं दूतवचः श्रुत्वा त्रिनेत्रः क्रोधमूर्छितः ॥९॥
उवाच दूतौ दूतौ वामिति कृत्वा क्षमे वचः ।
कामस्येव भवेद्भस्म नो चेद्वां नात्र संशयः ॥१.४२.१०॥
किं कार्यं तेत दैत्येन तृणीभूतेन मे विभोः ।
आयातु युद्धमेवास्तु मर्तुकामो ममान्तिकम् ॥११॥
नेयं मूर्तिस्तेन शक्या प्राप्तुं जन्मशतैरपि ।
प्रलयाग्निः पतंगेन किं शान्तिमधिगच्छति ॥१२॥
मेरोः पांतो मूषकेन शक्यः कर्तुं किमोजसा ।
असंख्य जल निष्काशाच्छुष्कः स्यात्किं महोदधिः ॥१३॥
ब्रह्मोवाच :-
श्रुत्वा तु शांकरीं वाणीं दैत्यौ यातौ यथागतम् ।
अब्रूतां स्वामिनं वाक्यं शंभुना यदुदीरितम् ॥१४॥
तदाकर्ण्य प्रजज्वाल दैत्यो वाक्यार्थकोविदः ।
क्रोधानलेन दीप्तोऽसौ त्रैलोक्यं प्रदहन्निव ॥१५॥
आज्ञापयच्च युद्धाय स्वसेनां चतुरंगिणीम् ।
निर्गता सहसा सेना मन्दराचलसंमुखा। १६ ।।
भूतलं छादयामास निमंर्यादो यथाऽम्बुधिः ।
अनेंकसूर्य संकाशा विकोशैः शस्त्रसंचयैः ॥१७॥
गर्जन्ती घनवद्घोरं मृत्योर्मानसकम्पिनीं ।
दैत्यस्त्रिपुरमारुह्य विमानसदृशं महत् ॥१८॥
मनोवेगं ततः पश्चाज्जिघांसुः शंभुमाययौं ।
बृहन्मणिमयं चारु कवचं कुंडलेऽगदे ॥१९॥
मुक्तामालां मुद्रिकाश्च कटिसूत्रं च कांचनम्।
मुकुटं रत्नखचितं महार्घं बिभ्रदुल्लसत् ॥१.४२.२०॥
यस्य शब्देन महता चकम्पे हरमानसम् ।
तद्धनुः स निषंगं च कौर्मं खेटमसिं दृढम् ॥२१॥
शुशुभे शक्तिका दिव्याऽवहद्यां दैत्यपुंगवः ।
गायमाना नर्तमाना गंधर्वाप्सरसां गणाः ॥२२॥
बन्दिनश्चारणाश्चापि ययुरस्याग्रतो मुदा ।
शंकरो दूतवाक्येन श्रुत्वा दैत्यं ममागतम् ॥२३॥
असंख्य व्रतसंयुक्तं युयुत्सुं कालकर्षितम् ।
शूलपाणिरपि तदा संपूज्य द्विरदाननम् ॥२४॥
प्रणम्य तं परिक्रम्य पुरस्कृत्य बलं बलात् ।
आययौ क्रोधदीप्ताक्षः स्वस्थलाद् गणमंडलम् ॥२५॥
ते वीरा वीरशब्देन नादयन्तो दिशो दश ।
अभिजग्मुः प्रहरणैः परस्परवधेप्सवः ॥२६॥
अभूतां मीलिते सेनें रजस्तिमिरसंकुले।
स्वपरज्ञानरहिते जघ्नतू रणमूर्धनि ॥२७॥
अभवत्तुमुलं युद्धं न प्राज्ञायत किंचन।
गजाश्वरथवीराणां हतानां शोणितोक्षिते ॥२८॥
शान्ते रजस्य युध्यन्त वीरा वीरैः पृथक् पृथक्।
केचित् प्रासः केऽपि खड्गैः केचिद्बाणै शिलाशितैः ॥२९॥
ऋष्टिभिर्मुष्टिभिः केचित् केचित् परशु तोमरैः ।
हतानां तत्र वीराणां हयानां च पदातिनाम् ॥१.४२.३०॥
असृङनदी समभवत् केशशैवल वाहिनी ।
खेटकूर्मा खड्गमत्स्या शिरः कमलभूषणा ॥३१॥
छत्रावर्ता घोरतरा कबन्ध वृक्षवाहिनी ।
वीर संतोषजननी गृध्रगोमायु हर्षकृत् ॥३२॥
दृष्ट्वा नदीं तु गिरिशो ययौ दैत्यान्तिकं बली ।
दैत्योऽपि त्रिपुरारूढो ययौ तस्य पुरः पुरः ॥३३॥
नायकौ संगतौ दृष्ट्वा द्वन्द्वशोऽन्ये परस्परम् ।
अव्याकुले युयुधिरे दैतेयाः शाम्भवास्तदा ॥३४॥
नाना प्रहरणैर्दिव्यैः शस्त्ररस्त्रैर्द्रुमैरपि ।
तेषां युद्धानि नामानि कथयिष्ये समासतः ॥३५॥ (१६३७)
इति श्रीगणेशपुराण उपासनाखंडे युद्धवर्णनं नाम द्विचत्वारिंशत्तमोऽध्यायः ।४२।।

ब्रह्मोवाच ।
अयुध्येतां द्वन्द्वशोऽथ गिरिशासुरनायकौ ।
षण्मुखेन प्रचंडश्च नन्दिना चंड एव च ॥१॥
युयुधे पुष्पदन्तोऽपि भीमकायेन वीर्यवान् ।
भृशुंडी कालकूटेन विषवत्प्राणहारिणा ॥२॥
अयुध्येतां वीरभद्र वज्रदंष्ट्रौ महाबलौ ।
इन्द्रोऽपि युयुधे तत्र दैत्यामात्येन वीर्यवान् ॥३॥
दैत्यपुत्रेण बलिना जयन्तो युद्धदुर्मदः ।
काव्येन युयुधे तत्र सुराचार्योऽस्त्रवित्तमः ।।४॥
देवानां चैव दैत्यानामेवं द्वन्द्वान्यनेकशः ।
वर्णितुं नैव शक्यानि मया वर्षशतैरपि ।।५।।
रथिनो रथिभिः सार्धं गजिनो गजिभिः सह ।
अश्वारोहाः स्वसदृशैः पदाताश्च पदातिभिः ।।६॥
युयुधुः संयुगे घोरे नानावाद्य निनादिते ।
हेषितैर्बृंहितैः क्ष्वेडैर्नेमिनादैश्च शब्दिते॥७॥
केचिच्च मल्लयुद्धेन युयुधुर्विविधेन तु ।
जघ्नुरंगानि चांगेषु त्यक्त्वा शस्त्राणि संयुगे ॥८॥
ततः प्रचंडो नवभिस्ताडयामास षण्मुखम् ।
आकर्णाकर्षनिसृतैर्दृढैर्बाणैः शिलाशितैः ॥९॥
अप्राप्तानेव तांश्छित्त्वा शरैः सन्नतपर्वभिः ।
कातिकेयः पंचभिस्तं ताडयामास सायकैः ॥१.४३.१०॥
संमूर्छितोऽपतद्भूमौ प्रचंडो भ्रान्तमानसः ।
नन्दिनाऽपि हतश्चंडः पंचभि निशितैः शरैः ॥११॥
मूर्छामवाप सहसा पतितो धरणीतले।
भीमकायः पुष्पदन्तमविध्यद्दशभिः शरैः ॥१२॥
छेदयामास समरे स्वशरैर्निशितैः स तान् ।
त्रिभिरेवाहनत्तं च सोऽपि भूतलमाश्रितः ॥१३॥
कालकूटं भृशुंडीस्तु पातयामास पंचभिः ।
शरैर्महाबलस्तत्र वीरभद्रो रुषायुतः ॥१४॥
वज्रदंष्ट्रस्ततो जघ्ने चतुर्भिर्निशितै शरैः ।
तान्निवार्य स्वयं जघ्ने वीरभद्रं त्रिभिः शरै ॥१५॥
तानापतत एवाशु वीरभद्रोऽच्छिनत् त्रिभिः ।
पातयामास वेगेन वज्रदंष्टं त्रिभिः शरैः ॥१६॥
इन्द्रोऽपि वज्रपातेन दैत्यामात्यं न्यपातयत् ।
उद्यम्य निशितं खड्गं दैत्यपुत्रः समाययौ ॥१७॥
हन्तुकामो जयन्तं तं वीरेषु पतितेषु च ।
तं निरीक्ष्य तथाऽऽयान्तं खड्गं चिच्छेद पत्रिणा ॥१८॥
जयन्तोऽभ्यहनच्छीघ्रं दैत्यसूनुं त्रिभिः शरैः ।
तैराहतो वमन्रक्तं न्यपतन्मोहसंयुतः ॥१९॥
एवं सर्वेषु सैन्येषु प्रभग्नेषु समन्ततः ।
दृष्ट्वा पलायनपरान्दैत्यान्देवगणार्दितान् ॥१.४३.२०॥
अधावन्पृष्टतः केचित्प्रमया जयशालिनः ।
एवं जयत्सु देवेषु स्वसैन्ये विद्रुतेऽपि च ॥२१॥
आययौ स्वयमेवेशं त्रिपुराधिष्टितोऽसुरः ।
शस्त्रयुद्धं पुरा कृत्वा युध्येतामस्त्रतो ह्युभौ ॥२२॥
वारुणास्रं जहौ दैत्यो वृष्टिर्घोरतराऽभवत् ।
नीहारबहुले युद्धे न प्राज्ञायत किंचन ॥२३॥
क्वचिद् विद्युत्प्रकाशेन स्वपरज्ञानकारिणा ।
युद्धमासीत्तु तुमुलं घोररूपं दुरासदम् ॥२४॥
विलोक्य सैन्यं तत्सर्वं वृष्टिवातप्रपीडितम् ।
शिलापातभयाद्याते स्वसैन्ये तु दिशो दश ॥२५॥
वायव्यमस्त्रं गिरिशो मोचयामास सत्वरम् ।
महावाता महामेघा विशीर्णाः खंडशोऽम्बरे ॥२६॥
वातेन घूर्णिता सेना दैत्यानां सर्वतो दिशम् ।
जगलुः पक्षिपिच्छानि वीरोष्णीषाणि दूरतः ॥२७॥
पतिताश्चूर्णिताः केचिद्रथाश्व गजपत्तयः ।
उन्मूलिता लता वृक्षाश्छादयन्ति स्म सैनिकान् ॥२८॥
पन्नगास्त्रेण तं वायुं तथा दैत्यो न्यवारयत् ।
आकर्ण धनुराकृष्य तूणाद्बाणं प्रगृहय च ॥२९॥
मन्त्रयन्ननलास्त्रेण शिवसैन्ये न्यपायत् ।
अंगारवृष्टिः सहसा पतिता सर्वदाहिनी ॥१.४३.३०॥
प्रलयं मेनिरे सर्वे ज्वाला मालाभिरर्दिताः ।
ज्वालाभ्यो दीप्यमानाभ्यो महाभीतिकरः पुमान् ॥३१॥
आविरासीन्महाकायो लिखन्मूर्ध्ना नभस्तलम् ।
दंष्ट्राकरालवदनो महारावः क्षुधातुरः ॥३२॥
लालयन्रसनां घोरां शतयोजन विस्तृताम् ।
नासापवन वेगेन भ्रामयन्कुंजरान्रणे ॥३३॥
भक्षयामास तां सेनामुरगानिव पक्षिराट् ।
अपीपलद्भर्गसेना तेन पुंसा प्रपीडिता ॥३४॥
शिवपृष्टं समासाद्य रक्ष रक्षेति चाब्रवीत् ।
मा भैष्टेत्यभयं तस्यै दत्त्वा वह्नि न्यवारयत् ॥३५॥
पर्जन्यास्त्र प्रपातेन तत्क्षणाद् गिरिजापतिः।
बाणेनैकेन तं घोरं पुरूषं स न्यपातयत् ॥३६॥
तत उत्थाय पुरुषो बभक्ष शिवसैनिकान् ।
ययुः पलायनपराः प्रमथा भयविह्वलाः ॥३७॥
स्खलन्तो निपतन्तश्च निश्वसन्तश्चकंपिरे ।
शिवोऽपि निःसहायत्वाद्दरीमेवान्वपद्यत ॥३८॥
षडाननादयो वीरा अनुसस्रुस्तमेव हि ।
जिघृक्षुर्गिरिजां दैत्यो विचिन्त्यैकाकिनीं गिरौ ॥३९॥
विहाय रणभूमिं तु ययौ कैलासमेव सः ।
दूराद्दृष्ट्वा तमायान्तं चकम्पे गिरिजा तदा ॥१.४३.४०॥
उवाच पितरं गत्वा दैत्यो मां किं नु नेष्यति ।
तस्यास्तद्वचनं श्रुत्वा नीत्वा तां दुर्गमांगृहाम् ॥४१॥
अविज्ञातां स्वेतरेण स्थापयामास निर्भयाम् ।
सोऽपि दैत्यस्ततो हैमं गिरिं तद्ग्रहणेच्छया ॥४२॥
आगतो न ददर्शाथ गिरिजां क्वापि सत्तम ।
भ्रमन्ददर्श तत्रैकां मूर्तिं चितामणेः शुभाम् ॥४३॥
सहस्रसूर्यसंकाशां नानालंकारशोभिनीम् ।
त्रैलोक्यसुंदरां सद्यो गृहीत्वा स्वस्थलं ययौ ॥४४॥
नानावादित्र निर्घोषैः स्तुवद्भिर्बन्दिभिर्वृतः ।
ततः पातालमगमत् सर्वत्र विजयी बली ॥४५॥
गच्छतस्तस्य दैत्यस्य हस्तेऽप्यन्तर्हिता तदा ।
मूर्तिश्चितामणेः सा तु तदद्भुतमिवाभवत् ॥४६॥
तमेवाशकुनं मत्वा तत्पुरं पुनराविशत् ।
अत्यन्तं विमनाश्चिन्तां दुरुतां समुपागतः ॥४७॥ (१६८४)
इति श्रीगणेशपुराण उपासनाखंडे त्रिचत्वारिंशत्तमोऽध्यायः ॥४३॥

अध्याय ४४ प्रारंभ :-
व्यास उवाच ।
ततः किमकरोच्छम्भुस्त्रिपुरेण पराजितः ।
कथं तमजयद्दैत्यं त्रिपुरं जयशालिनम् ॥१॥
ब्रह्मोवाच ।
ततः शम्भुः परां चिन्तामापेदे मनसाऽसकृत ।
स्वाहा स्वधा विहीनं तु भूतलं परिचिन्तयन् ॥२॥
कदा स्वस्थानगा देवा भविष्यन्ति गतज्वराः ।
केनोपायेन वासः स्याद् दुर्जयस्य पराजयः ॥३॥
एवं चिन्तातुरे तस्मिन् नारदो मुनिसत्तमः ।
आययौ शंकरं दृष्टुं देवान् सर्वान् यदृच्छया ॥४॥
तं दृष्ट्वा जहृषे देवो मर्त्यः प्राप्य यथाऽमृतम् ।
पूजयामास विधिवत् कृतासन परिग्रहम् ॥५॥
आलिंग्य तमुवाचेत्थं शिवश्चिंतातुरो भृशम् ।
देवानां हितमन्विच्छन् दैत्यस्य वधमेव च ॥६॥
शिव उवाच ।
दैत्येन सर्वदेवानां कदनं कृतमोजसा ।
तद्रणे भग्नसंकल्पाः सर्वे देवाः पलायिताः ॥७॥
याता दश दिशो ब्रह्मन् कः कुत्रास्ते न वेदम्यहम् ।
ममाप्यस्त्राणि तेनास्त्रैः प्रभग्नानि सहस्रशः ॥८॥
ब्रह्मोवाच ।
श्रुत्वा शिववचः सोऽममवादीन् मुनिसत्तम ।
मन्वानः परमाश्चर्यं त्रैलोक्येशपराभवम् ॥९॥
नारद उवाच ।
सर्वज्ञे सर्वविद्येशे सर्वेशे सर्वकर्तरि ।
सर्वानने सर्वहरे सर्वस्यापि नियन्तरि ॥१.४४.१०॥
शक्ते कर्तुमकर्तुं वाऽन्यथाकर्तुमपि प्रभो ।
अणिमादि गुणोपेते षडैश्वर्यविलासिनि ॥११॥
किं वक्तव्यं मया देव सर्ववक्तृवरे त्वयि ।
मुनिना गानसक्तेन त्रिलोकीं भ्रमताऽनिशम् ॥१२॥
तव वाक्यानुरोधेन विचार्य प्रब्रवीम्यहम् ।
एवमुक्त्वा क्षणं ध्यात्वा पुनः प्राह शिवं मुनिः ॥१३॥
मुनिरुवाच ।
युद्धाय गन्तुकामेन नार्चितो गणपस्त्वया ।
अतः पराभवं प्राप्तो वह्निनेत्रः पिनाकधृक् ॥१४॥
इदानीमर्चय पुरा विघ्नेशं विघ्नवारणम् ।
प्रसाद्य तद्वरं लब्ध्वा याहि युद्धाय सादरम् ॥१५॥
पराजेष्यसि तं दैत्यं नात्र कार्या विचारणा ।
ब्रह्मोवाच।
तेनापि तपसा देवो महताराधितः पुरा ॥१६॥
तेन तस्मै वरो दत्तोऽखिल विघ्नौघहारिणा ।
महेश्वरं विना मृत्युर्न केनापि भवेत्तव ॥१७॥
तस्माद् गिरिश तस्येदं कामगं तु पुरत्रयम् ।
एकेषुणा दारयस्व जयोपायोऽयमीरितः ॥१८॥
प्रहर्षमतुलं लेभे श्रुत्वा गजाननगिरं।
पूर्वाक्तां प्राह तं मुनिम् ॥१९॥
शिव उवाच ।
सत्यमुक्तं त्वया ब्रह्मंस्त्वद्वाक्येन स्मृतं मया।
उपदिष्टौ पूर्वमेव मन्त्रौ तेन मुने मम ॥१.४४.२०॥
षडक्षरैकाक्षरौ तौ सर्वसंकटहारकौ ।
युद्धे व्यासक्तचित्तेन न जप्तौ न च संस्मृतौ ॥२१॥
सर्वविघ्नहरो देवो न स्मृतो हि गजाननः ।
सर्वेषां कारणं कर्ता पाता हर्ता विनायक: ॥२२॥
मुनिरुवाच ।
तं तोषय महादेव महादेवं गजाननम् ।
ब्रह्मोवाच ।
विसर्ज्य नारदं देवो जगाम तपसे शिवः। ॥२३॥
दंडकारण्यदेशे तु पद्मासनस्थितोऽजपत् ।
प्रणिधाय बलात्खानि नियम्य ध्यानतत्परः ॥२४॥
सोऽतपत्तप उग्रं तु शतवर्षाणि शंकरः ।
ततस्तस्य मुखाम्भोजान् निर्गतस्तु पुमान्परः ॥२५॥
पंचवक्त्रो दशभुजो ललाटेन्दुः शशिप्रभः ।
मुंडमालो सर्पभूषो मुकुटांगदभूषणः ॥२६॥
अग्न्यर्क शशिनो भाभिस्तिरस्कुर्वन्दशायुधः ।
तद्भासा धर्षितो देवोऽपश्यदुग्रं पुरःस्थितम् ॥२७॥
विनायकं पंचमुखं पंचास्यमपरं शिवम् ।
तं दृष्ट्वाऽतर्कयद्देवः किमहं द्विविधोऽभवम् ॥२८॥
किंवा ममैव रूपेण त्रिपुरोऽयमिहागतः ।
त्रयस्त्रिंशत्कोटि देवेष्वपरः पंचवक्त्रवान् ॥२९॥
अथवा स्वप्न एवायं दृष्टो दीर्घतरो मया।
अथवा मे वरं दातुमागतोऽयं गजाननः ॥१.४४.३०॥
सर्वविघ्नहरं देवं यं ध्यायामि दिवानिशम् ।
ब्रह्मोवाच ।
एवमाकर्ण्य तद्वाक्यमुवाच द्विरदाननः ॥३१॥
अन्तर्यस्तर्कितो देवः सोऽयं विघ्नहरो विभुः ।
न मे स्वरूपं जानन्ति देवर्षि चतुरारनाः ॥३२॥
न वेदाः सोपनिषदः कुतः षट्शास्त्र वेदिनः ।
अशेष भुवनस्याहं कर्ता पाताऽपहारकः ॥३३॥
ब्रह्मादि स्थावरचर त्रिगुणामहं प्रभुः ।
तपसाऽनेन तुष्टोऽहं वरं दातुमिहागतः ॥३४॥
वरान्वृणु महादेव यावतो मत्त इच्छसि ॥३५॥ ( १७१९ )
इति श्रीगणेशपुराण उपासनाखंडे तपोवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥४४॥

अध्याय ४५ प्रारंभ :-
मुनिरुवाच ।
ततः प्रसन्ने विघ्नेशे देवेशे विघ्नहारिणि ।
वरान् दित्सति शर्वाय किं किं वव्रे सदाशिवः ॥१॥
ब्रह्मोवाच ।
गणेशवचनं श्रुत्वा शिवो वाक्यमथाब्रवीत् ।
स्मृत्वा गजाननं तं तु स्वस्वरूपं वरप्रदम् ॥२॥
शिव उवाच ।
दशापि नेत्राणि ममाद्य धन्यान्यथो भुजाः पूजनतस्तवाद्य ।
तवानते पंच शिरांसि धन्या न्यथः स्तुते: पंचमुखानि देव ॥३॥
पृथ्वी जलं वायुरथो दिशश्च, तेजश्च कालः कलनात्मकोऽपि ।
नभो रसो रुपमथानि गंधः, स्पर्शश्च शब्दो मन इन्द्रियाणि ॥४॥
गंधर्वयक्षाः पितरो मनुष्या, देवर्षयो देवगणाश्च सर्वे ।
ब्रह्मेन्द्ररुद्रा वसवोऽथ साध्यास्त्वत्तः प्रसूता सचराचरश्च ॥५॥
सृजस्यदो विश्वमनन्यबुद्धे, रजोगुणात्पासि समस्तमेतत् ।
तमोगुणात्संहरसे गुणेश, नित्यो निरीहाखिलकर्मसाक्षी ॥६॥
ब्रह्मोवाच । ततोऽहमब्रुवं देवं गणेशं तं शिवाज्ञया।
नाम चाकरवं तस्य यत्तच्छृणु महामते ॥७॥
त्वन्नाम बीजं प्रथमं मातृकाणामोंकार रूपं श्रुतिमूलभूतम् ।
यतो गणानां त्वमसीह ईशो, गणेश इत्येव तवास्तु नाम ॥८॥
ओमित्यथोक्ते गणनाथ केन, तुतोष शर्वः प्रददौ वरांश्च ।
यः सर्वकार्येषु तवेश कुर्यात्, स्मृति तदन्तं स लभेदविघ्नम् ॥९॥
विनास्मृतिं तेन लभेच्च कोऽपि वांछार्य सिद्धिं कृमिकीट कोऽपि ।
शैवेस्त्वदीयैरथ वैष्णवैश्च शाक्तैश्च सौरेरथ सर्वकार्ये ॥१.४५.१०॥
शुभाशुभे वैदिक लौकिके वा त्वमर्चनीयः प्रथमं प्रयत्नात ।
यन्मंगलं सर्वजनेषु देव सयक्ष विद्याधरपन्नगेषु ॥११॥
तस्येश्वरो मंगलमूर्तितां त्वं ततो यतो मंगलकृत् स्वभक्ते ।
अहं पुराऽनर्चयतस्तवेश त्वय्यस्मृते दैत्यवरस्य युद्धे ॥१२॥
अवंदनाच्चाप पराभवं तं ततस्तवांघ्रिं शरणं प्रपन्नः ।
क्षमापराधं मम सर्वशक्ते जयं प्रयच्छाखिलजन्य काले ॥१३॥
ये सर्वथा त्वां न भजन्ति देव, जडा दरिद्राः प्रभवन्तु तेऽपि।
भजंति ते भक्तियुता मनुष्याः, प्राप्स्यन्ति सिद्धिं निखिलार्थदात्रीम् ॥१४॥
क उवाच ।
इत्थं निशम्याखिलवाक्यसारं वेत्ताऽवदद्वाक्यमिदं गिरीशम् ।
यदा यदा मे स्मरणं विदद्ध्यास्तदाऽन्तिकं तेऽहमियामि मेउ ॥१५॥
मन्नामबीजेन निमंत्रयैकं बाणं तु तेनैव पुरत्रयं तत् ।
निपातयास्मन् महसा महेश, कृत्वा स दैत्यं खलु भस्मसात्वम् ॥१६॥
ततः स्वनाम्नामवदत् सहस्रं गणाधिपोऽस्मै प्रणताय सम्यक् ।
शिवाय भक्त्या परितुष्टचित्तो, जयप्रदं कामकरं जनानाम् ॥१७॥
उवाच चैनं रणकाल एतत् पठस्व दैत्यान्विनिहंसि शीघ्रम् ।
त्रिसंध्यमेतस्य जपान्नराणां सिध्यन्ति कामाः सकला अभीष्टाः ॥१८॥
श्रुत्वा तु वाक्यं द्विरदाननस्य, तं पूज्य सम्यक्शिव उज्जहर्ष ।
संस्थापयामास महागणेशं प्रासादमुच्चैर्दृढमाशु चक्रे ॥१९॥
संतर्प्य देवान् मुनि सिद्धसंघान् दानानि दत्वा द्विजपुंगवेभ्यः ।
पुनश्च संपूज्य नमश्चकार देवं गिरीशो वरदं गणेशं ॥१.४५.२०॥
उवाच सर्वान् मणिपूरियं तु विख्यातिमागच्छतु सर्वलोके ।
देवेन सर्वैश्च तथोदितैस्तैरन्तर्दधुस्ते गणनाथमुख्याः ॥२१॥
अन्तर्हिते मुनिगणे ससुरे गणेशे, शर्वोप्यगात् स्वनिलयं स्वगणैरुपेतः ।
गन्धर्व यक्ष निवहैरमरांगनाभिर्वृत्तं निजं परमुदा गिरिजामुवाच ॥२२॥
श्रुत्वा तदाऽमृतवचः सकलं गिरीशाद्देवेश्वरा मुमुदिरे मुनयः सदाराः ।
योगीश्वराश्च निहतं त्रिपुरं स्वधिष्ण्यममंसताधिगतं गिरिश प्रसादात् ॥२३॥ ( १७४२ )
इति श्रीगणेशपुराण उपासनाखंडे शिवस्य वरदानं नाम पंचचत्वारिंशोऽध्यायः ॥४५॥