गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायः ०९

विकिस्रोतः तः
← अध्यायः ०८ गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायः ९
[[लेखकः :|]]
अध्यायः १० →

।। अथ नवमोऽध्यायः ।।
सूत उवाच ।।
ततो भृगुः क्षणं ध्यात्वा पुनस्तं प्राह भूपतिम् ।
अत्यन्त विह्वलो दुःखं वीक्ष्यतत्पूर्वकर्मजम् ।।१।।
भृगुरुवाच ।।
क्व पाप निकरास्तेतु क्वोपायाः कथिता मया ।
तथाप्येवं ब्रवीमित्वामुपायमघनाशनम् ।।२।।
गणेशस्य पुराणं त्वं श्रोष्यसे यदिसत्वरः ।
तदैव मोक्ष्यसेदुःखसागरान्नात्रसंशयः ।।३।।
इत्युक्त्वा तं गणेशस्य नामाष्टशतमुत्तमम् ।
जप्त्वा जलं मन्त्रयित्वा सिषेच नृपतिं तदा ।।४।।
सिक्तमात्रे जले तेन तन्नासारं ध्रतो लघुः ।
कृष्णास्यः प्रापतद्भूमौ ववृधे तत्क्षणादसौ ।।५।।
सप्ततालप्रमाणोभूद्व्यादितास्यो भयङ्करः ।
करालजिह्वोरक्ताक्षो दीर्घबाहुर्जटाधरः ।।६।।
मुखादुरुवमन्नग्निं क्षणाच्च पूयशोणिते ।
नेत्राणामन्धतां कुर्वन्नन्धकार इवापरः ।।७।।
आलोक्य दुद्रुवुः सर्वे तदाश्रम निवासिनः ।
दंष्ट्रारावैर्दशदिशः पूरयन्तं तमद्भुतम् ।।८।।
अपृच्छत्तं द्विजवरस्तत्समक्षं तु पूरुषम् ।
विद्वानपीतिकोसित्वं नाम ते किं वदस्वमे ।।९।।
प्रत्युवाच मुनिं तं तु परिपृष्टो द्विजेनसः ।
प्राणिमात्रशरीरस्थो नाम्नाहं पापपूरुषः ।।१०।।
त्वन्मत्रजलपातेन निःसृतो राजदेहतः ।
क्षुधातुरो भक्ष्यमीहेदेहिमह्यं न चेत्तदा ।।११।।
भक्षयिष्ये मुनेलोकान् सोमकान्तं तवाग्रतः ।
वद मे वसतिं रम्यामितोनिःसारितस्य च ।।१२।।
ततस्तु बहिरभ्येत्य तमुवाच मुनिः पुनः ।
अस्मिन् रसातले सरले विरसे वस कोटरे ।।१३।।
गलितानि च पत्राणि भक्षयस्व ममाज्ञया ।
नोचेत्वां भस्मसात्कुर्यां नानृतं मे वचोधम ।।१४।।
सूत उवाच ।।
इति तन्मुवाक्यान्ते शुष्कं स वृक्षमस्पृशत् ।
भस्मसादभवद्वृक्षोद्विजास्तत्स्पर्शमात्रतः ।।१५।।
मुनेः संदर्शनाद्भीत तस्मिन् भस्मन्यलीयत ।
तस्मिन् विलिने स मुनिः सोमकान्तं पुनर्जगौ ।।१६।।
भृगुरुवाच ।।
पुराणश्रवणाद्यत्ते जातं पुण्यं नृपोत्तम ।
अयं यावच्च्यूततरुरत्रचोतिष्ठते पुनः ।।१७।।
तापत्संपादयस्मिंस्तद्भस्मन्येव दिने दिने ।
विवृद्धेस्मिंस्तरौराजन्निष्पापस्त्वं भविष्यसि ।।१८।।
राजोवाच ।।
गणेशस्य पुराणं यन्नदृष्टं न च वै श्रुतम् ।
कुत्र तल्लभ्यते ब्रह्मन्व्याकर्ता तस्य वा मुने ।।१९।।
मुनिरुवाच ।।
ब्रह्मणा कथितं पूर्वं वेदव्यासाय धीमते ।
व्यासाच्च विदितं मह्यं पुराणं पापनाशनम् ।।२०।।
अहं च ते प्रवक्ष्यामि तीर्थेस्नानं समाचर ।
श्रोष्ये पुराणमिति च सङ्कल्पं कुरु सुव्रत ।।२१।।
सूत उवाच ।।
भृगुणानोदितः स्नात्वा भृगुतीर्थेति विश्रुते ।
सोमकान्तोमुदायुक्तस्ततः सङ्कल्पमाचरत् ।।२२।।
गणेशस्य पुराणं यत्तच्छ्रोष्येद्यप्रभृत्यहम् ।
सङ्कल्पमात्रे तु कृते बभौ राजा निरामयः ।।२३।।
भृगुप्रसादान्नीरक्तः कृमिक्षतविसर्जितः ।
गृहीत्वा तं भृगुरगाद्विस्मितं हर्षितं नृपम् ।।२४।।
उपविश्यासनेस्वीये दापयत्तस्यचासनम् ।
उपविष्टो बभाषे तं दिव्यकान्तिर्नृपोत्तमः ।।२५।।
राजोवाच ।।
भवत्प्रसादात्सकला गरिष्ठा सङ्कल्प मात्रेण गता व्यथा मे ।
आश्चर्यभूतं सकलं वदस्व पुराणमेतद् द्विरदाननस्य ।।२६।।
भृगुरुवाच ।।
श्रृणुष्वावहितो भूत्वा तत्पुराणं वदाम्यहम् ।
अनन्तपुण्यनिचयैर्यस्य श्रवणगोचरा ।।२७।।
मतिरुत्पद्यते पुंसां नान्यथा पापकारिणाम् ।
यस्याकर्णनमात्रेण सप्तजन्मार्जितान्यपि ।।२८।।
लघुशुष्कार्द्रस्थूलानि पापानि च महान्त्यपि ।
तत्क्षणाद्विलयं यान्ति गणेशस्य प्रसादतः ।।२९।।
अव्ययस्या प्रमेयस्य निर्गुणस्य निराकृतेः ।
मनोवागनिरूप्यस्य केवलानन्दरूपिणः ।।३०।।
यस्य स्वरूपं नविदुर्ब्रह्मेशानादयः सुराः ।
सहस्र वदनो यस्य महिमानं न चक्षमः ।।३१।।
यावद्विशेषविदपि प्रवक्तुं राजसत्तम ।
मया यथा श्रुतं पूर्वं तत्पुराणं सुपुण्यदम् ।।३२।।
अतीन्द्रियज्ञानवतो व्यासाच्चामिततेजसः ।
यज्ञविध्वंसशोकार्तो दक्षः सुश्रावमुद्गलात् ।।३३।।
यस्य भक्तिर्दृढा राजन् गणेशे सर्वसिद्धिदे ।
स एतच्छृणुयान्नित्यं न वाच्यं तांदृशेतरे ।।३४।।
यदि सर्वेपि कुर्वीरन् विघ्नराजस्य सेवनम् ।
क्व तदा विघ्ननिचया विचरेयुर्यथासुखम् ।।३५।।
दुखान्यनुभवेयुः केनानाविरहजान्युत ।
चकारेदं पुरा व्यासो भूतभव्यभविष्यवित् ।।३६।।
वेदार्थज्ञानरहितान् वेदाध्ययनवर्जितान् ।
वर्णाश्रमाचारशून्यान् जातिसंकरकारिणः ।।३७।।
कलौ विलोक्य तु जनान् कुटिलान् पापकारिणः ।
अष्टादश पुराणानि कृतवान् धर्मगुप्तये ।।३८।।
तावन्त्युपपुराणानि ततोर्थान् बुबुधुर्जनाः ।
तत एव गणेशस्य रूपं जानन्त्यमीजनाः ।।३९।।
।। इति श्रीगणेशपुराणे उपासनाखण्डे राजोपदेशकथनं नाम नवमोऽध्यायः ।।९।।