गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायः ०३

विकिस्रोतः तः
← अध्यायः ०२ गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायः ३
[[लेखकः :|]]
अध्यायः ०४ →

।। अथ तृतीयोऽध्यायः ।।
सूत उवाच ।।
तत उत्थाय राजा स गृहित्वा दक्षिणेकरे ।
पुत्रं विवेश हर्म्याग्रं यत्र मन्त्रयते सदा ।।१।।
यत्र सिंहासनं दिव्यं काञ्चनं बहुरत्नयुक् ।
मुक्ताप्रवालरचितं भातिशक्रपदं यथा ।।२।।
तत्रासतुः पितापुत्रौ भातोद्वावप्यनेकधा ।
प्रतिरत्नं गतौ यस्मात्सुमदायवृताविव ।।३।।
आचारं प्रथमं प्राह नीतिं नानाविधां नृपः ।
पुत्राय करुणायुक्तो यशसे स्वकुलस्य च ।।४।।
सोमकान्त उवाच ।।
याममात्रावसिष्टायां निशायां जागृतः पुमान् ।
त्यक्त्वा शय्यां शुचिस्थाने उपविश्य गुरुं स्मरेत् ।।५।।
देवतां चिन्तयित्वेष्टां प्रणमेत्स्तुतिपूर्वकम् ।
प्रार्थ्य पृथ्वीं क्षमस्वेति पादस्पर्शं जगन्मये ।।६।।
प्रातर्नमामि गणनाथमशेषहेतुं ब्रह्मादिदेववरदं सकलागमाढ्यम् ।
धर्मार्थकामफलदं जनमोक्षहेतुं वाचामगोचरमनादिमनन्तरूपम् ।।७।।
प्रातर्नमामि कमलापतिमुग्रवीर्यं नानावतारनिरतं निजरक्षणाय ।
क्षीराब्धिवासममराधिपबन्धुमीशं पापापहं रिपुहरं भव मुक्तिहेतुम् ।।८।।
प्रातर्नमामि गिरिजापतिमिन्दुमौलिं व्याघ्राजिनांवृतमुदस्तयंमनोजे ।
नारायणेन्द्रवरदं सुरसिद्धजुष्टं सर्पांस्त्रिशूलडमरूदधतं पुरारिम् ।।९।।
प्रातर्नमामि दिननाथमघोपहारं गाढान्धकारहरमुत्तमलोकवन्द्यम् ।
वेदत्रयात्मकमुदस्तसुरारिमायं ज्ञानैकहेतुमुरुशक्तिमुदारभावम् ।।१०।।
प्रातर्नमामि गिरिजां भवभूतिहेतुं संसारसिन्धु परपारकरीं त्रिनेत्राम् ।
तत्त्वादिकारणमुदस्तसुरारिमायां मायामयीं सुरमुनीन्द्रनुतां सुरेशीम् ।।११।।
एवमन्यांश्च संस्मृत्य देवान्मुनिगणांस्तथा ।
मानसैरुपचारैश्च पूजयित्वा क्षमापयेत् ।।१२।।
ततो गच्छेत्सोदपात्रो ग्रामस्य नैर्ऋतीं दिशम् ।
मृदं गृहित्वा सुश्वेतां ब्राह्मणः क्षत्रियोरुणाम् ।।१३।।
वैश्यशूद्रौ तथा श्यामां ननदीतीरतः खनेत् ।
नोर्वराया न वल्मीकाद् ब्राह्मणागारतः क्वचित् ।।१४।।
तृणादिनाच्छादयित्वा धरां मूत्रपुरीषयोः ।
कृत्वोत्सर्गं दिवारात्रावुदग्दक्षिणदिङ्मुखः ।।१५।।
आदौ गुदं प्रमृज्यैव तृणकाष्ठादिना नरः ।
पञ्चवारं मृदाद्भिश्च क्षालयेत्तदनन्तरम् ।।१६।।
दशवारं वामहस्तं सप्तवारमुभौकरौ ।
लिङ्गतथैकवारं तु वामहस्तं त्रिवारतः ।।१७।।
मूत्रोत्सर्गे क्षालयीत द्वौ करौ च द्विवारतः ।
पादौसदैकवारं तु गृहस्थस्यैवमीरितम् ।।१८।।
व्रतवान् द्विगुणं कुर्यास्त्रिगुणं वनगोचरः ।
यतिश्चतुर्गुणं कुर्याद्गात्रावर्द्धन्तुमौनवान् ।।१९।।
अर्द्धंपादं दिवारात्रौ शौचं स्त्रीशुद्र एव च ।
तत आचम्य काष्ठं तु क्षीरकण्टकवृक्षयोः ।।२०।।
गृहीत्वा प्रार्थनापूर्वं दन्ताञ्जिह्वान्विशोधयेत् ।
बलमोजोयशस्तेजः पशुबुद्धिधनानि च ।।२१।।
मेधां ब्रह्मधियं चैव त्वं मे देहि वनस्पते ।
ततः शीतजलैः स्नानं कृत्वा मलहरं पुरा ।।२२।।
ततो मन्त्रैश्च गृह्योक्तैः सन्ध्योपास्तिं ततश्चरेत् ।
जपं होमं च स्वाध्यायं तर्पणं देवपूजनम् ।।२३।।
वैश्वदेवं तथातिथ्यं भोजनं द्विजसाक्षिकम् ।
पुराणश्रवणं दानं परनिन्दाविवर्जनम् ।।२४।।
परोपकारं कुर्याच्च द्रव्यप्राणवचोमृतैः ।
परापकारं नोकुर्यादात्मस्तवनमेव च ।।२५।।
गुरुद्रोहं वेदनिन्दां नास्तिक्यं पापसेवनम् ।
अभक्ष्यभक्षणं चैव परदारनिषेवणम् ।।२६।।
स्वदारवर्जनं चैव कुर्यादृतुगतिं चरेत् ।
मातापितृगुरुणां च गवांशुश्रूषणं सदा ।।२७।।
दीनान्धकृपणेभ्यश्च दद्यादन्नं सवस्त्रकम् ।
प्राणात्ययेपि सत्यस्य त्यागं नैव समाचरेत् ।।२८।।
ईश्वरानुग्रहोयेषां साधूनां च प्रपालनम् ।
अपराधानुसारेण धर्मशास्त्रं विलोक्य च ।।२९।।
पृष्ट्वा वा पण्डितान्दण्डं कुर्यान्नीतिविशारदः ।
विश्वासो यस्य नैवस्यात्तत्र नो विश्वसेत्क्वचित् ।।३०।।
विश्वस्तेत्यन्त विश्वासो नकर्तव्योबुभूषता ।
कृतवैरेथ विश्वस्ते कदापि न च विश्वसेत् ।।३१।।
षड्गुणानां प्रयोगेण वर्धयेद्राष्टमात्मनः ।
दानं स्वशक्त्या कुर्वीत क्षीणतामन्यथा व्रजेत् ।।३२।।
परे व्याकुलितेयानमधमं परिचक्षते ।
चारदृष्टिर्दूतवक्त्रउद्यदण्डो नृपो भवेत् ।।३३।।
दण्डस्यैव भयाल्लोकाः स्वे स्वे धर्मे व्यवस्थिताः ।
अन्यथा नियमो नस्यात्पारक्यं स्वीयमित्यदः ।।३४।।
अधमो यदि निन्देतस्तुवीत यदि वा क्वचित् ।
नक्रुद्धेन्नचतुष्येच्च किं तया किं तयापि च ।।३५।।
पूर्वापकारी यदि च पुनर्वा शरणं व्रजेत् ।
पूर्वं च धनिको यः स्यात्परिपाल्यः सदैव हि ।।३६।।
मन्त्रगुप्तिः सदाकार्या तन्मूलं राज्यमुच्यते ।
कामादि षड्रिपून्हित्वा ततोन्यान्विजयीत च ।।३७।।
वृत्तिच्छेदं प्रजोच्छेदं देवतोच्छेदमेव च ।
आरामचैत्ययोश्छेदं न कुयान्नृपसत्तमः ।।३८।।
पर्वकाले ददेद्दानं यशसे त्यागमेव च ।
न मित्रवञ्चनां कुर्यात्स्त्रीषु गोप्यं वदेन्न च ।।३९।।
ऋणतो ब्राह्मणं चैव पङ्कतो गां समुद्धरेत् ।
अनृतं न वदेत्क्वापि सत्यं क्वापि न हापयेत् ।।४०।।
अमात्यानां प्रजानाञ्च भृत्यानां चित्तहृद्भवेत् ।
ब्राह्मणेभ्यो नमस्कुर्याद्देवताभ्यः सदैव च ।।४१।।
सूत उवाच ।।
इत्यन्यदपि शिक्षाप्य हेमकण्ठ सुतं नृपः ।
आचारं सहधर्मेण नीतिशास्त्रं यथा श्रुतम् ।।४२।।
क्षेमं करं रूपवन्तं विद्याधीशं तथैव च ।
आह्वयामास चामात्यान्सुमुहूर्तं विलोक्य च ।।४३।।
संभारानुपकल्प्यैव नानास्थानगतान्नृपः ।
ब्राह्मणन्वेदविदुषो यज्ञकर्म सुनिष्ठितान् ।।४४।।
राज्ञोथमहतोराजपत्नीश्च सुहृदः स्वकान् ।
आह्वयामास नृपतिः श्रेणीमुख्यांश्च नागरान् ।।४५।।
अभिषेकावलोकाय पुत्रस्य रिपुघातिनः ।
गणेशं पूजयित्वेष्टदेवतां च यथाविधि ।।४५।।
वाचयित्वास्वस्त्ययनं मातृपूजनपूर्वकम् ।
कृत्वाभ्युदयिकं श्राद्धं ब्राह्मणांस्तर्प्यचान्धसा ।।४७।।
कारयित्वा मन्त्रघोषैरभिषेकं सुतस्य सः ।
उवाच सोमकान्तस्त्रीन्मन्त्रिमुख्यानिदं वचः ।।४८।।
राजोवाच ।।
ममायं सुत इत्येव ममात्याबुद्धिरस्तुवः ।
भवतामेवहस्तेषु सुत एष निरूपितः ।।४९।।
ममानुशासनं यद्वत्कृतं नीतिविशारदैः ।
तथास्य शासनं कार्यं श्रेणीमुख्यसमन्वितैः ।।५०।।
।। इति श्रीगणेशपुराणे उपासनाखण्डे आचारादिनिरूपणं नाम तृतीयोऽध्यायः ।।३।।