गणेशकवचम्

विकिस्रोतः तः
गणेशकवचम्
गणेशपुराणम्
१९५३

गणेशकवचम्

मार्युवाच‌-
एषोऽतिचपलो दैत्यान्बाल्यिऽपि नाशयत्यहो।
अग्रे किं कर्मकतेति न जाने मुनिसतम॥१
देत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः।
अतोऽस्व कंठे किंचित्त्वं रक्षार्थ बद्धुमर्हसि॥
मुनिरुवाच-
व्यावेत्सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे
न्नेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम्।
द्मपारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुं
तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा॥३
विनायकः शिखां पातु परमात्मा परात्परः।
अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः॥४
ललाटं कश्यपः पातु भ्रुयुगं तु महिदरः।
नयने फालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ॥५

जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः।
वाचं विनायकः पातु दन्तात्रक्षतुदुर्मुखः॥
श्रवणौ पाशपाणिस्तु नासिकां किन्तितार्थदः।
स्कन्धो पातु गजस्कन्धः स्तनौ विघ्रविनाशनः।
हृदयं गणनाथस्तु हेरम्बो जठरं महान्।
धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः।
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः।
गणक्रीडो जानुजङ्घे ऊरू मङ्गळमूर्तिमान्।
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु।
क्षिप्तप्रसादनो बाहू पाणी आशाप्तपूरकः।
अङ्गुलीश्च नखान्पातु पद्महस्तोऽरिनाशनः।
सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु।
अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु।
आमोदस्त्वघ्रतः पातु प्रमोदः पृष्ठतोऽवतु।


प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः॥
दक्षिणस्वामुमापुत्रो नैर्ऋत्यां तु गणेश्वरः।
प्रर्ताच्यां विघ्नहर्ताव्याद्वायव्ययां गजकर्णकः।
कौबेर्षा निधिषः पायादीशान्यामीशनन्दनः।
दिवाऽव्यादेकद्न्तस्तु रात्रो सन्ध्यासु विघ्नहृत्।
राक्षसासुरवेतालग्रहभूतपिशाचतः।
पालाङ्कुशधरः पातुरजः सत्त्वतमस्मृतीः
ज्ञानं धर्मच् लक्ष्मीं च लज्जा कीर्ति तथा कुलम्।
सपुर्धनं च धान्यं च गृहदारान्सुतान्सखीन्।
सर्वायुधघरः पौत्रान् मयूरेशोऽवतात्सदा।
कपिलोऽजाविदं यः कण्ठे धारयेत्सुधीः।
नभयं जायते तस्य यक्षरक्षःपिशाचतः॥
त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत्।
यात्राकाले पठेयस्तु निर्विघ्नेन फलं लभेत्।

युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्रुतम्।
मारणोच्चाटनाकर्षस्तम्भमोहनकर्मणि॥ २१
सप्तवारं जपेदेतद्दिनानामेकविंशतिम् ।
तत्तत्फलमवाप्नोति साधको नात्र संशयः ॥ २२
एकविंशतिवारं च पठेत्तावद्दिनानि यः ।
कारागृहगतं सद्यो राज्ञा वध्यं च मोचयेत् ॥ २३
राजदर्शनवेलायां पठेदेतत्त्रिवारतः ।
स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥ २४
इदं गणेशकवचं कश्यपेन समीरितम् ।
मुद्गलाय च तेनाथ माण्डव्याय महर्षये ॥ २५
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् ।
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ २६
अनेनास्य कृता रक्षा न बाधाऽस्य भवेत्कचित् ।
राक्षसासुरवेतालदैत्यदानवसम्भवा ॥ २७

॥ इति श्रीगणेशपुराणे गणेशकवचं समाप्तम् ॥

"https://sa.wikisource.org/w/index.php?title=गणेशकवचम्&oldid=319872" इत्यस्माद् प्रतिप्राप्तम्