गणपतिसहस्रनामसोत्रम्

विकिस्रोतः तः
गणपतिसहस्रनामसोत्रम्
अज्ञातः
१९५३

गणपतिसहस्रनामस्तोत्रम्

गणेश्वरो गणाक्रीडो गणनायो गणाधिपः।
एकदष्ट्रो वक्रतुण्डो गजवक्रो महोदरः॥
लम्बोदरो धूम्रवर्णो विकटो विघ्ननायकः।
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः॥
भीमः प्रमोद आनन्दो सुरावन्दो मदोत्कटः।
हेरम्बश्श्म्बरश्शस्मुर्लम्बकर्णो महाबलः॥
नन्दनोऽलम्पटो भीमो मेघनादो गणञ्जयः।
विनायको विरूपाक्षो घीरश्शूरो वरप्रदः॥
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादः।
रुद्रप्रियो गणाध्यक्षो उमापुत्रोऽघनाशनः॥
कुमारगुरुरीशानपुत्रो मूषकवाहनः।
सिद्धिप्रदः सिद्धिपतिसिद्धिस्सिद्धिविनायकः॥
विघ्नस्तुङ्गभुजस्सिह्मवाहनो मोहिनीप्रियः।

कटिङ्कटो राजपुत्रश्शकलस्सम्मितोऽमितः॥
कूश्माण्डगणसम्भूतो दुर्जयो धूर्जयोऽजयः।
भूपतिर्भुवनेशश्च भूतानां पतिरव्ययः॥
विश्वकर्ता विश्वमुखो विश्वरूपो निघिर्घृणिः।
कविः कवीनाभृषभो ब्रह्मण्यो ब्रह्मणस्पतिः॥
ज्येष्ठराजो निधिपतिः निधिप्रियपतिप्रियः।
हिरण्मयपुरान्तस्थः सूर्यमण्डलमध्यगः॥
कराहतिघ्वस्तसिन्धुसलिलः पूषदन्तभृत्।
उमाङ्गकेळिकुतुकी मुक्तिदः कुलपालकः॥
किरीटी कुण्डली हारी वनमाली मनोमयः।
वैमुख्यहतदृश्यश्रीः पादाहत्याजितक्षितिः॥
सद्यो जातः स्वर्णभुजः मेखली दुर्निमित्तहृत्।
दुस्स्वप्नहृतदृश्यश्रीः गुणी नादप्रतिष्ठितः॥१३
सुरूपस्सर्वनेत्राधिवासो वीरासनाश्रयः।
पीताम्बरः खङ्गधरो खण्डेन्दुकृतशेखरः॥

चित्राङ्कश्यामदशनो फालचन्द्रश्चतुर्भुजः।
योगाघिपस्तारकस्थः पूरुषो गजकर्णकः॥
गणाधिराजो विजयस्थिरो गणपतिर्ध्वजी।
देवदेवः स्मरप्राणदीपको वायुकील्कः।
विपश्चिद्वरदो नादो नादभिन्नबलाहकः।
वराहवदनो मृत्युञ्जयो घ्याघ्राजिनांबरः॥
इच्छाशक्तिघरो देवत्राता दैत्यविमर्दूनः।
शम्भुतेजाश्शिदाशोकहारी गौरीसुखावहः।
उमाङ्गमलज्ञो गौरीतेजोसूस्खर्घुनीभवः॥१९
यज्ञकायो महानादो गिरिवर्ष शुभाननः।
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्घा ककुप्छ्रुति॥२०
जगत्तन्मलयोन्मेषनिमेषोऽग्नद्यर्कसोमदृक्॥२१
गिसैद्वेकरदो घर्मो घर्मिष्ठः सामबृंहितः।

ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः॥२२
कुलाचलांसस्सोमार्कघण्टो रुद्रशिरोघरः।
नदीनदभुजस्सर्पांगुळिकस्तारकानखः॥२३
भ्रूमध्यसंस्थितकरो ब्र ह्मविद्यामदोत्कटः।
व्योमनाभः श्रीहृदयो मेरुष्ठोऽर्णवोदरः॥
कुक्षिस्थयक्षगन्धर्वरक्षः किन्नरमानुषः।
पृथ्वीकटिस्सृष्टिलिङ्गः शैलोरूदग्रजानुकः॥२५
पाताळजङ्घो मुनिपत्काङ्गुष्ठस्त्रयीतनुः।
ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः।
हृत्पद्मकर्णिकाशायी वियत्केळिसरोरुहः।
सद्धक्तध्याननिगळो पूजावारिनिवारितः॥२७
प्रतापी काश्यपसुतः गणपो विटपी बली।
यशस्वी धार्मिकस्स्वोजाः प्रमथः प्रमथेश्वरः॥
चिन्तामणिद्वीपपातिः कल्पद्रुमवनालयः।
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः॥२९

सीव्राशिरोधृतपदो ज्वालिनीमौळिलालितः।
नन्दानन्दितपीठभीः भोमदाभूषितासनः॥३०
सकामदायिनीपीठः स्फुरदुप्रासनाश्रयः।
तेजोवतीशिरोरत्नस्सत्यानित्यवतंसितः॥
मविघ्निनाशिनीपीठस्सर्वशक्त्यम्बुजालयः॥
लिपिपद्मासत्यधारो वहिघासत्रयालयः॥
क्षन्नतप्रपदो गूडगुल्फ्स्संवृतपार्ष्णिकः।
पीनजङ्घश्श्लिष्टजानुः स्थूलरूपो नमत्कटिः॥३३
निम्ननामिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः।
पीनस्कङ्हो कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः।
मग्नवामरदस्तुङ्गदक्षदंतो महाहनुः।
हस्वनेत्रश्यश्शूर्पकर्णो निबिडमस्तकः॥
अम्बकाकारकुम्भाप्रो रत्नमौळिर्निरङ्कुशः।
सर्पहारकटीसूत्रस्सर्पयज्ञोपवीतवान्॥
सर्पकोटीरकटकः सर्पप्रैवेयकाङ्गदः।

स्रर्पकक्ष्पोदराबन्धः सर्पराजोत्तरीयकः।
रक्त्तरक्त्ताबरधरो रक्त्तमाल्यविभूषणः।
रक्त्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लवः।
श्वेतश्श्वेताम्बरधरः श्वेतमाल्यविभूषणः।
श्वेतातपत्ररुचिरश्वेतचामरवीजितः॥३९
सर्वावयवसंपूर्णस्सर्वलक्षणलक्षितः।
सर्वाभरणभूषाढ्यस्सर्वशोभासमन्वितः॥४०
सर्वमङ्गळमाङ्गळ्यस्सर्वकारणकारणः।
सर्वदैककरश्शार्ङ्गीबीजपूरगदाधरः॥
इक्षुचापधरश्शूली चक्रपाणिस्सरोजभृत्।
पाशी धृतोत्पलश्शालीमञ्जरीभृत्स्वदन्तभृत्॥
कल्पवल्लीधरो विश्वाभयदेककरो वशी।
अक्षमालाधरो ज्ञानमुद्रावान्मुद्गरायुधः।
पूर्णपात्री कम्बुधरो विधूतारिसमूहकः।
मातुलुङ्गधरश्चूतकलिकाभृत्कुठारवान्॥४४
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः।

भारतीसुन्दरीनाथो विनायकरतिप्रियः॥४५
महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोहरः।
रमारमेशपूर्वाङ्गो रतिकन्दर्पपश्चिमः।
आमोद मोदजननस्सप्रमोदप्रमोदनः।
समेधितसमृद्धश्रीः बुद्धिसिद्धिप्रवर्तकः।
दत्तसौमुख्यसुमुखः कान्तिकन्दळिताश्रयः॥
मदनावत्याश्रिताङ्घ्रः कृतवैमुख्यदुर्मुखः।
विघ्नस्म्पल्लतोपघ्नः सदोन्निद्रमदद्रवः॥
विघ्नकृन्निघ्नचरणो द्राविणीशक्तिसत्कृतः।
तीव्राप्रासन्ननयनो ज्वालिनीपालनैकदृक्।
मोहिनीमोहनो भोगदायिनीकान्तिमण्डितः।
कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः।
वसुधारा मनोमोद महाशङ्खनिभिप्रभुः।
नमद्वसुमतीमौळिमहापद्मनिधिप्रभुः।

सर्वसद्रुरुसंसेव्यश्शोचिष्केशहृदाश्रयः।
ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः॥
उग्रः प्रत्यग्रनययो दिव्यास्त्राणां प्रयोगवान्।
ऐरावतादिसर्वाशावारणावरणप्रियः॥
वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः।
जयो जयपरीवारो विजयो विजयावहः॥५५
अजितार्चितपादाब्जः नित्यानित्यवतंसितः।
विलासिनीकृतोल्लासश्शौण्डी सौन्दर्यमण्डितः॥
अनन्तानन्तसुखदस्सुमङ्गळसुमङ्गळः।
इच्छाशक्तिर्ज्ञानशाक्तिक्रियाशक्तिनिषेवितः।
सुभगासंश्रितपदः ललिताललिताश्रयः।
कामिनीकामनः कामः मानिनीकेळिलालितः।
सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः।
गुरुगुप्तपदो वाचा सिद्धो वागीश्वरेश्वरः॥
नळिनीकामुको वामारामाज्येष्ठामनोरमः॥५९

रौद्रीमुद्रितपादाब्जःहुम्बीजस्तुङ्गशक्तितः॥३०
विश्वादिजननत्राणः स्वाहाशक्तिस्सकीलकः।
अमृताब्धिकृतावासः मदघूर्णितलोचनः।
उच्छिष्टगण उच्छिष्ठगणेशो गणनायकः।
सार्वकालिकसंसिद्धिः नित्यशैवदिगम्बरः।
अनपायोऽनन्तदृष्टिरप्रमेयोऽमृजरामरः।
अनाविलोऽप्रतिरथो अच्युतोऽमृताक्षरः।
अप्रतर्क्योऽक्ष्स्योऽजय्यो अनाथश्च अनामयः।
अमोघसिद्धिरद्वैतो अघोरोऽप्रतिमाननः।
अनाकारोभिभूम्यग्निबलहा व्यक्तलक्षणः।
आघारपीठ आधार आधाराध्र्यवर्जितः।
आस्वुवाहन केत्वाशापूरकाखुमहारणः।
इक्षुचागरमध्यस्थः इक्षुभक्षणलालसः।
इक्षुचापातिरेकश्रीः इक्षुचापनिषेवितः।
इन्द्रगोपसमानश्रीः इन्द्रनीलसमद्युतिः।

इन्दीवरदळ्श्यामः इन्दुमण्ड्लनिर्मलः ।
इन्द्रप्रिय इडाभाग इडाधामेन्दिराप्रियः॥६८
इक्ष्वाकुविघ्नविध्वंसी इति कर्तव्यतेप्सितः।
ईशानमौळिरीशान ईशानसुत ईशघः।
ईषणात्रयकल्पान्तः ईहामात्रविवर्जितः।
उपेन्द्र उडुभृन्मौळि रुडेरकबलिप्रियः।
उन्नतानन उत्तुङ्ग उदारस्रिदशाग्रणीः।
ऊर्जस्वानुज्ज्वलतनुः ऊहापोहदुरासदः॥
ऋग्यजुस्सामसम्भूतिऋद्धिप्रवर्तकः।
स्वभक्तविघ्ननाशश्च सुरद्विट्छक्तिलोपकृत्।
विमुखार्चानाविलुप्तश्रीं र्लूताविस्फोटनाशनः।
एकारपीठमध्यस्थ एकपादकृतासनः।
एजिताखिलदैत्यश्रीः एजिताखिलसंश्रयः।
ऐश्वर्यनिधिरैश्वर्याइहिकामुष्मिकप्रदः।
ऐरँअदसमोन्मेष ऐरावतनिभाननः॥

ओङ्कारवाच्य ओङ्कार ओजस्वानोषधीपतिः।
ओदार्यनिधिरौद्धत्यधुर्य औन्नत्यविग्रहः॥
सुरनागानामङ्कुशश्च सुरविद्विषामङ्कुशः।
असमस्तविसगातपादेषु परिकीर्तितः।
कमण्डलुधरः कल्पः कपर्दी कलभाननः।
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः।
कदम्बकोरकाकारः कूश्साण्डगणनायकः।
कारुण्य देहकपिलः कथकः कटिसूत्रभृत्।
खर्वः खङ्गप्रियः खङ्गी खातान्तस्थः खनिर्मलः।
खर्वटशृङ्गनिलयः खट्वाङ्गी खदुरासदः।
गनाङ्यो गहनो गम्यो गद्यपद्यस्य्धार्णवः।
सद्यगानप्रियो गर्जः गीतगीर्वानपूर्वजः।
गुह्याचाररतो गुह्यः गुह्यागमनिरुपुतः।

चराचरपिता चिन्तामणिचर्वणलालसः।
छन्दश्छन्दोवपुश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः॥
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः।
जपो जपपरो जप्यो जोह्वासिंहासनप्रभुः॥
झलज्झल्लोलसद्दानझङ्कारिभ्रमराकुलः।
टङ्कारस्फारसंरावानुकारिमणिनूपुरः॥
तापत्रयनिवारी च सर्वमन्त्रैकसिद्धिदः।
ढक्कानिनादमुदितो ढौको ढुण्ढविनायकः।
तत्वानां परमस्तत्वज्ञेयस्तत्वनिरूपितः।
तारकान्तरसंस्थानस्तारकस्तारकान्तकः।
स्थाणुः स्थाणुप्रियः स्थाता स्थावरो जङ्गमो जगत्।
दक्षयज्ञप्रथमो दाता दानवमोहनः।
दयावान्दिव्यविभवो दण्डहृद्दण्डनायकः।
दन्तप्रभिन्नाभ्रमलो दैत्यवारणदारणः।
ष्ट्रालग्नद्विपघटो देवार्थ नृगजाकृतिः।

घनघान्यपतिर्घन्यो धनदो धरणीधरः।
ध्यानैकप्रकटो ध्येयः ध्यानो ध्यानपरायणः।
नन्द्यो नन्दिप्रियो नादो नदमध्यप्रतिष्ठितः।
निष्कळो निर्मलो नित्यओ नित्यानित्यो निरामयः।
परंव्योमा परन्धासापरमात्मा परम्पदः।
परात्परः पशुपतिः पूर्णमोदकसारवान्।
पूर्णानन्दह् परानन्दः पुराणपुरुषोत्तमः।
पद्मप्रसन्ननयनः प्रणताज्ञानमोचनः।
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः।
फलहस्तः फणिपतिः फेत्कारफणितप्रियः।
बाणार्किताङ्घ्रियुगळो बाणक्र्ळिकुतूहली।
ब्रह्मा ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः।
बृहत्तमो बह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः।
बृहन्नादाग्रथचीत्कारो ब्रह्माण्डावळिमेस्वलः।
भ्रूक्ष्रेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः।
मगवाम् भक्तिसुलमो भूतिदो भूतिभूषणः॥

भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः।
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तमनोरमाह्॥
मेखलावान्मन्दगतिः मतिमत्कमलेक्षणः।
महाबलो महावीरो महाप्राणमहामनाः।
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः।
यशस्करो योगगम्यो याज्ञिको याजकप्रियः।
रक्षोरक्षाकरो रत्नगर्भो राज्यसुखप्रदः।
लक्षो लक्षप्रदो लक्ष्यो लयस्थो लड्शुकप्रिय।
लास्यप्रियो लात्यपदो लाभकृल्लोकविश्रुतः।
वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः।
विकर्ता विश्वतश्चुक्षुः विधाता विश्वतोमुखः।
वामदेवो विश्वनेता बज्री वज्रनिवारणः।
विश्वबन्धन विष्कम्भधारो विश्वामरप्रभुः।
शब्दब्रह्म शमप्राप्यो शम्भुशक्ति गणेश्वरः।
शास्ताशिखाप्तनिलयो शरण्यः शिखरीश्वरः।

षडृतुकुसुमस्रग्वी षडाघारः षडक्षरः।
संसारवैद्यस्सर्वज्ञः सर्वभेषजभेषजः।
सृष्टिस्थितिलयक्रीडस्सुरकुञ्जरभेदनः।
सिन्दूरितमहाकुम्भस्सदसद्व्यक्तिदायकः।
साक्षी समुद्रमथनः खसंविद्यः स्वदक्षिणः।
स्वतन्त्रस्सत्यसङ्कल्पस्सामगानरतस्सुखी।
हंसो हसित्पिशाचीशो हवनो हव्यकव्यभुक्।
हव्यो हृतप्रियो हर्षो हृल्लेखामन्त्रमध्यगः।
क्षेत्राघिपः क्षमामर्ता क्षमापरपरायणः।
क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः।
धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः।
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः।
आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः।
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः।
मेघादः कीर्तिदश्शोकहारी दौर्भाग्यनाशनः।
प्रतिवादिमुखस्तम्भो दुष्टचित्तसादनः।

पराभिचारशमानो दुःखभञ्जनकारकः।
लवस्त्रुटिः कळा काष्ठा निमेषो घटिमुहूर्तकः।
प्रहरश्च दिवा नक्तः अहोरात्र अहर्निशम्।
पक्षो मासायनो वर्षाः युगः कल्पो महालयः।
राशिस्तारातिथिर्योगः वारः करण अंश्कः।
लग्नो होरा कालचक्रो मेरुस्सप्तर्षयो ध्रुवाह्।
राहुर्मन्दः कविर्जीवः बुधो भौमश्शशी रविः।
कालः सृष्टिस्थितिर्विश्वः स्थावरो जङ्गमो जगत्।
भूरापोग्निर्मरुव्द्यओमा अहंकृत्प्रकृतिः पुमान्।
ब्रह्मा विष्णुश्शिवो रुद्रईशक्तिस्सदाशिवः।
त्रिदशाः पितरस्सिद्धा यक्षा रक्षाश्च किन्नराः ।
साध्या विद्याधराभूताः मनुष्याः पशवः खगाः।
समुद्रास्सरितश्शैलाः भूतो भव्यो भवोद्भवः।
साङ्ख्यः पातञ्जलो योगः पुराणश्च श्रुतिः स्मृतिः।
वेदाङ्गाश्च सदाचारः मीमांसा न्यायविस्तरः।
आयुर्वेदो धनुर्वेदो गाअन्धर्वः काव्यनाटकः।

वैखानसो भागवतो मानुषः पाञ्चरात्रकः।
शैवः पाशुपतः कालभुखो भैरवशासनः।
शाक्तो वैनायकस्सौरो जैनघूर्हतसंहितः।
सदसव्यक्त अव्यक्तस्सचेतन अचेतनः।
बन्धो सोक्षस्सुखो भोगो योगस्सत्य अणुर्महत्।
खाति हुंरूपषखड्गभ्रूश्च स्वधामयः।
स्वाहारूपः औषड्रूपो वौषड्रूपो वष्ण्यः।
ज्ञानविज्ञान आनन्दो बोधस्संविच्छमो यमः।

चतुराननस्राम्प्रीतः चतुर्वर्णाश्रमाश्रयः।
चतुर्विधवचोवृत्ति परिवृत्तिप्रवर्तकः।
चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः।
पञ्चाक्षरात्मा पञ्चात्मा पञ्चस्यः पञ्चकृत्यकृत्।
पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः।
पञ्चताळः पञ्चकरः पञ्चप्रणवारितः।
पञ्चब्राह्ममयस्फूर्तिः पञ्चावरन्वारितः।
पञ्चभक्ष्यप्रियः पञ्चबाणः पञ्चशिवात्मकः।
षट्कोणषीठष्षट्चक्रधामा षड्ग्रन्थिभेदकः।
षड्ध्वध्वान्तविध्वंसी षड्ङ्गुलमहाह्रदः।
षण्मुखः षण्मुखभ्राता ष्ट्छक्तिपरिवारितः।
षड्वैरिवर्गाविध्वंसी षडूर्मिभयञ्जनः।
षट्तर्कदूरष्षटूकर्भनिरतः षड्रसाश्रयः ।
सप्तपाताळ्करणः सप्तद्वीपोरुमण्डितः।
सप्तस्वर्लोकमकुटस्सप्तसप्तिवरप्रदः।

सप्ताङ्गराज्यसुस्वदस्सप्तर्षिगण्मण्डितः।
सप्तछन्दोनिधिस्सप्तहोता सप्तस्वराश्रयः।
सप्ताब्धिकेळिकासारस्सप्तमातृनिषेवितः।
सप्तच्छदामोदमदस्सप्तच्छन्दोमुखप्रियः।
अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रक्र्तिकारणः।
अष्टपीठोपपीठश्रीरष्टमातृसमावृतः।
अष्टमैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत्।
अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः।
नवनागासनाध्यसी नवनिध्यनुशासिता।
नवद्वारघनाधारो नवघरनिकेतनः।
नरनारायणस्तुत्यो नवदुर्गानिषेवितः।
नवनायमहानाथो नवनागविभूषणः।
नवनात्तविचित्राङ्गो नवशक्तिशिरोधृतः।
दशात्मको दशभुजो दशदिक्पतिवन्दितः।

दशाध्यायो दशप्राणो दशेन्द्रियनियामकः।
दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः।
एकादशादिरुद्रैस्संस्तुत एकादशाक्षरः।
द्वादशोद्दण्डदोर्दण्डो द्वादशाङ्कनिकेतनः।
त्रयोदशभिधाभिन्नविश्वेदेवाभिदैवतः।
चतुर्दशेन्द्रप्रभवश्चतुर्दशजगत्प्रभुः।
सामपञ्चदशः पञ्चदशः पञ्चदशीशीतांशुनिर्मलः।
षोडशाधारनिलयः षोडशस्वरमातृकः।
षोडशान्तपदावासः षोडशेन्दुकळात्मकः।
सप्तसप्तदशी सप्तदशस्सप्तदशाक्षरः।
अष्टादशद्वीपपतिरष्टादशपुराणकृत्।
अष्टादशौषधिस्रष्टा अष्टादशमुस्मृतः।
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः।
एकविंशः पुमानेकविंशत्यङ्गुळिपल्लवः।
चतुर्विशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः।

सप्तविशतितारेशस्सप्तविशतियोगकृत्।
द्वात्रिंशद्भैरवाधीश्चतुस्रिंशन्महाह्रदः।
षट्त्रिंशत्तत्वसम्भूतिरष्टत्रिंशत्कळातनु।
नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गळः।
पञ्चाशदक्षरश्रेणिः पञ्चाशद्रुद्रविग्रहः।
पञ्चाशव्दिष्णुशक्तीशः पञ्चाशन्मातृकालयः।
द्विषञ्चाशद्वपुश्श्रेणिस्रिषष्टयक्षरसंश्रयः।
चतुष्षष्टयर्णनिणता चतुष्षष्टिकळानिधिः।
चतुष्षष्टिमहासिद्धयोगिनीबृन्दवन्दितः।
अष्टषष्ठिमहातीर्थक्षेत्रभैरवभावनः।
चतुणर्वतिमन्त्रात्मा बण्णत्यधिकप्रभुः।
शतानन्दश्शतमस्वश्शतपत्रायतेक्षणः।
शतानीकश्शतघृतश्शतपत्रायतेक्षणः।
सहस्रपत्रनिलयस्सहस्रफणिभूषणः।
सहस्रशीर्षा पुरुषस्सहस्राक्षस्सहस्रपात्।
सहस्रनामसंस्तुत्यस्सहस्राक्षबलापहः।

फणामण्डलसाहस्रफणिराजकृतासनः।
दशसाहस्रफणभृत्फणिराजकृतासनः।
अष्टाशीतिसहस्रौघमहर्षिस्तोत्रयन्त्रितः।
महाकायो महात्मापि चण्डिलश्चेष्टदो रसः।
आधारोऽसौ विदमयो हिरम्बस्स्कन्दपूर्वजः।
लक्षाधीशप्रियाधारो लक्षाधारमलोमयः।
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशितः।
चतुराशीतिलक्षाणां जीवानां देहसंस्थितः।
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः।
कोतियज्ञप्रमथनः कोतियज्ञफलप्रदः।
शिवाभवाद्यष्टकोटिविनायकधुरन्धरः।
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः
त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः।
अनन्तदेवतासेव्यः अनन्तशुभदायकः।
अनन्तनामानन्तश्रीरनन्तश्रीरनन्तानन्तसौख्यदः॥
॥ इति श्रीमहागणपतिसहस्रनामस्तोत्रं समाप्तम्॥