गणनायकाष्टकम्

विकिस्रोतः तः
गणनायकाष्टकम्
अज्ञातः
१९५३

॥ गणनायकाष्टकम् ॥

एकदन्तं महाकायं तप्तकाञ्जनसन्निभम् ।
लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥१
मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् ।
बालेन्दुशकलं मौळी वन्देऽहं गणनायकम् ॥२
चित्ररत्नविचित्राचं चित्रमालाविभूषितम् ।
कामरूपधरं देवं वन्देऽहं गणनायकम् ॥३
गजवर्क सुरश्रेष्ठं कर्णचामरभूषितम् ।
पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम् ॥४
मूषकोत्तममारुह्य देवासुरमहाहवे।
योद्धकामं महावीर्य वन्देऽहं गणनायकम् ॥५
यक्ष किन्नर गन्धर्व सिद्धविद्याधरैस्सदा ।
स्तूयमानं महाबाहुं वन्देऽहं गणनायकम् ॥६
अम्बिकाहृदयानन्दं मातृभिः परिवेष्ठितम् ।

भक्तप्रिय मदोन्मत्तं वन्देऽहं गणनायकम् ॥७
सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम् ।
सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥८
गणाष्टकमिदं पुण्यं यः पठेत्सततं नरः।
सिद्धान्ति सर्वकार्याणि विद्यावान्धनवान्भवेत् ॥ ९
। इति गणनायकाष्टकं सम्पूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=गणनायकाष्टकम्&oldid=319887" इत्यस्माद् प्रतिप्राप्तम्