सामग्री पर जाएँ

गणकारिका

विकिस्रोतः तः
गणकारिका
[[लेखकः :|]]


भासर्वज्ञ गणकारिका


गणकारिका, १

पञ्चकास्त्वष्ट विज्ञेया गणश्चैकस्त्रिकात्मकः ।
     [गणकारिकाटीका]
     पञ्चपञ्चसंख्यावच्छिन्नाः समुदायाः पञ्चका लाभादयस्तेषां न्यूनाधिकव्यवच्छेदेन अष्ट इति संख्यामाह ॥ १.१ १
     तुशब्दः संक्षेपविस्तारपरिज्ञानयोः तुल्यफलत्वमवधारयति शिष्यजिज्ञासानुरोधेन भाष्यारम्भोऽप्यर्थवानिति ॥ १.१ २
     विज्ञेया विशेषेण ज्ञातव्याः पुनः पुनरभ्यासेन दृढीकर्तव्या येन सर्वदा शास्त्रार्थे चित्तस्थे कृते सति ग्रन्थविस्मरणेऽपि रह्मोद्यदोषो न भवेत् ॥ १.१ ३
     अनुष्ठानाशक्तस्यान्यथा हि सुरापानसमं पातकं स्यादिति ॥ १.१ ४
     गणशब्दः समुच्चयवाची ॥ १.१ ५
     चशब्दः समुच्चयेन केवलमष्ट पञ्चका विज्ञेया गणश्चैकस्त्रिकात्मको विज्ञेय इति ॥ १.१ ६
     एक इत्यनन्तरोक्ताष्टसंख्याशङ्कानिराकरणार्थम् ॥ १.१ ७
     त्रिसंख्यावच्छिन्नः समुदायः त्रिकः ॥ १.१ ८
     स एव आत्मा स्वभावो यस्य भैक्षादिवृत्तिगणस्य स तथोक्तः वृत्त्यन्तरनिषेधार्थम् ॥ १.१ ९
     एवमेते नव गणा ज्ञेयत्वोनोद्दिष्टाः ॥ १.१ १०
     यस्तान् सम्यगवधारयति सोऽवश्यं दुःखान्तं यास्यत्यन्येषां चानुग्रहकरणसमर्थो भवतीति ॥ १.१ ११
     कुतः पुनरेतन्निश्चीयत इति ॥ १.१ १२
     निश्चीयते यस्मात्सर्वैरेव परमयोगिभिः वेत्ता नवगणस्यास्य संस्कर्ता गुरुरुच्यते ॥ १.१ १३
     विद ज्ञाने ॥ १.१ १४
     तस्य वेदितेति प्राप्ते छन्दोभङ्गपरिहारार्थं छान्दसः प्रयोगो वेत्ता इति कृतः ॥ १.१ १५
     अथवा विचारणे तस्य वेत्तेति भवति ॥ १.१ १६
     वेत्ता विचारयिता ॥ १.१ १७
     नवगणानामिति बहुवचने प्राप्ते छन्दोभङ्गपरिहारार्थं तत्परिज्ञानस्य भिन्नफलत्वज्ञापनार्थं वा नवगणस्य इत्युक्तम् ॥ १.१ १८
     नन्दिमहाकालादिष्वपि गणशब्दो दृष्टः तदाशङ्कानिराकरणार्थमस्येत्युक्तम् ॥ १.१ १९
     अस्य अनन्तरोद्दिष्टस्य लाभादिकस्येत्यर्थः ॥ १.१ २०
     सुपरीक्षितं राह्मणं दीक्षाविशेषेण पञ्चार्थज्ञानविशेषेण च शिष्यं संस्कुर्वन् संस्कर्ता इत्युच्यते ॥ १.१ २१
     स च तज्ज्ञैर्मुख्यत एव गुरुरुच्यते ॥ १.१ २२
     गुरुराचार्यः श्रद्धावतामाश्रमिणां दर्शनसम्भाषणादिभिरपि पापघ्नः पुण्यातिशयकारी चेत्यर्थः ॥ १.१ २३
     अथवा अन्यथा कारिकासम्बन्धः प्रदर्श्यते ॥ १.१ २४
     द्विविधः खल्वत्र राह्मणोऽपवर्गगन्ता श्रूयते साधक आचार्यश्चेति ॥ १.१ २५
     तत्रेह दर्शने यः साधकः सन्नपवर्गं गन्तुमिच्छति ॥ १.१ २६
     शास्त्रं श्रुत्वाचार्योपदेशमात्राद्वा विध्यादिस्वरूपं ज्ञात्वा विधियोगानुष्ठानमत्यन्ताभियोगेन कर्तव्यम् ॥ १.१ २७
     यस्त्वाचार्यः सन्नपवर्गं गन्तुमिच्छति तेन किं कर्तव्यमिति आह ॥ १.१ २८
     पञ्चकास्त्वष्ट विज्ञेया गणश्चैकस्त्रिकात्मकः इति ॥ १.१ २९
     तुशब्दः समस्तसूत्रसूत्रावयवानामुपोद्घातादिनिश्चयद्वारेण नवगणा विज्ञेयास्तान् विज्ञाय शिष्याणां संशयाद्यज्ञानं निर्वर्तयता संस्कारः कर्तव्य इत्येवंभूतं विशेषं सूचयति ॥ १.१ ३०
     शेषस्त्ववयवार्थः पूर्ववत् ॥ १.१ ३१
     कथं पुनरेतत्गम्यते ॥ १.१ ३२
     दुःखनिमित्तमाचार्यत्वमात्मन इच्छता नवगणा विशेषतो ज्ञातव्या इति गम्यते ॥ १.१ ३३
     यस्मात् ॥ १.१ ३४]

वेत्ता नवगणस्यास्य संस्कर्ता गुरुरुच्यते ॥ गणकारिका १.१
     [गणकारिकाटीका]
     एवं चानुष्ठानाभिनिवेशासमर्थोऽपि यदि श्रद्धान्वितो भूत्वेषदपि समयमात्रं पालयन् ज्ञानाभ्यासं न मुञ्चति तदापवर्गगन्ता भवत्याचार्य इति चोच्यते ॥ १.१ द्१
     यस्त्वागमार्थज्ञानमात्रेण तुष्टः सन् श्रद्धादिविरहितः श्रद्धादिमात्रयुक्तो वा लाभादिज्ञानविकलः स खल्वाचार्याभास एव नापवर्गगन्तेति ॥ १.१ द्२
     गणस्वरूपं तर्हि वाच्यम् ॥ १.१ द्३
     केऽष्ट पञ्चकाः कश्च त्रिकात्मको गणः इत्यत आह ॥ १.१ द्४]

लाभा मला उपायाश्च देशावस्थाविशुद्धयः ।
दीक्षाकारिबलान्यष्ट पञ्चकास्त्रीणि वृत्तयः ॥ गणकारिका १.२
     [गणकारिकाटीका]
     विधीयमानमुपायफलं लाभः अथवा ज्ञानतपोदेवनित्यत्वस्थितिसिद्धिभेदभिन्ना लाभाः अथवानभिव्यक्तपूर्वा भावाः साधकात्मनि व्यज्यमाना लाभाः ॥ १.२१
     येषामात्माश्रितानां भावानां क्षपणार्थं साधकः प्रयतते ते मलाः ॥ १.२२
     अथवा मिथ्याज्ञानाधर्मसङ्गच्युतिपशुत्वभेदभिन्ना मलाः ॥ १.२३
     साधकस्य साधकतमाः शुद्धिवृद्धिहेतव उपायाः ॥ १.२४
     अथवा वासश्चर्याजपध्यानसदास्मृतिप्रसादभेदभिन्ना उपायाः ॥ १.२५
     चशब्दः पादपूरणे लाभादीनां वा परस्परासंकीर्णलक्षणसूत्रक इति ॥ १.२६
     देशाश्चावस्थाश्च विशुद्धयश्चेति द्वंद्वः ॥ १.२७
     यदाश्रयसामर्थ्येन साधकः शुद्धिवृद्धी प्राप्नोति ते देशा गुरुजनगुहाश्मशानरुद्रलक्षणा इति वक्ष्यामः ॥ १.२८
     आलाभप्राप्तेरेकमर्यादयावस्थितयः साधकस्य अवस्थास्ता व्यक्तादिविशेषेण विशिष्टा वक्ष्यन्ते ॥ १.२९
     मिथ्याज्ञानादीनामत्यन्तव्यपोहा विशुद्धयः ॥ १.२१०
     दीक्षाकारीणि च बलानि चेति द्वंद्वः ॥ १.२११
     दीक्षानिमित्तानि दीक्षाकारीणि द्रव्यकालक्रियामूर्तिगुरुसंज्ञकानि साधकात्मगतान्युपायप्रवृत्तिनिमित्तानि ॥ १.२१२
     बलानि गुरुभक्तिमतिप्रसादद्वंद्वजयधर्माप्रमादलक्षणानि ॥ १.२१३
     अष्ट पञ्चका इत्युपसंहारः ॥ १.२१४
     तिस्रो वृत्तय इति प्राप्ते त्रीणि वृत्तय इति छान्दसः प्रयोगः कृतः पञ्चमलघूकरणार्थम् ॥ १.२१५
     आगमाविरोधिनोऽन्नार्जनोपाया वृत्तयः भैक्षोत्सृष्टयथालब्धसंज्ञिकाः ॥ १.२१६
     तत्र प्रथमावस्थस्य तावद्भैक्षमेव वृत्तिस्तस्याः को विधिरित्युच्यते ॥ १.२१७
     ज्ञात्वा भिक्षाकालं शुचिर्भूत्वा भस्मना हस्तौ प्रक्षाल्य पात्रं गृहीत्वा उदकप्रक्षालितं संस्कृतं च कृत्वा महादेवं प्रणम्यानुज्ञां प्रार्थयेत्तदनु गुरूनिति ॥ १.२१८
     ततो देवगुरुभिरनुज्ञातो मन्त्रानावर्तयनीश्वरासक्तचित्तो वा दृष्टिपूतेन पथाभिशस्तपतितगृहाणि वर्जयित्वा यत्र च भयनिमित्तं च काकादि कलुषनिमित्तं चामेध्यविवस्त्रयुवतिविटदुर्जनवचनभिक्षुकाकीर्णत्वाद्युपलभ्यते तद्गृहाण्यपि वर्जयन्नेकमेव ग्रामादीनामन्यतमं पर्यटेद्यद्यन्तराले एव पर्याप्तिर्न भवति उपघातो वा कश्चिदिति ततः स्वायतनमागत्यापराधानुरूपं प्रायश्चित्तं कृत्वा मन्त्रसंस्कृतं च कृत्वा तद्भैक्षं शिवायानुगुरवे च निवेद्य महेश्वरं हृदि संधाय संयतवागुदङ्मुखः प्राङ्मुखो वा समरसं कृत्वोपर्युपरि वा भुञ्जीतेति ॥ १.२१९
     पात्रं पात्रशौचं च सूत्रानुमतं स्मृतिप्रसिद्धं प्रतिपत्तव्यम् ॥ १.२२०
     तथा च याज्ञवल्क्यः ।
     यतिपात्राणि मृद्वेणुदार्वलाबुमयानि च ।
     सलिलैः शुद्धिरेतेषां गोवालैश्च निघर्षणम् ॥ १.२२१
     मनुरप्याह ।
     अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च ।
     तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥ १.२२२
     सापन्नं च सलेपं च विभिन्नं चापि यद्भवेत् ।
     तत्र भुक्त्वा च पीत्वा च यतिश्चान्द्रायणं चरेत् ॥ १.२२३
     इति यमः ॥ १.२२४
     आगमाविरोधिग्रहणादेकान्नस्य विद्याख्यापनानुशासनलोकयात्रादिभिर्निमित्तैरर्जितभैक्षस्य प्रतिषेधो द्रष्टव्य इत्येषा प्रातिपदावस्थस्य विधिः ॥ १.२२५
     तृतीयावस्थस्याप्ययं विधिः ॥ १.२२६
     एतावानत्र विशेषः ॥ १.२२७
     प्रायश्चित्तनिवेदनपञ्चब्रह्मजपानुस्नानादिकं न करोति तृतीयावस्थः परमयोगित्वादिति ॥ १.२२८
     द्वितीयावस्थस्योत्सृष्टमेव वृत्तिः ॥ १.२२९
     देवाद्युद्देशेन परित्यक्तमन्नपानं कारुण्यकौतूहलाभ्यां वा यदि कश्चिददुष्टजातिर्दद्यादशुचित्वादिदोषरहितं तदुत्सृष्टम् ॥ १.२३०
     तच्च मायाभेदेनोपयोक्तव्यम् ॥ १.२३१
     भैक्षनिवृत्तेः पात्रनियमो नास्ति ॥ १.२३२
     चतुर्थावस्थस्य यथालब्धं वृत्तिः ॥ १.२३३
     श्मशानदेशावस्थितेनैव दिवसे दिवसद्वये त्रये वा यदन्नपानं प्राप्यते तद्यथालब्धमुच्यते ॥ १.२३४
     पञ्चमावस्थस्य तु शरीराभावादेव वृत्त्यनुपपत्तिरिति ॥ १.२३५
     ग्रन्थक्रमस्य अप्राधान्यमर्थज्ञानस्यैव प्राधान्यं मन्यमानोऽक्रमेणैव निर्देशं करोति गुरुभक्तिः इत्यादिना ॥ १.२३६
     अथवा सर्वारम्भाणां लाभार्थत्वात्तत्प्राधान्यज्ञापनार्थं पूर्वमादौ लाभा उद्दिष्टा इदानीं पुनः सर्वेऽपि लाभा उपायसाध्यास्ते चोपाया बलहीनैः पुरुषैरनुष्ठातुं न शक्यन्त इत्यतः प्राधान्यज्ञापनार्थं बलानामादौ निर्देशमाह ॥ १.२३७]

गुरुभक्तिः प्रसादश्च मतेर्द्वंद्वजयस्तथा ।
धर्मश्चैवाप्रमादश्च बलं पञ्चविधं स्मृतम् ॥ गणकारिका १.३
     [गणकारिकाटीका]
     गुरुः आचार्यः पञ्चार्थज्ञानोपदेष्टा ॥ १.३१
     तस्य भक्तिः श्रद्धा सर्वदुःखाभिभूतस्य ममायमेव त्रातेत्येषा भावना कार्या ॥ १.३२
     तथा चोक्तम् ।
     गुरुर्देवो गुरुः स्वामी इत्यादि न च कारणप्रवचनयोर्भक्तिविरोधस्तदनुमत्यैव तयोर्भक्तिसम्भवात् ॥ १.३३
     यतस्तु तयोर्भक्तिः कर्तव्येति नानुमन्यते स गुरुरेव न भवति अननुग्रहकारित्वात् ॥ १.३४
     सा च गुरुभक्तिस्तदनभिप्रेतं परिहरतोत्थानादिकं कुर्वता च सततं सेवनीया ॥ १.३५
     ज्ञात्वा तदभिप्रायमशास्त्रोक्तमपि तद्धितं कर्तव्यम् ॥ १.३६
     तथा चोक्तम् ।
     ग्रन्थार्थविदुषः इत्यादि ॥ १.३७
     यदेव हि गुरोरभिप्रेतं तदेव विहितं शास्त्रानुक्तमपि श्रेयस्करि भवति रामस्य मातृवधवत् ॥ १.३८
     गुरोर्वाक्यानि च श्रद्धेयानि अन्यथा दोषश्रवणात्तत्त्वज्ञानालाभप्रसङ्गाच्च ॥ १.३९
     भक्तिबलविहीनो हि ग्रहणाद्युपेतोऽपि ज्ञानावलेपेनान्यथाऽपि शास्त्रार्थं प्रतिपद्यत इत्यतो ग्रहणाद्युपेतस्य भक्तिरेव बलम् ॥ १.३१०
     भाष्यविरोधोऽपि नास्ति ॥ १.३११
     यतो बलमष्टाङ्गं रह्मचर्यमित्यस्यायमर्थः ॥ १.३१२
     अष्टानां ग्रहणादीनामङ्गमष्टाङ्गं भक्तिरेवोच्यते वेदाङ्गवदर्थान्तराभिधानात् ॥ १.३१३
     सैव रह्मचर्यनिमित्तत्वात्ब्रह्मचर्यमित्युच्यते ॥ १.३१४
     यदि पुनर्यथाश्रुतार्थः स्यात्तदा वासोविधानमित्यादिज्ञापकाभिधानविरोधः स्यादिति ॥ १.३१५
     विधावधिकृतस्य द्वितीयं बलमाह ॥ १.३१६
     प्रसादश्च मतेः इति ॥ १.३१७
     मतिप्रसादशब्देनाकलुषत्वमुक्तम् ॥ १.३१८
     सति हि तस्मिन्मतिः प्रसन्ना भवति ॥ १.३१९
     तथा च बलमकलुषत्वमिति भाष्यम् ॥ १.३२०
     अत्रापि तर्हि स्पष्टाभिधानं किमर्थं न कृतम् ॥ १.३२१
     मतिप्रसादहेतोरन्यस्याप्याशौचव्यामोहाद्यभावस्य बलत्वज्ञापनार्थं प्रधानापेक्षया त्वकलुषत्वमुक्तम् ॥ १.३२२
     चशब्दः पूर्वोक्तबलस्य विद्यमानस्यापि चरितार्थत्वात्तद्बलत्वं प्राधान्यान्न चिन्त्यत इति सूचयति ।
     तच्चाकलुषत्वं द्विविधं परमपरं च ॥ १.३२३
     तत्र कलुषत्वबीजसद्भावेऽप्युत्पन्नकलुषत्वनिरोधि यावदनागतं कलुषं नोत्पद्यते तावत्कालं यदकलुषत्वं तदपरं यद्बीजक्षयादत्यन्तनिमित्तसद्भावेऽपि कलुषं नोत्पद्यते तत्परमिति ॥ १.३२४
     योगक्रियायामधिकृतस्य तृतीयं बलमाह ॥ १.३२५
     द्वंद्वजयस्तथा इति ॥ १.३२६
     आध्यात्मिकाधिभौतिकाधिदैविकानि दुःखसाधनानि द्वंद्वानि तेषां जयः सहिष्णुत्वं द्वंद्वानभिभाव्यत्वमित्यर्थः ॥ १.३२७
     तथाशब्दः समानार्थे ॥ १.३२८
     यथा प्रागुक्तबले सत्यप्यचरितार्थविध्यधिकृतस्याकलुषत्वमेव बलं चिन्त्यते तथा बलद्वयसद्भावेऽप्यचरितार्थं द्वंद्वसहिष्णुत्वमेव प्राधान्येन बलं चिन्त्यत इति ॥ १.३२९
     तदपि द्विविधं परापरभेदात्यत्तावदक्षपिते पापे योगक्रियायामभिनिविष्टस्य साधकस्य मृदुमध्यमशीतातपादिभिरनुभाव्यत्वं ध्यानाद्यभ्यासस्तदपरम् ॥ १.३३०
     यत्क्षपिते निःशेषपापे गुहादेशं गतस्यातितीव्रैरपि शीतादिभिरनभिभाव्यस्वलक्षणं द्वंद्वसहिष्णुत्वं तत्परम् ॥ १.३३१
     भाष्यकृता तु परमेव गोमृगधर्मत्वं व्याख्यातम् ॥ १.३३२
     अकलुषत्ववदभ्यूह्य शिष्या अपरं गोमृगधर्मित्वं प्रतिपत्स्यन्त इत्यभिप्रायवता नोक्तमिति ॥ १.३३३
     सदास्मृत्यधिकृतस्य चतुर्थं बलमाह धर्मश्चैव इति ॥ १.३३४
     एवशब्दोऽवधारणे ॥ १.३३५
     यदा धर्म एवावस्थितस्तदा बलमित्यर्थः ॥ १.३३६
     ईषदधर्मसद्भावेऽप्यवधारणे नास्ति दोषः कृष्णबिन्दुसद्भावे शुक्ल एवायं पट इति यथा ॥ १.३३७
     चशब्दः पूर्वोक्तबलत्रयसद्भावेऽपि धर्म एवाचरितार्थत्वेन बलमिति सूचयति ॥ १.३३८
     निष्ठायोगयुक्तस्य पञ्चमं बलमाह अप्रमाद इति ॥ १.३३९
     विशिष्टं ज्ञानमेवात्राप्रमाद इत्यभिप्रेतम् ॥ १.३४०
     तथा च भाष्यमस्य तु ज्ञानमस्ति यस्मादाहाप्रमादी इति ॥ १.३४१
     चशब्दः शरीरेन्द्रियधर्माधर्मव्यावृत्तौ सत्यामप्रमाद एव बलमिति सूचयति बलानां न्यूनाधिकभावव्यवच्छेदं चेति ॥ १.३४२
     बलं पञ्चविधमित्युपसंहारः ॥ १.३४३
     स्मृतमित्याप्तोक्तत्वं दर्शयति ॥ १.३४४
     ननु च तत्र बलचिन्ता युज्यते यत्र तत्सम्पाद्य शत्रुक्षय उपपद्यते ॥ १.३४५
     अत्र पुनर्मोक्षशास्त्रे वीतरागस्य निष्परिग्रहस्य शत्रव एव न विद्यन्ते कुतः तत्क्षय इत्यतोऽत्र बलचिन्तानुपपन्नेति ॥ १.३४६
     नैतदेवम् ॥ १.३४७
     अत्रापि साधकस्याज्ञानादिशत्रुहान्युपपत्तेस्तत्प्रतिपादनार्थमाह ॥ १.३४८]

अज्ञानहान्यधर्मस्य हानिः सङ्गकरस्य च ।
च्युतिहानिः पशुत्वस्य शुद्धिः पञ्चविधा स्मृता ॥ गणकारिका १.४
     [गणकारिकाटीका]
     अज्ञानहानिरधर्मस्य इति प्राप्ते छन्दोभङ्गपरिहारार्थमज्ञानहान्यधर्मस्येत्युक्तम् ॥ १.४१
     आर्षत्वान्न दोष इति ॥ १.४२
     अज्ञानं च वक्ष्यमाणकं तस्य हानिः सबीजस्यात्यन्तोच्छेदः ॥ १.४३
     अधर्मोऽपि वक्ष्यमाणकस्तस्य हानिः सविकारस्यात्यन्तोच्छेदः ॥ १.४४
     अधर्मवत्सङ्गकरस्यापि हानिर्व्याख्याता ॥ १.४५
     चकारो हानिपदस्यानुकर्षणार्थः ॥ १.४६
     च्युतेः खलु वक्ष्यमाणिकायाः सह बीजेनात्यन्तोच्छेदश्च्युतिहानिरित्युच्यते ॥ १.४७
     पशुत्वस्येति षष्ट्यन्तत्वाभिधानादनन्तरोक्तहानिपदेन सम्बन्धः ॥ १.४८
     डमरुकमणिन्यायेन वा मध्योक्तं हानिपदं च्युतिपशुत्वाभ्यां सम्बध्यते ॥ १.४९
     चकारो वा सङ्गकरपदान्तोक्तोऽत्रानुवृत्तः ॥ १.४१०
     स न केवलं हानिपदानुकर्षकः शुद्धीनां न्यूनाधिकभावं व्यवच्छिनत्ति ॥ १.४११
     पशुत्वस्य माहेश्वरैश्वर्यसम्बन्धादात्यन्तिको निरोधः पशुत्वहानिरित्युच्यते ॥ १.४१२
     शुद्धिः पञ्चविधा इत्युपसंहारः ॥ १.४१३
     स्मृता इत्याप्तोक्तत्वप्रदर्शनार्थम् ॥ १.४१४
     किं पुनरेताः शत्रुनिवृत्तयो बलानि चावस्थाभेदभिन्नस्य सम्पद्यन्तेऽथैकावस्थस्येति ॥ १.४१५
     कुतः संशयः उभयथा दर्शनाद्विष्णुचक्रवत् ॥ १.४१६
     उच्यते प्रायेण तावदवस्थाभेदभिन्नस्य यस्मादवस्थाभेदमाह ॥ १.४१७]

व्यक्ताव्यक्तं जयच्छेदो निष्ठा चैवेह पञ्चमी ।
     [गणकारिकाटीका]
     प्रातिपदावस्था खलु व्यक्तावस्थेत्युक्ता ॥ १.५ १
     कस्मात् ॥ १.५ २
     पाशुपत्येऽयमिति व्यक्तिनिमित्तत्वात्भस्मस्नानशयनानुस्नानादिभिर्लिङ्गधारीत्युपदेशादिति ॥ १.५ ३
     द्वितीयावस्था तु जात्यादिव्यक्तेरहेतुत्वादव्यक्तावस्थेत्युक्ता ॥ १.५ ४
     कस्मात् ॥ १.५ ५
     अव्यक्तलिङ्गोपदेशाद्विद्यादिगोपनोपदेशाच्चेति ॥ १.५ ६
     तृतीयावस्था पुनरिन्द्रियजयार्थत्वेन जयावस्थेत्युच्यते ॥ १.५ ७
     देवनित्यस्वार्थत्वेऽप्यस्या इन्द्रियजयार्थतैव प्राधान्येनोक्ता सूत्राणां सम्बन्धकथनद्वारेणाचार्यभाष्यकृतेति ॥ १.५ ८
     छेदावसानार्थावस्था छेदावस्थेत्युक्ता ॥ १.५ ९
     सर्वस्य साधकव्यापारस्यात्यन्तोपरमो निष्ठा ॥ १.५ १०
     तदुपलक्षितावस्था निष्ठावस्थेत्युच्यते ॥ १.५ ११
     व्यक्तादिविशेषणाभिधानाद्यूहादिशक्तिमतां विशेषप्रतिपत्तिर्भविष्यतीत्यभिप्रायवतात्रावस्थाग्रहणं न कृतमिति ॥ १.५ १२
     चशब्दो न्यूनाधिकव्यवच्छेदसूचकः ॥ १.५ १३
     प्रेतोन्मत्तमूढावस्थान्तरसद्भावादधिकव्यवच्छेदानुपपत्तिरिति चेन्न गोपननियमेनाव्यक्तावस्थायामेवान्तर्भावात् ॥ १.५ १४
     जयच्छेदावस्थयोरप्यव्यक्तावस्थात्वप्रसङ्ग इति चेन्नानयोर्गोपननियमानभ्युपगमान्निष्ठावस्थामनभ्युपगम्य सिद्धावस्थां पञ्चमीमाहुः ॥ १.५ १५
     केचित्तन्मतमवधारणेनैव निराचष्टे ॥ १.५ १६
     निष्ठा चैवेह पञ्चमी इति ॥ १.५ १७
     इहेत्यस्मिन् पञ्चार्थदर्शने निष्ठावस्थैव पञ्चमी सूत्रप्रामाण्यात्प्रतीयते न सिद्धावस्था ॥ १.५ १८
     तत्र क्षपणीयप्रापणीयाभावात्साधकावस्थाश्चेह निरूप्यन्ते न ततोऽन्यस्येति ॥ १.५ १९
     अत्राह ॥ १.५ २०
     अनधिकारिणोऽवस्थाप्राप्तिरयुक्ता ॥ १.५ २१
     तत्र तथा द्वितीयाद्यवस्थाप्राप्तौ ज्ञानाकलुषत्वादयोऽधिकारित्वापादकाः तथा प्रथमावस्थाप्राप्तौ को हेतुरित्युच्यते ॥ १.५ २२
     अत्रापि कारणविशेषोत्पादिता दीक्षा हेतुः ॥ १.५ २३
     यतस्तत्कारणप्रतिपादनार्थमिदमाह ॥ १.५ २४]

द्रव्यं कालः क्रिया मूर्तिर्गुरुश्चैवेह पञ्चमः ॥ गणकारिका १.५
     [गणकारिकाटीका]
     अत्र विद्याकलापशुसंज्ञितं विविधं कार्यं द्रव्यमित्युच्यते ॥ १.५ द्१
     तत्र विद्या तावच्छिष्यगता दीक्षाङ्गं यया शिष्यो दीक्षाधिकृतो भवति ॥ १.५ द्२
     यया त्वाचार्यः सम्पूर्णां दीक्षां निर्वर्तयति साचार्यगता विद्या ॥ १.५ द्३
     कला दर्भाद्या दीक्षाङ्गम् ॥ १.५ द्४
     उक्तं हि दर्भाः पुनर्भस्म चन्दनं सूत्रमेव च ॥ १.५ द्५
     पुष्पाणि च पुनर्धूपमेष क्रमः स्मृतः ॥ १.५ द्६
     पशुः संस्कर्तव्यो राह्मणः ॥ १.५ द्७
     इत्थं व्याख्यानकरणादुपकरणादेरपि संग्रह इत्यतो न संस्कारकारिकाविरोधः ॥ १.५ द्८
     कालः पूर्वाह्णः ॥ १.५ द्९
     कारणमूर्तिशिष्ययोः संस्कारकर्म क्रियेत्युच्यते ॥ १.५ द्१०
     तत्क्रमश्च संस्कारकारिकायां द्रष्टव्यः ॥ १.५ द्११
     मूर्तिशब्देन यदुपहारसूत्रे महादेवेज्यास्थानमूर्ध्वलिङ्गादिलक्षणं व्याख्यातं तत्समीपदक्षिणभूप्रदेशः कुट्याद्यव्यवहितोऽत्राभिप्रेतः ॥ १.५ द्१२
     गुरुराचार्यः स द्विविधः परापरभेदात् ॥ १.५ द्१३
     तत्रापरः पञ्चार्थज्ञानमर्यादान्वितः ॥ १.५ द्१४
     तथा चोक्तम् ।
     शास्त्रानुगे प्रचारे योऽभिनिविष्टः प्रकृष्टधीः कुशलः ।
     स भवति मतः किल सतामाचार्यो ज्ञानहेतुश्च ॥ १.५ द्१५
     तथा ।
     आचारे स्थापयन् शिष्यान् यस्मादाचरति स्वयम् ।
     आचिनोति च शास्त्रार्थानाचार्यस्तेन कीर्त्यते ॥ १.५ द्१६
     तस्याधिष्ठाता भगवान्महेश्वरः परो गुरुस्तथा चैवं वर्णिते निमित्तमप्यत्र नानुक्तं भवति ॥ १.५ द्१७
     चशब्दो न्यूनाधिकव्यवच्छेदसूचकः ॥ १.५ द्१८
     एवशब्दो गुरोः प्राधान्यमवधारयति ॥ १.५ द्१९
     इह इति स्वसिद्धान्तनिर्देशः ॥ १.५ द्२०
     पञ्चम इत्युपसंहारः ॥ १.५ द्२१
     अथवा एव इह पदयोः पाठविपर्ययं कृत्वान्यथार्थः प्रदर्श्यते ॥ १.५ द्२२
     इहैव पाशुपतदर्शने एवंविशिष्टानि दीक्षानिमित्तानि नान्यत्र ॥ १.५ द्२३
     ततश्च निष्पाद्या दीक्षाप्यत्रैव विशिष्टास्ति नान्यत्रेत्युक्तं भवति ॥ १.५ द्२४
     अथ किं कारणविशेषैरेवेयं दीक्षा विशिष्यते न किं तर्हि फलविशेषैरपि ॥ १.५ द्२५
     यस्मात्तदर्थमिदमाह ॥ १.५ द्२६]

ज्ञानं तपोऽथ नित्यत्वं स्थितिः सिद्धिश्च पञ्चमी ।
     [गणकारिकाटीका]
     तत्र पञ्चपदार्थविषयं समासविस्तरविभागविशेषोपसंहारनिगमनतस्तत्त्वज्ञानं प्रथमो विद्यालाभो ज्ञानमिति चोच्यते ॥ १.६ १
     तेषां समासादीनां स्वरूपं यद्यपि श्रीमताचार्येण भाष्यावसाने प्रकटितं तथापि लेशतस्तद्भाष्यविवरणार्थमस्माभिरप्युच्यते ॥ १.६ २
     तत्र पदार्थानामुद्देशः समासः ॥ १.६ ३
     सोऽथ शब्दादिभिर्दुःखान्तादीनामभिहितः ॥ १.६ ४
     उद्दिष्टानां प्रमाणतः प्रपञ्चाभिधानं विस्तरः ॥ १.६ ५
     पतिः संनाद्य इत्येवमादि ॥ १.६ ६
     तत्साधनत्वेन प्रमाणान्यपि विस्तरशब्देनोक्तानि ॥ १.६ ७
     धर्मधर्मिणां यथासम्भवं लक्षणतोऽन्यत्वाभिधानं विभागः ॥ १.६ ८
     सर्वत्राप्यभिधीयत इत्यभिधानम् ॥ १.६ ९
     कर्मव्युत्पत्तिर्द्रष्टव्या ॥ १.६ १०
     तत्र दुःखान्तस्य विभागस्तावदुच्यते ॥ १.६ ११
     सर्वदुःखापोहो दुःखान्तः ॥ १.६ १२
     स द्विविधोऽनात्मकः सात्मकश्चेति ॥ १.६ १३
     तत्रानात्मकः सर्वदुःखानामत्यन्तोच्छेदः सात्मकस्तु महेश्वरैश्वर्यलक्षणा सिद्धिः ॥ १.६ १४
     सा द्विरूपा ज्ञानशक्तिः क्रियाशक्तिश्चेति ॥ १.६ १५
     तत्र ज्ञानमेव शक्तिर्ज्ञानशक्तिः ॥ १.६ १६
     सा खल्वेकापि सती समस्तव्यस्तविषयभेदात्पञ्चधोक्ता दर्शनश्रवणेत्यादिना रह्मादेरिवोपचरितसर्वज्ञत्वप्रतिषेधार्थम् ॥ १.६ १७
     क्रियाहेतुः शक्तिः क्रियाशक्तिः सा त्रिविधा मनोजवित्वादिभेदा ॥ १.६ १८
     तत्र निरतिशयं शीघ्रकारित्वं मनोजवित्वं कर्मादिनिरपेक्षस्येच्छयैवानन्तररूपकर्तृत्वाधिष्ठातृत्वं कामरूपित्वं संभृतकायेन्द्रियस्यापि निरतिशयैश्वर्यसम्बन्धित्वं विकरणधर्मित्वं चेति ॥ १.६ १९
     यदा चेयं द्विरूपा सिद्धिः प्राप्यते तदा दश सिद्धिलक्षणान्यवश्यत्वादीनि पतित्वान्तानि भवन्ति ॥ १.६ २०
     तत्र निरतिशयमपराधीनत्वमवश्यत्वम् ॥ १.६ २१
     अथ किमिदमवश्यत्वं नामेति ॥ १.६ २२
     वश्यत्वमलनिवृत्तावश्यत्वाख्यः पुरुषेऽवस्थितो धर्मोऽभिव्यज्यते पटे शुक्लतावदित्येके ॥ १.६ २३
     तच्चायुक्तमैश्वर्याभिव्यक्तेः प्रतिषिद्धत्वादनात्मकस्य च धर्मस्याभिव्यक्त्यनुपपत्तेरन्यथानात्मकत्वविरोधः स्याद्यदा गुणैर्युक्त इत्यादि भाष्यविरोधाच्च नावस्थिताभिव्यक्तिः किं त्वैश्वर्यसम्बन्ध एव पराधीनत्वनिवर्तकत्वादवश्यत्वमुच्यते ॥ १.६ २४
     अथवा यदा गुणैर्युक्तस्तदा स एवातथाभूतपूर्वस्तथा भवति सर्पशिक्यादिवत्तस्य भावस्तत्स्वरूपमवश्यत्वं भेदनोच्यते व्यवहारार्थमित्येवमनावेश्यत्वादिष्वपि विचारो द्रष्टव्यः ॥ १.६ २५
     सत्कार्यविचारे चायं विस्तारितो मया तेनेह न प्रतन्यते ॥ १.६ २६
     सत्त्वान्तरानभिभाव्यज्ञानसम्बन्धित्वमनावेश्यत्वं सत्त्वान्तराधीनजीवितरहितत्वमवध्यत्वं समस्तभयातिक्रान्तत्वमभयत्वमैश्वर्येण नित्यसम्बन्धित्वमक्षयत्वं कायेन्द्रियवैकल्यफलेनात्यन्तासम्बन्धित्वमजरत्वं प्राणादिवियोगजदुःखासंस्पर्शित्वममरत्वं सर्वत्राभिप्रेतार्थेषु प्रवर्तमानस्य महेश्वरेणाप्यप्रतिबन्धधर्मित्वमप्रतीघातः सर्वपशुभ्योऽभ्यधिकत्वमैश्वर्यातिशयान्महत्त्वं सर्वपश्वादिकार्यस्वामित्वं पतित्वमिति ॥ १.६ २७
     यदस्वतन्त्रं तत्सर्वकार्यं तस्य विभाग उच्यते विद्या कला पशुश्चेति ॥ १.६ २८
     तत्र पशुगुणो विद्या स्वशास्त्रदृष्ट्योक्ता ॥ १.६ २९
     वैशेषिकदृष्ट्या द्रव्यवत् ॥ १.६ ३०
     सा द्विधा बोधाबोधस्वभावभेदात् ॥ १.६ ३१
     तत्राबोधस्वभावा धर्मादिलक्षणा विद्यान्तर्भावकरणादविद्यात्मकस्य विद्यान्तर्भावे कलादेरप्यन्तर्भावः स्यादिति ॥ १.६ ३२
     बोधस्वभावा तु विषयभेदाच्चतुर्धा पञ्चधा चोक्ता ॥ १.६ ३३
     स्वरूपतस्तु द्विधा विवेकवृत्तिः सामान्यवृत्तिश्चेति ॥ १.६ ३४
     तत्र विवेकवृत्तिः प्रायेणोपदेशव्यङ्ग्या न च तत्र समाख्यान्तरमस्ति ॥ १.६ ३५
     विद्यैव हि विशेषसमाख्या सामान्यवृत्तिस्तु प्रमाणमात्रव्यङ्ग्या चित्तमित्युक्ता ॥ १.६ ३६
     अनयोर्भेदष्टीकान्तरे मया दर्शित नेह प्रदर्श्यते ॥ १.६ ३७
     चेतनानाश्रितत्वे सति निश्चेतना कला ॥ १.६ ३८
     सापि द्विविधा कार्याख्या करणाख्या चेति ॥ १.६ ३९
     तत्र कार्याख्या दशविधा पृथिव्यप्तेजोवाव्याकाशगन्धरसरूपस्पर्शशब्दलक्षणा करणाख्या तु त्रयोदशविधा पञ्च कर्मेन्द्रियाणि पञ्च बुद्धीन्द्रियाण्यन्तःकरणत्रयं चेति ॥ १.६ ४०
     पशुत्वसम्बन्धी पशुः ॥ १.६ ४१
     सोऽपि द्विविधः साञ्जनो निरञ्जनश्चेति ॥ १.६ ४२
     तत्र साञ्जनः शरीरेन्द्रियसम्बन्धी चतुर्दशविधः ॥ १.६ ४३
     उक्तं हि दैवमष्टविधं ज्ञेयं तैर्यग्योनं च पञ्चधा ।
     पर्वमेकं तु मानुष्यमेतत्संसारमण्डलम् ॥ १.६ ४४
     इति निरञ्जनस्तु त्रिविधः संहृतः कैवल्यगतो निष्ठायोगयुक्तश्चेति ॥ १.६ ४५
     समस्तसृष्टिसंहारानुग्रहकारि कारणं तस्यैकस्यापि गुणधर्मभेदाद्विभाग उक्तोऽन्यत्पतित्वमित्यादिना ॥ १.६ ४६
     निरतिशयदृक्क्रियाशक्तिः पतित्वं तेनैश्वर्येण नित्यसम्बन्धित्वं सत्त्वमनागन्तुकैश्वर्यत्वमाद्यत्वं समस्तजन्मरहितत्वमजातत्वं महासृष्टिसंहारकर्तृत्वं भवोद्भवत्वं परमोत्कृष्टं गुणधर्मनिमित्तनामाभिधेयत्वं वामत्वं दुःखान्तनिमित्तधर्मोत्पादकनामाभिधेयत्वं वा स्वेच्छयैवाशेषकार्योत्पत्त्यादिकारणस्वभावः क्रीडा तद्धर्मित्वं देवत्वं सिद्धसाधकपशुभ्यः परत्वं ज्येष्ठत्वं सर्गादावपि रुतभयसंयोजकत्वं रुद्रत्वं कर्मादिनिरपेक्षस्य स्वेच्छयैवाशेषकार्यकर्तृत्वं कामित्वं शमसुखनिर्वाणकरत्वं शंकरत्वमन्तरसृष्ट्यामपि संहारकर्तृत्वं कालत्वं कार्यकारणाख्यानां कलानां स्थानशरीरादिभावेन संयोजकत्वं कलविकरणत्वं धर्मादिबलानां यथेष्टं वृत्तिलाभलोपाक्षेपकर्तृत्वं बलप्रमथनत्वं सर्वदेवमानुषतिरश्चां रतिरञ्जनाधिवासनाकर्तृत्वं सर्वभूतदमनत्वं सकलनिष्कलावस्थायास्तुल्यशक्तित्वं मनोमनस्त्वं सुखकरानन्तशरीराधिष्टातृत्वमघोरत्वं दुःखकरानन्तशरीराधिष्टातृत्वं घोरतरत्वं सर्वविद्यादिकार्याणां व्याप्ताधिष्ठातृत्वं पूरणं यथेप्सितानन्तशरीरादिकरणशक्तिः पौरुष्यम् ॥ १.६ ४७
     तदुभयं भगवतः पुरुषत्वमुच्यते ॥ १.६ ४८
     सर्वपश्वादिभ्योऽभ्यधिकोत्कृष्टव्यतिरिक्तत्वं महत्त्वं देवत्वं पूर्वोक्तम् ॥ १.६ ४९
     दुःखान्तनिमित्तं ध्यानैकविषयत्वमोंकारत्वम् ॥ १.६ ५०
     ऋषित्वं क्रियाशक्तिर्ज्ञानशक्तिस्तु विप्रत्वम् ॥ १.६ ५१
     अनयोराश्रयव्यापित्वानन्तविषयत्वनिरतिशयत्वज्ञापनार्थं तदाश्रयो भगवान्महानित्युक्तः ॥ १.६ ५२
     सर्वदा सर्वत्राविचलितस्वभावेन वर्तमानो भगवानेष इत्युच्यते ॥ १.६ ५३
     गुणधर्मद्वारेण वाचः प्रवर्तन्ते यस्मादतस्तद्व्यतिरिक्तस्तदविशेषितश्च भगवान् विशुद्ध इत्युच्यते ॥ १.६ ५४
     नित्यानागन्तुकैश्वर्ययुक्ते परमकारणे ।
     यत्र वाचो निवर्तन्ते वाग्विशुद्धः स कीर्तितः ॥ १.६ ५५
     क्षणैकमपि यस्तत्र प्राप्नोत्येकाग्रतां यतिः ।
     स दग्ध्वा सर्वकर्माणि शिवसायुज्यमाप्नुयात् ॥ १.६ ५६
     सर्वैश्वर्यप्रदातृत्वं महेश्वरत्वं समस्तकार्यविषयं प्रभुत्वमीशत्वं सर्वविद्याविषयं प्रभुत्वमीशानत्वं सर्वभूतविषयं प्रभुत्वमीश्वरत्वम् ॥ १.६ ५७
     प्रक्रमापेक्षः खल्वेवमीशादिशब्दानामर्थः प्रदर्शितोऽन्यथा पुनरेकार्थत्वमेवेति ॥ १.६ ५८
     रह्मग्रहणस्योदाहरणार्थत्वादशेषपतिविषयप्रभुत्वमधिपतित्वं बृंहणबृहत्त्वं रह्मत्वं परिपूर्णपरितृप्तत्वं शिवत्वमिति ॥ १.६ ५९
     एवं सुनिश्चिताः खल्विमे गुणधर्माः परमेश्वरस्योपहारकाले गायता भावयितव्याः सततं वा जपं च कुर्वता विभक्त्युपसर्गनिपातक्रियापदानामर्थैः सह चिन्तनीयास्ततोऽचिरेणैव कालेन शुद्धिवृद्धी भवतः ॥ १.६ ६०
     ते च स्वात्मसंवेद्ये इति ॥ १.६ ६१
     धर्मार्थः साधकव्यापारो विधिः ॥ १.६ ६२
     स द्विविधः प्रधानभूतो गुणभूतश्चेति ॥ १.६ ६३
     तत्राव्यवधानेन धर्महेतुर्यो विधिः स प्रधानभूतश्चर्येति वक्ष्यते ॥ १.६ ६४
     यस्तु चर्यानुग्राहकः स गुणभूतोऽनुस्नानादिः ॥ १.६ ६५
     तत्र भुक्तोच्छिष्टादिनिमित्तायोग्यताप्रत्ययनिवृत्त्यर्थं लिङ्गाभिव्यक्त्यर्थं च यत्स्नानं यत्कलुषनिवृत्त्यर्थं तदुपस्पर्शनम् ॥ १.६ ६६
     एतदुभयमप्यजपतैवेश्वरनियोगमनुसंधाय संसारदोषं भावयता गुरुलघुभावं च पर्यालोच्य भस्मनैव कर्तव्यम् ॥ १.६ ६७
     निर्माल्यधारणमपि लिङ्गाभिव्यक्तिभक्तिवृद्धिद्वारेण चर्यानुग्राहकम् ॥ १.६ ६८
     विचार्य कारणनिर्माल्यं निष्परिग्रहं परं कृतं गृहीत्वा संयतात्मना कारणं प्रणम्यानुज्ञां प्रार्थयेत्ततः प्रसन्नमुखं भगवन्तं स्वनिर्माल्यं निर्मलीकरणाय प्रयच्छन्तं ध्यात्वा महाप्रसाद इत्यभिसंधाय भक्त्यैव शिरसि धारयेत् ॥ १.६ ६९
     तथायतनवासित्वमपि चर्यानुग्राहकम् ॥ १.६ ७०
     तथा चोक्तम् ।
     धर्मक्षेत्रं परं ह्येतच्छिवायतनं भुवि ।
     विधिबीजस्य सा भूमिस्तत्र वप्तं महाफलम् ॥ १.६ ७१
     लिङ्गाद्धस्तशतं साग्रं शिवक्षेत्रं समन्ततः ।
     जन्तूनां तत्र पञ्चत्वं शिवसायुज्यकारणम् ॥ १.६ ७२
     ग्रामे वा यदि वेत्यादि ॥ १.६ ७३
     उपस्पर्शनेनाक्षपितकलुषक्षापणार्थं प्राणायामः ॥ १.६ ७४
     कोष्ठस्य वायोर्गतिनिरोधः प्राणायामः ॥ १.६ ७५
     तत्रोपस्पृश्य कारणतीर्थकरगुरूननुप्रणम्य प्राङ्मुख उदङ्मुखो वा पद्मकस्वस्तिकादीनामन्यतमं यथासुखमासनं बद्ध्वा कृतमुन्नतं च कृत्वा शनैः संयतान्तःकरणेन रेचकादीन् कुर्यात् ॥ १.६ ७६
     कलुषाभावेऽपि चित्तस्यातिनिर्मलत्वापादनार्थमभ्यासार्थं नित्यं कुर्यात् ॥ १.६ ७७
     उक्तं हि ।
     प्राणायामैर्दहेद्दोषान् धारणाभिश्च किल्बिषम् ।
     प्रत्याहारेण विषयान् ध्यानेनानीश्वरान् गुणान् ॥ १.६ ७८
     प्राणायामेन युक्तस्य विप्रस्य नियतात्मनः ।
     सर्वे दोषाः प्रणश्यन्ति सत्त्वस्थश्चैव जायते ॥ १.६ ७९
     जलबिन्दुकुशाग्रेण मासे मासे च यः पिबेत् ।
     संवत्सरशतं साग्रं प्राणायामैकतत्समम् ॥ १.६ ८०
     प्राणायामविशुद्धात्मा यस्मात्पश्यति तत्परम् ।
     तस्मात्किंचित्परं नास्ति प्राणायामादिति श्रुतिः ॥ १.६ ८१
     तदक्षपितकलुषक्षपणार्थं जपः कर्तव्यः ॥ १.६ ८२
     तृतीयचतुर्थयोरन्यतरस्मिन् रह्मणि प्रयत्ननिरुद्धं चित्तं सम्पूर्णाक्षरानुबोधेन तदर्थानुबोधेन वा पुनः पुनः संचारयेदिति ॥ १.६ ८३
     एवं च प्रायश्चित्तान्तरमुत्सूत्रत्वान्न कर्तव्यमिति ॥ १.६ ८४
     ननु च त्रिकस्य कलुषनिवृत्त्यर्थमेवाभिधानं व्यभिचारान्तरेषु पुनः किं प्रायश्चित्तम् ॥ १.६ ८५
     न चैतद्वाच्यं यतेरप्रमत्तस्य सर्वदैव संयतत्वादसम्भवी व्यभिचार इति कामादिव्यभिचारेण समानत्वात्त्रिकस्याप्यनारम्भप्रसङ्गो वा ॥ १.६ ८६
     किं चाधर्मसामर्थ्याद्विदुषोऽपि व्यभिचारसम्भवात् ॥ १.६ ८७
     उक्तं च ह्रियते बुध्यमानोऽपि इत्यादि ॥ १.६ ८८
     हिंसायाश्चावश्यंभावित्वात् ॥ १.६ ८९
     उक्तं हि ।
     अह्णा रात्र्या च याञ्जन्तून्निहन्त्यज्ञानतो यतिः ।
     तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षडाचरेत् ॥ १.६ ९०
     प्रतिदिनमित्यर्थः ॥ १.६ ९१
     अत्रैके सर्वव्यभिचारेषु त्रिकमेव कर्तव्यमिति मन्यन्ते ॥ १.६ ९२
     वयं तु पश्यामः कलुषनिवृत्त्यर्थमेव त्रिकं कर्तव्यम् ॥ १.६ ९३
     भाष्यस्यापि तथैव श्रुतत्वान्नादृष्टार्थमदृष्टशुद्धेश्चानिश्चयात्त्रिकानुपरमप्रसङ्गः स्यात्तस्मात्कलुषनिवृत्तौ पूर्वकृताधर्मक्षपणवद्व्यभिचारकृताधर्मक्षपणार्थमपि विध्याचरणमेव कर्तव्यम् ॥ १.६ ९४
     तथा च सूत्रं भूयस्तपश्चरेतिति ॥ १.६ ९५
     मनुरप्याह ।
     यत्किंचिदेनः कुर्वन्ति वाङ्मनोमूर्तिभिर्जनाः ।
     तत्सर्वं निर्णुदन्त्याशु तपसैव तपोधनाः ॥ १.६ ९६
     महापातकिनश्चैव शेषाश्चाकार्यकारिणः ।
     तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः ॥ १.६ ९७
     तथा श्रीमद्भाष्यकृतापि ज्ञापकमुक्तम् ।
     तपोभिरार्या निर्णुदन्ति पापं ध्यानोपयोगात्क्षपयन्ति पुण्यम् ।
     ते निर्मलास्तत्त्वविदो विशुद्धा गच्छन्ति मोक्षं ह्युभयोरभावात् ॥ १.६ ९८
     न चायं नियमः पुण्यक्षय एव ध्यानात्किंतु पापक्षयोऽपि ॥ १.६ ९९
     यतः तत्रैव ज्ञापकान्तरमुक्तम् ॥ १.६ १००
     सर्वं दहति ध्यानेन पुण्यपापक्रियाश्रयम् ।
     पुण्यपापफले दग्धे स्वामी तस्य न विद्यते ॥ १.६ १०१
     इति ॥ १.६ १०२
     एवं तर्ह्यनर्थकं विध्यनुष्ठानमिति चेन्नानेन विधिना रुद्रसमीपं गत्वेति प्रवचनाद्विध्यनुष्ठानविकलस्य योगानुष्ठानसामर्थ्याभावात् ॥ १.६ १०३
     तथा चान्यत्राप्युक्तम् ।
     धर्मः प्रयत्नतः कार्यो योगिना तु विशेषतः ।
     नास्ति धर्मादृते योग इति योगविदो विदुः इति ॥ १.६ १०४
     तस्मादुपस्पर्शनादिभिः प्रसन्नं चित्तं कृत्वा सर्वस्याधर्मस्य क्षपणार्थं विधियोगानुष्ठानमेवात्यन्ताद्यभियोगेन कर्तव्यं न प्रायश्चित्तान्तरमिति ॥ १.६ १०५
     तथा दशाहिंसादयो यमाश्चर्यानुग्राहका यदा तदा विध्यन्तर्भूता यदा तु योगक्रियानुग्राहकास्तदा योगान्तर्भूता इति ॥ १.६ १०६
     तत्र वाक्कायमनोभिः परदुःखानुत्पादनमहिंसा इन्द्रियसंयमो रह्मचर्यं धर्मसाधनानङ्गवचनप्रतिषेधः सत्यं वर्णाश्रमिभिः सह दृष्टार्थसंगतिप्रतिषेधोऽसंव्यवहारः धर्मसाधनाङ्गादभ्यधिकस्य न्यायतोऽप्यस्वीकरणमन्यायतस्तु धर्मसाधनाङ्गस्याप्यस्वीकरणं चास्तेयं परैरपकृतस्याप्यम्लानचित्तत्वमक्रोधः वाक्कायमनोभिर्गुरौ हितभावेनैव वर्तनं गुरुशुश्रूषा कायान्तःकरणात्मशुद्धिः शौचं स्ववृत्त्यैवोपार्जितान्नस्य विधियोगानुष्ठानाविरोधेनाभ्यवहरणमाहारलाघवम् ॥ १.६ १०७
     अष्टौ ग्रासा मुनेरिति केचित्तन्नेष्टं विधियोगानुष्ठानविरोधप्रसङ्गात् ॥ १.६ १०८
     सव्यञ्जनाशनोदकाभ्यां कोष्ठस्य भागत्रयं पूरयित्वा चतुर्थं भागं वायोः संचरणार्थमवशेषयेदित्यन्ये ॥ १.६ १०९
     तदिष्टमेवाविरोधात् ॥ १.६ ११०
     अत्र च पञ्चविधभैक्षाभिधायकं वाक्यं चरेन्माधुकरीमित्याद्यविरोधेन व्याख्येयम् ॥ १.६ १११
     यथाविहितविधियोगानुष्ठाने सततमेवोद्यमोऽप्रमादः ॥ १.६ ११२
     अयं च प्रधानभूतो यमः ॥ १.६ ११३
     तथा चोक्तम् ।
     यतिधर्मस्य सद्भावः श्रूयतां गुणदोषतः ।
     अप्रमादात्परा सिद्धिः प्रमादान्नरकं ध्रुवम् ॥ १.६ ११४
     इति ।
     वासोऽपि ज्ञानोत्पादनद्वारेण चर्यानुग्राहकत्वाद्गुणविधिरेवेति ॥ १.६ ११५
     चित्तद्वारेणेश्वरसम्बन्धः पुरुषस्य योगः ॥ १.६ ११६
     स द्विविधः क्रियालक्षणः क्रियोपरमलक्षणश्चेति ॥ १.६ ११७
     तत्र क्रियालक्षणो जपयन्त्रणधारणध्यानस्मरणात्मक इति ॥ १.६ ११८
     वक्ष्यामः ॥ १.६ ११९
     क्रियोपरमलक्षणोऽप्यतिगत्यादिशब्दवाच्य इति ॥ १.६ १२०
     शास्त्रान्तरोक्तपदार्थेभ्योऽमीषामतिशयाभिधानं विशेषः ॥ १.६ १२१
     तथाहि शास्त्रान्तरे दुःखनिवृत्तिरेव दुःखान्तः इह तु परमैश्वर्यप्राप्तिश्च ॥ १.६ १२२
     तथान्यत्राभूत्वा भावि कार्यमिह तु नित्यं पश्वादि ॥ १.६ १२३
     तथान्यत्रास्वतन्त्रं प्रधानादि कारणमिह तु स्वतन्त्रो भगवानेव ॥ १.६ १२४
     तथान्यत्र कैवल्याभ्युदयफलो योगः इह तु परमदुःखान्तफलः ॥ १.६ १२५
     तथान्यत्रावर्तकः स्वर्गादिफलो विधिरिह त्वनावर्तको रुद्रसमीपादिफल इति ॥ १.६ १२६
     पदार्थानां समाप्तिसंहारस्तत्र दुःखकार्यकारणविधीनामिति शब्देन समाप्तिरुक्ता ॥ १.६ १२७
     योगस्य तु त्वाशब्देनेति ॥ १.६ १२८
     समाप्तानां निःशेषीकरणार्थं प्रासङ्गिकसंशयनिवृत्त्यर्थं च धर्मान्तराभिधानं निगमनम् ॥ १.६ १२९
     प्रतिज्ञातार्थेन सहैकवाक्यत्वख्यापनार्थमित्यन्ये ॥ १.६ १३०
     तदेवं विधियोगयोः कार्यान्तर्भावेऽपि अतिप्रयोजनवशात्पृथगभिधानं कृत्वा पञ्चानामेव समासादय उक्ता इत्यतः पञ्चैव पदार्था उच्यन्ते ॥ १.६ १३१
     अन्ये तु पदार्थभेदमन्यथा वर्णयन्ति ॥ १.६ १३२
     तत्त्वं गुणो भाव इति ॥ १.६ १३३
     तत्र यदनाश्रितं तत्तत्त्वम् ॥ १.६ १३४
     तच्च विंशतिभेदम् ॥ १.६ १३५
     पञ्च पृथिव्यादीनि त्रयोदशेन्द्रियाणि पशुः कारणं चेति ॥ १.६ १३६
     तत्त्ववृत्तयः भावाश्रया गुणास्तत्र पृथिव्यादिषु यथासम्भवं रूपरसगन्धस्पर्शशब्दाः पञ्चैव वर्तन्ते ॥ १.६ १३७
     इन्द्रियतत्त्वानि तु निर्गुणानि ॥ १.६ १३८
     पशुषु सप्त गुणा वर्तन्ते पशुत्वधर्माधर्मचित्तविद्याप्रयत्नेच्छालक्षणाः ॥ १.६ १३९
     सुखादीनां तु तद्विकारत्वात्तदन्तर्भाव एव मृद्विकारवत् ॥ १.६ १४०
     कारणे त्रयो गुणाः कामार्थित्वविप्रत्वाख्या इति धर्मिभ्योऽन्यानन्यत्वेनानिर्वचनीयाः ॥ १.६ १४१
     सत्त्वगुणानां धर्मा भावा इत्युच्यन्ते ॥ १.६ १४२
     तद्विचारश्च सत्कार्यविचारे कृते इति नेह क्रियते ॥ १.६ १४३
     तदेवं कारणादिनिश्चयज्ञानं प्रथमो लाभ इति ॥ १.६ १४४
     द्वितीयं लाभमाह तपः इति ॥ १.६ १४५
     भस्मस्नानादिविधिजनितो धर्मस्तप इत्युच्यते ॥ १.६ १४६
     तस्योत्पादो रक्षणादिलिङ्गादपि निश्चीयते ॥ १.६ १४७
     अधर्मतस्करेण सन्मार्गादपह्रियमाणः साधकः पुरपालस्थानीयेन धर्मेण रक्ष्यते ॥ १.६ १४८
     अवस्थानादवस्थान्तरगमनं गतिः ॥ १.६ १४९
     विहितानुष्ठान एव संतोषः प्रीतिः ॥ १.६ १५०
     लाभसम्बन्धः प्राप्तिः ॥ १.६ १५१
     यद्बलेन विधियोगाभिनिविष्टस्य चित्तं रम्भादीनां गीतवाद्यादिभिरपि क्षोभयितुं न शक्यते तन्माहात्म्यं धर्मशक्तिरित्यर्थः ॥ १.६ १५२
     अतिगतिसायुज्यस्थितिशब्दा निष्ठायोगपर्यायाः ॥ १.६ १५३
     यस्मिन् सति पदार्थाः साधकस्याध्यक्षोपलब्धियोग्या भवन्ति स प्रकाशः द्विविधः परापरभेदात् ॥ १.६ १५४
     तत्र येन विधियोगसाधनानि सम्यग्विवेचयति ध्येयतत्त्वे रह्मणि च स्वं चित्तं समाहितं च्युतं च च्यवमानं च लक्षयति सोऽपरः प्रकाशः ॥ १.६ १५५
     येन तु स्थापनावसरे सर्वतत्त्वानि सगुणधर्माण्यानन्त्येन दृष्ट्वा योज्यायोज्यभावेन विवेचयति स पर इति ॥ १.६ १५६
     विषयिणामिष्टविषयेष्विवानिच्छतोऽपि रुद्रे चित्तवृत्तिप्रवाहः समीपं तदेवात्यन्तोत्कर्षापन्नं देवनित्यत्वमित्येतत्सर्वं धर्मज्ञापकत्वेनोक्तमिति ॥ १.६ १५७
     तृतीयं लाभमाह ॥ १.६ १५८
     अथ नित्यत्वमिति ॥ १.६ १५९
     अथेत्यानन्तर्ये तपोऽनन्तरं यद्देवे भावाभ्यासलक्षणं नित्यत्वं तृतीयो लाभः स उच्यते ॥ १.६ १६०
     न तु नित्ययुक्ततेत्यर्थः ॥ १.६ १६१
     अव्युच्छिन्नप्रवाहो नित्यत्वमत्राभिप्रेतं यथा नित्यप्रवाहा गङ्गेती ॥ १.६ १६२
     चतुर्थं लाभमाह स्थितिरिति ॥ १.६ १६३
     दोषहेतुजालेभ्यश्छिन्नस्य मूलाख्यानिवृत्तौ चित्तस्य रुद्रेऽवस्थानमत्यन्तनिश्चलत्वं स्थितिरुच्यते ॥ १.६ १६४
     तत्समकालं योगिनोऽसङ्गित्वादीनि नव लक्षणानि भवन्ति ॥ १.६ १६५
     तत्र लक्ष्यमाणस्य सङ्गस्यात्यन्तव्यावृत्तिरसङ्गित्वम् ॥ १.६ १६६
     केवलरुद्रतत्त्वावस्थितिचित्तत्त्वं योगित्वम् ॥ १.६ १६७
     अनुरुध्यमानचित्तवृत्तित्वं नित्यात्मत्वम् ॥ १.६ १६८
     अप्रादुर्भाविचित्तत्वमजत्वम् ॥ १.६ १६९
     परमसमता मैत्रत्वम् ॥ १.६ १७०
     शरीरादिवियुक्तत्वमेकत्वम् ॥ १.६ १७१
     सर्वाशङ्कास्थानातिक्रान्तत्वं क्षेमित्वम् ॥ १.६ १७२
     बाह्याध्यात्मिकक्रियाशून्यत्वं निष्क्रियत्वम् ॥ १.६ १७३
     समस्तचिन्तारहितत्वं वीतशोकत्वमित्येतानि लक्षणान्यस्य योगस्यात्यन्तोत्कृष्टत्वप्रतिपादनार्थमुक्तानि ॥ १.६ १७४
     पञ्चमं लाभमाह सिद्धिश्च इति ॥ १.६ १७५
     सिद्धिः पूर्वव्याख्याता ॥ १.६ १७६
     सानुमानादप्यवगम्यते ॥ १.६ १७७
     निरुपचरिता मुक्तात्मानः परमैश्वर्योपेताः पुरुषत्वे सति समस्तदुःखबीजरहितत्वान्महेश्वरवत् ॥ १.६ १७८
     पराभिप्रेता मुक्तात्मानः परमैश्वर्यविकलत्वादस्मदादिवदिति ॥ १.६ १७९
     चकारो न्यूनाधिकव्यवच्छेदसूचकः ॥ १.६ १८०
     पञ्चमीति लाभानां पञ्चत्वोपसंहारार्थमिति ॥ १.६ १८१
     अथैते लाभाः किं देशनियमेन प्राप्तव्या यथा रह्मचारिगृहस्थवानप्रस्थभिक्षुभिर्विद्याप्रजातयोगाख्या लाभाः किं वा देशानियमेनापि पञ्चविंशतितत्त्वज्ञेन कैवल्यवदिति ॥ १.६ १८२
     उच्यते ॥ १.६ १८३
     देशनियमेन ॥ १.६ १८४
     यतस्तदर्थमिदमाह ॥ १.६ १८५]

गुरुजनगुहादेशः श्मशानं रुद्र एव च ॥ गणकारिका १.६
     [गणकारिकाटीका]
     आर्षत्वाद्वा यथाश्रुतेऽप्यदोषः ॥ १.६ द्१
     गुरुः पूर्वोक्तस्तदाज्ञयावतिष्ठमानस्तदाश्रितो भवति यथा ग्रामण्यमाश्रितो ग्राम इति ॥ १.६ द्२
     तत्रादिधर्मावस्थस्य तावदायतने वास इत्यत्रायतनशब्दो गुरावेव द्रष्टव्यो लिङ्गकर्तेत्यादिज्ञापकादुपचाराद्वा पञ्चशब्दवत् ॥ १.६ द्३
     यद्यप्यायतनसूत्रे प्रतिषेधः श्रूयते तथापि देशप्रस्तावे गुरुरभिप्रेत एवाचार्यो लोक इत्यादि ज्ञापकाभ्यनुज्ञानात् ॥ १.६ द्४
     अत एव गूढव्रतोपदेशादायतने वास इत्यत्रायतनशब्दो जने विवक्षितो मर्यादयायतनादिति कृत्वा बद्धस्य रुद्रस्य हि शिवायतनवासानुपपत्तेः ॥ १.६ द्५
     यदापि वासस्तदापि जनाधीन एवेत्यतो द्वितीयावस्थस्य जन एव देशः ॥ १.६ द्६
     जनशब्देनात्र धर्माधर्मजननाधिकृता वर्णाश्रमिनोऽभिधीयन्त इति ॥ १.६ द्७
     तृतीयावस्थस्य गुहा देशः ॥ १.६ द्८
     गुहाग्रहणं सूत्रार्थोपलक्षणार्थमतः शून्यागारगुहयोरन्यतरं व्यासङ्गादिदोषवर्जितं यत्प्राप्यते तत्र वस्तव्यम् ॥ १.६ द्९
     देशग्रहणं तत्रावस्थानमात्रेण गुहाया देशत्वज्ञापनार्थं न तु गुरुजनवत्तदायत्तत्वेनेति ॥ १.६ द्१०
     चतुर्थावस्थस्य श्मशानदेशः ॥ १.६ द्११
     श्मशानं च प्रसिद्धमेव ग्राह्यम् ॥ १.६ द्१२
     तस्य च न गुहावद्देशत्वं किं त्वा देहपातात्तत्रैवानिर्गच्छता स्थेयमित्ययं विशेषः ॥ १.६ द्१३
     पञ्चमावस्थस्य देशो रुद्रः ॥ १.६ द्१४
     रुद्रो भगवान्महेश्वरः ॥ १.६ द्१५
     प्रागपि रुद्रायत्तत्वात्साधकस्य रुद्रोऽस्त्येव देशस्तथापि प्रागन्यव्यपदेशोऽप्यस्ति साम्प्रतं पुनः शरीरादिरहितस्य सर्वदेशविकलत्वादवधारणं करोति रुद्र एवेति ॥ १.६ द्१६
     चशब्दो न्यूनाधिकव्यवच्छेदक इति ॥ १.६ द्१७
     अथ किमेतद्देशावस्थितिमात्रेणैवैते लाभाः प्राप्यन्ते कल्पवृक्षदेशावस्थितिवत् ॥ १.६ द्१८
     उच्यते ॥ १.६ द्१९
     न ॥ १.६ द्२०
     किं तर्हि देशभेदवदुपायभेदोऽप्यस्ति ॥ १.६ द्२१
     यतस्तत्प्रतिपादनार्थमाह ॥ १.६ द्२२]

वासश्चर्या जपध्यानं सदारुद्रस्मृतिस्तथा ।
प्रसादश्चैव लाभानामुपायाः पञ्च निश्चिताः ॥ गणकारिका १.७
     [गणकारिकाटीका]
     ग्रहणधारणोहापोहविज्ञानवचनक्रियायथान्यायाभिनिवेशानां वास इति संज्ञा तान्त्रिकी शिष्टैः कृता ॥ १.७१
     तत्र सकृदुच्चारितवाक्यस्य सम्यगर्थप्रतिपत्तिसामर्थ्यं ग्रहणम् ॥ १.७२
     गृहीतस्य चिरकालव्यवधानेऽपि स्मरणसामर्थ्यं धारणम् ॥ १.७३
     एकदेशश्रवणात्तन्न्यायेनापूर्वार्थप्रतिपत्तिसामर्थ्यमूहः ॥ १.७४
     आचार्यदेशीयैरुक्तार्थानां युक्तायुक्तप्रविभागेन प्रतिपत्तित्यागसामर्थ्यमपोहः ॥ १.७५
     श्रुतस्यार्थस्यानेकधाविचारणे परप्रतिपादने च सामर्थ्यं विज्ञानम् ॥ १.७६
     व्याहतपुनरुक्तादिदोषरहितं वाक्यं वचनम् ॥ १.७७
     निर्दुष्टशब्दोच्चारणेनाचार्यं परितोषयतो मिथ्याज्ञानमलनिवृत्तौ विद्याभिव्यक्तिर्भवति ॥ १.७८
     तथोत्थानप्रत्युत्थानादिका गुरौ परिचर्या क्रियेत्युक्ता ॥ १.७९
     युक्त्यापि पूर्वोत्तराविरुद्धशास्त्रार्थपर्यालोचने तदर्थानुष्ठानार्थमतियत्नो यथा न्यायाभिनिवेशः ॥ १.७१०
     तथा चोक्तम् ।
     पूर्वोत्तराविरोधेन वाक्यार्थं ह्यविचालितम् ।
     यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥ १.७११
     धर्मस्योपायः चर्या ॥ १.७१२
     भस्मस्नानादिर्मूढान्तः क्रियासमूहश्चर्येत्युच्यते ॥ १.७१३
     सा च त्र्यङ्गा दानयागतापाङ्गेति ॥ १.७१४
     पञ्चसु पवित्रेष्वावर्त्यमानेषु दशभिर्नमस्कारैः परमेश्वरायात्मसमर्पणं दानम् ॥ १.७१५
     तदेवातिदानमनावृत्तिफलत्वात् ॥ १.७१६
     अन्यत्तु कुदानमावृत्तिफलत्वादिति ॥ १.७१७
     परमेश्वरनियोगाभिसंधिना भस्मस्नानादिक्रियाणां यथाविहितकरणं यागः ॥ १.७१८
     स एवातियागोऽन्यस्तु कुयागः पूर्वोक्तहेतुद्वयात् ॥ १.७१९
     स्वविध्यभिनिविष्टस्यैव त्रिविधदुःखोपनिपाते सति अनुपायतः प्रतीकारमकुर्वतः सहिष्णुत्वं तापः ॥ १.७२०
     स एवातितापोऽन्यत्तु कुताप इति ॥ १.७२१
     सा त्र्यङ्गापि चर्या द्विविधा व्रतं द्वाराणि चेति ॥ १.७२२
     तत्र स्नानशयनोपहारजपप्रदक्षिणानि व्रतं धर्मनिष्पत्त्यधर्मोच्छेदार्थं प्राधान्येन क्रियमाणत्वात् ॥ १.७२३
     द्वाराणि तु क्राथनस्पन्दनमन्दनशृङ्गारणापितत्करणापि तद्भाषणानि ॥ १.७२४
     अपमानपरिभवपरिवादनिष्पादनद्वारेण पूर्वोत्पन्नयोर्धर्माधर्मयोरायव्ययनिमित्तत्वादिति क्रमः स्वरूपं चैषां भाष्य एव प्रपञ्चितम् ॥ १.७२५
     तदनुसारेण शिष्यहितार्थं मयापि लेशतः प्रदर्श्यते ॥ १.७२६
     प्रागादित्योदयात्घटिकाद्वयं पूर्वाह्णसंध्या ॥ १.७२७
     सा त्रिदेवता ॥ १.७२८
     प्रथमा राह्मी मध्यमा वैष्णवी अन्त्या रौद्री ॥ १.७२९
     तत्र पूर्वसंध्ययोः शौचं कृत्वा भस्म संस्कर्तव्यम् ॥ १.७३०
     कर्तृकारकादिदोषरहितं शुक्लादिगुणयुक्तं च भस्मार्जितं शिवदक्षिणमूर्तौ मन्त्रैः संस्कृत्य प्रदक्षिणं च दत्त्वा सूर्यरूपिणं भगवन्तं लोचनत्रयेण प्रसन्नदृष्ट्या भस्म पश्यन्तं ध्यायेत् ॥ १.७३१
     तदनु चाचार्याय शिवतत्त्वानुरञ्जितदृष्टये ज्येष्ठभ्रात्रे वा निवेदयेत् ॥ १.७३२
     तदन्वेकान्ते शुचौ प्रदेशे जन्तुस्थावरहीने पञ्च पवित्राण्यावर्तयतैव स्थेयं रौद्रसवनं यावत्ततो भगवन्तं प्रणम्य त्वदाज्ञां करोमीत्यभिसंधाय जपन्नैवापादतलमस्तकं यावत्प्रभूतेन भस्मनाङ्गं प्रत्यङ्गं च प्रयत्नातिशयेन निघृष्य निघृष्य स्नानमाचरेदित्येवं मध्याह्नापराह्णसंध्ययोरपीति ॥ १.७३३
     एतावदत्र विशिष्यते ॥ १.७३४
     मध्याह्ने प्रथमा राह्मी मध्ये मस्तकोपरिस्थिते रवौ रौद्री तदन्ते वैष्णवी अर्कास्तसमयोत्तरत्र प्रथमा रौद्री तदनु वैष्णवी तदन्ते राह्मी चेति ॥ १.७३५
     सर्वत्र रौद्रसवनमेव स्नानकालः ॥ १.७३६
     एवं स्नानं निर्वर्त्य जपन्नेवायतनं गत्वा शिवं भक्त्यतिशयेन प्रणम्य स्नानं निवेद्य च शनैर्गर्भगृहं प्रविशेत् ॥ १.७३७
     तदनु मूर्तिदक्षिणे देशे जानुनी पातयित्वा हृदि चाञ्जलिं बद्ध्वा मूर्तिस्थं साक्षादिव शिवं पश्यन् यद्यनिवृत्तप्रत्याहारस्तदा गतमात्र एव हसितं कुर्यादित्येके ॥ १.७३८
     वयं तु पश्यामोऽभिगम्य च यत्पूर्वं जपतीत्यादि भाष्यस्यार्थो यदि विचार्यते तदावश्यं गत्वा संयतात्मनोत्तराभिमुखेन प्रत्याहारविशेषार्थं जप्तव्यं जप्त्वा तु शिवध्यानासक्त एवाट्टहासं पुनः पुनः कुर्यात् ॥ १.७३९
     तदनु गीतमारभ्य गायन्नेवोत्तिष्ठेत् ॥ १.७४०
     ततो गीतसहितमेव नृत्यं कुर्यात् ॥ १.७४१
     तत्रादौ गीतं परिसमाप्य पश्चान्नृत्यं समापयेत् ॥ १.७४२
     तदनु पूर्वोक्तविधिनोपविश्य शिवं ध्यायन्नेव हुडुक्कारं कृत्वा नमस्कारं कुर्यात्तदनु जपमिति ॥ १.७४३
     अत्र जपनमस्कारौ मानसावेव नृत्यं कायिकमेव हसितगीतहुडुक्कारा वाचिका एवेति नियम इष्टः ॥ १.७४४
     तत्र दीर्घोच्छ्वासत्रयं यावद्धसितं दण्डकत्रिरावर्तनं यावद्गीतनृत्ये गम्भीरहुडुक्कारत्रयं षष्टि नमस्कारान् पञ्चपवित्राणां त्रिरावर्तनं कुर्यादित्याह भगवानाचार्यः स्वामी मम येनाहमज्ञानार्णवादुत्तारितः ॥ १.७४५
     टीकाकारास्तु सर्वमा परितोषात्कर्तव्यमित्येवं प्रतिपन्नाः ॥ १.७४६
     तदेवं निर्वर्त्योपहारं ध्यायन्नीशं हसितगीतनृत्यहुडुक्कारनमस्कारजप्यैः षडङ्गोपहारं भगवन्महादेव युष्मदनुज्ञया निर्वर्तितवानहमवभृथस्नानं च करिष्यामीत्येवं निवेदयेत् ॥ १.७४७
     ततो निष्क्रम्येशं प्रणम्य प्रणामान्तं प्रदक्षिणत्रयं जपन्नेव शनैः कुर्यात् ॥ १.७४८
     ततोऽवभृथस्नानं कृत्वा भगवंल्लकुलीशादीन् राशीकरान्तांश्च तीर्थकराननुक्रमेण यथावद्भक्त्या नमस्कुर्यात्तदनु प्रदक्षिणमेकमिति ॥ १.७४९
     अन्यदा तु यावदिच्छं प्रदक्षिणं जपन्नेव कुर्यात्पञ्चमन्त्रजपस्तु केवलोऽपि धर्महेतुरिति ॥ १.७५०
     अथायतनसंधिनं देशं दिवा परिगृहीतस्थावरादिदोषवर्जितत्वेन सुपरीक्षितं संध्यावसाने वस्त्रान्तादिमृदुपवित्रेण विवेच्य भस्मनैव शुचिं कुर्यात् ॥ १.७५१
     तदनु तत्रोपविश्य विध्यभिनिविष्टस्तावत्तिष्ठेद्यावदतिनिद्राभिभूतः श्रान्तश्च भवति ॥ १.७५२
     ततः पुनरुत्थाय विवेचयेत् ॥ १.७५३
     तदनु मन्त्रैः संस्कृत्य भस्म प्रभूतं प्रस्तरेत् ॥ १.७५४
     ततस्तत्र पञ्च मन्त्रानावर्तयन्नेव स्वपेत्पुनरुत्थायानेनैव विधिना स्वपेद्येनाश्वेव शुद्धिवृद्धी भवतः ॥ १.७५५
     सुप्तस्यापि प्राणात्यये चातिगतिः स्यादन्यथा विधिभ्रष्टस्य संसारापत्तिरेवेति ॥ १.७५६
     एवं प्रथमावस्थायां विधिमनुष्ठाय यदा खलु प्राप्तज्ञानः प्रक्षीणकलुषः कृताभ्यनुज्ञश्च भवति तदावस्थान्तरं गत्वा रङ्गवदवस्थितेषु जनेषु मध्ये नटवदवस्थितो विवेच्य विवेच्य क्राथनादीनि कुर्यात् ॥ १.७५७
     तत्रासुप्तस्येव सुप्तलिङ्गप्रदर्शनं क्राथनं वाय्वभिभूतस्येव शरीरावयवानां कम्पनं स्पन्दनमुपहतपादेन्द्रियस्येव गमनं मन्दनम् ॥ १.७५८
     यौवनसम्पन्नां स्त्रियमवलोकयन् कामुकमिवात्मानं यैर्लिङ्गैः प्रदर्शयति तच्छृङ्गारणं कार्याकार्यविवेकशून्यस्येव लोकनिन्दितकरणमपि तत्करणं व्याहतापार्थकादिशब्दोच्चारणमपि तद्भाषणमिति ॥ १.७५९
     न चैषां क्रमो नियम्यते ॥ १.७६०
     किंत्वपमानादिनिष्पादकत्वं येन परिभवं गच्छेदित्युपदेशाद्दवाग्नितुल्यत्वेनापमानादेरिष्टतमत्वादिति ॥ १.७६१
     एवं तर्हि हिंसास्तेयादिकरणदुष्टशब्दोच्चारणप्रसङ्गोऽपि स्यादपमानादिनिष्पादकत्वादिति ॥ १.७६२
     नापि तत्करणापि तद्भाषणो देवाशेषक्रियाव्याप्तावहिंसाद्यविरोधज्ञापनार्थत्वात्क्राथनाद्यारम्भस्येति ।
     देवनित्यत्वे कस्तर्हि उपाय इत्याह जपध्यानमिति ॥ १.७६३
     तत्र तृतीयचतुर्थकस्य मन्त्रस्यावर्तनं जपः ॥ १.७६४
     स द्विविधः प्रत्याहारफलः समाधिफलश्चेति ॥ १.७६५
     तत्राद्यः प्रत्याहारफलस्तन्निष्पत्तौ च क्रियमाणो जपः समाधिफल इति ॥ १.७६६
     ननु चान्यासक्तत्वे क्रियमाणो जपः संवत्सरशतेनापि न प्रत्याहारं करोत्यपि तु दोषमेव तस्य जनयतीति ॥ १.७६७
     सत्यमेवमेतत् ॥ १.७६८
     किंतु प्रत्याहारद्वैविध्यमिहेष्टं परापरभेदात् ॥ १.७६९
     तत्रान्तःकरणपूर्वकोऽपरः ॥ १.७७०
     तत्सहितेन जपेन निर्मलीकृतं चित्तं प्रयत्ननिरपेक्षमपि रह्मण्येवालातचक्रवदवतिष्ठते यदा तदासौ परः प्रत्याहारो जपपूर्वक एवायमित्युक्तः ॥ १.७७१
     स ह्यनेकजन्मोपार्जितं कर्म लक्षणमात्रेण दग्ध्वा ध्येयतत्त्वे चित्तं स्तम्भनिक्षिप्तायःकीलकवन्निश्चलीकरोति ॥ १.७७२
     रुद्रतत्त्वे सदृशश्चिन्ताप्रवाहो ध्यानम् ॥ १.७७३
     तद्द्विविधं जपपूर्वकं धारणापूर्वकं च ॥ १.७७४
     तत्र जपपूर्वकं प्रसङ्गेनैव पूर्वमुक्तं धारणापूर्वकं तूच्यते ॥ १.७७५
     निरालम्बनं चित्तममूढस्य धारणम् ॥ १.७७६
     संहृतमूर्छाद्यवस्थस्यापि चित्तं वृत्तालाभान्निरालम्बनमस्तीति तन्निवृत्त्यर्थममूढस्येत्युक्तम् ॥ १.७७७
     यो विद्यानुगृहीतया बुद्ध्या स्वं चित्तं निरालम्बनं करोति सोऽमूढ इत्युच्यते ॥ १.७७८
     तया धारणया निर्मलीकृतं चित्तं रुद्रतत्त्वे स्थापितं सुदीर्घकालं न च्यवत इत्यनेनैव विशेषेण पूर्वध्यानापेक्षयेदं धारणासहितं ध्यानं परमित्युक्तं श्रीमद्भाष्यकृता परमयोगिना ॥ १.७७९
     यद्यप्येव दीक्षाप्रभृति चित्तं निर्मलीकर्तुं न शक्यते तथापि धानुष्कचित्रकरादिवदभ्यासार्थं सर्वावस्थासु यथाशक्त्या ध्यानं कर्तव्यं मृत्युकालस्यानिश्चितत्वात् ॥ १.७८०
     अन्यथा हि युद्धकाल एव अश्वदमनन्यायः स्यादिति ॥ १.७८१
     इत्थं सम्यग्विधिं ज्ञात्वा यस्तु ध्यायति शंकरम् ।
     निशादावर्धरात्रे च निशान्ते चाच्युतव्रतः ॥ १.७८२
     यामं यामं तदर्घं यावच्छक्त्या दिवापि च ।
     संत्यज्यासक्तिमन्यत्र पश्यन्दुःखमयं भवम् ॥ १.७८३
     परं वैराग्यमास्थाय लघ्वाहारो जितेन्द्रियः ।
     उत्साहातिशयं कुर्वन् शुद्धोत्कर्षं विवर्धयन् ॥ १.७८४
     नैरन्तर्येण षण्मासं रह्महत्यादिमानपि ।
     एकं संवत्सरं वापि तच्चित्तस्तन्मयो भवेत् ॥ १.७८५
     स हत्वा दुष्कृतं घोरं रागादीनां च पञ्जरम् ।
     पश्यत्येवाखिलं तत्त्वं सर्वोपाधिसमन्वितम् ॥ १.७८६
     सर्वसत्त्वाधिपं पश्यन्ननन्तं शिवमव्ययम् ।
     यो न पाशुपतादन्यैर्योगीशैरपि दृश्यते ॥ १.७८७
     तं दृष्ट्वा परमैश्वर्यं लब्ध्वा स्यान्निर्भयः सदा ।
     अज्ञात्वापि विधानं यस्तेषु कालेषु सुव्रतः ॥ १.७८८
     सद्भक्त्युत्साहवैराग्यैर्नित्यं ध्यायति शंकरम् ।
     तस्यापीशः प्रसन्नस्तां सिद्धिं दद्यादनुत्तमाम् ॥ १.७८९
     यां प्राप्य त्यक्तसंसारः स्वतन्त्रः शिववद्भवेत् ।
     ध्यायन्नेव तमीशानं यदि प्राणान् विमुञ्चति ॥ १.७९०
     तस्य देहान्तकाले वै दद्यादीशः परां गतिम् ।
     अब्भक्षा वायुभक्षाश्च ये चात्युग्रतपश्चराः ॥ १.७९१
     क्षित्यादीनां च दातारो यज्ञानुष्ठायिनश्च ये ।
     संवत्सरसहस्रेण यां सिद्धिं प्राप्नुवन्ति ते ॥ १.७९२
     तां प्राप्नोत्यर्धयामेन जपध्याने रतो यतिः ।
     ज्ञात्वैवं योगमाहात्म्यं देहादेः स्थित्यनिश्चयम् ॥ १.७९३
     दुःखार्णवं च संसारं न कुर्यादन्यथा मतिम् ।
     शरीरं ध्रियते यावद्यावद्बुद्धिर्न हीयते ॥ १.७९४
     तावद्ध्यानं जपं चैव यावच्छक्त्या समभ्यसेत् ।
     इष्टं द्रव्यं यथा नष्टं कश्चिद्ध्यायत्यहर्निशम् ।
     तद्वद्वागाद्यसंसृष्टं शिवं ध्यायेदनालसः ॥ १.७९५
     विवक्षोर्वाग्विशुद्धः प्राग्यद्वच्चेतसि भासते ।
     तद्वत्तं प्रणिधानेन दिवा रात्रौ च चिन्तयेत् ॥ १.७९६
     गुणैर्धर्मैर्विशिष्टं वा भावयित्वाशु निश्चितः ।
     पश्चात्तं केवलं ध्यायेद्बुद्ध्या कृत्वा पृथक्ततः ॥ १.७९७
     इत्येतत्पाशुपतयोगविधानं परमोत्तमं सुरैरपि अलभ्यं परमगुह्यमा परमेश्वराद्गुरुपारम्पर्योपदेशैकसमधिगम्यं स्वल्पप्रज्ञानामनुग्रहार्थं व्यक्तमेवोपन्यस्तम् ॥ १.७९८
     यस्त्वेवं न श्रद्दधात्यपरीक्षितेभ्यो वा ददाति तस्य रह्महत्यादिभ्योऽपि गरीयः पातकं स्यादित्यतः शिष्यपरीक्षायां श्रद्धायां च यत्नः कर्तव्य इति ॥ १.७९९
     स्थितेरुपायमाह ॥ १.७१००
     सदारुद्रस्मृतिस्तथा इति ॥ १.७१०१
     देवनित्यत्वमेव सदास्मृतिरित्युच्यते ॥ १.७१०२
     स्थितिं प्रत्युपायत्वप्रतिपादनार्थं संज्ञान्तराभिधानमिति ॥ १.७१०३
     तथाशब्दः समानार्थः ॥ १.७१०४
     यथा देवनित्यत्वं प्रत्यध्ययनध्यानयोरेवोपायत्वं धर्मं च प्रति चर्याया एव तदनुग्राहकत्वेनानुस्नानादियमयन्त्रणादिरप्युपायत्वमुपचर्यते तथा स्थितिं प्रति स्मृतिरेव प्राधान्येनोपायस्तदनुग्राहकत्वेनेन्द्रियजयोऽप्युपायत्वेनोक्त इत्यतो नेन्द्रियजयादित्यनेन विरोधः ॥ १.७१०५
     सङ्गादिनिवृत्तेरुपायान्तरमिन्द्रियजय इत्येके ॥ १.७१०६
     तन्न पञ्चोपायत्वविरोधात्त्यागादानसूत्रभाष्यविरोधाच्च ॥ १.७१०७
     देवनित्यत्वेन्द्रियजययोरभेद इत्यन्येऽपि ॥ १.७१०८
     तदपि न ॥ १.७१०९
     लक्षणभेदादीन्द्रियोत्सर्गग्रहयोः प्रभुत्वमिन्द्रियजयः ॥ १.७११०
     देवे भावाभ्यासतरत्वं देवनित्यत्वमिति ॥ १.७१११
     सिद्धेस्तर्ह्युपायो वाच्य इत्यत आह ॥ १.७११२
     प्रसादश्चैव इति ॥ १.७११३
     कारणस्य स्वगुणदित्सा प्रसाद इत्युच्यते ॥ १.७११४
     चशब्दो न्यूनाधिकव्यवच्छेदसूचकः ॥ १.७११५
     एवशब्दः प्रसादस्यान्यानपेक्षत्वमवधारयति ॥ १.७११६
     लाभानामुपाया इत्येतद्गम्यमानार्थस्याप्यभिधानं शास्त्रान्तरोक्तानां मोक्षोपायानामनुपायत्वज्ञापनार्थम् ॥ १.७११७
     पञ्च इत्युपसंहारार्थम् ॥ १.७११८
     निश्चिता इत्याप्तैर्दृष्टा इत्यर्थः ॥ १.७११९
     अथ किमेतैरुपायैः पञ्चलाभा एव प्राप्तव्या इति न किं तर्हि मलाश्च पञ्च क्षपणीयाः ॥ १.७१२०
     के पुनस्ते इत्याह ॥ १.७१२१]

मिथ्याज्ञानमधर्मश्च सक्तिहेतुश्च्युतिस्तथा ।
पशुत्वं मूलं पञ्चैते तन्त्रे हेयाधिकारतः ॥ गणकारिका १.८
     [गणकारिकाटीका]
     तत्र प्रमाणाभासजं ज्ञानं मिथ्याज्ञानमुक्तं संशयविपर्ययादिलक्षणम् ॥ १.८१
     शास्त्रान्तरेभ्योऽपि तर्हि संशयादिनिवृत्तेरविशेषप्रसङ्ग इति चेन्न शास्त्रान्तरप्रणेत्ःणामपि विपर्ययानिवृत्तिप्रतिपादनादाचार्यवैशेष्यप्रकरणे ॥ १.८२
     तन्न शास्त्रान्तरेभ्योऽपि संशयादिनिवृत्तिरिति ॥ १.८३
     कामक्रोधद्वेषाः कलुषं तस्याप्यज्ञानेऽन्तर्भावः ॥ १.८४
     कस्मात् ॥ १.८५
     अव्यक्तावस्थागमने प्रत्यनीकत्वात् ॥ १.८६
     तदिदं संशयादि कलुषं च सह बीजेन मिथ्याज्ञानमित्युच्यते ॥ १.८७
     द्वितीयं मलं दर्शयति अधर्मश्च इति ॥ १.८८
     पाप्मबीजं पापमेवात्राधर्म इत्यभिप्रेतम् ॥ १.८९
     तस्य सविकारस्यैकमलत्वं विकारविकारिणोरनन्यत्वादिति ॥ १.८१०
     सत्यप्यज्ञानकलुषसङ्गच्युतिहेतोरधर्मत्वे पापाख्य एवात्राधर्मोऽभिप्रेत इति चः सूचयति ॥ १.८११
     तृतीयं मलमाह ॥ १.८१२
     सक्तिहेतुः इति ॥ १.८१३
     सक्तिः सङ्गः विषयासक्तिलक्षणसुखं भाष्ये सुखाभिमान इत्यनेनोक्तम् ॥ १.८१४
     तस्यैव लक्षणार्थं भाष्यमविवेचनमिश्रणप्रेरणलक्षणो वनगजवतिति ॥ १.८१५
     तस्य सङ्गस्य हेतुस्तन्मयकरणं विध्यन्तरोपार्जितो धर्मः सङ्गकर इति य उक्तः सह विकारेणासौ तृतीयो मल इति ॥ १.८१६
     चतुर्थं मलमाह ॥ १.८१७
     च्युतिस्तथा इति ॥ १.८१८
     रुद्रतत्त्वादीषच्चित्तं च्यवते विषयं न प्राप्नोति तच्चित्तच्यवनं च्युतिरित्युच्यते ॥ १.८१९
     तथाशब्दः समानार्थे ॥ १.८२०
     यथा मिथ्याज्ञानस्य स्वबीजेन सह मलत्वमधर्मसङ्गकरयोश्च सविकारेण तथा च्युतेरपि ऊष्मवदवस्थिताधर्माख्येन स्वबीजेन सह मलत्वमिति ॥ १.८२१
     अत्र भाष्यविरोधान्न मिथ्याज्ञानकलुषपाप्मसङ्गच्युतयः पुरुषस्य भावाश्चित्तविद्ययोर्वा ॥ १.८२२
     नापि कलुषमिच्छाया भावः किंत्वधर्मविकारा एवैते ज्ञानेच्छाभ्यां सह क्षीरोदकवदभिन्ना इव गृह्यन्ते ॥ १.८२३
     तथा च सत्कार्यविचारे प्रपञ्चितमेतदिति ॥ १.८२४
     पञ्चमं मलमाह पशुत्वमिति ॥ १.८२५
     धर्माधर्मव्यतिरिक्तः प्रतिघातानुमेयः पुरुषगुणः पशुत्वम् ॥ १.८२६
     तस्य चतुर्दशलक्षणोपेतस्य मलत्वम् ॥ १.८२७
     तानि च लक्षणान्यसर्वज्ञत्वादीन्यपतित्वान्तानि सर्वज्ञत्वादिविपर्ययेणैव व्याख्यातानीति ॥ १.८२८
     तच्चेत्थंभूतं पशुत्वं संसारस्यानादिकारणं प्रधानभूतमित्येवं मत्वाह मूलमिति ॥ १.८२९
     तथाहि कैवल्यगतानामन्यमलाभावेऽपि पशुत्वादेव पुनः संसारापत्तिरिति ॥ १.८३०
     पञ्च इति न्यूनाधिकव्यवच्छेदेनोपसंहारार्थम् ॥ १.८३१
     एते इत्यवधारणार्थम् ॥ १.८३२
     एते एव संसारबन्धात्मका मला न तु शास्त्रान्तरोक्ता भोक्तृभोग्यसम्बन्धादय इत्यर्थः ॥ १.८३३
     क्व पुनरित्थंभूता मलाः प्रसिद्धा इत्याह ॥ १.८३४
     तन्त्रे साक्षान्महेश्वरप्रणीतमथशब्दादि शिवान्तं शास्त्रं तन्त्रं तस्मिन्नेते प्रतिपादिता इत्यर्थः ॥ १.८३५
     धर्मज्ञानादेरपि त्यज्यमानत्वादधर्मादेरिव मलत्वं प्राप्तमित्याशङ्क्याह हेयाधिकारतः इति ॥ १.८३६
     येषां कर्दमादिवद्दुःखहेतुत्वं मत्वा साधकः क्षपणार्थमधिक्रियते त एव मला न तु येषां पुष्पादिवदनिच्छतोऽपि विनाश इत्यतो हेयाधिकारादज्ञानादय एव मला इति ॥ १.८३७
     हेयाधिकारिका इति वा पाठस्तत्राप्ययमर्थः ॥ १.८३८
     हेयत्वेन क्षपणीयत्वेनाधिकारो योग्यतास्ति येषां ते हेयाधिकारिणस्त एव हेयाधिकारिकाः ॥ १.८३९
     स्वार्थे कप्रत्ययः ॥ १.८४०
     अधिकारशब्दाद्वा इकङ्प्रत्यये कृते हेयपदेन कर्मधारयस्तदयमर्थो यतो हेयाधिकारिका एवात्र मला विवक्षिताः ॥ १.८४१
     तस्मान्न धर्मज्ञानवैराग्यादयोऽपि मला इति ॥ १.८४२
     इत्येतत्सर्वमाख्यातं संक्षिप्याब्धिसमं मया ।
     आचार्याणां प्रसादेन ज्ञानं पञ्चार्थलक्षणम् ॥ १.८४३
     किं ज्ञातैर्बहुभिः शास्त्रैः स्वानुष्ठानापहारिभिः ।
     इदमेवोत्तमं ज्ञात्वा योगाभ्यासरतिर्भवेत् ॥ १.८४४
     कृतकृत्यं स्वमात्मानं श्रुत्वैतन्मन्यते तु यः ।
     तस्मै देयमिदं ज्ञानं नान्यस्मिन् सिद्धिमिच्छता ॥ १.८४५
     यस्तु मर्यादाहीनेभ्यो दद्यात्केनापि हेतुना ।
     स गुह्यभेदतो गच्छेत्सह शिष्यैरधोगतिम् ॥ १.८४६
     नमः सद्गुरवे तस्मै सर्वविद्यान्तगामिने ।
     सच्छ्लोकैरष्टभिर्येन पञ्चार्थाब्धिः प्रदर्शितः ॥ १.८४७]

"https://sa.wikisource.org/w/index.php?title=गणकारिका&oldid=330634" इत्यस्माद् प्रतिप्राप्तम्