गङ्गाधरस्तोत्रम्

विकिस्रोतः तः
गङ्गाधरस्तोत्रम्
अप्पय्यदीक्षितः
१९५३

॥ गङ्गाधरस्तोत्रम् ॥



 क्षीराम्भोनिधिमन्थनोद्भवविषात्सन्दह्यमानान् -
सुरान् ब्रह्मादीनवलोक्य य: करुणया हालाहलाख्यं
विषम् । निश्शङ्कं निजलीलया कबळयन्लोकान्नरक्षा-
दरादार्तत्राणपरायणस्सभगवान् गङ्गाधरो मेगतिः।। १

 क्षीरं स्वादु निपीय मातुलगृहेभुक्त्वा स्वकीयं
गृहं क्षीरालाभवशेन खिन्नमनसेघोरं तपः कुर्वते ।
कारुण्यादुपमन्यवेनिरवधिं क्षीरांबुधिं दत्तवानार्त-
त्राण परायणस्सभगवान् गङ्गाधरो मे गतिः ।। २

 मृत्युं वक्षसि ताडयन्निजपदध्यानैकभक्तं मुनिं
मार्कडेयमपालयत्करुणया लिंगाद्विनिर्गत्य यः ।
नेत्राम्भोजसमर्पणेनहरयेभीष्टं रथाङ्गं ददा वार्तात्राण
परायणस्सभगवान् गङ्गाधरो मे गतिः ।। ३

 ओढुं द्रोणजयद्रथादिरथिकैस्सैन्यं महत्कैरवं दृष्ट्वा
कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्तिहा । पार्थं
रक्षितवा नमोघविषय दिव्यास्त्र मुद्बोधयन्नार्त...।। ४

 बालं शैवकुलोद्भवं परिहसत्स्वज्ञातिपक्षाकुलं
खिद्यन्तं तव मूर्ध्नि पुष्पनिचयं दातुं समुद्यत्करम् ।
दृष्ट्वा नम्यविरिञ्चिरम्यनगरे पूजां त्वदीयां भज-
न्नार्त ...॥ ५

 संत्रस्तेषु पुरा सुरासुरभयादिन्द्रादिबृन्दारके-
ष्वारूढो धरणीरथं श्रुतिहयं कृत्वा मुरारिं शरम् ।
रक्षन्यः कृपया समस्तविबुधात् जित्वा पुरारीन्
क्षणा दार्तत्राण...॥ ६

 श्रौतस्मार्तपथो पराङ्भुवमपि प्रोद्यन्महापातकं
विश्वाधीशमपत्यमेव गतिरित्यालापवन्तं सकृत् ।
रक्षन्यः करुणापयोनिधिरिति प्राप्तप्रसिद्धिः पुरा
ह्यार्त्रताण...॥ ७

 गाङ्गं वेगमवाप्यमान्यविबुधैस्सोढुं पुरा याचितो
दृष्ट्वाभक्तभगीरथेन विनतो रुद्रोजटामण्डले। कारुण्या
दवनीतले सुरनदीमापूरयन्पावनी मार्तत्राण परा-
यण...॥ ८


॥ इति श्रीमदप्परय्यदीक्षितविरचितं श्रीगङ्गाधराष्टकम् ॥

"https://sa.wikisource.org/w/index.php?title=गङ्गाधरस्तोत्रम्&oldid=320179" इत्यस्माद् प्रतिप्राप्तम्