क्षणभङ्गसिद्विः व्यतिरेकात्मिका

विकिस्रोतः तः
क्षणभङ्गसिद्विः व्यतिरेकात्मिका
[[लेखकः :|]]



क्षणभङ्गसिद्विः व्यतिरेकात्मिका ।

व्यतिरेकात्मिका व्याप्तिराक्षिप्तान्वयरूपिणी ।
बैधम्यैवति दृष्टान्ते सत्त्वे हेतोरिहोच्यते ॥

यत्सत्तत्क्षणिकं यथा घटः सन्तश्चामीविवादास्पदीभूताः पदार्था इति स्वभावो हेतुः । न तावदस्यासिद्विः सम्भवति । यथायोगं प्रत्यक्षानुमाणप्रमाणप्रतीते धर्म्मिणि सत्त्वशब्देनाभिप्रेतस्यार्थक्रियाकारित्वलक्षणस्य साधनस्य प्रमाणसमधिगतत्वात् । न च विरुद्वानैकान्तिकते । व्यापकानुपलम्भात्मना विपर्य्ययबाधकप्रमाणेन व्याप्तेः प्रसाधनात् । ब्यापकञ्चार्थक्रियाकारित्वस्य क्रमाक्रमिकार्य्यविषयत्वमेव । न पुनः कारणगतौ कार्य्यगतौ वा क्रमाक्रमावस्य व्यापकौ । कृत्वा करणलक्षणस्य क्रमस्य क्षणिकेऽसम्भवात् । कार्य्यगताभ्यां क्रमाक्रमाभ्यां कारणशक्तेर्व्याप्तयोगात् । तस्मात्कारणगतया क्रमाक्रमिकार्य्यविषयतया व्याप्यमाना कारणशक्तिः क्रमाक्रमव्याप्तेत्युच्यते । विषयेण विषयिनिर्द्देशात् । व्यवहारलाघवार्थम् । ततश्च यद्यपि सर्व्वत्र क्रमाक्रमौ सत्त्वस्य व्यापकावित्याद्युच्यते । तथापि क्रमाक्रमिकार्य्यविषयत्वमेव व्यापकं बोद्वव्यम् । ननु यदैकमेव कार्य्यमङ्कुरादिकमुत्पद्यते, तदा कथं कार्य्यगतक्रमाक्रमव्यवस्थेति चेत् ।

उच्यते । यद्यप्येकमेव कार्य्यं भिन्नकालकार्य्यमपेक्ष्यक्रमस्तदभावाच्चाक्रम स्तत्कारित्वमेव क्रमाक्रमकारित्वम् । तथाप्यपेक्षणीयविषयभेदात्क्रमाक्रमयोरसाङ्कर्य्यमेव । पितृपुत्रत्ववत् । कः पुनरसौ व्याप्तिप्रसाधको व्यापकानुपलम्भ इति चेत् । उच्यते । यस्य क्रमाक्रमिकार्य्यविषयत्वन्नास्ति, न तत्शक्तं, यथा शशविषाणम् । नास्ति च नित्याभिमतस्य भावस्य क्रमाक्रमिकार्य्यविषयत्वमिति व्यापकानुपलम्भः । न तावदयमसिद्वो वक्तव्यः । नित्यस्य धर्म्मिणः क्रमाक्रमिकार्य्यविषयत्वेन व्यापकेन सह विरोधसद्भावात्, तथा हि पूर्व्वापरकालयोरेकत्वे नित्यत्वं क्षणद्वयेपि भेदे क्रमाक्रमित्वम् । ततश्च नित्यत्वं क्रमाक्रमित्वञ्चेत्यभिन्नत्वं भिन्नत्वञ्चेत्युक्तं भवति । एतयोश्च परस्परपरिहारस्थितिलक्षणतया विरोधः । तत्कथं नित्ये क्रमाक्रमसम्भवः । नापि विरुद्वः सपक्षे भावात् । नचानैकान्तिकः । क्रमाक्रमाभावस्यार्थक्रियासामर्थ्याभावेन व्याप्तत्वात् । तथा हि न तावत्क्रमाक्रमाभ्यामन्यः प्रकारोस्ति, येनार्थक्रियासम्भावनायां कारमाक्रमाभ्यामर्थक्रियाव्याप्तिर्न स्यात् । तस्मादर्थक्रियामात्रानुबद्वतया तयोरन्यतरप्रकारस्य । उभयोरभावे चाभावादर्थक्रियामात्रस्येति ताभ्यां तस्य व्याप्तिसिद्विः । पक्षीकृते च तयोरभावेनार्थक्रियाशक्त्यभावसिद्वौ कथमनेकान्तः । न हि ब्याप्यव्यापकयोर्व्याप्यव्यापकभावसिद्विमुद्वूयब्याप्याभावेन व्यापकाभावस्य व्याप्तिसिद्वौ, उपायान्तरमस्तीति निरवद्यो व्यापकानुपलम्भः । सत्त्वस्य क्षणिकत्वेन व्याप्तिं साधयत्येव । ननु व्यापकानुपलम्भतः सत्त्वस्य कथं स्वसाध्यप्रतिवन्धसिद्विः, अस्याप्यनेकदोषदुष्टत्वात् । तथाहि न तावदयं प्रसङ्गो हेतुः साध्यधर्म्मिणि प्रमाणसिद्वत्वात्, पराभ्युपगमसिद्वत्वाभावात्, विपर्य्ययपर्य्यवसानाभावाच्च । अथ स्वतन्त्रः, तदाश्रयासिद्वः । अक्षणिकस्याश्रयस्यासम्भवादप्रतीतत्वाद्वा
। प्रतीति र्हि प्रत्यक्षेणानुमानेन विकल्पमात्रेण वा स्यात् । प्रथमपक्षद्वये साक्षात्पारम्पर्य्येण वा स्वप्रतीतिलक्षणार्थकारित्वे मौलः साधारणो हेतुः । व्यापकानुपलम्भश्च स्वरूपासिद्वः स्यात् । अर्थक्रियाकारित्वे क्रमाक्रमयोरन्यतरस्यावश्यम्भावात् । अन्तिमपक्षे तु न कश्चिद्वेतुरनाश्रयः स्यात्विकल्पमात्रसिद्वस्य धर्म्मिणः सर्व्वत्र सुलभत्वात् । अपि च तत्कल्पनाज्ञानं प्रत्यक्षपृष्ठभावि वा स्यात्, लिङ्गजन्म वा, संस्कारजं वा, सन्दिग्धवस्तुकं वा, अवस्तुकं वा । तत्राद्यपक्षद्वयेऽक्षणिकस्य सत्तैवाब्याहता कथं वाधकावतारः । तृतीये तु न सर्व्वदाऽक्षणिकसत्तानिषेधः । तदर्पितसंस्काराभावे तत्स्मरणायोगात् । चतुर्थे तु सन्दिग्धाश्रयत्वं हेतुदोषः । पञ्चमे च तद्विषयस्याभावो न तावत्प्रत्यक्षतः सिध्यति । अक्षणिकात्मनः सर्व्वदैव त्वन्मतेऽप्रत्यक्षत्वात् । न चानुमानतस्तदभावः प्रतिबद्वलिङ्गानुपलम्भादित्याश्रयासिद्विस्तावदुद्वता । एवं दृष्टान्तोपि प्रतिहन्तव्यः ॥

स्वरूपासिद्वोप्ययं हेतुः स्थिरस्यापि क्रमाक्रमिसहकार्य्यपेक्षया क्रमाक्रमाभ्यामर्थक्रियोपपत्तेः । नापि क्रमयौगपद्यपक्षोक्तदोषप्रसङ्गः । तथाहि क्रमिसहकार्य्यपेक्षया क्रमिकार्य्यकारित्वन्तावदविरुद्वम् ।

तथाच शङ्करस्य संक्षिप्तोऽयमभिप्रायः । सहकारिसाकल्यं हि सामर्थ्यम् । तद्वैकल्यञ्चासामर्थ्यम् । न च तयोराविर्भावतिरोभावाभ्यान्तद्वतः काचित्क्षतिः, तस्य ताभ्यामन्यत्वात् । तत्कथं सहकारिणोऽनपेक्ष्यकार्य्यकरणप्रसङ्ग इति ।

त्रिलोचनस्याप्ययं संक्षिप्तार्थः । कार्य्यमेव हि सहकारिणमपेक्षते । न कार्य्योत्पत्तिहेतुः । यस्माद्द्विविधं सामर्थ्यन्निजमागन्तुकञ्च सहकार्य्यन्तरम् । ततोऽक्षणिकस्यापि क्रमवत्सहकारिनानात्वादपि क्रमवत्कार्य्यनानात्वोपपत्तेरशक्यं भावानां प्रतिक्षणमन्यान्यत्वमुपपादयितुमिति ॥

न्यायभूषणोऽपि लपति । प्रथमकार्य्योत्पादनकाले ह्युत्तरकार्य्योत्पादनस्वभावः । अतः प्रथमकाल एवाशे षाणि कार्य्याणि कुर्य्यादिति चेत् । तदिदं माता मे वन्ध्येत्यादिवत्स्ववचनविरोधादयुक्तम् । योह्युत्तरकार्य्यजननस्वभावः स कथमादौ तत्कार्य्यं कुर्य्यात् । न तर्हि तत्कार्य्यकरणस्वभावः । नहि नीलोत्पादनस्वभावः पीतादिकमपि करोतीति ॥

वाचस्पतिरपि पठति । नन्वयमक्षणिकः स्वरूपेण कार्य्यञ्जनयति । तच्चास्य स्वरूपं तृतीयादिष्विव क्षणेषु द्वितीयेऽपि क्षणे सदिति तदापि जनयेत् । अकुर्व्वन् वा तृतीयादिष्वपि न कुर्व्वीत । तस्य तादवस्थ्यात् । अतादवस्थ्ये वा तदेवास्य क्षणिकत्वम् ।

अत्रोच्यते । सत्यं स्वरूपेण कार्य्यञ्जनयति न तु तेनैव । सहकारिसहितादेव ततः कार्य्योत्पत्तिदर्शनात् । तस्मात्व्याप्तिवत्कार्य्यकारणभावोऽप्येकत्रान्ययोगव्यवच्छेदेनाम्यत्रायोगव्यवच्छेदेनावबोद्वव्यः । तथैव लोकिकपरीक्षकाणां सम्प्रतिपत्तेरिति न क्रमिकार्य्यकारित्वपक्षोक्तदोषावसरः ॥

नाप्यक्षणिके यौगपद्यपक्षोक्तदोषावकाशः । ये हि कार्य्यमुत्पादितवन्तो द्रव्यविशेषास्तेषां व्यापारस्य नियतकार्य्योत्पादनसमर्थस्य निष्पादिते कार्य्येऽनुवर्त्तमानेष्वपि तेषु द्रव्येषु निवृत्तार्थादूना सामग्री जायते । तत्कथं निष्पादितं निष्पादयिष्यति । न हि दण्डादयः स्वभावेनैव कर्त्तारो येनामी निष्पत्तेरारभ्य कार्य्यं विदद्युः । किन्तर्हि व्यापारावेशिनः । न चेयता स्वरूपेण न कर्त्तारः स्वरूपकारकत्वनिर्व्वाहपरतया व्यापारसमावेशादिति ॥

किञ्च क्रमाक्रमाभावश्च भविष्यति न च सत्वाभाव इति सन्दिग्धव्यतिरेकोप्ययं व्यापकानुपलम्भः । न हि क्रमाक्रमाभ्यामन्यप्रकारस्याभावः सिद्वः । विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वात् । किञ्च प्रकारान्तरस्य दृश्यत्वेनात्यन्तनिषेधः । अदृश्यत्वे तु नासत्तानिश्चयो विप्रकर्षिणामिति न क्रमाक्रमाभ्यामर्थक्रियासामर्थ्यस्य व्याप्तिसिद्विः । अतः सन्दिग्धव्यतिरेकोऽपि व्यापकानुपलम्भः । किञ्च दृश्यादृश्यसहकारिप्रत्ययसाकल्यवतः क्रमयौगपद्यस्यात्यन्तपरोक्षत्वात्तेन व्याप्तं सत्त्वमपि परोक्षमेवेति न तावत्प्रतिबन्धः प्रत्यक्षतः सिध्यति नाप्यनुमानतः, तत्प्रतिबद्वलिङ्गाभावादिति । अपि च क्रमाक्रमाभ्यामर्थक्रियाकारित्वं व्याप्तमित्यतिसुभाषितम् ।

यदि क्रमेण व्याप्तं कथमक्रमेण । अथाक्रमेण न तर्हि क्रमेण; क्रमाक्रमाभ्यां व्याप्तमिति तु ब्रूवत व्याप्तेरेवाभावः प्रदर्शितो भवति । नहि भवति । अग्निर्धूमभावाभावाभ्यां व्याप्त इति । अतो व्याप्तेरनैकान्तिकत्वम् । अपि च किमिदं वाधकमक्षणिकानामसत्तां साध यति, उतस्वित्, अक्षणिकात्सत्त्वस्य व्यतिरेकं, अथ सत्त्वक्षणिकत्वयोः प्रतिवन्धम् । न पूर्व्वो विकल्पः । उक्तक्रमेण हेतोराश्रयासिद्वत्वात् । न च द्वितीयः । यतो व्यापकनिवृत्तिसहिता व्याप्यनिवृत्तिर्व्यतिरेकशब्दस्यार्थः । सा च यदि प्रत्यक्षेण प्रतीयते तदा तद्वेतुः स्यादिति सत्त्वमनैकान्तिकम् । व्यापकानुपलम्भः स्वरूपासिद्वः । अथ सा विकल्प्यते । तदा पूर्व्वोक्तक्रमेण पञ्चधा विकल्प्य विकल्प्यो दूषणीयः । अत एव न तृतियोऽपि विकल्पः । व्यतिरेकासिद्वौ सम्बन्धासिद्वेः । किञ्च न भूतलवदत्राक्षणिको धर्म्मी दृश्यते । न च स्वभावानुपलम्भे व्यापकानुपलम्भः कस्यचित्दृश्यस्य प्रतिपत्तिमन्तरेणान्तर्भावयितुं शक्य इति । किञ्चास्याभावधर्म्मत्वे । आश्रया सिद्वत्वमितरेतराश्रयत्वञ्च । भावधर्म्मत्वे विरुद्वत्वञ्च । उभयधर्म्मत्वे चानैकान्तिकत्वमिति न त्रयीन्दोषजातिमतिपतति ॥

यत्पुनरुक्तमक्षणिकत्वे कर्मयौगपद्याभ्यामर्थक्रियाविरोधादिति । तत्र विरोधसिद्विमनुसरता विरोध्यपि प्रतिपत्तब्यः । तत्प्रतीतिनान्तरीयकत्वात्विरोधसिद्वेः । यथा तुहिनदहनयोः सापेक्षध्रुवभावयोश्च प्रतियोगी चाक्षणिकः प्रतीयमानः प्रतीतिकारित्वात्सन्नेव स्यातजनकस्याप्रमेयत्वात् । संवृत्तिसिद्वेनाक्षणिकत्वेन विरोधसिद्विरिति चेत् । संवृतिसिद्वमपि वास्तवं काल्पनिकं वा स्यात् । यदि वास्तवं कथन्तस्यासत्त्वं कथञ्चार्थक्रियाविरोधः । अर्थक्रियां कुर्व्वद्वि वास्तवमुच्यते ।

अथ काल्पनिकम् । तत्र किं विरोधो वास्तवः काल्पनिको वा । न तावद्वास्तवः कल्पितविरोधिविरोधत्वात् । बन्ध्यापुत्रविरोधवत् । अथ विरोधोऽपि काल्पनिकः । न तर्हि सत्त्वस्य व्यतिरेकः पारमार्थिक इति क्षणभङ्गो दत्तजलाञ्जलिरिति । अयमेव चोद्यप्रबन्धोऽस्मद्गुरुभिः संगृहीतः ॥

नित्यन्नास्ति न वा प्रतीतिविषयस्तेनाश्रयासिद्धता । हेतोः स्वानुभवस्य चाक्षतिरतः क्षिप्तः सपक्षोऽपि च । शून्यश्च द्वितीयेन सिध्यति न चासत्तापि सत्ता यथा नो नित्येन विरोधसिद्विरसता शक्या क्रमादेरपीति ॥

अत्रोच्यते । इह वस्तुन्यपि धर्म्मिधर्म्मव्यवहारो दृष्टोयथा गवि गोत्वं, पटे शुक्लत्वं तुरगे गमनमित्यादि । अवस्तुन्यपि धर्म्मिधर्म्मव्यवहारो दृष्टो यथा शशविषाणे तीक्ष्णत्वाभावो बन्ध्यापुत्रे वक्रत्वाभावो गगणारविन्दे गन्धाभाव इत्यादि । तत्रावस्तुनि धर्म्मित्त्वन्नास्तीति किम्बस्तुधर्म्मेण धर्म्मित्वन्नास्ति । आहोस्विदवस्तुधर्म्मेणापि । प्रथमपक्षे सिद्वसाधनं द्वितीयपक्षे तु स्ववचनविरोधः । यदाहु र्गुरवः ।

धर्म्मस्य कस्यचिद वस्तुनि मानसिद्वा
बाधाविधिव्यवहृतिः किमिहास्ति नो वा ।
क्वाप्यस्ति चेत्कथमियन्ति न दूषणानि
नास्त्येव चेत्स्ववचनप्रतिरोधसिद्विः ॥

अवस्तुनो धर्म्मित्वस्वीकारपूर्व्वकत्वस्य व्यापकस्याभावे आश्रयासिद्विदूषणस्यानुपन्यासप्रसङ्गैत्यर्थः । येनैव हि वचनेनावस्तुनो धर्म्मित्वाभावेन धर्म्मेण धर्म्मत्वमभ्युपगतम् । परस्तु प्रतिषिध्यत इति व्यक्तम्दिमीश्वरचेष्टितम् । तथाह्यवस्तुनो धर्म्मित्वन्नास्तीति वचनेन धर्म्मित्वाभावः किमवस्तु विधीयते, अन्यत्र वा, न वा क्वचिदपीति त्रयः पक्षाः ।

प्रथमपक्षेऽवस्तुनो न धर्म्मित्वनिषेधः । धर्म्मित्वाभावस्य धर्म्मस्य तत्रैव विधानात् । द्वितीयेऽवस्तुनि किमायातम् । अन्यत्र धर्म्मित्वाभावविधानात् । तृतीयस्तु पक्षो व्यर्थ एव निराश्रयत्वातिति कथमवस्तुनो धर्म्मित्वनिषेधः । तस्माद्यथा प्रमाणोपन्यासः प्रमेयस्वीकारपूर्व्वकत्वेन व्याप्तः । वाचकशब्दोपन्यासो वा वाच्यस्वीकारपूर्व्वकत्वेन व्याप्तः । तथावस्तुनो धर्म्मित्वं नास्तीति वचनोपन्यासोऽवस्तुनो धर्म्मित्वस्वीकारपूर्व्वत्वेन व्याप्तः । अन्यथा तद्वचनोपन्यासस्य व्यर्थत्वात् । तद्यदि वचनोपन्यासो व्याप्यधर्म्मः । तदावस्तुनो धर्म्मित्वस्वीकारोपि व्यापकधर्म्मो दुर्ब्बारः । अथ न व्यापकधर्म्मः । तदा व्याप्यस्यापि वचनोपन्यासस्यासम्भव इति मूकतैवात्र बलादायातेति कथं न स्ववचनविरोधसिद्विः । नह्यब्रूवन् परम्बोधयितुमीशः । ब्रुवन् वा दोषमिमं परिहर्त्तुमिति महति सङ्कटे प्रवेशः । अवस्तुप्रस्तावे सहृदयाणां मूकतैव युज्यत इति चेत् । अहो महद्वैदग्ध्यम् । अवस्तुप्रस्तावे स्वयमेव यथाशक्ति वल्गित्वा भग्नो मूकतैव न्यायप्राप्तेति परिभाषया निःसर्त्तुमिच्छति । नचावस्तुप्रस्तावो राजदण्डेन विना चरणमर्द्दनादिनानिष्टिमात्रेण वा प्रतिषेद्वुं शक्यते । ततश्चात्रापि क्रमाक्रमाभावस्य साधनत्वे सत्त्वाभावस्य च साध्यत्वे सन्दिग्धवस्तुभावस्यावस्त्यात्मनो वा क्षणिकस्य धर्म्मित्वं केन प्रतिहन्यते । त्रिविधो हि धर्म्मो दृष्टः कश्चिद्वस्तुनियतो नीलादिः । कश्चिदवस्तुनियतो यथा सर्व्वोपाख्याविरहः । कश्चिदुभयसाधारणो यथानुपलब्धिमात्रम् । तत्र वस्तुधर्म्मेणावस्तुनो धर्म्मित्वनिषेध इति युक्तम् । नत्ववस्तुधर्म्मेण । वस्त्ववस्तुधर्म्मेण वा । स्ववचनस्यानुयन्यासप्रसङ्गादित्यर्क्षाणकस्याभावे सन्देहे वावस्तुधर्म्मेण धर्म्मित्वमव्याहतमिति नायमाश्रयासिद्वो व्यापकानुपलम्भः ॥

अक्षणिकाप्रतीता वयमा श्रयासिद्वोहेतुरिति तु युक्तमुक्तम् । तदप्रतीतौ तद्व्यवहारायोगात् । केवलमसौ व्यवहाराङ्गभूता प्रतीति र्वस्त्ववस्तुनोरेकरूपा न भवति । साक्षात्पारम्पर्य्येण वस्तुसामर्थ्यभाविनी हि वस्तुप्रतीतिः । यथा प्रत्यक्षमनुमानं प्रत्यक्षपृष्ठभावी च विकल्पः । अवस्तुनस्तु सामर्थ्याभावात्विकल्पमात्रमेव प्रतीतिः । वस्तुनो हि वस्तुबलभाविनी प्रतीति र्यथासाक्षात्प्रत्यक्षं परम्परया तत्पृष्ठभावी विकल्पोऽनुमानञ्च । अवस्तुनस्तु न वस्तुबलभाविनी प्रतीतिस्तत्कारकत्वेनावस्तुत्वहानिप्रसङ्गात् । तस्माद्विकल्पमात्रमेवावस्तुनः प्रतीतिः । नह्यभावः कश्चिद्विग्रहवान् यः साक्षात्कर्त्तव्योऽपि तु व्यवहर्त्तव्यः । स च व्यवहारो विकल्पादपि सिध्यत्येव । अन्यथा सर्ब्बजनप्रसिद्वोऽवस्तुव्यवहारो न स्यात् । इष्यते च तद्वर्मित्वप्रतिषेधानुवन्धादित्यकारकेनापि विकल्पमात्रसिद्वोऽक्षणिकः स्वीकर्त्तव्य इति नायमप्रतीतत्वादप्याश्रयासिद्वोहेतुर्वक्तव्यः । ततश्चाक्षणिकस्य विकल्पमात्रसिद्वत्वे यदुक्तं न कश्चिद्वेतुरनाश्रयः स्यद्विकल्पमात्रसिद्वस्य धर्म्मिणः सर्व्वत्र सुलभत्वादिति ततसङ्गतम् । विकल्पमात्रसिद्वस्य धर्म्मिणः सर्व्वत्र सम्भवेऽपि वस्तुधर्म्मेण धर्म्मित्वायोगात् । वस्तुधर्म्महेतुत्वापेक्षया आश्रयासिद्वस्यापि हेतोः सम्भवात् । यथा आत्मनो विभुत्वसाधनार्थमुपन्यस्तं सर्व्वत्रोपलभ्यमानगुणत्वादिति साधनम् । विकल्पश्चायं हेतूपन्यासात् । पूर्व्वं सन्दिग्धवस्तुकः, समर्थिते तु हेताववस्तुक इति ब्रूमः । न चात्र सन्दिग्धाश्रयत्वं नाम हेतुदोषः । आस्तान्तावत् । सन्दिग्धस्यावस्तुनोपि विकल्पमात्रसिद्वस्यावस्तुधर्म्मापेक्षया धर्म्मित्वप्रसाधनात् । वस्तुधर्म्महेतुत्वापेक्षयैव सन्दिग्धाश्रयस्य हेत्वाभासस्य व्यवस्थापनात् । यथेह निकुञ्जे मयूरः केकायितादिति । अवस्तुकविकल्पविषयस्यासत्त्वन्तु व्यापकानुपलम्भादेव प्रसाधितम् । एवं दृष्टान्तस्यापि
व्योमादेर्द्वर्म्मित्वं विकल्पमात्रेण प्रतीतिश्चावगन्तव्या । तदेवमवस्तुधर्म्मापेक्षयावस्तुनोधर्म्मित्वस्य विकल्पमात्रेण प्रतीतेश्चापन्होतुमशक्यत्वान्नायमाश्रयासिद्वो हेतुः । न दृष्टान्तक्षतिः ॥

न चैष स्वरूपासिद्वः । अक्षणिके धर्म्मिणि क्रमाक्रमयो र्व्यापकयोरयोगात् । तथा हि यदि तस्य प्रथमे क्षणे द्वितीयादिक्षणभाविकार्य्यकारणसामर्थ्यमस्ति तदा प्रथमक्षणभाविकार्य्यवत्द्वितीयादिक्षणभाव्यपि कार्य्यं कुर्य्यात् । समर्थस्य क्षेपायोगात् । अथ तदा सहकारिसाकल्यलक्षणसामर्थ्यं नास्ति । तद्वैकल्यलक्षणस्यासामर्थ्यस्य सम्भवात् । न हि भावः स्वरूपेण करोतीति स्वरूपेणैव करोति । सहकारिसहितादेव ततः कार्य्योत्पत्तिदर्शनातिति चेत् । यदा तावदमी मीलिताः सन्तः कार्य्यं कुर्व्वते तदैकार्थकरणलक्षणं सहकारित्वमेषामस्तु को नि षेद्वा । मिलितैरेव तु तत्कार्य्यङ्कर्त्तव्यमिति कुतो लभ्यते । पूर्व्वापरकालयोरेकस्वभावत्वात्भावस्य । सर्व्वदा जननाजननयोरन्यतरनियमप्रसङ्गस्य दुर्व्वारत्वात् । तस्मात्सामग्रीजनिका नैकं जनकमिति स्थिरवादिनाम्मनोराज्यस्याप्यविषयः ।

किं कुर्म्मो दृश्यते तावदेवमिति चेत् । दृश्यतां किन्तु पूर्व्वस्थितादेव पश्चात्सामग्रीमध्यप्रविष्टाद्भावात्कार्य्योत्पत्तिरन्यस्मादेव विशिष्टसामग्रीसमुत्पन्नात्क्षणादिति विवादपदमेतत् । तत्र प्रागपि सम्भवे सर्व्वदैव कार्य्योत्पत्ते र्नवा कदाचिदपीति विरोधमसमाधाय तत एव कार्य्योत्पत्तिरिति साध्यानुवादमात्रप्रवृत्तः कृपामर्हति ।

न च प्रत्यभिज्ञानादेवैकत्वसिद्विः । तत्पौरुषस्य लून पुनर्ज्जातकेशकुशकदलीस्तम्बादौ निर्द्दलनात् । विस्तरेण च प्रत्यभिज्ञानदूषणमस्माभिः स्थिरसिद्विदूषणे प्रतिपादितमिति तत एवावधार्य्यम् ।

ननु कार्य्यमेव सहकारिणमपेक्षते । न तु कार्य्योत्पत्तिहेतुः । यस्माद्द्विविधं सामर्थ्यं निजमागन्तुकञ्चसहकार्य्यन्तरम् । ततोऽक्षणिकस्यापि क्रमवत्सहकारिनानात्वादपि क्रमवत्कार्य्यनानात्वमिति चेत्, भवतु तावन्निजागन्तुकभेदेन द्विविधं सामर्थ्यं तथापि तत्प्रातिस्विकं वस्तुस्वलक्षणं सद्यः क्रियाधर्म्मकमवश्याभ्युपगन्तव्यम् । तद्यदि प्रागपि, प्रागपि कार्य्यप्रसङ्गः । अथ पश्चादेव न तदा श्थिरोभावः ॥

न च कार्य्यं सहकारिणोऽपेक्षत इति युक्तम् । तस्यासत्त्वात् । हेतुश्च सन्नपि यदि स्वकार्य्यन्नकरोति तदा तत्कार्य्यमेव तन्न स्यात्, स्वातन्त्र्यात् । यच्चोक्तम् । योऽह्युत्तरकार्य्यजननस्वभावः स कथमादौ कार्य्यं कुर्य्यात् । न तर्हि तत्कार्य्यकरणस्वभावः । न हि नीलोत्पादनस्वभावः पीतादिकमपि करोतीति । तदसङ्गतम् । स्थिरस्वभावत्वे भावस्योत्तरकालमेवेदं कार्य्यन्नपूर्व्वकालमिति कुत एतत् । तदभावाच्च कारणमप्युत्तरकार्य्यकरणस्वभावमित्यपि कुतः । किं कुर्म्म उत्तरकालमेव तस्य जन्मेति चेत् । स्थिरत्वे तदनुपपद्यमानमस्थिरतामादिशतु । श्थिरत्वेऽप्येष एव स्वभावस्तस्य यदुत्तरक्षण एव कार्य्यं करोतीति चेत् । न । प्रमाणवाधिते स्वभावाभ्युपगमायोगादिति न तावदक्षणिकस्य क्रमिकार्य्यकारित्वमस्ति । नाप्यक्रमिकार्य्यकारित्वसम्भवः । द्वितीयेऽपि क्षणे कारकस्वरूपसद्भावे पुनरपि कार्य्यकरणप्रसङ्गात् । कार्य्ये निष्पन्ने तद्विषयव्यापाराभावादूना सामग्री न निष्पादितं निष्पादयेदिति चेत् । न । सामग्रीसम्भवासम्भवयोरपि सद्यः क्रियाकारकस्वरूपसम्भवे जनकत्वमवार्य्यमिति प्रागेव प्रतिपादनात् । कार्य्यस्य हि निष्पादितत्वात्पुनः कर्त्तुमशक्यत्वमेव कारणमसमर्थमावेदयति । तदयमक्षणिके क्रमाक्रमिकार्य्यकारित्वाभावो न सिद्वः । न च क्रमाक्रमाभ्यामपरप्रकारसम्भवो येन ताभ्यामव्याप्तौ सन्दिग्धव्यतिरेको हेतुः स्यात् । प्रकारान्तरशङ्कायां तस्यापि दृश्यादृश्यत्वप्रकारद्वयदूषणेऽपि स्वपक्षेप्यनाश्वासप्रसङ्गात् । तस्मादन्योऽन्यव्यवच्छेदस्थितयोर्नापरः प्रकारः सम्भवति । स्वरूपाप्रविष्टस्य वस्तुनोऽवस्तुनोवान्यत्वात् । प्रकारा न्तरस्यापि क्रमस्वरूपाप्रविष्टत्वात् । तथातीन्द्रियस्य सहकारिणोऽदृश्यत्वेप्ययोगव्यवच्छेदेन दृश्यसहकारिसहितस्य दृश्यस्यैव सत्त्वस्य दृश्यक्रमाक्रमाभ्यां व्याप्तिः प्रत्यक्षादेव सिध्यति । एवं क्रमाक्रमाभ्यामर्थक्रियाकारित्वं ब्याप्तमिति क्रमाक्रमयोरन्योऽन्यव्यवच्छेदेन स्थितत्वादेतत्प्रकारद्वयपरिहारेणार्थक्रियाकारित्वमन्यत्र
न गतमित्यर्थः । अत एवैतयोर्विनिवृत्तौ निवर्त्तेत ।

त्रिलोचनस्यापि विकल्पत्रये प्रथमदूषणमाश्रयासिद्विदोषपरिहारतो निरस्तम् । द्वितीयञ्चासङ्गतं विकल्पज्ञानेन व्यतिरेकस्य प्रतीतत्वात् । नह्यभावः कश्चित्विग्रहवान् यः साक्षात्कर्त्तव्योऽपि तु विकल्पादेव व्यवहर्त्तव्यः । न ह्यभावस्य विकल्पादन्याप्रतिपत्तिरप्रतिपत्तिर्वा सर्व्वथोभयथापि तद्व्यवहारहानिप्रसङ्गात् । एवं वैधर्म्म्यदृष्टान्तस्य हेतुव्यतिरेकस्य च विकल्पादेव प्रतीतिः । तृतीयमपि दूषणमसङ्गतम् । व्यापकानुपलम्भे निर्द्दोषत्वस्य क्षणिकत्वेन व्याप्तेरव्याहतत्वात् ।
तदयं व्यापकानुपलम्भोऽक्षणिकस्यासत्त्वं, सत्त्वस्य ततो व्यतिरेकं क्षणिकत्वेन व्याप्तिञ्च साधयत्येकव्यापारात्मकत्वातिति स्थितम् ।

ननु व्यापकानुपलब्धिरिति यद्यनुपलब्धिमात्रन्तदा न तस्य साध्यबुद्विजनकत्वमवस्तुत्वात् । न चान्योपलब्धिर्व्यापकानुपलब्धिरभिधातुं शक्या भूतलादिवतन्यस्य कस्यचिदनुपलब्धेरिति चेत्तदसङ्गतम् । धर्म्म्युपलब्धेरेवान्यत्राप्यनुपलब्धितया व्यवस्थापनात् । यथा नेह शिंशपा वृक्षाभावादित्यत्र वृक्षापेक्षया केवलप्रदेशस्य धर्म्मिण उपलब्धिर्दृश्यानुपलब्धिः । शिंशपापेक्षया च केवलप्रदेशस्य धर्म्मिण उपलब्धिरेव शिंशपाभावोपलब्धिरिति स्वभावहेतुपर्य्यवसायिव्यापारो व्यापकानुपलम्भः । तथा हि नित्यस्य धर्म्मिणो विकल्पबुद्व्यध्यवसि तस्य क्रमिकारित्वाक्रमिकारित्वापेक्षया केवलग्रहणमेव क्रमिकारित्वा क्रमिकारित्वानुपलम्भ अर्थक्रियापेक्षया च । केवलप्रतीतिरेवार्थक्रियावियोगप्रतीतिरिति व्यापकानुपलम्भान्तरादस्य न कश्चिद्विशेषः ।

अध्यवसायापेक्षया च वाह्येऽक्षणिकेऽवस्तुनि व्यापकाभावात्व्याप्याभावसिद्विव्यवहारः । अध्यवसायश्च समनन्तरप्रत्ययवलायाताकारविशेषयोगादगृहीतेऽपि प्रवर्त्तनशक्तिर्वोद्वव्यः । ईदृशश्चाध्यवसायोऽर्थोऽस्मच्चित्राद्वैतसिद्वौ निर्व्वाहितः । स चाविसम्बादी व्यवहारः परिहर्त्तुमशक्यः; यद्व्यापकशून्यं; तद्वाप्यशून्यमिति । एतस्यैवार्थस्यानेनापि क्रमेण प्रतिपादनात् । अयञ्च न्यायो यथा वस्तुभूते धर्म्मिणि तथावस्तुभूतेऽपीति को विशेषः । तथाह्येकज्ञानमात्रविकल्प एव । यथा च, हरिणशिरसि तेनैकज्ञानसंसर्गिशृङ्गमुपलब्धम् । शशशिरस्यपि तेन सहैकज्ञानसंसर्गित्वसम्भावनयैव शृङ्गं निषिध्यते । तथा नीलादावपरिनिष्ठितनित्यानित्यभावे क्रमाक्रमौ स्वधर्म्मिणा सार्द्वमेकज्ञानसंसर्गिणौ दृष्टौ नित्येऽपि यदि भवतः । नित्यग्राहिणा ज्ञानेन स्वधर्म्मिणा नित्येन सहैव गृह्येयातामिति सम्भावनया । एकज्ञानसंसर्गिद्वारकमेव प्रतिषिध्यते । कथं पुनरेतन्नित्यज्ञाने क्रमाक्रमयोरस्फुरणमिति । यावता क्रमाक्रमक्रोडीकृतमेव नित्यं विकल्पयाम इति चेत् । अतएव वाधकावतारो विपरीतरूपारोपमन्तरेण तस्य वैयर्थ्यात् । कालान्तरेणैकरूपतया नित्यत्वम् । क्रमाक्रमौ च क्षणद्वये भिन्नरूपतया । ततो नित्यत्वस्य क्रमाक्रमिकार्य्यशक्तेश्च परस्परपरिहारस्थितलक्षणतया दुर्व्वारो विरोध इति कथं नित्ये क्रमाक्रमयोरन्तर्भावः । अनन्तर्भावाच्च शुड्वनित्यविकल्पेन दूरीकृतक्रमाक्रमसमारोपेण कथमुल्लेखः । ततश्च प्रतियोगिनि नित्येऽपि कल्प्यमाने, एकज्ञानसंसर्गिलक्षणप्राप्ते नित्योपलब्धिरेव नित्यविरुद्वस्यानुपलभ्यमानस्य क्रमाक्रमस्यानुपलब्धिः । ततएव वार्थक्रियाशक्तेरनुपलब्धेः । तस्माद्व्यापकविवेकिधर्म्म्युपलब्धितया न व्यापकानुपलम्भान्तरादस्य विशेषः ।

नन्वेतदवस्तुधर्म्मिकोपयोगिकस्त्वधिष्ठानत्वात्प्रमाणव्यवस्थाया इति चेत् । किमिदम्बस्त्वधिष्ठानत्वन्नाम । किम्परम्परयापि वस्तुनः सकाशादागतत्वम्, अथ वस्तुनि केनचिदाकारेण व्यवहारकारणत्वं, वस्तुभूतधर्म्मिप्रतिवद्वत्वम्बा ।

यद्याद्यः पक्षस्तदा क्रमाक्रमस्यार्थक्रियायाश्च व्याप्तिग्रहणगोचरवस्तुप्रतिवद्वत्वमपि न क्षीणम् । न च द्वितीयेऽपि पक्षे दोषः सम्भवति । क्षणभङ्गिवस्तुसाधनोपायत्वादस्य । न चान्तिमोऽपि विकल्पः कल्प्यते । तस्यैव नित्यविकल्पस्य वस्तुनो धर्म्मिभूतस्य क्रमाक्रमवद्वाह्यनित्योपादानशून्यत्वेनार्थक्रियावद्वाह्यनित्योपादानशून्यत्वप्रसाधनात् । पर्य्युदासवृत्त्या बुद्विस्वभाव भूता क्षणिकाकारे वस्तुभूते धर्म्मिणि प्रतिवद्वत्वसम्भवात् ।

अयमेव न्यायो न वक्ता बन्ध्यासुतश्चैतन्याभावादित्यादौ योज्यः । एतेन यथा वृक्षाभावादित्याद्यन्तर्भावयितुं शक्यो न तथायमिति त्रिलोचनोऽपि निरस्तः ।

न च क्रमाद्यभावस्त्रयीं दोषजातिन्नातिक्रामति । अभावधर्म्मत्वेऽप्याश्रयासिद्विदोषपरिहारात् । यत्त्वनेन प्रमाणान्तरान्नित्यानामसत्त्वसिद्वौ क्रमादिविरहस्याभावधर्म्मता न सिध्यतीत्युक्तम् । तद्वालस्यापि दुरभिधानम् । नित्यो हि धर्म्मी । असत्त्वं साध्यम् । क्रमिकार्य्यकारित्वाक्रमिकार्य्यकारित्वविरहो हेतुः । अस्य चाभावधर्म्मत्वन्नाम । असत्त्वलक्षणस्वसाध्याविनाभावित्वमुच्यते । तच्च क्रमाक्रमेण सत्त्वस्य व्याप्तिसिद्वौ सत्त्वस्य व्याप्यस्याभावेन क्रमाक्रमस्य व्यापकस्य विरहो व्याप्तः सिध्यतीत्यभावधर्म्मत्वं प्रागेव विध्योर्व्याप्तिसाधकात्प्रत्यक्षादनुमानात्मकाद्वा प्रमाणान्तरात्सिद्व मिति नेतरेतराश्रयत्वदोषः ।

न च सत्तायामिवासत्तायामपि तुल्यप्रसङ्गो भिन्न न्यायत्वात् । वस्तुभूतं हि तत्र साध्यं साधनञ्च । तयोधर्म्म्यैपि वस्तुभूत एव युज्यते ॥

वस्तुनस्तु प्रत्यक्षानुमानाभ्यामेव सिद्विः । तयोरभावे नियमेनाश्रयासिद्विरिति युक्तम् । असत्तासाधने त्ववस्तुधर्म्मा हेतुरवस्तुनि विकल्पमात्रसिद्वे धर्म्मिणि नाश्रयासिद्विदोषेण दूषयितुं शक्यः । तथाक्षणिकस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधः सिध्यत्येव ।

तथा विकल्पादेवाक्षणिको विरोधी सिद्वः । विकल्पोल्लिखितश्चास्य स्वभावो नापर इत्यपि व्यवहर्त्तव्यम् । अन्यथा तदनुवादेन क्रमाक्रमादिरहितत्वादिनिषेधादिकमयुक्तम् । तत्स्वरूपस्यानुल्लेखादित्यक्षणिकशशविषाणादिशब्दानुच्चारणप्रसङ्गः । अस्ति च । अतो यथा प्रमाणाभावेऽपि विकल्पसत्वस्य बन्ध्यासुतादेःसौन्दर्य्यादिनिषेधोऽनुरूपः, तथा विकल्पोपनीतस्यैवाक्षणिक स्वरूपस्य तत्प्रत्यनीकाकारेण सह विरोधव्यवस्थायां कीदृशो दोषः स्यात् । यदि चाक्षणिकानुभवाभावात्विरोधप्रतिषेधः, तर्हि बन्ध्यापुत्राद्यननुभवादेव सौन्दर्य्यादिनिषेधोऽपि माभूत ।

नन्वेवं विरोधस्यापारमार्थिकत्वम् । तद्द्वारेण क्षणभङ्गसिद्विरप्यपारमार्थिकी स्यादिति चेत् । न हि विरोधोनाम वस्त्वन्तरं किञ्चितुभयकोटिदत्तपादं सम्बद्वाभिधानमिष्यतेऽस्माभिरुपपद्यते वा । येनैकसम्बन्धिनो वस्तुत्वाभावेऽपरमार्थिकः स्यात् । यथा त्विष्यते तथा पारमार्थिक एव । विरुद्वाभिमतयोरन्योऽन्यस्वरूपपरिहारमात्रं विरोधार्थः । तच्च भावाभावयोः पारमार्थिकमेव न भावोऽभावरूपमाविशति । नाप्यभावो भावरूपं प्रविशतीति योऽयमनयोरसङ्करनियमः स एव पारमार्थिको विरोधः । कालान्तरैकरूपतया हि नित्यत्वम् । क्रमाक्रमौ क्षणद्वयेऽपि भिन्नरूपतया ततो नित्यत्वक्रमाक्रमिकार्य्यकारकत्वयोर्भावाभाववत्विरोधोऽस्त्येव । ननु नित्यत्वक्रमयौगपद्यवत्त्वञ्च विरुद्वौ विधूय नापरो विरोधोनाम । कस्य वास्तवत्वमिति चेत् । न । न हि धर्म्मान्तरस्य सम्भवेन विरोधस्य पारमार्थिकत्वं ब्रूमः । किन्तु विरुद्वयोर्धर्म्मयोः सद्भावेऽन्यथा विरोधनामधर्म्मान्तरसम्भवेऽपि यदि न विरुद्वौ धर्म्मौ क्व पारमार्थिकविरोधसद्भावः । विरुद्वौ च धर्म्मौ तावतैव तात्त्विको विरोधव्यवहारः । किमपरेण प्रतिज्ञामात्रसिद्वेन विरोधनाम्ना वस्त्वन्तरेण । तदयं पूर्व्वपक्षसंक्षेपः ।

नित्यन्नास्ति न वा प्रतीतिविषयस्तेनाश्रयासिद्वता
हेतोः स्वानुभवस्य च क्षतिरतः क्षिप्तः सपक्षोऽपि च ।
शून्यश्च द्वितयेन सिध्यति न वा सत्तापि सत्तायथा
नोनित्येन विरोधसिद्विरसता शक्या क्रमादेरपीति ॥

अत्र सिद्वान्तसंक्षेपः ।

धर्म्मस्य कस्यचिवदस्तुनि मानसिद्वा
बाधाविधिव्यवकृतिः किमिहास्ति नो वा ।
काप्यस्ति चेत्कथमियन्ति न दूषणानि ।
नास्त्येव चेत्स्ववचनप्रतिरोधसिद्विरिति ॥

तदेवं नित्यं न क्रमिकार्य्यकारित्वाक्रमिकार्य्यकारित्वयोगिपरमार्थः । ततश्च सत्तायुक्तमपि नैव परमार्थतः । ततश्च क्षणिकाक्षणिकपरिहारेण राश्यन्तराभावादक्षणिकाद्विनिवर्त्तमानमिदं सत्त्वं क्षणिकत्व एव विश्राम्यन्ते न व्याप्तं सिध्यतीति सत्त्वात्क्षणभङ्गसिद्विंरविरोधिनी ॥

प्रकृतेः सर्व्वधर्म्माणां यद्वोधान्मुक्तिरिष्यते ।
स एव तीर्थ्यनिर्म्माथी क्षणभङ्गः प्रसाधितः ॥
विपक्षे वाधनाद्वेतोः साध्यात्मत्वं प्रसिध्यति ।
तत्सिद्वौ द्विविधा व्याप्तिसिद्विरत्राभिधीयते ॥

इति वैधर्म्म्यदृष्टान्ते व्यतिरेकरूपव्याप्त्या क्षणभङ्गसिद्विः समाप्ता ॥ ० ॥
कृतिरियं महापण्डितरत्नकीर्त्तिपादानाम् ॥ ० ॥ �