क्षणभङ्गसिद्विः

विकिस्रोतः तः
क्षणभङ्गसिद्विः
[[लेखकः :|]]



क्षणभङ्गसिद्धिः ।


नमः समन्तभद्राय ।

आक्षिप्तव्यतिरेका य व्याप्तिरन्वयरूपिणी ।

साधर्म्म्यवति दृष्टान्ते सत्त्वहेतोरिहोच्यते ॥

यत्सत्तत्क्षणिकं यथा घटः सन्तश्चामी विवादास्पदीभूताः पदार्था इति ।

हेतोः परोक्षार्थप्रतिपादकत्वं हेत्वाभासत्वशङ्कानिराकरणमन्तरेण न शक्यते प्रतिपादयितुम् । हेत्वाभासाश्च असिद्वविरुद्वानैकान्तिकभेदेन त्रिविधाः । तत्र न तावदयमसिद्वो हेतुः । यदि नाम दर्शने दर्शने नानाप्रकारं सत्त्वलक्षणमुक्तमास्ते, अर्थक्रियाकारित्वं, सत्तासमवायः, स्वरूपसत्त्वं, उत्पादव्ययघ्रौव्ययोगित्वं प्रमाणविषयत्वं, सदुपलम्भप्रमाणगोचरत्वं व्यपदेशविषयत्वमित्यादि, तथापि किमनेन अप्रस्तुतेन इदानीमेव निष्टङ्कितेन । यदेव हि प्रमाणतो निरूप्यमाणं पदार्थानां सत्त्वमुपपन्नं भविष्यति; तदेव वयमपि स्वीकरिष्यामः । केवलं यदेतदर्थक्रियाकारित्वं सर्व्वजनप्रसिद्वमास्ते; तत्खल्वत्र सत्त्वशब्देनाभिसन्धाय साधनत्वेनोपात्तम् । तच्च यथायोगं प्रत्यक्षानुमानप्रमाणप्रसिद्वसद्भावेषु भावेषु पक्षीकृतेषु प्रत्यक्षादिना प्रमाणेन प्रतीतमिति न स्वरूपेणाश्रयद्वारेण वासिद्वसम्भावनापि ॥

नापि विरुद्धः । सपक्षीकृते घटे सद्भावात् । ननु कथमस्य सपक्षत्वं, पक्षवदत्रापि क्षणभङ्गासिद्धेः । नह्यस्य प्रत्यक्षत क्षणभङ्गसिद्धिः । तथात्वेनानिश्चयात् । नापि सत्त्वानुमानतः । पुनर्निदर्शनान्तरापेक्षायामनवस्थाप्रसङ्गात् । न चान्यदनुमानमस्ति ।

सम्भवे वा तेनैव पक्षेऽपि क्षणभङ्गसिद्वेरलं सत्तानुमानेनेति चेत् । उच्यते । अनुमानान्तरमेव प्रसङ्गप्रसङ्गविपर्य्ययात्मकं घटे क्षणभङ्गप्रसाधकं प्रमाणान्तरमस्ति, तथा घटो वर्त्तमानक्षणे तावतेकामर्थक्रियां करोति । अतीतानागतक्षणयोरपि किं तामे वार्थक्रियां कुर्यादन्यां वा, नवा कामपि क्रियामिति त्रयः पक्षाः । नात्र प्रथमपक्षो युक्तः कृतस्य करणायोगात् । अथ द्वितीयोऽभ्युपगम्यते तदिदमत्र विचार्य्यताम् । यदा घटो वर्त्तमानक्षणभावि कार्य्यं करोति तदा किमतीतानागतक्षणभाविन्यपि कार्य्ये शक्तोऽशक्तो वा । यदि शक्तस्तदा वर्त्तमानक्षणभाविकार्य्यवततीतानागतक्षणभाव्यपि कार्य्यं कुर्य्यात्तत्रापि शक्तत्वात्शक्तस्य क्षेपायोगात् । अन्यथा वर्त्तमानक्षणभाविनोऽपि कार्य्यस्याकरणप्रसङ्गात्पूर्व्वापरकालयोरपि शक्तत्वेनाविशेषात्, समर्थस्य च सहकार्य्यपेक्षाया अयोगात् । अथाशक्तस्तदा एकत्र कार्य्ये शक्ताशक्तत्वविरुद्धधर्म्माध्यासात्क्षणविध्वंसो घटस्य दुर्व्वारप्रसरः स्यात् ।

नापि तृतीयः पक्षः सङ्गच्छते शक्तस्वभावानुवृत्तेरेव । यदा हि शक्तस्य स्वभावस्य विलम्बोऽप्यसह्यस्तदा दूरीत्सारितमकरणम् । अन्यथा वार्त्तमानिकस्यापि कार्य्यस्याकरणं स्यातित्युक्तम् । तस्माद्यद्यदा यज्जननव्यवहारपात्रं, तत्तदा तत्कुर्य्यात् । अकुर्व्वच्च न जननव्यवहारभाजनम् । तदेवमेकत्र कार्य्ये समर्थेतरस्वभावतया प्रतिक्षणं भेदात्घटस्य सपक्षत्वमक्षतम् ।

अत्र प्रयोगः । यद्यदा यज्जननव्यवहारयोग्यं तत्तदा तज्जनयत्येव । यथा अन्त्या कारणसामग्री स्वकार्य्यम् । अतीतानागतक्षणभाविकार्य्यजननव्यवहारयोग्यश्चायं घटो वर्त्तमानक्षणभाविकार्य्यकरणकाले सकलक्रियातिक्रमकालेऽपीति स्वभावहेतुप्रसङ्गः । अस्य च द्वितीयादिक्षणभाविकार्य्यकरणव्यवहारगोचरत्वस्य प्रसङ्गसाधनस्य वार्त्तमानिककार्य्यकरणकाले सकलक्रियातिक्रमकाले च घटे धर्म्मिणि पराभ्युपगममात्रतः सिद्वत्वातसिद्विस्तावदसम्भविनी । नापि विरुद्वता, सपक्षे अन्त्यकारणसामग्र्यां सद्भावसम्भवात् ।
नन्वयं साधारणानैकान्तिको हेतुः । साक्षादजनकेऽपि कुशूलाद्यवस्थितवीजादौ विपक्षे समर्थव्यवहारगोचरत्वस्य साधनस्य दर्शनादिति चेत् । न । द्विविधो हि समर्थव्यवहारः पारमार्थिकः औपचारिकश्च । तत्र यत्पारमार्थिकं जननप्रयुक्तं जननव्यवहारगोचरत्वं तदिह साधनत्वेनोपात्तम् । तस्य च कुशूलाद्यवस्थित वीजादौ कारणकारणत्वातौपचारिकजननव्यवहारविषयभूते सम्भवाभावात्कुतः साधारणानैकान्तिकता । न चास्य सन्दिग्धव्यतिरेकिता विपर्य्यये बाधकप्रमाणसद्भावात् । तथाहीदं जननव्यवहारगोचरत्वं नियतविषयत्वेन व्याप्तमिति सर्व्वजनानुभवसिद्धम् । न चेदं निर्निमित्तम् । देशकालस्वभावनियमाभावप्रसङ्गात् । न च जननादन्यन्निमित्तमुपलभ्यते । तदन्वयव्यतिरेकानुविधानदर्शनात् ।

यदि च जननमन्तरेणापि जननव्यवहारगोचरत्वं स्यात्तदा सर्व्वस्य सर्व्वत्र जननव्यवहार इत्यनियमः स्यात् । नियतश्चायं प्रतीतः । ततो जननाभावे विपक्षे नियतविषयत्वस्य व्यापकस्य निवृत्तौ निवर्त्तमानं जननव्यवहारगोचरत्वं जनन एव विश्राम्यतीति व्याप्तिसिद्वेरनवद्यो हेतुः । न चैष घटो वर्त्तमानकार्य्यकरणक्षणे सकलक्रियातिक्रमणे च अतीतानागतक्षणभाविकार्य्यं जनयति । ततो न जननव्यवहारयोग्यः । सर्व्वः प्रसङ्गः प्रसङ्गविपर्य्ययनिष्ठ इति न्यायात् ।

अत्रापि प्रयोगः । यद्यदा यन्न करोति । तत्तदा तत्र समर्थव्यवहारयोग्यं यथा शाल्यङ्कुरमकुर्व्वन् कोद्रवः शाल्यङ्कुरे । न करोति चैष घटो वर्त्तमानक्षणभाविकार्य्यकरणकाले सकलक्रियातिक्रमकाले चातीतानागतक्षणभाविकार्य्यमिति व्यापकानुपलब्धिर्भिनत्ति समर्थक्षणादसमर्थक्षणम् ।

अत्राप्यसिद्धिर्नास्ति वर्त्तमानक्षणभाविकार्य्यकरणकाले सकलक्रियातिक्रमकाले च अतीतानागतक्षणभाविकार्य्यकरणस्यायोगात् । नापि विरोधः सपक्षे भावात् । न चानैकान्तिकता पूर्व्वोक्तेन न्यायेन समर्थ व्यवहारगोचरत्वजनकत्वयोविधिभूतयोः सर्व्वोपसंहारवत्या व्याप्तेः प्रसाधनात् ।

यत्पुनरत्रोक्तं यद्यदा यन्न करोति न तत्तदा तत्र समर्थमित्यत्र कः करोत्यर्थः । किं कारणत्वं? तत्कार्य्योत्पादानुगुणसहकारिसाकल्यं? आहोस्वित्कार्य्याव्यभिचारः? कार्य्यसम्बन्धो वेति? तत्र कारणत्वमेव करोत्यर्थः । ततः पक्षान्तरभाविनो दोषा अनभ्युपगमप्रतिहताः ।

न चात्रपक्षे कारणत्वसामर्थ्ययोः पर्य्यायत्वेन व्यापकानुपलम्भस्य साध्याविशिष्टत्वमभिधातुमुचितम् । समर्थव्यवहारगोचरत्वाभावस्य साध्यत्वात् । कारणत्वसमर्थव्यवहारगोचरत्वयोश्च बृक्षशिंशपयोरिव व्यावृत्तिभेदोऽस्तीत्यनवसर एव एवंविधस्य क्षुद्रप्रलापस्य । तदेवं प्रसङ्गप्रसङ्गविपर्य्ययहेतुद्वयबलतो घटे दृष्टान्ते क्षणभङ्गः सिद्धः । तत्कथं सत्त्वादन्यदनुमानं दृष्टान्ते क्षणभङ्गसाधकम् । नास्तीत्युच्यते । न चैवं सत्त्वहेतोर्वैयर्थ्यम् । दृष्टान्तमात्र एव प्रसङ्गप्रसङ्गविपर्य्ययाभ्यां क्षणभङ्गप्रसाधनात्नन्वाभ्यामेव पक्षेऽपि क्षणभङ्गसिद्धिरस्त्विति चेत् । अस्तु को दोषः । यो हि प्रतिपत्ता प्रतिवस्तु यद्यदा यज्जननव्यवहारयोग्यं तत्तदा तज्जनयतीत्या दिकमुपन्यसितुमनलसस्तस्य तत एव क्षणभङ्गसिद्धिः । यस्तु प्रतिवस्तु तन्न्यायोपन्यासप्रयासभीरुः स त्त्वेकत्रधर्म्मिणि यद्यदा यज्जननव्यवहारयोग्यं तत्तदा तज्जनयतीत्यादिन्यायेन सत्त्वमात्रमस्थैर्य्यव्याप्तमवधार्य्यसत्त्वादेवान्यत्र क्षणिकत्वमवगच्छतीति । कथमप्रमत्तोवैयर्थ्यमस्याचक्षीत तदेवमेकार्थकारिणो घटस्य द्वितीयादिक्षणभाविकार्य्यापेक्षया समर्थेतरस्वभावविरुद्वधर्म्मा ध्यासात्भेद एवेति क्षणभङ्गतया सपक्षतामावहति घटे सत्त्वेहेतुरुपलभ्यमानो न विरुद्वः ।

न चाय मनैकान्तिकः । अत्रैव साधर्म्म्यवति दृष्टान्ते सर्व्वोपसंहारवत्या व्याप्तेः प्रसाधनात् । ननु विपर्य्यये बाधकप्रमाणबलाब्द्याप्तिसिद्धिस्तस्य चोपन्यासवार्त्तापि नास्ति तत्कथं व्याप्तिः प्रसाधितेति चेत् । तदेतत्तरलतरबुद्धिविलसितम् । तथा हि उक्तमेतत्वर्त्तमानक्षणभाविकार्य्यकरणकाले अतीतानागतक्षणभाविकार्य्येऽपि घटस्य शक्तिसम्भवे तदानीमेवैतत्करणमकरणे च शक्ताशक्तस्वभावतया प्रतिक्षणं भेद इति क्षणिकत्वेन व्याप्तैव सा अर्थक्रियाशक्तिः ।

नन्वेवमन्वयमात्रमस्तु विपक्षात्पुनरेकान्तेन व्यावृत्तिरिति कुतो लभ्यमिति चेत्, व्याप्तिसिद्धेरेव । ब्यतिरेकसन्देहे व्याप्तिसिद्धिरेव कथमिति चेत्, न द्विविधा हि व्याप्तिसिद्धिरन्वयरूपा च कर्त्तृधर्म्मः । साधनधर्म्मवति धर्म्मिणि साध्यधर्म्मस्यावश्यम्भावो यः । व्यतिरेकरूपा च कर्म्मधर्म्मः साध्याभावे साधनस्यावश्यमभावो यः । एनयोश्चैकतरप्रतीतिनियमेन द्वितीयप्रतीतिमाक्षिपति । अन्यथा, एकस्याः एव सिद्धः । तस्माद् । यथा विपर्य्यये बाधकप्रमाणबलात्नियमवति व्यतिरेके सिद्धे अन्वयविषयः संशयः पूर्व्वं स्थितोऽपि पश्चात्परिगलति । ततोऽन्वयप्रसाधनार्थं न पृथक्साधनमुच्यते । तथा प्रसङ्गतद्विपर्य्ययहेतुद्वयबलतो नियमवत्यन्वये सिद्धे व्यतिरेकविषये पूर्व्वं स्थितोऽपि सन्देहः पश्चात्परिगलत्येव । न च व्यतिरेकसाधकमन्यत्प्रमाणं व्यक्तव्यम् । ततश्च साध्याभावे साधनस्यैकान्तिको व्यतिरेकः । साधने सति साध्यस्यावश्यमन्वयो वेति न कश्चिदर्थभेदः तदेवं विपर्य्ययबाधकप्रमाणमन्तरेणापि प्रसङ्गप्रसङ्गविपर्य्ययहेतुद्वयबलातन्वयरूपव्याप्तिसिद्वौ सत्त्वहेतोरनैकान्तिकस्याभावादतः साधनात्क्षणभङ्गसिद्विरनवद्येति ।

ननु च साधनमिदमसिद्वं, न हि कारणबुध्या कार्य्यं गृह्यते । तस्य भावित्वात् । न च कार्य्यबुध्या कारणम् । तस्यातीतत्वात् । न च वर्त्तमानग्राहिणा ज्ञानेन अतीतानागतयोर्ग्रहणमतिप्रसङ्गात् । न च पूर्व्वापरयोः कालयोरेकः प्रतिसन्धातास्ति क्षणभङ्गभङ्गप्रसङ्गात् । कारणाभावे तु कार्य्याभावप्रतीतिः स्वसम्बेदनवादिनो मनोरथस्याप्यविषयः । न च पूर्ब्बोतरकालयोः सम्बित्ती ताभ्यां वासना तया च हेतुफलावसायी विकल्प इति युक्तम् । स हि विकल्पो गृहीतानुसन्धायकोऽतद्रूपसमारोपको वा न प्रथमः पक्षः । एकस्य प्रतिसन्धातुरभावे पूर्व्वापरग्रहणयोरयोगात् । विकल्पवासनाया एवाभावात् । नापि द्वितीयः; मरीचिकायामपि जलविज्ञानप्रामाण्यप्रसङ्गात् । तदेवमन्वयव्यतिरेकयोरप्रतिपत्तेरर्थक्रियालक्षणं सत्त्वमसिद्वमिति ॥

किञ्च प्रकारान्तरादपीदं साधनमसिद्वम् । तथा हि वीजादीनां सामर्थ्यं वीजादिज्ञानात्कार्य्यादङ्कुरादेर्वा निश्चेतव्यम् । कार्य्यत्वञ्च वस्तुत्वसिद्वौ सिध्यति, वस्तुत्वञ्च कार्य्यान्तरात् । कार्य्यान्तरस्यापि कार्य्यत्वं वस्तुत्वसिद्वौ । तद्वस्तुत्वञ्च तदपरकार्य्यान्तरादित्यनवस्था । अथानवस्थाभयात्पर्य्यन्ते कार्य्यान्तरं नापेक्षते, तदा तेनैव पूर्व्वेषामसत्त्वप्रसङ्गात्नैकस्याप्यर्थक्रियासामर्थ्यं सिध्यति । ननु कार्य्यत्वसत्त्वयोर्भिन्नव्यावृत्तिकत्वात् । सत्तासिद्वावपि कार्य्यत्वसिद्वौ का क्षतिरिति चेत् । तदसङ्गतम्, सत्यपि कार्य्यत्वसत्त्वयोर्व्यावृत्तिभेदे सत्त्वसिद्वौ कुतः कार्य्यत्वसिद्धिः । कार्य्यत्वं ह्यभूत्वाभावित्वं, भवनञ्च सत्ता । सत्ता च सौगतानां सामर्थ्यमेव । ततश्च सामर्थ्यसन्देहे भवतीत्येव वक्तुमशक्यं कथमभूत्वाभावित्वं कार्य्यत्वं सेत्स्यति । अपेक्षितपरव्यापारत्वं कार्य्यत्वमित्यपि नासतो धर्म्मः सत्त्वञ्च सामर्थ्यं तच्च सन्दिग्धमिति कुतः कार्य्यसिद्धिः । तदसिद्वौ पूर्व्वस्य सामर्थ्यं न सिध्यतीति सन्दिग्धासिद्वो हेतुः ।

तथा विरुद्वोऽप्ययं, तथा हि क्षणिकत्वे सति न तावतजातस्यानन्वयनिरुद्वस्य वा कार्य्यारम्भकत्वं सम्भवति । न च निस्पन्नस्य तावान् क्षणोऽस्ति यमुपादाय कस्मैचित्कार्य्याय व्यापार्य्येत् । अतः क्षणिकपक्ष एव अर्थक्रियानुपपत्तेर्विरूद्वता । अथवा विकल्पेन यदुपनीयते, तत्सर्व्वमवस्तु, ततश्च वस्त्वात्मके क्षणिकत्वे साध्येऽवस्तूपस्थापयन्ननुमानविकल्पो विरुद्वः । यद्वा, सर्व्वस्यैव हेतोः क्षणिकत्वे साध्ये विरुद्वत्वं देशकालान्तराननुगमे साध्यसाधनभावाभावातनुगमे च नानाकालमेकमक्षणिकं क्षणिकत्वेन विरुध्यत इति ।

अनैकान्तिकोऽप्ययं सत्त्वस्थैर्य्ययोर्विरोधाभावादिति । प्रत्रोच्यते ।

यत्तावदुक्तं सामर्थ्यं न प्रतीयत इति । तत्किं सर्व्वथैव न प्रतीयते । क्षणभङ्गपक्षे वा ।

प्रथमपक्षे सकलकारकज्ञापकहेतुचक्रोच्छेदात्मुखस्पन्दनमात्रस्याप्यकरणप्रसङ्गः । अन्यथा येनैव वचनेन सामर्थ्यं नास्तीति प्रतिपाद्यते तस्यैव तत्प्रतिपादनसामर्थ्यमव्याहतमायातम् । तस्मात्परमपुरुषार्थसमीहया वस्तुतत्त्वनिरूपणप्रवृत्तस्य शक्तिस्वीकारपूर्व्वकैव प्रवृत्तिः । तदस्वीकारे तु न कश्चित्क्वचित्प्रवर्त्तेतेति निरीहं जगज्जायते । अथ द्वितीयः पक्षः । तदास्ति तावत्सामर्थ्यप्रतीतिः । सा च क्षणिकत्वे यदि नोपपद्यते तदा विरुद्वं वक्तुमुचितं, असिद्वमिति तु न्यायभूषणीयः प्रायोविलापः । न च सत्यपि क्षणिकत्वे सामर्थ्यप्रतीतिव्याघातः । तथाहि कारणज्ञानोपादेयभूतेन कार्य्यग्राहिणा ज्ञानेन तदर्पितसंस्कारगर्भेण अस्य भावे अस्य भाव इति अन्वयनिश्चयो जन्यते, तथा कारणापेक्षया भूतलकैवल्यग्राहिज्ञानोपादेयभूतेन कार्य्यापेक्षया भूतलकैवल्यग्राहिणा ज्ञानेन तदर्पितसंस्कारगर्भण अस्याभावे अस्याभाव इति व्यतिरेकनिश्चयो जन्यते । यदाहुर्गुरवः ।

एकावसायसमनन्तरजातमन्यविज्ञानमन्वयविमर्षमुपादधाति ।
एवं तदेकविरहानुभवोद्भवान्यव्यावृत्तधीः प्रथयति व्यतिरेकबुद्धिम् ॥

एवं सति गृहीतानुसन्धायके एवायं विकल्पः । उपादानोपादेयभूतक्रमिप्रत्यक्षद्वयगृहीतानुसन्धानात् । यदाहालङ्कारः ।

यदि नामैकमध्यक्षं न पूर्व्वापरवित्तिमत् ।

अध्यक्षद्वयसद्भावे प्राक्परावेदनं कथमिति ।

नापि द्वितीयोऽसिद्वप्रभेदः । सामर्थ्यं हि सत्त्वमिति सौगतानां स्थितिरेषा । न चैतत्प्रसाधनार्थमस्माकमिदानीमेव प्रारम्भः; किन्तु यत्र प्रमाणप्रतीते वीजादौ वस्तुभूते धर्म्मिणि प्रमाणप्रतीतं सामर्थ्य तत्र क्षणाभङ्ग साधनाय । ततश्चाङ्कुरादीनां कार्य्यादशनाताहत्यसामर्थ्यसन्देहेऽपि पटुप्रत्यक्षप्रसिद्वं सन्मात्रत्वमवधार्य्यमेव । अन्यथा न क्वचिदपि वस्तुमात्रस्यापि प्रतिपत्तिः स्यात् । तस्माच्छास्त्रीयसत्त्वलक्षणसन्देहेऽपि पटुप्रत्यक्षवलावलम्बितवस्तुभावे अङ्कुरादौ कार्य्यत्वमुपलभ्यमानं वीजादेः सामर्थ्यमुपस्थापयतीति नासिद्विदोषावकाशः ।
नापि क्शणिकत्वे सामर्थ्यक्षतिः, यतो विरुद्वता स्यात्, क्षणिकत्वनियतप्राग्भावित्वलक्षणकारणत्वयोविरोधाभावात्, क्षणमात्रस्थायिन्यपि सामर्थ्यसम्भवादिति नादिमो विरोधः । नापि द्वितीयो विरोधप्रभेदः । अवस्तुनो वस्तुनो वा स्वाकारस्य ग्राह्यत्वेऽपि, अध्यवसेयवस्त्वपेक्षयैव सर्व्वत्र प्रामाण्यप्रतिपादनात्वस्तुस्वभावस्यैव क्षणिकत्वसिद्विरिति क्व विरोधः ।

यच्च गृह्यते यच्चाध्यवसीयते ते द्वे अपि अन्यनिवृत्ती न वस्तुनी स्वलक्षणावगाहित्वे अभिलापसंसर्गानुपपत्तेरिति चेत् । न । अध्यवसायस्वरूपापरिज्ञानातगृहीतेऽपि वस्तुनि मानस्यादिप्रवृत्तिकारकत्वं विकल्पस्याध्यवसायित्वं, अप्रतिभासेऽपि प्रवृत्तिविषयीकृतत्वमध्यवसेयत्वम् । एतच्चाध्यवसेयत्वं स्वलक्षणस्यैव युज्यते, नान्यस्य । अर्थक्रियार्थित्वातर्थिप्रवृत्तेः । एवञ्चाध्यवसाये स्वलक्षणस्यास्फुरणमेव । न च तस्यास्फुरणेऽपि सर्व्वत्राविशेषेण प्रवृत्त्याक्षेपप्रसङ्गः, प्रतिनियतसामग्रीप्रसूतात्, प्रतिनियतस्वाकारात्, प्रतिनियतशक्तियोगात्, प्रतिनियत एवातद्रूपपरावृत्ते अप्रतीतेऽपि प्रवृत्तिसामर्थ्यदर्शनात् । यथा सर्व्वस्यासत्त्वेऽपि वीजादङ्कुरस्यैवोत्पत्तिः दृष्टस्य नियतहेतुफलभावस्य प्रतिक्षेप्तुमशक्यत्वात् । परं वाह्येनार्थेन सति प्रतिबन्धे प्रामाण्यमन्यथात्वप्रामाण्यमिति विशेषः ।

तथा तृतीयोऽपि पक्षः प्रयासफलः । नानाकालस्यैकस्य वस्तुनो वस्तुतोऽसम्भवेप्यतद्रूपपरावृत्तयोरेव साध्यसाधनयोः प्रत्यक्षेण व्याप्तिग्रहणात् । द्विविधो हि प्रत्यक्षस्य विषयो ग्राह्योऽध्यवसेयश्च सकलातद्रूपपरावृत्तं वस्तुमात्रं साक्षादस्फुरणात्प्रत्यक्षस्य ग्राह्यो विषयो मा भूत् । तदेकदेशग्रहणे तु तन्मात्रयोर्व्याप्तिनिश्चायकविकल्पजननादध्यवसेयो विषयो भवत्येव । क्षणग्रहणे सन्ताननिश्चयवत् । रूपमात्रग्रहणे घटनिश्चयवच्च । अन्यथा सर्व्वानुमानोच्छेदप्रसङ्गात् । तथा हि व्याप्तिग्रहः सामान्ययोः, विशेषयोः, सामान्यविशिष्टविशेषयो र्विशेषविशिष्टसामान्ययोर्वेति विकल्पाः । नाद्यो विकल्पः सामान्यस्य वाध्यत्वात् । अवाध्यत्वेऽप्यदृश्यत्वात् । दृश्यत्वेऽपि पुरुषार्थानुपयोगितया तस्यानुमेयत्वायोगात् । नाप्यनुमितात्सामान्यात्विशेषानुमानम्, सामान्यसर्व्वविशेषयोर्वक्ष्यमाणन्यायेन प्रतिबन्धप्रतिपत्तेरयोगात् । नापि द्वितीयो विशेषस्याननुगामित्वात् । अन्तिमे तु विकल्पद्वये सामान्याधारतया दृष्ट एव विशेषः सामान्यस्य विशेष्यो विशेषणं वा कर्त्तव्यः । अदृष्ट एव वा देशकालान्तरवर्त्ती । यद्वा दृष्टादृष्टात्मको देशकालान्तरबर्ती अतद्रूपपरावृत्तः सर्व्वो विशेषः । न प्रथमः पक्षोऽननुगामित्त्वात्; नापि द्वितीयः, अदृष्टत्वात् । न च तृतीयः, प्रस्तुतैकविशेषदर्शनेऽपि देशकालान्तरवर्त्तिनामदर्शनात् ।

अथ तेषां सर्व्वेषामेव विशेषाणां सदृशत्वात् । सदृशसामग्रीप्रसूतत्वात्सदृशकार्य्यकारित्वादिति प्रत्त्यासत्त्या, एकविशेषग्राहकं प्रत्यक्षमतद्रूपपरावृत्तमात्रेनिश्चयं जनयदतद्रूपपरावृत्तविशेषमात्रस्य व्यवस्थापकम् । यथैकसामग्रीप्रतिबद्वरूपमात्रग्राहकं प्रत्यक्षं घटे निश्चयं जनयद्घटग्राहकं ब्यवस्थाप्यते । अन्यथा घटोऽपि घटसन्तानोऽपि प्रत्यक्षतो न सिध्येत्सर्व्वात्मना ग्रहणाभावात् । तदेकदेशग्रहणन्त्वतद्रूपपरावृत्तेऽप्यविशिष्टम् । यद्येवमनेनैव क्रमेण सर्व्वस्य विशेषस्य विशेषणविशेष्यभाववत्व्याप्तिप्रतिपत्तिरप्यस्तु । तत्किमर्थं नानाकालमेकक्षणिकमभ्युपगन्तव्यं येन क्षणिकत्वे साधनस्य विरुद्वत्वं स्यातिति न कश्चिद्विरोधप्रभेदप्रसङ्गः ।

न चायमनेकान्तिकोऽपि हेतुः । पूर्व्वोक्तक्रमेण साधर्म्म्यदृष्टान्ते प्रसङ्गविपर्य्ययहेतुभ्यामन्वयरूपव्याप्तेः प्रसाधनात् । ननु यदि प्रसङ्गविपर्य्ययहेतुद्वयवलतो घटे दृष्टान्ते क्षणभङ्गः सिध्येत्तदा सत्त्वस्य नियमेन क्षणिकत्वेन व्याप्तिसिद्वेरनैकान्तिकत्वं न स्यादिति युक्तम् । केवल मिदमेवासम्भवि । तथाहि शक्तोऽपि घटः क्रमिसहकार्य्यपेक्षया क्रमिकार्य्यं करिष्यति ।

न चैतद्वक्तव्यं समर्थोऽर्थः स्वरूपेण करोति । स्वरूपञ्च सर्व्वदास्तीत्यनुपकारिणि सहकारिण्यपेक्षा न युज्यत इति, सत्यपि स्वरूपेण कारकत्वे सामर्थ्याभावात्कथं करोति, सहकारिसाकल्यं हि सामर्थ्यं तद्वैकल्यञ्चासामर्थ्यम् । न च तयोराविर्भावतिरोभावाभ्यां तद्वतः काचित्क्षतिः । तस्य ताभ्यामन्यत्वात् । तस्मादर्थः समर्थोऽपि स्यात्न च करोतीति सन्दिग्धव्यतिरेकः प्रसङ्गहेतुः ।

अत्रोच्यते । भवतु तावत्सहकारिसाकल्यमेव सामर्थ्यम् । तथापि सोऽपि तावद्भावः स्वरूपेण कारकः । तस्य च यादृशश्चरमक्षणेऽक्षेपक्रियाधर्म्मा स्वभावः तादृश एव चेत्प्रथमक्षणे तदा तदापि प्रसह्य कुर्ब्बाणो ब्रह्मणाप्यनिवार्य्यः । न च सोऽप्यक्षेपक्रियाधर्म्मा स्वभावः साकल्ये सति जातो भावाद्भिन्न एवाभिधातुं शक्यः । भावस्याकर्त्तृत्वप्रसङ्गात् । एवं यावद्यावत्धर्मान्तरपरिकल्पस्तावत्तावदुदासीनो भावः । तस्माद्यद्रूपमादाय स्वरूपेणापि जनयतीत्युच्यते; तस्य प्रागपि भावे कथमजनिः कदाचित् । अक्षेपक्रियाप्रत्यनीकस्वभावस्य प्राच्यस्य पश्चादनुवृत्तौ कथं कदाचिदपि कार्य्यसम्भवः । ननु यदि स एवैकः कर्त्ता स्यात्युक्तमेतत् । किन्तु सामग्री जनिका ततः सहकार्य्यन्तरविरहवेलायां बलीयसोऽपि न कार्य्यप्रसव इति किमत्र विरुद्वम् । न हि भावः स्वरूपेणकरोतीति स्वरूपेणैव करोति । सहकारिसहितादेव ततः कार्य्योत्पत्तिदर्शनात् । तस्माद्याप्तिवत्कार्य्यकारणभावोऽपि, एकत्रान्ययोगब्यवच्छेदेन अन्यत्रायोगव्यवच्छेदेन नावबोद्वव्यः, तथैव लौकिकपरीक्षकाणां सम्प्रतिपत्तेरिति ।

अत्रोच्यते । यदा मिलिताः सन्तः कार्य्यं कुर्व्वते तदैकार्थकरणलक्षणं सहकारित्वमेपामस्तु को निषेद्वा? मिलितैरेव तु तत्कार्य्य कर्त्तव्यमिति कुतो लभ्यते? पूर्व्वापरयोरेकस्वभावत्वाद्भावस्य । सर्व्वदा जननाजननयोरन्यतरनियतप्रसङ्गस्य दुर्व्वारत्वात् । तस्मात्सामग्री जनिक नैकं जनकमिति स्थिरवादिनां मनोरथस्याप्यविषयः । दृश्यते तावदेवमिति चेत् । दृश्यतां किन्तु पूर्व्वस्थितादेव सामग्रीमध्यप्रविष्टाद्भावात्कार्योत्पत्तिरन्यस्मादेव वा विशिष्टाद्भावादुत्पन्नादिति विवादपदम् । तत्र प्रागपि सम्भवे सर्व्वदैव कार्य्योत्पत्ति र्न वा कदाचिदपीति विरोधमसमाधाय चक्षुषी निमील्य तत एव कार्य्योत्पत्तिदर्शनादिति साध्यानुवादमात्रप्रवृत्तः कृपामर्हतीति । न च प्रत्यभिज्ञादिबलादेकत्वसिद्विः तत्पौरुषस्य लूनपुनर्जातकेशनखादावप्युपलम्भतो निर्द्दलनात्, लक्षणभेदस्य च दर्शयितुमशक्यत्वात् । स्थिरसिद्विदूषणे चास्माभिः प्रपञ्चतो निरस्तत्वात् । तस्मात्साक्षात्कार्य्यकारणभावापेक्षया उभयत्राप्यन्ययोगव्यवच्छेदः । व्याप्तौ तु साक्षात्परम्परया कारणमात्रापेक्षया कारणे व्यापकेऽयोगव्यवच्छेदः । कार्य्ये व्याप्येऽन्ययोगव्यवच्छेदः । तथा तदतत्स्वभावे व्यापकेऽयोगव्यवच्छेदः । तत्स्वभावे च व्याप्येऽन्ययोगव्यवच्छेदो विकल्पारुढरूपापेक्षया व्याप्तौ द्विविधमवधारंम् । ननु यदि पूर्व्वापरकालयोरेकस्वभावो भावः सर्व्वदाजनकत्वेनाजनकत्वेन वा व्याप्त उपलब्धः स्यात्तदायं प्रसङ्गः सङ्गच्छते । न क्षणभङ्गवादिना पूर्व्वापरकालयोरेकः कश्चिदुपलब्ध इति चेत् । तदेतदतिग्राम्यम् । तथाहि पूर्व्वापरकालयोरेकस्वभावत्वे सतीत्यस्यायमर्थः । परकालभावी जनको यः स्वभावो भावस्य स एव यदि पूर्व्वकालभावी । पूर्व्वकालभावी वा योऽजनकः स्वभावः स एव यदि परकालभावी, तदोपलब्धमेव जननमजननम्बा स्यात्, तथा च सति सिद्वयोरेव स्वभावयोरेकत्वारोपे सिद्वमेव जननमजननम्बासज्यत इति ।

ननु कार्य्यमेव सहकारिणमपेक्षते । न तु कार्य्योत्पत्तिहेतुः । यस्मात्द्विविधं सामर्थ्य निजमागन्तुकञ्च सहकार्य्यन्तरं ततोऽक्षणिकस्यापि क्रमवत्सहकारिनानात्वादपि क्रमवत्कार्य्यनानात्वोपपत्तेरशक्यं भावानां प्रतिक्षणमन्यान्यत्वमुपपादयितुमिति चेत् । उच्यते । भवतु तावन्निजागन्तुकभेदेन द्विविधं सामर्थ्यम् । तथापि यत्प्रातिस्विकं वस्तुस्वलक्षणमर्थक्रियाधर्म्मकमवश्यमभ्युपगन्तव्यं तत्किं प्रागपि पश्चादेव वेति विकल्प्य यद्दूषणमुग्दीरितम् । तत्र किमुक्तमनेनेति न प्रतीमः । यत्तु कार्य्येणैव सहकारिणोऽपेक्षन्त इत्युपत्कृतं तदपि निरुपयोगम् । यदि हि कार्य्यमेव स्वजन्मनि स्वतन्त्रं स्याद्युक्तमेतत् । केवलमेवं सति सहकारिसाकल्यसामर्थ्यकल्पनमफलम् । स्वातन्त्र्यादेव हि कार्य्यं कादाचित्कं भविष्यति । तथा च सति सन्तो हेतवः सर्व्वथासमर्थाः । असदेतत्कार्य्यं स्वतन्त्रमिति विशुद्धा बुद्विः । अथ कार्य्यस्यैवायमपराधो यदिदं समर्थे कारणे सत्यपि कदाचिन्नोपपद्यत इति चेत् । न तत्तर्हि तत्कार्य्यं स्वातन्त्र्यात् । यद्भाष्यम् ।

सर्व्वावस्थासमानेऽपि कारणे यद्यकार्य्यता ।
स्वतन्त्रं कार्य्यमेवं स्यान्नतत्कार्य्यन्तथा सति ॥

अथ न तद्भावे भवतीति तत्कार्य्यमुच्यते, किन्तु तदभावेन भवत्येवेति व्यतिरेकप्राधान्यादिति चेत् । न । यदि हि स्वयम्भवन् भावयेदेव हेतुः स्वकार्य्यं तदा तदभावप्रयुक्तोऽस्याभाव इति प्रतीतिः स्यात् । नो चेद्यथा कारणे सत्यपि कार्य्यस्वातन्त्र्यान्न भवति । तथा तदभावेऽपि स्वातन्त्र्यादेव न भूतमिति शङ्का केन निवार्य्येत । यद्भाष्यम् ।

तद्भावेऽपि न भावश्चेदभावेऽभाविता कुतः ।
तदभावप्रयुक्तोस्य सोऽभाव इति तत्कुतः ॥

तस्माद्यथैव तद्भावे नियमेन न भवति । तथैव तद्भावे नियमेन भवेदेव । अभवच्च न तत्कारणतामात्मनः क्षमते । यच्चोक्तं, प्रथमकार्य्योत्पादनकाले हृत्तरकार्य्योत्पादनस्वभावः । अतः प्रथमकाल एवाशेषाणि कार्य्याणि कुर्य्यादिति । तदिदं माता मे वन्ध्येत्यादिवत्स्ववचननिरोधादयुक्तं, यो हृत्तरकार्य्यजननस्वभावः स कथमादौ कार्य्यं कुर्य्यात् । न तर्हि तत्कार्य्यकरणस्वभावः न हि नीलोत्पादनस्वभावः पीतादिकमपि करोतीति ।

अत्रोच्यते । स्थिरस्वभावत्वे हि भावस्य उत्तरकालमेवेदं कार्य्यं न पूर्व्वकालमिति कुत एतत् । तदभावाच्च कारणमपि उत्तरकार्य्यकरणस्वभावमित्यपि कुतः । किं कुर्म्मः उत्तरकालमेव तस्य जन्मेति चेत्; अस्तु स्थिरत्वे तदनुपपद्यमानमस्थिरतामादिशतु; स्थिष्त्वेप्येष एव स्वभावस्तस्य यदुत्तरक्षण एव करोतीति चेत् । उतेदानीं प्रमाणप्रत्याशा । धूमादग्निरित्यत्रापि स्वभाव एवास्य यदिदानीमत्र निरग्निरपि धूम इति वक्तुं शक्यत्वात् । तस्मात्प्रमाणसिद्वे स्वभावावलम्बनं, न तु स्वभावावलम्बनेन प्रमाणव्यालोपः । तस्माद्यदि कारणस्योत्तरकार्य्यकारकत्वमभ्युपगम्य कार्य्यस्य प्रथमक्षणभावित्वमासज्यते, स्यात्स्ववचनविरोधः । यदा तु कारणस्य स्थिरत्वे कार्य्यस्योत्तरकालत्वमेवासङ्गतम् । अतः कारणस्याप्युत्तरकार्य्यजनकत्वं वस्तुतोऽसम्भवि तदा प्रसङ्गसाधनमिदम् । जननव्यवहारगोचरत्वं हि जननेन व्याप्तमिति प्रसाधितम् । उत्तरकार्य्यजननव्यवहारगोचरत्वञ्च त्वदभ्युपगमात्प्रथमकार्य्यकरणकाल एव घटे धर्म्मिणि सिद्वम् । अतस्तन्मात्रानुबन्धिन उत्तराभिमतस्य कार्य्यस्य प्रथमे क्षणेऽसम्भवादेव प्रसङ्गः क्रियते । न हि नीलकारकेऽपि पीतकारकत्वारोपे पीतसम्भवप्रसङ्गः स्ववचनविरोधोनाम । तदेवं शक्तः सहकार्य्यनपेक्षितत्वात्जननेन व्याप्तः । अजनयंश्च शक्ताशक्तत्वविरुद्वधर्म्माध्यासाद्भिन्न एव । ननु भवतु प्रसङ्गविपर्य्ययबलादेककार्य्यं प्रतिशक्ताशक्तत्वलक्षणविरुद्वधर्म्माध्यासः । तथापि न ततो मेदः सिध्यति; तथाहि बीजमङ्कुरादिकं कुर्व्वद्यदि येनैव स्वभावेनाङ्कुरं करोति तेनैव क्षित्यादिकन्तदाक्षित्यादीनामप्यङ्कुरस्वाभाव्यापत्तिः । नानास्वभावत्वेन तु कारकत्वे स्वभावानामन्योन्याभावाव्यभिचारित्वादेकत्र भावाभावौ परस्परविरुद्वौ स्यातामित्येकमपि बीजं भिद्येत । एवं प्रदीपोऽपि तैलक्षयवर्त्तिदाहादिकं; तथा पूर्व्वरूपमप्युत्तररूपरसगन्धादिकमनेकैः स्वभावैः
परिकरितं करोति । तेषाञ्च स्वभावानामन्योन्याभावाव्यभिचाराद्विरुद्वानां योगे प्रदीपादिकं भिद्येत । न च भिद्यते । तन्न ! विरुद्वधर्म्माध्यासो भेदकः, तथा बीजस्याङ्कुरं प्रति कारकत्वं गर्द्दभादिकं प्रत्यकारकत्वमिति कारकत्वाकारकत्वे अपि विरुद्वौ धर्मौ । न च तद्योगेऽपि बीजभेदः । तदेवमेकत्र बीजे प्रदीपे रूपे च विपक्षे परिदृश्यमानः शक्ताशक्तत्वादिर्विरुद्वधर्म्माध्यासो न घटादेर्भेदक इति ।

अत्र ब्रूमः । भवतु तावद्वीजादीनामनेककार्य्यकारित्वाद्वर्म्मभूतानेकस्वभावभेदस्तथापि कः प्रस्तावोविरुद्वधर्म्माध्यासस्य । स्वभावानां ह्यन्योन्याभावाव्यभिचारे भेदः प्राप्तावसरो न विरोधः । विरोधस्तु यद्विधाने यन्निषेधो यन्निषेधे यद्विधानं तयोरेकत्रधर्म्मिणि परस्परपरिहारस्थिततया स्यात् । तदत्रैकः स्व्भावः स्वाभावेन विरुद्वो युक्तो भावाभाववत् । न तु स्वभावान्तरेण । घटत्ववस्तुत्ववत् । एवमङ्कुरादिकारित्वं तदकारित्वेन विरुद्वं न पुनर्वस्त्वन्तरकारित्वेन । प्रत्यक्षव्यापारश्चात्र यथा नानाधर्म्मैरध्यासितं भावमभिन्नं व्यवस्थापयति । तथा तत्कार्य्यकारिणं कार्य्यान्तराकारिणञ्च । तद्यदि प्रतियोगित्वाभावादन्योन्याभावाव्यभिचारि णावपि स्वभावावविरुद्वो तत्कारकत्वान्याकारकत्वे वा विषयभेदादविरुद्वे, तत्किमायातमेककार्य्यम्प्रति शक्ताशक्तत्वयोः परस्परप्रतियोगिनीर्विरुद्वयोर्धर्म्मयोः । एतयोरपि पुनरविरोधे विरोधो नाम दत्तजलाञ्जलिः । भवतु तर्ह्येककार्य्यापेक्षयैव सामर्थ्यासामर्थ्ययोर्विरोधः । केवलं यथा तदेव कार्य्यं प्रति क्वचिद्देशे शक्तिर्देशान्तरे चाशक्तिरिति देशभेदादविरुद्वे शक्तयशक्ती तथैकत्रैव कार्य्ये कालभेदादप्यविरुद्वे । यथापूर्व्वं न्निःक्रियः स्फटिकः स एव पश्चात्सक्रिय इति चेत् ।

उच्यते । न हि वयं परिभाषामात्रादेकत्र कार्य्ये देशभेदादविरुद्वे शक्त्यशक्ती ब्रूमः । किन्तु विरोधाभावात् । तद्देशकार्य्य कारित्वं हि तद्देशकार्य्याकारित्वेन विरुद्वम् । न पुनर्देशान्तरे तत्कार्य्याकारित्वेनान्यकार्य्यकारित्वेन वा । यद्येवन्तत्कालकार्य्यकारित्वं तत्कालकार्य्याकारित्वेन विरुद्वम् । न पुनः कालान्तरे तत्कार्य्याकारित्वेनान्यकार्य्यकारित्वेन वा । तत्कथं कालभेदेऽपि विरोध इति चेत् । उच्यते । द्वयोर्हि धर्म्मयोरेकत्रधर्म्मिण्यनवस्थितिनियमः परस्परपरिहारस्थितिलक्षणो विरोधः । स च साक्षात्परस्परप्रत्यनीकतया भावाभाववद्वा भवेत् । एकस्य वा नियमेन प्रमाणान्तरेण बाधनान्नित्यत्वसत्त्ववद्वा भवेदिति न कश्चिदर्थभेदः । तदत्रैकधर्म्मिणि तत्कालकार्य्यकारित्वाधारे कालान्तरे तत्कार्य्याकारित्वस्यान्यकार्य्यकारित्वस्य वा नियमेन प्रमाणान्तरेण बाधनाद्विरोधः । तथा हि यत्रैव धर्म्मिणि तत्कालकार्य्यकारित्वमुपलब्धन्न तत्रैव कालान्तरे तत्कार्य्याकारित्वमन्यकार्य्यकारित्वं वा ब्रह्मणाप्युपसंहर्त्तुं शक्यते, येनानयोरविरोधः स्यात् । क्षणान्तरे कथित प्रसङ्गविपर्य्ययहेतुभ्यामवश्यम्भावेन धर्म्मिभेदप्रसाधनात् । न च प्रत्यभिज्ञानादेकत्वसिद्विः । तत्पौरुषस्य निर्म्मूलितत्वात् । अत एव वज्रोऽपि पक्षकूक्षौ निक्षिप्तः कथमसौ स्फटिको वराकः कालभेदेनाभेदासाधनाय दृष्टान्तीभवितुमर्हति । न चैवं समानकालकार्य्याणां देशभेदेऽपि धर्म्मिभेदो युक्तो भेदसाधकप्रमाणाभावादिन्द्रियप्रत्यक्षेण निरस्तविभ्रमाशङ्केनाभेदप्रसाधनाच्च । इति न कालभेदेऽपि शक्त्यशक्त्योर्विरोधः स्वसमयमात्रादपहस्तयितुं शक्यः । समयप्रमाणयोरप्रवृत्तेरिति ।

तस्मात्सर्व्वत्र विरुद्वधर्म्माध्याससिद्विरेव भेदसिद्विः । विप्रतिपन्नं प्रति तु विरुद्वधर्म्माध्यासाद्भेदव्यवहारः साध्यते । ननु तथापि सत्त्वमिदमनैकान्तिकमेवासाधारणत्वात्सन्दिग्धव्यतिरेकत्वाद्वा । यथा हीदं क्रमाक्रमनिवृत्तो अक्षणिकान्निवृत्तं, तथा सापेक्षत्वानापेक्षत्वयोरेकत्वानेकत्वयोरपि व्यापकयोर्निवृत्तौ क्षणिकादपि । तथाह्युपसपणप्रत्ययेन देवदत्तकरपल्लवादिना सहचरो वीजक्षणः पूर्व्वस्मादेव पुञ्जात्समर्थोजातोऽनपेक्ष आद्यातिशयस्य जनक इष्यते । तत्र च समानकुशूलजन्मसु बहुषु विजसन्तानेषु कस्मात्किञ्चिदेव वीजं परम्परयाङ्कुरोत्पादानुगुणमुपजनयति बीजक्षणान्नान्ये वीजक्षणा भिन्नसन्तानान्तःपातिनः । नह्युपसर्पणप्रत्ययात्प्रागेव तेषां समानासमानसन्तानवर्त्तिनां वीजक्षणानां कश्चित्परम्परातिशयः । अथोपसर्पणात्प्राङ्न तत्सन्तान वर्त्तिनोऽपि जनयन्ति परम्परयाप्यङ्कुरोत्पादानुगुणं वीजक्षणं वीजमात्रजननात्तेषाम् । कस्यचिदेव वीजक्षणस्योपसर्पणप्रत्ययसहभुव आद्यातिशयोत्पादः । हन्त तर्हि यदभावे सत्युत्पन्नोपि न जनयेदेव । तथा केवलानां व्यभिचारसम्भवादाद्यातिशयोत्पादमङ्कुरं वा प्रति क्षित्यादीनां परस्परापेक्षाणामेवोत्पादकत्वमकामकेनापि स्वीकर्त्तव्यम् । अतो न तावदनपेक्षा क्षणिकस्य सम्भविनी । नाप्य पेक्षा युज्यते । समसमयक्षणयोः सव्येतरगोविषाणयोरिवोपकार्य्योपकारकभावायोगादिति नासिद्वः प्रथमो व्यापकाभावः । अपि चान्त्यो वीजक्षणोऽनपेक्षोऽङ्कुरादिकं कुर्व्वन् यदि येनैव रूपेणाङ्कुरं करोति तेनैव क्षित्यादिकम् । तदा क्षित्यादीनामपि अङ्कुरस्वाभाव्यापत्तिरभिन्नकारणात्वादिति न तावदेकत्वसम्भवः ।

ननु रूपान्तरेण करोति । तथा हि वीजस्याङ्कुरं प्रत्युपादानत्वं क्षित्यादिकं तु प्रति सहकारित्वम् । यद्येवं सहकारित्वोपादानत्वे किमेकन्तत्वं नाना वा । एकञ्चेत कथं रूपान्तरेण जनकम् । नानात्वे त्वनयोर्वीजाद्भेदोऽभेदो वा । भेदे कथं वीजस्य जनकत्वं ताभ्यामेवाङ्कुरादीनामुत्पत्तेः । अभेदे वा कथं वीजस्य न नानात्वं भिन्नतादात्म्यात् । एतयोर्वा एकत्वमेकतादात्म्यात् । यद्युच्येत । क्शित्यादौ जनयितव्ये तदुपादानं पुर्व्वमेव क्षित्यादिवीजस्य रूपान्तरमिति । न तर्हि वीजन्तदनपेक्षं क्षित्यादीनां जनकम् । तदनपेक्षत्वे तेषामङ्कुरोद्भेदानुपपत्तेः । न चानुपकारकाण्यपेक्षन्त इति त्वयैवोक्तम् । न च क्षणस्योपकारसम्भवोऽन्यत्र जननात्तस्याभेद्यत्वादित्यनेकत्वमपि नास्तीति द्वितीयोऽपि व्यापकाभावो न सिद्वः । तस्मादसाधारणानैकान्तिकत्वं गन्धवत्त्ववदिति । यदि मन्येतानुपकारका अपि भवन्ति सहकारिणोऽपेक्षणीयाश्च कार्य्येणानुविहितभावाभावात्सहकरणाच्च । नन्वनेन क्रमेणाक्षणिकोपि भावोऽनुपकारकानपि सहकारिणः क्रमवतः क्रमवत्कार्य्येणानुकृतान्वयव्यतिरेकानपेक्षिष्यते । करिष्यते च क्रमवत्सहकारिवशः क्रमेण कार्य्याणीति व्यापकानुपलब्धेरसिद्वेः । सन्दिग्धव्यतिरेकमनैकान्तिकं सत्त्वं क्षणिकत्वसिद्वाविति ॥
अत्र ब्रूमः । कीदृशं पुनरपेक्षार्थमादाय क्षणिकेसापेक्षानपेक्षत्वनिवृत्तिरूच्यते । किं सहकारिणमपेक्षत इति सहकारिणास्योपकारः कर्त्तव्यः ।

अथ पूर्व्वावस्थितस्यैव वीजादेः सहकारिणा सह सम्भूयकरणम् । यद्वा पुर्व्वावस्थितस्येत्यनपेक्षमिलितावस्थस्य करणमात्रमपेक्षार्थः । अत्र प्रथमपक्षस्यासम्भवादनपेक्षैव क्षणिकस्य कथमुभयव्यावृत्तिः । यद्यनपेक्षः क्षणिकः, किमित्युपसर्पणप्रत्ययाभावेऽपि न करोति । करोत्येव यदि स्यात् । स्वयमसम्भवी तु कथं करोतु । अथ तद्वा तादृग्वा आसीदिति न कश्चिद्विशेषः । ततस्तादृक्स्वभावसम्भवेप्यकरणं सहकारिणि निरपेक्षतां न क्षमत इति चेत् । असम्बद्वमेतत् । वर्णसंस्थानसाम्येप्यकर्त्तुस्तत्स्वभावताया विरहात् । स चाद्यातिशयजनकत्वलक्षणः स्वभावविशेषो न समानासमानसन्तानवर्त्तिषु वीजक्षणेषु सर्व्वेष्वेव सम्भवी किन्तु केषुचिदेव कर्म्मकरकर पल्लवसहचरेषु । नन्वेकत्र क्षेत्रे निष्पत्तिलबनादिपूर्व्वकमानीयैकत्र कुशूले क्षिप्तानि सर्व्वाण्येव वीजानि साधारणरूपाण्येव प्रतीयन्ते, तत्कुतस्त्योऽयमेकवीजसम्भवी विशेषोन्येषामिति चेत् ।

उच्यते । कारणं खलु सर्व्वत्र कार्य्ये द्विविधं दृष्टमदृष्टञ्च सर्व्वास्तिकप्रसिद्वमेतत् । ततः प्रत्यक्षपरोक्षसहकारिप्रत्ययसाकल्यमसर्व्वविदा प्रत्यक्षतो न शक्यं प्रतिपत्तुम् । ततो भवेदपि कारणसामग्रीशक्तिभेदात्तादृशः स्वभावभेदः केषाञ्चिदेव वीजक्षणानां येन तएव वीजक्षणा आद्यातिशयमङ्कुरम्बा परम्परया जनयेयु र्नान्ये वीजक्षणाः । ननु येषूपसर्पणप्रत्ययसहचरेषु स्वकारणशक्तिभेदादाद्यातिशयजनकत्वलक्षणो विशेषः सम्भाव्यते, स तत्रावश्यमस्तीति कुतो लभ्यमिति चेत् । अङ्कुरोत्पादादनुमितादाद्यातिशयलक्षणात्कार्य्यादिति ब्रूमः । कारणानुपलब्धेस्तर्हि तदभाव एव भविष्यतीति चेत् । न दृश्यादृश्यसमुदायस्य कारणस्यादर्शनेप्यभावसिद्वेः कारणानुपलब्धेः सन्दिग्धासिद्वत्वात् । तदयमर्थः । पाणिस्पर्शवतः क्षणस्य न भेदभिन्नान्यकालक्षणाद्भेदो वेति मतद्वये मितिबलं यस्यास्त्यसौ जित्वरः । तत्रैकस्य बलं निमित्तविरहः कार्य्याङ्गमन्यस्य वा । सामग्री तु न सर्व्वथेक्षणसहा कार्य्यन्तु मानानुगममिति ॥

तदेवं नोपकारोऽपेक्षार्थ इत्यनपेक्ष्यैव क्षणिकस्य सहकारिषु नोभयव्यावृत्तिः । अथ सम्भूयकरणमपेक्षार्थः । तदा यदि पूर्व्वस्थितस्येति विशेषणापेक्षा तदा क्षणिकस्य नैवं कदाचिदित्यनपेक्षैवाक्षीणा । अथ पूर्व्वास्थितस्येत्यनपेक्ष्यमिलितावस्थितस्यैव करणमपेक्षार्थस्तदा सापेक्षतैव नानपेक्ष । तथा च नोभयव्यावृत्तिरित्यसिद्वः प्रथमो व्यापकानुपलम्भः । तथैकत्वानेकत्वयोरपि व्यापकयोः क्षणिकाद्व्यावृत्तिरसिद्वा । तत्तद्यावृत्तिभेदमाश्रित्योपादानत्वादिकाल्पनिकस्वभावभेदेऽपि परमार्थत एकेनैव स्वरूपेणानेककार्य्यनिष्पादनादुभयव्यावृत्तेरभावात् । यच्च वीजस्यैकेनैव स्वभावेन कारकत्वे क्षित्यादीनामङ्कुरस्वाभाव्यापत्तिरन्यथा कारणाभेदेऽपि कार्य्यभेदेऽपि कार्य्यस्याहेतुकत्वप्रसङ्गादित्युक्तं तदसङ्गतम् । कारणैकत्वस्य कार्य्यभेदस्य च पटुनेन्द्रियप्रत्यक्षेण प्रसाधनात् । एककारणजन्यत्वैकत्वयोर्व्याप्तेः प्रतिहतत्वात् । प्रसङ्गस्यानुपदत्वात् । यच्च कारणाभेदे कार्य्याभेद इत्युक्तं तत्र सामग्रीस्वरूपं कारणमभिप्रेतं सामग्रीसजातीयत्वे न कार्य्यविजातीयतेत्यर्थः । न पुनः सामग्रीमध्यगतेनैकेनानेकं कार्य्यं न कर्त्तव्यं नाम । एकस्मादनेकोत्पत्तेः प्रत्यक्षसिद्वत्वात् । न चैवं प्रत्यभिज्ञानात्कालभेदेप्यभेदसिद्विरित्युक्तप्रायम् । न चेन्द्रियप्रत्यक्षं भिन्नदेशं सप्रतिघं दृश्यमर्थद्वयमेकमेवोपलम्भयतीति क्वचिदुपलब्धं येन तत्रापि भेदशङ्का स्यात् । शङ्कायाम्बा पटुप्रत्यक्षस्याप्यपलापे सर्व्वप्रमाणोच्छेदप्रसङ्गात् । नापि सन्दिग्धव्यतिरेकः । क्षित्यादेर्द्रब्यान्तरस्य वीजस्वभावत्वेनास्माभिरस्वीकृतत्वातनुपकारिण्यपेक्षायाः प्रत्याख्यानात् । व्यापकानुपलम्भस्यासिद्वत्वायोगात् । तदेतौ द्वावपि व्यापकानुपलम्भावसिद्वौ न क्षणिकात्सत्त्वन्निवर्त्तत इति नायमसाधारणो हेतुः
। अपि च विद्यमानो भावः साध्येतरयोरनिश्चितान्वयव्यतिरेको गन्धवत्तादिवदसाधारणो युक्तः । प्रकृतव्यापकानुपलम्भाच्च सर्व्वथार्थक्रियैवासती उभाभ्याम्बादिभ्यामुभयस्माद्विनिवर्त्तितत्वेन निराश्रयत्वात् । तत्कथमसाधारणानैकान्तिकी भविष्यत्यलं प्रलापिनि निर्ब्बन्धेन । तदेवं शक्तस्य क्षेपायोगात्समर्थव्यवहारगोचरत्वं जननेन व्याप्तमिति प्रसङ्गविपर्य्यययोः सत्त्वे हेतोरपि नानैकान्तिकत्वमतः क्षणभङ्गसिद्विरिति स्थितम् ॥

इति साधर्म्यदृष्टान्तेऽन्वयरूपव्याप्त्या

क्षणभङ्गसिद्विः समाप्ता ॥

कृतिरियं महापण्डितरत्नकीर्त्तिपादानामिति ॥ �

"https://sa.wikisource.org/w/index.php?title=क्षणभङ्गसिद्विः&oldid=369142" इत्यस्माद् प्रतिप्राप्तम्