क्रियासंग्रहकारिका

विकिस्रोतः तः
क्रियासंग्रहकारिका
[[लेखकः :|]]

क्रियासंग्रहकारिका

परीक्षा गुरुशिष्याणां गुरोरध्येषणा ततः ।
मन्त्रसेवां गुरुः कुर्यात्ततो भूमेः परीक्षणम् ॥ १ ॥

देवतायोगयुक्तः सन्महीपूजां विधाय च ।
देवतोत्थापनं कृत्वा शोधयेन्मेदिनीं ततः ॥ २ ॥

यवानां रोपणं कृत्वा जाङ्गुली चापि पूजयेत् ।
सूत्रं संपात्य यत्नेन वास्तुनागं परीक्षयेत् ॥ ३ ॥

इष्टकालक्षणं सम्यग्ज्ञात्वादिग्रहणं ततः ।
सम्यगायव्ययौ ज्ञात्वा प्रासादस्य च लक्षणम् ॥ ४ ॥

देवदिक्पालवसुधाः सम्पूज्य च यथाविधि ।
ईतिकारोपणं कृत्वा होमं कुर्यात्प्रमोहनम् ॥ ५ ॥

वनयात्रा ततो द्वारं सम्यगुत्थापयेत्सुधीः ।
संस्थाप्य च शिरोदारु जुहुयादमृतानलम् ॥ ६ ॥

वज्राचार्यप्रवेशोऽस्मिन् समाधित्रयभावना ।
परिक्रमार्थसूत्राणां पातनं रजसामपि ॥ ७ ॥
अग्निक्रियाविधानं च पिण्डिकास्थापनं ततः ।
सव्यक्षणेन निष्पाद्य प्रतिमां स्थापयेत्ततः ॥ ८ ॥

चित्रकर्म वलिः पिण्डी गण्डिकालक्षणं ततः ।
एतेषां च प्रतिष्ठानं प्रव्रज्याग्रहणं तथा ॥ ९ ॥

लक्षणं धर्मधातूनां ध्वजानामवरोपणम् ।
जीर्णोद्धारोपसंहारौ पूजयेद्गणमण्डलम् ॥ १० ॥

। क्रियासंग्रहकारिका समाप्ता ॥

। कृतिरियं नागार्जुनपादानाम् ॥

"https://sa.wikisource.org/w/index.php?title=क्रियासंग्रहकारिका&oldid=369040" इत्यस्माद् प्रतिप्राप्तम्