क्रियाधिकारः/द्वादशोऽध्यायः

विकिस्रोतः तः
← एकादशोऽध्यायः क्रियाधिकारः
द्वादशोऽध्यायः
[[लेखकः :|]]
त्रयोदशोऽध्यायः →


द्वादशोऽध्याय:
स्नापनौत्सवयो: पृथक्प्रतिष्टा
(1)(स्नापनौत्सवयो: पश्चात्प्रतिष्ठां प्रवदाम्यहम्।
कौतुके स्थापिते पूर्वं शक्तौ सत्यां पुनस्तथा (1.) इत आभ्यसार्धपञ्चविशतिश्लोकपर्यन्त मातृकान्तरेषु न दृश्यते ।। 12.1 ।।
औत्सवं स्नापनं कृत्वा स्थापयेद्विभवार्हत:।
बिम्बं सलक्षणं कृत्वा सङ्घातं विधिना चरेत् ।। 12.2 ।।
अक्ष्?युन्मेषाधिवासौ च कृत्वा तस्य यथाविधि।
सभ्याब्जकुण्डे वा कृत्वा प्रतिष्ठां पूर्ववच्चरेत् ।। 12.3 ।।
अन्याग्निविहितं होमं सभ्य एव समाचरेत्।
तत्र प्रणीय नित्याग्निं होमकर्म समाचरेत् ।। 12.4 ।।
कुर्यान्नित्याग्निविच्छेदे पञ्चकुण्डानि पूर्ववत्।
तत्रापि गार्हपत्याग्ने: प्रणीयान्येषु हूयताम् ।। 12.5 ।।
पूर्वेद्युरेव शर्वर्यां रात्रिपूजावसानके।
देवं विशेषतोऽभ्यर्च्य हविस्सम्यङ्निवेदयेत् ।। 12.6 ।।
ध्रुवबेरे समावाह्य प्रणम्यैवानुमान्य च।
संसाध्य विधिना कुम्भं तत्राऽवाह्य ध्रुवात्तथा ।। 12.7 ।।
कुम्भं बिम्बस्य पार्श्वे तु स्नानश्वभ्रे निवेश्च च।
स्नापनं शयनारोहं तथा कौतुकबन्धनम् ।। 12.8 ।।
हौत्रं होमं तथा कृत्वा प्रातस्संस्थाप्य पार्श्वयो:।
कृत्वा मन्त्राक्षरन्यासौ पूर्वमावाह्य कौतुके ।। 12.9 ।।
पश्चाच्चैवोत्सेवेऽर्चायां समावाह्य तथा ध्रुवात्।
आसनादिभिरभ्यर्च्य हविस्सम्यक् निवेदयेत् ।। 12.10 ।।
उत्सवं चौत्सवे बिम्बे स्नापने स्नापनं तथा।
यथाशक्ति प्रकुर्वीत दद्यादचार्यदक्षिणाम् ।। 12.11 ।।
लौकिकस्थापनायान्तु नित्याग्निर्न प्रणीयते।
आवाहनं तथा कुम्भे कुर्यादादित्यमण्डलात् ।। 12.12 ।।
कुम्भात्तु लौकिके बिम्बे समावाह्य समर्चयेत्।
एकबेरविधानञ्चेत् स्थापनं न विधीयते ।। 12.13 ।।
कारयित्वौत्सवं बिम्बे रात्रिपूजावसानके।
एकबेरं समभ्यर्च्य कुम्भे शक्तिं निवेश्य च ।। 12.14 ।।
पूर्ववत्स्थापनादीनि कारयित्वा यथाविधि।
एकबेरे समावाह्य तस्मादावाह्य चार्चयेत् ।। 12.15 ।।
बलिबेरस्य पृथक् प्रतिष्ठा
बलिबेरप्रतिष्ठा चेत्तस्मिन्नावाह्य कौतुके ।। 12.16 ।।
समभ्यर्च्य निवेद्यैव बल्युत्सवमथाचरेत्।
देव्यो: श्चात्प्रतिष्ठायां विशेषो वक्ष्यतेऽधुना ।। 12.17 ।।
देव्यो: पश्चात् प्रतिष्ठा
जङ्गमानान्तु बिम्बानां पुनर्देव्यौ च कल्पयेत् ।। 12.18 ।।
ध्रुवे देवीवियुक्तेऽपि देवीयुक्तञ्च कौतुकम्।
कुर्यात्सर्वप्रयत्नेन विशेषादौत्सवं तथा ।। 12.19 ।।
अक्ष्युन्मेषाधिवासौ च कृत्वा तन्मन्त्रमुच्चरन्।
पार्श्वयोर्यज्ञशालायां कुर्यादौपासनद्वयम् ।। 12.20 ।।
तयोर्नित्याग्निमाधाय यथोक्तं होममाचरेत्।
ध्रुवस्य देवीबिम्बाभ्यां शक्तिमावाह्य कुम्भयो: ।। 12.21 ।।
स्नपनं शयनं कुम्भं होमञ्च पृथगेव वा।
सर्वञ्च पूर्ववत्कृत्वा प्रात: स्नात्वा यथाविधि ।। 12.22 ।।
ध्रुवदेव्योस्समावाह्य ताभ्यामावाहयेत्तयो:।
तच्छक्तिपूर्वं संस्काराद्विवाहं न प्रकल्पयेत् ।। 12.23 ।।
देवेनाप्यथवा साकं प्रतिष्ठामाचरेत्तयो:।
निवेश्य कौतुकाच्छक्तिं ध्रुवबेरे यथाविधि ।। 12.24 ।।
ध्रुवबेरात्तथा कुम्भे शक्तिमावाह्य पूर्ववत्।
स्नानश्वभ्रे प्रतिष्ठाप्य देवीं कुम्भञ्च दक्षिणे ।। 12.25 ।।
पार्श्वयो: श्वभ्रयोर्देव्यौ प्रतिष्ठाप्य पृथक्पृथक्।)
(1)स्नापयित्वैकवेद्यान्तु शाययित्वैव मन्त्रत: (1.) इत: पूर्वं अधोलिखितसार्धश्लोक: मातृकान्तरेषूपलभ्यते ।। अनेनैव ग्रन्थेन तासु मातृकास्वध्यायारम्भश्च ।।
ध्रुवत्य कौतुकस्यापि स्नापनस्यौत्सवस्य च। बलिबेरस्य देव्योश्च प्रतिष्ठां सहृकारयेत्। पृथगेव प्रतिष्ठां चेत्संस्नप्य प्यि च पृथक्पृथक् इति ।। 12.26 ।।
हौत्रादि सकलं कर्म कृत्वा पूर्वोक्तमार्गत:।
कुम्भाद्ध्रुवे समावाह्य तस्मादावाहयेज्जले ? ।। 12.27 ।।
विवाहविधिमत्रापि नाचरेदिति शासनम्।
ध्रुवे देवीवियुक्तेऽपि मंथितेनैव वह्रिना ।। 12.28 ।।
आघारं विधिवत्तत्र कृत्वौपासनकुण्डके।
देव्यौ तु पूर्ववद्ध्यत्वा हृदयाद्वाऽर्कमण्डलात् ।। 12.29 ।।
आवाह्य कुम्भयोर्देव्यौ होमकर्मावसानके।
कुम्भात्तद्विम्बयोर्भक्त्या समावाह्य समर्चयेत् ।। 12.30 ।।
देवीभ्यामौत्सवे साधं स्थाप्यमाने तपोधना:।
ध्रुवे देवीवियुक्तेऽपि कुम्भं संसाध्य पूवर्वत् ।। 12.31 ।।
देवीभ्यामौत्सवे सार्धं स्थाप्यमाने तपोधना:।
ध्रुवे देवीवियुक्तेऽपि कुम्भं संसाध्य पूर्ववत् ।। 12.31 ।।
(2)कुम्भे बिम्बात्समावाह्य देवं देव्यौ तत: परम्।
आवाह्य हृदयाद्ध्यायंस्तथैवादित्यमण्डलात् (2.) कुम्भे बिम्बान् आ. ।। 12.32 ।।
पूर्ववत् स्नपनादीनि कृत्वा सर्वाणि तत्र वै।
देवदेवं समावाह्य (1)ध्रुवबेरे तु पूर्ववत् (1.) ध्रुवबेरात् आ. ।। 12.33 ।।
तस्माद्देवं समावाह्य कुम्भाद्देव्यौ समावहेत्।
कौतुकव्यतिरिक्त प्रतिष्ठायां विशेष:
कौतुकव्यतिरिक्तानां स्थापनायां तपोधना: ।। 12.34 ।।
परिषद्देवताह्वानं सर्वदेवार्चनं तथा।
परिषद्देवताहोमं वर्जयेदिति शासनम् ।। 12.35 ।।
अथवा देवदेवस्य देव्योश्चैव पृथक्पृथक्।
शयनं कुम्भपूजाञ्च कुर्यादित्येव केचन ।। 12.36 ।।
एकबेरप्रतिष्ठायां देव्यौ न स्थापयेत्पुन:।
श्रीभूमिसहितं कुर्यांदादावे ध्रुवार्चनम् ।। 12.37 ।।
सर्वकामाभिवृद्ध्यर्थी श्रिया केवलमेव वा।
स्थापयेदेकबेरस्य पश्चाद्वै केवलं श्रियम् ।। 12.38 ।।
देवीभ्यां रहितं कुर्यान्नारसिहं ध्रुवार्चनम्।
इच्छन्ति योगमार्गेण सन्तस्सर्वे ध्रुवार्चनम् ।। 12.39 ।।
पटकुड्यादिबिम्ब प्रतिष्ठा
पटकुड्यसुधाऽऽलेख्यबिम्बानां स्थापनाविधिम्।
प्रवक्ष्यामि समासेन बिम्बं कृत्वा सलक्षणम् ।। 12.40 ।।
औपासनाग्निमाधाय वास्तुहोमविधानत:।
पर्यग्निपञ्चगव्याभ्यां शोधयित्वा समीपत: ।। 12.41 ।।
पूर्वोक्तेन क्रमेणैव कृत्वा तस्याक्षिमोचनम्।
कुम्भं पूर्ववदादाय शुद्ध्यर्थ प्रोक्षणं चरेत् ।। 12.42 ।।
प्रदोषे समनुप्राप्ते कुण्डे चौपासने तथा।
आघारं विधिवत्कृत्वा कुमृभं संसाध्य पूर्ववत् ।। 12.43 ।।
अभ्युक्ष्य सप्तकलशैर्बध्द्वा प्रतिसरं तथा।
हौत्रं प्रशंस्य विधिना देवमावाह्य पूर्ववत् ।। 12.44 ।।
आवाहनक्रमेणैव निरुप्याज्याहुतीर्यजेत्।
आदिमूर्तिप्रतिष्ठा चेद्वैष्णवं विष्णुसूक्तकम् ।। 12.45 ।।
सूक्तञ्च पौरुषं हुत्वा पुनश्चापि च वैष्णवम्।
पञ्चवारुणसंयुक्तं जयादीश्च तथैव च ।। 12.46 ।।
यद्देवादींस्ततो हुत्वा सहस्राहुतिसंयुतम्।
अवतारप्रतिष्ठा चेतत्तन्मत्रं शतं यजेत् ।। 12.47 ।।
प्रातर्मन्त्राक्षरन्यासं कृत्वाऽऽवाह्य स्मरन् हरिम्।
अधस्तात्तस्य बिम्बस्य पीठं कृत्वा त्रिवेदिकम् ।। 12.48 ।।
(1)वितस्त्यायामविस्तारं षडङ्गुलसमुच्छ्रयम्।
तस्सिन्कूर्चञ्च विन्यस्य द्वादशाङ्गुलमात्रकम् (1.) वितस्त्यारसमुत्सेधं आ.
।। 12.49 ।।
तस्मिन्देवं समावाह्य समभ्यर्च्य निवेदयेत्।
अर्चनान्ते तथा बिम्बे विसर्जनमथाऽचरेत् ।। 12.50 ।।
एष एव विशेष: स्यादन्यत्सर्वञ्च पूर्ववत्।
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तयां संहितायां क्रियाधिकारे पश्चात् स्नापनौत्सवेर्दवीप्रतिष्ठा विधिर्नाम द्वादशोऽध्याय:(2) (2.) अत्र 13 अध्यायसमाप्ति: ख. 15 अध्यायसमाप्ति: आ.।
--------