क्रियाधिकारः/दशमोऽध्यायः

विकिस्रोतः तः
← नवमोऽध्यायः क्रियाधिकारः
दशमोऽध्यायः
[[लेखकः :|]]
एकादशोऽध्यायः →


दशमोऽध्याय:
अर्चनाङ्गोपचारा:
अथोपचारान्वक्षयामि शृणुध्वं मुनिसत्तमा:।
देवोपचारहतुत्वादुपाचारा: प्रकीर्तितारा: ।। 10.1 ।।
पूजनार्थ विशेषेण ग्रहणाद्विग्रहाश्च ते।
चतुप्पप्ट्युपचारांश्च पञ्चपञ्चाशदेव च ।। 10.2 ।।
चत्वारिंशत्सहाप्टभिर्द्विचत्वारिंशदेव च।
षट्त्रिंशच्च चतुस्त्रिंशत् द्वात्रिंशन्नवविंशति: ।। 10.3 ।।
सप्तविंशतिरित्येते नवधा परिकीर्तिता:।
आलयार्चाविधावेते हविर्हीने त्रयोदश ।। 10.4 ।।
द्रव्यदेवार्चने चैव परिवारार्चने तथा।
एकादशोपचारा: स्युश्शिवादीनां तथाऽर्चने ।। 10.5 ।।
प्रतिद्रव्यार्चने प्रोक्तास्स्नपने त्वष्टविग्रहा:।
होमे षड्विग्रहा: प्रोक्ता अवतारेषु षोडश ।। 10.6 ।।
बालालये ध्रुवार्चायां पञ्चविंशतिविग्रहा:।
द्वा विग्रहावशक्तानामेको विग्रह एव वा ।। 10.7 ।।
इत्येतेषाञ्च सर्वेषामाद्यमावाहनं तथा।
सामान्यमर्चनान्ते च तथैवोद्वासनं स्मृतम् ।। 10.8 ।।
ताभ्यां विनैव सङ्ख्यातमासन स्वगतं तथा।
उत्तमकल्पे चुष्षष्ट्युपचारा
अनुमानञ्च पाद्यञ्च तथैवाचमनं पुन: ।। 10.9 ।।
पुष्पं गन्धञ्च दीपञ्च दीपार्ध्याचमनानि च।
स्नानं प्लोतञ्च वस्त्रञ्च उत्तरीयञ्च भूषणम् ।। 10.10 ।।
उपवीतञ्च पाद्यञ्च तथैवाऽचमनं पुन:।
पुष्पं गन्धञ्घ धूपञ्च दीपमाचमनं तथा ।। 10.11 ।।
हविम्रन्त्राभिधानं स्यात्पानीयाचमनं पुन:।
मुखवासोऽष्टपाद्यादि दर्पणं छत्रचामरौ ।। 10.12 ।।
तालवृन्तं ध्वजगजरथाश्वा नृत्तगेयकौ।
वाद्यमायुधसेवा च मङ्गलानां प्रदक्षिणम् ।। 10.13 ।।
वेदपारायण दिक्षु पुराणस्तुतिरेव च।
(देवस्यापरभागे तु वेदमन्त्रान्त्सुघोषयेत् ।।
व्राह्मणै: विष्णुभक्तैश्चसहाचार्यपुरस्सरम्।
देवेशमनुगच्छेयुर्वेदानुच्चार्य भूसुरा: ।।)
मात्रा च मधुपर्कञ्च हविर्होमौ तत: परम् ।। 10.14 ।।
पानीयाचमने चैव मुखवासमत: परम्।
बलिश्चैव प्रणमश्च पुष्पाञ्जलिरतः परम् ।। 10.15 ।।
स्तुतिश्च दक्षिणा पश्चादनुमानञ्च भक्तित:।
चतुष्षपष्ट्युपचारास्युरुत्तमोत्तमपूजने ।। 10.16 ।।
पञ्चपञ्चाशदुपचाराः
गजध्वजरथाश्वैश्च मङ्गलैरायुधैरपि।
(1)विनेवाप्यनुमानेन स्तुत्या दक्षिणया तथा (1.) वितानैश्चामरैश्चापि आ.
।। 10.17 ।।
विग्रहा: पञ्चपञ्चाशत् प्रोक्ता उत्तममध्यमे।
षड्भिश्च दक्षिणापूर्वै: (2)पुष्पस्याञ्जलिना विना (2.) पुष्पन्यासाञ्जली विना क.
।। 10.18 ।।
अष्टचत्वारिशदुपचारा:
भोगाष्षडष्टसङ्ख्याता उत्तमाधमपूजने।
मध्यमकल्पे
ततो मन्त्रहवि: पूवैर्विनाषड्भिश्च विग्रहै: ।। 10.19 ।।
द्विचत्वारिंशदुपचारा:
द्विचत्वारिंशदुद्दिष्टा मध्यमोत्तमपूजने।
षट्त्रिंशदुपचारा:
स्तोत्रेण च विना वेदैर्मधुपर्केण मात्रया ।। 10.20 ।।
छत्रेण व्यजनेनापि ततष्षट्त्रिंशदीरिता:।
पट्त्रिंशद्विग्रहा एते प्रोक्ता मध्यममध्यमे ।। 10.21 ।।
चुतस्त्रिशदुपचारा:
मध्यमाधमपूजायां विना दर्पणचामरौ।
विग्रहाश्च चतुस्त्रिंशन्नृत्तगेयविवर्जिता: ।। 10.22 ।।
अधमकल्पे
द्वात्रिंशद्विग्रहा: प्रोक्ता अधमोत्तमपूजने।
द्वात्रिंशदुपचारा:
विनैव वाद्यहोमाभ्यां दीपान्ताचमनेन च ।। 10.23 ।।
एकोनत्रिंशदुपचारा:
नवविंशतिभोगास्ते प्रोक्ता अधममध्यमे।
सप्तविंशत्युपचारा: ?
विना बलिप्रणामाभ्यां सप्तविंशतिविग्रहा: ।। 10.24 ।।
अधमाधमपूजायां (1)नवधा विग्रहा: स्मृता:।
कौतुकादीनामुपचारा:
अन्येषाञ्च हविर्लाभे सप्तविंशतिविग्रहा: (1.) ब्रह्मणा परिकीर्तिता:। एवं विमानपूजायां नवधा विधा विग्रहा: स्मृता: आ. ।। 10.25 ।।
अर्चायामौत्सवे वापि लौकिकेष्वितरेषु वा।
विहितं पूजनं सद्भि: सप्तविंशतिविग्रहै: ।। 10.26 ।।
हविर्होने प्रयोक्तव्यास्ते त्रयोदश विग्रहा:।
अर्ध्याद्याचमनान्ता: स्युरासनाद्याश्च विग्रहा ।। 10.27 ।।
पुष्पाञ्जलिनमस्कारयुता एते त्रयोदश।
पुष्पाञ्जलिनमस्कारहीना एकादशैव ते ।। 10.28 ।।
अष्ओपचारा: पाद्याद्या अर्घ्याद्याचमनान्तकै:।
पुष्पादयस्ते षट् प्रोक्ता: होमध्यानार्चनाय वै ।। 10.29 ।।
एकादशोपचारास्ते चयुर्भिर्हविरादिभि:।
प्रणामेन च संयुक्ता: प्रोक्ताष्षोडश विग्रहा: ।। 10.30 ।।
(पुष्पाञ्जलिस्तुतिभ्याञ्चेत्युक्तास्तेऽष्टादश स्मृता:।
पाद्यमाचमनं स्नानं प्लोतवस्त्रोत्तरीयके।
भूषणं यज्ञसूत्रञ्च पाद्याद्या अष्टविग्रहा:।)
हवि: पानीयमाचमो मुखवासो बलिस्तथा।
होमश्चैव प्रणामश्च तथा पुष्पाञ्जलिः स्तुति: ।। 10.31 ।।
एकबेरार्चने
एकबेरार्चने प्रोक्ता: पञ्चविंशतिविग्रहा:।
उपचारा:
पुष्पाञ्जलिप्रणामौ द्वौ प्रणामस्त्वेकविग्रह: ।। 10.32 ।।
प्रादु र्भावायां पोडशोपचारा:
पाद्याद्यष्टोपचारान्ते चत्वारो हविरादय: ।। 10.33 ।।
बलिश्चैव प्रणामश्च स्तुति: पुष्पाञ्जलिस्तथा।
आलयार्चाविधाने तु पूर्वोक्तविधिनाऽर्चयेत् ।। 10.34 ।।
उपचाराणां चातुर्विध्यम्
स्पृश्या दृश्यास्तथा श्राव्या भोज्याश्चैव चतुर्विधा:।
आसनं पाद्यादानञ्च पुष्पं गन्धं तथैव च ।। 10.35 ।।
अर्घ्यं स्नानादयाष्षट् व मात्रा च मधुपर्ककम्।
पुष्पाञ्जलिप्रयोगश्च स्पृश्या दक्षिणया सह ।। 10.36 ।।
भोज्या एव समुद्दिष्टाश्चत्वारो हविरादय:।
देवस्य दक्षिणे हस्ते दद्यात्तानर्ध्यसंयुतान् ।। 10.37 ।।
गीतं वाद्यं तथा वेदा: पुराणं स्तुतिरेव च।
श्राव्या एव समुद्दिष्टा (1)दृश्याश्चाष्टोपचारका: (1.) शेषोपचारका: आ. ।। 10.38 ।।
धूपार्घ्यमधुपर्काणि आघ्रेयाणीति केचन।
उपचारा इति प्रोक्तास्तत्प्रयोगक्रमादिकम् ।। 10.39 ।।
स्वरूपञ्च खिले प्रोक्तं विज्ञेयं विधिवित्तमै:।
ध्रुवबेरपूजायां विशेष:
भक्तयाऽथवा ध्रुवे बेरे पूजां कर्तु यदीच्छति ।। 10.40 ।।
स्नानानुलेपनस्लोतैर्विनाऽन्यै: सर्वविग्रहै:।
पूजयेन्मुखवासान्तै: ध्रुवबेरन्तु केचन ।। 10.41 ।।
कौतुके नित्यपूजा, उपचारसमर्मणप्रकार:
नित्यपूजां विशेषेण कुर्यात्कौतुक एव वै।
तत्तन्मन्त्रावसाने तु पञ्चभिर्मूर्तिभि: पृथक् ।। 10.42 ।।
द्रव्यनाम च संयोज्य 'ददा' मीति वदन्ददेत्।
वस्त्रोत्तरीयोपवीतभूषणादीन् यथाविधि ।। 10.43 ।।
संयोज्य पञ्चमूर्तिभ्यो दद्यादित्याह काश्यप:।
वस्तूना (1)मर्चनार्थानामाधावमधिकं स्मृतम् (1.) अर्चनास्थानं जा. ।। 10.44 ।।
(2)अर्चने तु विहीनं यत्तत्तत्तोयेन प्रकल्पयेत्।
प्रात:कालार्चनाहं पुष्पाणि
पङ्कजञ्च पालाशञ्च तुलसी नवमालिका (2.) अर्चनेन विधानेन क. ।। 10.45 ।।
नन्द्यावर्तञ्च मन्दारं माधवी चम्पकं तथा।
पुन्नागं केतकी चापि प्रात:कालार्चने दश ।। 10.46 ।।
मध्याह्रकालार्चनार्ह पुष्पाणि
श्वेताब्जं करवीञ्च पलाशं तुलसी तथा।
उत्पलं बिल्वपत्रञ्च रक्तोत्पलमथापिवा ।। 10.47 ।।
कोविदारैकपत्रञ्च तापसाङ्कुरमेव च।
प्रोक्तान्येतानि पुष्पाणि दश मध्याह्रपूजने ।। 10.48 ।।
सायमर्चनार्ह पुष्पाणि
रक्ताजब्जं कुमुदञ्चैव मल्लिका जातिमालती।
माधवी करवीरञ्च ह्रीबेरं (3)गजकार्णिका (3.) पृषदंशकम् ? आ. ।। 10.49 ।।
तथा दमनकञ्चैव सायंकालार्चने दश।
सर्वकालार्चनार्हपुप्पाणि
दूर्वा च तुलसी बिल्वं करेवीरञ्च चम्पकम् ।। 10.50 ।।
सर्वकालार्चनार्हाणि विष्णुक्रान्तञ्च भद्रया।
तुलसीमहिमा
वर्ज्य पर्युषितं पुष्षं वजर्य पर्युषितं जलम् ।। 10.51 ।।
न वर्ज्यं तुलसीपत्रं न वर्ज्यं जाह्रवीजलम्।
कपित्थदलप्रशंसा बिल्वपत्रासमं रात्रौ कपित्थदलमुच्यते ।। 10.52 ।।
यद्यत्पुष्पाणि चोक्तानि तत्तत्पत्रेश्च पूजयेत्।
अर्चको चारि दीपञ्च पुष्पमेतच्चतुष्टयम् ।। 10.53 ।।
ग्राह्यं सामान्यतस्तेन सम्पूर्ण पूजनं भवेत्।
पञ्चङ्गमर्चनम्
ध्रुवगेरार्चनं पूर्वं द्वितीयं शान्तपूजनम् ।। 10.54 ।।
कौतुकाभर्‌यनं पश्चाद्भूतपीठार्चनं परम्।
पञ्चमं बलिपूजा स्यादेतै: पञ्चभिरर्चनै: ।। 10.55 ।।
सम्पूर्णमर्चनं युक्तमयुक्तं विकलार्चनम्।
(पञ्च तुल्यफलान्याहुरर्चनानि तपोधना: ।।)
ध्रुवबेरार्चनात्सिद्ध्येत् सायुज्यं पदमक्षयम् ।। 10.56 ।।
सर्वलोकाधिपत्यं वै सारूप्यं शान्तपूजया।
ऐहिकामुष्मिकं सर्व भुक्त्वा सायुज्यमाप्नुयात् ।। 10.57 ।।
कौतुकौभ्यर्चनाद्वापि भूतपीठार्चनात्तत:।
सर्वशत्रुजयं दीर्घमायुरारोग्यमेव च ।। 10.58 ।।
(1)श्रियं पुत्रसमृद्धिञ्च सालोक्यं पदमाप्नुयात्।
सर्वलोकेऽपि विख्यातिं सामीप्यं बलिपूजया (1.) पुत्रमित्र आ. ।। 10.59 ।।
तत्तत्प्रतिष्ठाकर्तृणां तत्तप्फल मुदाहृतम्।
बेरे चैव विमाने च भूतपीठे तथैव च ।। 10.60 ।।
सदा सन्निहितो विष्णु: छाययोर्धामबेरयो:।
प्रदक्षिणविधावेतल्लङ्घनन्तु न दोषकृत् ।। 10.61 ।।
युग्मप्रदक्षिणं कुर्यादयुग्मं त्वाभिचारिकम्।
नैव प्रदक्षिणं कुर्यादन्तरे देवशान्तयो: ।। 10.62 ।।
देव पीठान्तरे चैव न कुर्यादिति केचन।
एष एव विशेषस्यादन्यत्सर्व खिलोक्तवत् ।। 10.63 ।।
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोकृतायां संहितायां क्रियाधिकारे
उपचारभेदपुष्पनिर्णयविधानं नाम दशमोऽध्याय:(2) (2.) 13 अध्याय: ख. ।। 11. अध्याय: ई.।
-----------