क्रियाधिकारः/एकविंशोऽध्यायः

विकिस्रोतः तः
← विंशोऽध्यायः क्रियाधिकारः
एकविंशोऽध्यायः
[[लेखकः :|]]
द्वाविंशोऽध्यायः →


एकविंशोऽध्याय:
चलितस्थापनम्
अथ वक्ष्ये (1)विशेषेण चलितस्थापनक्रमम्।
पीठात्प्रचलितं बिम्बं सापायस्थलमाश्रिम् (1.) महाविष्णोरन्यत्र स्थापनक्रमं आ.
।। 21.1 ।।
अन्यस्थले नदीतीरे ग्रामा(2) द्वहिरवास्तुकम्।
महापथस्थं यद्वेरमर्चाहीनं विशेषत: (2.) बाह्मेऽपि वास्तुषु क. ।। 21.2 ।।
जीर्णालयगतं बिम्बं चिरकालमनर्चितम्।
अस्थानस्थापितं बेरं चलितञ्च प्रमादत: ।। 21.3 ।।
अन्यालयगतं बिम्बमन्त्यजातिभिरावृतम्।
प्रतिलोमनिवासथां शून्यमूलालयस्थितम् ।। 21.4 ।।
चालयित्वा विधानेन याने वा शकटेऽपि वा।
आरोप्य सुस्थलं नीत्वा कारयेदालयं महत् ।। 21.5 ।।
प्रासादं गोपुरं वाऽपि विमानं परिकल्पयेत्।
अशकृतश्चेद्यथालाभं गर्भालयमथापि वा ।। 21.6 ।।
तस्मिन् तद्वेरमास्थाप्य प्रतिष्ठां पुनराचरेत्।
य: करोति महाविष्णोरन्यत्र स्थापनं महत् ।। 21.7 ।।
व्याधयस्तसय नश्यन्ति ग्रहपीडाद्युपद्रवा:।
दुर्निमित्तानि द्र:स्वप्नचोरशत्रुभयादय: ।। 21.8 ।।
उपद्रवास्तथाऽन्ये च प्रणश्यन्ति न संशय:।
धर्मार्थकाममोक्षाश्च सिद्ध्यन्त्येव न संशय: ।। 21.9 ।।
कौतुकादिनिष्कृति:
अत: परं प्रवक्ष्यामि कौतुकादिषु निष्कृतिम्।
कृत्वा सङ्कीर्णलोहेन लोहेनाविहितेन वा ।। 21.10 ।।
कातुकं स्थापयेच्चेत्तु क्षिप्रं तदपहाय च
पद्माग्नौ परिषन्मन्त्रान् सूक्ते पौरुषवैष्णवे ।। 21.11 ।।
श्रीब्रह्मरुद्रसूक्तानि व्याहृत्यन्तं हुनेत् पृथक्।
दक्षिणान्तु ततो दद्याद्बुह्मणानपि भोजयेत् ।। 21.12 ।।
ध्रुवकौतुकयौ: सारूप्यम्
यदाकारं ध्रुवं कुर्यात्तदाकारन्तु कौतुकम् ।। 21.13 ।।
आसीनं वा स्थितं वाऽपि शयानं नैव कौतुकम्।
स्थानके स्थानकं प्रोक्तमासपने स्थानकासने ।। 21.14 ।।
आसीनं स्थानकं वाऽपि शयाने परिकल्पयेत्।
स्थापितं विपरीतं चेत् त्रयस्त्रिंशद्गणान् यजेत् ।। 21.15 ।।
वैध्नं सौरं गारुडञ्च शान्तिं वै पाञ्चभौतिकम्।
दुर्गासूक्तं विष्णुसूक्तं सूक्तं तत्पौरुषं यजेत् ।। 21.16 ।।
ब्राह्मणान् भोजयित्वा तु पुण्याहमपि वाचयेत्।
यथोक्तं कौतुकं कृत्वा प्रतिष्ठामाचरेत्पुन: ।। 21.17 ।।
अवतारविषये पौराणिकप्रदेशेषु च विशेष:
यथेष्टं कारयेद्बुपमिति प्रोवाच पूर्वज: ।। 21.18 ।।
पौराणिकेषु स्थानेषु यथापूर्वं तथा चरेत्।
अन्यथा तुन कर्तव्यं यदि कुर्याद्विनश्यति ।। 21.19 ।।
?Bतच्छान्त्यै पौण्डरीकाग्नौ सूक्ते वैष्णवपौरुषे।
हुत्वा तु दक्षिणां दत्वा यथापूर्व तथा चरेत् ।। 21.20 ।।
पूर्वमाग्नेयबिम्बञ्च सौम्येन स्थापितं यदि।
तद्वेरजीर्णोद्धारेऽपि कुर्यात्पूर्ववदेव हि ।। 21.21 ।।
सुवर्णादन्यलोहेन मिश्रलोहेन कौतुकम्।
स्थापितञ्चेन्महादोषो भविष्यति न संशय: ।। 21.22 ।।
आलयाद्दक्षिणेऽब्जाग्नौ ब्राह्मं सौरञ्च सौम्यकम्।
आग्नेयं गारुडं हुत्वा सूक्ते वैष्णवपौरुषे ।। 21.23 ।।
ईङ्कारा' र्दीस्ततो हुत्वा तद्विम्बमपहाय च।
उक्तलोहेन कृत्वा तु विधिना स्थापयेत्पुन: ।। 21.24 ।।
प्रतिष्ठाप्यार्च्चमानन्तु लोहजं कौतुकं शुभम्।
त्यक्त्वाऽन्यत्थापयेच्छेत्तदाभिचारिकमुच्यते ।। 21.25 ।।
दिग्दैवतृयं पुरुषसूक्तं विष्णुसूक्तमत: परम्।
श्रीसूक्तञ्चैव जुहूयाद्दुर्गासूक्तं सवैष्णवम् ।। 21.26 ।।
अङ्गहोमं ततो हुत्वा विश्वजित्सूक्तमेव च।
पूर्वं यद्विमृबमादाय स्थापयेत्तु विचक्षण: ।। 21.27 ।।
तत्रैवान्यन्नवं बेरं स्थापयित्वा च लौकिकम्।
यथालाभोपचारैस्तु पूजयेदिति शासनम् ।। 21.28 ।।
विवर्णे स्फुटिते रूक्षे सुषिरे जर्झरान्विते।
वर्जिते लक्षणैश्चापि स्थापिते सति कौतुके ।। 21.29 ।।
अन्यद्विम्बं समादाय सूक्ते वैष्णवपौरुषे।
वैष्णवञ्चैव कूष्माण्डं ब्राह्ममैन्द्रञ्च वायवम् ।। 21.30 ।।
गारुडञ्च सकृद्धुत्वा वैष्णवं साष्टकं शतम्।
महाव्याहृतिभिर्हुत्वा पूर्ववत्स्थापयेत्पुन: ।। 21.31 ।।
प्रतिष्ठाप्य कृतं बेरं त्यक्त्वान्यत्स्थापयेद्यदि।
आलयस्योत्तरेऽब्जाग्नौ विष्णुसूक्तं जुहोति च ।। 21.32 ।।
दौर्गञ्च पौरुषं सूक्तं ब्रह्मसूक्तं यजेत्पुन:।
रुद्रसूक्तं ततो हुत्वा पुनराहवनीयके ।। 21.33 ।।
वैष्णव व्याहृतीश्चापि महाव्याहृतिसंयुतम्।
हुत्वा साष्टशतं बेरं पूर्वं संस्थापयेत्पुन: ।। 21.34 ।।
ततोऽन्यत्र नवं बेरं स्थापयित्वा समर्चयेत्।
अन्यालयार्थ वा दद्याद्याचितं चेन्महत्फलम् ।। 21.35 ।।
अर्चारहितबेरदोष: निर्दुष्टबेरस्य त्यागनिषेध:
बेरमर्चाविहीनञ्चेत्सर्वनाशकरं भवेत्।
निर्दोषं लक्षणैर्युक्तं न त्याज्यमिति शासनम् ।। 21.36 ।।
शङ्खचक्रगदापद्मधरं केवलमुक्तिदम्।
शङ्खचक्रधरं श्रेष्ठं भुक्तिमुक्तिफलप्रदम् ।। 21.37 ।।
शङ्खचक्रगदाधरं पूर्ववदर्चितम्।
पुनश्च बेरनिर्माणे तत्तथैव प्रकल्पयेत् ।। 21.38 ।।
कुर्यात्तस्यापि सौम्येन प्रतिष्ठामर्चनादिकम्।
मधूच्छिष्टक्रियाहीने
मधूच्छिष्टक्रियाहीने लोहबेरे कृते सति ।। 21.39 ।।
ब्राह्मञ्च सौरं सौम्यञ्च सारस्वतसमन्वितम्।
प्राजापत्यं तथाऽऽग्नेयं वैष्णवं व्याहृतीरपि ।। 21.40 ।।
हुत्वा विप्रांश्च सम्पूज्य दक्षिणां गुरवे ददेत्।
शिलाविपर्यासे
पुंरूपं पुंशिलाभिश्च स्त्रीरूपं शिलंया स्त्रिया ।। 21.41 ।।
स्त्रिया नपुंसकेनाथ पुंरूपन्तु कृतं यदि।
आभिचारिकमित्युक्तं तेन सर्व विनश्यति ।। 21.42 ।।
स्थापितञ्चेत् परित्यज्य बेरमन्यत्समाहरेत्।
नपुंसकेन पुंसा वा देवीबेरं कृतं त्यजेत् ।। 21.43 ।।
यथोक्तशिलया बेरमाहृत्यान्यद्विधानत:।
षडग्नीन् साधयित्वा तु परिषिच्य च पावकम् ।। 21.44 ।।
पारमात्मिकमीङ्काराद्यष्टाशीतिं जयादिभि:।
रात्रिसूक्तञ्च जुहुयाद्विश्वजित्सूक्तमेव च ।। 21.45 ।।
ब्रहृमेन्द्रविष्णुसूक्तांश्च नरसूक्तं सरौद्रकम्।
दूर्गासूक्तञ्च सर्वेषु शतमष्टोत्तरं यजेत् ।। 21.46 ।।
पद्महोमञ्च जुहुयात्पाञ्चभौतिकसंयुतम्।
पुण्याहं वाचयेद्विप्रान् भोजयित्वा तत: परम् ।। 21.47 ।।
हिरण्यपशुभूम्यादीन् दत्वा तत्र मुदान्वित:।
वस्त्रोत्तरीयाभरणैराचार्य पूजयेत्पुन: ।। 21.48 ।।
एवं हुत्वा महाशान्तिं तथा स्थापनमाचरेत्।
(1)शिलाभेदे च दोषेषु सर्वेष्वेषु विधि: स्मृत: (1.) शिलाजेषु च दोषेषु क.
।। 21.49 ।।
देवं देव्यौ च कुर्याच्चे(2) द्दिवबेरञ्चैकवस्तुना।
अन्यथा यदि तत्रापि प्रायश्चित्तञ्च पूर्ववत् (2.) द्वाभ्यामेकेन वस्तुना क. ।। 21.50।।
प्रतिष्ठिते ध्रुवे अन्यत्र स्थापिते
अन्यत्र स्थापितं पूर्वं ध्रुवबेरं तत: परम् ।। 21.51 ।।
आदायान्यत्र न स्थाप्यं स्थापितं चेत्प्रमादत:।
महाशान्तिं ततो हुत्वा बिम्बमादाय वै तत: ।। 21.52 ।।
पूर्वस्मिन्नालये सम्यक् स्थापयित्वा समर्चयेत्।
अविधिना स्थापिते बिम्बे
अविधि कम लक्षण्यमयुक्तञ्चाप्रयोजकम् ।। 21.53 ।।
विरूपं वा विवर्ण वाऽप्यन्यदोषेण संयुतम्।
त्यक्त्वान्यद्विधिना कृत्वा लक्षणेन समन्वितम् ।। 21.54 ।।
लदालये प्रतिष्ठाप्य महाशान्तिश्च हूयते।
आलयाद्दक्षिणेऽबजाग्नौ अङ्गहोमस्सुहूयताम् ।। 21.55 ।।
तत्तद्दैवत्यसंयुक्तं परिषन्मन्त्रसंयुतम्।
व्याहृतिर्विष्णुसूक्तञ्च सूक्तं ब्राह्मञ्च पौरुषम् ।। 21.56 ।।
वैष्णवं पद्महोमश्च होतव्यं पारमात्मिकम्।
हुत्वैव दक्षिणां दत्वा स्थापनं पुनराचरेत् ।। 21.57 ।।
यत्र कर्तृस्मृतिस्तत्र विधिरेष प्रवर्तते।
दिव्यादिस्थले विशेष:
दैविके चार्षिके क्षेत्रे यथापूर्व तथा चरेत् ।। 21.58 ।।
अविधिकमलक्षण्यमप्रमाणं न दोषकृत्।
तस्मात्सर्वप्रयत्नेन यथापूर्व तथा चरेत् ।। 21.59 ।।
अन्यथा चेन्महादोष इति पूर्वजशासनम्।
कौतुकबेरस्यान्यत्र स्थापने
एकस्मिन्नलये बिम्बं कौतुकं स्थापितं तु यत् ।। 21.60 ।।
अन्यत्र स्थापितं चेत्तु पद्माग्नावालयोत्तरे।
सवैष्णवं तद्दैवत्यं चरिषमन्न्त्रसंयुतम् ।। 21.61 ।।
ब्रह्मसूक्तं रुद्रसूक्तं पारमात्मिकमेव च।
'ईङ्कारादी' स्तथाष्टाशीत्यङ्गहोमं तत: परम् ।। 21.62 ।।
रात्रिसूक्तञ्च जुहुयाद्विश्वजित्सूक्तमेव च।
आदाय पूर्ववत्स्थाने स्थापयेत्सर्वयत्नत: ।। 21.63 ।।
परचक्रभयादिष कर्तव्यक्रम:
परचक्रभयोद्रेकादथया चोरपीडया।
ग्रामालयविनाशो तु जनसञ्चारवर्जिते ।। 21.64 ।।
बालालयप्रकारेण होमं हुत्वा यथाविधि।
ध्रुवबेरगतां शक्तिं जङ्गमेषु निवेश्य च ।। 21.65 ।।
निर्भयान्यालयं नीत्वा पूजयेच्चेन्महाफलम्।
ब्राह्मणैरेव सर्वाणि तानि बेराणि वाहयेत् ।। 21.66 ।।
नित्याग्निकुण्डमासाद्य परिषिच्य च पावकम्।
आज्येन साज्यचरुणा शान्तिहोमं जुहोति च ।। 21.67 ।।
समिध्यात्मनि वाऽऽरोप्य नित्याग्निञ्च यथाविधि।
प्रवेश्य निर्भयं देशं तत्र सौम्याऽलये पुन: ।। 21.68 ।।
आग्नेयमन्दिरे वाऽपि यतीनामाश्रमेषु च।
सौम्यमार्गान्यदेवानामालयेषु मठेषु वा ।। 21.69 ।।
गृहेषु वा गृहस्थानामुपकार्यासु वा पुन:।
एतेष्वेकं प्रवेश्यैव पूर्वालाभे तथोत्तरे ।। 21.70 ।।
सौम्यालयान्यदेशेषु वास्तुहोमावसानके।
ततस्सर्वाणि बिम्बानि शुद्धौदैरभिषेचयेत् ।। 21.71 ।।
विना प्रधानस्थानञ्च परिवारालयं तथा।
रमणीयप्रदेशेषु विस्तीर्णेषु निवेशयेत् ।। 21.72 ।।
यथापूर्वमुखं वाऽथ विस्तीर्णाभिमुखन्तु वा।
प्रतिष्ठाप्य यथालाभं नित्यं विधिवदर्चयेत् ।। 21.73 ।।
तस्यैव परितस्सर्वपरिवारान् समर्चयेत्।
तां होमकाले समिधं लौकिकाग्नौ निधाय च ।। 21.74 ।।
हुत्वा होमावसानेऽन्यसमिध्यारोपयेत्पुन:।
अथवा पूर्ववत्कुण्डं कृत्वाऽथाऽत्रापि पूर्ववत् ।। 21.75 ।।
रक्षन्नग्निमविच्छिन्नं नित्यहोमं समाचरेत्।
नित्ययात्रोत्सवेनापि विना वर्षोत्सवेन च ।। 21.76 ।।
नित्यैनैमित्तिकेरन्यैर्यथालाभं समर्चयेत्।
मूलालयार्चनं यावद्युक्तं तावत्तु तत्र वै ।। 21.77 ।।
नित्यमेवं यथालाभमर्चयेदिति शासनम्।
भये तत्र विमुक्ते तमग्निमारोप्य पूर्ववत् ।। 21.78 ।।
पूर्वालये तु बिम्बानि समानीय च पूर्ववत्।
वास्तुहोमं ततो हुत्वा पर्यग्निकरणं तथा ।। 21.79 ।।
पञ्चगव्योक्षणं कृत्वा महाशान्तिं जुहोति च।
तां लोकिकाग्नौ समिधं निधायाधारमाचरेत् ।। 21.80 ।।
देवं विशेषतोऽभ्यर्च्य रात्रिपूजावसानके।
औत्सवार्चागतां शक्तिं कौतुके तु निवेशयेत् ।। 21.81 ।।
पूर्ववत्साधिते कुम्भे समावाह्य तु कौतुकात्।
प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत् ।। 21.82 ।।
सभ्यञ्च पौण्डरीकञ्च द्वावग्नी इति केचन।
कुर्यान्नित्याग्निविच्छेद पञ्चाग्नीनेव पूर्ववत् ।। 21.83 ।।
हौत्रकर्मावसाने तु चाऽवाह्य परिषद्णान्।
तानेव परितेऽभ्यर्च्य तत्तन्मन्त्रां जुहोति च ।। 21.84 ।।
मूलालयर्चने अविच्छिन्ने विशेष:
मूलालये ध्रुवे नित्यमविच्छिन्नार्चने सति ।। 21.85 ।।
तत्तद्विम्बगतां शक्तिं ध्रुवे सम्यङ्निवेश्य च।
तस्मादावाहयेद्विम्बे सर्वमन्यत्समं भवेत् ।। 21.86 ।।
एवं कर्तुमशक्तश्चेद्ध्बुवपूजां समाचरेत्।
भयरक्षार्थनिष्कृति:
अत: परं प्रवक्ष्यामि भयरक्षार्थनिष्कृतिम् ।। 21.87 ।।
चोरशत्रुभये वाऽथ परचक्रभयेऽथवा।
रक्षार्थं कौतुकादीनां स्नापनौत्सवबेरयो: ।। 21.88 ।।
अन्यलौकिकबिम्बानां प्रादुर्भावगणस्य च।
जङ्गमा: प्रतिमाश्चैव भूमिगुप्तिक्रियोचिता:(?) ।। 21.89 ।।
गुप्ते चैव शुचौ देशेऽप्यवटं खानयेद्बुध:।
सिकतास्तत्र निक्षिप्य महीदेवीं समर्चयेत् ।। 21.90 ।।
'आपो हि' ष्ठेति मन्त्रेण सम्प्रोक्ष्य च यथाविधि।
आचार्योऽप्यर्चको वाऽपि यजमानयुतस्तथा ।। 21.91 ।।
देवागारं प्रविश्यैव भक्तैस्सार्धं प्रणम्य च।
'यावत्कालं भयं माभूत्तावतृकालं महाप्रभो ।। 21.92 ।।
अत्रे देशे श्रिया भूम्या वस त्वं वै जनार्दन'।
इति मन्त्रेण देवेशमनुमान्य यथाविधि ।। 21.93 ।।
कौतुकादिषु बिम्बेषु तथा पारिषदेषु च।
आहितां शक्तिमादाय ध्रुवे चारोपयेद्बुध: ।। 21.94 ।।
'परं रंहे' ति मन्त्रेण देवमादाय यत्नत:।
'प्रतद्विष्णु स्तव' तेति देवं सन्नम्य चादरात् ।। 21.95 ।।
'यद्वैष्णव' मिति प्रोच्य प्राक्र्छिरश्शाययेत्तथा।
अवटं सिकताभिश्च मृत्तिकाभिश्च पूरयेत् ।। 21.96 ।।
सुदृढं कारयेत्पश्चादालयान्त: प्रविश्य च।
देवदेवं प्रणम्यैव जीवस्थाने च सन्न्यसेत् ।। 21.97 ।।
कूर्चं तत्र समभ्यर्च्य नित्यं ?नैमित्तिकं चरेत्।
ध्रुवबेरात्तथा शक्तिं कूर्चे चाऽवाह्य पूजयेत् ।। 21.98 ।।
तत्रापि भयसन्देहे विध्निते चापि पूजने।
अर्चकस्त्वरितो गत्वा देवं ध्यात्वा समाहित: ।। 21.99 ।।
'आयातु भगवानि' ति च 'याते अग्न' इति ब्रुवन्।
बेरस्थां शक्तिमग्निञ्च स्वात्मन्यारोप्य शीघ्रत: ।। 21.100 ।।
जपन् शकुनसूक्तन्तु गुप्तं देशं समाश्रयेत्।
यथासुखं तथा गच्देत्प्रमादरहितं स्थलम् ।। 21.101 ।।
यदि स्यात्स्वर्णजं बिम्बं गृहीत्वा सह गच्छति।
तत्राऽवाह्यार्चयेन्नित्यमुत्सवादीनि कारयेत् ।। 21.102 ।।
बल्युत्सवाभ्यां रहितं नित्यं नेमित्तिकं तथा।
अभ्युक्षणञ्च स्नपनं यथा शक्तिं च कारयेत् ।। 21.103 ।।
सुवर्णबिम्बरहिते कूर्चे सर्वञ्च कारयेत्।
वर्तमानेऽर्चनेप्येवमर्चके व्याधिपीडिते ।। 21.104 ।।
शक्यावाहनत: पूर्वमर्चकं मृतिसंशये।
तत्काले त्वरितस्सोऽपि स्वपुत्रेषु च भ्रातृषु ।। 21.105 ।।
देवशक्तिं तदग्निञ्च सम्यगारोपयेब्द्बुध:।
पुत्रे भातरि भष्टेऽपि कुर्चे चाऽवाह्य चादरात् ।। 21.106 ।।
आराधयेदेवमेव भयनिर्हरणे पुन:।
काले स्वस्थे तथा देशे बिम्बान्युत्थाप्य चादरात् ।। 21.107 ।।
संशोध्य चाऽलयं सर्वं पुण्याहमपि वाचयेत्।
अस्पृश्यस्पर्शने चैव वास्तुहोञ्च कारयेत् ।। 21.108 ।।
चण्डालाद्यन्त्यजातैश्च बिम्बे स्पृष्टेऽथवा पुन:।
कृत्वा जलाधिवासादीन् प्रतिष्ठां पुनराचरेत् ।। 21.109 ।।
कालापेक्षां न कुर्वीत कृत्वा वाऽप्यङ्कुरार्पणम्।
प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां सम्यगाचरेत् ।। 21.110 ।।
अर्चको हृद्गतां शक्तिं कुम्भे चाऽवाहयेत्क्रमात्।
एष एव विशेष: स्यादन्यत्सर्वञ्च पूर्ववत् ।। 21.111 ।।
नित्यार्चनविधानेन नितृयपूजां समाचरेत्।
नित्यहोमञ्च हुत्वा तु बलिं तत्र प्रदापयेत् ।। 21.112 ।।
औत्सवादिष्व्लब्धेषु सर्वं कुर्याच्च कौतुके।
(बिम्बानि खानयेद्भूमौ गुप्ते देशे सुरक्षितम् ।।
कौतुकादिगतां शक्तिं ध्रुवबेरे निवेश्य च।
पुनर्दर्भास्तृते श्वभ्रे निखनेत्सुदृढं यथा ।।
पूर्ववत्प्रार्थनामन्त्रमुक्त्वा सम्यग्विधायते।
'यावत्कालं भयं नास्ति तात्कालन्तु तत्र वै ।।
अत्र देशे श्रिया भूम्या वस त्वं हे जनार्दन'।
इत्युक्त्वा प्रार्थनामन्त्रं जप्त्वा देवं प्रणम्य च ।।
कौतुकादीन् समावाह्य तस्मिन् गर्ते तु शाययेत्।
सिकताभि: प्रपूर्यैव तद्गर्त सुदृढं यथा ।।
तत्तत्स्थानेषु सर्वेषु द्वादशाङ्गुलसम्मितम्।
सन्न्यस्य कूर्चं प्रत्येकं तत्राऽवाह्य समर्चयेत् ।।
अर्चनान्ते पुनस्तस्मादुद्वासनमथाऽचरेत्।
स्नपने तत्र सम्प्राप्ते ध्रुवे बद्ध्वैव कौतुकम् ।। 21.113 ।।
तस्मात्कूर्चे समावाह्य तद्द्रव्यै: प्रोक्षणं चरेत्।
समभ्यर्च्य निवेद्यैव तथैवोद्वासयेत्पुन: ।। 21.114 ।।
कालोत्सवस्य सम्प्राप्तौ ध्वजमारोप्य पूर्ववत्।
होमञ्च बलिदानञ्च नित्यं विधिवदाचरेत् ।। 21.115 ।।
चक्रवीशामितान् पात्रेष्वावाह्याऽभ्यर्चा चरेत्।
विधिनां बलिमाराध्य प्रदक्षिणमथाऽचरेत् ।। 21.116 ।।
उत्सवान्ते बलेश्शक्तिं ध्रुवबेरे निवेश्य च।
तस्मात्कूर्चे समावाह्य प्रभूतञ्च निवेदयेत् ।। 21.117 ।।
ध्रुवबेरे समारोप्य दद्यात्पुष्पाञ्जलिं पुन:।
ततस्तीर्थदिने प्रातरुत्सवे च कृते सति ।। 21.118 ।।
निशाचूर्णाभिषेकञ्च स्नपनं कलशैरपि।
कृत्वा तु कूर्चे देवाग्रे स्नपनं पुनराचरेत् ।। 21.119 ।।
आरम्भदिवसे कुम्भं संसाध्य ध्रुवबेरत:।
दीपाद्दीपमिवावाह्ये तेन कृत्वोत्सवं पुन: ।। 21.120 ।।
तीर्थान्ते स्नपनान्ते तु पुनरुद्वासयेद्ध्रुवे।
कालोत्सवे तु विच्छिन्ने प्रायश्चित्तं समाचरेत् ।। 21.121 ।।
सुकाले बिम्बमुद्धृत्य प्रतिष्ठां पुनराचरेत्।
सभ्याब्जकुण्डे द्वे कृत्वा नित्यमग्नि प्रणीय च ।। 21.122 ।।
पुन:प्रतिष्ठामार्गेण सुर्व कुर्याद्यथाविधि।
कौतुकादिषु गुप्तेषु विच्छिन्ने वा ध्रुवार्चने ।। 21.123 ।।
कृत्वा तु ध्रुवबेरस्य अर्चनाहीननिष्कृतिम्।
तस्मात्तु कौतुकादीनां प्रतिष्ठामाचरेत्पुन: ।। 21.124 ।।
चण्डालाद्यन्त्यजस्पर्शे प्रायश्चित्तं तदीरितम्।
हुत्वा शुद्धिं पनु: कृत्वा प्रतिष्ठां पुनराचरेत् ।। 21.125 ।।
अङ्गहीनं यदि भवेत् ध्रुवबेरं तदेव हि।
अयुक्तं यदि चोद्धर्तु कौतुकस्नापनौत्सवा: ।। 21.126 ।।
कृत्वा च दारवं बिम्बं याचितं बिम्बमेव वा।
बालालये प्रतिष्ठाप्य नवकरणमाचरेत् ।। 21.127 ।।
महापरितिष्ठामार्गेण प्रतिष्ठीं, पुनराचरेत्।
(भिन्ने घटे यथाकाशं महाकाशे प्रलीयते ।। 21.128 ।।
बेरनाशे तथा शक्तिर्विश्वस्मिन्नेनेव लीयते ।)
प्राक्प्रत्यग्दक्षिणादिक्षु विदिक्षु च तथाऽऽनते ।। 21.1़29 ।।
कुक्षिच्छिद्रे तथा दीर्घे पार्श्वहीने कटिक्षये।
ऊरूजङ्घाक्ष्ये चैव मुखशोषे तथैव च ।। 21.130 ।।
मकुटे दोषसंयुक्ते सर्वोपाङ्गक्षये तथा।
प्रमाणपरिहीने च पादगुल्फक्ष्ये तथा ।। 21.131 ।।
कर्णनासाक्षये चापि क्षिप्रं शा?न्तिञ्च कारयेत्।
आलयाद्दक्षिणे चाग्नौ जुहुयात्पारमात्मिकम् ।। 21.132 ।।
'ईङ्कारादीं श्च जुहुयादष्टाशीत्याहुतिं तथा।
तद्दैवत्यञ्च जुहुयादष्टोत्तरसहस्रकम् ।। 21.133 ।।
ब्राह्मणान्भोजयित्वैव दद्यादाचार्यदक्षिणाम्।
तत्तल्लक्षणसम्पन्नं कृत्वा संस्थापयेत्पुन: ।। 21.134 ।।
तत्तदुकृतपदादन्यपदेषु स्थापयेद्य?दि।
ऊर्ध्वदृष्ट्यादिदोषेषु
ऊर्ध्वष्टृष्ट्यामधोदृष्ट्यां तिर्यग्दृष्ट्यां तथैव च ।। 21.135 ।।
असौम्यक्रूरदृष्ट्याञ्च प्रायश्चित्तं समाचरेत्।
वैष्णवं पश्चिमेऽब्जाग्नौ तद्दैवत्यं शताष्टकम् ।। 21.136 ।।
'ईङ्कारादी' स्तु जुहुयादष्टाशीतिमत: परम्।
भोजयित्वा तथा विप्रानाचार्यादींश्च पूजयेत् ।। 21.137 ।।
संस्थाप्योक्तपदे सम्यग्विधिना चार्चयेत्पुन:।
ध्रुवकौतुकपीठे ध्रुवकौतुकयो: पीठे मानहीनेऽधिकेऽपि च ।। 21.138 ।।
तद्दैवत्यञ्च जुहुयादष्टाधिकसहस्रकम्।
मन्त्रैश्च परिवाराणां हुत्वा विप्रांश्च भोजयेत् ।। 21.139 ।।
सलक्षणं तथा पीठं कृत्वा संस्थापयेत्पुन:।
रत्नन्यासवहीने तु (1)पीठसङ्खातकर्मणि (1.) पद्मसङ्घातकर्मणि क.
।। 21.140 ।।
चालयित्वा तत: पीठाच्छान्तिहोमावसानके।
सत्नन्?यासं तथा कृत्वा पुनस्सङ्घातमाचरेत् ।। 21.141 ।।
रत्नन्यासे कृते पद्मसङ्घाते मन्त्रवर्जिते।
शान्तिं हुत्वा विधानेन तत्तन्मन्त्रं स्पृशन् जपेत् ।। 21.142 ।।
यद्याग्नेयविधानेन केवलं शिल्पिनाऽथवा।
कृते तु पद्मसङ्धाते संस्राप्य कलशैस्तथा ।। 21.143 ।।
हुत्वा पश्चान्महाशान्तिं तत्तन्मन्त्रं जपेत्तथा।
तथैव मूलबेरे तु स्थापिते केवलस्थले ।। 21.144 ।।
देवं विशेषतोऽभ्यर्च्य 'क्षम' स्वेति प्रणम्य च।
कुम्भे देवं समावाह्य पीठं कृत्वा सलक्षणम् ।। 21.145 ।।
पीठे देवं समारोप्य शान्तिं हुत्वा यथाविधि।
पर्यग्निपञ्चगव्याभ्यां पुण्याहेन च शोधयेत् ।। 21.146 ।।
पञ्चगव्याधिवासादीन् कृत्वा संस्नाप्य पूर्ववत्।
प्रतिष्टोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत् ।। 21.147 ।।
नवाहं वाऽथ सप्ताहं त्रियहन्तु वा।
देवं विशेषतोऽभ्यर्च्य 'क्षम' स्वेति प्रणम्य च ।। 21.148 ।।
ब्राह्मणान् भोजयित्वा तु दद्यादाचार्यद?क्षिणाम्।
इत्यार्षो श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सं?हितायां क्रियाधिकारे कौतुंकबेरप्रायश्चित्तविधिर्नामैकविंशोध्याय: ।।
---------