कौषीतकिब्राह्मणम्/अध्यायः ०१

विकिस्रोतः तः
Jump to navigation Jump to search
कौषीतकिब्राह्मणम्
[[लेखकः :|]]
अध्यायः ०२ →
अग्न्याधेयम्


१.१ अग्नेः शरीराणि
अस्मिन् वै लोक उभये देव मनुष्या आसुः । ते देवाः स्वर्गंल् लोकम् यन्तो अग्निम् ऊचुः । त्वम् नो अस्य लोकस्य अध्यक्ष एधि इति । तान् अग्निर् उवाच । अथ यद् वो अहम् घोर संस्पर्शतमो अस्मि । अनपचायितारो मनुष्याः । कथम् वस् तद् भविष्यति यन् मनुष्येष्व् इति । ते देवा ऊचुः । तस्य वै ते वयम् घोरास् तनूर् विनिधास्यामः । अथ या एव ते शिवा शग्मा यज्ञिया तनूः । तया इह मनुष्येभ्यो भविष्यसि इति । तस्य अप्सु पवमानाम् अदधुः । वायौ पावकाम् । आदित्ये शुचिम् । अथ या एव अस्य शिवा शग्मा यज्ञिया तनूर् आसीत् । तया इह मनुष्येभ्यो अतपत् । एता वा अग्नेस् तन्वः । तद् यद् एता देवता यजति । अत्र अग्निः साङ्गः सतनूः प्रीतो भवति । ता वै तिस्रो भवन्ति । त्रयो वा इमे लोकाः । इमान् एव तल् लोकान् आप्नोति । पौर्णमासम् प्रथमायै तन्त्रम् भवति । आमावास्यम् द्वितीयायै । तेन ह अस्य दर्श पूर्ण मासाव् अन्वारब्धौ भवतः । ईडितवत्यौ हव्यवाड्वत्यौ प्रथमायै सम्याज्ये । तत् सम्याज्या रूपम् । द्व्य् अग्नी द्वितीयायै । द्वौ हि अग्नी यजति । सप्तसस सामिधेनीका तृतीया । सप्तदश सामिधेनीका वा इष्टि पशु बन्धाः । तद् इष्टि पौश् बन्धान् आप्नोति । सद्वन्ताव् आज्य भागौ भवतः । असानि इति वा अग्नीन् आधत्ते । स्याम् इति कामयते । स यदि ह वा अपि स्वैषावीर इव सन्न् अग्नीन् आधत्ते । क्षिप्र एव सम्भवति । क्षिप्रे भोग्यताम् अश्नुते । यः सद्वन्तौ कुरुते । विराजौ सम्याज्ये । श्रीर् विराड् अन्नाद्यम् । श्रियो विराजो अन्न अद्यस्य उपाप्त्यै । ता वै गायत्र्यो भवन्ति । गायत्रो वा अग्निर् गायत्रच् छन्दाः । स्वेन एव तच् छन्दसा अग्नीन् आधत्ते । ता वा उपांशु भवन्ति । रेतः सिक्तिर् वा अग्न्य् आध्येयम् । उपांशु वै रेतः सिच्यते । अभिरूपा भवन्ति । यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै । द्वादश दद्यात् । द्वादश वै मासाः संवत्सरः । संवत्सरस्य एव आप्त्यै । अश्वम् त्रयोदशम् ददाति । यस् त्रयोदशो मासस् तस्य आप्यै ।

१.२ अग्नेः प्रयाजानुयाजाः
देव असुरा वा एषु लोकेषु सम्यत्ता आसुः । तेभ्यो अग्निर् अपाक्रामत् । स ऋतून् प्राविशत् । ते देवा हत्वा असुरान् विजित्य अग्निम् अन्वैच्छन् । तम् यमश् च वरुणश् च अन्वपश्यताम् । तम् उपामन्त्रयन्त । तम् अज्ञपयन् । तस्मै वरम् अददुः । स ह एतम् वरम् वव्रे । प्रयाजान् मे अनुयाजांश् च केवलान् घृतम् च अपाम् पुरुषम् च ओषधीनाम् इति । तस्माद् आहुर् आग्नेयाः प्रयाज अनुयाजा आग्नेयम् आज्यम् इति । ततो वै देवा अभवन् । परा असुराः । भवत्य् आत्मना । परा अस्य द्वेष्यो य एवम् वेद ।

१.३ पुनराधेयकालः
तद् आहुः कस्मिन्न् ऋतौ पुनर् आदधीत इति । वर्षास्व् इति ह एक आहुः । वर्षासु वै सर्वे कामाः । सर्वेषाम् एव कामानाम् आप्त्यै । मध्या वर्षे पुनर् वसू नक्षत्रम् उदीक्ष्य पुनर् आदधीत । पुनर् मा वसु वित्तम् उपनमत्व् इति । अथो पुनः कामस्य उपाप्त्यै । तद् वै न तस्मिन् काले पूर्व पक्षे पुनर् वसुभ्याम् सम्पद्यते । या एव एषा आषाढ्या उपरिष्टाद् अमावास्या भवति । तस्याम् पुनर् आदधीत । सा पुनर् वसुभ्याम् सम्पद्यते । उपाप्तो अमावास्यायाम् कामो भवति । उपाप्तो वर्षासु । उपाप्तः पुनर् वस्वोः । तस्मात् तस्याम् पुनर् आदधीत । पञ्च कपालः पुरोडाशो भवति । पञ्च पदा पङ्क्तिः । पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै ।

१.४ प्रयाजानुयाजा आज्यभागाश्च
विभक्तिभिः प्रयाज अनुयाजान् यजति । ऋतवो वै प्रयाज अनुयाजाः । ऋतुभ्य एनम् तत् समाहरन्ति । अग्न आयाहि वीतये अग्निम् दूतम् वृणीमहे अग्निना अग्निः समिध्यते अग्निर् वृत्राणि जङ्घनद् अग्नेः स्तोमम् मनामहे अग्ना यो मर्त्यो दुव इत्य् एताम् ऋचाम् प्रतीकानि विभक्तयः । ता वै षड् भवन्ति । षड् वा ऋतवः । ऋतुभ्य एव एनम् तत् पुनर् समाहरति । यथा यथम् उत्तमौ प्रयाज अनुयाजौ यजति । तथा ह अस्य प्रयाज अनुयाजेभ्यो अनितम् (?) भवति । वार्त्रघ्नः पूर्व आज्य भागः पाप्मन एव वधाय । अथो ह अस्य पौर्णमासात् तन्त्राद् अनितम् भवति । अग्निम् स्तोमेन बोधय इत्य् अग्नये बुद्धिमते पूर्वम् कुर्याद् इति ह एक आहुः । स्वपिति इव वा एतस्य अग्निर् यो अग्मिम् उद्वासयते । तद् एव एनम् तत् पुनः प्रबोधयति इति । वार्त्रघ्नस् त्व् एव स्थितः । अग्न आयूंषि पवस इत्य् उत्तरस्य पुरोनुवाक्या । पवस इत् तत् सौम्यम् रूपम् । केवल आग्नेयो हि यज्ञ क्रतुः । तद् यत् पवमानस्य कीर्तयति । तथा ह अस्य सौम्याद् आज्य भागाद् अनितम् भवति । पद पङ्क्तयो याज्या पुरोनुवाक्याः । पञ्च पदा पङ्क्तिः । पाङ्क्तो वै यजो यज्ञस्य एव आप्त्यै ।

१.५ विभक्तयः अदितिभागश्च
व्यतिषक्ता भवन्ति । व्यतिषक्ता इव वा इमे प्राणा आत्मानम् भुञ्जन्ति इति । सा सर्वा एव ससामिधेनीक उपांशु भवत्य् आपूर्वाभ्याम् अनुयाजाभ्याम् । आ ह्य् अतो विभक्तयो अनुप्रोता भवन्ति । अथो सर्वे वै कामा विभक्तिषु । तस्माद् उपांशु भवन्ति । सर्वेषाम् एव कामानाम् आप्त्यै । उच्चैस् त्व् एव उत्तमेन अनुयाजेन यजति । उच्चैः सूक्त वाक शम्यु वाक आवाह । तद् यथा विदम् इत्य् आविर् नष्टम् कुर्यात् । एवम् तद् आविः कामान् करोत्य् आपम् इति । त्रयम् ह एक उपांशु कुर्वन्ति विभक्तीर् उत्तरम् आज्य भागम् हविर् इति । एतावद्द् ह्य् आगन्तु भवति इति । सा वा उपांशु निरुक्ता भवति । द्वयम् वा अग्ने रूपम् निरुक्तम् च अनिरुक्तम् च । तद् एव अस्य तेन आप्नोति । सर्व आग्नेयम् ह एके कुर्वन्ति । न तथा कुर्यात् । तस्यै पुनर् उत्स्यूतो जरत् संव्याहः पुनः संस्कृतः कद्रथो अनड्वान् हिरण्यम् वा दक्षिणा । पुनः कर्म ह्य् एतत् । आदित्या द्वितीया । प्रतिष्ठा वा अदितिः । प्रतिष्ठित्या एव प्रतिष्ठित्या एव ।  


१.१ अग्नेः शरीराणि
अस्मिन् वै लोक उभये देव मनुष्या आसुः ।
ते देवाः स्वर्गंल् लोकम् यन्तो अग्निम् ऊचुः ।
त्वम् नो अस्य लोकस्य अध्यक्ष एधि इति ।
तान् अग्निर् उवाच ।
अथ यद् वो अहम् घोर संस्पर्शतमो अस्मि ।
अनपचायितारो मनुष्याः ।
कथम् वस् तद् भविष्यति यन् मनुष्येष्व् इति ।
ते देवा ऊचुः ।
तस्य वै ते वयम् घोरास् तनूर् विनिधास्यामः ।
अथ या एव ते शिवा शग्मा यज्ञिया तनूः ।
तया इह मनुष्येभ्यो भविष्यसि इति ।
तस्य अप्सु पवमानाम् अदधुः ।
वायौ पावकाम् ।
आदित्ये शुचिम् ।
अथ या एव अस्य शिवा शग्मा यज्ञिया तनूर् आसीत् ।
तया इह मनुष्येभ्यो अतपत् ।
एता वा अग्नेस् तन्वः ।
तद् यद् एता देवता यजति ।
अत्र अग्निः साङ्गः सतनूः प्रीतो भवति ।
ता वै तिस्रो भवन्ति ।
त्रयो वा इमे लोकाः ।
इमान् एव तल् लोकान् आप्नोति ।
पौर्णमासम् प्रथमायै तन्त्रम् भवति ।
आमावास्यम् द्वितीयायै ।
तेन ह अस्य दर्श पूर्ण मासाव् अन्वारब्धौ भवतः ।
ईडितवत्यौ हव्यवाड्वत्यौ प्रथमायै सम्याज्ये ।
तत् सम्याज्या रूपम् ।
द्व्य् अग्नी द्वितीयायै ।
द्वौ हि अग्नी यजति ।
सप्तसस सामिधेनीका तृतीया ।
सप्तदश सामिधेनीका वा इष्टि पशु बन्धाः ।
तद् इष्टि पौश् बन्धान् आप्नोति ।
सद्वन्ताव् आज्य भागौ भवतः ।
असानि इति वा अग्नीन् आधत्ते ।
स्याम् इति कामयते ।
स यदि ह वा अपि स्वैषावीर इव सन्न् अग्नीन् आधत्ते ।
क्षिप्र एव सम्भवति ।
क्षिप्रे भोग्यताम् अश्नुते ।
यः सद्वन्तौ कुरुते ।
विराजौ सम्याज्ये ।
श्रीर् विराड् अन्नाद्यम् ।
श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।
ता वै गायत्र्यो भवन्ति ।
गायत्रो वा अग्निर् गायत्रच् छन्दाः ।
स्वेन एव तच् छन्दसा अग्नीन् आधत्ते ।
ता वा उपांशु भवन्ति ।
रेतः सिक्तिर् वा अग्न्य् आध्येयम् ।
उपांशु वै रेतः सिच्यते ।
अभिरूपा भवन्ति ।
यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै ।
द्वादश दद्यात् ।
द्वादश वै मासाः संवत्सरः ।
संवत्सरस्य एव आप्त्यै ।
अश्वम् त्रयोदशम् ददाति ।
यस् त्रयोदशो मासस् तस्य आप्यै ।
     
१.२ अग्नेः प्रयाजानुयाजाः
देव असुरा वा एषु लोकेषु सम्यत्ता आसुः ।
तेभ्यो अग्निर् अपाक्रामत् ।
स ऋतून् प्राविशत् ।
ते देवा हत्वा असुरान् विजित्य अग्निम् अन्वैच्छन् ।
तम् यमश् च वरुणश् च अन्वपश्यताम् ।
तम् उपामन्त्रयन्त ।
तम् अज्ञपयन् ।
तस्मै वरम् अददुः ।
स ह एतम् वरम् वव्रे ।
प्रयाजान् मे अनुयाजांश् च केवलान् घृतम् च अपाम् पुरुषम् च ओषधीनाम् इति ।
तस्माद् आहुर् आग्नेयाः प्रयाज अनुयाजा आग्नेयम् आज्यम् इति ।
ततो वै देवा अभवन् ।
परा असुराः ।
भवत्य् आत्मना ।
परा अस्य द्वेष्यो य एवम् वेद ।

१.३ पुनराधेयकालः
तद् आहुः कस्मिन्न् ऋतौ पुनर् आदधीत इति ।
वर्षास्व् इति ह एक आहुः ।
वर्षासु वै सर्वे कामाः ।
सर्वेषाम् एव कामानाम् आप्त्यै ।
मध्या वर्षे पुनर् वसू नक्षत्रम् उदीक्ष्य पुनर् आदधीत ।
पुनर् मा वसु वित्तम् उपनमत्व् इति ।
अथो पुनः कामस्य उपाप्त्यै ।
तद् वै न तस्मिन् काले पूर्व पक्षे पुनर् वसुभ्याम् सम्पद्यते ।
या एव एषा आषाढ्या उपरिष्टाद् अमावास्या भवति ।
तस्याम् पुनर् आदधीत ।
सा पुनर् वसुभ्याम् सम्पद्यते ।
उपाप्तो अमावास्यायाम् कामो भवति ।
उपाप्तो वर्षासु ।
उपाप्तः पुनर् वस्वोः ।
तस्मात् तस्याम् पुनर् आदधीत ।
पञ्च कपालः पुरोडाशो भवति ।
पञ्च पदा पङ्क्तिः ।
पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै ।

१.४ प्रयाजानुयाजा आज्यभागाश्च
विभक्तिभिः प्रयाज अनुयाजान् यजति ।
ऋतवो वै प्रयाज अनुयाजाः ।
ऋतुभ्य एनम् तत् समाहरन्ति ।
अग्र आयाहि वीतये अग्निम् दूतम् वृणीमहे अग्निना अग्निः समिध्यते अग्निर् वृत्राणि जङ्घनद् अग्नेः स्तोमम् मनामहे अग्ना यो मर्त्यो दुव इत्य् एताम् ऋचाम् प्रतीकानि विभक्तयः ।
ता वै षड् भवन्ति ।
षड् वा ऋतवः ।
ऋतुभ्य एव एनम् तत् पुनर् समाहरति ।
यथा यथम् उत्तमौ प्रयाज अनुयाजौ यजति ।
तथा ह अस्य प्रयाज अनुयाजेभ्यो अनितम् (?) भवति ।
वार्त्रघ्नः पूर्व आज्य भागः पाप्मन एव वधाय ।
अथो ह अस्य पौर्णमासात् तन्त्राद् अनितम् भवति ।
अग्निम् स्तोमेन बोधय इत्य् अग्नये बुद्धिमते पूर्वम् कुर्याद् इति ह एक आहुः ।
स्वपिति इव वा एतस्य अग्निर् यो अग्मिम् उद्वासयते ।
तद् एव एनम् तत् पुनः प्रबोधयति इति ।
वार्त्रघ्नस् त्व् एव स्थितः ।
अग्न आयूंषि पवस इत्य् उत्तरस्य पुरोनुवाक्या ।
पवस इत् तत् सौम्यम् रूपम् ।
केवल आग्नेयो हि यज्ञ क्रतुः ।
तद् यत् पवमानस्य कीर्तयति ।
तथा ह अस्य सौम्याद् आज्य भागाद् अनितम् भवति ।
पद पङ्क्तयो याज्या पुरोनुवाक्याः ।
पञ्च पदा पङ्क्तिः ।
पाङ्क्तो वै यजो यज्ञस्य एव आप्त्यै ।

१.५ विभक्तयः अदितिभागश्च
व्यतिषक्ता भवन्ति ।
व्यतिषक्ता इव वा इमे प्राणा आत्मानम् भुञ्जन्ति इति ।
सा सर्वा एव ससामिधेनीक उपांशु भवत्य् आपूर्वाभ्याम् अनुयाजाभ्याम् ।
आ ह्य् अतो विभक्तयो अनुप्रोता भवन्ति ।
अथो सर्वे वै कामा विभक्तिषु ।
तस्माद् उपांशु भवन्ति ।
सर्वेषाम् एव कामानाम् आप्त्यै ।
उच्चैस् त्व् एव उत्तमेन अनुयाजेन यजति ।
उच्चैः सूक्त वाक शम्यु वाक आवाह ।
तद् यथा विदम् इत्य् आविर् नष्टम् कुर्यात् ।
एवम् तद् आविः कामान् करोत्य् आपम् इति ।
त्रयम् ह एक उपांशु कुर्वन्ति विभक्तीर् उत्तरम् आज्य भागम् हविर् इति ।
एतावद्द् ह्य् आगन्तु भवति इति ।
सा वा उपांशु निरुक्ता भवति ।
द्वयम् वा अग्ने रूपम् निरुक्तम् च अनिरुक्तम् च ।
तद् एव अस्य तेन आप्नोति ।
सर्व आग्नेयम् ह एके कुर्वन्ति ।
न तथा कुर्यात् ।
तस्यै पुनर् उत्स्यूतो जरत् संव्याहः पुनः संस्कृतः कद्रथो अनड्वान् हिरण्यम् वा दक्षिणा ।
पुनः कर्म ह्य् एतत् ।
आदित्या द्वितीया ।
प्रतिष्ठा वा अदितिः ।
प्रतिष्ठित्या एव प्रतिष्ठित्या एव ।