कौशिकसूत्रम्/अध्यायः १४

विकिस्रोतः तः

137

यथावितानं यज्ञवास्त्वध्यवसेत् १
वेदिर्यज्ञस्याग्नेरुत्तरवेदिः २
उभे प्रागायते किंचित्प्रथीयस्यौ पश्चादुद्यततरे ३
अपृथुसंमितां वेदिं विदध्यात् ४
षट्शमीं प्रागायतां चतुःशमीं श्रोण्याम् ५
त्रीन्मध्ये अर्धचतुर्थानग्रतः ६
त्रयाणां पुरस्तादुत्तरवेदिं विदध्यात् ७
द्विःशमीं प्रागायतामृज्वीमध्यर्धशमीं श्रोण्याम् ८
ग्रीष्मस्ते भूम इत्युपस्थाय ९
वि मिमीष्व पयस्वतीमिति मिमानमनुमन्त्रयते १०
बृहस्पते परि गृहाण वेदिं सुगा वो देवाः सदनानि सन्तु । अस्यां बर्हिः प्रथतां साध्वन्तरहिंस्रा णः पृथिवी देव्यस्त्विति परिगृह्णाति ११
यत्ते भूम इति विखनति १२
यत्त ऊनमिति संवपति १३
त्वमस्यावपनी जनानामिति ततः पांसूनन्यतोदाहार्य १४
बृहस्पते परि गृहाण वेदिमित्युत्तरवेदिमोप्यमानां परिगृह्णाति १५
असंबाधं बध्यतो मानवानाभिति प्रथयति १६
यस्याश्चतस्रः प्रदिशः पृथिव्या इति चतुरस्रां करोति १७
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामा दद इति लेखनमादाय यत्राग्निं निधास्यन्भवति तत्र लक्षणं करोति १८
इन्द्रः सीतां नि गृह्णात्विति दक्षिणत आरभ्योत्तरत आलिखति १९
प्राचीमावृत्य दक्षिणतः प्राचीम् २०
अपरास्तिस्रो मध्ये २१
तस्यां व्रीहियवावोप्य २२
वर्षेण भूमिः पृथिवी वृतावृतेत्यद्भिः संप्रोक्ष्य २३
यस्यामन्नं व्रीहियवाविति भूमिं नमस्कृत्य २४
अथाग्निं प्रणयेत्
त्वामग्ने भृगवो नयन्तामङ्गिरसः सदनं श्रेय एहि
विश्वकर्मा पुर एतु प्रजानन्धिष्ण्यं पन्थामनु ते दिशामेति २५
भद्रश्रेयःस्वस्त्या वा २६
अग्ने प्रेहीति वा २७
विश्वंभरा वसुधानी प्रति
ष्ठेति लक्षणे प्रतिष्ठाप्य २८
अथेध्ममुपसमादधाति २९
अग्निर्भूम्यामोषधीष्वग्निर्दिव आ तपत्यग्निवासाः पृथिव्यसितजूरेतमिध्मं समाहितं जुषाणोऽस्मै क्षत्राणि धारयन्तमग्न इति पञ्चभि स्तरणम् ३०
अत ऊर्ध्वं बर्हिषः ३१
त्वं भूमिमत्येष्योजसेति दर्भान्संप्रोक्ष्य ३२
ऋषीणां प्रस्तरोऽसीति दक्षिणतोऽग्नेर्ब्रह्मासनं निदधाति ३३
पुरस्तादग्नेरुदक्संस्तृणाति ३४
तथा प्रत्यक् ३५
प्रदक्षिणं बर्हिषां मूलानि च्छादयन्तोत्तरस्या वेदिश्रोणेः पूर्वोत्तरतः संस्थाप्य ३६
अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतर इति ब्रह्मासनमन्वीक्षते ३७
निरस्तः पराग्वसुः सह पाप्मना निरस्तः सोऽस्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति दक्षिणा तृणं निरस्यति ३८
तदन्वालभ्य जपतीदमहमर्वाग्वसोः सदने सीदाम्यृतस्य सदने सीदामि सत्यस्य सदने सीदामीष्टस्य सदने सीदामि पूर्तस्य सदने सीदामि मामृषदेव बर्हिः स्वासस्थं त्वाध्यासदेयमूर्णम्रदमनभिशोकम् ३९
विमृग्वरीमित्युपविश्यासनीयं ब्रह्मजपं जपति बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्यते बृहस्पते यज्ञं गोपाय यदुदुद्वत उन्निवतः शकेयम् ४०
पातं मा द्यावापृथिवी अघान्न इति द्यावापृथिव्यौ समीक्षते ४१
सविता प्रसवानामिति कर्मणिकर्मण्यभितोऽभ्यातानैराज्यं जुहुयात् ४२
व्याख्यातं सर्वपाकयज्ञियं तन्त्रम् ४३

१३७

138

अष्टकायामष्टकाहोमाञ्जुहुयात् १
तस्या हवींषि धानाः करम्भः शष्कुल्यः पुरोडाश उदौदनः क्षीरौदनस्तिलौदनो यथोपपादिपशुः २
सर्वेषां हविषां समुद्धृत्य ३
दर्व्या जुहुयात्प्रथमा ह व्युवास सेति पञ्चभिः ४
आयमागन्संवत्सर इति चतसृभिर्विज्ञायते ५
ऋतुभ्यस्त्वेति विग्राहमष्टौ ६
इन्द्रपुत्र इत्यष्टादशीम् ७
अहोरात्राभ्यामित्यूनविंशीम् ८
पशावुपपद्यमाने दक्षिणं बाहुं निर्लोमं सचर्मं सखुरं प्रक्षाल्य ९
इडायास्पदमिति द्वाभ्यां विंशीम् १०
अनुपपद्यमान आज्यं जुहुयात् ११
हविषां दर्विं पूरयित्वा पूर्णा दर्व इति सदर्वीमेकविंशीम् १२
एकविंशतिसंस्थो यज्ञो विज्ञायते १३
सर्वा एव यज्ञतनूरवरून्द्धे सर्वा एवास्य यज्ञतनूः पितरमुपजीवन्ति य एवमष्टकामुपैति १४
न दर्विहोमे न हस्तहोमे न पूर्णहोमे तन्त्रं क्रियेतेत्येके १५
अष्टकायां क्रियेतेतीषुफालिमाठरौ १६

१३८

139

अभिजिति शिष्यानुपनीय श्वो भूते संभारान्संभरति १
दधिसक्तून्पालाशं दण्डमहते वसने शुद्धमाज्यं शान्ता ओषधीर्नवमुदकुम्भम् २
बाह्यतः शान्तवृक्षस्येध्मं प्राञ्चमुपसमाधाय ३
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य ४
नित्यान्पुरस्ताद्धोमान्हुत्वाज्यभागौ च ५
पश्चादग्नेर्दधिसक्तूञ्जुहोत्यग्नये ब्रह्मप्रजापतिभ्यां भृग्वङ्गिरोभ्य उशनसे काव्याय ६
ततोऽभयैरपराजितैर्गणकर्मभिर्विश्वकर्मभिरायुष्यैः स्वस्त्ययनैराज्यं जुहुयात् ७
मा नो देवा अहिर्वधीदरसस्य शर्कोटस्येन्द्रस्य प्रथमो रथो यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा नमस्ते अस्तु विद्युत आरेऽसावस्मदस्तु यस्ते पृथु स्तनयित्नुरिति संस्थाप्य होमान् ८
प्रतिष्ठाप्य स्रुवं दधिसक्तून्प्राश्याचम्योदकमुपसमारभन्ते ९
अव्यचसश्चेति जपित्वा सावित्रीं ब्रह्म जज्ञानमित्येकां त्रिषप्तीयं च पच्छो वाचयेत् १०
शेषमनुवाकस्य जपन्ति ११
योयो भोगः कर्तव्यो भवति तंतं कुर्वते १२
स खल्वेतं पक्षमपक्षीयमाणः पक्षमनधीयान उपश्राम्येता दर्शात् १३
दृष्टे चन्द्रमसि फल्गुनीषु द्वयान्रसानुपसादयति १४
विश्वे देवा अहं रुद्रेभिः सिंहे व्याघ्रे यशो हविर्यशसं मेन्द्रो गिरावरागराटेषु यथा सोमः प्रातःसवने यच्च वर्चो अक्षेषु येन महानघ्न्या जघनं स्वाहेत्यग्नौ हुत्वा १५
रसेषु संपातानानीय संस्थाप्य होमान् १६
तत एतान्प्राशयति रसान्मधुघृताञ्छिष्यान् १७
योयो भोगः कर्तव्यो भवति तंतं कुर्वते १८
नान्यत आगताञ्छिष्यान्परिगृह्णीयात्परसंदीक्षितत्वात् १९
त्रिरात्रोनांश्चतुरो मासाञ्छिष्येभ्यः प्रब्रूयादर्धपञ्चमान्वा २०
पादं पूर्वरात्रेऽधीयानः पादमपररात्रे मध्यरात्रे स्वपन् २१
अभुक्त्वा पूर्वरात्रेऽधीयान इत्येके २२
यथाशक्त्यपररात्रे दुष्परिमाणो ह पादः २३
पौष्यस्यापरपक्षे त्रिरात्रं नाधीयीत २४
तृतीयस्याः प्रातः समासं संदिश्य यस्मात्कोशादित्यन्तः २५
यस्मात्कोशादुदभराम वेदं तस्मिन्नन्तरव दध्म एनम्
अधीतमिष्टं ब्रह्मणो वीर्येण तेन मा देवास्तपसावतेहेति २६
योयो भोगः कर्तव्यो भवति तंतं कुर्वते २७
ये परिमोक्षं कामयन्ते ते परिमुच्यन्ते २८

१३९

140

अथ राज्ञामिन्द्रमहस्योपाचारकल्पं व्याख्यास्यामः १
प्रोष्ठपदे शुल्कपक्षेऽश्वयुजे वाष्टम्यां प्रवेशः २
श्रवणेनोत्थापनम् ३
सम्भृतेषु मंभारेषु ब्रह्मा राजा चोभौ स्नातावहतवसनौ सुरभिणौ व्रतवन्तौ कर्मण्यावुपवसतः ४
श्वो भूते शं नो देव्याः पादैरर्धर्चाभ्यामृचा षट्कृत्वोदकमाचामतः ५
अर्वाञ्चमिन्द्रं त्रातारमिन्द्रः सुत्रामेत्याज्यं हुत्वा ६
अथेन्द्रमुत्थापयन्ति ७
आ त्वाहार्षं ध्रुवा द्यौर्विशस्त्वा सर्वा वाञ्छन्त्विति सर्वतोऽप्रमत्ता धारयेरन् ८
अद्भुतं हि विमानोत्थितमुपतिष्ठन्ते ९
अभिभूर्यज्ञ इत्येतैस्त्रिभिः सूक्तैरन्वारब्धे राजनि पूर्णहोमं जुहुयात् १०
अथ पशूनामुपाचारम् ११
इन्द्रदेवताः स्युः १२
ये राज्ञो भृत्याः स्युः सर्वे दीक्षिता ब्रह्मचारिणः स्युः १३
इन्द्रं चोपसद्य यजेरंस्त्रिरात्रं पञ्चरात्रं वा १४
त्रिरयनमह्नामुपतिष्ठन्ते हविषा च यजन्ते १५
आवृत इन्द्रमहमिति १६
इन्द्र क्षत्रमिति हविषो हुत्वा ब्राह्मणान्परिचरेयुः १७
न संस्थितहोमाञ्जुहुयादित्याहुराचार्याः १८
इन्द्रस्यावभृथादिन्द्रमवभृथाय व्रजन्ति १९
अपां सूक्तैराप्लुत्य प्रदक्षिणमावृत्याप उपस्पृश्यानवेक्षमाणाः प्रत्युदाव्रजन्ति २०
ब्राह्मणान्भक्तेनोपेप्सन्ति २१
श्वःश्वोऽस्य राष्ट्रं ज्यायो भवत्येकोऽस्यां पृथिव्यां राजा भवति न पुरा जरसः प्रमीयते य एवं वेद यश्चैवं
विद्वानिन्द्रमहेण चरति २२

१४०

141

अथ वेदस्याध्ययनविधिं वक्ष्यामः १
श्रावण्यां प्रौष्ठपद्यां वोपाकृत्यार्धपञ्चमान्मासानधीयीरन् २
एवं छन्दांसि ३
लोम्नां चानिवर्तनम् ४
अर्धमासं चोपाकृत्य क्षपेरंस्त्र्यहमुत्सृज्य
आरम्भः श्रावण्यामुक्तः पौष्यामुत्सर्ग उच्यते ५
अथानध्यायान्वक्ष्यामः ६
ब्रह्मज्येषु निवर्तते ७
श्राद्धे ८
सूतकोत्थानच्छर्दनेषु त्रिषु चरणम् ९
आचार्यास्तमिते वा येषां च मानुषी योनिः १०
यथाश्राद्धं तथैव तेषु ११
सर्वं च श्राद्धिकं द्रव्यमदसाहव्यपेतं प्रतिगृह्यानध्यायः १२
प्राणि चाप्राणि च १३
दन्तधावने १४
क्षुरसंस्पर्शे १५
प्रादुष्कृतेष्वग्निषु १६
विद्युतार्धरात्रे स्तनिते १७
सप्तकृत्वो वर्षेण विरत आप्रातराशम् १८
वृष्टे १९
निर्घाते २०
भूमिचलने २१
ज्योतिषोपसर्जन ऋतावप्याकालम् २२
विषमे न प्रवृत्तिः २३
अथ प्रमाणं वक्ष्यामः समानं विद्युदुल्कयोः
मार्गशीर्षपौषमाघापरपक्षेषु तिस्रोऽष्टकाः २४
अमावास्यायां च २५
त्रीणि चानध्यानि २६
जनने मरणे चैव दशरात्रो विधीयते
आचार्ये दशरात्रं स्यात्सर्वेषु च स्वयोनिषु २७
सूतके त्वेको नाधीयीत त्रिरात्रमुपाध्यायं वर्जयेत् २८
आचार्यपुत्रभार्याश्च २९
अथ शिष्यं सहाध्यायिनमप्रधानगुरुं चोपसन्नमहोरात्रं वर्जयेत् ३०
तथा सब्रह्मचारिणं राजानं च ३१
अपर्तुदैवमाकालम् ३२
अविशेषर्तुकालेन सर्वे निर्घातादयः स्मृताः
यच्चान्यद्दैवमद्भुतं सर्वं निर्घातवद्भवेत् ३३
ऋतावध्यायश्छान्दसः काल्प्य आपर्तुकः स्मृतः
ऋतावूर्ध्वं प्रातराशाद्यस्तु कश्चिदनध्यायः
संध्यां प्राप्नोति पश्चिमाम् ३४
सर्वेण प्रदोषो लुप्यते ३५
निशि निगदायां च विद्युति शिष्टं नाधीयीत ३६
अस्तमिते द्विसत्तायां त्रिसत्तायां च पाटवः
अथ तावत्कालं भुक्त्वा पदोष उभे संध्ये ३७
अप्सु श्मशाने शय्यायामभिशस्ते खिलेषु च
अन्तःशवे रथ्यायां ग्रामे चाण्डालसंयुते ३८
दुर्गन्धे शूद्रसंश्रावे पैङ्गे शब्दे भये रुते
वैधृत्ये नगरेषु च ३९
अनिक्तेन च वाससा चरितं येन मैथुनम्
शयानः प्रौढपादो चाग्रतोपस्थान्तिके गुरोः ४०
विरम्य मारुते शीघ्रे प्रत्यारम्भो विभाषितः
सर्वेणापररात्रेण विरम्य प्रत्यारम्भो न विद्यते ४१
पौषी प्रमाणमभ्रेष्वापर्तु चेदधीयानाम् ४२
वर्षं विद्युत्स्तनयित्नुर्वा विपद्यते ४३
त्रिरात्रं स्थानासनं ब्रह्मचर्यमरसाशं चोपेयुः ४४
सा तत्र प्रायश्चित्तिः सा
तत्र प्रायश्चित्तिः ४५

१४१

इत्यथर्ववेदे कौशिकसूत्रे चतुर्दशोऽध्यायः समाप्तः
इति कौशिकसूत्रं समाप्तम्


(१४,१[१३७].१) यथावितानं यज्ञवास्तु_अध्यवसेत्

(१४,१[१३७].२) वेदिर्यज्ञस्याग्नेरुत्तरवेदिः

(१४,१[१३७].३) उभे प्रागायते किंचिद्प्रथीयस्यौ पश्चादुद्यततरे

(१४,१[१३७].४) अपृथुसंमितां वेदिं विदध्यात्

(१४,१[१३७].५) षट्शमीं प्रागायतां चतुःशमीं श्रोण्याम्

(१४,१[१३७].६) त्रीन्मध्ये अर्धचतुर्थानग्रतः

(१४,१[१३७].७) त्रयाणां पुरस्तादुत्तरवेदिं विदध्यात्

(१४,१[१३७].८) द्विःशमीं प्रागायतामृज्वीमध्यर्धशमीं श्रोण्याम्

(१४,१[१३७].९) <ग्रीष्मस्ते भूमे [१२.१.३६]>_इत्युपस्थाय

(१४,१[१३७].१०) <वि मिमीष्व पयस्वतीं [१३.१.२७]>_इति मिमानमनुमन्त्रयते

(१४,१[१३७].११) <बृहस्पते परि गृहाण वेदिं सुगा वो देवाः सदनानि सन्तु । अस्यां बर्हिः प्रथतां साध्वन्तरहिंस्रा णः पृथिवी देव्यस्तु [कात्या.श्रौ.सू.२.२.१२]>_इति परिगृह्णाति

(१४,१[१३७].१२) <यत्ते भूमे [१२.१.३५]>_इति विखनति

(१४,१[१३७].१३) <यत्ते ऊनं [१२.१.६१ ]>_इति संवपति

(१४,१[१३७].१४) <त्वमस्यावपनी जनानाम् [१२.१.६१]> इति ततह्पांसूनन्यतोदाहार्य [उदाहार्य]

(१४,१[१३७].१५) <बृहस्पते परि गृहाण वेदिं [कात्या.श्रौ.सू.२.२.१२, सेए कौ.सू.१३७.११]>_इति उत्तरवेदिमोप्यमानाण्परिगृह्णाति

(१४,१[१३७].१६) <असंबाधं मध्यतो [एद्. बध्यतो] मानवानां [१२.१.२]>_इति प्रथयति

(१४,१[१३७].१७) <यस्याश्चतस्रः प्रदिशः पृथिव्या [१२.१.४]> इति चतुरस्रां करोति

(१४,१[१३७].१८) <देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामा ददे [दृष्टव्यम्‌ १९.५१.२ इत्यादि]>_इति लेखनमादाय यत्राग्निं निधास्यन् भवति तत्र लक्षणं करोति

(१४,१[१३७].१९) <इन्द्रः सीतां नि गृह्णातु [३.१७.४]>_इति दक्षिणत आरभ्य_उत्तर आलिखति

(१४,१[१३७].२०) प्राचीमावृत्य दक्षिणतः प्राचीम्

(१४,१[१३७].२१) अपरास्तिस्रो मध्ये

(१४,१[१३७].२२) तस्यां व्रीहियवौ_ओप्य

(१४,१[१३७].२३) <वर्षेण भूमिः पृथिवी वृतावृता [१२.१.५२ ]>_इत्यद्भिः संप्रोक्ष्य

(१४,१[१३७].२४) <यस्यामन्नं व्रीहियवौ [१२.१.४२]>_इति भूमिं नमस्कृत्य

(१४,१[१३७].२५) अथाग्निं प्रणयेत् । <त्वामग्ने भृगवो नयन्तामङ्गिरसः सदनं श्रेय एहि । विश्वकर्मा पुर एतु प्रजानन् धिष्ण्यं पन्थामनु ते दिशाम []>_इति

(१४,१[१३७].२६) भद्रश्रेयःस्वस्त्या वा

(१४,१[१३७].२७) <अग्ने प्रेहि [४.१४.५]>_इति वा

(१४,१[१३७].२८) <विश्वंभरा वसुधानी प्रतिष्ठा [१२.१.६]>_इति लक्षणे प्रतिष्ठाप्य

(१४,१[१३७].२९) अथ_इध्ममुपसमादधाति

(१४,१[१३७].३०) <अग्निर्भूम्यामोषधीष्व्[१२.१.१९]> <अग्निर्दिव आ तपत्य्[१२.१.२०]> <अग्निवासाः पृथिव्यसितज्ञूर्[चोर्र्. Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४ एद्. असितजूर्] [१२.१.२१]> <एतमिध्मं समाहितं जुषाणो [१०.६.३५]>_<अस्मै क्षत्राणि धारयन्तमग्ने [७.७८.२]>_इति पञ्चभि स्तरणम्

(१४,१[१३७].३१) अत ऊर्ध्वं बर्हिषः

(१४,१[१३७].३२) <त्वं भूमिमत्येष्योजसा [पै.सं.११.१३.३, सेए कौ.सू.२.१]>_इति दर्भान् संप्रोक्ष्य

(१४,१[१३७].३३) <ऋषीणां प्रस्तरोऽसि [१६.२.६]>_इति दक्षिणतो_अग्नेर्ब्रह्मासनं निदधाति

(१४,१[१३७].३४) पुरस्तादग्नेरुदक्संस्तृणाति

(१४,१[१३७].३५) तथा प्रत्यक्

(१४,१[१३७].३६) प्रदक्षिणं बर्हिषां मूलानि छादयन्तोत्तरस्या [उत्तरस्या] वेदिश्रोणेः पूर्वोत्तरतः संस्थाप्य

(१४,१[१३७].३७) <अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतरः [तै.सं.३.२.४.४, Vऐत्ष्१.२०]>_इति ब्रह्मासनमन्वीक्षते

(१४,१[१३७].३८) <निरस्तः पराग्वसुः सह पाप्मना निरस्तः सोऽस्तु योऽस्मान् द्वेष्टि यं च वयं द्विष्मः [गोभि.गृ.सू.१.६.१४, शत.ब्रा. १.५.१.२३ इत्यादि]>_इति दक्षिणा तृणं निरस्यति (दृष्टव्यम्‌ कौ.सू.३.५ f.)

(१४,१[१३७].३९) तदन्वालभ्य जपति_<इदमहमर्वाग्वसोः सदने सीदामि_[गो.ब्रा. २.१.१, शत.ब्रा. १.५.१.२४]_ऋतस्य सदने सीदामि सत्यस्य सदने सीदामि_[१.२.२ इत्यादि]_इष्टस्य सदने सीदामि पूर्तस्य सदने सीदामि [] मामृषदेव बर्हिः स्वासस्थं त्वाध्यासदेयमूर्णम्रदमनभिशोकम् [दृष्टव्यम्‌ आश्व.श्रौ.सू..१.४.७]>

(१४,१[१३७].४०) <विमृग्वरीं [१२.१.२९]>_इत्युपविश्यासनीयं ब्रह्मजपं जपति <बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्यते [थुस्Bलोओम्fइएल्द्] [आश्व.श्रौ.सू..१.१२.९]> <बृहस्पते यज्ञं गोपाय [आश्व.श्रौ.सू..१.१२.९, तै.ब्रा. ३.७.६.३]> <यदुदुद्वत उन्निवतः शकेयम् [तै.सं.३.२.४.४]>

(१४,१[१३७].४१) <पातं मा द्यावापृथिवी अद्याह्न [एम्. Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४ एद्. अघान्न] []> इति द्यावापृथिव्यौ समीक्षते

(१४,१[१३७].४२) <सविता प्रसवानाम् [५.२४.१]> इति कर्मणिकर्मणि_अभितो_अभ्यातानैराज्यं जुहुयात्

(१४,१[१३७].४३) व्याख्यातं सर्वपाकयज्ञियं तन्त्रम्


(१४,२[१३८].१) अष्टकायामष्टकाहोमाञ्जुहुयात्

(१४,२[१३८].२) तस्या हवींषि धानाः करम्भः शष्कुल्यः पुरोडाश उदौदनः क्षिरौदनस्तिलौदनो यथोपपादिपशुः

(१४,२[१३८].३) सर्वेषां हविषां समुद्धृत्य

(१४,२[१३८].४) दर्व्या जुहुयात्<प्रथमा ह व्युवास सा [३.१०.१]>_इति पञ्चभिः

(१४,२[१३८].५) <आयमागन् संवत्सर [३.१०.८]>_इति चतसृभिर्विज्ञायते

(१४,२[१३८].६) <ऋतुभ्यस्त्वा [३.१०.१०]>_इति विग्राहमष्टौ

(१४,२[१३८].७) <इन्द्रपुत्रे [३.१०.१३]> इत्यष्टादशीम्

(१४,२[१३८].८) <अहोरात्राभ्यां [६.१२८.३]>_इत्यूनविंशीम्

(१४,२[१३८].९) पशौ_उपपद्यमाने दक्षिणं बाहुं निर्लोमं सचर्मं सखुरं प्रक्षाल्य

(१४,२[१३८].१०) <इडायास्पदं [३.१०.६]>_इति द्वाभ्यां विंशीम्

(१४,२[१३८].११) अनुपद्यमान आज्यं जुहुयात्

(१४,२[१३८].१२) हविषां दर्विं पूरयित्वा <पूर्णा दर्वे [३.१०.७ ]>_इति सदर्वीमेकविंशीम्

(१४,२[१३८].१३) एकविंशतिसंस्थो यज्ञो विज्ञायते [दृष्टव्यम्‌ गो.ब्रा. १.१.१२]

(१४,२[१३८].१४) सर्वा एव यज्ञतनूरवरुन्द्धे सर्वा एवास्य यज्ञतनूः पितरमुपजीवन्ति य एवमष्टकामुपैति

(१४,२[१३८].१५) न दर्विहोमे न हस्तहोमे न पूर्णहोमे तन्त्रं क्रियेत_इत्येके

(१४,२[१३८].१६) अष्टकायां क्रियेत_इतीषुफालिमाठरौ


(१४,३[१३९].१) अभिजिति शिष्यानुपनीय श्वो भूते संभारान् संभरति

(१४,३[१३९].२) दधिसक्तून् पालाशं दण्डमहते वसने शुद्धमाज्यं शान्ता ओषधीर्नवमुदकुम्भम्

(१४,३[१३९].३) बाह्यतः शान्तवृक्षस्य_इध्मं प्राञ्चमुपसमाधाय

(१४,३[१३९].४) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य

(१४,३[१३९].५) नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च

(१४,३[१३९].६) पश्चादग्नेर्दधिसक्तूञ्जुहोति_अग्नये ब्रह्मप्रजापतिभ्यां भृग्वङ्गिरोभ्य उशनसे काव्याय

(१४,३[१३९].७) ततो_अभयैरपराजितैर्गणकर्मभिर्विश्वकर्मभिरायुष्यैः स्वस्त्ययनैराज्यं जुहुयात्

(१४,३[१३९].८) <मा नो देवा अहिर्वधीत्[६.५६.१]>_<अरसस्य शर्कोटस्य [७.५६.५]>_<इन्द्रस्य प्रथमो रथो [१०.४.१]> <यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा [१२.१.४६]> <नमस्ते अस्तु विद्युते [१.१३.१]>_<आरेऽसावमदस्तु [१.२६.१]> <यस्ते पृथु स्तनयित्नुर्[७.११.१]> इति संस्थाप्य होमान्

(१४,३[१३९].९) प्रतिष्ठाप्य स्रुवं दधिसक्तून् प्राश्याचम्य_उदकमुपसमारभन्ते

(१४,३[१३९].१०) <अव्यचसश्च [१९.६८.१]>_इति जपित्वा सावित्रीं <ब्रह्म जज्ञानं [४.१.१]>_इत्येकां त्रिषप्तीयं च पच्छो वाचयेत्

(१४,३[१३९].११) शेषमनुवाकस्य जपन्ति

(१४,३[१३९].१२) योयो भोगः कर्तव्यो भवति तंतं कुर्वते

(१४,३[१३९].१३) स खलु_एतं पक्षमपक्षीयमाणः पक्षमधीयान उपश्राम्येता दर्शात्

(१४,३[१३९].१४) दृष्टे चन्द्रमसि फल्गुनीषु द्वयान् रसानुपसादयति

(१४,३[१३९].१५) <विश्वे देवा [१.३०.१]> <अहं रुद्रेभिर्[४.३०.१]>_<सिंहे व्याघ्रे [६.३८.१]> <यशो हविर्[६.३९.१]> <यशसं मेन्द्रो [६.५८.१]> <गिरावरगराटेषु (एद्. अरागराटेषु) [६.६९.१]> <यथा सोमः प्रातःसवने [९.१.११]> <यच्च वर्चो अक्षेषु [१४.१.३५]> <येन महानघ्न्या जघनम् [१४.१.३६]>_स्वाहा_इत्यग्नौ हुत्वा

(१४,३[१३९].१६) रसेषु संपातानानीय संस्थाप्य होमान्

(१४,३[१३९].१७) तत एतान् प्राशयति रसान्मधु घृतान्_शिष्यान्

(१४,३[१३९].१८) योयो भोगः कर्तव्यो भवति तटं कुर्वते

(१४,३[१३९].१९) नान्यत आगतान्_शिष्यान् परिगृह्णीयात्परसंदीक्षितत्वात्

(१४,३[१३९].२०) त्रिरात्रोनान्_चतुरो मासान्_शिष्येभ्यः प्रब्रूयादर्धपञ्चमान् वा

(१४,३[१३९].२१) पादं पूर्वरात्रे_अधीयानः पादमपररात्रे मध्यरात्रे स्वपन्

(१४,३[१३९].२२) अभुक्त्वा पूर्वरात्रे_अधीयान इत्येके

(१४,३[१३९].२३) यथाशक्त्यपररात्रे दुष्परिमाणो ह पादः

(१४,३[१३९].२४) पौषस्यापरपक्षे त्रिरात्रं नाधीयीत

(१४,३[१३९].२५) तृतीयस्याः प्रातः समासं संदिश्य <यस्मात्कोशाद्[१९.७२.१, पै.सं.१९.३५.३]> इत्यन्तः

(१४,३[१३९].२६) <यस्मात्कोशादुदभराम वेदं तस्मिन्नन्तरव दध्म एनम् । अधीतम् [सिच्!] इष्टं ब्रह्मणो वीर्येण तेन मा देवास्तपसावतेह [१९.७२.१ (बुत्नोते सकलपाठ) = पै.सं.१९.३५.३]>_इति

(१४,३[१३९].२७) योयो भोगः कर्तव्यो भवति तंतं कुर्वते

(१४,३[१३९].२८) ये परिमोक्षं कामयन्ते ते परिमुच्यन्ते


(१४,४[१४०].१) अथ राज्ञामिन्द्रमहस्य_उपाचारकल्पं व्याख्यास्यामः

(१४,४[१४०].२) प्रोष्ठपदे शुक्लपक्षे_अश्वयुजे वाष्टम्यां प्रवेशः

(१४,४[१४०].३) श्रवणेन_उत्थापनम्

(१४,४[१४०].४) संभृतेषु संभारेषु ब्रह्मा राजा च_उभौ स्नातौ_अहतवसनौ सुरभिणौ व्रतवन्तौ कर्मण्यौ_उपवसतः

(१४,४[१४०].५) श्वो भूते शं नो देव्याः पादैरर्धर्चाभ्यामृचा षट्कृत्वा_उदकमाचामतः

(१४,४[१४०].६) <अर्वाञ्चमिन्द्रम् [५.३.११]>_<त्रातारम् [७.८६.१]> <इन्द्रः सुत्रामा [७.९१.१]>_इत्याज्यं हुत्वा

(१४,४[१४०].७) अथ_इन्द्रमुत्थापयन्ति

(१४,४[१४०].८) <आ त्वाहार्षम् [६.८७.१]>_<ध्रुवा द्यौर्[६.८८.१]> <विशस्त्वा सर्वा वाञ्छन्तु [६.८७.१ ]>_इति सर्वतो_अप्रमत्ता धारयेरन्

(१४,४[१४०].९) अद्भुतं हि विमानोत्थितमुपतिष्ठन्ते

(१४,४[१४०].१०) <अभिभूर्यज्ञो [६.९७.१]>_इत्येतैस्त्रिभिः सूक्तैरन्वारब्धे राजनि पूर्णहोमं जुहुयात्

(१४,४[१४०].११) अथ पशूनामुपाचारम्

(१४,४[१४०].१२) इन्द्रदेवताः स्युः

(१४,४[१४०].१३) ये राज्ञो भृत्याः स्युः सर्वे दीक्षिता ब्रह्मचारिणः स्युः

(१४,४[१४०].१४) इन्द्रं च_उपसद्य यजेरन्_त्रिरात्रं पञ्चरात्रं वा

(१४,४[१४०].१५) त्रिरयनमह्नामुपतिष्ठन्ते हविषा च यजन्ते

(१४,४[१४०].१६) आवृत <इन्द्रमहं [३.१५.१]>_इति

(१४,४[१४०].१७) <इन्द्र क्षत्रम् [७.८४.२]> इति हविषो हुत्वा ब्राह्मणान् परिचरेयुः

(१४,४[१४०].१८) न संस्थितहोमाञ्जुहुयादित्याहुराचार्याः

(१४,४[१४०].१९) इन्द्रस्यावभृथादिन्द्रमवभृथाय व्रजन्ति

(१४,४[१४०].२०) अपां सूक्तैराप्लुत्य प्रदक्षिणमावृत्याप उपस्पृश्यानवेक्षमाणाः प्रत्युदाव्रजन्ति

(१४,४[१४०].२१) ब्राह्मणान् भक्तेन_उपेप्सन्ति

(१४,४[१४०].२२) श्वःश्वो_अस्य राष्ट्रं ज्यायो भवति_एको_अस्यां पृथिव्यां राजा भवति न पुरा जरसः प्रमीयते य एवण्वेद यश्च_एवं विद्वानिन्द्रमहेण चरति


(१४,५[१४१].१) अथ वेदस्याध्ययनविधिं वक्ष्यामः

(१४,५[१४१].२) श्रावण्यां प्रौष्ठपद्यां वा_उपाकृत्यार्धपञ्चमान्मासानधीयीरन्

(१४,५[१४१].३) एवं छन्दांसि

(१४,५[१४१].४) लोम्नां चानिवर्तनम्

(१४,५[१४१].५) <अर्धमासं चोपाकृत्य क्षपेरंस्त्र्यहमुत्सृज्य । आरम्भः श्रावण्यामुक्तः पौष्यामुत्सर्ग उच्यते []>

(१४,५[१४१].६) अथानध्यायान् वक्ष्यामः

(१४,५[१४१].७) ब्रह्मज्येषु निवर्तते

(१४,५[१४१].८) श्राद्धे

(१४,५[१४१].९) सूतकोत्थानछर्दनेषु त्रिषु चरणम्

(१४,५[१४१].१०) आचार्यास्तमिते वा येषां च मानुषी योनिः

(१४,५[१४१].११) यथाश्राद्धं तथा_एव तेषु

(१४,५[१४१].१२) सर्वं च श्राद्धिकं द्रव्यमदसाहव्यपेतं प्रतिगृह्यानध्यायः

(१४,५[१४१].१३) प्राणि चाप्राणि च

(१४,५[१४१].१४) दन्तधावने

(१४,५[१४१].१५) क्षुरसंस्पर्शे

(१४,५[१४१].१६) प्रादुष्कृतेषु_अग्निषु

(१४,५[१४१].१७) विद्युतार्धरात्रे स्तनिते

(१४,५[१४१].१८) सप्तकृत्वो वर्षेण विरत आ प्रातराशम्

(१४,५[१४१].१९) वृष्टे

(१४,५[१४१].२०) निर्घाते

(१४,५[१४१].२१) भूमिचलने

(१४,५[१४१].२२) ज्योतिषा_उपसर्जन ऋतौ_अपि_आ कालम्

(१४,५[१४१].२३) विषमे न प्रवृत्तिः

(१४,५[१४१].२४) अथ प्रमाणं वक्ष्यामः समानं विद्युदुल्कयोः । मार्गशीर्षपौषमाघापरपक्षेषु तिस्रो_अष्टकाः

(१४,५[१४१].२५) अमावास्यायां च

(१४,५[१४१].२६) त्रीणि चानध्यानि

(१४,५[१४१].२७) <जनने मरणे चैव दशरात्रो विधीयते । आचार्ये दशरात्रं स्यात्सर्वेषु च स्वयोनिषु []>

(१४,५[१४१].२८) सूतके तु_एको नाधीयीत त्रिरात्रमुपाध्यायं वर्जयेत्

(१४,५[१४१].२९) आचार्यपुत्रभार्याश्च

(१४,५[१४१].३०) अथ शिष्यं सहाध्यायिनमप्रधानगुरुं च_उपसन्नमहोरात्रं वर्जयेत्

(१४,५[१४१].३१) तथा सब्रह्मचारिणं राजानं च

(१४,५[१४१].३२) अपर्तुदैवमा कालम्

(१४,५[१४१].३३) <अविशेषर्तुकालेन सर्वे निर्घातादयः स्मृताः । यच्चान्यद्दैवमद्भुतं सर्वं निर्घातवद्भवेत्[]>

(१४,५[१४१].३४) <ऋतावध्यायश्छान्दसः काल्प्य आपर्तुकः स्मृतः । ऋतावूर्ध्वं प्रातराशाद्यस्तु कश्चिदनध्यायः । संध्यां प्राप्नोति पश्चिमाम् []>

(१४,५[१४१].३५) सर्वेण प्रदोषो लुप्यते

(१४,५[१४१].३६) निशि निगदायां च विद्युति शिष्टं नाधीयीत

(१४,५[१४१].३७) <अस्तमिते द्विसत्तायां त्रिसत्तायां च पाटवः । अथ तावत्कालं भुक्त्वा प्रदोष [चोर्र्. Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४ एद्. पदोष] उभे संध्ये []>

(१४,५[१४१].३८) <अप्सु श्मशाने शय्यायामभिशस्ते खिलेषु च । अन्तःशवे रथ्यायां ग्रामे चाण्डालसंयुते []>

(१४,५[१४१].३९) <दुर्गन्धे शूद्रसंश्रावे पैङ्गे शब्दे भये रुते । वैधृत्ये नगरेषु च []>

(१४,५[१४१].४०) <अनिक्तेन च वाससा चरितं येन मैथुनम् । शयानः प्रौढपादो चाग्रतोपस्थान्तिके गुरोः []>

(१४,५[१४१].४१) <विरम्य मारुते शीघ्रे प्रत्यारम्भो विभाषितः । सर्वेणापररात्रेण विरम्य प्रत्यारम्भो न विद्युते []>

(१४,५[१४१].४२) पौषी प्रमाणमभ्रेषु_आपर्तु चेदधीयानाम्

(१४,५[१४१].४३) वर्षं विद्युत्स्तनयित्नुर्वा विपद्यते

(१४,५[१४१].४४) त्रिरात्रं स्थानासनं ब्रह्मचर्यमरसाशं च_उपयेयुः

(१४,५[१४१].४५) सा तत्र प्रायश्चित्तिः सा तत्र प्रायश्चित्तिः


(कौ.सू.१४ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे चतुर्दशोऽध्यायः समाप्तः


(कौ.सू.ড়ोस्त्Cओलोफोन्) इति कौशिकसूत्रं समाप्तम्