कौशिकसूत्रम्/अध्यायः १२
90
मधुपर्कमाहारयिष्यन्दर्भानाहारयति १
अथ विष्टरान्कारयति २
स खल्वेकशाखमेव प्रथमं पाद्यं द्विशाखमासनं त्रिशाखं मधुपर्काय ३
स यावतो मन्येत तावत उपादाय विविच्य संपर्याप्य मूलानि च प्रान्तानि च यथाविस्तीर्ण इव स्यादित्युपोत्कृष्य मध्यदेशेऽभिसंनह्यति ४
ऋतेन त्वा सत्येन त्वा तपसा त्वा कर्मणा त्वेति संनह्यति ५
अथ ह सृजत्यतिसृष्टो द्वेष्टा योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ६
अस्य च दातुरिति दातारमीक्षते ७
अथोदकमाहारयति पाद्यं भो इति ८
हिरण्यवर्णाभिः प्रतिमन्त्र्य दक्षिणं पादं प्रथमं प्रकर्षति । मयि ब्रह्म च तपश्च धारयाणीति ९
दक्षिणे प्रक्षालिते सव्यं प्रकर्षति । मयि क्षत्रं च विशश्च धारयाणीति १०
प्रक्षालितावनुमन्त्रयते । इमौ पादाववनिक्तौ ब्राह्मणं यशसावताम् । आपः पादावनेजनीर्द्विषन्तं निर्दहन्तु मे ११
अस्य च दातुरिति दातारमीक्षते १२
अथासनमाहारयति । सविष्टरमासनं भो इति १३
तस्मिन्प्रत्यङ्मुख उपविशति १४
विमृग्वरीं पृथिवीमित्येतया विष्टरे पादौ प्रतिष्ठाप्याधिष्ठितो द्वेष्टा योऽस्मान्द्वेष्टि यं च वयं द्विप्मः १५
अस्य च दातुरिति दातारमीक्षते १६
अथोदकमाहारयत्यर्घ्यं भो इति १७
तत्प्रतिमन्त्रयते । अन्नानां मुखमसि मुखमहं श्रेष्ठः समानानां भूयासम् । आपोऽमतं स्थामृतं मा कृणुत दासास्माकं बहवो भवन्त्वश्वावङ्गोमन्मय्यस्तु पुष्टमॐ भूर्भुवः स्वर्जनदोमिति १८
तूष्णीमध्यात्मं निनयति १९
तेजोऽस्यमृतमसीति ललाटमालभते २०
अथोदकमाहारयत्याचमनीयं भो इति २१
जीवाभिराचम्य २२
अथास्मै मधुपर्कं वेदयन्ते द्व्यनुचरो मधुपर्को भो इति २३
द्वाभ्यां शाखाभ्यामधस्तादेकयोपरिष्टात्सापिधानम् २४
मधु वाता ऋतायत इत्येताभिरेवाभिमन्त्रणम् २५
तथा प्रतिमन्त्रणम् २६
१
९०
91
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः
माध्वीर्गावो भवन्तु नः
मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः
माध्वीर्नः सन्त्वोषधीः
मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः
मधु द्यौरस्तु नः पिता १
तत्सूर्यस्य त्वा चक्षुषा प्रतीक्ष इति प्रतीक्षते २
अयुतोऽहं देवस्य त्वा स
वितुरिति प्रतिगृह्य पुरोमुखं प्राग्दण्डं निदधाति ३
पृथिव्यास्त्वा नाभौ सादयाम्यदित्या उपस्थ इति भूमौ प्रतिष्ठाप्य ४
द्वाभ्यामङ्गुलिभ्यां प्रदक्षिणमाचाल्यानामिकयाङ्गुल्याङ्गुष्ठेन च संगृह्य प्राश्नाति ५
ॐ भूस्तत्सवितुर्वरेण्यं भूः स्वाहेति प्रथमम् ६
भर्गो देवस्य धीमहि भुवः स्वाहेति द्वितीयम् ७
धियो यो नः प्रचोदयात्स्वः स्वाहेति तृतीयम् ८
वयं देवस्य धीमहि जनत्स्वाहेति चतुर्थम् ९
तुरं देवस्य भोजनं वृधत्स्वाहेति पञ्चनम् १०
करत्स्वाहेति षष्ठम् ११
रुहत्स्वाहेति सप्तमम् १२
महत्स्वाहेत्यष्टमम् १३
तत्स्वाहेति नवमम् १४
शं स्वाहेति दशमम् १५
ओमित्येकादशम् १६
तूष्णीं द्वादशम् १७
तस्य भूयोमात्रमिव भुक्ता ब्राह्यणाय श्रोत्रियाय प्रयछेत् १८
श्रोत्रियालाभे वृषलाय प्रयच्छेत् १९
अथाप्ययं निगमो भवति । सोममेतत्पिबत यत्किं चाश्नीत ब्राह्मणाः । माब्राह्मणायोच्छिष्टं दात मा सोमं
पात्वसोमप इति २०
२
९१
92
दधि च मधु च ब्राह्मो मधुपर्कः १
पायस ऐन्द्रो मधुपर्कः २
मधु चाज्यं च सौम्यो मधुपर्कः ३
मन्थश्चाज्यं च पौष्णो मधुपर्कः ४
क्षीरं चाज्यं च सारस्वतो मधुपर्कः ५
सुरा चाज्यं च मौसलो मधुपर्कः ६
स खल्वेष द्वये भवति सौत्रामण्यां च राजसूये च ७
उदकं चाज्यं च वारुणो मधुपर्कः ८
तैलं चाज्यं च श्रावणो मधुपर्कः ९
तैलश्च पिण्डश्च पारिव्राजको मधुपर्कः १०
इति खल्वेष नवविधो मधुपर्को भवति ११
अथास्मै गां वेदयन्ते गौर्भो इति १२
तान्प्रतिमन्त्रयते । भूतमसि भवदस्यन्नं प्राणो बहुर्भव । ज्येष्ठं यन्नाम
नामत ॐ भूर्भुवः स्वर्जनदोमिति १३
अतिसृजति
मातादित्यानां दुहिता वसूनां स्वसा रुद्राणाममृतस्य नाभिः
प्र णो वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट
ॐ तृणानि गौरत्त्वित्याह १४
सूयवसादिति प्रतिष्ठमानामनुमन्त्रयते १५
नालोहितो मधुपर्को भवति १६
नानुज्ञानमधीमह इति कुरुतेत्येव ब्रूयात् १७
स्वधिते मैनं हिंसीरिति शस्त्रं प्रयच्छति १८
पाप्मानं मेऽप जहीति कर्तारमनुमन्त्रयते १९
आग्नेयीं वपां कुर्युः २०
अपि वा ब्राह्मण एव प्राश्नीयात्तद्देवतं हि तद्धविर्भवति २१
अथास्मै स्नानमनुलेपनं मालाभ्यञ्जनमिति २२
यदत्रोपसमाहार्यं भवति तदुपसमाहृत्य २३
अथोपासकाः प्राप्योपासकाः स्मो भो इति वेदयन्ते २४
तान्प्रतिमन्त्रयते । भूयांसो भूयास्म ये च नो भूयसः कार्ष्टापि च नोऽन्ये भूयांसो जायन्ताम् २५
अस्य च दातुरिति दातारमोक्षते २६
अथान्नाहाराः प्राप्यान्नाहाराः स्मो भो इति त्वेदयन्ते २७
तान्प्रतिमन्त्रयते । अन्नादा भूयास्म ये च नोऽन्नादान्कार्ष्टापि च नोऽन्येऽन्नादा भूयांसो जायन्ताम् २८
अस्य च दातुरिति दातारमीक्षते २९
आहृतेऽन्ने जुहोति यत्काम का
मयमाना इत्येतया ३०
यत्काम कामयमाना इदं कृण्मसि ते हविः
तन्नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहेति ३१
एष आचार्यकल्प एष ऋत्विक्कल्प एष संयुक्तकल्प एष विवाहकल्प एषोऽतिथिकल्प एषोऽतिथिकल्पः ३२
३
९२
इत्यथर्ववेदे कौशिकसूत्रे द्वादशोऽध्यायः समाप्तः
(१२,१[९०].१) मधुपर्कमाहारयिष्यन् दर्भानाहारयति
(१२,१[९०].२) अथ विष्टरान् कारयति
(१२,१[९०].३) स खलु_एकशाखमेव प्रथमं पाद्यं द्विशाखमासनं त्रिशाखं मधुपर्काय
(१२,१[९०].४) स यावतो मन्येत तावत उपादाय विविच्य संपर्याप्य मूलानि च प्रान्तानि च यथाविस्तीर्ण इव स्यादित्युपोत्कृष्य मध्यदेशे_अभिसंनह्यति
(१२,१[९०].५) <ऋतेन त्वा सत्येन त्वा तपसा त्वा कर्मणा त्वा>_इति संनह्यति
(१२,१[९०].६) अथ ह सृजति_<अतिसृष्टो द्वेष्टा योऽस्मान् द्वेष्टि यं च वयं द्विष्मः>
(१२,१[९०].७) अस्य च दातुरिति दातारमीक्षते
(१२,१[९०].८) अथ_उदकमाहारयति पाद्यं भो इति
(१२,१[९०].९) हिरण्यवर्णाभिः प्रतिमन्त्र्य दक्षिणं पादं प्रथमं प्रकर्षति । मयि ब्रह्म च तपश्च धारयाणीति
(१२,१[९०].१०) दक्षिणे प्रक्षालिते सव्यं प्रकर्षति । मयि क्षत्रं च विशस्च धारयाणीति
(१२,१[९०].११) प्रक्षालितौ_अनुमन्त्रयते । <इमौ पादाववनिक्तौ ब्राह्मणं यशसावताम् । आपः पादावनेजनीर्द्विषन्तं निर्दहन्तु मे [, दृष्टव्यम् ऐतरेयब्राह्मण ८.२७]>
(१२,१[९०].१२) अस्य च दातुरिति दातारमीक्षते
(१२,१[९०].१३) अथासनमाहारयति । सविष्टरमासनं भो इति
(१२,१[९०].१४) तस्मिन् प्रत्यङ्मुख उपविशति
(१२,१[९०].१५) <विमृग्वरीं पृथिवीम् [१२.१.२९]> इत्येतया विष्टरे पादौ प्रतिष्ठाप्य_<अधिष्ठितो द्वेष्टा योऽस्मान् द्वेष्टि यं च वयं द्विष्मः>
(१२,१[९०].१६) अस्य च दातुरिति दातारमीक्षते
(१२,१[९०].१७) अथ_उदकमाहारयति_अर्घ्यं भो इति
(१२,१[९०].१८) तत्प्रतिमन्त्रयते । <अन्नानां मुखमसि मुखमहं श्रेष्ठः समानानां भूयासम् । आपोऽमृतं स्थामृतं मा कृणुत दासास्माकं बहवो भवन्त्यश्वावद्गोमन्मय्यस्तु पुष्टों (एद्. पुष्टमों॑ दृष्टव्यम् Cअलन्द्, Kल्. ष्छ्र्., प्. ४५, न्. १) भूर्भुवः स्वर्जनदोम्> इति
(१२,१[९०].१९) तूष्णीमध्यात्मं निनयति
(१२,१[९०].२०) <तेजोऽस्यमृतमसि>_इति ललाटमालभते
(१२,१[९०].२१) अथ_उदकमाहारयति_आचमनीयं भो इति
(१२,१[९०].२२) जीवाभिराचम्य
(१२,१[९०].२३) अथास्मै मधुपर्कं वेदयन्ते द्व्यनुचरो मधुपर्को भो इति
(१२,१[९०].२४) द्वाभ्यां शाखाभ्यामधस्तादेकया_उपरिष्टाद्सापिधानम्
(१२,१[९०].२५) <मधु वाता ऋतायते [पै.सं.१९.४५.५]>_इत्येताभिरेवाभिमन्त्रणम्
(१२,१[९०].२६) तथा प्रतिमन्त्रणम्
(१२,२[९१].१) <मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्गावो भवन्तु नः ॥ मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः । माध्वीर्नः सन्त्वोषधीः ॥ मधुमान्नो वनस्पतिर्मधुमा॑मस्तु सूर्यः । मधु द्यौरस्तु नः पिता ॥ [पै.सं.१९.४५.५७]>
(१२,२[९१].२) तत्<सूर्यस्य त्वा चक्षुषा प्रतीक्षे [पै.सं.२०.५७.११, Vऐत्ष्३.८, गो.ब्रा. २.१.२, इत्यादि]> इति प्रतीक्षते
(१२,२[९१].३) <अयुतोऽहम् [१९.५१.१]> <देवस्य त्वा सवितुः [१९.५१.२]>_इति प्रतिगृह्य पुरोमुखं प्राग्दण्डं निदधाति
(१२,२[९१].४) <पृथिव्यास्त्वा नाभौ सादयाम्यदित्या उपस्थे [Vऐत्ष्३.१०, इत्यादि]>_इति भूमौ प्रतिष्ठाप्य
(१२,२[९१].५) द्वाभ्यामङ्गुलिभ्यां प्रदक्षिणमाचाल्यानामिकयाङ्गुल्याङ्गुष्ठेन च संगृह्य प्राश्नाति
(१२,२[९१].६) <ओं भूस्तत्सवितुर्वरेण्यं भूः स्वाहा [.ऋ.वे. ३.६२.१० ए.अ.]>_इति प्रथमम्
(१२,२[९१].७) <भर्गो देवस्य धीमहि भुवः स्वाहा [.ऋ.वे. ३.६२.१० ए.अ.]>_इति द्वितीयम्
(१२,२[९१].८) <धियो यो नः प्रचोदयात्स्वः स्वाहा [.ऋ.वे. ३.६२.१० ए.अ.]>_इति तृतीयम्
(१२,२[९१].९) <वयं देवस्य धीमहि जनत्स्वाहा [.ऋ.वे. ३.६२.१० ए.अ.]>_इति चतुर्थम्
(१२,२[९१].१०) <तुरं देवस्य भोजनं वृधत्स्वाहा [, दृष्टव्यम् .ऋ.वे. ५.८२.१]>_इति पञ्चमम्
(१२,२[९१].११) <करत्स्वाहा>_इति षष्ठम्
(१२,२[९१].१२) <रुहत्स्वाहा>_इति सप्तमम्
(१२,२[९१].१३) <महत्स्वाहा>_इत्यष्टमम्
(१२,२[९१].१४) <तत्स्वाहा>_इति नवमम्
(१२,२[९१].१५) <शं स्वाहा>_इति दशमम्
(१२,२[९१].१६) <ओम्> इति एकादशम्
(१२,२[९१].१७) तूष्णीं द्वादशम्
(१२,२[९१].१८) तस्य भूयोमात्रमिव भुक्त्वा ब्राह्मणाय श्रोत्रियाय प्रयछेत्
(१२,२[९१].१९) श्रोत्रियालाभे वृषलाय प्रयछेत्
(१२,२[९१].२०) अथाप्ययं निगमो भवति । <सोममेतत्पिबति यत्किं चाश्नीत ब्राह्मणाः । माब्राह्मणायोच्छिष्टं +दात्[एम्. Fअल्क्, म्.च्.॑ एद्.।ॢआट्य्॑ष्ष्दात] मा सोमं पात्वसोमपः [दृष्टव्यम् ळाट्य्॑ष्ष्२.१२.१७]>_इति
(१२,३[९२].१) दधि च मधु ब्राह्मो मधुपर्कः
(१२,३[९२].२) पायस ऐन्द्रो मधुपर्कः
(१२,३[९२].३) मधु चाज्यं च सौम्यो मधुपर्कः
(१२,३[९२].४) मन्थश्चाज्यं च पौष्णो मधुपर्कः
(१२,३[९२].५) क्षीरं चाज्यं च सारस्वतो मधुपर्कः
(१२,३[९२].६) सुरा चाज्यं च मौसलो मधुपर्कः
(१२,३[९२].७) स खलु_एष द्वये भवति सौत्रामण्यां च राजसूये च
(१२,३[९२].८) उदकं चाज्यं च वारुणो मधुपर्कः
(१२,३[९२].९) तैलं चाज्यं च श्रावणो मधुपर्कः
(१२,३[९२].१०) तैलश्च पिण्डश्च पारिव्राजको मधुपर्कः
(१२,३[९२].११) इति खलु_एष नवविधो मधुपर्को भवति
(१२,३[९२].१२) अथास्मै गां वेदयन्ते गौर्भो इति
(१२,३[९२].१३) तान् प्रतिमन्त्रयते । <भूतमसि भवदस्यन्नं प्राणो बहुर्भव । ज्येष्ठं यन्नाम नामत ओं भूर्भुवः स्वर्जनदोम् []> इति
(१२,३[९२].१४) अतिसृजति । <मातादित्यानां दुहिता वसूनां स्वसा रुद्राणाममृतस्य नाभिः । प्र णो वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥ [दृष्टव्यम् .ऋ.वे. ८.१०१.१५]> ओं तृणानि गौरत्त्विति आह
(१२,३[९२].१५) <सूयवसाद्[७.७३.११]> इति प्रतिष्ठमानामनुमन्त्रयते
(१२,३[९२].१६) नालोहितो मधुपर्को भवति
(१२,३[९२].१७) नानुज्ञानमधीमहे_इति कुरुत_इत्येव ब्रूयात्
(१२,३[९२].१८) <स्वधिते मैनं हिंसीः [वा.सं. ६.१५, ंन्B १.६.६]>_इति शस्त्रं प्रयछति
(१२,३[९२].१९) पाप्मानं मेऽप जहीति कर्तारमनुमन्त्रयते
(१२,३[९२].२०) आग्नेयीं वपां कुर्युः
(१२,३[९२].२१) अपि वा ब्राह्मण एव प्राश्नीयात्तद्देवतं हि तद्धविर्भवति
(१२,३[९२].२२) अथास्मै स्नानमनुलेपनं मालाभ्यञ्जनमिति
(१२,३[९२].२३) यदत्र_उपसमाहार्यं भवति तदुपसमाहृत्य
(१२,३[९२].२४) अथ_उपासकाः प्राय_उपासकाः स्मो भो इति वेदयन्ते
(१२,३[९२].२५) तान् प्रतिमन्त्रयते । <भूयांसो भूयास्म ये च नो भूयसः कार्ष्टापि च नोऽन्ये भूयांसो जायन्ताम्>
(१२,३[९२].२६) अस्य च दातुरिति दातारमीक्षते
(१२,३[९२].२७) अथान्नाहाराः प्राप्यान्नाहाराः स्मो भो इति वेदयन्ते
(१२,३[९२].२८) तान् प्रतिमन्त्रयते । <अन्नादा भूयास्म ये च नोऽनादान् कार्ष्टापि च नोऽन्येऽन्नादा भूयांसो जायन्ताम्>
(१२,३[९२].२९) अस्य च दातुरिति दातारमीक्षते
(१२,३[९२].३०) आहृते_अन्ने जुहोति <यत्काम कामयमाना [१९.५२.१, सकल fओल्लोwस्थुस्पै.सं.१.३०.५]> इत्येतया
(१२,३[९२].३१) <यत्काम कामयमाना इदं कृण्मसि ते हविः । तन्नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहा [१९.५२.१, सकल थुस्पै.सं.१.३०.५]>_इति
(१२,३[९२].३२) एष आचार्यकल्प एष ऋत्विक्कल्प एष संयुक्तकल्प एष विवाहकल्प एषो_अतिथिकल्प एषोऽतिथिकल्पः
(कौ.सू.१२ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे द्वादशोऽध्यायः समाप्तः