कौशिकसूत्रम्/अध्यायः ११

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

80
अथ पितृमेधं व्याख्यास्यामः १
दहननिधानदेशे परिवृक्षाणि निधानकाल इति ब्राह्मणोक्तम् २
दुर्बलीभवन्तं शालातृणेषु दर्भानास्तीर्य स्योनास्मै भवेत्यवरोहयति ३
मन्त्रोक्तावनुमन्त्रयते ४
यत्ते कृष्ण इत्यवदीपयति ५
आहिताग्नौ प्रेते संभारान्संभरति ६
आज्यं च पृषदाज्यं चाजं च गां च ७
वसनं पञ्चमम् ८
हिरण्यं षष्ठम् ९
शरीरं नान्वालभते १०
अन्यं चेष्टन्तमनुमन्त्रयते ११
शान्त्युदकं करोत्यसकलं चातनानां चान्वावपते १२
शान्त्युदकोदकेन केशश्मश्रुरोमनखानि संहारयन्ति १३
आप्लावयन्ति १४
अनुलिम्पन्ति १५
स्रजोऽभिहरन्ति १६
एवंस्नातमलंकृतमहतेनावाग्दशेन वसनेन प्रच्छादयत्येतत्ते देव एतत्त्वा वासः प्रथमं न्वागन्निति १७
अपेममित्यग्निषु जुहोति १८
उखाः कुर्वन्ति १९
ताः शकृदाभ्यन्तरं लिम्पन्ति शुष्केण वा पूरयन्ति २०
ताः पृथगग्निभिः संतापयन्त्या शकृदादीपनात् २१
तेषां हरणानुपूर्वमाहवनीयं प्रथमं ततो दक्षिणाग्निं ततो गार्हपत्यम् २२
अथ विदेशे प्रेतस्या रोहत जनित्रीं जातवेदस इति पृथगरणीष्वग्नीन्समारोपयन्ति २३
तेषु यथोक्तं करोति २४
अपि वान्यवत्साया वा संधिनीक्षीरेणैकशलाकेन वा मन्थेनाग्निहोत्रं जुहोत्या दहनात् २५
दर्शपूर्णमासयोः कृष्णकतण्डुलानां तस्या आज्येन नान्तं न बहिः २६
पलालानि बर्हिः २७
तिल्पिञ्ज्या इध्माः २८
ग्रहानाज्यभागौ पुरस्ताद्धोमसंस्थितहोमानुद्धृत्य २९
प्राणापानावरुद्ध्यै निधनाभिर्जुहुयात् ३०
अथोभयोरुत्तिष्ठेत्युत्थापयति ३१
प्र च्यवस्वेति त्रिः संहापयति यावत्कृत्वश्चोत्थापयति ३२
एवमेव कूदीं जघने निबध्य ३३
इमौ युनज्मीति गावौ युनक्ति पुरुषौ वा ३४
उत्तिष्ठ प्रेहि प्र च्यवस्वोदन्वतीत एतेऽग्नीषोमेदं पूर्वमिति हरिणीभिर्हरेयुरति द्रवेत्यष्टभिः ३५
इदं त इत्यग्निमग्रतः ३६
प्रजानत्यघ्न्य इति जघन्यं गामेधमग्निं परिणीय ३७
स्योनास्मै भवेत्युत्तरतोऽग्नेः शरीरं निदधाति ३८
अध्वर्यव इष्टिं निर्वपन्ति ३९
तस्यां यथादेवतं पुरस्ताद्धोमसंस्थितहोमानुद्धृत्य ४०
प्राणापानावरुद्ध्यै निधनाभिर्जुहुयात् ४१
अथोभयोरपेत ददामीति शान्त्युदकं कृत्वा संप्रोक्षणीभ्यां काम्पीलशाखया दहनं संप्रोक्ष्य ४२
उदीरतामित्युद्धृत्याभ्युक्ष्य लक्षणं कृत्वा पुनरभ्युक्ष्य प्राग्दक्षिणमेधश्चिन्वन्ति ४३
इयं नारीति पत्नीमुपसंवेशयति ४४
उदीर्ष्वेत्युत्थापयति ४५
यद्धिरण्यं बिभर्ति तद्दक्षिणे पाणावादायाज्येनाभिघार्य ज्येष्ठेन पुत्रेणादापयतीदं हिरण्यमिति ४६
स्वर्गं यत इति दक्षिणं हस्तं निर्मार्जयति ४७
दण्डं हस्तादिति मन्त्रोक्तं ब्राह्मणस्यादापयति ४८
धनुर्हस्तादिति क्षत्रियस्य ४९
अष्ट्रामिति वैश्यस्य ५०
इदं पितृभ्य इति दर्भानेधान्स्तृणाति ५१
तत्रैनमुत्तानमादधीतेजानश्चित्तमारुक्षदग्निमिति ५२
प्राच्यां त्वा दिशीति प्रतिदिशम् ५३
नेत्युपरिबभ्रवः ५४
अनुमन्त्रयते ५५
अथास्य सप्तसु प्राणेषु सप्त हिरण्यशकलान्यवास्यत्यमृतमस्यमृतत्वायामृतमस्मिन्धेहीति ५६

८०

81
अथाहिताग्नेर्दर्भेषु कृष्णाजिनमन्तर्लोमास्तीर्य १
तत्रैनमुत्तानमाधाय २
अथास्य यज्ञपात्राणि पृषदाज्येन पूरयित्वानुरूपं निदधति ३
दक्षिणे हस्ते जुहूम् ४
सव्य उपभृतम् ५
कण्ठे ध्रुवां मुखेऽग्निहोत्रहवणीं नासिकयोः स्रुवम् ६
तान्यनुमन्त्रयते जुहूर्दाधार द्व्यां ध्रुव आ रोहेति ७
ललाटे प्राशित्रहरणम् ८
इममग्ने चमसमिति शिरसीडाचमसम् ९
देवा यज्ञमित्युरसि पुरोडाशम् १०
दक्षिणे पार्श्वे स्फ्यं सव्य उपवेषम् ११
उदरे पात्रीम् १२
अष्ठीवतोरुलूखलमुसलम् १३
श्रोण्योः शकटम् १४
अन्तरेणोरू अन्यानि यज्ञपात्राणि १५
पादयोः शूर्पम् १६
अपो मृन्मयान्युपहरन्ति १७
अयस्मयानि निदधति १८
अमा पुत्रा च दृषत् १९
अथोभयोरपश्यं युवतिं प्रजानत्यघ्न्य इति जघन्यां गां प्रसव्यं परिणीयमानामनुमन्त्रयते २०
तां नैरृतेन जघनताघ्नन्त उपवेशयन्ति २१
तस्याः पृष्ठतो वृक्कावुद्धार्य पाण्योरस्यादधत्यति द्रव श्वानाविति २२
दक्षिणे दक्षिणं सव्ये सव्यम् २३
हृदये हृदयम् २४
अग्नेर्वर्मेति वपया सप्तछिद्रया मुखं प्रच्छादयन्ति २५
यथागात्रं गात्राणि २६
दक्षिणैर्दक्षिणानि सव्यैः सव्यानि २७
अनुबद्धशिरःपादेन गोशालां चर्मणावच्छाद्य २८
अजो भाग उत्त्वा वहन्त्विति दक्षिणतोऽजं बध्नाति २९
अस्माद्वै त्वमजायथा अयं त्वदधि जायतामसौ स्वाहेत्युरसि गृह्ये जुहोति ३०
तथाग्निषु जुहोत्यग्नये स्वाहा कामाय स्वाहा लोकाय स्वाहेति ३१
दक्षिणाग्नावित्येके ३२
मैनमग्ने वि दहः शं तप आ रभस्व प्रजानन्त इति कनिष्ठ आदीपयति ३३
आदीप्ते स्रुवेण यामान्होमाञ्जुहोति परेयिवांसं प्रवतो महीरिति ३४
यमो नो गातुं प्रथमो विवेदेति द्वे प्रथमे ३५
अङ्गिरसो नः पितरो नवग्वा इति संहिताः सप्त ३६
यो ममार प्रथमो मर्त्यानां ये नः पितुः पितरो ये पितामहा इत्येकादश ३७
अथ सारस्वताः ३८
सरस्वतीं देवयन्तो हवन्ते सरस्वतीं पितरो हवन्ते सरस्वति या सरथं ययाथ सरस्वति व्रतेषु त इदं ते हव्यं घृतवत्सरस्वतीन्द्रो मा मरुत्वानिति ३९
दक्षिणतोऽन्यस्मिन्ननुष्ठाता जुहोति ४०
सर्वैरुपतिष्ठन्ति त्रीणि प्रभृतिभिर्वा ४१
अपि वानुष्ठानीभिः ४२
एता अनुष्ठान्यः ४३
मैनमग्ने वि दह इतिप्रभृत्यव सृजेति वर्जयित्वा सहस्रनीथा इत्यातः ४४
आ रोहत जनित्रीं जातवेदस इति पञ्चदशभिराहिताग्निम् ४५
मित्रावरुणा परि मामधातामिति पाणी प्रक्षालयते ४६
वर्चसा मामित्याचामति ४७
विवस्वान्न इत्युत्तरतोऽन्यस्मिन्ननुष्ठाता जुहोति ४८

८१

82
यवीयःप्रथमानि कर्माणि प्राङ्मुखानां यज्ञोपवीतिनां दक्षिणावृताम् १
अथैषां सप्तसप्त शर्कराः पाणिष्वावपते २
तासामेकैकां सव्येनावाचीनहस्तेनावकिरन्तोऽनवेक्षमाणा व्रजन्ति ३
अपाघेनानुमन्त्रयते ४
सर्वेऽग्रतो ब्रह्मणो व्रजन्ति ५
मा प्र गामेति जपन्त उदकान्ते व्यपाद्ये जपन्ति ६
पश्चादवसिञ्चति ७
उदुत्तममिति ज्येष्ठः ८
पयस्वतीरिति ब्रह्मोक्ताः पिञ्जूलीरावपति ९
शान्त्युदकेनाचम्याभ्युक्ष्याश्वावतीमिति नदीं तारयते १०
नक्षत्रं दृष्ट्वोपतिष्ठते नक्षत्राणां मा संकाशश्च प्रतीकाशश्चावतामिति ११
शाम्याकीः समिध आधायाग्रतो ब्रह्मा जपति १२
यस्य त्रया गतमनुप्रयन्ति देवा मनुष्याः पशवश्व सर्वे । तं नो देवं मनो अधि ब्रवीतु सुनीतिर्नो नयतु द्विषते मा रधामेति शान्त्युदकेनाचम्याभ्युक्ष्य १३
निस्सालामिति शालानिवेशनं संप्रोक्ष्य १४
ऊर्जं बिभ्रदिति प्रपादयति १५
नदीमालम्भयति गामग्निमश्मानं च १६
यवोऽसि यवयास्मद्द्वेषो यवयारातिमिति यवान् १७
खल्वकास्येति खल्वान्खलकुलांश्च १८
व्यपाद्याभ्यां शाम्याकीराधापयति १९
तासां धूमं भक्षयन्ति २०
यद्यत्क्रव्याद्गृह्येद्यदि क्रव्यादा नान्तेऽपरेद्युः
दिवो नभः शुक्रं पयो दुहाना इषमूर्जं पिन्वमानाः
अपां योनिमपाध्वं स्वधा याश्चकृषे जीवंस्तास्ते सन्तु मधुश्चुत इत्यग्नौ स्थालीपाकं निपृणाति २१
आदहने चापि वान्यवत्सां दोहयित्वा तस्याः पृष्ठे जुहोति वैश्वानरे हविरिदं जुहोमीति २२
तस्याः पयसि २३
स्थालीपाक इत्येके २४
ये अग्नय इति पालाश्या दर्व्या मन्थमुपमथ्य काम्पीलीभ्यामुपमन्थनीभ्यां तृतीयस्यामस्थीन्यभिजुहोति २५
उप द्यां शं ते नीहार इति मन्त्रोक्तान्यवदाय २६
क्षीरत्सिक्तेन ब्राह्मणस्यावसिञ्चति मधूत्सिक्तेन क्षत्रियस्योदकेन वैश्यस्य २७
अव सृजेत्यनुमन्त्रयते २८
मा ते मनो यत्ते अङ्गमिति संचिनोति पच्छः २९
प्रथमं शीर्षकपालानि ३०
पश्चात्कलशे समोप्य सर्वसुरभिचूर्णैरवकीर्योत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः ३१
मा त्वा वृक्ष इति वृक्षमूले निदधाति ३२
स्योनास्मै भवेति भूमौ त्रिरात्रमरसाशिनः कर्माणि कुर्वते ३३
दशरात्र इत्येके ३४
यथाकुलधर्मं वा ३५
ऊर्ध्वं तृतीयस्या वैवस्वतं स्थालीपाकं श्रपयित्वा विवस्वान्न इति जुहोति ३६
युक्ताभ्यां तृतीयाम् ३७
आनुमतीं चतुर्थीम् ३८
शेषं शान्त्युदकेनोपसिच्याभिमन्त्र्य प्राशयति ३९
आ प्र च्यवेथामिति गावावुपयच्छति ४०
एयमगन्निति दशगवावरार्घ्या दक्षिणा ४१
द्वादशरात्रं कर्ता यमव्रतं चरेत् ४२
एकचैलस्त्रिचैलो वा ४३
हविष्यभक्षः ४४
सायंप्रातरुपस्पृशेत् ४५
ब्रह्मचारी व्रत्यधः शयीत ४६
स्वस्त्ययनानि प्रयुञ्जीत ४७

८२

83
पितॄन्निधास्यन्संभारान्संभरति १
एकादश चरूञ्चक्रकृतान्कारयति २
शतातृणसहस्रातृणौ च पाशीमूषं सिकताः शङ्खं शालूकं सर्वसुरभिशमीचूर्णकृतं शान्तवृक्षस्य नावं त्रिपादकम् ३
द्वे निःशीयमाने नीललोहिते सूत्रे सव्यरज्जुं शान्तवृक्षस्य चतुरः शङ्कूंश्चतुरः परिधीन्वारणं शामीलमौदुम्बरं पालाशं वृक्षस्य शान्तौषधीः ४
माघे निदध्यान्माघं भूदिति ५
शरदि निदध्याच्छाम्यत्वघमिति ६
निदाघे निदध्यान्निदह्यतामघमिति ७
अमावास्यायां निदध्यादमा हि पितरो भवन्ति ८
अथावसानम् ९
तद्यत्समं समूलमविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणम् १०
यत्राकण्टका वृक्षाश्चौषधयश्च ११
उन्नतं स्वर्गकामश्च १२
श्वोऽमावास्येति गां कारयते १३
तस्याः सव्यं चापघनं प्रपाकं च निधाय १४
भिक्षां कारयति १५
ग्रामे यामसारस्वतान्होमान्हुत्वा १६
संप्रोक्षणीभ्यां काम्पीलशाखया निवेशनमनुचर्य १७
प्राग्दक्षिणं शाखां प्रविध्य सीरेण कर्षयित्वा शाखाभिः परिवार्य १८
पुनर्देहीति वृक्षमूलादादत्ते १९
यत्ते कृष्ण इति भूमेर्वसने समोप्य सर्वसुरभिचूर्णैरवकीर्योत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः २०
अविदन्तो देशात्पांसून् २१
अपि वोदकान्ते वसनमास्तीर्यासाविति ह्वयेत् २२
तत्र यो जन्तुर्निपतेत्तमुत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः २३
अपि वा त्रीणि षष्टिशतानि पलाशत्सरूणाम् २४
ग्रामे दक्षिणोदग्द्वारं विमितं दर्भैरास्तारयति २५
उत्तरं जीवसंचरो दक्षिणं पितृसंचरः २६
अनस्तमित आ यातेत्यायापयति २७
आच्या जान्वित्युपवेशयति २८
सं विशन्त्विति संवेशयति २९
एतद्वः पितरः पात्रमिति त्रीण्युदकंसान्निनयति ३०
त्रीन्स्नातानुलिप्तान्ब्राह्मणान्मधुमन्थं पाययति ३१
ब्रह्मणे मधुपर्कमाहारयति ३२
गां वेदयन्ते ३३
कुरुतेत्याह ३४
तस्या दक्षिणमर्धं ब्राह्मणान्भोजयति सव्यं पितॄन् ३५

८३

84
वह वपां जातवेदः पितृभ्यो यत्रैतान्वेत्थ निहितान्पराके । मेदसः कुल्या उप तान्स्रवन्तु सत्या एषामाशिषः सन्तु कामाः स्वाहा स्वधेति वपायास्त्रिर्जुहोति १
इमं यमेति यमाय चतुर्थीम् २
एकविंशत्या यवैः कृशरं रन्धयति युतमन्यत्प्रपाकं च ३
सयवस्य जीवाः प्राश्नन्ति ४
अथेतरस्य पिण्डं निपृणाति ५
य ते मन्थमिति मन्त्रोक्तं विमिते निपृणाति ६
तदुद्गतोष्महर्तारो दासा भुञ्जते ७
वीणा वदन्त्वित्याह ८
महयत पितॄनिति रिक्तकुम्भं विमितमध्ये निधाय तं जरदुपानहाघ्नन्ति ९
कस्ये मृजाना इति त्रिः प्रसव्यं प्रकीर्णकेश्यः परियन्ति दक्षिणानूरूनाघ्नानाः १०
एवं मध्यरात्रेऽपररात्रे च ११
पुरा विवाहात्समांसः पिण्डपितृयज्ञः १२
उत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः १३
अथावसायेति पश्चात्पूर्वकृतेभ्यः पूर्वाणि पूर्वेभ्योऽपराणि यवीयसाम् १४
प्राग्दक्षिणां दिशमभ्युत्तरामपरां दिशमभितिष्ठन्ति १५
यथा चितिं तथा श्मशानं दक्षिणापरां दिशमभि प्रवणम् १६

८४

85
अथ मानानि १
दिष्टिकुदिष्टिवितस्तिनिमुष्ट्यरत्निपदप्रक्रमाः २
प्रादेशेन धनुषा चेमां मात्रां मिमीमह इति ३
सप्त दक्षिणतो मिमीते सप्तोत्तरतः पञ्च पुरस्तात्त्रीणि पश्चात् ४
नव दक्षिणतो मिमीते नवोत्तरतः सप्त पुरस्तात्पञ्च पश्चात् ५
एकादश दक्षिणतो मिमीत एकादशोत्तरतो नव पुरस्तात्सप्त पश्चात् ६
एकादशभिर्देवदर्शिनाम् ७
अयुग्ममानानि परिमण्डलानि चतुरस्राणि वा शौनकिनाम् ८
तथा हि दृश्यन्ते ९
यावान्पुरुष ऊर्ध्वबाहुस्तावानग्निश्चितः १०
सव्यानि दक्षिणाद्वाराण्ययुग्मशिलान्ययुग्मेष्टिकानि च ११
इमां मात्रां मिमीमह इति दक्षिणतः सव्यरज्जुं मीत्वा १२
वारयतामघमिति वारणं परिधिं परिदधाति शङ्कुं च निचृतति १३
पुरस्तान्मीत्वा शमेभ्योऽस्त्वघमिति शामीलं परिधिं परिदधाति शङ्कुं च निचृतति १४
उत्तरतो मीत्वा शाम्यत्वघमित्यौदुम्बरं परिधिं परिदधाति शङ्कुं च निचृतति १५
पश्चान्मीत्वा शान्तमघमिति पालाशं परिधिं परिदधाति शङ्कुं च निचृतति १६
अमासीत्यनुमन्त्रयते १७
अक्ष्णया लोहितसूत्रेन निबध्य १८
स्तुहि श्रुतमिति मध्ये गर्तं खात्वा पाशिसिकतोषोदुम्बरशङ्खशालूकसर्वसुरभिशमीचूर्णानि निवपति १९
निःशीयतामघमिति निःशीयमानमास्तृणाति २०
असंप्रत्यघम् २१
वि लुम्पतामघमिति परि चैलं दूर्शं विलुम्पति २२
उक्तो होमो दक्षिणत स्तरणं च २३
एतदा रोह ददामीति कनिष्ठो निवपति २४
एदं बर्हिरिति स्थितसूनुर्यथापरु संचिनोति २५
मा ते मनो यत्ते अङ्गमिन्द्रो मोदपूरित्यातोऽनुमन्त्रयते २६
धानाः सलिङ्गाभिरावपति २७

८५

86
इदं कसाम्ब्विति सजातानवेक्षयति १
ये च जीवा ये ते पूर्वे परागता इति सर्पिर्मधुभ्यां चरुं पूरयित्वा शीर्षदेशे निदधाति २
अपूपवानिति मन्त्रोक्तं दिक्ष्वष्टमदेशेषु निदधाति ३
मध्ये पचन्तम् ४
सहस्रधारं शतधारमित्यद्भिरभिविष्यन्द्य ५
पर्णो राजेति मध्यमपलाशैरभिनिदधाति ६
ऊर्जो भाग इत्यश्मभिः ७
उत्ते स्तभ्नामीति लोगान्यथापरु ८
निःशीयतामघमिति निःशीयमानेनावछाद्य दर्भैरवस्तीर्य ९
इदमिद्वा उ नोप सर्पासौ हा इति चिन्वन्ति १०
यथा यमायेति संश्रित्य ११
शृणात्वघमित्युपरिशिर स्तम्बमादधाति १२
प्रतिषिद्धमेकेषाम् १३
अकल्माषाणां काण्डानामष्टाङ्गुलीं तेजनीमन्तर्हितमघमिति ग्रामदेशादुच्छ्रयति १४
प्रसव्यं परिषिच्य कुम्भान्भिन्दन्ति १५
समेतेत्यपरस्यां श्मशानस्रक्त्यां ध्रुवनान्युपयच्छन्ते १६
पश्चादुत्तरतोऽग्नेर्वर्चसा मां विवस्वानिन्द्र क्रतुमित्यातः १७
समिन्धत इति पश्चात्संकसुकमुद्दीपयति १८
अस्मिन्वयं यद्रिप्रं सीसे मृड्ढ्वमित्यभ्यवनेजयति १९
कृष्णोर्णया पाणिपादान्निमृज्य २०
इमे जीवा उदीचीनैरिति मन्त्रोक्तम् २१
त्रिः सप्तेति कूद्या पदानि योपयित्वा श्मशानात् २२
मृत्योः पदमिति द्वितीयया नावः २३
परं मृत्यो इति प्राग्दक्षिणं कूदीं प्रविध्य २४
सप्त नदीरूपाणि कारयित्वोदकेन पूरयित्वा २५
आ रोहत सवितुर्नावमेतां सुत्रामाणं महीमू ष्विति सहिरण्यां सयवां नावमारोहयति २६
अश्मन्वती रीयत उत्तिष्ठता प्र तरता सखाय इत्युदीचस्तारयति २७
शर्कराद्या समिदाधानात् २८
वैवस्वतादि समानम् २९
प्राप्य गृहान्समानः पिण्डपितृयज्ञः ३०

८६

87
अथ पिण्डपितृयज्ञः १
अमावास्यायां सायं न्यह्नेऽहनि विज्ञायते २
मित्रावरुणा परि मामधातामिति पाणी प्रक्षालयते ३
वर्चसा मामित्याचामति ४
पुनः सव्येनाचमनादपसव्यं कृत्वा प्रैषकृतं समादिशति ५
उलूखलमुसलं शूर्पं चरुं कंसं प्रक्षालय बर्हिरुदकुम्भमा हरेति ६
यज्ञोपवीती दक्षिणपूर्वमन्तर्देशमभिमुखः शूर्प एकपवित्रान्तर्हितान्हविष्यान्निर्वपति ७
इदमग्नये कव्यवाहनाय स्वधा पितृभ्यः पृथिविषद्भ्य इतीदं सोमाय पितृमते स्वधा पितृभ्यः सोमवद्भ्यः पितृभ्यो वान्तरिक्षसद्भ्य इतीदं यमाय पितृमते स्वधा पितृभ्यश्च दिविषद्भ्य इति त्रीनवाचीनकाशीन्निर्वपति ८
उलूखल ओप्य त्रिरवहन्तीदं वः पितरो हविरिति ९
यथा हविस्तथा परिचरति १०
हविर्ह्येव पितृयज्ञः ११
प्रैषकृतं समादिशति चरुं प्रक्षालयाधिश्रयाप ओप्य तण्डुलानावपस्व नेक्षणेन योधयन्नास्व मा शिरो ग्रहीः १२
शिरोग्रहं परिचक्षते १३
बाह्येनोपनिष्क्रम्य यज्ञोपवीती दक्षिणपूर्वमन्तर्देशमभिमुख उदीरतामिति कर्षूं खनति प्रादेशमात्रीं तिर्यगङ्गुरिम् १४
अवागङ्गुरिं पर्वमात्रीमित्येके १५
अपहता असुरा रक्षांसि ये पितृषद इति प्राग्दक्षिणं पांसूनुदूहति १६
कर्षूं च पाणी च प्रक्षाल्यैतद्वः पितरः पात्रमिति कर्षूमुदकेन पूरयित्वा १७
अन्तरुपातीत्य मस्तुना नवनीतेन वा प्रतिनीय दक्षिणाञ्चमुद्वास्य १८
द्वे काष्ठे गृहीत्वोशन्त इत्यादीपयति १९
आदीप्तयोरेकं प्रतिनिदधाति २०
इहैवैधि धनसनिरित्येकं हृत्वा २१
पांसुष्वाधायोपसमादधाति ये निखाताः समिन्धते ये तातृषुर्ये सत्यास इति २२
संभारानुपसादयति २३
पर्युक्षणीं बर्हिरुदकुम्भं कंसं दर्विंमाज्यमायवनं चरुं वासांस्याञ्जनमभ्यञ्जनमिति २४
यदत्रोपसमाहार्यं भवति तदुपसमाहृत्य २५
अतो यज्ञोपवीती पित्र्युपवीती बर्हिर्गृहीत्वा विचृत्य संनहनं दक्षिणापरमष्टमदेशमभ्यवास्येत् २६
बर्हिरुदकेन संप्रोक्ष्य बर्हिषदः पितर उपहूता नः पितरोऽग्निष्वात्ताः पितरो ये नः पितुः पितरो येऽस्माकमिति प्रस्तृणाति २७
आयापनादीनि त्रीणि २८
उदीरतामिति तिसृभिरुदपात्राण्यन्वृचं निनयेत् २९
अतः पित्र्युपवीती यज्ञोपवीती ये दस्यव इत्युभयत आदीप्तमुल्मुकं त्रिः प्रसव्यं परिहृत्य निरस्यति ३०
पर्युक्ष्य ३१

८७

88
ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । त्वं तानग्ने अप सेध दूरान्सत्या नः पितॄणां सन्त्वाशिषः स्वाहा स्वधेति हुत्वा कुम्भीपाकमभिघारयति १
अग्नये कव्यवाहनायेति जुहोति २
यथानिरुप्तं द्वितीयाम् ३
यमाय पितृमते स्वधा पितृभ्य इति तृतीयाम् ४
यद्वो अग्निरिति सायवनांस्तण्डुलान् ५
सं बर्हिरिति सदर्भांस्तण्डुलान्पर्युक्ष्य ६
अतो यज्ञोपवीती पित्र्युपवीती दर्व्योद्धरति ७
द्यौर्दर्विरक्षितापरिमितानुपदस्ता सा यथा द्यौर्दर्विरक्षितापरिमितानुपदस्तैवा प्रततामहस्येयं दर्विरक्षितापरिमितानुपदस्ता ८
अन्तरिक्षं दर्विरक्षितापरिमितानुपदस्ता सा यथान्तरिक्षं दर्विरक्षितापरिमितानुपदस्तैवा ततामहस्येयं दर्विरक्षितापरिमितानुपदस्ता ९
पृथिवी दर्विरक्षितापरिमितानुपदस्ता सा यथा पृथिवी दर्विरक्षितापरिमितानुपदस्तैवा ततस्येयं दर्विरक्षितापरिमितानुपदस्तेति १०
उद्धृत्याज्येन संनीय त्रीन्पिण्डान्संहतान्निदधात्येतत्ते प्रततामहेति ११
दक्षिणतः पत्नीभ्य इदं वः पत्न्य इति १२
इदमाशंसूनामिदमाशंसमानानां स्त्रीणां पुंसां प्रकीर्णावशीर्णानां येषां वयं दातारो ये चास्माकमुपजीवन्ति । तेभ्यः सर्वेभ्यः सपत्नीकेभ्यः स्वधावदक्षय्यमस्त्विति त्रिः प्रसव्यं तण्डुलैः परिकिरति १३
पिञ्जूलीराञ्जनं सर्पिषि पर्यस्याद्ध्वं पितर इति न्यस्यति १४
वद्ध्वं पितरो मा वोऽतोऽन्यत्पितरो योयुवतेति सूत्राणि १५
अञ्जते व्यञ्जत इत्यभ्यञ्जनम् १६
आज्येनाविच्छिन्नं पिण्डानभिघारयति ये च जीवा ये ते पूर्वे परागता इति १७
अत्र पितरो मादयध्वं यथाभागं यथालोकमावृषायध्वमिति १८
अत्र पत्न्यो मादयध्वं यथाभागं यथालोकमावृषायध्वमिति १९
योऽसावन्तरग्निर्भवति तं प्रदक्षिणमवेक्ष्य तिस्रस्तामीस्ताम्यति २०
प्रतिपर्यावृत्यामीमदन्त पितरो यथाभागं यथालोकमावृषायिषतेति २१
अमीमदन्त पत्न्यो यथाभागं यथालोकमावृषायिषतेति २२
आपो अग्निमित्यद्भिरग्निमवसिच्य २३
पुत्रं पौत्रमभितर्पयन्तीरित्याचामत मम प्रततामहास्ततामहास्तताः सपत्नीकास्तृप्यन्त्वाचामन्त्विति प्रसव्यं परिषिच्य २४
वीरान्मे प्रततामहा दत्त वीरान्मे ततामहा दत्त वीरान्मे पितरो दत्त पितॄन्वीरान्याचति २५
नमो वः पितर इत्युपतिष्ठते २६
अक्षन्नित्युत्तरसिचमवधूय २७
परा यातेति परायापयति २८
अतः पित्र्युपवीती यज्ञोपवीती यन्न इदं पितृभिः सह मनोऽभूत्तदुपाह्वयामीति मन
उपाह्वयति २९

८८

89
मनो न्वा ह्वामहे नारशंसेन स्तोमेन
पितॄणां च मन्मभिः
आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे
ज्योक्च सूर्यं दृशे
पुनर्नः पितरो मनो ददातु दैव्यः जनः
जीवं व्रातं सचेमहि
वयं सोम व्रते तव मनस्तनूषु बिभ्रतः
प्रजावन्तः सचेमहि
ये सजाताः सुमनसो जीवा जीवेषु मामकाः
तेषां श्रीमयि कल्पतामस्मिन्गोष्ठे शतं समा इति १
यच्चरुस्थाल्यामोदनावशिष्टं भवति तस्योष्मभक्षं भक्षयित्वा ब्राह्मणाय दद्यात् २
यदि ब्राह्मणो न लभ्येताप्स्वभ्यवहरेत् ३
निजाय दासायेत्येके ४
मध्यमपिण्डं पत्न्यै पुत्रकामायै प्रयच्छति ५
आ धत्त पितरो गर्भं कुमारं पुष्करस्रजम्
यथेह पुरुषोऽसत्
आ त्वारुक्षद्वृषभः पृश्निरग्रियो मेधाविनं पितरो गभमा दधः
आ त्वायं पुरुषो गमेत्पुरुषः पुरुषादधि
स ते श्रैष्ठ्याय जायतां स सोमे साम गायत्विति ६
यद्यन्या द्वितीया भवत्यपरं तस्यै ७
प्राग्रतमं श्रोत्रियाय ८
अथ यस्य भार्या दासी वा प्रद्राविणी भवति येऽमी तण्डुलाः प्रसव्यं परिकीर्णा भवन्ति
तांस्तस्यै प्रयच्छति ९
अर्वाच्युपसंक्रमे मा पराच्युप वस्तथा
अन्नं प्रानस्य बन्धनं तेन बध्नामि त्वा मयीति १०
पर्युक्षणीं समिधश्चादाय मा प्र गामेत्याव्रज्योर्जं बिभ्रदिति गृहानुपतिष्ठते ११
रमध्वं मा बिभीतनास्मिन्गोष्ठे करीषिणः
ऊर्जं दुहानाः शुचयः शुचिव्रता गृहा जीवन्त उप वः सदेम
ऊर्जं मे देवा अददुरूर्जं मनुष्या उत
ऊर्जं पितृभ्य आहार्षमूर्जस्वन्तो गृहा मम
पयो मे देवा अददुः पयो मनुष्या उत
पयः पितृभ्य आहार्षं पयस्वन्तो गृहा मम
वीर्यं मे देवा अददुर्वीर्यं मनुष्या उत
वीर्यं पितृभ्य आहार्षं वीरवन्तो गृहा ममेति १२
अन्तरुपातीत्य समिधोऽभ्यादधाति
अयं नो अग्निरध्यक्षोऽयं नो वसुवित्तमः
अस्योपसद्ये मा रिषामायं रक्षतु नः प्रजाम्
अस्मिन्सहस्रं पुष्यास्मैधमानाः स्वे गृहे
इमं समिन्धिषीमह्यायुष्मन्तः सुवर्चसः
त्वमग्न ईडित आ त्वाग्न इधीमहीति १३
अभूहूत इत्यग्निं प्रत्यानयति १४
यदि सर्वः प्रणीतः स्याद्दक्षिणाग्नौ त्वेतदाहिताग्नेः १५
गृह्येष्वनाहिताग्नेः १६
इदं चिन्मे कृतमस्तीदं चिच्छक्नवानि । पितरश्चिन्मा वेदन्निति १७
यो ह यजते तं देवा विदुर्यो ददाति तं मनुष्या यः श्राद्धानि कुरुते तं पितरस्तं पितरः १८
१०
८९
इत्यथर्ववेदे कौशिकसूत्र एकादशोऽध्यायः समाप्तः



(११,१[८०].१) अथ पितृमेधं व्याख्यास्यामः

(११,१[८०].२) दहननिधानदेशे परिवृक्षाणि निधानकाल इति ब्राह्मणोक्तम्

(११,१[८०].३) दुर्बलीभवन्तं शालातृणेषु दर्भानास्तीर्य <स्योनास्मै भव [१८.२.१९]>_इत्यवरोहयति

(११,१[८०].४) मन्त्रोक्तौ_अनुमन्त्रयते

(११,१[८०].५) <यत्ते कृष्णः [१८.३.५५]>_इत्यवदीपयति

(११,१[८०].६) आहिताग्नौ प्रेते संभारान् संभरति

(११,१[८०].७) आज्यं च पृषदाज्यं चाजं च गां च

(११,१[८०].८) वसनं पञ्चमम्

(११,१[८०].९) हिरण्यं षष्ठम्

(११,१[८०].१०) शरीरं नान्वालभते

(११,१[८०].११) अन्यं चेष्टन्तमनुमन्त्रयते

(११,१[८०].१२) शान्त्युदकं करोति_असकलं चातनानां चान्वावपते

(११,१[८०].१३) शान्त्युदकोदकेन केशश्मश्रुरोमनखानि संहारयन्ति

(११,१[८०].१४) आप्लावयन्ति

(११,१[८०].१५) अनुलिम्पन्ति

(११,१[८०].१६) स्रजो_अभिहरन्ति

(११,१[८०].१७) एवंस्नातमलंकृतमहतेनावाग्दशेन वसनेन प्रछादयति_<एतत्ते देवः [१८.४.३१]>_<एतत्त्वा वासः प्रथमं न्वागन्न् [१८.२.५७ ]> इति

(११,१[८०].१८) <अपेमं [१८.२.२७]>_इत्यग्निषु जुहोति

(११,१[८०].१९) उखाः कुर्वन्ति

(११,१[८०].२०) ताः शकृदाभ्यन्तरं लिम्पन्ति शुष्केण वा पूरयन्ति

(११,१[८०].२१) ताः पृथगग्निभिः संतापयन्ति_आ शकृदादीपनात्

(११,१[८०].२२) तेषां हरणानुपूर्वमाहवनीयं प्रथमं ततो दक्षिणाग्निं ततो गार्हपत्यम्

(११,१[८०].२३) अथ विदेशे प्रेतस्य_<आ रोहत जनित्रीं जातवेदसः [१८.४.१]>_इति पृथगरणीषु_अग्नीन् समारोपयन्ति

(११,१[८०].२४) तेषु यथोक्तं करोति

(११,१[८०].२५) अपिवान्यवत्साया वा संधिनीक्षीरेण_एकशलाकेन वा मन्थेनाग्निहोत्रं जुहोति_आ दहनात्

(११,१[८०].२६) दर्शपूर्णमासयोः कृष्णकतण्डुलानां तस्या आज्येन नान्तं न बहिः

(११,१[८०].२७) पलालानि बर्हिः

(११,१[८०].२८) तिल्पिञ्ज्या इध्माः

(११,१[८०].२९) ग्रहानाज्यभागौ पुरस्ताद्धोमसंस्थितहोमानुद्धृत्य

(११,१[८०].३०) प्राणापानौ_+अवरुध्योंनिधनाभिर्(एद्. अवरुध्यै निधनाभिर्॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ४५) जुहुयात्

(११,१[८०].३१) अथ_उभयोर्<उत्तिष्ठ [१८.३.८]>_इत्युत्थापयति

(११,१[८०].३२) <प्र च्यवस्व [१८.३.९]>_इति त्रिः संहापयति यावत्कृत्वश्च_उत्थापयति

(११,१[८०].३३) एवमेव कूदीं जघने निबध्य

(११,१[८०].३४) <इमौ युनज्मि [१८.२.५६]>_इति गावौ युनक्ति पुरुषौ वा

(११,१[८०].३५) <उत्तिष्ठ प्रेहि [१८.३.८]> <प्र च्यवस्व [१८.३.९]>_<उदन्वती [१८.२.४८]>_<इत एते [१८.१.६१]>_<अग्नीषोमा [१८.२.५३]>_<इदं पूर्वम् [१८.४.४४]> इति हरिणीभिर्हरेयुर्<अति द्रव [१८.२.१११८]>_इत्यष्टभिः

(११,१[८०].३६) <इदं त [१८.३.७]> इत्यग्निमग्रतः

(११,१[८०].३७) <प्रजानत्यघ्न्ये [१८.३.४]>_इत्य्+जघन्यां (एद्. जघन्यं॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ४) गामेधमग्निं परिणीय

(११,१[८०].३८) <स्योनास्मै भव [१८.२.१९]>_इत्युत्तरतो_अग्नेः शरीरं निदधाति

(११,१[८०].३९) अध्वर्यव इष्टिं निर्वपन्ति

(११,१[८०].४०) तस्यां यथादेवतं पुरस्ताद्धोमसंस्थितहोमानुद्धृत्य

(११,१[८०].४१) प्राणापानौ_+अवरुध्योंनिधनाभिर्(सेए सूत्र ८०.३०) जुहुयात्

(११,१[८०].४२) अथ_उभयोर्<अपेत [१८.१.५५]> <ददामि [१८.२.३७]>_इत्य्शान्त्युदकं कृत्वा संप्रोक्षणीभ्यां काम्पीलशाखाया दहनं संप्रोक्ष्य

(११,१[८०].४३) <उदीरताम् [१८.१.४४]> इत्य्+उद्धत्य (एद्. उद्धृत्य)_अभ्युक्ष्य लक्षणं कृत्वा पुनरभ्युक्ष्य प्राग्दक्षिणमेधश्चिन्वन्ति

(११,१[८०].४४) <इयं नारी [१८.३.१]>_इति पत्नीमुपसंवेशयति

(११,१[८०].४५) <उदीर्ष्व [१८.३.२]>_इत्युत्थापयति

(११,१[८०].४६) यद्द्धिरण्यं बिभर्ति तद्दक्षिणे पाणौ_+आधाय (एद्. आदाय)_आज्येनाभिघार्य ज्येष्ठेन पुत्रेणादापयति_<इदं हिरण्यं [१८.४.५६]>_इति

(११,१[८०].४७) <स्वर्गं यतः [१८.४.५६ ]>_इति दक्षिणं हस्तं निर्मार्जयति

(११,१[८०].४८) <दण्डं हस्ताद्[१८.२.५९]> इति मन्त्रोक्तं ब्राह्मणस्यादापयति

(११,१[८०].४९) <धनुर्हस्ताद्[१८.२.६०]> इति क्षत्रियस्य

(११,१[८०].५०) <अष्ट्राम् [दृष्टव्यम्‌ १८.२.५९६०]> इति वैश्यस्य

(११,१[८०].५१) <इदं पितृभ्यो [१८.४.५१, सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ४]>_इति दर्भानेधान् स्तृणाति

(११,१[८०].५२) तत्र_एनमुत्तानमादधीत_<ईजानश्+चितम् (एद्. चित्तम्॑ दृष्टव्यम्‌ वॢ. इन् ॑ष्षेदितिओन् ब्य्॑ष्ড়्ড়्) आरुक्षदग्निं [१८.४.१४]>_इति

(११,१[८०].५३) <प्राच्यां त्वा दिशि [१८.३.३०]>_इति प्रतिदिशम्

(११,१[८०].५४) न_इत्युपरिबभ्रवः

(११,१[८०].५५) अनुमन्त्रयते

(११,१[८०].५६) अथास्य सप्तसु प्राणेषु सप्त हिरण्यशकलानि_अवास्यति_<अमृतमस्यमृतत्वायामृतमस्मिन् धेहि>_इति


(११,२[८१].१) अथाहिताग्नेर्दर्भेषु कृष्णाजिनमन्तर्लोमास्तीर्य

(११,२[८१].२) तत्र_एनमुत्तानमाधाय

(११,२[८१].३) अथास्य यज्ञपात्राणि पृषदाज्येन पूरयित्वानुरूपं निदधति

(११,२[८१].४) दक्षिणे हस्ते जुहूम्

(११,२[८१].५) सव्य उपभृतम्

(११,२[८१].६) कण्ठे ध्रुवां मुखे_अग्निहोत्रहवनीं नासिकयोः स्रुवम्

(११,२[८१].७) तानि_अनुमन्त्रयते <जुहूर्दधार द्याम् [१८.४.५]>_<ध्रुव आ रोह [१८.४.६]>_इति

(११,२[८१].८) ललाटे प्राशित्रहरणम्

(११,२[८१].९) <इममग्ने चमसं [१८.३.५३]>_इति शिरसीडाचमसम्

(११,२[८१].१०) <देवा यज्ञम् [१८.४.२]> इत्युरसि पुरोडाशम्

(११,२[८१].११) दक्षिणे पार्श्वे स्फ्यं सव्य उपवेषम्

(११,२[८१].१२) उदरे पात्रीं

(११,२[८१].१३) अष्ठीवतोरुलूखलमुसलम्

(११,२[८१].१४) श्रोण्योः शकटम्

(११,२[८१].१५) अन्तरेण_ऊरू अन्यानि यज्ञपात्रानि

(११,२[८१].१६) पादयोः शूर्पम्

(११,२[८१].१७) अपो मृन्मयानि_उपहरन्ति

(११,२[८१].१८) अयस्मयानि निदधति

(११,२[८१].१९) अमा +पुत्रस्य (एद्. पुत्रा च॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ४) दृषत्

(११,२[८१].२०) अथ_उभयोर्<अपश्यं युवतिं [१८.३.३]> <प्रजानत्यघ्न्ये [१८.३.४]>_इति जघन्यां गां प्रसव्यं परिणीयमानामनुमन्त्रयते

(११,२[८१].२१) तां नैरृतेन जघनताघ्नन्त उपवेशयन्ति

(११,२[८१].२२) तस्याः पृष्ठतो वृक्कौ_उद्धार्य पाण्योरस्यादधति_<अति द्रव श्वानौ [१८.२.११]>_इति

(११,२[८१].२३) दक्षिणे दक्षिणं सव्ये सव्यम्

(११,२[८१].२४) हृदये हृदयम्

(११,२[८१].२५) <अग्नेर्वर्म [१८.२.५८]>_इति वपया सप्तछिद्रया मुखं प्रछादयन्ति

(११,२[८१].२६) यथागात्रं गात्राणि

(११,२[८१].२७) दक्षिणैर्दक्षिणानि सव्यैः सव्यानि

(११,२[८१].२८) अनुबद्धशिरःपादेन गोशालां चर्मणावछाद्य

(११,२[८१].२९) <अजो भागस्[१८.२.८]>_<उत्त्वा वहन्तु [१८.२.२२]>_इति दक्षिणतो_अजं बध्नाति

(११,२[८१].३०) <अस्माद्वै त्वमजायथा अयं त्वदधि जायतामसौ स्वाहा [दृष्टव्यम्‌ ञ्B १.२, १.४७, दृष्टव्यम्‌ टा ६.२.१, ६.४.२, आआश्व्ङ्ष्४.३.२७]>_इत्युरसि गृहे जुहोति

(११,२[८१].३१) तथाग्निषु जुहोति_<अग्नये स्वाहा कामाय स्वाहा लोकाय स्वाहा [दृष्टव्यम्‌ आआश्व्ङ्ष्४.३.२६]>_इति

(११,२[८१].३२) दक्षिणाग्नौ_इत्येके

(११,२[८१].३३) <मैनमग्ने वि दहः [१८.२.४]> <शं तप [१८.२.३६]> <आ रभस्व [१८.३.७१ ए.अ.]> <प्रजानन्तः [२.३४.५]>_इति कनिष्ठ आदीपयति

(११,२[८१].३४) आदीप्ते स्रुवेण यामान् होमान्_जुहोति <परेयिवांसं प्रवतो महीरिति [१८.१.४९]>

(११,२[८१].३५) <यमो नो गातुं प्रथमो विवेद [१८.१.५०]> इति द्वे प्रथमे

(११,२[८१].३६) <अङ्गिरसो नः पितरो नवग्वा [१८.१.५८]> इति संहिताः सप्त

(११,२[८१].३७) <यो ममार प्रथमो मर्त्यानां [१८.३.१३]> <ये नः पितुः पितरो ये पितामहा [१८.२.४९]> इत्येकादश

(११,२[८१].३८) अथ सारस्वताः

(११,२[८१].३९) <सरस्वतीं देवयन्तो हवन्ते [१८.१.४१]> <सरस्वतीं पितरो हवन्ते [१८.१.४२]> <सरस्वति या सरथं ययाथ [१८.१.४३]> <सरस्वति व्रतेषु ते [७.६८.१]>_<इदं ते हव्यं घृतवत्सरस्वति [७.६८.२]>_<इन्द्रो मा मरुत्वान् [१८.३.२५]> इति

(११,२[८१].४०) दक्षिणतो_अन्यस्मिन्ननुष्ठाता जुहोति

(११,२[८१].४१) सर्वैरुपतिष्ठन्ति त्रीणि प्रभृतिर्वा

(११,२[८१].४२) अपि वानुष्ठानीभिः

(११,२[८१].४३) एता अनुष्ठान्यः

(११,२[८१].४४) <मैनमग्ने वि दहो [१८.२.४]>_इतिप्रभृति_<अव सृज [१८.२.१०]>_इति वर्जयित्वा <सहस्रनीथाः [१८.२.१८]>_इत्यातः

(११,२[८१].४५) <आ रोह जनित्रीं जातवेदसः [१८.४.१]>_इति पञ्चदशभिराहिताग्निम्

(११,२[८१].४६) <मित्रावरुणा परि मामधाताम् [१८.३.१२]> इति पाणी प्रक्षालयते

(११,२[८१].४७) <वर्चसा मां [१८.३.१०(११)]>_इत्याचामति

(११,२[८१].४८) <विवस्वान्नो [१८.३.६१]>_इत्युत्तरतो_अन्यस्मिन्ननुष्ठाता जुहोति


(११,३[८२].१) यवीयःप्रथमानि कर्माणि प्राङ्मुखानां यज्ञोपवीतिनां दक्षिणावृतम्

(११,३[८२].२) अथ_एषां सप्तसप्त शर्कराः पाणिषु_+आवपति (एद्. आवपते॑ थुस्Cअलन्द्, Kल्. ष्छ्र्., प्. ४७)

(११,३[८२].३) तासामेक_एकां सव्येनावाचीनहस्तेनावकिरन्तो_अनवेक्षमाणा व्रजन्ति

(११,३[८२].४) अपाघेनानुमन्त्रयते

(११,३[८२].५) सर्वे_अग्रतो ब्रह्मणो व्रजन्ति

(११,३[८२].६) <मा प्र गाम [१३.१.५९]>_इति जपन्त उदकान्ते +व्यघापघे जपति+ (एद्. व्यपाद्ये जपन्ति॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ७१७२)

(११,३[८२].७) पश्चादवसिञ्चति

(११,३[८२].८) <उदुत्तमं [१८.४.६९]>_इति ज्येष्ठः

(११,३[८२].९) <पयस्वतीर्[१८.३.५६ (ए.अ.)]> इति ब्रह्मा_॥_उक्ताः पिञ्जूलीरावपति

(११,३[८२].१०) शान्त्युदकेनाचम्याभ्युक्ष्य_<अश्वावतीं [१८.२.३१]>_इति नदीं तारयते

(११,३[८२].११) नक्षत्रं दृष्ट्वा_उपतिष्ठते <नक्षत्राणां मा संकाशश्च प्रतीकाशश्चावताम् [दृष्टव्यम्‌ Vऐत्ष्११.१३]> इति

(११,३[८२].१२) शाम्याकीः समिध +आदाय (एद्. आधाय॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ४७)_अग्रतो ब्रह्मा जपति

(११,३[८२].१३) <यस्य त्रया गतमनुप्रयन्ति देवा मनुष्याः पशवश्च सर्वे । तं नो देवं मनो अधि ब्रवीतु सुनीतिर्नो नयतु द्विषते मा रधाम [पै.सं.१.७८.४]>_इति शान्त्युदकेनाचम्याभ्युक्ष्य

(११,३[८२].१४) <निस्सालाम् [२.१४.१]> इति शालानिवेशनं संप्रोक्ष्य

(११,३[८२].१५) <ऊर्जं बिभ्रद्[७.६०.१]> इति प्रपादयति

(११,३[८२].१६) नदीमालम्भयति गामग्निमश्मानं च

(११,३[८२].१७) <यवोऽसि यवयास्मद्द्वेषो यवयारातिम् [दृष्टव्यम्‌ तै.सं.१.३.१.१ इत्यादि]> इति यवान्

(११,३[८२].१८) <खल्वकास्य (एम्. Bलोओम्fइएल्द्+खल्वकासि ?) []>_इति खल्वान् खलकुलान्_च

(११,३[८२].१९) +व्यघापघाभ्यां (एद्. व्यपाद्याभ्यां॑ Cअलन्द्, Kल्. ष्छ्र्., प्. ७१७२) शाम्याकीराधापयति

(११,३[८२].२०) तासां धूमं भक्षयन्ति

(११,३[८२].२१) यद्यत्क्रव्याद्गृह्येद्यदि क्रव्यादा नान्तेऽपरेद्युः । <दिवो नभः शुक्रं पयो दुहाना इषमूर्जं पिन्वमानाः ॥ अपां योनिमपाध्वं स्वधा याश्चकृषे जीवंस्तास्ते सन्तु मधुश्चुतः [दृष्टव्यम्‌ पै.सं.१९.५२.१३]> इत्यग्नौ स्थालीपाकं निपृणाति

(११,३[८२].२२) आदहने चापिवान्यवत्सां दोहयित्वा तस्याः पृष्ठे जुहोति <वैश्वानरे हविरिदं जुहोमि [१८.४.३५ इत्यादि]>_इति

(११,३[८२].२३) तस्याः पयसि

(११,३[८२].२४) स्थालीपक इत्येके

(११,३[८२].२५) <ये अग्नयो [३.२१.१]>_इति पालाश्या दर्व्या मन्थमुपमथ्य काम्पीलीभ्यामुपमन्थनीभ्यां तृतीयस्यामस्थीनि_अभिजुहोति

(११,३[८२].२६) <उप द्याम् [१८.३.५]>_<शं ते नीहारो [१८.३.६०]>_इति मन्त्रोक्तानि_अवदाय

(११,३[८२].२७) क्षीरोत्सिक्तेन ब्राह्मणस्यावसिञ्चति मधूत्सिक्तेन क्षत्रियस्य_उदकेन वैश्यस्य

(११,३[८२].२८) <अव सृज [१८.२.१०]>_इत्यनुमन्त्रयते

(११,३[८२].२९) <मा ते मनो [१८.२.२४]> <यत्ते अङ्गम् [१८.२.२६]> इति संचिनोति (एमेन्देद्तेxत्+ सूत्रदिविसिओन् [२९३०३१] अच्च्. तो Cअलन्द्, Kल्. ष्छ्र्., प्. ४७)

(११,३[८२].३०) +पत्तः (थुस्Cअलन्द्॑ एद्. पच्छः) प्रथमं शीर्षकपालानि पश्चात्

(११,३[८२].३१) कलशे समोप्य सर्वसुरभिचूर्णैरवकीर्य_उत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः

(११,३[८२].३२) <मा त्वा वृक्षः [१८.२.२५]>_इति वृक्षमूले निदधाति

(११,३[८२].३३) <स्योनास्मै भव [१८.२.१९]>_इति भूमौ त्रिरात्रमरसाशिनः कर्माणि कुर्वते

(११,३[८२].३४) दशरात्र इत्येके

(११,३[८२].३५) यथाकुलधर्मं वा

(११,३[८२].३६) ऊर्ध्वं तृतीयस्या वैवस्वतं स्थालीपाकं श्रपयित्वा <विवस्वान्नो [१८.३.६१]>_इति जुहोति

(११,३[८२].३७) युक्ताभ्यां तृतीयाम्

(११,३[८२].३८) आनुमतीं चतुर्थीम्

(११,३[८२].३९) शेषं शान्त्युदकेन_उपसिच्याभिमन्त्र्य प्राशयति

(११,३[८२].४०) <आ प्र च्यवेथाम् [१८.४.४९]> इति गावौ_उपयछति

(११,३[८२].४१) <एयमगन्न् [१८.४.५०]> इति दशगवावरार्ध्या दक्षिणा

(११,३[८२].४२) द्वादशरात्रं कर्ता यमव्रतं चरेत्

(११,३[८२].४३) एकचैलस्त्रिचैलो चा

(११,३[८२].४४) हविष्यभक्षः

(११,३[८२].४५) सायंप्रातरुपस्पृशेत्

(११,३[८२].४६) ब्रह्मचारी व्रती_अधः शयीत

(११,३[८२].४७) स्वस्त्ययनानि प्रयुञ्जीत


(११,४[८३].१) पितॄन्निधास्यन् संभारान् संभरति

(११,४[८३].२) एकादश +चरूनचक्रकृतान्+ (एद्. चरूञ्चक्रकृतान्॑ सेए Cअलन्द्, ङेब्रएउछे, प्. १३४, न्. ४९३) कारयति

(११,४[८३].३) शतातृण्णसहस्रातृण्णौ च पाशीमूषं सिकताः शङ्खं शालूकं सर्वसुरभिशमीचूर्णकृतं शान्तवृक्षस्य नावं त्रिपादकम्

(११,४[८३].४) द्वे निःशीयमाने नीललोहिते सूत्रे सव्यरज्जुं शान्तवृक्षस्य चतुरः शङ्कून्_चतुरः परिधीन् वारणं शामीलमौदुम्बरं पालाशं वृक्षस्य शान्तौषधीः

(११,४[८३].५) माघे निदध्यात्_माघं भूदिति

(११,४[८३].६) शरदि निदध्यात्_शाम्यत्वघमिति

(११,४[८३].७) निदाघे निदध्यात्_निदह्यतामघमिति

(११,४[८३].८) अमावास्यायां निदध्यादमा हि पितरो भवन्ति

(११,४[८३].९) अथावसानम्

(११,४[८३].१०) तद्यत्समं समूलमविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणम्

(११,४[८३].११) यत्राकण्टका वृक्षाश्च_ओषधयश्च

(११,४[८३].१२) उन्नतं स्वर्गकामश्च

(११,४[८३].१३) श्वोऽमावास्या_इति गां कारयते

(११,४[८३].१४) तस्याः सव्यं चापघनं प्रपाकं च निधाय

(११,४[८३].१५) भिक्षां कारयति

(११,४[८३].१६) ग्रामे यामसारस्वतान् होमान् हुत्वा

(११,४[८३].१७) संप्रोक्षणीभ्यां काम्पीलशाखया निवेशनमनुचर्य

(११,४[८३].१८) प्राग्दक्षिणं शाखां प्रविध्य सीरेण कर्षयित्वा शाखाभिः परिवार्य

(११,४[८३].१९) <पुनर्देहि [१८.३.७०]>_इति वृक्षमूलादादत्ते

(११,४[८३].२०) <यत्ते कृष्णः [१८.३.५५]>_इति भूमेर्वसने समोप्य सर्वसुरभिचूर्णैरवकीर्य_उत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः

(११,४[८३].२१) अविदन्तो देशात्पांसून्

(११,४[८३].२२) अपि वा_उदकान्ते वसनमास्तीर्यासौ_इति ह्वयेत्

(११,४[८३].२३) तत्र यो जन्तुर्निपतेत्तमुत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः

(११,४[८३].२४) अपि वा त्रीणि षष्टिशतानि पलाशत्सरूणाम्

(११,४[८३].२५) ग्रामे दक्षिणोदग्द्वारं विमितं दर्भैरास्तारयति

(११,४[८३].२६) उत्तरं जीवसंचरो दक्षिणं पितृसंचरः

(११,४[८३].२७) अनस्तमिते_<आ यात [१८.४.६२]>_इत्यायापयति

(११,४[८३].२८) <आच्या जानु [१८.१.५२]>_इत्युपवेशयति

(११,४[८३].२९) <सं विशन्त्व्[१८.२.२९]> इति संवेशयति

(११,४[८३].३०) <एतद्वः पितरः पात्रम् [दृष्टव्यम्‌ वा.सं. २.३२, ंन्B २.३.१४ इत्यादि]> इति त्रीण्युदकंसान्निनयति

(११,४[८३].३१) त्रीन् स्नातानुलिप्तान् ब्राह्मणान्मधुमन्थं पाययति

(११,४[८३].३२) ब्रह्मणे मधुपर्कमाहारयति

(११,४[८३].३३) गां वेदयन्ते

(११,४[८३].३४) कुरुत_इत्याह

(११,४[८३].३५) तस्या दक्षिणमर्धं ब्राह्मणान् भोजयति सव्यं पितॄन्


(११,५[८४].१) <वह वपां जातवेदः पितृभ्यो यत्रैतान् वेत्थ निहितान् पराके । मेदसः कुल्या उप तान् स्रवन्तु सत्या एषामाशिषः सन्तु कामाः स्वाहा स्वधा [सेए ४५.१४, दृष्टव्यम्‌ ंन्B २.३.१८, वा.सं. ३५.२०]>_इति वपायास्त्रिर्जुहोति

(११,५[८४].२) <इमं यम [१८.१.६०]>_इति यमाय चतुर्थीम्

(११,५[८४].३) एकविंशत्या यवैः कृशरं रन्धयति युतमन्यत्प्रपाकं च

(११,५[८४].४) सयवस्य जीवाः प्राश्नन्ति

(११,५[८४].५) अथ_इतरस्य पिण्डं निपृणाति

(११,५[८४].६) <यं ते मन्थं [१८.४.४२]>_इति मन्त्रोक्तं विमिते निपृणाति

(११,५[८४].७) तदुद्गतोष्म हर्तारो [एद्. ओष्महर्त्, Cअलन्दाह्नेन्चुल्त्प्. २६४] दासा भुञ्जते

(११,५[८४].८) वीणा वदन्तु_इत्याह

(११,५[८४].९) महयत पितॄनिति रिक्तकुम्भं विमितमध्ये निधाय तं जरदुपानहाघ्नन्ति

(११,५[८४].१०) <कस्ये मृजाना [१८.३.१७]> इति त्रिः प्रसव्यं प्रकीर्णकेश्यः परियन्ति दक्षिणानूरूनघ्नानाः

(११,५[८४].११) एवं मध्यरात्रे_अपरात्रे च

(११,५[८४].१२) पुरा विवाहात्समांसः पिण्डपितृयज्ञः

(११,५[८४].१३) उत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः

(११,५[८४].१४) अथ_<अवसाय [?, .ऋ.वे. १०.१६९.१ , पै.सं.१९.५१.५ ? णोते Cअलन्द्, Kल्. ष्छ्र्., प्. ४८)]>_इति पश्चात्पूर्वकृतेभ्यः पूर्वाणि पूर्वेभ्यो_अपराणि यवीयसाम्

(११,५[८४].१५) प्राग्दक्षिणां दिशमभ्युत्तरामपरां दिशमभितिष्ठन्ति

(११,५[८४].१६) यथा चितिं तथा श्मशानं दक्षिणापरां दिशमभि प्रवणम्


(११,६[८५].१) अथ मानानि

(११,६[८५].२) दिष्टिकुदिष्टिवितस्तिनिमुष्ट्यरत्निपदप्रक्रमाः

(११,६[८५].३) प्रादेशेन धनुषा च_<इमां मात्रां मिमीमहे [१८.२.३८]>_इति

(११,६[८५].४) सप्त दक्षिणतो मिमीते सप्त_उत्तरतः पञ्च पुरस्तात्त्रीणि पश्चात्

(११,६[८५].५) नव दक्षिणतो मिमीते नव_उत्तरतः सप्त पुरस्तात्पञ्च पश्चात्

(११,६[८५].६) एकादश दक्षिणतो मिमीत एकादश_उत्तरतो नव पुरस्तात्सप्त पश्चात्

(११,६[८५].७) एकादशभिर्देवदर्शिनाम्

(११,६[८५].८) अयुग्ममानानि परिमण्डलानि चतुरस्राणि वा शौनकिनाम्

(११,६[८५].९) तथा हि दृश्यन्ते

(११,६[८५].१०) यावान् पुरुष ऊर्ध्वनाहुस्तावानग्निश्चितः

(११,६[८५].११) सव्यानि दक्षिणाद्वाराणि_अयुग्मशिलानि_अयुग्मेष्टिकानि च

(११,६[८५].१२) <इमां मात्रां मिमीमहे [१८.२.३८]>_इति दक्षिणतः सव्यरज्जुं मीत्वा

(११,६[८५].१३) वारयतामघमिति वारणं परिधिं परिदधाति शङ्कुं च निचृतति

(११,६[८५].१४) पुरस्तान्मीत्वा शमेभ्यो अस्त्वघमिति शामीलं परिधिं परिदधाति शङ्कुं च निचृतति

(११,६[८५].१५) उत्तरतो मीत्वा शाम्यत्वघमित्यौदुम्बरं परिधिं परिदधाति शङ्कुं च निचृतति

(११,६[८५].१६) पश्चान्मीत्वा शान्तमघमिति पालाशं परिधिं परिदधाति शङ्कुं च निचृतति

(११,६[८५].१७) <अमासि [१८.२.४५]>_इत्यनुमन्त्रयते

(११,६[८५].१८) अक्ष्णया लोहितसूत्रेण निबध्य

(११,६[८५].१९) <स्तुहि श्रुतं [१८.१.४०]>_इति मध्ये गर्तं खात्वा पाशिसिकता_ऊष_उदुम्बरशङ्खशालूकसर्वसुरभिशमीचूर्णानि निवपति

(११,६[८५].२०) निःशीयतामघमिति निःशीयमानमास्तृणाति

(११,६[८५].२१) असंप्रत्यघम्

(११,६[८५].२२) वि लुम्पतामघमिति परि चैलं दूर्शं विलुम्पति

(११,६[८५].२३) उक्तो होमो दक्षिणत स्तरणं च

(११,६[८५].२४) <एतदा रोह [१८.३.७३]> <ददामि [१८.२.३७]>_इति कनिष्ठो निवपति

(११,६[८५].२५) <एदं बर्हिर्[१८.४.५२]> इति स्थितसूनुर्यथापरु संचिनोति

(११,६[८५].२६) <मा ते मनो [१८.२.२४]> <यत्ते अङ्गम् [१८.२.२६]> <इन्द्रो मा [१८.३.२५]>_<उदपूर्[१८.३.३७]> इत्यातो_अनुमन्त्रयते

(११,६[८५].२७) धानाः सलिङ्गाभिरावपति


(११,७[८६].१) <इदं कसाम्बु [१८.४.३७]>_इति सजातानवेक्षयति

(११,७[८६].२) <ये च जीवा [१८.४.५७]> <ये ते पूर्वे परागता [१८.३.७२]> इति सर्पिर्मधुभ्यां चरुं पूरयित्वा शीर्षदेशे निदधाति

(११,७[८६].३) <अपूपवान् [१८.४.१६]> इति मन्त्रोक्तं दिक्षु_अष्टमदेशेषु निदधाति

(११,७[८६].४) मध्ये पचन्तम्

(११,७[८६].५) <सहस्रधारं शतधारम् [१८.४.३६]> इत्यद्भिरभिविष्यन्द्य

(११,७[८६].६) <पर्णो राजा [१८.४.५३]>_इति मध्यमपलाशैरभिनिदधाति

(११,७[८६].७) <ऊर्जो भागो [१८.४.५४]>_इत्यश्मभिः

(११,७[८६].८) <उत्ते स्तभ्नामि [१८.३.५२]>_इति लोगान् यथापरु

(११,७[८६].९) निःशीयतामघमिति निःशीयमानेनावछाद्य दर्भैरवस्तीर्य

(११,७[८६].१०) <इदमिद्वा उ न [१८.२.५०]>_<उप सर्प [१८.३.४९]>_<असौ हा [१८.४.६६]> इति चिन्वन्ति

(११,७[८६].११) <यथा यमाय [१८.४.५५]>_इति संश्रित्य

(११,७[८६].१२) शृणात्वघमित्युपरिशिर स्तम्बमादधाति

(११,७[८६].१३) प्रतिषिद्धमेकेषाम्

(११,७[८६].१४) अकल्माषाणां काण्डानामष्टाङ्गुलीं तेजनीमन्तर्हितमघमिति ग्रामदेशादुच्छ्रयति

(११,७[८६].१५) प्रसव्यं परिषिच्य कुम्भान् भिन्दन्ति

(११,७[८६].१६) <समेत [७.२१.१ (थुसेम्.!)]>_इति अपरस्यां श्मशानस्रक्त्यां ध्रुवनानि_ उपयछन्ते

(११,७[८६].१७) पश्चादुत्तरतो_अग्नेर्<वर्चसा मां [१८.३.१०]> <विवस्वान् [१८.३.६१]> <इन्द्र क्रतुं [१८.३.६७]>_इत्यातः

(११,७[८६].१८) <समिन्धते [१८.४.४१ (ए.अ.)]>_इति पश्चात्संकसुकमुद्दीपयति

(११,७[८६].१९) <अस्मिन् वयं [१२.२.१३]> <यद्रिप्रं [१२.२.४०]> <सीसे मृड्ढ्वं [१२.२.१९]>_इत्यभ्यवनेजयति

(११,७[८६].२०) कृष्णोर्णया पाणिपादान्निमृज्य

(११,७[८६].२१) <इमे जीवा [१२.२.२२]> <उदीचीनैः [१२.२.२९]>_इति मन्त्रोक्तम्

(११,७[८६].२२) <त्रिः सप्त [१२.२.२९ ]>_इति कूद्या पदानि लोपयित्वा [एद्. योपयित्वा चोर्रिगेन्द एद्. प्. ४२४] श्मशानात्

(११,७[८६].२३) <मृत्योः पदं [१२.२.३०]>_इति द्वितीयया नावः

(११,७[८६].२४) <परं मृत्यो [१२.२.२१]> इति प्राग्दक्षिणं कूदीं प्रविध्य

(११,७[८६].२५) सप्त नदीरूपाणि कारयित्वा_उदकेन पूरयित्वा

(११,७[८६].२६) <आ रोहत सवितुर्नावमेतां [१२.२.४८ ]> <सुत्रामाणं [७.६.३]> <महीमू षु [७.६.२]>_इति सहिरण्यां सयवां नावमारोहयति

(११,७[८६].२७) <अश्मन्वती रीयते [१२.२.२६]>_<उत्तिष्ठता प्र तरता सखायो [१२.२.२७]>_इत्युदीचस्तारयति

(११,७[८६].२८) शर्करादि_आ समिदाधानात्

(११,७[८६].२९) वैवस्वतादि समानम्

(११,७[८६].३०) प्राप्य गृहान् समानः पिण्डपितृयज्ञः


(११,८[८७].१) अथ पिण्डपितृयज्ञः

(११,८[८७].२) अमावास्यायां सायं न्यह्ने_अहनि विज्ञायते [दृष्टव्यम्‌ १८.४.६५?]

(११,८[८७].३) <मित्रावरुणा परि मामधाताम् [१८.३.१२]> इति पाणी प्रक्षालयते

(११,८[८७].४) <वर्चसा मां [१८.३.१०]>_इत्याचामति

(११,८[८७].५) पुनः सव्येनाचमनादपसव्यं कृत्वा प्रैषकृतं समादिशति

(११,८[८७].६) उलूखलमुसलं शूर्पं चरुं कंसं प्रक्षालय बर्हिरुदकुम्भमा हर_इति

(११,८[८७].७) यज्ञोपवीती दक्षिणपूर्वमन्तर्देशमभिमुखः शूर्प एकपवित्रान्तर्हितान् हविष्यान्निर्वपति

(११,८[८७].८) इदम् <अग्नये कव्यवाहनाय [१८.४.७१]> <स्वधा पितृभ्यः पृथिविषद्भ्यः [१८.४.७८]>_इतीदं <सोमाय पितृमते स्वधा [१८.४.७२]> <पितृभ्यः सोमवद्भ्यः [१८.४.७३]> <पितृभ्यो वान्तरिक्षसद्भ्यः [१८.४.७९]>_इतीदं <यमाय पितृमते [१८.४.७४]> <स्वधा पितृभ्यश्च दिविषद्भ्यः [१८.४.८०]>_इति त्रीनवाचीनकाशीन्निर्वपति

(११,८[८७].९) उलूखल ओप्य त्रिरवहन्ति_<इदं वः पितरो हविः>_इति

(११,८[८७].१०) यथा हविस्तथा परिचरति

(११,८[८७].११) हविर्हि_एव पितृयज्ञः

(११,८[८७].१२) प्रैषकृतं समादिशन्ति चरुं प्रक्षालयाधिश्रयाप ओप्य तण्डुलानावपस्व नेक्षणेन योधयन्नास्व मा शिरो ग्रहीः

(११,८[८७].१३) शिरोग्रहं परिचक्षते

(११,८[८७].१४) बाह्येन_उपनिष्क्रम्य यज्ञोपवीती दक्षिणपूर्वमन्तर्देशमभिमुख <उदीरताम् [१८.१.४४]> इति कर्षूं खनति प्रादेशमात्रीं तिर्यगङ्गुरिम्

(११,८[८७].१५) अवागङ्गुरिं पर्वमात्रीमित्येके

(११,८[८७].१६) <अपहता असुरा रक्षांसि ये पितृषदः [दृष्टव्यम्‌ वा.सं. २.२९, ंन्B २.३.३]>_इति प्राग्दक्षिणं पांसूनुदूहति

(११,८[८७].१७) कर्षूं च पाणी च प्रक्षाल्य_<एतद्वः पितरः पात्रम्> इति कर्षूमुदकेन पूरयित्वा

(११,८[८७].१८) अन्तरुपातीत्य मस्तुना नवनीतेन वा प्रतिनीय दक्षिणाञ्चमुद्वास्य

(११,८[८७].१९) द्वे काष्ठे गृहीत्वा_<उशन्तस्[१८.१.५६]>_इत्यादीपयति

(११,८[८७].२०) आदीप्तयोरेकं प्रतिनिदधाति

(११,८[८७].२१) <इहैवैधि धनसनिर्[१८.४.३८]> इत्येकं हृत्वा

(११,८[८७].२२) पांसुषु_आधाय_उपसमादधाति <ये निखाताः [१८.२.३४]> <समिन्धते [१८.४.४१ (ए.अ.)]> <ये तातृषुर्[१८.३.४७]> <ये सत्यासो [१८.३.४८]>_इति

(११,८[८७].२३) संभारानुपसादयति

(११,८[८७].२४) पर्युक्षणीं बर्हिरुदकुम्भं कंसं दर्विमाज्यमायवनं चरुं वासांस्याञ्जनमभ्यञ्जनमिति

(११,८[८७].२५) यदत्र_उपसमाहार्यं भवति तदुपसमाहृत्य

(११,८[८७].२६) अतो यज्ञोपवीती पित्र्युपवीती बर्हिर्गृहीत्वा विचृत्य संनहनं दक्षिणापरमष्टमदेशमभ्यवास्येत्

(११,८[८७].२७) बर्हिरुदकेन संप्रोक्ष्य <बर्हिषदः पितर [१८.१.५१]> <उपहूता नः पितरः [१८.३.४५]>_<अग्निष्वात्ताः पितरो [१८.३.४४]> <ये नः पितुः पितरो [१८.३.४६]> <येऽस्माकं [१८.४.६८]>_इति प्रस्तृणाति

(११,८[८७].२८) आयापनादीनि त्रीणि

(११,८[८७].२९) <उदीरताम् [१८.१.४४]> इति तिसृभिरुदपात्राणि_अन्वृचं निनयेत्

(११,८[८७].३०) अतः पित्र्युपवीती यज्ञोपवीती <ये दस्यवः [१८.२.२८]>_इत्युभयत आदीप्तमुल्मुकं त्रिः प्रसव्यं परिहृत्य निरस्यति

(११,८[८७].३१) पर्युक्ष्य


(११,९[८८].१) <ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । त्वं तानग्ने अप सेध दूरान् सत्याः नः पितॄणां सन्त्वाशिषः स्वहा स्वधा [, दृष्टव्यम्‌ Vष्२.२०, ंन्B २.३.४]>_इति हुत्वा कुम्भीपाकमभिघारयति

(११,९[८८].२) <अग्नय कव्यवाहनाय [१८.४.७१]>_इति जुहोति

(११,९[८८].३) यथानिरुप्तं द्वितीयाम्

(११,९[८८].४) <यमाय पितृमते [१८.४.७४] <स्वधा पितृभ्यः [१८.४.७८]> इति तृतीयाम्

(११,९[८८].५) <यद्वो अग्निर्[१८.४.६४]> इति सायवनान्_तण्डुलान्

(११,९[८८].६) <सं बर्हिर्[७.९८.१]> इति सदर्भान्_तण्डुलान् पर्युक्ष्य

(११,९[८८].७) अतो यज्ञोपवीती पित्र्युपवीती दर्व्या_उद्धरति

(११,९[८८].८) द्यौर्दर्विरक्षितापरिमितानुपदस्ता सा यथा द्यौर्दर्विरक्षितापरिमितानुपदस्ता_एवा [रेअद्_एवं? ॑ष्रौतकोश ई Eन्ग्. ई प्. ४८८] प्रततामहस्य_इयं दर्विरक्षितापरिमितानुपदस्ता

(११,९[८८].९) अन्तरिक्षं दर्विरक्षितापरिमितानुपदस्ता सा यथान्तरिक्षं दर्विरक्षितापरिमितानुपदस्ता_एवा [रेअद्_एवं? ॑ष्रौतकोश ई Eन्ग्. ई प्. ४८८] ततामहस्य_इयं दर्विरक्षितापरिमितानुपदस्ता

(११,९[८८].१०) पृथिवी दर्विरक्षितापरिमितानुपदस्ता सा यथा पृथिवी दर्विरक्षितापरिमितानुपदस्ता_एवा [रेअद्_एवं? ॑ष्रौतकोश ई Eन्ग्. ई प्. ४८८] ततस्य_इयं दर्विरक्षितापरिमितानुपदस्ता_इति

(११,९[८८].११) उद्धृत्याज्येन संनीय त्रीन् पिण्डान् संहतान्निदधाति_<एतत्ते प्रततामह [१८.४.७५]>_इति

(११,९[८८].१२) दक्षिणतः पत्नीभ्यः_<इदं वः पत्न्यः>_इति

(११,९[८८].१३) इदमाशंसूनामिदमाशंसमानानां स्त्रीणां पुंसां प्रकीर्णावशीर्णानां <येषां वयं दातारो ये चास्माकमुपजीवन्ति । तेभ्यः सर्वेभ्यः सपत्नीकेभ्यः स्वधावदक्षय्यमस्तु []>_इति त्रिः प्रसव्यं तण्डुलैः परिकिरति

(११,९[८८].१४) पिञ्जूलीराञ्जनं सर्पिषि पर्यस्य_<अद्ध्वं पितरः>_इति न्यस्यति

(११,९[८८].१५) <वद्ध्वं पितरो मा वोऽतोऽन्यत्पितरो योयुवत []>_इति सूत्राणि

(११,९[८८].१६) <अञ्जते व्यञ्जते [१८.३.१८]>_इत्यभ्यञ्जनम्

(११,९[८८].१७) आज्येनाविछिन्नं पिण्डानभिघारयति <ये च जीवा [१८.४.५७]> <ये ते पूर्वे परागता [१८.३.७२]> इति

(११,९[८८].१८) <अत्र पितरो मादयध्वं यथाभागं यथालोकमावृषायध्वम् [दृष्टव्यम्‌ वा.सं. २.३१, ंन्B २.३.६ इत्यादि]> इति

(११,९[८८].१९) <अत्र पत्न्यो मादयध्वं यथाभागं यथालोकमावृषायध्वम् [दृष्टव्यम्‌ वा.सं. २.३१, ंन्B २.३.६ इत्यादि]> इति

(११,९[८८].२०) यो_असौ_अन्तरग्निर्भवति तं प्रदक्षिणमवेक्ष्य तिस्रस्तामीस्ताम्यति

(११,९[८८].२१) प्रतिपर्यावृत्य_<अमीमदन्त पितरो यथाभागं यथालोकमावृषायिषत [दृष्टव्यम्‌ वा.सं. २.३१, ंन्B २.३.७ इत्यादि]>_इति

(११,९[८८].२२) <अमीमदन्त पत्न्यो यथाभागं यथालोकमावृषायिषत [दृष्टव्यम्‌ वा.सं. २.३१, ंन्B २.३.७ इत्यादि]>_इति

(११,९[८८].२३) <आपो अग्निं [१८.४.४०]>_इत्यद्भिरग्निमवसिच्य

(११,९[८८].२४) <पुत्रं पौत्रमभितर्पयन्तीर्[१८.४.३९]> इत्य्<आचामत मम प्रततामहास्ततामहास्तताः सपत्नीकास्तृप्यन्त्वाचामन्तु []>_इति प्रसव्यं परिषिच्य

(११,९[८८].२५) <वीरान्मे प्रततामहा दत्त वीरान्मे ततामहा दत्त वीरान्मे पितरो दत्त> पितॄन् वीरान् याचति

(११,९[८८].२६) <नमो वः पितर [१८.४.८१ f.]> इत्युपतिष्ठते

(११,९[८८].२७) <अक्षन्न् [१८.४.६१]> इत्युत्तरसिचमवधूय

(११,९[८८].२८) <परा यात [१८.४.६३]>_इति परायापयति

(११,९[८८].२९) अतः पित्र्युपवीती यज्ञोपवीती <यन्न इदं पितृभिः सह मनोऽभूत्तदुपाह्वयामि []>_इति मन उपाह्वयति


(११,१०[८९].१) <मनो न्वा ह्वामहे नाराशंसेन [चोर्र्. Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४ एद्. नार] स्तोमेन । पितॄणां च मन्मभिः ॥ आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक्च सूर्यं दृशे ॥ पुनर्नः पितरो मनो ददातु दैव्यो [एद्. दैव्यः] जनः । जीवं व्रातं सचेमहि ॥ वयं सोम व्रते तव मनस्तनूषु बिभ्रतः प्रजावन्तः सचेमहि [पै.सं.१९.२४.१०१३, Vऐत्ष्२०.९]> ॥ <ये सजाताः सुमनसो जीवा जीवेषु मामकाः । तेषा॑ं श्रीर्मयि कल्पतामस्मिन् गोष्ठे शत॑ं समाः [वा.सं. १९.४६ इत्यादि]>_इति

(११,१०[८९].२) यत्_चरुस्थाल्यामोदनावशिष्टं भवति तस्य_ऊष्मभक्षं भक्षयित्वा ब्राह्मणाय दद्यात्

(११,१०[८९].३) यदि ब्राह्मणो न लभ्येताप्सु_अभ्यवहरेत्

(११,१०[८९].४) निजाय दासाय_इत्येके

(११,१०[८९].५) मध्यमपिण्डं पत्न्यै पुत्रकामायै प्रयछति

(११,१०[८९].६) <आ धत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषोऽसत् ॥ [वा.सं. २.३३ इत्यादि]> <आ त्वारुक्षद्वृषभः पृश्निरग्रियो मेधाविनं पितरो गर्भमा दधुः । आ त्वायं पुरुषो गमेत्पुरुषः पुरुषादधि । स ते श्रैष्ठ्याय जायतां स सोमे साम गायतु [, दृष्टव्यम्‌ .ऋ.वे. ९.८३.३]>_इति

(११,१०[८९].७) यदि_अन्या द्वितीया भवति_अपरं तस्यै

(११,१०[८९].८) प्राग्रतमं श्रोत्रियाय

(११,१०[८९].९) अथ यस्य भार्या दासी वा प्रद्राविणी भवति ये_अमी तण्डुलाः प्रसव्यं परिकीर्णा भवन्ति तान्_तस्यै प्रयछति

(११,१०[८९].१०) <अर्वाच्य्+उपसंक्राम [एद्. उपसंक्रमे] मा पराच्यप वर्तथाः [एद्. उप वस्तथा] । अन्नं प्राणस्य बन्धनं तेन बध्नामि त्वा मयि [, एमेन्दतिओन्स्Cअलन्द्, आह्नेन्चुल्त्प्. १९२, दृष्टव्यम्‌ ंन्B १.३.१०]>_इति

(११,१०[८९].११) पर्युक्षणीं समिधश्चादाय <मा प्र गाम [१३.१.५९]>_इत्याव्रज्य_<ऊर्जं बिभ्रद्[७.६०.१]> इति गृहानुपतिष्ठते

(११,१०[८९].१२) <रमध्वं मा बिभीतनास्मिन् गोष्ठे करीषिणः । ऊर्जं दुहानाः शुचयः शुचिव्रता गृहा जीवन्त उप वः सदेम ॥ ऊर्जं मे देवा अददुरूर्जं मनुष्या उत । ऊर्जं पितृभ्य आहार्षमूर्जस्वन्तो गृहा मम ॥ पयो मे देवा अददुः पयो मनुष्या उत । पयः पितृभ्य आहार्षं पयस्वन्तो गृहा मम ॥ [पै.सं.१८.८२.३५]> <वीर्यं मे देवा अददुः वीर्यं मनुष्या उत । वीर्यं पितृभ्य आहार्षं वीरवन्तो गृहा मम ॥ [, दृष्टव्यम्‌ पै.सं.१८.८२.४५]>_इति

(११,१०[८९].१३) अन्तरुपातीत्य समिधोऽभ्यादधाति । <अयं नो अग्निरध्यक्षोऽयं नो वसुवित्तमः । अस्योपसद्ये मा रिषामायं रक्षतु नः प्रजाम् ॥ अस्मिन् सहस्रं पुष्यास्मैधमानाः स्वे गृहे । इमं समिन्धिषीमह्यायुष्मन्तः सुवर्चसः ॥ [पै.सं.२०.६१.५६]> <त्वमग्न ईडितो [१८.३.४२]>_<आ त्वाग्न इन्धीमहि [१८.४.८८]>_इति

(११,१०[८९].१४) <अभूद्दूतः [१८.४.६५]>_इत्यग्निं प्रत्यानयति

(११,१०[८९].१५) यदि सर्वः प्रणीतः स्याद्दक्षिणाग्नौ तु_एतदाहिताग्नेः

(११,१०[८९].१६) गृह्ये +ऽपि_अनाहिताग्नेः [एद्. गृह्येष्व्, दृष्टव्यम्‌ Cअलन्दाह्नेन्चुल्त्प्. १५]

(११,१०[८९].१७) <इदं चिन्मे कृतमस्तीदं चिच्छक्नवानि । पितरश्चिन्मा वेदन् []>_इति

(११,१०[८९].१८) यो ह यजते तं देवा विदुर्यो ददाति तं मनुष्या यः श्राद्धानि कुरुते तं पितरस्तं पितरः


(कौ.सू.११ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे एकादशोऽध्यायः समाप्तः