कौशिकसूत्रम्/अध्यायः ०५

विकिस्रोतः तः

37
अम्बयो यन्तीति क्षीरौदनोत्कुचस्तम्बपाटाविज्ञानानि १
सांग्रामिकं वेदिविज्ञानम् २
वेनस्तदिति पञ्चपर्वेषुकुम्भकमण्डलुस्तम्बकाम्पीलशाखायुगेध्माक्षेषु पाण्योरेकविंशत्यां शर्करास्वीक्षते ३
कुम्भमहतेन परिवेष्ट्याधाय शयने विकृते संपातानतिनयति ४
अनतीकाशमवच्छाद्यारजोवित्ते कुमार्यौ येन हरेतां ततो नष्टम् ५
एवं सीरे साक्षे ६
लोष्टानां कुमारीमाह यमिच्छसि तमादत्स्वेति ७
आकृतिलोष्टवल्मीकौ कल्याणम् ८
चतुष्पथाद्बहुचारिणी ९
श्मशानान्नचिरं जीवति १०
उदकाञ्जलिं निनयेत्याह ११
प्राचीनमपक्षिपन्त्यां कल्याणम् १२

३७

38
जरायुत इति दुर्दिनमायन्प्रत्युत्तिष्ठति १
अन्वृचमुदवज्रैः २
अस्युल्मुककिष्कुरूनादाय ३
नग्नो ललाटमुन्मृजानः ४
उत्साद्य बाह्यतोऽङ्गारकपाले शिग्रुशर्करा जुहोति ५
केरार्कावादधाति ६
वर्षपरीतः प्रतिलोमकर्षितस्त्रिः परिक्रम्य खदायामर्कं क्षिप्रं संवपति ७
नमस्ते अस्तु यस्ते पृथु स्तनयित्नुरित्यशनियुक्तमपादाय ८
प्रथमस्य सोमदर्भकेशानीकुष्ठलाक्षामञ्जिष्ठीबदरहरिद्रं भूर्जशकलेन परिवेष्ट्य मन्थशिरस्युर्वरामध्ये निखनति ९
दधि नवेनाश्नात्या संहरणात् १०
आशापालीयं तृतीयावर्जं दृंहणानि ११
भौमस्य दृतिकर्माणि १२
पुरोडाशानश्मोत्तरानन्तःस्रक्तिषु निदधाति १३
उभयान्संपातवतः १४
सभाभागधानेषु च १५
असंतापे ज्योतिरायतनस्यैकतोऽन्यं शयानो भौमं जपति १६
इयं वीरुदिति मदुघं खादन्नपराजितात्परिषदमाव्रजति १७
नेच्छत्रुरिति पाटामूलं प्रतिप्राशितम् १८
अन्वाह १९
बध्नाति २०
मालां सप्तपलाशीं धारयति २१
ये भक्षयन्त इति परिषद्येकभक्तमन्वीक्षमाणो भुङ्क्ते २२
ब्रह्म जज्ञानमित्यध्यायानुपाकरिष्यन्नभिव्याहारयति २३
प्राशमाख्यास्यन् २४
ब्रह्मोद्यं वदिष्यन् २५
ममाग्ने वर्च इति विभुङ्क्ष्यमाणः प्रमत्तरज्जुं बध्नाति २६
सभा च मेति भक्षयति २७
स्थूणे गृह्णात्युपतिष्ठते २८
यद्वदामीति मन्त्रोक्तम् २९
अहमस्मीत्यपराजितात्परिषदमाव्रजति ३०

३८

39
दूष्या दूषिरसीति स्राक्त्यं बध्नाति १
पुरस्तादग्नेः पिशङ्गं गां कारयति २
पश्चादग्नेर्लोहिताजम् ३
यूषपिशितार्थम् ४
मन्त्रोक्ताः ५
वाशाकाम्पीलसितीवारसदंपुष्पा अवधाय ६
दूष्या दूषिरसि ये पुरस्तादीशानां त्वा समं ज्योतिरुतो अस्यबन्धुकृत्सुपर्णस्त्वा यां ते चक्रुरयं प्रतिसरो यां कल्पयन्तीति महाशान्तिमावपते ७
निश्यवमुच्योष्णीष्यग्रतः प्रोक्षन्व्रजति ८
यतायै यतायै शान्तायै शान्तिवायै भद्रायै भद्रावति स्योनायै शग्मायै शिवायै सुमङ्गलि प्रजावति सुसीमेऽहं वामाभूरिति ९
अभावादपविध्यति १०
कृत्ययामित्रचक्षुषा समीक्षन्कृतव्यधनीत्यवलिप्तं कृत्यया विध्यति ११
उक्तावलेखनीम् १२
दूष्या दूषिरसीति दर्व्या त्रिः सारूपवत्सेनापोदकेन मथितेन गुल्फान्परिषिञ्चति १३
शकलेनावसिच्य यूषपिशितान्याशयति १४
यष्टिभिश्चर्म पिनह्य प्रैषकृत्परिक्रम्य बन्धान्मुञ्चति संदंशेन १५
अन्यत्पार्श्वीं संवेशयति १६
शकलेनोक्तम् १७
अभ्यक्तेति नवनीतेन मन्त्रोक्तम् १८
दर्भरज्ज्वा संनह्योत्तिष्ठैवेत्युत्थापयति १९
सव्येन दीपं दक्षिणेनोदकालाब्वादाय वाग्यताः २०
प्रैषकृदग्रतः २१
अनावृतम् २२
अगोष्पदम् २३
अनुदकखातम् २४
दक्षिणाप्रवणे वा स्वयंदीर्णे वा स्वकृते वेरिणेऽन्याशायां वा निदधाति २५
अलाबुना दीपमवसिच्य यथा सूर्य इत्यावृत्याव्रजति २६
तिष्ठंस्तिष्ठन्तीं महाशान्तिमुच्चैरभिनिगदति २७
मर्माणि संप्रोक्षन्ते २८
कृष्णसीरेण कर्षति २९
अधि सीरेभ्यो दश दक्षिणा ३०
अभिचारदेशा मन्त्रेषु विज्ञायन्ते तानि मर्माणि ३१

३९

40
यददः संप्रयतीरिति येनेच्छेन्नदी प्रतिपद्येतेति प्रसिञ्चन्व्रजति १
काशदिविधुवकवेतसान्निमिनोति २
इदं व आप इति हिरण्यमधिदधाति ३
अयं वत्स इतीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सकक्षं बद्ध्वा ४
इहेत्थमित्यवकया प्रच्छादयति ५
यत्रेदमिति निनयति ६
मारुतं क्षीरौदनं मारुतशृतं मारुतैः परिस्तीर्य मारुतेन स्रुवेण मारुतेनाज्येन वरुणाय त्रिर्जुहोति ७
उक्तमुपमन्थनम् ८
दधिमन्थं बलिं हृत्वा संप्रोक्षणीभ्यां प्रसिञ्चन्ब्रजति ९
पाणिना वेत्रेण वा प्रत्याहत्योपरि निपद्यते १०
अयं ते योनिरित्यरण्योरग्निं समारोपयति ११
आत्मनि वा १२
उपावरोह जातवेदः पुनर्देवो देवेभ्यो हव्यं वह प्रजानन् । आनन्दिनो मोदमानाः सुवीरा इन्धीमहि त्वा शरदां शतानीत्युपावरोहयति १३
यां त्वा गन्धर्वो अखनद्वृषणस्ते खनितारो वृषा त्वमस्योषधे । वृषासि वृष्ण्यावति वृषणे त्वा खनामसीत्युच्छुष्मापरिष्याधावायसेन खनति १४
दुग्धे फाण्टावधिज्योपस्थ आधाय पिबति १५
मयूखे मुसले वासीनो यथासित इत्येकार्कसूत्रमार्कं बध्नाति १६
यावदङ्गीनमित्यसितस्कन्धमसितवालेन १७
आ वृषायस्वेत्युभयमप्येति १८

४०

41
समुत्पतन्तु प्र नभस्वेति वर्षकामो द्वादशरात्रमनुशुष्येत् १
सर्वव्रत उपश्राम्यति २
मरुतो यजते यथा वरुणं जुहोति ३
ओषधीः संपातवतीः प्रवेश्याभिन्युब्जति ४
विप्लावयेत ५
श्वशिरण्टकशिरः केशजरदुपानहो वंशाग्रे प्रबध्य योधयति ६
उदपात्रेण संपातवता संप्रोक्ष्यामपात्रं त्रिपादेऽश्मानमवधायाप्सु निदधाति ७
अयं ते योनिरा नो भर धीती वेत्यर्थमुत्थास्यन्नुपदधीत ८
जपति ९
पूर्वास्वषाढासु गर्तं खनति १०
उत्तरासु संचिनोति ११
आदेवनं संस्तीर्य १२
उद्भिन्दतीं संजयन्तीं यथा पृक्षमशनिरिदमुग्रायेति वासितानक्षान्निवपति १३
अम्बयो यन्ति शंभुमयोभू हिरण्यवर्णा यददः पुनन्तु मा सस्रुषीर्हिमवतः प्र स्रवन्ति वायोः पूतः पवित्रेण शं च नो मयश्च नोऽनडुड्मस्त्वं प्रथमं मह्यमापो वैश्वानरो रश्मिभिरित्यभिवर्षणावसेचनानाम् १४
उत्तमेन वाचस्पतिलिङ्गाभिरुद्यन्तमुपतिष्ठते १५
स्नातोऽहतवसनो निक्त्वाहतमाच्छादयति १६
ददाति १७
यथा मासमिति वननम् १८
वत्सं संधाव्य गोमूत्रेणावसिच्य त्रिः परिणीयोपचृतति १९
शिरःकर्णमभिमन्त्रयते २०
वातरंहा इति स्नातेऽश्वे संपातानभ्यतिनयति २१
पलाशे चूर्णेषूत्तरान् २२
आचमयति २३
आप्लावयति २४
चूर्णैरवकिरति २५
त्रिरेकया चेति २६

४१

42
भद्रादधीति प्रवत्स्यन्नुपदधीत १
जपति २
यानं संप्रोक्ष्य विमोचयति ३
द्रव्यं संपातवदुत्थापयति ४
निर्मृज्योपयच्छति ५
उभा जिग्यथुरित्यार्द्रपादाभ्यां सांमनस्यम् ६
यानेन प्रत्यञ्चौ ग्रामान्प्रतिपाद्य प्रयच्छति ७
आयातः समिध आदायोर्जं बिभ्रदित्यसंकल्पयन्नेत्य सकृदादधाति ८
ऋचं सामेत्यनुप्रवचनीयस्य जुहोति ९
युक्ताभ्यां तृतीयाम् १०
आनुमतीं चतुर्थीम् ११
समावर्तनीयसमापनीययोश्चैषेज्या १२
अपो दिव्या इति पर्यवेतव्रत उदकान्ते शान्त्युदकमभिमन्त्रयते १३
अस्तमिते समित्पाणिरेत्य तृतीयावर्जं समिध आदधाति १४
इदावत्सरायेति व्रतविसर्जनमाज्यं जुहुयात् १५
समिधोऽभ्यादध्यात् १६
इदावत्सराय परिवत्सराय संवत्सराय प्रतिवेदयाम एनत्।
यद्व्रतेषु दुरितं निजग्मिमो दुर्हार्दं तेन शमलेनाञ्ज्मः।।
यन्मे व्रतं व्रतपते लुलोभाहोरात्रे समधातां म एनत्।
उद्यन्पुरस्ताद्भिषगस्तु चन्द्रमाः सूर्यो रश्मिभिरभिगृणात्वेनत्।।
यद्व्रतमतिपेदे चित्त्या मनसा हृदा।
आदित्या रुद्रास्तन्मयि वसवश्च समिन्धताम्।।
व्रतानि व्रतपतय उपाकरोम्यग्नये।
स मे द्युम्नं बृहद्यशो दीर्घमायुः कृणोतु म इति व्रतसमापनीरादधाति १७
त्रिरात्रमरसाशी स्नातव्रतं चरति १८
निर्लक्ष्म्यमिति पापलक्षणाया मुखमुक्षत्यन्वृचं दक्षिणात्केशस्तुकात् १९
पलाशेन फलीकरणान्हुत्वा शेषं प्रत्यानयति २०
फलीकरणतुषबुसावतक्षणानि सव्यायां पादपार्ष्ण्यां निदधाति २१
अपनोदनापाघाभ्यामन्वीक्षं प्रतिजपति २२
दीर्घायुत्वायेति मन्त्रोक्तं बध्नाति २३

४२

43
कर्शफस्येति पिशङ्गसूत्रमरलुदण्डं यदायुधम् १
फलीकरणैर्धूपयति २
अति धन्वानीत्यवसाननिवेशनानुचरणानि निनयनेज्या ३
वास्तोष्पतीयैः कुलिजकृष्टे दक्षिणतोऽग्नेः संभारमाहरति ४
वास्तोष्पत्यादीनि महाशान्तिमावपते ५
मध्यमे गर्ते दर्भेषु व्रीहियवमावपति ६
शान्त्युदकशष्पशर्करमन्येषु ७
इहैव ध्रुवामिति मीयमानामुच्छ्रीयमाणामनुमन्त्रयते ८
अभ्यज्यर्तेनेति मन्त्रोक्तम् ९
पूर्णं नारीत्युदकुम्भमग्निमादाय प्रपद्यन्ते १०
ध्रुवाभ्यां दृंहयति ११
शंभुमयोभुभ्यां विष्यन्दयति १२
वास्तोष्पते प्रति जानीह्यस्मान्स्वावेशो अनमीवो न एधि।
यत्त्वेमहे प्रति नस्तज्जुषस्व चतुष्पदो द्विपद आ वेशयेह।
अनमीवो वास्तोष्पते विश्वा रूपाण्याविशन् ।
सखा सुशेव एधि न इति
वास्तोष्पतये क्षीरौदनस्य जुहोति १३
सर्वान्नानि ब्राह्मणान्भोजयति १४
मङ्गल्यानि १५
ये अग्नय इति क्रव्यादनुपहत इति पालाशं बध्नाति १६
जुहोति १७
आदधाति १८
उदञ्चनेनोदपात्र्यां यवानद्भिरानीयोल्लोपम् १९
ये अग्नय इति पालाश्या दर्व्या मन्थमुपमथ्य काम्पीलीभ्यामुपमन्थनीभ्याम् २०
शमनं च २१

४३

44
य आत्मदा इति वशाशमनम् १
पुरस्तादग्नेः प्रतीचीं धारयन्ति २
पश्चादग्नेः प्राङ्मुख उपविश्यान्वारब्धायै शान्त्युदकं करोति ३
तत्रैतत्सूक्तमनुयोजयति ४
तेनैनामाचामयति च संप्रोक्षति च ५
तिष्ठंस्तिष्ठन्तीं महाशान्तिमुच्चैरभिनिगदति ६
य ईशे पशुपतिः पशूनामिति हुत्वा वशामनक्ति शिरसि ककुदे जघनदेशे ७
अन्यतरां स्वधितिधारामनक्ति ८
अक्तया वपामुत्खनति ९
दक्षिणे पार्श्वे दर्भाभ्यामधिक्षिपत्यमुष्मै त्वा जुष्टमिति यथादेवतम् १०
निस्सालामित्युल्मुकेन त्रिः प्रसव्यं परिहरत्यनभिपरिहरन्नात्मानम् ११
दर्भाभ्यामन्वारभते १२
पश्चादुत्तरतोऽग्नेः प्रत्यक्शीर्षीमुदक्पादीं निविध्यति १३
समस्यै तन्वा भवेत्यन्यतरं दर्भमवास्यति १४
अथ प्राणानास्थापयति प्रजानन्त इति १५
दक्षिणतस्तिष्ठन्रक्षोहणं जपति १६
संज्ञप्तायां जुहोति
यद्वशा मायुमक्रतोरो वा पड्भिराहत ।
अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वंहस इति १७
उदपात्रेण पत्न्यभिव्रज्य मुखादीनि गात्राणि प्रक्षलयते १८
मुखं शुन्धस्व देवयज्याया इति १९
प्राणानिति नासिके २०
चक्षुरिति चक्षुषी २१
श्रोत्रमिति कर्णौ २२
यत्ते क्रूरं यदास्थितमिति समन्तं रज्जुधानम् २३
चरित्राणीति पादान्समाहृत्य २४
नाभिमिति नाभिम् २५
मेढ्रमिति भेढ्रम् २६
पायुमिति पायुम् २७
यत्ते क्रूरं यदास्थितं तच्छुन्धस्वेत्यवशिष्टाः पार्श्वदेशेऽवसिच्य यथार्थं व्रजति २८
वपाश्रपण्यावाज्यं स्रुवं स्वधितिं दर्भमादायाभिव्रज्योत्तानां परिवर्त्मानुलोमं नाभिदेशे दर्भमास्तृणाति २९
ओषधे त्रायस्वैनं स्वधिते मैनं हिंसीरिति शस्त्रं प्रयच्छति ३०
इदमहमामुष्यायणस्यामुष्याः पुत्रस्य प्राणापानावपकृन्तामीत्यपकृत्य ३१
अधरप्रव्रस्केन लोहितस्यापहत्य ३२
इदमहमामुष्यायणस्यामुष्याः पुत्रस्य प्राणापानौ निखनामीत्यास्ये निखनति ३३
वपया द्यावापृथिवी प्रोर्णुवाथामिति वपाश्रपण्यौ वपया प्रच्छाद्य ३४
स्वधितिना प्रकृत्योत्कृत्य ३५
आव्रस्कमभिघार्य ३६
वायवे स्तोकानामिति दर्भाग्रं प्रास्यति ३७
प्रत्युष्टं रक्ष इति चरुमङ्गारे निदधाति ३८
देवस्त्वा सविता
श्रपयत्विति श्रपयति ३९
सुशृतां करोति ४०

४४

45
यद्यष्टापदी स्याद्गर्भमञ्जलौ सहिरण्यं सयवं वा य आत्मदा इति खदायां त्र्यरत्नावग्नौ सकृज्जुहोति १
विशस्य समवत्तान्यवद्येत् २
हृदयं जिह्वा श्येनश्च दोषी पार्श्वे च तानि षट्।
यकृद्वृक्कौ गुदश्रोणी तान्येकादश दैवतानि ३
दक्षिणः कपिललाटः सव्या श्रोणिर्गुदश्च यः।
एतानि त्रीणि त्र्यङ्गानि स्विष्टकृद्भाग एव ४
तदवद्य प्रज्ञातानि श्रपयेत् ५
होष्यन्द्विर्द्विर्देवतानामवद्येत् ६
सकृत्सकृत्सौविष्टकृतानाम् ७
वपायाः समिद्ध ऊर्ध्वा अस्येति जुहोति ८
युक्ताभ्यां तृतीयाम् ९
आनुमतीं चतुर्थीम् १०
जातवेदो वपया गच्छ देवांस्त्वं हि होता प्रथमो बभूथ।
घृतस्याग्ने तन्वा सं भव सत्याः सन्तु यजमानस्य कामाः स्वाहा ११
ऊर्ध्वं नभसं मारुतं गच्छतमिति वपाश्रपण्यावनुप्रहरति १२
प्राचीमेकशृङ्गां प्रतीचीं द्विशृङ्गाम् १३
पित्र्येषु वह वपां जातवेदः पितृभ्यो यत्रैतान्वेत्थ निहितान्पराके ।
मेदसः कुल्या उप तान्स्रवन्तु सत्या एषामाशिषः सन्तु कामाः स्वाहा स्वधेति वपायास्त्रिर्जुहोति १४
समवत्तानाम् १५
स्थालीपाकस्य सम्राडस्यधिश्रयणं नाम सखीनामभ्यहं विश्वा आशाः साक्षीय।
कामोऽसि कामाय त्वा सर्ववीराय सर्वपुरुषाय सर्वगणाय सर्वकाभाय जुहोमि
अन्वद्य नोऽनुमतिः पूषा सरस्वती मही । यत्करोमि तदृध्यतामनुमतये स्वाहेति जुहोति १६
क इदं कस्मा अदात्कामस्तदग्रे यदन्नं पुनर्मैत्विन्द्रियमिति प्रतिगृह्णाति १७
उत्तमा सर्वकर्मा १८
वशया पाकयज्ञा व्याख्याताः १९

४५

46
उतामृतासुः शिवास्त इत्यभ्याख्याताय प्रयच्छति १
द्रुघणशिरो रज्ज्वा बध्नाति २
प्रतिरूपं पलाशायोलोहहिरण्यानाम् ३
येन सोमेति याजयिष्यन्सारूपवत्समश्नाति ४
निधने यजते ५
यं याचामि यदाशसेति याचिष्यन् ६
मन्त्रोक्तानि पतितेभ्यो देवाः कपोत ऋचा कपोतममून्हेतिरिति महाशान्तिमावपते ७
परीमेऽग्निमित्यग्निं गामादाय निशि कारयमाणस्त्रिः शालां परिणयति ८
परोऽपेहि यो न जीव इति स्वप्नं दृष्ट्वा मुखं विमार्ष्टि ९
अतिघोरं दृष्ट्वा मैश्रधान्यं पुरोडाशमन्याशायां वा निदधाति १०
पर्यावर्त इति पर्यावर्तते ११
यत्स्वप्न इत्यशित्वा वीक्षते १२
विद्म ते स्वप्नेति सर्वेषामप्ययः १३
नहि ते अग्ने तन्व इति ब्रह्मचार्याचार्यस्यादहन उपसमाधाय त्रिः परिक्रम्य पुरोडाशं जुहोति १४
त्रिरात्रमपर्यावर्तमानः शयीत १५
नोपशयीतेति कौशिकः १६
स्नानीयाभिः स्नायात् १७
अपर्यवेतव्रतः प्रत्युपेयात् १८
अवकीर्णिने दर्भशुल्बमासज्य यत्ते देवीत्यावपति १९
एवं संपातवतोदपात्रेणावसिच्य २०
मन्त्रोक्तं शान्त्युदकेन संप्रोक्ष्य २१
सं समिदिति स्वयंप्रज्वलितेऽग्नौ २२
अग्नी रक्षांसि सेधतीति सेधन्तम् २३
यदस्मृतीति संदेशमपर्याप्य २४
प्रत्नो हीति पापनक्षत्रे जाताय मूलेन २५
मा ज्येष्ठं तृते देवा इति परिवित्तिपरिविविदानावुदकान्ते मौञ्जैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति २६
अवसिञ्चति २७
फेनेषूत्तरान्पाशानाधाय नदीनां फेनानिति प्रप्लावयति २८
सर्वैश्च प्रविश्यापां सूक्तैः २९
देवहेडनेन मन्त्रोक्तम् ३०
आचार्याय ३१
उपदधीत ३२
खदाशयस्यावपते ३३
वैवस्वतं यजते ३४
चतुःशरावं ददाति ३५
उत्तमर्णे मृते तदपत्याय प्रयच्छति ३६
सगोत्राय ३७
श्मशाने निवपति ३८
चतुष्पथे च ३९
कक्षानादीपयति ४०
दिवो नु मामिति वीध्रबिन्दून्प्रक्षालयति ४१
मन्त्रोक्तैः स्पृशति ४२
यस्योत्तमदन्तौ पूर्वौ जायेते यौ व्याघ्रावित्यावपति ४३
मन्त्रोक्तान्दंशयति ४४
शान्त्युदकशृतमादिष्टानामाशयति ४५
पितरौ च ४६
इदं यत्कृष्ण इति कृष्णशकुनिनाधिक्षिप्तम् प्रक्षालयति ४७
उपमृष्टं पर्यग्नि करोति ४८
प्रतीचीनफल इत्यपामार्गेध्मेऽपामार्गीरादधाति ४९
यदर्वाचीनमित्याचामति ५०
यत्ते भूम इति विखनति ५१
यत्त ऊनमिति संवपति ५२
प्रेहि प्र हरेति कापिञ्जलानि
स्वस्त्ययनानि भवन्ति ५३
प्रेहि प्र हर वा दावान्गृहेभ्यः स्वस्तये।
कपिञ्जल प्रदक्षिणं शतपत्त्राभि नो वद।।
भद्रम् वद दक्षिणतो भद्रमुत्तरतो वद।
भद्रं पुरस्तान्नो वद भद्रं पश्चात्कपिञ्जल।।
शुनं वद दक्षिणतः शुनमुत्तरतो वद।
शुनं पुरस्तान्नो वद शुनं पश्चात्कपिञ्जल।।
भद्रं वद पुत्रैर्भद्रं वद गृहेषु च।
भद्रमस्माकं वद भद्रं नो अभयं वद।।
आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः।
यदुत्पतन्वदसि कर्करिर्यथा बृहद्वदेम विदथे सुवीराः।।
यौवनानि महयसि जिग्युषामिव दुन्दुभिः।
कपिञ्जल प्रदक्षिणं शतपत्त्राभि नो वदेति कापिञ्जलानि स्वस्त्ययनानि भवन्ति ५४
यो अभ्यु बभ्रुणायसि स्वपन्तमत्सि पुरुषं शयानमगत्स्वलम् ।
अयस्मयेन ब्रह्मणाश्ममयेन वर्मणा पर्यस्मान्वरुणो दधदित्यभ्यवकाशे संविशत्यभ्यवकाशे संविशति ५५
१०
४६
इत्यथर्ववेदे कौशिकसूत्रे पञ्चमोऽध्यायः समाप्तः


(५,१[३७].१) <अम्बयो यन्त्य्[१.४.१]>_इति क्षीरौदन_उत्कुचस्तम्बपाटाविज्ञानानि

(५,१[३७].२) सांग्रामिकं वेदिविज्ञानम्

(५,१[३७].३) <वेनस्तत्[२.१.१]>_इति पञ्चपर्वेषुकुम्भकमण्डलुस्तम्बकाम्पीलशाखायुग_इध्माक्षेषु पाण्योरेकविंशत्यां शर्करासु_ईक्षते

(५,१[३७].४) कुम्भमहतेन परिवेष्ट्याधाय शयने विकृते संपातानतिनयति

(५,१[३७].५) अनतीकाशमवछाद्यारजोवित्ते कुमार्यौ येन हरेतां ततो नष्टम्

(५,१[३७].६) एवं सीरे साक्षे

(५,१[३७].७) लोष्टानां कुमारीमाह यमिछसि तमादत्स्व_इति

(५,१[३७].८) आकृतिलोष्टवल्मीकौ कल्याणम्

(५,१[३७].९) चतुष्पथाद्बहुचारिणी

(५,१[३७].१०) श्मशानात्_न चिरं जीवति

(५,१[३७].११) उदकाञ्जलिं निनय_इत्याह

(५,१[३७].१२) प्राचीनमपक्षिपन्त्यां कल्याणम्


(५,२[३८].१) <जरायुजः [१.१२.१]>_इति दुर्दिनमायन् प्रत्युत्तिष्ठति

(५,२[३८].२) अन्वृचमुदवज्रैः

(५,२[३८].३) असि_उल्मुककिष्कुरूनादाय

(५,२[३८].४) नग्नो ललाटमुन्मृजानः

(५,२[३८].५) उत्साद्य बाह्यतो_अङ्गारकपाले शिग्रुशर्करा जुहोति

(५,२[३८].६) केरार्कौ_आदधाति

(५,२[३८].७) वर्षपरीतः प्रतिलोमकर्षितस्त्रिः परिक्रम्य खदायामर्कं क्षिप्रं संवपति

(५,२[३८].८) <नमस्ते अस्तु [१.१३.१]> <यस्ते पृथु स्तनयित्नुर्[७.११.१]> इत्यशनियुक्तमपादाय

(५,२[३८].९) प्रथमस्य सोमदर्भकेशानीकुष्ठलाक्षामञ्जिष्ठीबदरहरिद्रं भूर्जशकलेन परिवेष्ट्य मन्थशिरसि_उर्वरामध्ये निखनति

(५,२[३८].१०) दधि नवेनाश्नाति_आ संहरणात्

(५,२[३८].११) आशापालीयं तृतीयावर्जं दृंहणानि

(५,२[३८].१२) भौमस्य दृतिकर्माणि

(५,२[३८].१३) पुरोडाशानश्मोत्तरानन्तःस्रक्तिषु निदधाति

(५,२[३८].१४) उभयान् संपातवतः

(५,२[३८].१५) सभाभागधानेषु च

(५,२[३८].१६) असंतापे ज्योतिरायतनस्य_एकतो_अन्यं शयानो भौमं जपति

(५,२[३८].१७) <इयं वीरुन् [१.३४.१]>_इति मदुघं खादन्नपराजितात्परिषदमाव्रजति

(५,२[३८].१८) <नेच्छत्रुः [२.२७.१]>_इति पाटामूलं प्रतिप्राशितम्

(५,२[३८].१९) अन्वाह

(५,२[३८].२०) बध्नाति

(५,२[३८].२१) मालां सप्तपलाशीं धारयति

(५,२[३८].२२) <ये भक्षयन्तो [२.३५.१]>_इति परिषदि_एकभक्तमन्वीक्षमाणो भुङ्क्ते

(५,२[३८].२३) <ब्रह्म जज्ञानं [४.१.१]>_इत्यध्यायानुपाकरिष्यन्नभिव्याहारयति

(५,२[३८].२४) प्राशमाख्यास्यन्

(५,२[३८].२५) ब्रह्मोद्यं वदिष्यन्

(५,२[३८].२६) <ममाग्ने वर्चो [५.३.१]>_इति विभुङ्क्ष्यमाणः प्रमत्तरज्जुं बध्नाति

(५,२[३८].२७) <सभा च मा [७.१२.१]>_इति भक्षयति

(५,२[३८].२८) स्थूणे गृह्णाति_उपतिष्ठते

(५,२[३८].२९) <यद्वदामि [१२.१.५८]>_इति मन्त्रोक्तम्

(५,२[३८].३०) <अहमस्मि [१२.१.५४]>_इत्यपराजितात् परिषदमाव्रजति


(५,३[३९].१) <दूष्या दूषिरसि [२.११.१]>_इति स्राक्त्यं बध्नाति

(५,३[३९].२) पुरस्तादग्नेः पिशङ्गं गां कारयति

(५,३[३९].३) पश्चादग्नेर्लोहिताजम्

(५,३[३९].४) यूषपिशितार्थम्

(५,३[३९].५) मन्त्रोक्ताः

(५,३[३९].६) वाशाकाम्पीलसितीवारसदंपुष्पा अवधाय

(५,३[३९].७) <दूष्या दुषिरसि [२.११.१]> <ये पुरस्ताज्[४.४०.१]>_<ईशानां त्वा [४.१७.१]> <समं ज्योतिः [४.१८.१]>_<उतो अस्यबन्धुकृद्[४.१९.१]>_<सुपर्णस्त्वा [५.१४.१]>_<यां ते चक्रुर्[५.३१.१]> <अयं प्रतिसरो [८.५.१]> <यां कल्पयन्ति [१०.१.१]>_इति महाशान्तिमावपते

(५,३[३९].८) निशि_अवमुच्य_उष्णीषी_अग्रतः प्रोक्षन् व्रजति

(५,३[३९].९) यतायै यतायै शान्तायै शान्तिवायै भद्रायै भद्रावति स्योनायै शग्मायै शिवायै सुमङ्गलि प्रजावति सुशीमे [एद्. +सुसीमे]_अहं वामाभूरिति

(५,३[३९].१०) अभावादपविध्यति

(५,३[३९].११) कृत्ययामित्रचक्षुषा समीक्षन् [नोते ष्पेइजेर्ंुसेउम् ९ २५१ चोन्ज्. समक्षं] <कृतव्यधनि [५.१४.९]>_इत्यवलिप्तं कृत्यया विध्यति

(५,३[३९].१२) उक्तावलेखनीम्

(५,३[३९].१३) <दूष्या दुषिरसि [२.११.१]>_इति दर्व्या त्रिः सारूपवत्सेनापोदकेन मथितेन गुल्फान् परिषिञ्चति

(५,३[३९].१४) शकलेनावसिच्य यूषपिशितानि_आशयति

(५,३[३९].१५) यष्टिभिस्_चर्म पिनह्य प्रैषकृत्परिक्रम्य बन्धान्मुञ्चति संदंशेन

(५,३[३९].१६) अन्यत्पार्श्वीं संवेशयति

(५,३[३९].१७) शकलेनोक्तम्

(५,३[३९].१८) <अभ्यक्ता [१०.१.२५]>_इति नवनीतेन मन्त्रोक्तम्

(५,३[३९].१९) दर्भरज्ज्वा संनह्य_<उत्तिष्ठैव [१०.१.२० ]>_इत्युत्थापयति

(५,३[३९].२०) सव्येन दीपं दक्षिणेन_उदकालाबु_आदाय वाग्यताः

(५,३[३९].२१) प्रैषकृदग्रतः

(५,३[३९].२२) अनावृतम्

(५,३[३९].२३) अगोष्पदम्

(५,३[३९].२४) अनुदकखातम्

(५,३[३९].२५) दक्षिणाप्रवणे वा स्वयंदीर्णे वा स्वकृते वा_इरिणे_अन्याशायां वा निदधाति

(५,३[३९].२६) अलाबुना दीपमवसिच्य <यथा सूर्यो [१०.१.३२]>_इत्यावृत्याव्रजति

(५,३[३९].२७) तिष्ठन्_तिष्ठन्तीं महाशान्तिमुच्चैरभिनिगदति

(५,३[३९].२८) मर्माणि संप्रोक्षन्ते

(५,३[३९].२९) कृष्णसीरेण कर्षति

(५,३[३९].३०) अधि सीरेभ्यो दश दक्षिणा

(५,३[३९].३१) अभिचारदेशा मन्त्रेषु विज्ञायन्ते तानि मर्माणि


(५,४[४०].१) <यददः संप्रयतीर्[३.१३.१]> इति येन_इछेत्_नदी प्रतिपद्येत_इति प्रसिञ्चन् व्रजति

(५,४[४०].२) काशदिविधुवकवेतसान्निमिनोति

(५,४[४०].३) <इदं व आपो [३.१३.७ ]>_इति हिरण्यमधिदधाति

(५,४[४०].४) <अयं वत्स [३.१३.७ ]> इतीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सकक्षं बद्ध्वा

(५,४[४०].५) <इहेत्थम् [३.१३.७ ]> इत्यवकया प्रछादयति

(५,४[४०].६) <यत्रेदं [३.१३.७ ]>_इति निनयति

(५,४[४०].७) मारुतं क्षीरौदनं मारुतशृतं मारुतैः परिस्तीर्य मारुतेन स्रुवेण मारुतेनाज्येन वरुणाय त्रिर्जुहोति

(५,४[४०].८) उक्तमुपमन्थनम्

(५,४[४०].९) दधिमन्थं बलिं हृत्वा संप्रोक्षणीभ्यां प्रसिञ्चन् व्रजति

(५,४[४०].१०) पाणिना वेत्रेण वा प्रत्याहत्य_उपरि निपद्यते

(५,४[४०].११) <अयं ते योनिर्[३.२०.१]> इत्यरण्योरग्निं समारोपयति

(५,४[४०].१२) आत्मनि वा

(५,४[४०].१३) <उपावरोह जातवेदः पुनर्देवो देवेभ्यो हव्यं वह प्रजानन् । आनन्दिनो मोदमानाः सुवीरा इन्धीमहि त्वा शरदां शतानि [दृष्टव्यम्‌ तै.ब्रा. २.५.८.८, ॑षाङ्ख्॑ष्ष्२.१७.१, ॑षाङ्ह्ङ्ष्५.१.७]>_इत्युपावरोहयति

(५,४[४०].१४) <यां त्वा गन्धर्वो अखनद्[४.४.१ (= पै.सं.४.५.१)]> <वृषणस्ते खनितारो वृषा त्वमस्योषधे । वृषासि वृष्ण्यावति वृषणे त्वा खनामसि [पै.सं.४.५.२]>_इत्युच्छुष्मापरिव्याधावायसेन खनति

(५,४[४०].१५) दुग्धे फाण्टौ_+अधिज्यमुपस्थ+ (एद्. अदिज्योपस्थ॑ दृष्टव्यम्‌ Bलोओम्fइएल्द्, ष्BE ४२, प्. ३६९, न्. २) आधाय पिबति

(५,४[४०].१६) मयूखे मुसले वासीनो <यथासितः [६.७२.१]>_इत्येकार्कसूत्रमार्कं बध्नाति

(५,४[४०].१७) <यावदङ्गीनं [६.७२.३]>_इत्यसितस्कन्धमसितवालेन

(५,४[४०].१८) <आ वृषायस्व [६.१०१.१]>_इत्युभयमप्येति


(५,५[४१].१) <समुत्पतन्तु [४.१५.१]> <प्र नभस्व [७.१८.१]>_इति वर्षकामो द्वादशरात्रमनुशुष्येत्

(५,५[४१].२) सर्वव्रत उपश्राम्यति

(५,५[४१].३) मरुतो यजते यथा वरुणं जुहोति

(५,५[४१].४) ओषधीः संपातवतीः प्रवेश्याभिन्युब्जति

(५,५[४१].५) विप्लावयेत

(५,५[४१].६) श्वशिरएटकशिरःकेशजरदुपानहो वंशाग्रे प्रबध्य योधयति

(५,५[४१].७) उदपात्रेण संपातवता संप्रोक्ष्यामपात्रं त्रिपादे_अश्मानमवधायाप्सु निदधाति

(५,५[४१].८) <अयं ते योनिर्[३.२०.१]> <आ नो भर [५.७.१]> <धीती वा [७.१.१]>_इत्यर्थमुत्थास्यन्नुपदधीत

(५,५[४१].९) जपति

(५,५[४१].१०) पूर्वासु_अषाढासु गर्तं खनति

(५,५[४१].११) उत्तरासु संचिनोति

(५,५[४१].१२) आदेवनं संस्तीर्य

(५,५[४१].१३) <उद्भिन्दतीं संजयन्तीम् [४.३८.१]>_<यथा वृक्षमशनिर्[७.५०.१]> <इदमुग्राय [७.१०९.१]>_इति वासितानक्षान्निवपति

(५,५[४१].१४) <अम्बयो यन्त्य्[१.४.१]>_शंभुमयोभू [१.५, १.६] <हिरण्यवर्णाः [१.३३.१]>_<यददः [३.१३.१]> <पुनन्तु मा [६.१९.१]> <सस्रुषीस्[६.२३.१]>_<हिमवतः प्र स्रवन्ति [६.२४.१]> <वायोः पूतः पवित्रेण [६.५१.१]> <शं च नो मयश्च नो [६.५७.३]>_<अनडुद्भ्यस्त्वं प्रथमं [६.५९.१]> <मह्यमापो [६.६१.१]> <वैश्वानरो रश्मिभिर्[६.६२.१]> इत्यभिवर्षणावसेचनानाम्

(५,५[४१].१५) उत्तमेन वाचस्पतिलिङ्गाभिरुद्यन्तमुपतिष्ठते

(५,५[४१].१६) स्नातो_अहतवसनो निक्त्वाहतमाछादयति

(५,५[४१].१७) ददाति

(५,५[४१].१८) <यथा मांसम् [६.७०.१]> इति वचनम्

(५,५[४१].१९) वत्सं संधाव्य गोमूत्रेणावसिच्य त्रिः परिणीय_उपचृतति

(५,५[४१].२०) शिरःकर्णमभिमन्त्रयते

(५,५[४१].२१) <वातरंहा [६.९२.१]> इति स्नाते_अश्वे संपातानभ्यतिनयति

(५,५[४१].२२) पलाशे चूर्णेषूत्तरान्

(५,५[४१].२३) आचमयति

(५,५[४१].२४) आप्लावयति

(५,५[४१].२५) चूर्णैरवकिरति

(५,५[४१].२६) त्रिर्<एकया च [७.४.१]>_इति


(५,६[४२].१) <भद्रादधि [७.८.१]>_इति प्रवत्स्यन्नुपदधीत

(५,६[४२].२) जपति

(५,६[४२].३) यानं संप्रोक्ष्य विमोचयति

(५,६[४२].४) द्रव्यं संपातवदुत्थापयति

(५,६[४२].५) निर्मृज्य_उपयछति

(५,६[४२].६) <उभा जिग्यथुर्[७.४४.१]> इत्यार्द्रपादाभ्यां सांमनस्यम्

(५,६[४२].७) यानेन प्रत्यञ्चौ ग्रामान् प्रतिपाद्य प्रयछति

(५,६[४२].८) आयातः समिध आदाय_<ऊर्जं बिभ्रद्[७.६०.१]> इत्यसंकल्पयन्नेत्य सकृदादधाति

(५,६[४२].९) <ऋचं साम [७.५४.१]>_इत्यनुप्रवचनीयस्य जुहोति

(५,६[४२].१०) युक्ताभ्यां तृतीयाम्

(५,६[४२].११) आनुमतीं चतुर्थीम्

(५,६[४२].१२) समावर्तनीयसमापनीययोस्_च_एषा_इज्या

(५,६[४२].१३) <आपो दिव्या [७.८९.१।१०.५.४६]> इति पर्यवेतव्रत उदकान्ते शान्त्युदकमभिमन्त्रयते

(५,६[४२].१४) अस्तमिते समित्पाणिरेत्य तृतीयवर्जं समिध आदधाति

(५,६[४२].१५) <इदावत्सराय [पै.सं.१९.५१.१४]>_इति व्रतविसर्जनमाज्यं जुहुयात्

(५,६[४२].१६) समिधो_अभ्यादध्यात्

(५,६[४२].१७) <इदावत्सराय परिवत्सराय संवत्सराय प्रति वेदयाम एनत् । यद्व्रतेषु दुरितं निजग्मिमो दुर्हार्दं तेन शमलेनाञ्ज्मः ॥ यन्मे व्रतं व्रतपते लुलोभाहोरात्रे समधातां म एनत् । उद्यन् पुरस्ताद्भिषगस्तु चन्द्रमाः सूर्यो रश्मिभिरभि गृणात्वेनत् ॥ यद्व्रतमतिपेदे चित्त्या मनसा हृदा । आदित्या रुद्रास्तन्मयि वसवश्च समिन्धताम् ॥ व्रतानि व्रतपतय उपा करोम्यग्नये । स मे द्युम्नं बृहद्यशो दीर्घमायुः कृणोतु मे ॥ [पै.सं.१९.५१.१४]>_इति व्रतसमापनीरादधाति

(५,६[४२].१८) त्रिरात्रमरसाशी स्नातव्रतं चरति

(५,६[४२].१९) <निर्लक्ष्म्यं [१.१८.१]>_इति पापलक्षणाया मुखमुक्षति_अन्वृचं दक्षिणात्केशस्तुकात्

(५,६[४२].२०) पलाशेन फलीकरणान् हुत्वा शेषं प्रत्यानयति

(५,६[४२].२१) फलीकरणतुषबुसावतक्षणानि सव्यायां पादपार्ष्ण्यां निदधाति

(५,६[४२].२२) अपनोदनापाघाभ्यामन्वीक्षं प्रतिजपति

(५,६[४२].२३) <दीर्घायुत्वाय [२.४.१]>_इति मन्त्रोक्तं बध्नाति


(५,७[४३].१) <कर्शफस्य [३.९.१]>_इति पिशङ्गसूत्रमरलुदण्डं यदायुधम्

(५,७[४३].२) फलीकरणैर्धूपयति

(५,७[४३].३) <अति धन्वान्य्[७.४१.१]>_इत्यवसाननिवेशनानुचरणातिनयन+_इज्या [एद्. चरणानि निनयन्नेज्या॑ दृष्टव्यम्‌ Cअलन्द्, आZ, प्. १४७, न्. २॑ बुत्Bलोओम्fइएल्द्ङ्ङा १९०२ ५१२!]

(५,७[४३].४) वास्तोष्पतीयैः कुलिजकृष्टे दक्षिणतो_अग्नेः संभारमाहरति

(५,७[४३].५) वास्तोष्पत्यादीनि महाशान्तिमावपते

(५,७[४३].६) मध्यमे गर्ते दर्भेषु व्रीहियवमावपति

(५,७[४३].७) शान्त्युदकशष्पशर्करमन्येषु

(५,७[४३].८) <इहैव ध्रुवां [३.१२.१]>_इत्य्मीयमानामुच्छ्रीयमाणामनुमन्त्रयते

(५,७[४३].९) अभ्यज्य_<ऋतेन [३.१२.६]>_इति मन्त्रोक्तम्

(५,७[४३].१०) <पूर्णं नारि [३.१२.८]>_इत्युदकुम्भमग्निमादाय प्रपद्यन्ते

(५,७[४३].११) ध्रुवाभ्यां दृंहयति

(५,७[४३].१२) शंभुमयोभुभ्यां विष्यन्दयति

(५,७[४३].१३) <वास्तोष्पते प्रति जानीह्यस्मान् स्वावेशो अनमीवो न एधि । यत्त्वेमहे प्रति नस्तज्जुषस्व चतुष्पदो द्विपद आ वेशयेह ॥ [पै.सं.७.६.१०]> <अनमीवो वास्तोष्पते विश्वा रूपाण्याविशन् । सखा सुशेव एधि नः ॥ [पै.सं.२०.२३.२]>_इति वास्तोष्पतये क्षीरौदनस्य जुहोति

(५,७[४३].१४) सर्वान्नानि ब्राह्मणान् भोजयति

(५,७[४३].१५) मङ्गल्यानि

(५,७[४३].१६) <ये अग्नयो [३.२१.१७]>_इति क्रव्यादनुपहत इति पलाशं बध्नाति

(५,७[४३].१७) जुहोति

(५,७[४३].१८) आदधाति

(५,७[४३].१९) उदञ्चनेन_उदपात्र्यां यवानद्भिरानीय_उल्लोपम्

(५,७[४३].२०) <ये अग्नयो [३.२१.१]>_इति पालाश्या दर्व्या मन्थमुपमथ्य काम्पीलीभ्यामुपमन्थनीभ्याम्

(५,७[४३].२१) शमनं च


(५,८[४४].१) <य आत्मदा [४.२.१]> इति वशाशमनम्

(५,८[४४].२) पुरस्तादग्नेः प्रतीचीं धारयति

(५,८[४४].३) पश्चादग्नेः प्राङ्मुख उपविश्यान्वारब्धायै शान्त्युदकं करोति

(५,८[४४].४) तत्र_एतत्सूक्तमनुयोजयति

(५,८[४४].५) तेन_एनामाचामयति च संप्रोक्षति च

(५,८[४४].६) तिष्ठन्_तिष्ठन्तीं महाशान्तिमुच्चैरभिनिगदति

(५,८[४४].७) <य ईशे पशुपतिः पशूनाम् [२.३४.१]> इति हुत्वा वशामनक्ति शिरसि ककुदे जघनदेशे

(५,८[४४].८) अन्यतरां स्वधितिधारामनक्ति

(५,८[४४].९) अक्तया वपामुत्खनति

(५,८[४४].१०) दक्षिणे पार्श्वे दर्भाभ्यामधिक्षिपति_अमुष्मै त्वा जुष्टमिति यथादेवतम्

(५,८[४४].११) <निस्सालाम् [२.१४.१]> इत्युल्मुकेन त्रिः प्रसव्यं परिहरति_अनभिपरिहरनात्मानम्

(५,८[४४].१२) दर्भाभ्यामन्वारभते

(५,८[४४].१३) पश्चादुत्तरतो_अग्नेः प्रत्यक्शीर्षीमुदक्पादीं निविध्यति

(५,८[४४].१४) <समस्यै तन्वा भव [ (नोते अस्यै = ङेनितिवे?)]>_इत्यन्यतरं दर्भमवास्यति

(५,८[४४].१५) अथ प्राणानास्थापयति <प्रजानन्तः [२.३४.५]>_इति

(५,८[४४].१६) दक्षिणतस्तिष्ठन् रक्षोहणं जपति

(५,८[४४].१७) संज्ञप्तायां जुहोति <यद्वशा मायुमक्रतोरो वा पड्भिराहत । अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः [, दृष्टव्यम्‌ तै.सं.३.१.४.३, ंन्B २.२.८ इत्यादि]>_इति

(५,८[४४].१८) उदपात्रेण पत्नी_अभिव्रज्य मुखादीनि गात्राणि प्रक्षालयते

(५,८[४४].१९) मुखं शुन्धस्व देवज्याया इति

(५,८[४४].२०) प्राणानिति नासिके

(५,८[४४].२१) चक्षुरिति चक्षुषी

(५,८[४४].२२) श्रोत्रमिति कर्णौ

(५,८[४४].२३) <यत्ते क्रूरं यदास्थितं [वा.सं. ६.१५]>_इति समन्तं रज्जुधानम्

(५,८[४४].२४) चरित्राणीति पादात्समाहृत्य

(५,८[४४].२५) नाभिमिति नाभिम्

(५,८[४४].२६) मेढ्रमिति मेढ्रम्

(५,८[४४].२७) पायुमिति पायुम्

(५,८[४४].२८) <यत्ते क्रूरं यदास्थितं तच्छुन्धस्व [, दृष्टव्यम्‌ वा.सं. ६.१४१५, तै.सं.१.३.९.१, Bऔध्॑ष्ष्४.६११८.१५ इत्यादि]>_इति अवशिष्टाः पार्श्वदेशे_अवसिच्य यथार्थं व्रजति

(५,८[४४].२९) वपाश्रपण्यौ_आज्यं स्रुवं स्वधितिं दर्भमादायाभिव्रज्य_उत्तानां +परिवर्त्यानुलोमं (एद्. परिवर्त्मा॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ६१) नाभिदेशे दर्भमास्तृणाति

(५,८[४४].३०) <ओषधे त्रायस्वैनं स्वधिते मैनं हिंसीः [वा.सं. ६.१५]>_इति शस्त्रं प्रयछति

(५,८[४४].३१) इदमहमामुष्यायणस्यामुष्याः पुत्रस्य प्राणापानावपकृन्तामीत्यपकृत्य

(५,८[४४].३२) अधरप्रव्रस्केन लोहितस्यापहत्य

(५,८[४४].३३) इदमहमामुष्यायणस्यामुष्याः पुत्रस्य प्राणापानौ निखनामीत्यास्ये निखनति

(५,८[४४].३४) <वपया द्यावापृथिवी प्रोर्णुवाथाम् [, दृष्टव्यम्‌ वा.सं. ६.१६]> इति वपाश्रपण्यौ वपया प्रछाद्य

(५,८[४४].३५) स्वधितिना प्रकृत्य_उत्कृत्य

(५,८[४४].३६) आव्रस्कमभिघार्य

(५,८[४४].३७) <वायो वे [एद्. वायवे, सेए Bलोओम्fइएल्दाञ्ঢ়्२७ (१९०६), प्.४१६] स्तोकानाम् [वा.सं. ६.१६]> इति दर्भाग्रं प्रास्यति

(५,८[४४].३८) <प्रत्युष्टं रक्षः [तै.सं.१.१.२.१, कौ.सू.१.३.९ इत्यादि]>_इति चरुमङ्गारे निदधाति

(५,८[४४].३९) <देवस्त्वा सविता श्रपयतु [दृष्टव्यम्‌ वा.सं. १.२२, तै.ब्रा. ३.२.८.६]>_इति श्रपयति

(५,८[४४].४०) सुशृतां करोति


(५,९[४५].१) यदि_अष्टापदी स्याद्गर्भमञ्जलौ सहिरण्यं सयवं वा <य आत्मदा [४.२.१]> इति खदायां त्र्यरत्नौ_अग्नौ सकृत्_जुहोति

(५,९[४५].२) विशस्य समवत्तानि_अवद्येत्

(५,९[४५].३) <हृदयं जिह्वा श्येनश्च दोषी पार्श्वे च तानि षट् । यकृद्वृक्कौ गुदश्रोणी तान्येकादश दैवतानि । [, दृष्टव्यम्‌ आप.श्रौ.सू.७.२२.६, कात्या.श्रौ.सू.६.७.६ इत्यादि]>

(५,९[४५].४) <दक्षिणः कपिललाटः सव्या श्रोणिर्गुदश्च यः । एतानि त्रीणि त्र्यङ्गानि स्विष्टकृद्भाग एव । [, दृष्टव्यम्‌ आप.श्रौ.सू.७.२२.६, कात्या.श्रौ.सू.६.७.७ इत्यादि]>

(५,९[४५].५) तदवद्य प्रज्ञातानि श्रपयेत्

(५,९[४५].६) होष्यन् द्विर्द्विर्देवतानामवद्येत्

(५,९[४५].७) सकृत्सकृत्सौविष्टकृतानाम्

(५,९[४५].८) वपायाः <समिद्धो [५.१२.१]>_<ऊर्ध्वा अस्य [५.२७.१]>_इति जुहोति

(५,९[४५].९) युक्ताभ्यां तृतीयाम्

(५,९[४५].१०) आनुमतीं चतुर्थीम्

(५,९[४५].११) <जातवेदो वपया गछ देवांस्त्वं हि होता प्रथमो बभूथ । घृतस्याग्ने तन्वा सं भव सत्याः सन्तु यजमानस्य कामाः स्वाहा । [दृष्टव्यम्‌ तै.सं.३.१.४.४]>

(५,९[४५].१२) ऊर्ध्वनभसं [एम्. Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४ एद्. ऊर्ध्वं नभसं] गछतमिति वपाश्रपण्यौ_अनुप्रहरति

(५,९[४५].१३) प्राचीमेकशृङ्गां प्रतीचीं द्विशृङ्गाम्

(५,९[४५].१४) <वह वपां जातवेदः पितृभ्यो यत्रैतान् वेत्थ निहितान् पराके । मेदसः कुल्या उप तान् स्रवन्तु सत्या एषामाशिषः सन्तु कामाः स्वाहा स्वधा [सेए ८४.१, दृष्टव्यम्‌ ंन्B २.३.१८, वा.सं. ३५.२०]>_इति वपायास्त्रिर्जुहोति

(५,९[४५].१५) समवत्तानाम्

(५,९[४५].१६) स्थालीपाकस्य <सम्राडस्यधिश्रयणं नाम सखीनामभ्यहं विश्वा आशाः साक्षीय । कामोऽसि कामाय त्वा सर्ववीराय सर्वपुरुषाय सर्वगणाय सर्वकामाय जुहोमि । अन्वद्य नोऽनुमतिः पूषा सरस्वती मही । यत्करोमि तदृध्यतामनुमतये स्वाहा []>_इति जुहोति

(५,९[४५].१७) <क इदं कस्मा अदात्[३.२९.७८]> <कामस्तदग्रे [१९.५२.१]> <यदन्नम् [६.७१.१]>_<पुनर्मैत्विन्द्रियं [७.६७.१]>_इति प्रतिगृह्णाति

(५,९[४५].१८) उत्तमा सर्वकामा

(५,९[४५].१९) वशया पाकयज्ञा व्याख्याताः


(५,१०[४६].१) <उतामृतासुर्[५.१.७]>_<शिवास्त [७.४३.१]> इत्यभ्याख्याताय प्रयछति

(५,१०[४६].२) द्रुघणशिरो रज्ज्वा बध्नाति

(५,१०[४६].३) प्रतिरूपं पलाशायोलोहहिरण्यानाम्

(५,१०[४६].४) <येन सोम [६.७.१]>_इति याजयिष्यन् सारूपवत्समश्नाति

(५,१०[४६].५) निधने यजते

(५,१०[४६].६) <यं याचाम्य्[५.७.५]>_<यदाशसा [७.५७.१]>_इति याचिष्यन्

(५,१०[४६].७) मन्त्रोक्तानि पतितेभ्यो <देवाः कपोत [६.२७.१]> <ऋचा कपोतं [६.२८.१]>_<अमून् हेतिः [६.२९.१]>_इति महाशान्तिमावपते

(५,१०[४६].८) <परीमेऽग्निम् [६.२८.२]> इत्यग्निं गामादाय निशि कारयमाणस्त्रिः शालां परिणयति

(५,१०[४६].९) <परोऽपेहि [६.४५.१]> <यो न जीवो [६.४६.१]>_इति स्वप्नं दृष्ट्वा मुखं विमार्ष्टि

(५,१०[४६].१०) अतिघोरं दृष्ट्वा मैश्रधान्यं पुरोडाशमन्याशायां वा निदधाति

(५,१०[४६].११) <पर्यावर्ते [७.१००.१]>_इति पर्यावर्तते

(५,१०[४६].१२) <यत्स्वप्ने [७.१०१.१]>_इति अशित्वा वीक्षते

(५,१०[४६].१३) <विद्म [एद्. मिस्प्रिन्त्विद्मा] ते स्वप्न [६.४६.२]>_इति सर्वेषामप्ययः

(५,१०[४६].१४) <नहि ते अग्ने तन्वः [६.४९.१]>_इति ब्रह्मचारी_आचार्यस्यादहन उपसमाधाय त्रिः परिक्रम्य पुरोडाशं जुहोति

(५,१०[४६].१५) त्रिरात्रमपर्यावर्तमानः शयीत

(५,१०[४६].१६) न_उपशयीत_इति कौशिकः

(५,१०[४६].१७) स्नानीयाभिः स्नायात्

(५,१०[४६].१८) अपर्यवेतव्रतः प्रत्युपेयात्

(५,१०[४६].१९) अवकीर्णिने दर्भशुल्बमासज्य <यत्ते देवी [६.६३.१]>_इति आवपति

(५,१०[४६].२०) एवं संपातवता_उदपात्रेणावसिच्य

(५,१०[४६].२१) मन्त्रोक्तं शान्त्युदकेन संप्रोक्ष्य

(५,१०[४६].२२) <संसमिद्[६.६३.४]> इति स्वयंप्रज्वलिते_अग्नौ

(५,१०[४६].२३) <अग्नी रक्षांसि सेधति [८.३.२६]>_इति सेधन्तम्

(५,१०[४६].२४) <यदस्मृति [७.१०६.१]>_इति संदेशमपर्याप्य

(५,१०[४६].२५) <प्रत्नो हि [६.११०.१]>_इति पापनक्षत्रे जाताय मूलेन

(५,१०[४६].२६) <मा ज्येष्ठं [६.११२.१]> <तृते [रेअद्त्रिते] देवा [६.११३.१]> इति परिवित्तिपरिविविदानौ_उदकान्ते मौञ्जैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति

(५,१०[४६].२७) अवसिञ्चति

(५,१०[४६].२८) फेनेषूत्तरान् पाशानाधाय <नदीनां फेनान् [६.११३.२ ]> इति प्रप्लावयति

(५,१०[४६].२९) सर्वैस्_च प्रविश्यापां सूक्तैः

(५,१०[४६].३०) देवहेडनेन मन्त्रोक्तम्

(५,१०[४६].३१) आचार्याय

(५,१०[४६].३२) उपदधीत

(५,१०[४६].३३) खदाशयस्यावपते

(५,१०[४६].३४) वैवस्वतं यजते

(५,१०[४६].३५) चतुःशरावं ददाति

(५,१०[४६].३६) उत्तमर्णे मृते तदपत्याय प्रयछति

(५,१०[४६].३७) सगोत्राय

(५,१०[४६].३८) श्मशाने निवपति

(५,१०[४६].३९) चतुष्पथे च

(५,१०[४६].४०) कक्षानादीपयति

(५,१०[४६].४१) <दिवो नु माम् [६.१२४.१]> इति वीध्रबिन्दून् प्रक्षालयति

(५,१०[४६].४२) मन्त्रोक्तैः स्पृशति

(५,१०[४६].४३) यस्य_उत्तमदन्तौ पूर्वौ जायेते <यौ व्याघ्राव्[६.१४०.१]> इत्यावपति

(५,१०[४६].४४) मन्त्रोक्तान् दंशयति

(५,१०[४६].४५) शान्त्युदकशृतमादिष्टानामाशयति

(५,१०[४६].४६) पितरौ च

(५,१०[४६].४७) <इदं यत्कृष्णः [७.६४.१]>_इति कृष्णशकुनिनाधिक्षिप्तं प्रक्षालयति

(५,१०[४६].४८) उपमृष्टं पर्यग्नि करोति

(५,१०[४६].४९) <प्रतीचीनफलो [७.६५.१]>_इत्यपामार्गेध्मे_अपमार्गीरादधाति

(५,१०[४६].५०) <यदर्वाचीनं [१०.५.२२]>_इत्याचामति

(५,१०[४६].५१) <यत्ते भूमे [१२.१.३५]>_इति विखनति

(५,१०[४६].५२) <यत्त ऊनं [१२.१.६१ ]>_इति संवपति

(५,१०[४६].५३) <प्रेहि प्र हर [पै.सं.२०.५०.५७, .ऋ.वे.Kह्२.२.२, .ऋ.वे. २.४३.३, पै.सं.२०.५०.८]>_इति कापिञ्जलानि स्वस्त्ययनानि भवन्ति

(५,१०[४६].५४) <प्रेहि प्र हर वा दावान् गृहेभ्यः स्वस्तये । कपिञ्जल प्रदक्षिणं शतपत्त्राभि नो वद ॥ भद्रं वद दक्षिणतो भद्रमुत्तरतो वद । भद्रं पुरस्तान्नो वद भद्रं पश्चात्कपिञ्जल ॥ शुनं वद दक्षिणतः शुनमुत्तरतो वद । शुनं पुरस्तान्नो वद शुनं पश्चात्कपिञ्जल ॥ [पै.सं.२०.५०.५७]> <भद्रं वद पुत्रैर्भद्रं वद गृहेषु च । भद्रमस्माकं वद भद्रं नो अभयं वद ॥ [.ऋ.वे.Kह्२.२.२]> <आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः । यदुत्पतन् वदसि कर्करिर्यथा बृहद्वदेम विदथे सुवीराः ॥ [.ऋ.वे. २.४३.३]> <यौवनानि महयसि जिग्युषामिव दुन्दुभिः । कपिञ्जल प्रदक्षिणं शतपत्त्राभि नो वद ॥ [पै.सं.२०.५०.८, दृष्टव्यम्‌ .ऋ.वे.Kह्२.२.५]>_इति कापिञ्जलानि स्वस्त्ययनानि भवन्ति

(५,१०[४६].५५) <यो अभ्यु बभ्रुणायसि स्वपन्तमत्सि पुरुषं शयानमगत्स्वलम् । अयस्मयेन ब्रह्मणाश्ममयेन वर्मणा पर्यस्मान् वरुणो दधत्[पै.सं.२०.९.४]>_इत्यभ्यवकाशे संविशति_अभ्यवकाशे संविशति


(कौ.सू.५ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे पञ्चमोऽध्यायः समाप्तः