कौशिकप्रज्ञापारमितासूत्रम्

विकिस्रोतः तः
कौशिकप्रज्ञापारमितासूत्रम्
[[लेखकः :|]]

कौशिकप्रज्ञापारमितासूत्रम्।

नमो सर्वबुद्धबोधिसत्त्वेभ्यः॥

एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धमनेकैश्च बोधिसत्त्वशतसहस्रैः सर्वैः कुमारभूतैः। तत्र खलु भगवान् शक्रं देवानामिन्द्रमामन्त्रयते स्म॥

अयं कौशिक प्रज्ञापारमितायाः अर्थः-प्रज्ञापारमिता न द्वयेन द्रष्टव्या न अद्वयेन। न निमित्ततो न अनिमित्ततः। न आयूहतो न निरायूहतः। नोत्क्षेपतो न प्रक्षेपतः। न संक्लेशतो न असंक्लेशतः। न व्यवदानतो न अव्यवदानतः। नोत्सर्गतो न अनुत्सर्गतः। न स्थानतो न अस्थानतः। न योगतो न अयोगतः। न संबन्धतो न असंबन्धतः। न प्रत्ययतो न अप्रत्ययतः। न धर्मतो न अधर्मतः। न तथत(या) न अतथत(या) न भूतकोट्या न अभूतकोट्या (वेदि)तव्या॥

एवमेवायं स कौशिक प्रज्ञापारमितायाः अर्थः। तद्यथा सर्वधर्मसमत्वात् प्रज्ञापारमिता समा। सर्वधर्मविविक्तत्वात् प्रज्ञापारमिता विविक्ता। सर्वधर्माचलत्वात् प्रज्ञापारमिता अचला। सर्वधर्मामन्यत्वात् प्रज्ञापारमिता अमन्यता। सर्वधर्माभीरुत्वात् प्रज्ञापारमिता अभीरु। सर्वधर्माच्छम्भिततया प्रज्ञापारमिता अच्छम्भी। सर्वधर्मैकरसत्वात् प्रज्ञापारमिता एकरसा। सर्वधर्मानुत्पादत्वात् प्रज्ञापारमिता अनुत्पादा। सर्वधर्मानिरोधत्वात् प्रज्ञापारमिता अनिरोधा। गगनकल्पत्वात् सर्वधर्माणां प्रज्ञापारमिता गगनकल्पा। रूपापर्यन्तत्वात् प्रज्ञापारमिता अपर्यन्ता। एवं वेदनासंज्ञासंस्कारविज्ञानापर्यन्तत्वात् प्रज्ञापारमिता अपर्यन्ता। पृथिवीधात्वपर्यन्तत्वात् प्रज्ञापारमिता अपर्यन्ता। एवमब्धातु-तेजोधातु-वायुधातु-आकाशधातु-विज्ञानधात्वपर्यन्तत्वात् प्रज्ञापारमिता अपर्यन्ता। सुमेर्वपर्यन्तत्वात् प्रज्ञापारमिता अपर्यन्ता। समुद्रापर्यन्तत्वात् प्रज्ञापारमिता अपर्यन्ता। वज्रसमत्वात् प्रज्ञापारमिता समा। सर्वधर्माभेदत्वात् प्रज्ञापारमिता अभेदा। सर्वधर्म(स्वभावा)नुपलब्धित्वात् प्रज्ञापारमिता अनुपलब्धिः। सर्वधर्मविभाव(ना)-समत्वात् प्रज्ञापारमिता(अ)विभाव(ना)-समा। सर्वधर्मनिश्चेष्टत्वात् प्रज्ञापारमिता निश्चेष्टा। सर्वधर्माचिन्त्यत्वात् प्रज्ञापारमिता अचिन्त्येति॥

एवं दानपारमिता-शीलपारमिता-क्षान्तिपारमिता-वीर्यपारमिता-ध्यानपारमिता-

प्रज्ञापारमितात्रिमण्डलपरिशुद्ध्यपर्यन्तत्वात् प्रज्ञापारमिता अपर्यन्ता इति॥

प्रज्ञापारमिता उच्यते यदुत अष्टादशशून्यता। तद्यथा- आध्यात्मशून्यता बहिर्धाशून्यता आध्यात्माबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमा(र्थ)शून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनाद्यग्रशून्यता (अन)पकारशून्यता प्रकृतिशून्यता स्वलक्षणशून्यता सर्वधर्मशून्यता अनुपलम्भशून्यता अभावशून्यता स्वभावशून्यता अभावस्वभावशून्यता इति। अयमुच्यते संक्षिप्तेन प्रज्ञापारमितेति॥

तारका तिमिरं दीपो मायावश्याय बुद्धुदम्।

सुपिनं विद्युदभ्रं च एवं द्रष्टव्य संस्कृतमिति॥

अनिरोधमनुत्पादमनुच्छेदमशाश्वतम्।

अनेकार्थमनानार्थमनागममनिर्गमम्॥

यः प्रतीत्यसमुत्पादं प्रपञ्चोपशमं शिवम्।

देशयामास संबुद्धस्तं वन्दे वदतां वरम्॥

नमो दशसु दिक्षु सर्वेषामतीतानागतप्रत्युत्पन्नानां त्रयाणां रत्नानाम्। नमो भगवत्यै प्रज्ञापारमितायै सर्वतथागतसुनिभायै सर्वतथागतानुज्ञातविज्ञातायै। (ओं) प्रज्ञे महाप्रज्ञे प्रज्ञावभासे प्रज्ञालोककारि अज्ञानविधमने सिद्धे सुसिद्धे सिद्ध्यमने (भ)गवते सर्वाङ्गसुन्दरि (भ)क्तिवत्सले प्रसारहस्ते समाश्वासकरे सिध्य सिध्य, बुध्य बुध्य, कम्प कम्प, चल चल, राव राव, आगच्छ भगवते मा विलम्ब स्वाहा॥

नमो धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य महाकारुणकस्य॥

नमो प्रज्ञापारमितायै। तद्यथा-मुनिधर्मे संग्रहधर्मे अनुग्रहधर्मे विमोक्षधर्मे सत्त्वानुग्रहधर्मे वैश्रमणधर्मे समन्तनुपरिवर्तनधर्मे गुणिग्रहसंग्रहधर्मे सर्वत्रानुगतधर्मे सर्वकालपरिपूर्णधर्मे स्वाहा॥

नमो प्रज्ञापारमितायै। तद्यथा-अखने निखने मुखन नेखने (अवरवन्दने) पटने पटने पटरे स्वाहा॥

नमो प्रज्ञापारमितायै। तद्यथा-गङ्गा गङ्गा न तीरावभास गङ्गा स्वाहा॥

नमो प्रज्ञापारमितायै। तद्यथा श्रीये श्रीये मुनि श्रीये श्रीयसे स्वाहा॥

नमो प्रज्ञापारमितायै। तद्यथा-ओं वज्रबले स्वाहा॥

नमो प्रज्ञापारमितायै। तद्यथा-ओं ह्री श्री धी श्रुति स्मृति मति गति विजये स्वाहा॥

नमो प्रज्ञापारमितायै। तद्यथा-बम्बरि बम्बरि महाबम्बरि बूरु बूरु महाबूरु स्वाहा॥

नमः प्रज्ञापारमितायै। तद्यथा-हूते हूते हूविताशने सर्व-कर्मावरणने स्वाहा॥

नमः प्रज्ञापारमितायै। तद्यथा-ओं ओरोलिक् स्वाहा॥

नमो प्रज्ञापारमितायै। तद्यथा-ओं सर्ववित् स्वाहा॥

नमः प्रज्ञापारमितायै। तद्यथा-गते गते पारगते पारसंगते बोधि स्वाहा॥

इदमवोचद्भगवान्। आत्तमना आयुष्मान् सारिपुत्रः शक्रो देवानामिन्द्रस्ते च बोधिसत्त्वा महासत्त्वाः सा च सर्वावती पर्षद् सदेवगन्धर्वमानुषासुरश्च लोको भगवतो भाषितमभ्यनन्दन्॥

कौशिकनाम प्रज्ञापारमिता समाप्ता॥