कौशिकपद्धतिः/अध्यायः ०८
← अध्यायः ०७ | कौशिकपद्धतिः अध्यायः ०८ केशवः |
अध्यायः ०९ → |
अथाष्टमोऽध्यायः
[सवाः]
अथ सवयज्ञानां विधानं व्याख्यास्यामः
[सम्भृतेषु साविकेषु सम्भारेषु ब्राह्मणमृत्विजं वृणीत ॥ ऋषिमार्षेयं सुधातुदक्षिणमनैमित्तिकम् ॥ एष ह वा ऋषिरार्षेयः सुधातुदक्षिणो यस्य त्र्यवरार्ध्याः पूर्वपुरुषा विद्याचरणवृत्तशीलसम्पन्नाः ॥ उदगयन इत्येके ॥ कौशिकसूत्र ८,८{६७}.१४ ॥]
सम्भृतेषु साविकेषु सम्भारेषु । देवयजनमुक्तम् । उदगयने । ऋषीनार्षेयगुणयुक्तानृत्विजो वृणीते । एष ऋत्विक्कल्प उक्तो मधुपर्के ॥
[अथात ओदनसवानामुपाचारकल्पं व्याख्यास्यामः ॥ सवान् दत्त्वाग्नीनादधीत ॥ सार्ववैदिक इत्येके ॥ सर्वे वेदा द्विकल्पाः ॥ मासपरार्ध्या दीक्षा द्वादशरात्रो वा ॥ त्रिरात्र इत्येके ॥ हविष्यभक्षा स्युर्ब्रह्मचारिणः ॥ अधः शयीरन् ॥ कर्तृदातारावा समापनात्कामं न भुञ्जीरन् सन्तताश्चेत्स्युः ॥ अहनि समाप्तमित्येके ॥ यात्रार्थं दातारौ वा दाता केशश्मश्रुरोमनखानि वापयीत ॥ केशवर्जं पत्नी ॥ स्नातावहतवसनौ सुरभिणौ व्रतवन्तौ कर्मण्यावुपवसतः ॥ कौशिकसूत्र ८,८{६७}.५१७ ॥]
एकादश्यां वरणं कृत्वा गोदानिकेन विधानेन केशश्मश्ररोमनखानि वापयित्वा ॥ केशवर्जं पत्नी नखानि कर्तयेत् । स्नातावहतवाससौ सुरभिणौ भूत्वा दाता । उपनयनवद्दण्डमेखला । यज्ञोपवीती । त्रिरात्रं दीक्षाग्रहणं सह पत्न्या । अग्नये ब्रह्मणे गुरवे व्रतश्रावणं कृत्वा ततो व्रतादानीया अष्टौ समिध आदधाति । ततः कर्ता अभ्यातानाद्युत्तरतन्त्रं करोति । हविष्यभक्षणादि कर्ता कारयिता पत्नी च करोति ॥
[श्वो भूते यज्ञोपवीती शान्त्युदकं कृत्वा यज्ञवास्तु च सम्प्रोक्ष्य ब्रह्मौदनिकमग्निं मथित्वा ॥ यद्देवा देवहेडनम् (६.११४) यद्विद्वांसो यदविद्वांसः (६.११५) अपमित्यमप्रतीत्तम् (६.११७) इत्येतैस्त्रिभिः सूक्तैरन्वारब्धे दातरि पूर्णहोमं जुहुयात् ॥ कौशिकसूत्र ८,८{६७}.१८१९ ॥]
[अथ देवयजनम् ॥ तद्यत्समं समूलमविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणमाकृतिलोष्टवल्मीकेनास्तीर्य दर्भैश्च लोमभिः पशूनाम् ॥ कौशिकसूत्र ८,१{६०}.१७१८ ॥]
अथ चतुर्दश्यां प्रातर्यज्ञोपवीती शान्त्युदकं कृत्वा देवयजनं सम्प्रोक्ष्य आकृतिलोष्टवल्मीकेनास्तीर्य देवयजनं दर्भैश्च गोअश्वअजअविलोमानि प्रस्तीर्य । पालाशमय्यरणिद्वयेनाग्निं मन्थयेत्यजमानः ॥
[अग्ने जायस्व (११.१.१) इति मन्थन्तावनुमन्त्रयते ॥ पत्नी मन्त्रं सन्नमयति ॥ यजमानं च ॥ कौशिकसूत्र ८,१{६०}.१९२१ ॥]
ऽअग्ने जायस्वऽ इत्यृचा मन्थन्तावनुमन्त्रयते ।ऽअग्ने जायस्वारणिका नाथितेयं ब्रह्मौदनं पचति पुत्रकामा । अग्ने जायस्व केशवदत्तशर्मा नाथितोऽयं ब्रह्मौदनं पचति पुत्रकामःऽ । एवं पत्नीनामयजमाननामग्रहणं कृत्वा प्रथमेऽर्धर्चे ॥
[कृणुत धूमम् (११.१.२) इति धूमम् ॥ कौशिकसूत्र ८,१{६०}.२२ ॥]
ततःऽकृणुत धूमम्ऽ इत्यृचा धूममनुमन्त्रयते ॥
[अग्नेऽजनिष्ठा (११.१.३) इति जातम् ॥ कौशिकसूत्र ८,१{६०}.२३ ॥]
ऽअग्नेऽजनिष्ठाऽ इति त्रिभिः पादैर्जातम् ।ऽअस्यै रयिम्ऽ इति पादेन पत्नीमनुमन्त्रयते ॥
[समिद्धो अग्ने (११.१.४) इति समिध्यमानम् ॥ कौशिकसूत्र ८,१{६०}.२४ ॥]
ऽसमिद्धो अग्ने समिधाऽ इति त्रिभिः पादैः समिध्यमानमनुमन्त्रयते ।ऽउत्तमं नाकम्ऽ इति पादं दातारं वाचयति । एवं ब्रह्मौदनिकमग्निं मथित्वा स्थण्डिलेऽग्निं कृत्वा अभ्यातानान्तं कृत्वाऽयद्देवा देवहेडनम्ऽ (६.११४),ऽयद्विद्वांसःऽ (६.११५),ऽअपमित्यमप्रतीत्तम्ऽ (६.११७) इत्येतैस्त्रिभिः सूक्तैरन्वारब्धे दातरि पूर्णहोमं जुहुयात् । पूर्णहोमस्य विधानं शान्तिकल्प उक्तम् ॥
[अग्नीनाधास्यमानः सवान् वा दास्यन् संवत्सरं ब्रह्मौदनिकमग्निं दीपयति ॥ अहोरात्रौ वा ॥ याथाकामी वा ॥ संवत्सरं तु प्रशस्तम् ॥ सवाग्निसेनाग्नी तादर्थिकौ निर्मथ्यौ वा भवतः ॥ औपासनौ चोभौ हि विज्ञायेते ॥ तस्मिन् देवहेडनेनाज्यं जुहुयात् ॥ समिधोऽभ्यादध्यात् ॥ शकलान् वा ॥ तस्मिन् यथाकामं सवान् ददात्येकं द्वौ सर्वान् वा ॥ अपि वैकैकमात्माशिषो दातारं वाचयति ॥ पराशिषोऽनुमन्त्रणमनिर्दिष्टाशिषश्च ॥ दातारौ कर्माणि कुरुतः ॥ तौ यथालिङ्गमनुमन्त्रयते ॥ उभयलिङ्गैरुभौ पुंलिङ्गैर्दातारं स्त्रीलिङ्गैः पत्नीम् ॥ उदहृत्सम्प्रैषवर्जम् ॥ कौशिकसूत्र ८,१{६०}.११६ ॥]
ततःऽयद्देवा देवहेडनम्ऽ (६.११४१२४) इत्यनुवाकेनाज्यं जुहुयात् । समिधोऽभ्यादध्यात् । शकलान् वादध्यात् । एवं ब्रह्मौदनिकमग्निं मथित्वा स्थण्डिलेऽग्निं कृत्वाभ्यातानान्तं कृत्वा दीपयति अहोरात्रं वा याथाकामी वा । संवत्सरं तु प्रशस्तम् ॥
[परेहि नारि (११.१.१३) इत्युदहृतं सम्प्रेष्यत्यनुगुप्तामलङ्कृताम् ॥ कौशिकसूत्र ८,१{६०}.२५ ॥]
अथामावास्यायां प्रातः उदकाहरणं करोति । ब्राह्मणीमलङ्कृत्वा तां साधुवादिनीमुदकघटं हस्ते गृहीतांऽपरेहि नारिऽ इत्यृचोदकगतां प्रेषयति ॥
[एमा अगुः (११.१.१४) इत्यायतीमनुमन्त्रयते ॥ कौशिकसूत्र ८,१{६०}.२६ ॥]
ऽएमा अगुःऽ इति पादेनोदकपूर्णां नारीमनुमन्त्रयते ॥
[उत्तिष्ठ नारि (११.१.१४) इति पत्नीं सम्प्रेष्यति ॥ कौशिकसूत्र ८,१{६०}.२७ ॥]
ऽउत्तिष्ठ नारिऽ इत्यादिऽआ त्वागन् यज्ञःऽ इत्यन्तेन दात्रीं प्रेषयति ॥
[प्रति कुम्भं गृभाय (११.१.१४) इति प्रतिगृह्णाति ॥ कौशिकसूत्र ८,१{६०}.२८ ॥]
ऽप्रति कुम्भं गृभायऽ इति पादार्धेन जलकुम्भं गृहद्वारे प्रतिग्राहयति दात्री ॥
[ऊर्जो भागः (११.१.१५) इति निदधाति ॥ कौशिकसूत्र ८,१{६०}.२९ ॥]
ऽऊर्जो भागःऽ इति पादेन भूमौ निदधाति उत्तरतः.
अव्यसश्च (१९.६९.११), बर्हिर्लवनम्, वेद्युत्तरवेद्यग्निप्रतिष्ठापनम्, अन्वाधानम्, व्रतग्रहणम्, पवित्रकरणम्, पवित्रेणेध्मप्रोक्षणम्, इध्मोपसमाधानम्, बर्हिःप्रोक्षणम्, ब्रह्मासनम्, ब्रह्मवरणम्, ब्रह्मस्थापनम्, स्तरणम्, स्तीर्णप्रोक्षणम्, आत्मासनम्, उदपात्रसंस्कारः । ततोऽहतं वासो दक्षिणतः उपसादयते । तत्सहिरण्यम् । तत्र द्वे उदपात्रे निहिते भवतो वेदिमध्ये अग्नेर्दक्षिणतः । अहतवासाः सहिरण्यां वस्त्रघटिकां कृत्वा स्तृणाति तदुपरि दक्षिणार्थम् । दक्षिणतो दक्षिणतः उदपात्रद्वयं स्थापयति ॥
[पूर्वाह्णे बाह्यतः शान्तवृक्षस्येध्मं प्राञ्चमुपसमाधाय ॥ परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य ॥ नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च ॥ कौशिकसूत्र ८,८{६७}.२०२२ ॥]
ततः प्रकृतमुदपात्रं जाङ्मायनं वेद्यां बहिर्ब्रह्माग्रतः दक्षिणमन्यदन्तरमन्यदन्तरं यतोऽधिचरिष्यन् भवति ।
बाह्यं जाङ्मायनं कृत्वा परिचरणेनाज्यं परिचर्य नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च हुत्वा ॥
[पश्चादग्नेः पल्पूलितविहितमौक्षं वानडुहं वा रोहितं चर्म प्राग्ग्रीवमुत्तरलोम परिस्तीर्य ॥ पवित्रे कुरुते ॥ दर्भावप्रच्छिन्नप्रान्तौ प्रक्षाल्यानुलोममनुमार्ष्टि ॥ कौशिकसूत्र ८,८{६७}.२३२५ ॥
इयं मही (११.१.८) इति चर्मास्तृणाति प्राग्ग्रीवमुत्तरलोम ॥ पुमान् पुंसः (१२.३.१) इति चर्मारोहयति ॥ पत्नी ह्वयमानम् ॥ तृतीयस्यामपत्यमन्वाह्वयति ॥ ऋषिप्रशिष्टा (११.१.१५) इत्युदपात्रं चर्मणि निदधाति ॥ कौशिकसूत्र ८,१{६०}.३०३४ ॥]
ततः पश्चादग्नेः पल्पूलितविहितमौक्षं वानडुहं वा रोहितं चर्म प्रस्तृणन्तंऽइयं महीऽ इत्यृचा यजमानं वाचयति ।ऽऋषिप्रशिष्टाऽ इति पादेन पत्नी उदकघटं चर्मणि निधापयति ॥
[तदा आपस्पुत्रासः (१२.३.४) इति सापत्यावनुनिपद्येते ॥ कौशिकसूत्र ८,१{६०}.३५ ॥ प्राचीम्प्राचीम् (१२.३.७१०) इति मन्त्रोक्तम् ॥ चतसृभिरुदपात्रमनुपरियन्ति ॥ प्रतिदिशं ध्रुवेयं विराट्(१२.३.११) इत्युपतिष्ठन्ते ॥ पितेव पुत्रान् (१२.३.१२) इत्यवरोह्य भूमिं तेनोदकार्थान् कुर्वन्ति ॥ कौशिकसूत्र ८,२{६१}.१४ ॥]
पुनः तूष्णीं भूमौ स्थापयति । सर्वाणि कर्माणि तेनोदकेन कुर्यात् ॥
[पवित्रैः सम्प्रोक्षन्ते ॥ कौशिकसूत्र ८,२{६१}.५ ॥]
ऽपुनन्तु माऽ (६.१९)ऽवायोः पूतःऽ (६.५१)ऽवैश्वानरो रश्मिभिःऽ (६.६२) इति पवित्रगणः । एतेन दाता पत्नी अपत्यानि च पवित्रेण सम्प्रोक्षयेत् ॥
अथ निर्वापकरणम्
[दर्भाग्राभ्यां चर्महविः सम्प्रोक्षति ॥ कौशिकसूत्र ८,२{६१}.६ ॥]
दाता मुष्टिप्रसृताञ्जलिद्वयपरिमिते त्रिगुणान् व्रीहींश्चर्मणि कृत्वा दर्भपवित्राभ्यां तूष्णीं चर्महविः सम्प्रोक्षति । ततः चर्मणि त्रीणि विभागानि करोति ॥
[आदिष्टानां सानजानत्यै प्रयच्छति ॥ कौशिकसूत्र ८,२{६१}.७ ॥]
ततो देवपितृमनुष्यत्रयं पत्नी अनजानत्यै प्रयत्तैः प्रयच्छति । कर्ता प्रैषं ददाति ॥
[तान् त्रेधा भागः (११.१.५) इति व्रीहिराशिषु निदधाति ॥ तेषां यः पितॄणां तं श्राद्धं करोति ॥ यो मनुष्याणां तं ब्राह्मणान् भोजयति ॥ यो देवानां तमग्ने सहस्वान् (११.१.६) इति दक्षिणं जान्वाच्यापराजिताभिमुखः प्रह्वो वा मुष्टिप्रसृताञ्जलिभिः कुम्भ्यां निर्वपति ॥ कौशिकसूत्र ८,२{६१}.८११ ॥]
व्रीहीन् विभागेषु कर्ताऽत्रेधा भागो निहितःऽ इति त्रिभिः पादैर्विभागान् देवपितृमनुष्यसम्बन्धाननुमन्त्रयते ।ऽयो देवानाम्ऽ इति पादेन पत्नीमनुमन्त्रयते । यः पितृभागस्तेनावभृथान्ते वृद्धिश्राद्धं करोति । यो मनुष्याणां भागस्तं ब्राह्मणान् भोजयति । द्वाभ्यां तन्त्राग्नौ श्रपणम् ।ऽयो देवानाम्ऽ इत्येतेन वक्ष्यमाणं कर्म कुर्यात् ॥
[दक्षिणं जान्वाच्यापराजिताभिमुखः प्रह्वो वा मुष्टिना प्रसृतिनाञ्जलिना यस्यां श्रपयिष्यन् स्यात्तया चतुर्थम् ॥ शरावेण चतुःशरावं देवस्य त्वा सवितुः प्रसव ऋषिभ्यस्त्वार्षेयेभ्यस्त्वैकर्षये त्वा जुष्टं निर्वपामि ॥ कौशिकसूत्र ८,८{६७}.२६२७ ॥]
ततो निर्वपतिऽदेवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामृषिभ्यस्त्वार्षेयेभ्यस्त्वैकऋषये त्वा जुष्टं निर्वपामिऽ ॥
[वसवस्त्वा गायत्रेण छन्दसा निर्वपन्तु । ऊर्जमक्षितमक्षीयमाणमुपजीव्यासमिति दातारं वाचयति ॥ रुद्रास्त्वा त्रैष्टुभेन छन्दसा । आदित्यास्त्वा जागतेन छन्दसा । विश्वे त्वा देवा आनुष्टुभेन छन्दसा निर्वपन्तु । ऊर्जमक्षितमक्षीयमाणमुपजीव्यासमिति दातारं वाचयति ॥ निरुप्तं सूक्तेनाभिमृशति ॥ कौशिकसूत्र ८,९{६८}.१३ ॥]
ऽवसवस्त्वा गायत्रेण छन्दसा निर्वपन्तुऽ ।ऽअग्ने सहस्वान्ऽ (११.१.६) इत्यृचा दातारमनुमन्त्र्यऽऊर्जमक्षितमक्षीयमाणमुपजीव्यासम्ऽ इति दातारं वाचयति ॥
[कुम्भ्या वा चतुः ॥ तान् सप्त मेधान् (१२.३.१६) इति सापत्यावभिमृशतः ॥ गृह्णामि हस्तम् (१२.३.१७) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ८,२{६१}.१२१४ ॥]
एवं चतुर्णामेकैकं प्रति निर्वापमनुयोजयेत् । निरुप्तानन्यस्यां कुम्भ्यां कृत्वा तस्यां श्रपणकुम्भ्यावशेषाच्चतुर्थं निर्वपति । एवं प्रतिमन्त्रं चत्वारो निर्वापा भवन्ति । अथवा श्रपणकुम्भ्यावशेषाच्चतुर्थं निर्वपति । अनडुहि कृत्वा निरुप्तं हविः सवसूक्तेनाभिमृशति कर्ता ॥
[त्रयो वराः (११.१.१०) इति त्रीन् वरान् वृणीष्व इति ॥ कौशिकसूत्र ८,२{६१}.१५ ॥]
ऽत्रीन् वरान् वृणीष्वऽ इति दातृप्रैषं दत्त्वा एवं पत्न्यै ददाति । तौ वृणन्तौऽत्रयो वराःऽ इत्यर्धर्चेन प्रतिप्रत्यनुमन्त्रयते ॥
[अनेन कर्मणा ध्रुवानिति प्रथमं वृणीते ॥ कौशिकसूत्र ८,२{६१}.१६ ॥]
दाता सवकर्मणां समृद्धीः प्रथमं वृणीते ॥
[यावपरौ तावेव पत्नी ॥ कौशिकसूत्र ८,२{६१}.१७ ॥]
यावपरौ वरौ मन्येत तौ वृणीते । एवं तावेव पत्नी ॥
[एतौ ग्रावाणौ (११.१.९) अयं ग्रावा (१२.३.१४) इत्युलूखलमुसलं शूर्पं प्रक्षालितं चर्मण्याधाय ॥ कौशिकसूत्र ८,२{६१}.१८ ॥]
कर्ताऽअरातीयोःऽ (१०.३.१) इति तक्षति ।ऽयद्यत्कृष्णःऽ (१२.३.१३) इत्यृचोलूखलमुसले प्रक्षालयति ।ऽयत्त्वा शिक्वःऽ (१०.६.३) इत्यृचा शूर्पमधः गोमयेन लेपयति । तानिऽएतौ ग्रावाणौऽ इति पादेन दाता चर्मणि निदधाति ॥
[गृहाण ग्रावाणौ (११.१.१०) इत्युभयं गृह्णाति ॥ कौशिकसूत्र ८,२{६१}.१९ ॥]
ऽगृहाण ग्रावाणौऽ इत्यर्धर्चेनोलूखलमुसलं ग्राहयति ॥
[साकं सजातैः (११.१.७) इति व्रीहीनुलूखल आवपति ॥ वनस्पतिः (१२.३.१५) इति मुसलमुच्छ्रयति ॥ कौशिकसूत्र ८,२{६१}.२०२१ ॥]
ऽसाकं सजातैःऽ इत्यर्धर्चेन पत्नी व्रीहीनुलूखल आवपति ।ऽऊर्ध्वो नाकस्यऽ इत्यर्धर्चेन मुसलमुच्छ्रयन्तीमनुमन्त्रयते ॥
[निर्भिन्ध्यंशून् (११.१.९) ग्राहि पाप्मानम् (१२.३.१८) इत्यवहन्ति ॥ कौशिकसूत्र ८,२{६१}.२२ ॥]
ऽनिर्भिन्ध्यंशून्ऽ इति पादद्वयेनावघ्नतीमनुमन्त्रयते ॥
[इयं ते धीतिः (११.१.११) वर्षवृद्धम् (१२.३.१९) इति शूर्पं गृह्णाति ॥ कौशिकसूत्र ८,२{६१}.२३ ॥]
ऽइयं ते धीतिःऽ इत्यर्धर्चेन शूर्पं गृह्णाति ॥
[ऊर्ध्वं प्रजाम् (११.१.९) विश्वव्यचाः (१२.३.१९) इत्युदूहन्तीम् ॥ कौशिकसूत्र ८,२{६१}.२४ ॥]
ऽऊर्ध्वं प्रजाम्ऽ इति पादेन उलूखलादुदूहन्तीम् ॥
[परा पुनीहि (११.१.११) तुषं पलावान् (१२.३.१९) इति निष्पुनतीम् ॥ कौशिकसूत्र ८,२{६१}.२५ ॥]
ऽपरा पुनीहिऽ इति पादेन, निष्पुनन्तीम् ॥
[पृथग्रूपाणि (१२.३.२१) इत्यवक्षिणतीम् ॥ कौशिकसूत्र ८,२{६१}.२६ ॥]
ऽअस्यै रयिम्ऽ (११.१.११) इति पादेन अवक्षिणतीम् ॥
[त्रयो लोकाः (१२.३.२०) इत्यवक्षीणानभिमृशतः ॥ पुनरायन्तु शूर्पम् (१२.३.२०) इत्युद्वपति ॥ उपश्वसे (११.१.१२)
इत्यपवेवेक्ति ॥ कौशिकसूत्र ८,२{६१}.२७२९ ॥]
ऽउपश्वसेऽ इति पादेन उद्वपतीम् ।ऽउपश्वसेऽ इत्यर्धर्चेनापविवक्तीमनुमन्त्रयते ।ऽश्रिया समानान्ऽ इत्यर्धर्चं दातारं वाचयति ॥
[पृथिवीं त्वा पृथिव्याम् (१२.३.२२) इति कुम्भीमालिम्पति ॥ कौशिकसूत्र ८,२{६१}.३० ॥]
ऽअयं यज्ञःऽ (११.१.१५) इत्यर्धर्चेन कुम्भीं मृदालिम्पतीमनुमन्त्रयते ॥
[अग्ने चरुः (११.१.१६) इत्यधिश्रयति ॥ कौशिकसूत्र ८,२{६१}.३१ ॥]
ऽअग्ने चरुःऽ इत्यृचा अधिश्रयन्तम् ॥
[अग्निः पचन् (१२.३.२४) इति पर्यादधाति ॥ कौशिकसूत्र ८,२{६१}.३२ ॥]
ऽसहस्रपृष्ठःऽ (११.१.२०) इत्यृचा अग्नौ काष्ठानि पर्यादधन्तं वाचयति ॥
[ऋषिप्रशिष्टा (११.१.१५) इत्युदकमपकर्षति ॥ कौशिकसूत्र ८,२{६१}.३३ ॥]
ऽऋषिप्रशिष्टाऽ इति पादेन उदकुम्भात्पत्नीमुदकमपकर्षतीमनुमन्त्रयते ॥
[शुद्धाः पूताः (११.१.१७) पूताः पवित्रैः (१२.३.२५) इति पवित्रे अन्तर्धाय ॥ उदकमासिञ्चति ॥ कौशिकसूत्र ८,२{६१}.३४३५ ॥
स्वर्गब्रह्मौदनौ तन्त्रम् ॥ सन्निपाते ब्रह्मौदनमितमुदकमासेचयोद्विभागम् ॥ यावन्तस्तण्डुलाः स्युर्नावसिञ्चेन्न प्रतिषिञ्चेत् ॥ यद्यवसिञ्चेत्मयि वर्चो अथो यशः (६.६९.३) इति ब्रह्मा यजमानं वाचयति ॥ अथ प्रतिषिञ्चेत् ॥ आ प्यायस्व, सं ते पयांसि इति द्वाभ्यां प्रतिषिञ्चेत् ॥ आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य सङ्गथे ॥ सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व इति ॥ कौशिकसूत्र ८,९{६८}.४१० ॥]
ऽशुद्धाः पूताःऽ इति त्रिभिः पादैः कुम्भ्यां पवित्रे अन्तर्धायोदकमासिञ्चन्तं वाच्यम् ।ऽपक्तौदनस्यऽ इति पादेन दातारमनुमन्त्रयते । मितमुदकमासेचयेद्विभागम् । यावन्तस्तण्डुलाः स्युर्नावसिञ्चेन्न प्रतिषिञ्चेत् । यद्यवसिञ्चेत्ऽमयि वर्चो अथो यशःऽ इति ब्रह्मा यजमानं वाचयेत् । अथ प्रतिषिञ्चेत्ऽआ प्यायस्वऽऽसं ते पयांसिऽ इति द्वाभ्यां प्रतिषिञ्चेत् ॥
[ब्रह्मणा शुद्धाः (११.१.१८) सङ्ख्याता स्तोकाः (१२.३.२८) इत्यापस्तासु निक्त्वा तण्डुलानावपति ॥ कौशिकसूत्र ८,२{६१}.३६ ॥]
ऽब्रह्मणा शुद्धाःऽ इत्यृचा आपस्तासु निक्त्वा दाता तण्डुलान् कुम्भ्यां निवपति ॥
[उरुः प्रथस्व (११.१.१९) उद्योधन्ति (१२.३.२९) इति श्रपयति ॥ कौशिकसूत्र ८,२{६१}.३७ ॥]
ऽउरुः प्रथस्वऽ इत्यर्धर्चेन श्रपयन्तं यजमानमनुमन्त्रयते ।ऽपितामहाः पितरःऽ इत्यर्धर्चेन दातारं वाचयति ॥
[प्र यच्छ पर्शुम् (१२.३.३१) इति दर्भाहाराय दात्रं प्रयच्छति ॥ कौशिकसूत्र ८,२{६१}.३८ ॥]
दर्भाहाराय दात्रं प्रयच्छति ॥
[ओषधीर्दान्तु पर्वन् (१२.३.३१) इत्युपरि पर्वणां लुनाति ॥ नवं बर्हिः (१२.३.३२) इति बर्हि स्तृणाति ॥ कौशिकसूत्र ८,२{६१}.३९४० ॥]
उपरि पर्वणां लूत्वा तूष्णीमाहृत्योत्तरतोऽग्नेरुपसादयति । तदादावास्तृतस्योपरि पश्चादग्नेः तूष्णीं स्तृणाति कर्ता ॥
[उदेहि वेदिम् (११.१.२१) धर्ता ध्रियस्व (१२.३.३५) इत्युद्वासयति ॥ कौशिकसूत्र ८,२{६१}.४१ ॥]
ऽउदेहि वेदिम्ऽ इत्यृचा पत्न्या कुम्भीमुद्वास्यमानामनुमन्त्रयते ।ऽप्रजया वर्धयैनाम्ऽ इति मन्त्रेण पत्नीमनुमन्त्रयते ।ऽनुदस्व रक्षःऽ इति कुम्भीम् ।ऽप्रतरं धेह्येनाम्ऽ इति पत्नीम् ।ऽश्रिया समानान्ऽ इत्यर्धर्चेन दातारं वाचयति ॥
अभ्यावर्तस्व (११.१.२२) इति कुम्भीं प्रदक्षिणमावर्तयति ॥
[वनस्पते स्तीर्णम् (१२.३.३३) इति बर्हिषि पात्रीं निदधाति ॥ कौशिकसूत्र ८,२{६१}.४२४३ ॥]
ऽऋतेन तष्ठाऽ (११.१.२३) इत्यर्धर्चेन नवे बर्हिषि पात्रीं निदधतीमनुमन्त्रयते ॥
[अंसध्रीम् (११.१.२३) इत्युपदधाति ॥ कौशिकसूत्र ८,२{६१}.४४ ॥]
ऽअंसध्रीं शुद्धाम्ऽ इत्यर्धर्चेन उपदधाति कुम्भीम् ॥
[उप स्तृणीहि (१२.३.३७) इत्याज्येनोपस्तृणाति ॥ उपास्तरीः (१२.३.३८) इत्युपस्तीर्णामनुमन्त्रयते ॥ कौशिकसूत्र ८,२{६१}.४५४६ ॥]
दातार तूष्णीं पात्रीमाज्येनोपस्तृणाति ॥
[अदितेर्हस्ताम् (११.१.२४), सर्वान् समागाः (१२.३.३६) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ८,३{६२}.१ ॥]
कर्ताऽअदितेर्हस्ताम्ऽ इत्यृचा पत्न्या दर्वीं ग्राहयति ॥
[तत उदकमादाय पात्र्यामानयति ॥ दर्व्या कुम्भ्याम ॥ दर्विकृते तत्रैव प्रत्यानयति ॥ कौशिकसूत्र ८,३{६२}.२४ ॥]
दाता तूष्णीं स्रुवेण सकृदन्तरादुदपात्रादुदकमादाय पात्र्यामानयति । पुनः दर्व्याम् । ओदनकुम्भ्यां च ॥
[दर्व्योत्तममपादाय तत्सुहृद्दक्षिणतोऽग्नेरुदङ्मुख आसीनो धारयति ॥ अथोद्धरति ॥ कौशिकसूत्र ८,३{६२}.५६ ॥]
सुहृदायवनेन अमुष्योदनस्य उत्तममादाय दक्षिणतोऽग्नेरुदङ्मुख आसीनो धारयति । तस्मिन् दर्वीकृते शेषमन्तरोदपात्र एव पात्र्यां कृत्स्नमोदनमुद्धरति ॥
[उद्धृते यदपादाय धारयति तदुत्तरार्ध आदधाति ॥ अनुत्तराधरताया ओदनस्य यदुत्तरं तदुत्तरमोदन एवौदनः ॥ षष्ठ्यां शरत्सु (१२.३.३४) इति पश्चादग्नेरुपसादयति ॥ निधिं निधिपाः (१२.३.४२) इति त्रीणि काण्डानि करोति ॥ यद्यज्जाया (१२.३.३९) इति मन्त्रोक्तम् ॥ सा पत्यावन्वारभते ॥ अन्वारब्धेष्वत ऊर्ध्वं करोति ॥ अग्नी रक्षः (१२.३.४३) इति पर्यग्नि करोति ॥ कौशिकसूत्र ८,३{६२}.७१४ ॥]
[बभ्रेरध्वर्यो (११.१.३१), इदं प्रापम् (१२.३.४५) इत्युपर्यापानं करोति ॥ कौशिकसूत्र ८,३{६२}.१५ ॥]
ऽबभ्रेरध्वर्यो मुखम्ऽ इत्यर्धर्चेन दात्रा प्रेषितः ।ऽअदितेर्हस्ताम्ऽ इत्यृचानुमन्त्रयते ।ऽबभ्रेरध्वर्यो मुखम्ऽ इत्यर्धर्चेन दात्रा प्रेषितः ओदनस्योपरि गर्तं करोति ॥
[बभ्रेर्ब्रह्मनिति ब्रूयादनध्वर्युम् ॥ कौशिकसूत्र ८,३{६२}.१६ ॥
घृतेन गात्रा (११.१.३१), आ सिञ्च सर्पिः (१२.३.४५) इति सर्पिषा विष्यन्दयति ॥ कौशिकसूत्र ८,३{६२}.१७ ॥]
ऽघृतेन गात्राऽ इति पादेन प्रेषितः । तेनोदनं विष्यन्दयति ।ऽकृण्वे पन्थाम्ऽ (११.१.२८) इति पादं दातारं वाचयति ।ऽबभ्रे रक्षःऽ (११.१.३२) इत्यृचोदनमनुमन्त्रयते ॥
[वसोर्या धाराः (१२.३.४१), आदित्येभ्यो अङ्गिरोभ्यः (१२.३.४४) इति रसैरुपसिञ्चति ॥ प्रियं प्रियाणाम् (१२.३.४९) इत्युत्तरतोऽग्नेर्धेन्वादीन्यनुमन्त्रयते ॥ तामत्यासरत्प्रथमा इति यथोक्तं दोहयित्वोपसिञ्चति ॥ अत्यासरत्प्रथमा धोक्ष्यमाणा सर्वान् यज्ञान् बिभ्रती वैश्वदेवी । उप वत्सं सृजत वाश्यते गौर्व्यसृष्ट सुमना हिङ्कृणोति । बधान वत्समभिधेहि भुञ्जती निज्य गोधुगुप सीद दुग्धि । इरामस्मा ओदनं पिन्वमाना कीलालं घृतं मदमन्नभागम् । सा धावतु यमराज्ञः सवत्सा सुदुघां पथा प्रथमेह दत्ता । अतूर्णदत्ता प्रथमेदमागन् वत्सेन गां सं सृज विश्वरूपामिति ॥ कौशिकसूत्र ८,३{६२}.१८२१ ॥]
ऽअत्यासरत्प्रथमा धोक्ष्यमाणाऽ इत्यर्धर्चेन अभिसरन्तीं गामनुमन्त्रयते ।ऽउप वत्सं सृजतऽ इति पादेन वत्सं संसर्जयति ।ऽवाश्यते गौःऽ इति वाश्यामानामनुमन्त्रयते ।ऽव्यसृष्ट सुमना हिङ्कृणोतिऽ इति हिङ्कुर्वतीमनुमन्त्रयते ।ऽबधान वत्समभि धेहिऽ इति वत्सं बन्धयति ।ऽभुञ्जती निज्यऽ इति नियोजयति ।ऽगोधुगुप सीदऽ इति ब्राह्मणं दोहायोपसादयति ।ऽदुग्धिऽ इत्यादि पदसहितेनार्धर्चेन दोहयति ।ऽसा धावतुऽ इत्यर्धर्चेन विमुच्यमानां गामनुमन्त्रयते ।ऽअतूर्णदत्ताऽ इत्यर्धर्चेन पुनः वत्सेन संसर्जयति । एवं दोहयित्वा दुग्धेनोदनमवसिच्य ॥
[इदं मे ज्योतिः (११.१.२८) समग्नयः (१२.३.५०) इति हिरण्यमधिददाति ॥ कौशिकसूत्र ८,३{६२}.२२ ॥]
ऽइदं मे ज्योतिःऽ इति पादं दातारं वाचयति । हिरण्यमभिनिदधाति ॥
[एषा त्वचाम् (१२.३.५१) इत्यमोतं वासोऽग्रतः सहिरण्यं निदधाति ॥ कौशिकसूत्र ८,३{६२}.२३ ॥]
दाता सूक्तेन सर्वं सम्पातवन्तं करोति ।ऽश्राम्यतःऽ (११.१.३०) इतिप्रभृतिभिर्वा दातृपत्न्यपत्यानि अन्वारम्भं करोति ॥
[तत्र चेदुपाधिमात्रायां नखेन न लवणस्य कुर्यात्तेनैवास्य तद्वृथान्नं सम्पद्यते ॥ अहतं वासो दक्षिणत उपशेते ॥ तत्सहिरण्यम् ॥ तत्र द्वे उदपात्रे निहिते भवतः ॥ दक्षिणमन्यदन्तरमन्यत् ॥ अन्तरं यतोऽधिचरिष्यन् भवति ॥ बाह्यं जाङ्मायनम् ॥ तत उदकमादाय पात्र्यामानयति ॥ दर्व्या कुम्भ्याम् ॥ दर्विकृते तत्रैव प्रत्यानयति ॥ दर्व्योत्तममपादाय तत्सुहृद्दक्षिणतोऽग्नेरुदङ्मुख आसीनो धारयति ॥ अथोद्धरति ॥ उद्धृते यदपादाय धारयति तदुत्तरार्ध आधाय रसैरुपसिच्य प्रतिग्रहीत्रे दातोपवहति ॥ कौशिकसूत्र ८,९{६८}.११२३ ॥]
रसैरुपसिच्य प्रतिग्रहीत्रे दातोपवहति । कर्ता समीपे सर्वं करोति । अन्वारब्धेषु दातृपत्न्यपत्येषु अत ऊर्ध्वं करोति ॥
[तस्मिन्नन्वारब्धं दातारं वाचयति ॥ कौशिकसूत्र ८,९{६८}.२४ ॥]
तस्मिन्नन्वारब्धं दातारं कर्ता सूक्तं वाचयति ॥
[तन्त्रं सूक्तं पच्छः स्नानेन यौ ते पक्षौ यदतिष्ठः ॥ यौ ते पक्षावजरौ पतत्रिणौ याभ्यां रक्षांस्यपहंस्योदन । ताभ्यां पथ्यास्म सुकृतस्य लोकं यत्र ऋषयः प्रथमजाः पुराणाः । यदतिष्ठो दिवस्पृष्ठे व्योमन्नध्योदन । अन्वायन् सत्यधर्माणो ब्राह्मणा राधसा सह ॥ क्रमध्वमग्निना नाकं, पृष्ठात्पृथिव्या अहमन्तरिक्षमारुहं, स्वर्यन्तो नापेक्षन्ते (४.१४.२४) उरुः प्रथस्व महता महिम्ना (११.१.१९) इदं मे ज्योतिः (११.१.२८) सत्याय च (१२.३.४६४८) इति तिस्रः, समग्नयः (१२.३.५०) इति सार्धमेतया ॥ कौशिकसूत्र ८,९{६८}.२५२७ ॥]
[यदक्षेषु (१२.३.५२) इति समानवसनौ भवतः ॥ द्वितीयं तत्पापचैलं भवति तन्मनुष्याधमाय दद्यादित्येके ॥ कौशिकसूत्र ८,४{६३}.१२ ॥]
तन्त्रं सूक्तं पच्छः स्नानेन सर्वं वाचयति । ततः पूर्वतन्त्रमुच्यते ऽयौ ते पक्षौऽ इत्येका,ऽयदतिष्ठौ दिवःऽ इत्येका,ऽक्रमध्वमग्निनाऽ इत्येका,ऽपृष्टात्पृथिव्याःऽ इत्येका,ऽस्वर्यन्तो नापेक्षन्तेऽ इत्येका,ऽउरुः प्रथस्वऽ इत्येका,ऽइदं मे ज्योतिःऽ इत्येका एतत्सर्वं तन्त्रम् । ततः सवसूक्तं वाचयति । ततः प्रधानंऽअग्ने जायस्वऽ (११.१) सूक्तं वाचयति । अथोत्तरतन्त्रमुच्यते ।ऽसत्याय चऽ इति तिस्रःऽसमग्नयःऽ इत्यृचाऽएषा त्वचाम्ऽ इत्यर्धर्चः । इत्युत्तरतन्त्रम्.
अथ पाणितन्त्रमुच्यतेदाताऽकर्मणे वाम्ऽ इति पाणी प्रक्षाल्य जीवाभिराचम्यऽअहे दैधिषव्यऽ इत्यादिऽविमृग्वरीम्ऽ (१२.१.२९) इत्येतया चोदङ्मुख उपविश्य अन्तरादुदपात्रात्स्रुवेण कर्तुर्हस्तेन जुहोति ॥
[ये भक्षयन्तः (२.३५) इति पुरस्ताद्धोमाः ॥ अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः । तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥ गयस्फानो अमीवहा वसुवित्पुष्टिवर्धनः । सुमित्रः सुमनो भव इत्याज्यभागौ ॥ कौशिकसूत्र ८,९{६८}.३०३१ ॥]
ऽये भक्षयन्तःऽ इति सूक्तेन पुरस्ताद्धोमान् हुत्वाऽअग्ने त्वं नो अन्तमःऽऽगयस्फानो अमीवहाऽ इति द्वे आज्यभागौ च ॥
[पाणावुदकमानीयेत्युक्तम् ॥ प्रतिमन्त्रणान्तम् ॥ कौशिकसूत्र ८,९{६८}.३२३३ ॥ पाणावुदकमानीय ॥ अथामुष्यौदनस्यावदानानां च मध्यात्पूर्वार्धाच्च द्विरवदायोपरिष्टादुदकेनाभिघार्य जुहोति सोमेन पूतो जठरे सीद ब्रह्मणाम् (११.१.२५) आर्षेयेषु नि दध ओदन त्वा (११.१.३३३५) इति ॥ कौशिकसूत्र ८,६{६५}.१११२ ॥]
स्वपाणावुदकमानीयाथामुष्यौदनस्यावदानानां च मध्यात्पूर्वार्धाच्च द्विरवदायोपरिष्टादुदकेनाभिघार्य जुहोति । हस्तमध्येऽसोमेन पूतःऽ इत्यर्धर्चेन ।ऽआर्षेयेषु नि दध ओदन त्वाऽ इति त्रिभिरृग्भिरेकामाहुतिं हस्तमध्ये जुहोति ॥
[अथ प्राश्नाति ॥ अग्नेष्ट्वास्येन प्राश्नामि बृहस्पतेर्मुखेन । इन्द्रस्य त्वा जठरे सादयामि वरुणस्योदरे । तद्यथा
हुतमिष्टं प्राश्नीयाद्देवात्मा त्वा प्राश्नाम्यात्मास्यात्मन्नात्मानं मे मा हिंसीः इति प्राशितमनुमन्त्रयते ॥ योऽग्निर्नृमणा नाम ब्राह्मणेषु प्रविष्टः । तस्मिन्म एष सुहुतोऽस्त्वोदनः स मा मा हिंसीत्परमे व्योमन् ॥ सो अस्मभ्यमस्तु परमे व्योमनिति दातारं वाचयति ॥ वीक्षणान्तं शतौदनायाः प्रातर्जपेन व्याख्यातम् ॥ कौशिकसूत्र ८,६{६५}.१३१६ ॥]
ततः कर्ताऽअग्नेष्ट्वास्येनऽ इति द्वाभ्यां प्राश्नाति ।ऽयोऽग्निर्नृमणाऽ इति प्राशितमनुमन्त्रयते ।ऽसो अस्मभ्यमस्तु परमे व्योमन्ऽ इति पादं दातारं वाचयति ॥
[वाङ्म आसन् (१९.६०.१२) इति मन्त्रोक्तान्यभिमन्त्रयते ॥ कौशिकसूत्र ८,७{६६}.१ ॥]
ऽवाङ्म आसन्ऽ इति मन्त्रोक्तान्यभिमृशत इन्द्रियाणि ॥
[बृहता मनः (५.१०.८) द्यौश्च मे (६.५३) पुनर्मैत्विन्द्रियम् (७.६७) इति प्रतिमन्त्रयते ॥ कौशिकसूत्र ८,७{६६}.२ ॥]
ऽबृहता मनःऽ इत्यृचा,ऽद्यौश्च मेऽ इति तृचं सूक्तं,ऽपुनर्मैत्विन्द्रियम्ऽ इत्यृचा एताभिः प्रतिमन्त्रणं कुर्यात् ॥
[शृतं त्वा हव्यम् (११.१.२५) इति चतुर आर्षेयान् भृग्वङ्गिरोविद उपसादयति ॥ कौशिकसूत्र ८,४{६३}.३ ॥]
अथ अथर्ववेदब्राह्मणानामाह्वानकालः । दाताऽसोम राजन्ऽ (११.१.२६) इत्यृचा चतुर आर्षेयान् भृग्वङ्गिरोविद आहूयऽशृतं त्वा हव्यम्ऽ इत्यर्धर्चेन तानेव आसनेनोपवेशयति ॥
[शुद्धाः पूताः (११.१.२७) इति मन्त्रोक्तम् ॥ पववं क्षेत्रात्(११.१.२८) वर्षं वनुष्व (१२.३.५३) इत्यपकर्षति ॥ कौशिकसूत्र ८,४{६३}.४५ ॥]
ऽशुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणा हस्तेषुऽ इत्यृचा तेषां हस्तप्रक्षालनं दत्त्वाऽपक्वं क्षेत्रात्ऽ पादत्रयेण ओदनपात्रं ब्राह्मणसमीपे करोति ॥
[प्रतिमन्त्रिते व्यवदायाश्नन्ति ॥ कौशिकसूत्र ८,७{६६}.३ ॥
प्रतिमन्त्रिते व्यवदायाश्नन्ति ॥ कौशिकसूत्र ८,९{६८}.३४ ॥]
ते तस्यां पात्र्यां स्वयमेवौदनं गृहीत्वा प्राश्नन्ति । दाताऽपुण्याहं दीर्घमायुरस्तुऽ इत्येवमादि वाचनम् ॥
[एके सहिरण्यां धेनुं दक्षिणाम् ॥ गोदक्षिणां वा कौरुपथिः ॥ सम्पातवतोऽभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः ॥ कौशिकसूत्र ८,४{६३}.२६२८ ॥
अत ऊर्ध्वं वाचिते हुते संस्थिते अमूं ते ददामि इति नामग्राहमुपस्पृशेत् ॥ सदक्षिणं कामस्तत्(१९.५२) इत्युक्तम् ॥ कौशिकसूत्र ८,९{६८}.२८२९ ॥]
ऽसहिरण्यां धेनुं दक्षिणां ब्रह्मौदनं तुभ्यमहं सम्प्रददेऽ इति सर्वेषु सवेषु सवनामग्रहणं कृत्वा दक्षिणां ददाति । कर्ताऽक इदम्ऽ (३.२९.७)ऽकामस्तदग्रेऽ (१९.५२),ऽयदन्नम्ऽ (६.७१),ऽपुनर्मैत्विन्द्रियम्ऽ (७.६७) इति सर्वं सदक्षिणं प्रतिगृह्णाति ॥
[एत भागं (६.१२२) एतं सधस्थाः (६.१२३) उलूखले (१०.९.२६) इति संस्थितहोमाः ॥ कौशिकसूत्र ८,४{६३}.२९ ॥]
दाता कर्तुर्हस्तेऽएतं भागम्ऽऽएतं सधस्थाःऽ इति द्वाभ्यां सूक्ताभ्यां,ऽउलूखले मुसलेऽ इत्यृचा एताभिः संस्थितहोमान् जुहोति ॥
[आवपते ॥ अनुमन्त्रणं च ॥ कौशिकसूत्र ८,४{६३}.३०३१ ॥]
कर्ताऽउलूखलेऽ इत्यृचा व्रीहीन् जुहोति ॥
[अग्नौ तुषान् (११.१.२९) इति तुषानावपति ॥ कौशिकसूत्र ८,४{६३}.६ ॥]
ऽअग्नौ तुषान्ऽ इति पादेन दाता तुषानग्नौ च जुहोति ॥
[परः कम्बूकान् (११.१.२९) इति सव्येन पादेन फलीकरणानपोहति ॥ तन्वं स्वर्गः (१२.३.५४) इत्यन्यानावपति ॥ कौशिकसूत्र ८,४{६३}.७८ ॥]
ऽपरः कम्बूकान्ऽ इति त्रिभिः पादैर्दाता सव्येन पादेन फलीकरणानुदूहति तूष्णीम् ॥
[अग्ने प्रेहि (४.१४.५) समाचिनुष्व (११.१.३६) इत्याज्यं जुहुयात् ॥ कौशिकसूत्र ८,४{६३}.९ ॥]
दाताऽअग्ने प्रेहिऽ इत्यृचाऽसमाचिनुष्वऽ इत्यृचा द्वे एताभिराज्यं जुहुयात् ॥
[इदावत्सराय इति व्रतविसर्जनमाज्यं जुहुयात् ॥ समिधोऽभ्यादध्यात् ॥ तत्र श्लोकौ
यजुषा मथिते अग्नौ यजुषोपसमाहिते.
सवान् दत्त्वा सवाग्नेस्तु कथमुत्सर्जनं भवेत् ॥
वाचयित्वा सवान् सर्वान् प्रतिगृह्य यथाविधि.
हुत्वा सन्नतिभिस्तत्रोत्सर्गं कौशिकोऽब्रवीत् ॥
प्राञ्चोऽपराजितां वा दिशमवभृथाय व्रजन्ति ॥ अपां सूक्तैराप्लुत्य प्रदक्षिणमावृत्याप उपस्पृश्यानवेक्षमाणाः प्रत्युदाव्रजन्ति ॥ ब्राह्मणान् भक्तेनोपेप्सन्ति ॥ यथोक्ता दक्षिणा यथोक्ता दक्षिणा ॥ कौशिकसूत्र ८,९{६८}.३५४१ ॥]
अथ दाता व्रतं निवेद्य सावित्रव्रतं त्रिरात्रं यथाशास्त्रविहितमित्यादि व्रतश्रावणम् ।ऽइदावत्सरायऽ इति व्रतविसर्जनमाज्यं जुहुयात् । समिधोऽभ्यादध्यात्व्रतसमापनीश्च । कर्ता सन्नतिभिराज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा सवाग्निमुत्सृजति । प्राञ्चोऽपराजितां वा दिशमवभृथाय व्रजन्ति ।ऽअम्बयो यन्तिऽ (१.४)ऽआपो हि ष्ठाःऽ (१.५)ऽशं नो देवीःऽ (१.६)ऽहिरण्यवर्णाःऽ (१.३३)ऽयददःऽ (३.१३)ऽकृष्णं नियानंऽ (६.२२)ऽसस्रुषीःऽ (६.२३)ऽहिमवतः प्र स्रवन्तिऽ (६.२४)ऽवायोः पूतःऽ (६.५१)ऽवैश्वानरो रश्मिभिःऽ (६.६२) इत्यपां सूक्तैराप्लुत्य स्नात्वा प्रदक्षिणमावृत्याचमनं कृत्वाऽनपेक्षमाणाः प्रत्युदाव्रजन्ति । ब्राह्मणान् भक्तेनोपेप्सन्ति । वृद्धिश्राद्धं कुर्यादिति ॥
[एष सवानां संस्कारः ॥ अर्थलुप्तानि निवर्तन्ते ॥ यथासवं मन्त्रं सन्नमयति ॥ लिङ्गं परिहितस्यानन्तरं कर्म कर्मानुपूर्वेण लिङ्गं परीक्षेत ॥ लिङ्गेन वा ॥ कर्मोत्पत्त्यानुपूर्वं प्रशस्तम् ॥ अतथोत्पत्तेर्यथालिङ्गम् ॥ समुच्चयस्तुल्यार्थानां विकल्पो वा ॥ अथैतयोर्विभागः ॥ सूक्तेन पूर्वं सम्पातवन्तं करोति ॥ श्राम्यतः (११.१.३०) इतिप्रभृतिर्वा सूक्तेनाभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः ॥ अनुवाकेनोत्तरं सम्पातवन्तं करोति ॥ प्राच्यै त्वा दिशे (१२.३.५५) इतिप्रभृतिभिर्वानुवाकेनाभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः ॥ यथासवमन्यान् पृथग्वेति प्रकृतिः ॥ सर्वे यथोत्पत्त्याचार्याणां पञ्चौदनवर्जम् ॥ प्रयुक्तानां पुनरप्रयोगम् ॥ कौशिकसूत्र ८,४{६३}.१०२५ ॥]
इति ब्रह्मौदनप्रकृतिसर्वसवविधानं समाप्तम्.
यः एकं सवयज्ञं करोति तस्यैकक्रतुफलं भवति । यो बहूनि सवयज्ञानि करोति तस्य बहुक्रतुफलं भवति । अथर्ववेदविहिता यागा एते । आवसथ्याधाने सवयज्ञान् कृत्वा ततोऽग्न्याधानं कुर्यात् । ब्रह्मौदनं वा कृत्वाधानं कुर्यात् । आधाने नित्यं सवदानं कुर्यात् । अथवा फलकामोऽपि सवयज्ञं कुर्यात् । त्रिविधाः सवयज्ञा नित्यनैमित्तिककाम्या भवन्ति । मन्त्रे त्रिविधा विज्ञायन्ते । समाप्तो ब्रह्मौदनः । सवयज्ञाः काम्या भवन्ति । नैमित्तिका भवन्ति । त्रिविधा भवन्ति । ब्रह्मौदनतन्त्रेण वा कुर्यात् । सर्वेषां सर्वे सवाः । स्वर्गौदनतन्त्रेण वा कुर्यात् । सर्वेषां सवानां ब्रह्मौदनतन्त्रं स्वर्गौदनतन्त्रं वा भवति । अथवा सर्वे पृथक्तन्त्राः । एकमन्त्रो नास्ति । स तूष्णीं कर्तव्यः । द्वाविंशतिः सवाः । पञ्चौदनशतौदनअजौदनेषु विशेषः ॥
[आशानाम् (१.३१) इति चतुःशरावम् ॥ यद्राजानः (३.२९) इत्यवेक्षति ॥ कौशिकसूत्र ८,५{६४}.१२ ॥]
सवतन्त्र आज्यभागान्ते पश्वालम्भः ।ऽयद्राजानःऽ इति षड्भिरविमीक्षते ॥
[पदस्नातस्य पृथक्पादेष्वपूपान्निदधाति ॥ कौशिकसूत्र ८,५{६४}.३ ॥]
अवेः पादप्रक्षालनं करोति तूष्णीम् । चतुर्षु पादेषु पृथगपूपान्निदधाति ॥
[नाभ्यां पञ्चमम् ॥ कौशिकसूत्र ८,५{६४}.४ ॥]
पञ्चममपूपं नाभ्यां वसनेन बन्धनं करोति ॥
[उन्नह्यन् वसनेन सहिरण्यं सम्पातवन्तम् ॥ कौशिकसूत्र ८,५{६४}.५ ॥]
ततःऽयद्राजानःऽ इति सूक्तेन सहिरण्यमविं सम्पातवन्तं करोति ॥
[आ नयैतम् (९.५.१) इत्यपराजितादजमानीयमानमनुमन्त्रयते ॥ कौशिकसूत्र ८,५{६४}.६ ॥]
ऽआ नयैतम्ऽ इत्यृचा अविमानीयमानमनुमन्त्रयते ॥
[इन्द्राय भागम् (९.५.२) इत्यग्निं परिणीयमानम् ॥ कौशिकसूत्र ८,५{६४}.७ ॥]
ऽइन्द्राय भागम्ऽ इत्यर्धर्चेनाग्निं परिणीयमानमनुमन्त्रयते ॥
[ये नो द्विषन्ति (९.५.२) इति सञ्ज्ञप्यमानम् ॥ कौशिकसूत्र ८,५{६४}.८ ॥]
ऽये नो द्विषन्तिऽ इत्यर्धर्चेन सञ्ज्ञप्यमानमनुमन्त्रयते ॥
[प्र पदः (९.५.३) इति पदः प्रक्षालयन्तम् ॥ कौशिकसूत्र ८,५{६४}.९ ॥]
ततःऽप्र पदःऽ इत्यृचा पादप्रक्षालनं करोति ॥
[अनु च्छ्य श्यामेन (९.५.४) इति यथापरु विशसन्तम् ॥ कौशिकसूत्र ८,५{६४}.१० ॥]
ऽअनु च्छ्य श्यामेनऽ इत्यर्धर्चेन विशसन्तमनुमन्त्रयते ॥
[ऋचा कुम्भीम् (९.५.५) इत्यधिश्रयन्तम् ॥ कौशिकसूत्र ८,५{६४}.११ ॥]
ऽऋचा कुम्भीम्ऽ इति पादेन कुम्भीमधिश्रयणं करोति ॥
[आ सिञ्च (९.५.५) इत्यासिञ्चन्तम् ॥ कौशिकसूत्र ८,५{६४}.१२ ॥]
ऽआ सिञ्चोदकम्ऽ इत्यनेन कुम्भ्यामुदकं सिञ्चति ॥
[अव धेहि (९.५.५) इत्यवदधतम् ॥ कौशिकसूत्र ८,५{६४}.१३ ॥]
ऽअव धेह्येनम्ऽ इत्यनेन मांसान्यवदधतम् ॥
[पर्याधत्त (९.५.५) इति पर्यादधतम् ॥ कौशिकसूत्र ८,५{६४}.१४ ॥]
ऽपर्याधत्तऽ इति पादेन पर्याधत्तं करोति ॥
[शृतो गच्छतु (९.५.५) इत्युद्वासयन्तम् ॥ कौशिकसूत्र ८,५{६४}.१५ ॥]
ऽशृतो गच्छतुऽ इति पादेनोद्वासनं करोति ॥
[उत्क्रामातः (९.५.६) इति पश्चादग्नेर्दर्भेषूद्धरन्तम् ॥ कौशिकसूत्र ८,५{६४}.१६ ॥]
ऽउत्क्रामातःऽ इत्यृचा पश्चादग्नेर्दर्भेषूद्धरन्तं करोति ॥
[उद्धृतं अजमनज्मि (४.१४.६) इत्याज्येनानक्ति ॥ कौशिकसूत्र ८,५{६४}.१७ ॥]
तदुपरिऽअजमनज्मिऽ इत्यृचाज्येनानक्ति । एवं विशेषः । ततःऽइयं महीऽ (११.१.८) इति चर्मास्तृणातीत्यादि ओदनसवविहितं भागादि कर्म करोति । यथैकवारं सहओदनमांसानामुद्वासनं भवति तथा कार्यम् । आज्यभागान्ते पश्वालम्भः ॥
[पञ्चौदनम् (४.१४.७) इति मन्त्रोक्तम् ॥ ओदनान् पृथक्पादेषु निदधाति ॥ मध्ये पञ्चमम् ॥ दक्षिणं पश्चार्धं यूषेनोपसिच्य ॥ शृतमजम् (४.१४.९) इत्यनुबद्धशिरःपादं त्वेतस्य चर्म ॥ अजो हि (४.१४) इति सूक्तेन सम्पातवन्तं यथोक्तम् ॥ उत्तरोऽमोतं तस्याग्रतः सहिरण्यं निदधाति ॥ पञ्च रुक्मा (९.५.२५) इति मन्त्रोक्तम् ॥ धेन्वादीन्युत्तरतः सोपधानमास्तरणं वासो हिरण्यं च ॥ आ नयैतम् (९.५) इति सूक्तेन सम्पातवन्तम् ॥ आञ्जनान्तं शतौदनायाः पञ्चौदनेन व्याख्यातम् ॥ कौशिकसूत्र ८,५{६४}.१८२८ ॥]
शेषं सूत्रपठितमवगन्तव्यम् । कर्तव्यं च । सवयज्ञानां परिगणनं क्रियते ।ऽअग्ने जायस्वऽ (११.१) इत्यर्थसूक्तेन ब्रह्मौदनं ददाति ।ऽपुमान् पुंसःऽ (१२.३) इत्यनुवाकेन स्वर्गौदनं ददाति ।ऽआशानाम्ऽ (१.३१) इति चतुःशरावम् ।ऽयद्राजानःऽ (३.२९) इति पञ्चर्चेनाविसवम् ।ऽअजो ह्यग्नेरजनिष्ठऽ (४.१४) इति सूक्तेनाजौदनं सवम् ।ऽआ नयैतम्ऽ (९.५) इत्यर्थसूक्तेन पञ्चौदनं सवम् ॥
[अघायताम् (१०.९) इत्यत्र मुखमपिनह्यमानमनुमन्त्रयते ॥ सपत्नेषु वज्रम् (१०.९.१) ग्रावा त्वैषः (१०.९.२) इति निपतन्तम् ॥ वेदिष्टे (१०.९.२) इति मन्त्रोक्तमास्तृणाति ॥ विंशत्योदनासु श्रयणीषु शतमवदानानि वध्रीसन्नद्धानि पृथगोदनेषूपर्यादधति ॥ मध्यमायाः प्रथमे रन्ध्रिण्यामिक्षां दशमेऽभितः सप्तसप्तापूपान् परिश्रयति ॥ पञ्चदशे पुरोडाशौ ॥ अग्ने हिरण्यम् ॥ अपो देवीः (१०.९.२७) इत्यग्रत उदकुम्भान् ॥ बालास्ते (१०.९.३) इति सूक्तेन सम्पातवतीम् ॥ प्रदक्षिणमग्निमनुपरिणीयोपवेशनप्रक्षालनाचमननुक्तम् ॥ कौशिकसूत्र ८,६{६५}.११० ॥
शतौदनायां द्वादशं शतं दक्षिणाः । अधिकं ददतः कामप्रं सम्पद्यते ॥ कौशिकसूत्र ८,७{६६}.४५ ॥]
ऽअघायताम्ऽ इत्यर्थसूक्तेन शतौदनं सवम् ॥
[ब्रह्मास्य (४.३४) इत्योदने ह्रदान् प्रतिदिशं करोति ॥ उपर्यापानम् ॥ तदभितश्चतस्रो दिश्याः कुल्याः ॥ ता रसैः पूरयति ॥ पृथिव्यां सुरयाद्भिराण्डीकादिवन्ति मन्त्रोक्तानि प्रतिदिशं निधाय ॥ कौशिकसूत्र ८,७{६६}.६१० ॥]
ऽब्रह्मास्य शीर्षम्ऽ इति सूक्तेन ब्रह्मास्यौदनं सवम् ॥
[यमोदनम् (४.३५) इत्यतिमृत्युम् ॥ कौशिकसूत्र ८,७{६६}.११ ॥]
ऽयमोदनम्ऽ इति सूक्तेनातिमृत्युं सवम् ॥
[अनड्वान् (४.११) इत्यनड्वाहम् ॥ कौशिकसूत्र ८,७{६६}.१२ ॥]
ऽअनड्वान् दाधारऽ इति सूक्तेन अनड्वाहं सवम् ॥
[सूर्यस्य रश्मीन् (४.३८.५) इति कर्कीं सानूबन्ध्यां ददाति ॥ कौशिकसूत्र ८,७{६६}.१३ ॥]
ऽसूर्यस्य रश्मीन्ऽ इति तिसृभिरृग्भिः कर्कीं सवम् ॥
[आयं गौः पृश्निः (६.३१) अयं सहस्रम् (७.२२) इति पृश्निं गाम् ॥ कौशिकसूत्र ८,७{६६}.१४ ॥]
ऽआयं गौः पृश्निःऽ इति तिसृभिरृग्भिः पृश्निं सवम् ।ऽअयं सहस्रम्ऽ इति द्वाभ्यां पृश्निं गां सवम् ॥
[देवा इमं मधुना संयुतं यवम् (६.३०.१) इति पौनःशिलं मधुमन्थं सहिरण्यं सम्पातवन्तम् ॥ कौशिकसूत्र ८,७{६६}.१५ ॥]
ऽदेवा इमम्ऽ इत्यृचा पौनःशिलं सवम् ॥
[पुनन्तु मा देवजनाः (६.१९) इति पवित्रं कृशरम् ॥ कौशिकसूत्र ८,७{६६}.१६ ॥]
ऽपुनन्तु माऽ इति सूक्तेन पवित्रं सवम् ॥
[कः पृश्निम् (७.१०४) इत्युर्वराम् ॥ कौशिकसूत्र ८,७{६६}.१७ ॥]
ऽकः पृश्निम्ऽ इत्यृचा उर्वरां सवम् ॥
[साहस्रः (९.४) इत्यृषभम् ॥ कौशिकसूत्र ८,७{६६}.१८ ॥]
ऽसाहस्रस्त्वेषःऽ इत्यर्थसूक्तेन ऋषभं सवम् ॥
[प्रजापतिश्च (९.७) इत्यनड्वाहम् ॥ कौशिकसूत्र ८,७{६६}.१९ ॥]
ऽप्रजापतिश्चऽ इति सूक्तेनानड्वाहं सवम् ॥
[नमस्ते जायमानायै (१०.१०) ददामि (१२.४) इति वशामुदपात्रेण सम्पातवता सम्प्रोक्ष्याभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः ॥ भूमिष्ट्वा (३.२९.८) इत्येनां प्रतिगृह्णाति ॥ कौशिकसूत्र ८,७{६६}.२०२१ ॥]
ऽनमस्ते जायमानायैऽ इत्यर्थसूक्तेन वशां सवम् ।ऽददामिऽ इत्यनुवाकेन वशां सवम् ॥
[उपमिताम् (९.३) इति यच्छालया सह दास्यन् भवति तदन्तर्भवत्यपिहितम् ॥ मन्त्रोक्तं तु प्रशस्तम् ॥ इटस्य ते वि चृतामि (९.३.१८) इति द्वारमवसारयति ॥ प्रतीचीं त्वा प्रतीचीनः (९.३.२२) इत्युदपात्रमग्निमादाय प्रपद्यन्ते ॥ तदन्तरेव सूक्तेन सम्पातवत्करोति ॥ उदपात्रेण सम्पातवता शालां सम्प्रोक्ष्याभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः ॥ अन्तरा द्यां च पृथिवीं च (९.३.१५) इत्येनां प्रतिगृह्णाति ॥ उपमिताम् (९.३.१) इति मन्त्रोक्तानि प्रचृतति ॥ मा नः पाशम् (९.३.२४) इत्यभिमन्त्र्य धारयति ॥ नास्यास्थीनि (९.५.२३) इति यथोक्तम् ॥ सर्वमेनं समादाय (९.५.२३) इत्यद्भिः पूर्णे गर्ते प्रविध्य संवपति ॥ शतौदनां च ॥ कौशिकसूत्र ८,७{६६}.२२२३ ॥]
ऽउपमिताम्ऽ इत्यर्थसूक्तेन शालां सवम् ।ऽतस्यौदनस्यऽ (११.३) इत्यर्थसूक्तेन बृहस्पतिं सवम् । अभिचारकामस्य । द्वाविंशतिसवयज्ञाः संहितायां पठ्यन्ते । स्वर्गौदनतन्त्रेण सर्वे कर्तव्याः । ब्रह्मौदनतन्त्रेण वा ।ऽस्वर्गब्रह्मौदनौ तन्त्रम्ऽ (Kऔश्ष्६८.४) इति वचनात् । शेषं समानम् ॥ अजौदनपचौदनशतौदनानां विशेषं पठितम् ॥
अध्यात्मविमुखो होमादेवाथर्वाङ्गिरसपारगे.
सवाष्टमेऽध्याये उक्ता नानाफलप्रदाः स्मृताः ॥
इति कौशिकपद्धतौ अष्टमोऽध्यायः ॥
____________________________________________________________________________