केरलोदयः - स्वप्नमञ्जरी - प्रथमः सर्गः

विकिस्रोतः तः

५-प्रससार न चोन्मेषो जडात्मनि तदात्मनि।

कांस्यपात्रे जलापूर्णे कराघातध्वनिर्यथा।।

६ अथैकदा विधिं प्राप्य कुठारैकसहायकः।

रामो व्यजिञ्ञपत् बाष्पश्वाससंभिन्नया गिरा।।

७-पारयामि न संवोढुमिमामसुविघातिनीम्।

एकान्ततामयि विभो कण्ठबद्धां शिलामिव ।।

८-परागचयनैकान्त-सुखोद्यमपरोऽनिलः।

सदा ममाश्रमद्वारमस्पृशन्नेव गच्छति ।।

९-गाने प्रवृत्तसन्धाने प्रतिष्टब्धगलैर्विधे ।

पत्रिभिः स्थीयतेऽकस्मान्निश्चलं प्रतिमासमैः।।