सामग्री पर जाएँ

केरलोदयः/प्रथमः सर्गः

विकिस्रोतः तः
केरलोदयः
प्रथमः सर्गः
के. एन्. एलुत्तच्छन्
द्वितीयः सर्गः →

केरलोदयः - स्वप्नमञ्जरी - प्रथमः सर्गः



पुरा पुरारिशिष्यः स परारिर्भृगुनन्दनः ।
उवास तपसा विन्ध्यतटपर्णकुटीरके ।। १ ।।
अस्वपद्दूरतः कोणे परशुः प्रायशोऽलसः ।
स्वपूर्वदर्पमिव यं ददर्श निभृतं मुनिः ।। २ ।।
निरायुधमपि क्रूरं जीविनो वर्जयन्मुनिम् ।
भितयो खलु लोकस्य दंष्ट्राहीनो हि पन्नगः ।। ३ ।।
सिद्धियिक्तोऽपि चर्यायां भार्गवोऽभग्नविक्रमः ।
कयापि पीडितोऽदृष्टसूक्ष्मवैशसधारया ।। ४ ।।
प्रससार न चोन्मेषो जडात्मनि तदात्मनि ।
कांस्यपात्रे जलापूर्णे कराघातध्वनिर्यथा ।। ५ ।।
अथैकदा विधिं प्राप्य कुठारैकसहायकः ।
रामो व्यजिञ्ञपत् बाष्पश्वाससंभिन्नया गिरा ।। ६ ।।
पारयामि न संवोढुमिमामसुविघातिनीम् ।
एकान्ततामयि विभो कण्ठबद्धां शिलामिव ।। ७ ।।
परागचयनैकान्त-सुखोद्यमपरोऽनिलः ।
सदा ममाश्रमद्वारमस्पृशन्नेव गच्छति ।। ८ ।।
गाने प्रवृत्तसन्धाने प्रतिष्टब्धगलैर्विधे ।
पत्रिभिः स्थीयतेऽकस्मान्निश्चलं प्रतिमासमैः ।। ९ ।।






विहाय वेदाध्ययनं विहस्य भगवान्मृदु ।
उवाच सर्गतत्त्वाढ्यं वाक्यं वाक्यविशारदः ।। 27
स्वस्त्यस्तु भवते वीर नित्यसाहसकर्मणे ।
सुखायतिस्तवाकस्माज्जातानुशय वर्त्मनि ।। 28
सर्वेपि तात मनुजाः स्वार्थसम्भरणैषिणः ।
तथापि मूलतो लोकः परायत्तसुखास्पदः ।। 29
भ्रातृसंहारपापैककठोरमरुवात्यया ।
अनुद्रतो भवान्नित्यं भयस्वप्नस्वरूपया ।। 30
पिशाचसमगर्जानां वर्जितप्रेमसम्पदाम् ।
आयुधीयप्रतापानां मूर्त्तिमत्त्वं गतो भवान् ।। 31
स्यमन्तपञ्चके तात तर्पिता भृगुपूर्वकाः ।
मन्ये दग्द्धगला जातास्तव दर्पोष्णवारिणा ।। 32
उत्खातमेव भवता कण्टकं क्षेत्रकण्टकम् ।
उप्तं न बीजं तत्स्थाने सुखसन्तानकारकम् ।। 33
त्वया विनाशिता वीर दावानलविहारिणा ।
सहैव विषवल्लीभिर्महितौषधिसन्ततिः ।। 34
उन्मूलितं त्वया राम काननं निबिडद्रुमम् ।
समं छायापि विध्वस्ता जगदाश्वासदायिनी ।। 35
लोकस्य निर्मलस्नेहः पापच्छन्ने तवात्मनि ।
न विशत्यन्धनिम्नान्धौ विश्वबन्धुकरो यथा ।। 36
म्रियेत न च मुह्येद्वा कर्मणां फलसन्ततिः ।
प्रत्याघातविहीनो हि नाघातः पुत्र दृश्यते ।। 37
उप्ता भूते क्रियाभूते वर्तमाने तिरोहिता ।
विफला न भवेत्पुत्र कदापि भवितव्यता ।। 38
वर्तते तात सूक्ष्माङ्गः पापबोधो नृणां हृदि ।
यद्योगान्मृदुवातोपि लुलायसदृशो भवेत् ।। 39
शत्रैर्निगृह्यते जन्तुः सृज्यते नैव स क्वचित् ।
तन्न हिंस्यात् परं धीमानेष धर्मः सनातनः ।। 40
वाकेषु चानुवाकेषु निषत्सूपनिषत्सु च ।
उक्ता व्याससमासेन चतुर्भद्रोयमागमः ।। 41
मदीयसृष्टावस्त्येव सर्वेषां जीवितार्हता ।
विपथोयं नयो येन बली भक्ष्यतेवशं ।। 42
शिग्रूपुष्पसमा राम गुणाः प्रकृतिपेलवाः ।
नार्हत्येतान् पदाक्रान्तुं नरः पशुरिवात्मवान् ।। 43
एक एव समायाति याति चैकोवशः पुमान् ।
स्वपदे जीवितं व्यर्थं सार्थकं तु परार्थकम् ।। 44
न प्रतीक्षेत संसारादात्यन्तिकसुखं बुधः ।
वर्णभेदेपि सर्वस्य छाया कालैव वस्तुनः ।। 45
भ्रमणैकपरे विश्वे स्थलकालविशेषिते ।
प्रतिक्षणमृतिक्लिष्टमसत्यं सत्त्वजीवितम् ।। 46
तथापि वर्तते जीवपुण्यसन्तानकारिणी ।
लोकसन्तुष्टिमूलेयमात्मतुष्टिर्गरीयसी ।। 47
मुक्तिर्यमादिसम्पाद्या न काचिद्गतिरुन्नता ।
ऋतुवृत्तिर्हि सा पुत्र यस्यां पुष्यति जीवितम् ।। 48
वेदयैर्वेदशास्त्राणां पारगैर्व्रतकर्मणाम् ।
न साक्षात्क्रियते धर्मः परसौख्यार्थलक्षणः ।। 49
सत्ये मौनस्थिते तात धर्मो जागर्त्ययत्नतः ।
अर्थापनैकवाचाले तस्मिन् स्वपिति केवलम् ।। 50
विकृतेपि हि संसारे सत्यसारो न बाध्यते ।
जले प्रतीपच्छायोपि विटपी नह्यधोमुखः ।। 51
नीरं निम्नतलं याति धूमश्चोपरि नित्यशः ।
नियमोस्त्येव सूक्ष्मोपि विश्वस्य चरितक्रमे ।। 52
जीवितोद्देश्यसंबन्धी प्रश्नस्त्वतिपुरातनः ।
निरुत्तरोयमित्थं भो जातुचिज्जात मा भ्रमीः ।। 53
अप्राप्योपि विदूरोपि सन्दृष्टश्चक्रवालवत् ।
मानवीयमहादर्शस्तेन नैवाप्रयोजनः ।। 54
अबद्धैश्च सुबद्धैश्च संबद्धा यत्नसञ्चयैः ।
चक्रसोपानवद्दृष्टा क्लिष्टा मर्त्यपुरोगतिः ।। 55
आयुधः प्रथमं हन्ति कारुणिं हर्षधारिणिम्
ततः शत्रुं ततो मित्रं ततः स्वजनिकारकम् ।। 56
दृश्यते हिंसया लब्धो विजयोपि पराजयः ।
पराजयोपि विजयः स्नेहेन परिलालितः ।। 57
योभिरञ्जयितुं लोकं कुरुते रक्तरञ्जनाम् ।
नैव प्राज्ञः स वीरोपि शारदो न विशारदः ।। 58
अपकार प्रतिकारान्न पुत्र परिमार्ज्यते ।
ग्रन्थिः काठिन्यमायाति पुनः सूत्रनिबन्धनात् ।। 59
धनं विन्देत् परं निन्देत् सर्वं छिन्देत् जयी नर: ।
कृतान्तं तु गदोच्चण्डं तथापि न निवारयेत् ।। 60
त्वयि वीर्याभिमानोपि मुमुक्षौ न हि युज्यते ।
शरीरस्य हितं तैलं कलङ्कयति दर्पणम् ।। 61
तदद्य त्यज्यतां दूरात् पापाचारः परश्वधः ।
शिरीषमृद्वी विद्यापि येन ते परिपीड्यते ।। 62
हेतिर्विकुरुते मर्त्यं सान्निध्येनैव नन्दन ।
सिद्धिगर्वं समादत्ते साधनाह्लादिनी मतिः ।। 63
अयं स परशुस्त्याज्यो धृष्टभाषा विकत्थकः।
कल्पतामुपकाराय तव पौरुषवैद्यति।। 64
वाचमेतां विरिञ्चस्य शापमोक्षसमाक्षराम् ।
श्रुत्वा निववृते रामो नवां जनिमिवावहन् ।। 65








इति के.एन्.एलुत्तच्छन्कृतौ महाकाव्ये केरलोदये प्रथमः सर्गः ।