कृष्ण यजुर्वेद काण्डाः 5-7

विकिस्रोतः तः
Jump to navigation Jump to search

तैत्तिरीय संहिता काण्ड 1-4 तैत्तिरीय संहिता काण्ड 5

5.1 प्रपाठक: 1 5.1.1 अनुवाक 1 सावित्राहुत्यभ्रिस्वीकारयोरभिधानम् VERSE: 1

   सावित्राणि जुहोति 
   प्रसूत्यै 
   चतुर्गृहीतेन जुहोति 
   चतुष्पादः पशवः 
   पशून् एवाव रुन्द्धे 
   चतस्रो दिशः । 
   दिक्ष्व् एव प्रति तिष्ठति 
   छन्दाम्̇सि देवेभ्यो ऽपाक्रामन् 
   न वो ऽभागानि हव्यं वक्ष्याम इति 
   तेभ्य एतच् चतुर्गृहीतम् अधारयन् 
   पुरोऽनुवाक्यायै याज्यायै देवतायै वषट्काराय 
   यच् चतुर्गृहीतं जुहोति छन्दाम्̇स्य् एव तत् प्रीणाति 
   तान्य् अस्य प्रीतानि देवेभ्यो हव्यं वहन्ति 
   यं कामयेत  

VERSE: 2

   पापीयान्त् स्याद् इत्य् एकैकं तस्य जुहुयात् । 
   आहुतीभिर् एवैनम् अप गृह्णाति पापीयान् भवति 
   यं कामयेत 
   वसीयान्त् स्याद् इति सर्वाणि तस्यानुद्रुत्य जुहुयात् । 
   आहुत्यैवैनम् अभि क्रमयति वसीयान् भवति । 
   अथो यज्ञस्यैवैषाभिक्रान्तिः । 
   एति वा एष यज्ञमुखाद् ऋद्ध्या यो ऽग्नेर् देवताया एति । 
   अष्टाव् एतानि सावित्राणि भवन्ति । 
   अष्टाक्षरा गायत्री 
  गायत्रः 

VERSE: 3

   अग्निस् 
   तेनैव यज्ञमुखाद् ऋद्ध्या अग्नेर् देवतायै नैति । 
   अष्टौ सावित्राणि भवन्त्य् आहुतिर् नवमी 
   त्रिवृतम् एव यज्ञमुखे वि यातयति 
   यदि कामयेत 
   छन्दाम्̇सि यज्ञयशसेनार्पयेयम् इत्य् ऋचम् अन्तमां कुर्यात् । 
   छन्दाम्̇स्य् एव यज्ञयशसे्नार्पयति 
   यदि कामयेत 
   यजमानं यज्ञयशसेनार्पयेयम् इति यजुर् अन्तमं कुर्यात् । 
  यजमानम् एव यज्ञयशसेनार्पयति । 
   ऋचा स्तोमम्̇ सम् अर्धयेति 

VERSE: 4

      आह 
   समृद्ध्यै 
   चतुर्भिर् अभ्रिम् आ दत्ते 
   चत्वारि छन्दाम्̇सि 
   छन्दोभिर् एव 
   देवस्य त्वा सवितुः प्रसव इत्य् आह 
   प्रसूत्यै । 
   अग्निर् देवेभ्यो निलायत 
   स वेणुम् प्राविशत् 
  स एतामूतिम् अनु सम् अचरद् यद् वेणोः सुषिरम् । 
   सुषिराभ्रिर् भवति सयोनित्वाय 
   स यत्रयत्रावसत् तत् कृष्णम् अभवत् 
  कल्माषी भवति रूपसमृद्ध्यै । 
   उभयतःक्ष्णूर् भवति । 
  इतश् चामुतश् चार्कस्यावरुद्ध्यै 
   व्याममात्री भवति । 
   एतावद् वै पुरुषे वीर्यम् । 
   वीर्यसम्मिता । 
 अपरिमिता भवति । 
  अपरिमितस्यावरुद्ध्यै 
  यो वनस्पतीनाम् फलग्रहिः स एषां वीर्यावान् 
  फलग्रहिर् वेणुः । 
  वैणवी भवति वीर्यस्यावरुद्ध्यै ॥ 

5.1.2 अनुवाक 2 मृत्खननगमनपूर्वकमश्वेन भूम्याक्रमणम् VERSE: 1

   व्यृद्धं वा एतद् यज्ञस्य यद् अयजुष्केण क्रियते । 
   इमाम् अगृभ्णन् रशनाम् ऋतस्येत्य् अश्वाभिधानीम् आ दत्ते 
   यजुष्कृत्यै यज्ञस्य समृद्ध्यै 
   प्रतूर्तं वाजिन्न् आ द्रवेत्य् अश्वम् अभि दधाति 
   रूपम् एवास्यैतन् महिमानं व्याचष्टे 
   युञ्जाथाम्̇ रासभं युवम् इति गर्दभम् 
   असत्य् एव गर्दभम् प्रति ष्ठापयति 
   तस्माद् अश्वाद् गर्दभो ऽसत्तरः । 
   योगेयोगे तवस्तरम् इत्य् आह ॥ 

VERSE: 2

   योगे योग एवैनं युङ्क्ते 
   वाजेवाजे हवामह इत्य् आह । 
   अन्नं वै वाजः । 
   अन्नम् एवाव रुन्द्धे 
   सखाय इन्द्रमूतय इत्य् आह । 
   इन्द्रियम् एवाव रुन्द्धे । 
   अग्निर् देवेभ्यो निलायत 
   तम् प्रजापतिर् अन्व् अविन्दत् 
   प्राजापत्यो ऽश्वः । 
  अश्वेन सम् भरत्य् अनुवित्त्यै 
 पापवस्यसं वा एतत् क्रियते यच् छ्रेयसा च पापीयसा च समानं कर्म कुर्वन्ति 
पापीयान्  

VERSE: 3

   ह्य् अश्वाद् गर्दभः । 
   अश्वम् पूर्वं नयन्ति पापवस्यसस्य व्यावृत्त्यै 
   तस्माच् छ्रेयाम्̇सम् पापीयान् पश्चाद् अन्व् एति 
   बहुर् वै भवतो भ्रातृव्यः । 
   भवतीव खलु वा एष यो ऽग्निम् चिनुते 
   वज्र्य् अश्वः 
   प्रतूर्वन्न् एह्य् अवक्रामन्न् अशस्तीर् इत्य् आह 
   वज्रेणैव पाप्मानम् भ्रातृव्यम् अव क्रामति 
   रुद्रस्य गाणपत्याद् इत्य् आह 
   रौद्रा वै पशवो रुद्राद् एव  

VERSE: 4

   पशून् निर्याच्यात्मने कर्म कुरुते 
   पूष्णा सयुजा सहेत्य् आह 
   पूषा वा अध्वनाम्̇ संनेता 
   समष्ट्यै 
   पुरीषायतनो वा एष यद् अग्निः । 
   अङ्गिरसो वा एतम् अग्रे देवतानाम्̇ सम् अभरन् 
   पृथिव्याः सधस्थाद् अग्निम् पुरीष्यम् अङ्गिरस्वद् अच्छेहीत्य् आह 
   सायतनम् एवैनं देवताभिः सम् भरति । 
   अग्निम् पुरीष्यम् अङ्गिरस्वद् अच्छेम इत्य् आह 

0 येन

VERSE: 5

   संगच्छते वाजम् एवास्य वृङ्क्ते 
   प्रजापतये प्रतिप्रोच्याग्निः सम्भृत्य इत्य् आहुः । 
   इयं वै प्रजापतिः 
   तस्या एतच् छ्रोत्रं यद् वल्मीकः । 
   अग्निम् पुरीष्यम् अङ्गिरस्वद् भरिष्याम इति वल्मीकवपाम् उप तिष्ठते 
   साक्षाद् एव प्रजापतये प्रतिप्रोच्याग्निम्̇ सम् भरति । 
   अग्निम् पुरीष्यम् अङ्गिरस्वद् भराम इत्य् आह 
   येन संगच्छते वाजम् एवास्य वृङ्क्ते। 
   अन्व् अग्निर् उषसाम् अग्रम् 

VERSE: 6

   अख्यद् इत्य् आह । 
   अनुख्यात्यै । 
   आगत्य वाज्य् अध्वन आक्रम्य वाजिन् पृथिवीम् इत्य् आह । 
   इच्छत्य् एवैनम् पूर्वया विन्दत्य् उत्तरया 
   द्वाभ्याम् आ क्रमयति 
   प्रतिष्ठित्यै । 
   अनुरूपाभ्याम् । 
   तस्माद् अनुरूपाः पशवः प्र जायन्ते 
   द्यौस् ते पृष्ठम् पृथिवी सधस्थम् इत्य् आह । 
   एभ्यो वा एतं लोकेभ्यः प्रजापतिः सम् ऐरयत् । 
   रूपम् एवास्यैतन् महिमानं व्याचष्टे 
   वज्री वा एष यद् अश्वः । 
   दद्भिर् अन्यतोदद्भ्यो भूयाम्̐ लोमभिर् उभयादद्भ्यः । 
  यं द्विष्यात् तम् अधस्पदं ध्यायेत् । 
   वज्रेणैवैनम्̇ स्तृणुते ॥ 

5.1.3 अनुवाक 3 अश्वाक्रमणपूर्वक भूसंस्काराभिधानम् VERSE: 1

   उत् क्रामोद् अक्रमीद् इति द्वाभ्याम् उत् क्रमयति 
   प्रतिष्ठित्यै । 
   अनुरूपाभ्याम् । 
   तस्माद् अनुरूपाः पशवः प्र जायन्ते । 
   अप उप सृजति 
   यत्र वा आप उपगच्छन्ति तद् ओषधयः प्रति तिष्ठन्ति । 
   ओषधीः प्रतितिष्ठन्तीः पशवो ऽनु प्रति तिष्ठन्ति 
   पशून् यज्ञः । 
   यज्ञं यजमानः । 

0 यजमानम् प्रजाः 1 तस्माद् अप उप सृजति 2 प्रतिष्ठित्यै 3 यद् अध्वर्युर् अनग्नाव् आहुतिं जुहुयाद् अन्धो ऽध्वर्युः

VERSE: 2

   स्याद् रक्षाम्̇सि यज्ञम्̇ हन्युः । 
   हिरण्यम् उपास्य जुहोति । 
   अग्निवत्य् एव जुहोति 
   नान्धो ऽध्वर्युर् भवति न यज्ञम्̇ रक्षाम्̇सि घ्नन्ति 
   जिघर्म्य् अग्निम् मनसा घृतेनेत्य् आह 
   मनसा हि पुरुषो यज्ञम् अभिगच्छति 
   प्रतिक्ष्यन्तम् भुवनानि विश्वेत्य् आह 
   सर्वम्̇ ह्य् एष प्रत्यङ् क्षेति 
   पृथुं तिरश्चा वयस बृहन्तम् इत्य् आह । 

0 अल्पो ह्य् एष जातो महान्

VERSE: 3

   भवति 
   व्यचिष्ठम् अन्नम्̇ रभसं विदानम् इत्य् आह । 
   अन्नम् एवास्मै स्वदयति 
   सर्वम् अस्मै स्वदते य एवं वेद । 
   आ त्वा जिघर्मि वचसा घृतेनेत्य् आह 
   तस्माद् यत् पुरुषो मनसाभिगच्छति तद् वाचा वदति । 
   अरक्षसेत्य् आह 
   रक्षसाम् अपहत्यै 
   मर्त्यश्री स्पृहयद्वर्णो अग्निर् इत्य् आह । 
 अपचितिम् एवास्मिन् दधाति । 
  अपचितिमान् भवति य एवं  

VERSE: 4

   वेद 
   मनसा त्वै ताम् आप्तुम् अर्हति याम् अध्वर्युर् अनग्नाव् आहुतिं जुहोति 
   मनस्वतीभ्यां जुहोति । 
   आहुत्योर् आप्त्यै 
   द्वाभ्याम् 
   प्रतिष्ठित्यै 
   यज्ञमुखेयज्ञमुखे वै क्रियमाणे यज्ञम्̇ रक्षाम्̇सि जिघाम्̇सन्ति । 
   एतर्हि खलु वा एतद् यज्ञमुखं यर्ह्य् एनद् आहुतिर् अश्नुते 
   परि लिखति 
   रक्षसाम् अपहत्यै 
   तिसृभिः परि लिखति 
   त्रिवृद् वा अग्निः । 
   यावान् एवाग्निस् तस्माद् रक्षाम्̇स्य् अप हन्ति ॥ 

VERSE: 5

   गायत्रिया परि लिखति 
   तेजो वै गायत्री 
   तेजसैवैनम् परि गृह्णाति 
   त्रिष्टुभा परि लिखति । 
   इन्द्रियं वै { त्रिष्टुग् ^ त्रिष्तुभ् } 
   इन्द्रियेणैवैनम् परि गृह्णाति । 
   अनुष्टुभा परि लिखति । 
   अनुष्टुप् सर्वाणि छन्दाम्̇सि परिभूः पर्याप्त्यै 
   मध्यतो ऽनुष्टुभा 
   वाग् वा { अनुष्टुप् ^ अनुष्टुभ् } 
   तस्मान् मध्यतो वाचा वदामः । 
   गायत्रिया प्रथमया परि लिखत्य् अथानुष्टुभाथ त्रिष्टुभा 
   तेजो वै गायत्री यज्ञो ऽनुष्टुग् इन्द्रियं { त्रिष्टुप् ^ त्रिष्टुभ् } 
  तेजसा चैवेन्द्रियेण चोभयतो यज्ञम् परि गृह्णाति ॥ 

5.1.4 अनुवाक 4 मृदःखननपूर्वकं चर्मपत्रयोः संभरणम् VERSE: 1

   देवस्य त्वा सवितुः प्रसव इति खनति प्रसूत्या अथो धूमम् एवैतेन जनयति 
   ज्योतिष्मन्तं त्वाग्ने सुप्रतीकम् इत्य् आह ज्योतिर् एवैतेन जनयति 
   सो ऽग्निर् जातः प्रजाः शुचार्पयत् तं देवा अर्धर्चेनाशमयन् । 
   शिवम् प्रजाभ्यो ऽहिम्̇सन्तम् इत्य् आह प्रजाभ्य एवैनम्̇ शमयति 
   द्वाभ्यां खनति प्रतिष्ठित्यै । 
   अपाम् पृष्ठम् असीति पुष्करपर्णम् आ  

VERSE: 2

   हरत्य् अपां वा एतत् पृष्ठं यत् पुष्करपर्णम्̇ रूपेणैवैनद् आ हरति 
   पुष्करपर्णेन सम् भरति योनिर् वा अग्नेः पुष्करपर्णम्̇ सयोनिम् एवाग्निम्̇ सम् भरति 
   कृष्णाजिनेन सम् भरति यज्ञो वै कृष्णाजिनं यज्ञेनैव यज्ञम्̇ सम् भरति 
   यद् ग्राम्याणाम् पशूनां चर्मणा सम्भरेद् ग्राम्यान् पशूञ् छुचार्पयेत् कृष्णाजिनेन सम् भरत्य् आरण्यान् एव पशून्  

VERSE: 3

   शुचार्पयति 
   तस्मात् समावत् पशूनाम् प्रजायमानानाम् आरण्याः पशवः कनीयाम्̇सः शुचा ह्य् ऋताः । 
   लोमतः सम् भरत्य् अतो ह्य् अस्य मेध्यम् । 
   कृष्णाजिनं च पुष्करपर्णं च सम्̇ स्तृणातीयं वै कृष्णाजिनम् असौ पुष्करपर्णम् आभ्याम् एवैनम् उभयतः परि गृह्णाति । 
   अग्निर् देवेभ्यो निलायत तम् अथर्वान्व् अपश्यत् । 
   अथर्वा त्वा प्रथमो निर् अमन्थद् अग्न इति  

VERSE: 4

   आह य एवैनम् अन्वपश्यत् तेनैवैनम्̇ सम् भरति 
   त्वाम् अग्ने पुष्कराद् अधीत्य् आह पुष्करपर्णे ह्य् एनम् उपश्रितम् अविन्दत् 
   तम् उ त्वा दध्यङ्ङ् ऋषिर् इत्य् आह दध्यङ् वा आथर्वणस् तेजस्व्य् आसीत् तेज एवास्मिन् दधाति 
   तम् उ त्वा पाथ्यो वृषेत्य् आह पूर्वम् एवोदितम् उत्तरेणाभि गृणाति ॥ 

VERSE: 5

   चतसृभिः सम् भरति चत्वारि छन्दाम्̇सि छन्दोभिर् एव 
   गायत्रीभिर् ब्राह्मणस्य गायत्रो हि ब्राह्मणस् 
   त्रिष्टुग्भी राजन्यस्य त्रैष्टुभो हि राजन्यो 
   यं कामयेत वसीयान्त् स्याद् इत्य् उभयीभिस् तस्य सम् भरेत् तेजश् चैवास्मा इन्द्रियं च समीची दधात्य् 
   अष्टाभिः सम् भरत्य् अष्टाक्षरा गायत्री गायत्रो ऽग्निर् यावान् एवाग्निस् तम्̇ सम् भरति 
   सीद होतर् इत्य् आह देवता एवास्मै सम्̇ सादयति 
   नि होतेति मनुष्यान्त् सम्̇ सीदस्वेति वयाम्̇सि 
   जनिष्वा हि जेन्यो अग्रे अह्नाम् इत्य् आह देवमनुष्यान् एवास्मै सम्̇सन्नान् प्र जनयति ॥ 

5.1.5 अनुवाक 5 संभृतमृदो यज्ञभूमौ समाहरणम् VERSE: 1

   क्रूरम् इव वा अस्या एतत् करोति यत् खनति । 
   अप उप सृजति । 
   आपो वै शान्ताः 
   शान्ताभिर् एवास्यै शुचम्̇ शमयति 
   सं ते वायुर् मातरिश्वा दधात्व् इत्य् आह 
   प्राणो वै वायुः 
   प्राणेनैवास्यै प्राणम्̇ सं दधाति 
   सं ते वायुर् इत्य् आह 
   तस्माद् वायुप्रच्युता दिवो वृष्टिर् ईर्ते 

0 तस्मै च देवि वषड् अस्तु

VERSE: 2

   तुभ्यम् इत्य् आह 
   षड् वा ऋतवः । 
   ऋतुष्व् एव वृष्टिं दधाति 
   तस्मात् सर्वान् ऋतून् वर्षति 
   यद् वषट्कुर्याद् रक्षाम्̇सि यज्ञम्̇ हन्युः । 
   वड् इत्य् आह 
   परोऽक्षम् एव वषट् करोति 
   नास्य यातयामा वषट्कारो भवति न यज्ञम्̇ रक्षाम्̇सि घ्नन्ति 
   सुजातो ज्योतिषा सहेत्य् अनुष्टुभोप नह्यति । 
   अनुष्टुप्  

VERSE: 3

   सर्वाणि छन्दाम्̇सि 
   छन्दाम्̇सि खलु वा अग्नेः प्रिया तनूः 
   प्रिययैवैनं तनुवा परि दधाति 
   वेदुको वासो भवति य एवं वेद वारुणो वा अग्निर् उपनद्धः । 
   उद् उ तिष्ठ स्वध्वरोर्ध्व ऊ षु ण ऊतय इति सावित्रीभ्याम् उत् तिष्ठति 
   सवितृप्रसूत एवास्योर्ध्वां वरुण मेनिम् उत् सृजति 
   द्वाभ्याम् 
   प्रतिष्ठित्यै 
   स जातो गर्भो असि ॥ 

VERSE: 4

   रोदस्योर् इत्य् आह । 
   इमे वै रोदसी 
   तयोर् एष गर्भो यद् अग्निः 
   तस्माद् एवम् आह । 
   अग्ने चारुर् विभृत ओषधीष्व् इत्य् आह 
   यदा ह्य् एतं विभरन्त्य् अथ चारुतरो भवति 
   प्र मातृभ्यो अधि कनिक्रदद् गा इत्य् आह । 
   ओषधयो वा अस्य मातरः 
   ताभ्य एवैनम् प्र च्यावयति 

0 स्थिरो भव वीड्वङ्ग इति गर्दभ आ सादयति ॥

VERSE: 5

   सं नह्यत्य् एवैनम् एतया स्थेम्ने 
   गर्दभेन सम् भरति 
   तस्माद् गर्दभः पशूनाम् भारभारितमः । 
   गर्दभेन सम् भरति 
   तस्माद् गर्दभो ऽप्य् अनालेशेत्य् अन्यान् पशून् मेद्यति । 
   अन्नम्̇ ह्य् एनेनार्कम्̇ सम्भरन्ति 
   गर्दभेन सम् भरति 
   तस्माद् गर्दभो द्विरेताः सन् कनिष्ठम् पशूनाम् प्र जायते । 
   अग्निर् ह्य् अस्य योनिं निर्दहति 

0 प्रजासु वा एष एतर्ह्य् आरूढः ॥

VERSE: 6

   स ईश्वरः प्रजाः शुचा प्रदहः 
   शिवो भव प्रजाभ्य इत्य् आह 
   प्रजाभ्य एवैनम्̇ शमयति 
   मानुषीभ्यस् त्वम् अङ्गिर इत्य् आह 
   मानव्यो हि प्रजाः । 
   मा द्यावापृथिवी अभि शूशुचो मान्तरिक्षम् मा वनस्पतीन् इत्य् आह । 
   एभ्य एवैनं लोकेभ्यः शमयति 
   प्रैतु वाजी कनिक्रदद् इत्य् आह 
   वाजी ह्य् { एष ^ एषस् } 
   नानदद् रासभः पत्वेति  

VERSE: 7

   आह 
   रासभ इति ह्य् एतम् ऋषयो ऽवदन् 
   भरन्न् अग्निम् पुरीष्यम् इत्य् आह । 
   अग्निम्̇ ह्य् एष भरति 
   मा पाद्य् आयुषः पुरेत्य् आह । 
   आयुर् एवास्मिन् दधाति 
   तस्माद् गर्दभः सर्वम् आयुर् एति 
   तस्माद् गर्दभे पुरायुषः प्रमीते बिभ्यति 
   वृषाग्निं वृषणम् भरन्न् इत्य् आह 
  वृषा ह्य् { एष ^ एषस् } 
  वृषाग्निः
  अपां गर्भम्  

VERSE: 8

   समुद्रियम् इत्य् आह । 
   अपाम्̇ ह्य् एष गर्भो यद् अग्निः । 
   अग्न आ याहि वीतय इति वा इमौ लोकौ व्यैताम् 
   अग्न आ याहि वीतय इति यद् आह । 
   अनयोर् लोकयोर् वीत्यै 
   प्रच्युतो वा एष आयतनाद् अगतः प्रतिष्ठाम् । 
   स एतर्ह्य् अध्वर्युं च यजमानं च ध्यायति । 
   ऋतम्̇ सत्यम् इत्य् आह । 
   इयं वा ऋतम् असौ  

VERSE: 9

   सत्यम् 
   अनयोर् एवैनम् प्रति ष्ठापयति नाऽऽर्तिम् आर्छत्य् अध्वर्युर् न यजमानः । 
   वरुणो वा एष यजमानम् अभ्य् ऐति यद् अग्निर् उपनद्धः । 
   ओषधयः प्रति गृह्णीताग्निम् एतम् इत्य् आह 
   शान्त्यै 
   व्यस्यन् विश्वा अमतीर् अरातीर् इत्य् आह 
   रक्षसाम् अपहत्यै 
   निषीदन् नो अप दुर्मतिम्̇ हनद् इत्य् आह 
   प्रतिष्ठित्यै । 
   ओषधयः प्रति मोदध्वम् ॥ 

VERSE: 10

   एनम् इत्य् आह । 
   ओषधयो वा अग्नेर् भागधेयम् । 
   ताभिर् एवैनम्̇ सम् अर्धयति 
   पुष्पावतीः सुपिप्पला इत्य् आह 
   तस्माद् ओषधयः फलं गृह्णन्ति । 
   अयं वो गर्भ ऋत्वियः प्रत्नम्̇ सधस्थम् आसदद् इत्य् आह 
   याभ्य एवैनम् प्रच्यावयति तास्व् एवैनम् प्रति ष्ठापयति 
   द्वाभ्याम् उपावहरति 
   प्रतिष्ठित्यै ॥ 

5.1.6अनुवाक 6 उखानिर्माणम् VERSE: 1

   वारुणो वा अग्निर् उपनद्धः । 
   वि पाजसेति वि स्रम्̇सयति 
   सवितृप्रसूत एवास्य विषूचीं वरुणमेनिं वि सृजति । 
   अप उप सृजति । 
   आपो वै शान्ताः 
   शान्ताभिर् एवास्य शुचम्̇ शमयति 
   तिसृभिर् उप सृजति 
   त्रिवृद् वा अग्निः । 
   यावान् एवाग्निस् तस्य शुचम्̇ शमयति 

0 मित्रः सम्̇सृज्य पृथिवीम् इत्य् आह 1 मित्रो वै शिवो देवानाम् । 2 तेनैव

VERSE: 2

   एनम्̇ सम्̇ सृजति 
   शान्त्यै 
   यद् ग्राम्याणाम् पात्राणां कपालैः सम्̇सृजेद् ग्राम्याणि पात्राणि शुचार्पयेत् । 
   अर्मकपालैः सम्̇ सृजति । 
   एतानि वा अनुपजीवनीयानि 
   तान्य् एव शुचार्पयति 
   शर्कराभिः सम्̇ सृजति 
   धृत्यै । 
   अथो शंत्वाय । 
  अजलोमैः सम्̇ सृजति । 
 एषा वा अग्नेः प्रिया तनूर् यद् अजा 
  प्रिययैवैनं तनुवा सम्̇ सृजत्य् अथो तेजसा 
 कृष्णाजिनस्य लोमभिः सम्  

VERSE: 3

   सृजति 
   यज्ञो वै कृष्णाजिनम् । 
   यज्ञेनैव यज्ञम्̇ सम्̇ सृजति 
   रुद्राः सम्भृत्य पृथिवीम् इत्य् आह । 
   एता वा एतं देवता अग्रे सम् अभरन् 
   ताभिर् एवैनम्̇ सम् भरति 
   मखस्य शिरो ऽसीत्य् आह 
   यज्ञो वै मखः 
   तस्यैतच् छिरो यद् उखा 
   तस्माद् एवम् आह 
  यज्ञस्य पदे स्थ इत्य् आह 
  यज्ञस्य ह्य् एते  

VERSE: 4

   पदे 
   अथो प्रतिष्ठित्यै 
   प्रान्याभिर् यच्छत्य् अन्व् अन्यैर् मन्त्रयते 
   मिथुनत्वाय 
   त्र्युद्धिं करोति त्रय इमे लोका एषां लोकानाम् आप्त्यै 
   छन्दोभिः करोति 
   वीर्यं वै छन्दाम्̇सि 
   वीर्येणैवैनां करोति 
   यजुषा बिलं करोति 
  व्यावृत्त्यै । 
   इयतीं करोति 
  प्रजापतिना यज्ञमुखेन सम्मिताम् । 
   द्विस्तनां करोति 
  द्यावापृथिव्योर् दोहाय 
   चतुस्तनां करोति 
   पशूनां दोहाय । 
   अष्टास्तनां करोति 
   छन्दसां दोहाय 
   नवाश्रिम् अभिचरतः कुर्यात् 
  त्रिवृतम् एव वज्रम्̇ सम्भृत्य भ्रातृव्याय प्र हरति 
   स्तृत्यै 
   कृत्वाय स महीम् उखाम् इति नि दधाति 
   देवतास्व् एवैनाम् प्रति ष्ठापयति ॥ 

5.1.7 अनुवाक 7 उखासंस्कारः VERSE: 1

   सप्तभिर् धूपयति 
   सप्त वै शीर्षण्याः प्राणाः 
   शिर एतद् यज्ञस्य यद् उखा 
   शीर्षन्न् एव यज्ञस्य प्राणान् दधाति 
   तस्मात् सप्त शीर्षन् प्राणाः । 
   अश्वशकेन धूपयति 
   प्राजापत्यो वा अश्वः 
   सयोनित्वाय । 
   अदितिस् त्वेत्य् आह । 

0 इयं वा अदितिः । 1 अदित्यैवादित्यां खनत्य् अस्या अक्रूरंकाराय 2 न हि स्वः स्वम्̇ हिनस्ति 3 देवानां त्वा पत्नीर् इत्य् आह 4 देवानाम्

VERSE: 2

   वा एताम् पत्नयो ऽग्रे ऽकुर्वन् 
   ताभिर् एवैनां दधाति 
   धिषणास् त्वेत्य् आह 
   विद्या वै धिषणाः । 
   विद्याभिर् एवैनाम् अभीन्द्धे 
   ग्नास् त्वेत्य् आह 
   छन्दाम्̇सि वै ग्नाः । 
   छन्दोभिर् एवैनाम्̇ श्रपयति 
   वरूत्रयस् त्त्वेत्य् आह 
  होत्रा वै वरूत्रयः । 
  होत्राभिर् एवैनाम् पचति 
  जनयस् त्वेत्य् आह 
  देवानां वै पत्नीः 

VERSE: 3

   जनयस् 
   ताभिर् एवैनाम् पचति 
   षड्भिः पचति 
   षड् वा ऋतवः । 
   ऋतुभिर् एवैनाम् पचति 
   द्विः पचन्त्व् इत्य् आह 
   तस्माद् द्विः संवत्सरस्य सस्यम् पच्यते 
   वारुण्य् उखाभीद्धा 
   मैत्रियोपैति 
  शान्त्यै 
  देवस् त्वा सवितोद् वपत्व् इत्य् आह 
  सवितृप्रसूत एवैनाम् ब्रह्मणा देवताभिर् उद् वपति । 
  अपद्यमाना पृथिव्य् आशा दिश आ पृण ॥ 

VERSE: 4

   इत्य् आह 
   तस्माद् अग्निः सर्वा दिशो ऽनु वि भाति । 
   उत् तिष्ठ बृहती भवोर्ध्वा तिष्ठ ध्रुवा त्वम् इत्य् आह 
   प्रतिष्ठित्यै । 
   असुर्यम् पात्रम् अनाच्छृण्णम् 
   आ छृणत्ति देवत्राकर् 
   अजक्षीरेणा ऽऽच्छृणत्ति 
   परमं वा एतत् पयो यद् अजक्षीरम् 
   परमेणैवैनम् पयसा ऽऽच्छृणत्ति 
   यजुषा 
   व्यावृत्त्यै 
   छन्दोभिर् आ छृणत्ति 
  छन्दोभिर् वा एषा क्रियते 
  छन्दोभिर् एव छन्दाम्̇स्य् आ च्छृणत्ति ॥ 

5..1.8 अनुवाक 8 वह्निपशवः VERSE: 1

   एकविम्̇शत्या माषैः पुरुषशीर्षम् अच्छैति । 
   अमेध्या वै माषा अमेध्यम् पुरुषशीर्षम् 
   अमेध्यैर् एवास्यामेध्यं निरवदाय मेध्यं कृत्वा हरति । 
   एकविम्̇शतिर् भवन्ति । 
   एकविम्̇शो वै पुरुषः 
   पुरुषस्याप्त्यै 
   व्यृद्धं वा एतत् प्राणैर् अमेध्यं यत् पुरुषशीर्षम् । 
   सप्तधा वितृण्णां वल्मीकवपाम् प्रति नि दधाति 
   सप्त वै शीर्षण्याः प्राणाः 

0 प्राणैर् एवैनत् सम् अर्धयति 1 मेध्यत्वाय 2 यावन्तः

VERSE: 2

   वै मृत्युबन्धवस् तेषां यम आधिपत्यम् परीयाय 
   यमगाथाभिः परि गायति 
   यमाद् एवैनद् वृङ्क्ते 
   तिसृभिः परि गायति 
   त्रय इमे लोकाः । 
   एभ्य एवैनल् लोकेभ्यो वृङ्क्ते 
   तस्माद् गायते न देयम् । 
   गाथा हि तद् वृङ्क्ते । 
   अग्निभ्यः पशून् आ लभते 

0 कामा वा अग्नयः 1 कामान् एवाव रुन्द्धे 2 यत् पशून् नालभेतानवरुद्धा अस्य

VERSE: 3

   पशवः स्युः । 
   यत् पर्यग्निकृतान् उत्सृजेद् यज्ञवेशसं कुर्यात् । 
   यत् सम्̇स्थापयेद् यातयामानि शीर्षाणि स्युः । 
   यत् पशून् आलभते तेनैव पशून् अव रुन्द्धे 
   यत् पर्यग्निकृतान् उत्सृजति शीर्ष्णाम् अयातयामत्वाय 
   प्राजापत्येन सम्̇ स्थापयति यज्ञो वै प्रजापतिर् यज्ञ एव यज्ञम् प्रति ष्ठापयति 
   प्रजापतिः प्रजा असृजत 
   स रिरिचानो ऽमन्यत 
   स एता आप्रीर् अपश्यत् 

0 ताभिर् वै स मुखतः

VERSE: 4

   आत्मानम् आप्रीणीत 
   यद् एता आप्रियो भवन्ति 
   यज्ञो वै प्रजापतिः। 
   यज्ञम् एवैताभिर् मुखत आ प्रीणाति । 
   अपरिमितछन्दसो भवन्ति । 
   अपरिमितः प्रजापतिः 
   प्रजापतेर् आप्त्यै । 
   ऊनातिरिक्ता मिथुनाः 
   प्रजात्यै 
  लोमशं वै नामैतच् छन्दः प्रजापतेः 
  पशवो लोमशाः 
  पशून् एवाव रुन्द्धे 
 सर्वाणि वा एता रूपाणि 
 सर्वाणि रूपाण्य् अग्नौ चित्ये क्रियन्ते 
 तस्माद् एता अग्नेश् चित्यस्य  

VERSE: 5

   भवन्ति । 
   एकविम्̇शतिम्̇ सामिधेनीर् अन्व् आह 
   रुग् वा एकविम्̇शो रुचम् एव गच्छति । 
   अथो प्रतिष्ठाम् एव प्रतिष्ठा ह्य् एकविम्̇शः । 
   चतुर्विम्̇शतिम् अन्व् आह 
   चतुर्विम्̇शतिर् अर्धमासाः संवत्सरः 
   संवत्सरो ऽग्निर् वैश्वानरः 
   साक्षाद् एव वैश्वानरम् अव रुन्द्धे 
   पराचीर् अन्व् आह 
   पराङ् इव हि सुवर्गो लोकः 
   समास् त्वाग्न ऋतवो वर्धयन्त्व् इत्य् आह 
  समाभिर् एवाग्निं वर्धयति ॥ 

VERSE: 6

   ऋतुभिः संवत्सरम् । 
   विश्वा आ भाहि प्रदिशः पृथिव्या इत्य् आह 
   तस्माद् अग्निः सर्वा दिशो ऽनु वि भाति 
   प्रत्य् औहताम् अश्विना मृत्युम् अस्माद् इत्य् आह 
   मृत्युम् एवास्माद् अप नुदति । 
   उद् वयं तमसस् परीत्य् आह 
   पाप्मा वै तमः 
   पाप्मानम् एवास्माद् अप हन्ति । 
   अगन्म ज्योतिर् उत्तमम् इत्य् आह । 
   असौ वा आदित्यो ज्योतिर् उत्तमम् 
 आदित्यस्यैव सायुज्यं गच्छति 
  न संवत्सरस् तिष्ठति नास्य श्रीस् तिष्ठति यस्यैताः क्रियन्ते 
  ज्योतिष्मतीम् उत्तमाम् अन्व् आह 
   ज्योतिर् एवास्मा उपरिष्टाद् दधाति 
   सुवर्गस्य लोकस्यानुख्यात्यै ॥ 

5.1.9 अनुवाक 9 उख्यस्य जननम् VERSE: 1

   षड्भिर् दीक्षयति 
   षड् वा ऋतवः । 
   ऋतुभिर् एवैनं दीक्षयति 
   सप्तभिर् दीक्षयति 
   सप्त छन्दाम्̇सि 
   छन्दोभिर् एवैनं दीक्षयति 
   विश्वे देवस्य नेतुर् इत्य् अनुष्टुभोत्तमया जुहोति 
   वाग् वा { अनुष्टुप् ^ अनुष्टुभ् } 
   तस्मात् प्राणानां वाग् उत्तमा । 
  एकस्माद् अक्षराद् अनाप्तम् प्रथमम् पदम् । 
  तस्माद् यद् वाचो ऽनाप्तं तन् मनुष्या उप जीवन्ति 
   पूर्णया जुहोति 
  पूर्ण इव हि प्रजापतिः ॥ 

VERSE: 2

   प्रजापतेर् आपत्यै 
   न्यूनया जुहोति 
   न्यूनाद् धि प्रजापतिः प्रजा असृजत 
   प्रजानाम्̇ सृष्ट्यै 
   यद् अर्चिषि प्रवृञ्ज्याद् भूतम् अव रुन्धीत 
   यद् अङ्गारेषु भविष्यत् । 
   अङ्गारेषु प्र वृणक्ति 
   भविष्यद् एवाव रुन्द्धे 
   भविष्यद् धि भूयो भूतात् । 
   द्वाभ्याम् प्र वृणक्ति 
  द्विपाद् यजमानः 
   प्रतिष्ठित्यै 
   ब्रह्मणा वा एषा यजुषा सम्भृता यद् उखा 
  सा यद् भिद्येताऽऽर्तिम् आर्छेत्  

VERSE: 3

   यजमानो हन्येतास्य यज्ञः । 
   मित्रैताम् उखां तपेत्य् आह 
   ब्रह्म वै मित्रः। 
   ब्रह्मन्न् एवैनाम् प्रति ष्ठापयति 
   नार्तिम् आर्छति यजमानो नास्य यज्ञो हन्यते 
   यदि भिद्येत तैर् एव कपालैः सम्̇ सृजेत् 
   सैव ततः प्रायश्चित्तिः । 
   यो गतश्रीः स्यान् मथित्वा तस्याव दध्यात् । 
   भूतो वा { एष ^ एषस् } 
  स स्वां 

VERSE: 4

   देवताम् उपैति यो भूतिकामः स्यात् । 
   य उखायै सम्भवेत् स एव तस्य स्यात् । 
   अतो ह्य् एष सम्भवति । 
   एष वै स्वयम्भूर् नाम 
   भवत्य् एव 
   यं कामयेत 
   भ्रातृव्यम् अस्मै जनयेयम् इत्य् अन्यतस् तस्याहृत्याव दध्यात् 
   साक्षाद् एवास्मै भ्रातृव्यं जनयति । 
   अम्बरीषाद् अन्नकामस्याव दध्यात् । 
  अम्बरीषे वा अन्नम् भ्रियते 
  सयोन्य् एवान्नम्  

VERSE: 5

   अव रुन्द्धे 
  मुञ्जान् अव दधाति । 
   ऊर्ग् वै मुञ्जाः । 
   ऊर्जम् एवास्मा अपि दधाति । 
   अग्निर् देवेभ्यो निलायत 
   स क्रुमुकम् प्राविशत् 
   क्रुमुकम् अव दधाति 
   यद् एवास्य तत्र न्यक्तं तद् एवाव रुन्द्धे । 
   आज्येन सं यौति । 
  एतद् वा अग्नेः प्रियं धाम यद् आज्यम् 
  प्रियेणैवैनं धाम्ना सम् अर्धयत्य् अथो तेजसा ॥ 

VERSE: 6

   वैकंकतीम् आ दधाति 
   भा एवाव रुन्द्धे 
   शमीमयीम् आ दधाति 
   शान्त्यै 
   सीद त्वम् मातुर् अस्या उपस्थ इति तिसृभिर् जातम् उप तिष्ठते 
   त्रय इमे लोकाः । 
   एष्व् एव लोकेष्व् आविदं गच्छति । 
   अथो प्राणान् एवाऽऽत्मन् धत्ते ॥ 

5.1.10 अनुवाक 10 उख्यधारणम् VERSE: 1

   न ह स्म वै पुराग्निर् अपरशुवृक्णं दहति 
   तद् अस्मै प्रयोग एवर्षिर् अस्वदयत् । 
   यद् अग्ने यानि कानि चेति समिधम् आ दधाति । 
   अपरशुवृक्णम् एवास्मै स्वदयति 
   सर्वम् अस्मै स्वदते य एवं वेद । 
   औदुम्बरीम् आ दधाति । 
   ऊर्ग् वा उदुम्बरः । 
   ऊर्जम् एवास्मा अपि दधाति 
   प्रजापतिर् अग्निम् असृजत 
  तम्̇ सृष्टम्̇ रक्षाम्̇सि 

VERSE: 2

   अजिघाम्̇सन् । 
   स एतद् राक्षोघ्नम् अपश्यत् 
   तेन वै स रक्षाम्̇स्य् अपाहत 
   यद् राक्षोघ्नम् भवत्य् अग्नेर् एव तेन जाताद् रक्षाम्̇स्य् अप हन्ति । 
   आश्वत्थीम् आ दधाति । 
   अश्वत्थो वै वनस्पतीनाम्̇ सपत्नसाहो विजित्यै 
   वैकङ्कतीम् आ दधाति 
   भा एवाव रुन्द्धे 
   शमीमयीम् आ दधाति 
  शान्त्यै 
  सम्̇शितम् मे ब्रह्मोद् एषाम् बाहू अतिरम् इत्य् उत्तमे औदुम्बरी 

VERSE: 3

   वाचयति 
   ब्रह्मणैव क्षत्रम्̇ सम्̇ शयति क्षत्रेण ब्रह्म 
   तस्माद् ब्राह्मणो राजन्यवान् अत्य् अन्यम् ब्राह्मणं तस्माद् राजन्यो ब्राह्मणवान् अत्य् अन्यम्̇ राजन्यम् 
   मृत्युर् वा एष यद् अग्निः । 
   अमृतम्̇ हिरण्यम् । 
   रुक्मम् अन्तरम् प्रति मुञ्चते । 
   अमृतम् एव मृत्योर् अन्तर् धत्ते । 
   एकविम्̇शतिनिर्बाधो भवति । 
   एकविम्̇शतिर् वै देवलोका द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्यः  

VERSE: 4

   एकविम्̇श एतावन्तो वै देवलोकाः
   तेभ्य एव भ्रातृव्यम् अन्तर् एति 
   निर्बाधैर् वै देवा असुरान् निर्बाधे ऽकुर्वत 
   तन् निर्बाधानां निर्बाधत्वम् । 
   निर्बाधी भवति 
   भ्रातृव्यान् एव निर्बाधे कुरुते 
   सावित्रिया प्रति मुञ्चते 
   प्रसूत्यै 
   नक्तोषासेत्य् उत्तरया । 
  अहोरात्राभ्याम् एवैनम् उद् यच्छते 
   देवा अग्निं धारयन् द्रविणोदा इत्य् आह 
   प्राणा वै देवा द्रविणोदाः । 
   अहोरात्राभ्याम् एवैनम् उद्यत्य  

VERSE: 5

   प्राणैर् दाधार । 
   आसीनः प्रति मुञ्चते 
   तस्माद् आसीनाः प्रजाः प्र जायन्ते 
   कृष्णाजिनम् उत्तरम् । 
   तेजो वै हिरण्यम् ब्रह्म कृष्णाजिनम् । 
   तेजसा चैवैनम् ब्रह्मणा चोभयतः परि गृह्णाति 
   षड्उद्यामम्̇ शिक्यम् भवति 
   षड् वा ऋतवः । 
   ऋतुभिर् एवैनम् उद् यच्छते 
   यद् द्वादशोद्यामम्̇ संवत्सरेणैव 
  मौञ्जम् भवति । 
  ऊर्ग् वै मुञ्जाः । 
  ऊर्जैवैनम्̇ सम् अर्धयति 
  सुपर्णो ऽसि गरुत्मान् इत्य् अवेक्षते 
 रूपम् एवास्यैतन् महिमानं व्याचष्टे 
  दिवं गच्छ सुवः पतेत्य् आह 
  सुवर्गम् एवैनं लोकं गमयति ॥ 

5.1.11 अनुवाक 11 अश्वमेधसम्बन्धि प्रयाजयाज्याभिधानम् VERSE: 1 समिद्धो अञ्जन् कृदरम् मतीनां घृतम् अग्ने मधुमत् पिन्वमानः । वाजी वहन् वाजिनं जातवेदो देवानां वक्षि प्रियम् आ सधःस्थम् ॥ घृतेनाञ्जन्त् सम् पथो देवयानान् प्रजानन् वाज्य् अप्य् एतु देवान् । अनु त्वा सप्ते प्रदिशः सचन्ताम्̇ स्वधाम् अस्मै यजमानाय धेहि ॥ ईड्यश् चासि वन्द्यश् च वाजिन्न् आशुश् चासि मेध्यश् च सप्ते । अग्निष् ट्वा

VERSE: 2

   देवैर् वसुभिः सजोषाः प्रीतं वह्निं वहतु जातवेदाः ॥ 

स्तीर्णम् बर्हिः सुष्टरीमा जुषाणोरु पृथु प्रथमानम् पृथिव्याम् । देवेभिर् युक्तम् अदितिः सजोषाः स्योनं कृण्वाना सुविते दधातु ॥ एता उ वः सुभगा विश्वरूपा वि पक्षोभिः श्रयमाणा उद् आतैः । ऋष्वाः सतीः कवषः शुम्भमाना द्वारो देवीः सुप्रायणा भवन्तु ॥ अन्तरा मित्रावरुणा चरन्ती मुखं यज्ञानाम् अभि संविदाने । उषासा वाम्

VERSE: 3

   सुहिरण्ये सुशिल्पे ऋतस्य योनाव् इह सादयामि ॥ 

प्रथमा वाम्̇ सरथिना सुवर्णा देवौ पश्यन्तौ भुवनानि विश्वा । अपिप्रयं चोदना वाम् मिमाना होतारा ज्योतिः प्रदिशा दिशन्ता ॥ आदित्यैर् नो भारती वष्टु यज्ञम्̇ सरस्वती सह रुद्रैर् न आवीत् । इडोपहूता वसुभिः सजोषा यज्ञं नो देवीर् अमृतेषु धत्त ॥ त्वष्टा वीरं देवकामं जजान त्वष्टुर् अर्वा जायत आशुर् अश्वः ।

VERSE: 4

   त्वष्टेदं विश्वम् भुवनं जजान बहोः कर्तारम् इह यक्षि होतः ॥ 

अश्वो घृतेन त्मन्या समक्त उप देवाम्̇ ऋतुशः पाथ एतु । वनस्पतिर् देवलोकम् प्रजानन्न् अग्निना हव्या स्वदितानि वक्षत् ॥ प्रजापतेस् तपसा वावृधानः सद्यो जातो दधिषे यज्ञम् अग्ने । स्वाहाकृतेन हविषा पुरोगा याहि साध्या हविर् अदन्तु देवाः ॥

तैत्तिरीय संहिता काण्ड 5 5.2 प्रपाठक: 2 5.2.1 अनुवाक 1 आसन्द्यां वह्निस्थापनं वात्सप्रेणोपस्थानं च VERSE: 1

   विष्णुमुखा वै देवाश् छन्दोभिर् इमाँल्लोकान् अनपजय्यम् अभ्य् अजयन् 
   यद् विष्णुक्रमान् क्रमते विष्णुर् एव भूत्वा यजमानश् छन्दोभिर् इमाँल्लोकान् अनपजय्यम् अभि जयति 
   विष्णोः क्रमो ऽस्य् अभिमातिहेत्य् आह 
   गायत्री वै पृथिवी 
   त्रैष्ठुभम् अन्तरिक्षम् । 
   जागती द्यौः । 
   आनुष्टुभीर् दिशः । 
   छन्दोभिर् एवेमाँल्लोकान् यथापूर्वम् अभि जयति 
   प्रजापतिर् अग्निम् असृजत 
  सो ऽस्मात् सृष्टः ।

VERSE: 2

   पराङ् ऐत् 
   तम् एतयान्व् ऐत् । 
   अक्रन्दत् इति 
   तया वै सो ऽग्नेः प्रियं धामावारुन्द्ध 
   यद् एताम् अन्वाहाग्नेर् एवैतया प्रियं धामाव रुन्द्धे । 
   ईश्वरो वा एष पराङ् प्रदघो यो विष्णुक्रमान् क्रमते 
   चतसृभिर् आ वर्तते 
   चत्वारि छन्दाम्̇सि 
   छन्दाम्̇सि खलु वा अग्नेः प्रिया तनूः 
  प्रियाम् एवास्य तनुवम् अभि  

VERSE: 3

   पर्यावर्तते 
   दक्षिणा पर्यावर्तते 
   स्वम् एव वीर्यम् अनु पर्यावर्तते 
   तस्माद् दक्षिणो ऽर्ध आत्मनो वीर्यावत्तरः । 
   अथो आदित्यस्यैवावृतम् अनु पर्यावर्तते 
   शुनःशेपम् आजीगर्तिं वरुणो ऽगृह्णात् 
   स एताम् वारुणीम् अपश्यत् 
   तया वै स आत्मानं वरुणपाशाद् अमुञ्चत् । 
   वरुणो वा एतं गृह्णाति य उखाम् प्रतिमुञ्चते । 
 उद् उत्तमं वरुण पाशम् अस्मद् इत्य् आह । 
 आत्मानम् एवैतया 

VERSE: 4

   वरुणपाशान् मुञ्चति । 
   आ त्वाहार्षम् इत्य् आह । 
   आ ह्य् एनम्̇ हरति 
   ध्रुवस् तिष्ठाविचाचलिर् इत्य् आह 
   प्रतिष्ठित्यै 
   विशस् त्वा सर्वा वाञ्छन्त्व् इत्य् आह 
   विशैवैनम्̇ सम् अर्धयति । 
   अस्मिन् राष्ट्रम् अधि श्रयेत्य् आह 
   राष्ट्रम् एवास्मिन् ध्रुवम् अकर् 
   यं कामयेत 
   राष्ट्रम्̇ स्याद् इति तम् मनसा ध्यायेत् । 
  राष्ट्रम् एव भवति ॥ 

VERSE: 5

   अग्रे बृहन्न् उषसामूर्ध्वो अस्थाद् इत्य् आह । 
   अग्रम् एवैनम्̇ समानानां करोति 
   निर्जग्मिवान् तमस इत्य् आह 
   तम एवास्माद् अप हन्ति 
   ज्योतिषागाद् इत्य् आह 
   ज्योतिर् एवास्मिन् दधाति 
   चतसृभिः सादयति 
   चत्वारि छन्दाम्̇सि 
   छन्दोभिर् एव । 
  अतिच्छन्दसोत्तमया 
 वर्ष्म वा एष छन्दसां यद् अतिच्छन्दाः । 
 वर्ष्मैवैनम्̇ समानानां करोति 
 सद्वती  

VERSE: 6

   भवति 
   सत्त्वम् एवैनं गमयति 
   वात्सप्रेणोप तिष्ठते । 
   एतेन वै वत्सप्रीर् भालन्दनो ऽग्नेः प्रियं धामावारुन्द्ध । 
   अग्नेर् एवैतेन प्रियं धामाव रुन्द्धे । 
   एकादशम् भवति । 
   एकधैव यजमाने वीर्यं दधाति 
   स्तोमेन वै देवा अस्मिम्̐ लोक आर्ध्नुवञ् छन्दोभिर् अमुष्मिन् । 
   स्तोमस्येव खलु वा एतद् रूपं यद् वात्सप्रम् । 
  यद् वात्सप्रेणोपतिष्ठते ।

VERSE: 7

   इमम् एव तेन लोकम् अभि जयति 
   यद् विष्णुक्रमान् क्रमते ऽमुम् एव तैर् लोकम् अभि जयति 
   पूर्वेद्युः प्र क्रामत्य् उत्तरेद्युर् उप तिष्ठते 
   तस्माद् योगे ऽन्यासाम् प्रजानाम् मनः क्षेमे ऽन्यासाम् । 
   तस्माद् यायावरः क्षेम्यस्येशे 
   तस्माद् यायावरः क्षेम्यम् अध्यवस्यति 
   मुष्टी करोति 
   वाचं यच्छति 
   यज्ञस्य धृत्यै ॥ 

5.2.2 अनुवाक 2 उख्याग्निनयनम् VERSE: 1

   अन्नपते ऽन्नस्य नो देहीत्य् आह । 
   अग्निर् वा अन्नपतिः 
   स एवास्मा अन्नम् प्र यच्छति । 
   अनमीवस्य शुष्मिण इत्य् आह । 
   अयक्ष्मस्येति वावैतद् आह 
   प्र प्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पद इत्य् आह । 
   आशिषम् एवैताम् आ शास्ते । 
   उद् उ त्वा विश्वे देवा इत्य् आह 
   प्राणा वै विश्वे देवाः । 

VERSE: 2

   प्राणैर् एवैनम् उद् यच्छते । 
   अग्ने भरन्तु चित्तिभिर् इत्य् आह 
   यस्मा एवैनं चित्तायोद्यच्छते तेनैवैनम्̇ सम् अर्धयति 
   चतसृभिर् आ सादयति 
   चत्वारि छन्दाम्̇सि 
   छन्दोभिर् एव । 
   अतिच्छन्दसोत्तमया 
   वर्ष्म वा एषा छन्दसां यद् अतिच्छन्दा 
   वर्ष्मैवैनम्̇ समानानां करोति 
  सद्वती भवति 
 सत्त्वम् एवैनं गमयति 
 प्रेद् अग्ने ज्योतिष्मान्  

VERSE: 3

   याहीत्य् आह 
   ज्योतिर् एवास्मिन् दधाति तनुवा वा एष हिनस्ति यम्̇ हिनस्ति 
   मा हिम्̇सीस् तनुवा प्रजा इत्य् आह 
   प्रजाभ्य एवैनम्̇ शमयति 
   रक्षाम्̇सि वा एतद् यज्ञम्̇ सचन्ते यद् अन उत्सर्जति । 
   अक्रन्दद् इत्य् अन्व् आह 
   रक्षसाम् अपहत्यै । 
   अनसा वहन्ति । 
   अपचितिम् एवास्मिन् दधाति 
 तस्माद् अनस्वी च रथी चातिथीनाम् अपचिततमौ । 

VERSE: 4

   अपचितिमान् भवति य एवं वेद 
   समिधाग्निं दुवस्यतेति घृतानुषिक्ताम् अवसिते समिधम् आ दधाति 
   यथातिथय आगताय सर्पिष्वद् आतिथ्यं क्रियते तादृग् एव तत् । 
   गायत्रिया ब्राह्मणस्य गायत्रो हि ब्राह्मणः 
   त्रिष्टुभा राजन्यस्य त्रैष्टुभो हि राजन्यः । 
   अप्सु भस्म प्र वेशयति । 
   अप्सुयोनिर् वा अग्निः 
   स्वाम् एवैनं योनिं गमयति 
   तिसृभिः प्र वेशयति 
 त्रिवृद् वै  

VERSE: 5

   अग्निः । 
   यावान् एवाग्निः तम् प्रतिष्ठां गमयति 
   परा वा एषो ऽग्निं वपति यो ऽप्सु भस्म प्रवेशयति 
   ज्योतिष्मतीभ्याम् अव दधाति 
   ज्योतिर् एवास्मिन् दधाति 
   द्वाभ्याम् प्रतिष्ठित्यै 
   परा वा एष प्रजाम् पशून् वपति यो ऽप्सु भस्म प्रवेशयति 
   पुनर् ऊर्जा सह रय्येति पुनर् उदैति 
   प्रजाम् एव पशून् आत्मन् धत्ते 
  पुनस् त्वादित्याः 

VERSE: 6

   रुद्रा वसवः सम् इन्धताम् इत्य् आह । 
   एता वा एतं देवता अग्रे सम् ऐन्धत 
   ताभिर् एवैनम्̇ सम् इन्द्धे 
   बोधा स बोधीत्य् उप तिष्ठते 
   बोधयत्य् एवैनम् । 
   तस्मात् सुप्त्वा प्रजाः प्र बुध्यन्ते 
   यथास्थानम् उप तिष्ठते 
   तस्माद् यथास्थानम् पशवः पुनर् एत्योप तिष्ठन्ते ॥ 

5.2.3 अनुवाक 3 गार्हपत्यचयनम् VERSE: 1

   यावती वै पृथिवी तस्यै यम आधिपत्यम् परीयाय 
   यो वै यमं देवयजनम् अस्या अनिर्याच्याग्निं चिनुते यमायैनम्̇ स चिनुते । 
   अपेतेत्य् अध्यवसाययति 
   यमम् एव देवयजनम् अस्यै निर्याच्याऽऽत्मने ऽग्निं चिनुते । 
   इष्वग्रेण वा अस्या अनामृतम् इच्छन्तो नाविन्दन् 
   ते देवा एतद् यजुर् अपश्यन् । 
   अपेतेति 
   यद् एतेनाध्यवसाययति ॥ 

VERSE: 2

   अनामृत एवाग्निं चिनुते । 
   उद् धन्ति 
   यद् एवास्या अमेध्यं तद् अप हन्ति । 
   अपो ऽवोक्षति 
   शान्त्यै 
   सिकता नि वपति । 
   एतद् वा अग्नेर् वैश्वानरस्य रूपम् । 
   रूपेणैव वैश्वानरम् अव रुन्द्धे । 
   ऊषान् नि वपति 

0 पुष्टिर् वा एषा प्रजननं यद् ऊषाः 1 पुष्ट्याम् एव प्रजनने ऽग्निं चिनुते । 2 अथो संज्ञान एव 3 संज्ञानम्̇ ह्य् एतत्

VERSE: 3

   पशूनां यद् ऊषाः । 
   द्यावापृथिवी सहास्ताम् । 
   ते वियती अब्रूताम् 
   अस्त्व् एव नौ सह यज्ञियम् इति 
   यद् अमुष्या यज्ञियम् आसीत् तद् अस्याम् अदधात् त ऊषा अभवन् 
   यद् अस्या यज्ञियम् आसीत् तद् अमुष्याम् अदधात् तद् अदश् चन्द्रमसि कृष्णम् 
   ऊषान् निवपन्न् अदो ध्यायेद् द्यावापृथिव्योर् एव यज्ञिये ऽग्निं चिनुते । 
   अयम्̇ सो अग्निर् इति विश्वामित्रस्य  

VERSE: 4

   सूक्तम् भवति । 
   एतेन वै विश्वामित्रो ऽग्नेः प्रियं धामावारुन्द्ध । 
   अग्नेर् एवैतेन प्रियं धामाव रुन्द्धे 
   छन्दोभिर् वै देवाः सुवर्गं लोकम् { आयञ् ^ आयन् } 
   चतस्रः प्राचीर् उप दधाति 
   चत्वारि छन्दाम्̇सि 
   छन्दोभिर् एव तद् यजमानः सुवर्गं लोकम् एति 
   तेषाम्̇ सुवर्गं लोकं यतां दिशः सम् अव्लीयन्त 
   ते द्वे पुरस्तात् समीची उपादधत द्वे  

VERSE: 5

   पश्चात् समीची 
   ताभिर् वै ते दिशो ऽदृम्̇हन् 
   यद् द्वे पुरस्तात् समीची उपदधाति द्वे पश्चात् समीची 
   दिशां विधृत्यै । 
   अथो पशवो वै छन्दाम्̇सि 
   पशून् एवास्मै समीचो दधाति । 
   अष्टाव् उप दधाति । 
   अष्टाक्षरा गायत्री 
   गायत्रो ऽग्निर् यावान् एवाग्निः तं चिनुते । 
  अष्टाव् उप दधाति । 
  अष्टाक्षरा गायत्री 
   गायत्री सुवर्गं लोकम् अञ्जसा वेद 
  सुवर्गस्य लोकस्य  

VERSE: 6

   प्रज्ञात्यै 
   त्रयोदश लोकम्पृणा उप दधाति । 
   एकविम्̇शतिः सम् पद्यन्ते 
   प्रतिष्ठा वा एकविम्̇शः प्रतिष्ठा गार्हपत्यः । 
   एकविम्̇शस्यैव प्रतिष्ठां गार्हपत्यम् अनु प्रति तिष्ठति 
   प्रत्य् अग्निं चिक्यानस् तिष्ठति य एवं वेद 
   पञ्चचितीकं चिन्वीत प्रथमं चिन्वानः 
   पाङ्क्तो यज्ञः 
   पाङ्क्ताः पशवः । 
  यज्ञम् एव पशून् अव रुन्द्धे 
  त्रिचितीकं चिन्वीत द्वितीयं चिन्वानस् 
  त्रय इमे लोकाः । 
   एष्व् एव लोकेषु  

VERSE: 7

   प्रति तिष्ठन्ति । 
   एकचितीकं चिन्वीत तृतीयं चिन्वानः। 
   एकधा वै सुवर्गो लोकः । 
   एकवृतैव सुवर्गं लोकम् एति 
   पुरीषेणाभ्य् ऊहति 
   तस्मान् माम्̇सेनास्थि छन्नम् । 
   न दुश्चर्मा भवति य एवं वेद 
   पञ्च चितयो भवन्ति 
   पञ्चभिः पुरीषैर् अभ्य् ऊहति 
   दश सम् पद्यन्ते 
  दशाक्षरा { विराड् ^ विराज् } 
  अन्नं { विराड् ^ विराज् } 
  विराज्य् एवान्नाद्ये प्रति तिष्ठति ॥ 

5.2.4 अनुवाक 4 उख्याग्निसंवपनम् VERSE: 1

   वि वा एतौ द्विषाते यश् च पुराग्निर् यश् चोखायाम् । 
   सम् इतम् इति चतसृभिः सं नि वपति 
   चत्वारि छन्दाम्̇सि 
   छन्दाम्̇सि खलु वा अग्नेः प्रिया तनूः 
   प्रिययैवैनौ तनुवा सम्̇ शास्ति 
   सम् इतम् इत्य् आह 
   तस्माद् ब्रह्मणा क्षत्रम्̇ सम् एति 
   यत् संन्युप्य विहरति 
   तस्माद् ब्रह्मणा क्षत्रं व्य् एति । 
  ऋतुभिः  

VERSE: 2

   वा एतं दीक्षयन्ति 
   स ऋतुभिर् एव विमुच्यः । 
   मातेव पुत्रम् पृथिवी पुरीष्यम् इत्य् आह । 
   ऋतुभिर् एवैनं दीक्षयित्वर्तुभिर् वि मुञ्चति 
   वैश्वानर्या शिक्यम् आ दत्ते 
   स्वदयत्य् एवैनद् । 
   नैर्ऋतीः कृष्णास् तिस्रस् तुषपक्वा भवन्ति 
   निर्ऋत्यै वा एतद् भागधेयं यत् तुषा निर्ऋत्यै रूपं कृष्णम् । 
   रूपेणैव निर्ऋतिं निरवदयते । 

0 इमां दिशं यन्ति । 1 एषा

VERSE: 3

   वै निर्ऋत्यै { दिक् ^ दिश् } 
   स्वायाम् एव दिशि निर्ऋतिं निरवदयते 
   स्वकृत इरिण उप दधाति प्रदरे वा । 
   एतद् वै निर्ऋत्या आयतनम् । 
   स्व एवायतने निर्ऋतिं निरवदयते 
   शिक्यम् अभ्य् उप दधाति 
   नैर्ऋतो वै पाशः 
   साक्षाद् एवैनं निर्ऋतिपाशान् मुञ्चति 
  तिस्र उप दधाति 
   त्रेधाविहितो वै पुरुषः । 

1 यावान् एव पुरुषः तस्मान् निर्ऋतिम् अव यजते 2 पराचीर् उप

VERSE: 4

   दधाति 
   पराचीम् एवास्मान् निर्ऋतिम् प्र णुदते । 
   अप्रतीक्षम् आ यन्ति 
   निर्ऋत्या अन्तर्हित्यै 
   मार्जयित्वोप तिष्ठन्ते 
   मेध्यत्वाय 
   गार्हपत्यम् उप तिष्ठन्ते 
   निर्ऋतिलोक एव चरित्वा पूता देवलोकम् उपावर्तन्ते । 
   एकयोप तिष्ठन्ते । 
  एकधैव यजमाने वीर्यं दधति 
 निवेशनः संगमनो वसूनाम् इत्य् आह 
 प्रजा वै पशवो वसु 
प्रजयैवैनम् पशुभिः सम् अर्धयन्ति ॥ 

5.2.5 अनुवाक 5 क्षेत्रकर्षणम् VERSE: 1

   पुरुषमात्रेण वि मिमीते 
   यज्ञेन वै पुरुषः सम्मितः । 
   यज्ञपरुषैवैनं वि मिमीते 
   यावान् पुरुष ऊर्ध्वबाहुस् तावान् भवति । 
   एतावद् वै पुरुषे वीर्यम् । 
   वीर्येणैवैनं वि मिमीते 
   पक्षी भवति 
   न ह्य् अपक्षः पतितुम् अर्हति । 
   अरत्निना पक्षौ द्राघीयाम्̇सौ भवतस् 
  तस्मात् पक्षप्रवयाम्̇सि वयाम्̇सि 
  व्याममात्रौ पक्षौ च पुच्छं च भवति । 
 एतावद् वै पुरुषे वीर्यम् ॥ 

VERSE: 2

   वीर्यसम्मितः । 
   वेणुना वि मिमीते । 
   आग्नेयो वै वेणुः 
   सयोनित्वाय 
   यजुषा युनक्ति 
   यजुषा कृषति 
   व्यावृत्त्यै 
   षड्गवेन कृषति 
   षड् वा ऋतवः । 
   ऋतुभिर् एवैनं कृषति 
   यद् द्वादशगवेन संवत्सरेणैव। इयं वा अग्नेर् अतिदाहाद् अबिभेत् 
  सैतद् द्विगुणम् अपश्यत् कृष्टं चाकृष्टं च 

3 ततो वा इमां नात्य् अदहत् । 4 यत् कृष्टं चाकृष्टं च

VERSE: 3

   भवत्य् अस्या अनतिदाहाय 
   द्विगुणं त्वा अग्निम् उद्यन्तुम् अर्हतीत्य् आहुः । 
   यत् कृष्टं चाकृष्टं च भवति । 
   अग्नेर् उद्यत्यै । 
   एतावन्तो वै पशवो द्विपादश् च चतुष्पादश् च 
   तान् यत् प्राच उत्सृजेद् रुद्रायापि दध्यात् । 
   यद् दक्षिणा पितृभ्यो नि धुवेत् । 
   यत् प्रतीचो रक्षाम्̇सि हन्युः । 
   उदीच उत् सृजति । 
   एषा वै देवमनुष्याणाम्̇ शान्ता दिक् । 

VERSE: 4

   ताम् एवैनान् अनूत् सृजति । 
   अथो खल्व् इमां दिशम् उत् सृजति । 
   असौ वा आदित्यः प्राणः 
   प्राणम् एवैनान् अनूत् सृजति 
   दक्षिणा पर्यावर्तन्ते 
   स्वम् एव वीर्यम् अनु पर्यावर्तन्ते 
   तस्माद् दक्षिणो ऽर्ध आत्मनो वीर्यावत्तरः । 
   अथो आदित्यस्यैवावृतम् अनु पर्यावर्तन्ते 
   तस्मात् पराञ्चः पशवो वि तिष्ठन्ते प्रत्यञ्च आ वर्तन्ते 
   तिस्रस्तिस्रः सीताः 

VERSE: 5

   कृषति 
   त्रिवृतम् एव यज्ञमुखे वि यातयति । 
   ओषधीर् वपति 
   ब्रह्मणान्नम् अव रुन्द्धे । 
   अर्के ऽर्कश् चीयते 
   चतुर्दशभिर् वपति 
   सप्त ग्राम्या ओषधयः सप्तारण्याः । 
   उभयीषाम् अवरुद्ध्यै । 
   अन्नस्यान्नस्य वपति । 

0 अन्नस्यान्नस्यावरुद्ध्यै 1 कृष्टे वपति 2 कृष्टे ह्य् ओषधयः प्रतितिष्ठन्ति । 3 अनुसीतं वपति 4 प्रजात्यै 5 द्वादशसु सीतासु वपति 6 द्वादश मासाः संवत्सरः 7 संवत्सरेणैवास्मा अन्नम् पचति 8 यद् अग्निचित् ॥

VERSE: 6

   अनवरुद्धस्याश्नीयाद् अवरुद्धेन व्यृध्येत 
   ये वनस्पतीनाम् फलग्रहयस् तान् इध्मे ऽपि प्रोक्षेत् । 
   अनवरुद्धस्यावरुद्ध्यै ।
   दिग्भ्यो लोष्टान्त् सम् अस्यति 
   दिशाम् एव वीर्यम् अवरुध्य दिशां वीर्ये ऽग्निं चिनुते 
   यं द्विष्याद् यत्र स स्यात् तस्यै दिशो लोष्टम् आ हरेत् । 
   इषमूर्जम् अहम् इत आ दद इतीषम् एवोर्जं तस्यै दिशो ऽव रुन्द्धे 
   क्षोधुको भवति यस् तस्यां दिशि भवति । 
   उत्तरवेदिम् उप वपति । 
   उत्तरवेद्याम्̇ ह्य् अग्निश् चीयते । 
  अथो पशवो वा उत्तरवेदिः 
   पशून् एवाव रुन्द्धे । 
  अथो यज्ञपरुषो ऽनन्तरित्यै ॥ 

5.2.6 अनुवाक 6

क्षेत्रे सिकतादिवापः

VERSE: 1

   अग्ने तव श्रवो वय इति सिकता नि वपति । 
   एतद् वा अग्नेर् वैश्वानरस्य सूक्तम् । 
   सूक्तेनैव वैश्वानरम् अव रुन्द्धे 
   षड्भिर् नि वपति 
   षड् वा ऋतवः संवत्सरः 
   संवत्सरो ऽग्निर् वैश्वानरः 
   साक्षाद् एव वैश्वानरम् अव रुन्द्धे 
   समुद्रं वै नामैतच् छन्दः 
   समुद्रम् अनु प्रजाः प्र जायन्ते 
   यद् एतेन सिक्ता निवपति 
   प्रजानाम् प्रजननाय । 
  इन्द्रः 

VERSE: 2

   वृत्राय वज्रम् प्राहरत् 
   स त्रेधा व्यभवत् स्फ्यस् तृतीयम्̇ रथस् तृतीयं यूपस् तृतीयम् । 
   ये ऽन्तःशरा अशीर्यन्त ताः शर्करा अभवन् 
   तच् छर्कराणाम्̇ शर्करत्वम् । 
   वज्रो वै शर्कराः 
   पशुर् अग्निः । 
   यच् छर्कराभिर् अग्निम् परिमिनोति वज्रेणैवास्मै पशून् परि गृह्णाति 
   तस्माद् वज्रेण पशवः परिगृहीतास् 
   तस्मात् स्थेयान् अस्थेयसो नोप हरते 
   त्रिसप्ताभिः  पशुकामस्य

VERSE: 3

   परि मिनुयात् 
   सप्त वै शीर्षण्याः प्राणाः 
   प्राणाः पशवः 
   प्राणैर् एवास्मै पशून् अव रुन्द्धे 
   त्रिणवाभिर् भ्रातृव्यवतस् 
   त्रिवृतम् एव वज्रम् सम्भृत्य भ्रातृव्याय प्र हरति 
   स्तृत्यै । 
   अपरिमिताभिः परि मिनुयाद् अपरिमितस्यावरुद्ध्यै 
   यं कामयेतापशुः स्याद् इति अपरिमित्य तस्य शर्कराः सिकता व्यूहेत् । 

0 अपरिगृहीत एवास्य विषूचीनम्̇ रेतः परा सिञ्चति । 1 अपशुर् एव भवति ॥

VERSE: 4

   यं कामयेत 
   पशुमान्त् स्याद् इति परिमित्य तस्य शर्कराः सिक्ता व्य् { ऊहेद् ^ ऊहेत् } 
   परिगृहीत एवास्मै समीचीनम्̇ रेतः सिञ्चति 
   पशुमान् एव भवति 
   सौम्या व्य् ऊहति 
   सोमो वै रेतोधाः । 
   रेत एव तद् दधाति 
   गायत्रिया ब्राह्मणस्य गायत्रो हि ब्राह्मणस् 
   त्रिष्टुभा राजन्यस्य त्रैष्टुभो हि राजन्यः 

0 शंयुम् बार्हस्पत्यम् मेधो नोपानमत् 1 सो ऽग्निम् प्राविशत् ॥

VERSE: 5

   सो ऽग्नेः कृष्णो रूपं कृत्वोद् आयत 
   सो ऽश्वम् प्राविशत् 
   सो ऽश्वस्यावान्तरशफो ऽभवत् । 
   यद् अश्वम् आक्रमयति य एव मेधो ऽश्वम् प्राविशत् तम् एवाव रुन्द्धे 
   प्रजापतिनाग्निश् चेतव्य इत्य् आहुः 
   प्राजापत्यो ऽश्वः । 
   यद् अश्वम् आक्रमयति प्रजापतिनैवाग्निं चिनुते 
   पुष्करपर्णम् उप दधाति 
   योनिर् वा अग्नेः पुष्करपर्णम् । 
   सयोनिम् एवाग्निं चिनुते । 
   अपाम् पृष्ठम् असीत्य् उप दधाति । 
   अपां वा एतत् पृष्ठं  यत्  पुष्करपर्णम् । 
   रूपेणैवैनद् उप दधाति ॥ 

5.2.7 अनुवाक 7 रुक्माद्युपधानम् VERSE: 1

   ब्रह्म जज्ञानम् इति रुक्मम् उप दधाति 
   ब्रह्ममुखा वै प्रजापतिः प्रजा असृजत 
   ब्रह्ममुखा एव तत् प्रजा यजमानः सृजते 
   ब्रह्म जज्ञानम् इत्य् आह 
   तस्माद् ब्राह्मणो मुख्यः । 
   मुख्यो भवति य एवं वेद 
   ब्रह्मवादिनो वदन्ति 
   न पृथिव्यां नान्तरिक्षे न दिव्यग्निश् चेतव्य इति 
   यत् पृथिव्यां चिन्वीत पृथिवीम्̇ शुचार्पयेत् । 
  नौषधयो न वनस्पतयः 

VERSE: 2

   प्र जायेरन् 
   यद् अन्तरिक्षे चिन्वीतान्तरिक्षम्̇ शुचार्पयेत् । 
   न वयाम्̇सि प्र जायेरन् 
   यद् दिवि चिन्वीत दिवम्̇ शुचार्पयेत् । 
   न पर्जन्यो वर्षेत् । 
   रुक्मम् उप दधाति । 
   अमृतं वै हिरण्यम् 
   अमृत एवाग्निं चिनुते 
   प्रजात्यै 
  हिरण्मयम् पुरुषम् उप दधाति 
   यजमानलोकस्य विधृत्यै 
  यद् इष्टकाया आतृण्णम् अनूपदध्यात् पशूनां च यजमानस्य च प्राणम् अपि दध्यात् । 
  दक्षिणतः  

VERSE: 3

   प्राञ्चम् उप दधाति 
   दाधार यजमानलोकम् । 
   न पशूनां च यजमानस्य च प्राणम् अपि दधाति । 
   अथो खल्व् इष्टकाया आतृण्णम् अनूप दधाति 
   प्राणानाम् उत्सृष्ट्यै 
   द्रप्सश् चस्कन्देत्य् अभि मृशति 
   होत्रास्व् एवैनम् प्रति ष्ठापयति 
   स्रुचाव् उप दधाति । 
   आज्यस्य  पूर्णां कार्ष्मर्यमयीं दध्नः पूर्णाम् औदुम्बरीम् 
  इयं वै कार्ष्मर्यमय्य् असाव् औदुम्बरी । 
  इमे एवोप धत्ते 
   तूष्णीम् उप दधाति 
  न हीमे यजुषाप्तुम् अर्हति 
  दक्षिणां कार्ष्मर्यमयीम् उत्तराम् औदुम्बरीम् । 
  तस्माद् अस्या असाव् उत्तरा । 
 आज्यस्य पूर्णां कार्ष्मर्यमयीम् । 
  वज्रो वा आज्यं वज्रः कार्ष्मर्यः । 
   वज्रेणैव यज्ञस्य दक्षिणतो रक्षाम्̇स्य् अप हन्ति 
  दध्नः पूर्णाम् औदुम्बरीम् 
  पशवो वै दध्य् ऊर्ग् उदुम्बरः 
  पशुष्व् एवोर्जं दधाति 
   पूर्णे उप दधाति 
  पूर्णे एवैनम् 

VERSE: 4

   अमुष्मिम्̐ लोक उप तिष्ठेते 
   विराज्य् अग्निश् चेतव्य इत्य् आहुः 
   स्रुग् वै { विराड् ^ विराज् } 
   यत् स्रुचाव् उपदधाति विराज्य् एवाग्निं चिनुते 
   यज्ञमुखेयज्ञमुखे वै क्रियमाणे यज्ञम्̇ रक्षाम्̇सि जिघाम्̇सन्ति 
   यज्ञमुखम्̇ रुक्मः । 
   यद् रुक्मं व्याघारयति यज्ञमुखाद् एव रक्षाम्̇स्य् अप हन्ति 
   पञ्चभिर् व्याघारयति 
   पाङ्क्तो यज्ञः । 
  यावान् एव यज्ञस् तस्माद् रक्षाम्̇स्य् अप हन्ति 
  अक्ष्णया व्याघारयति 
   तस्माद् अक्ष्णया पशवो ऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै ॥ 

5.2.8 अनुवाक 8 स्वयमातृण्णास्थापनम् VERSE: 1

   स्वयमातृण्णाम् उप दधाति । 
   इयं वै स्वयमातृण्णा । 
   इमाम् एवोप धत्ते । 
   अश्वम् उप घ्रापयति 
   प्राणम् एवास्यां दधाति । 
   अथो प्राजापत्यो वा अश्वः 
   प्रजापतिनैवाग्निं चिनुते 
   प्रथमेष्टकोपधीयमाना पशूनां च यजमानस्य च प्राणम् अपि दधाति 
   स्वयमातृण्णा भवति 
  प्राणानाम् उत्सृष्ट्या अथो सुवर्गस्य लोकस्यानुख्यात्यै । 
  अग्नाव् अग्निश् चेतव्य इत्य् आहुः । 
   एष वै  

VERSE: 2

   अग्निर् वैश्वानरो यद् ब्राह्मणस् 
   तस्मै प्रथमाम् इष्टकां यजुष्कृताम् प्र यच्छेत् 
   ताम् ब्राह्मणस् चोप दध्याताम् 
   अग्नाव् एव तद् अग्निं चिनुते । 
   ईश्वरो वा एष आर्तिम् आर्तोर् यो ऽविद्वान् इष्टकाम् उपदधाति 
   त्रीन् वरान् दद्यात् 
   त्रयो वै प्राणाः 
   प्राणानाम्̇ स्तृत्यै 
   द्वाव् एव देयौ 
  द्वौ हि प्राणौ । 
  एक एव देयः । 
   एको हि प्राणः 
  पशुः 

VERSE: 3

   वा एष यद् अग्निः । 
   न खलु वै पशव आयवसे रमन्ते 
   दूर्वेष्टकाम् उप दधाति पशूनां धृत्यै 
   द्वाभ्याम् प्रतिष्ठित्यै 
   काण्डात्काण्डात् प्ररोहन्तीत्य् आह 
   काण्डेनकाण्डेन ह्य् एषा प्रतितिष्ठति । 
   एवा नो दूर्वे प्र तनु सहस्रेण शतेन चेत्य् आह 
   साहस्रः प्रजापतिः 
   प्रजापतेर् आप्त्यै 
  देवलक्ष्मं वै त्र्यालिखितां
 ताम् उत्तरलक्ष्माणं देवा उपादधताधरलक्ष्माणम् असुराः । 
  यम् 

VERSE: 4

   कामयेत 
   वसीयान्त् स्याद् इत्य् उत्तरलक्ष्माणं तस्योप दध्यात् । 
   वसीयान् एव भवति 
   यं कामयेत 
   पापीयान्त् स्याद् इत्य् अधरलक्ष्माणं तस्योप दध्यात् । 
   असुरयोनिम् एवैनम् अनु परा भावयति 
   पापीयान् भवति 
   त्र्यालिखिता भवति । 
   इमे वै लोकास् त्र्यालिखिता । 
   एभ्य एव लोकेभ्यो भ्रातृव्यम् अन्तर् एति । 
  अङ्गिरसः सुवर्गं लोकं यतः पुरोडाशः कूर्मो भूत्वाऽनु प्रासर्पत् ॥ 

VERSE: 5

   यत् कूर्मम् उपदधाति यथा क्षेत्रविद् अञ्जसा नयत्य् एवम् एवैनं कूर्मः सुवर्गं लोकम् अञ्जसा नयति 
   मेधो वा एष पशूनां यत् कूर्मः । 
   यत् कूर्मम् उपदधाति स्वम् एव मेधम् पश्यन्तः पशव उप तिष्ठन्ते 
   श्मशानं वा एतत् क्रियते यन् मृतानाम् पशूनाम्̇ शीर्षाण्य् उपधीयन्ते 
   यज् जीवन्तं कूर्मम् उपदधाति तेनाश्मशानचित् । 
   वास्तव्यो वा एष यत्  

VERSE: 6

   कूर्मः । 
   मधु वाता ऋतायत इति दध्ना मधुमिश्रेणाभ्य् अनक्ति 
   स्वदयत्य् एवैनम् । 
   ग्राम्यं वा एतद् अन्नं यद् दध्य् आरण्यम् मधु 
   यद् दध्ना मधुमिश्रेणाभ्यनक्त्य् उभयस्यावरुद्ध्यै 
   मही द्यौः पृथिवी च न इत्य् आह । 
   आभ्याम् एवैनम् उभयतः परि गृह्णाति 
   प्राञ्चम् उप दधाति 
   तस्मात्  

VERSE: 7

   पुरस्तात् प्रत्यञ्चः पशवो मेधम् उप तिष्ठन्ते 
   यो वा अपनाभिम् अग्निं चिनुते यजमानस्य नाभिम् अनु प्र विशति 
   स एनम् ईश्वरो हिम्̇सितोः । 
   उलूखलम् उप दधाति । 
   एषा वा अग्नेर् नाभिः 
   सनाभिम् एवाग्निं चिनुते ऽहिम्̇सायै । 
   औदुम्बरम् भवति । 
   ऊर्ग् वा उदुम्बरः। 
   ऊर्जम् एवाव रुन्द्धे 
  मध्यत उप दधाति 
  मध्यत एवास्मा ऊर्जं दधाति 
  तस्मान् मध्यत ऊर्जा भुञ्जते । 
  इयद् भवति 
 प्रजापतिना यज्ञमुखेन सम्मितम् 
 अव हन्ति । 
  अन्नम् एवाकर् 
  वैष्णव्यर्चोप दधाति 
  विष्णुर् वै यज्ञः । 
  वैष्णवा वनस्पतयः । 
  यज्ञ एव यज्ञम् प्रति ष्ठापयति ॥ 

5.2.9 अनुवाक 9 उखादिस्थापनम् VERSE: 1

   एषां वा एतल् लोकानां ज्योतिः सम्भृतं यद् उखा 
   यद् उखाम् उपदधात्य् एभ्य एवा लोकेभ्यो ज्योतिर् अव रुन्द्धे 
   मध्यत उप दधाति 
   मध्यत एवास्मै ज्योतिर् दधाति 
   तस्मान् मध्यतो ज्योतिर् उपाऽऽस्महे 
   सिकताभिः पूरयति । 
   एतद् वा अग्नेर् वैश्वानरस्य रूपम् । 
   रूपेणैव वैश्वानरम् अव रुन्द्धे 
   यं कामयेत 
  क्षोधुकः स्याद् इत्य् ऊनां तस्योप  

VERSE: 2

   दध्यात् 
   क्षोधुक एव भवति 
   यं कामयेत । 
   अनुपदस्यद् अन्नम् अद्याद् इति पूर्णां तस्योप दध्यात् । 
   अनुपदस्यद् एवान्नम् अत्ति 
   सहस्रं वै प्रति पुरुषः पशूनां यच्छति सहस्रम् अन्ये पशवः । 
   मध्ये पुरुषशीर्षम् उप दधाति 
   सवीर्यत्वाय । 
   उखायाम् अपि दधाति 
  प्रतिष्ठाम् एवैनद् गमयति 
  व्यृद्धं वा एतत् प्राणैर् अमेध्यं यत् पुरुषशीर्षम् 
  अमृतं खलु वै प्राणाः ॥ 

VERSE: 3

   अमृतम्̇ हिरण्यम् 
   प्राणेषु हिरण्यशल्कान् प्रत्य् अस्यति 
   प्रतिष्ठाम् एवैनद् गमयित्वा प्राणैः सम् अर्धयति 
   दध्ना मधुमिश्रेण पूरयति । 
   मधव्यो ऽसानीति 
   शृतातङ्क्येन मेध्यत्वाय 
   ग्राम्यं वा एतद् अन्नं यद् दध्य् आरण्यम् मधु 
   यद् दध्ना मधुमिश्रेण पूरयत्य् उभयस्यावरुद्ध्यै 
   पशुशीर्षाण्य् उप दधाति 
  पशवो वै पशुशीर्षाणि 
   पशून् एवाव रुन्द्धे 
  यं कामयेत । 
  अपशुः स्याद् इति 

VERSE: 4

  विषूचीनानि तस्योप दध्यात् । 
  विषूच एवास्मात् पशून् दधाति । 
   अपशुर् एव भवति 
   यं कामयेत 
   पशुमान्त् स्याद् इति समीचीनानि तस्योप दध्यात् 
  समीच एवास्मै पशून् दधाति 
  पशुमान् एव भवति 
  पुरस्तात् प्रतीचीनम् अश्वस्योप दधाति पश्चात् प्राचीनम् ऋषभस्य । 
  अपशवो वा अन्ये गोअश्वेभ्यः पशवः । 
  गोअश्वान् एवास्मै समीचो दधाति । 
  एतावन्तो वै पशवः 

VERSE: 5

   द्विपादश् च चतुष्पादश् च 
   तान् वा एतद् अग्नौ प्र दधाति यत् पशुशीर्षाण्य् उपदधाति । 
   अमुम् आरण्यम् अनु ते दिशामीत्य् आह 
   ग्राम्येभ्य एव पशुभ्य आरण्यान् पशूञ् छुचम् अनूत् सृजति 
   तस्मात् समावत् पशूनाम् प्रजायमानानाम् आरण्याः पशवः कनीयाम्̇सः 
   शुचा ह्य् ऋताः 
   सर्पशीर्षम् उप दधाति 
   यैव सर्पे त्विषिस् ताम् एवाव रुन्द्धे ॥ 

VERSE: 6

   यत् समीचीनम् पशुशीर्षैर् उपदध्याद् ग्राम्यान् पशून् दम्̇शुकाः स्युः । 
   यद् विषूचीनम् आरण्यान् 
   यजुर् एव वदेत् । 
   अव तां त्विषिम्̇ रुन्द्धे या सर्पे 
   न ग्राम्यान् पशून् हिनस्ति नारण्यान् 
   अथो खलूपधेयम् एव 
   यद् उपदधाति तेन तां त्विषिम् अव रुन्द्धे या सर्पे 
   यद् यजुर् वदति तेन शान्तम् ॥ 

5.2.10 अनुवाक 10 प्रथमचितौ अपस्याद्युपधानम् VERSE: 1

   पशुर् वा एष यद् अग्निः । 
   योनिः खलु वा एषा पशोर् वि क्रियते यत् प्राचीनम् ऐष्टकाद् यजुः क्रियते 
   रेतो ऽपस्याः । 
   अपस्या उप दधाति 
   योनाव् एव रेतो दधाति 
   पञ्चोप दधाति 
   पाङ्क्ताः पशवः 
   पशून् एवास्मै प्र जनयति 
   पञ्च दक्षिणतः । 
  वज्रो वा अपस्याः । 
  वज्रेणैव यज्ञस्य दक्षिणतो रक्षाम्̇स्य् अप हन्ति 
  पञ्च पश्चात्  

VERSE: 2

   प्राचीर् उप दधाति 
   पश्चाद् वै प्राचीनम्̇ रेतो धीयते 
   पश्चाद् एवास्मै प्राचीनम्̇ रेतो दधाति 
   पञ्च पुरस्तात् प्रतीचीर् उप दधाति पञ्च पश्चात् प्राचीः
   तस्मात् प्राचीनम्̇ रेतो धीयते प्रतीचीः प्रजा जायन्ते 
   पञ्चोत्तरतश् छन्दस्याः 
   पशवो वै छन्दस्याः 
   पशून् एव प्रजातान्त् स्वम् आयतनम् अभि पर्यूहते । 
   इयं वा अग्नेर् अतिदाहाद् अबिभेत् 
   सैताः 

VERSE: 3

   अपस्या अपश्यत् 
   ता उपाधत्त 
   ततो वा इमां नात्य् अदहत् । 
   यद् अपस्या उपदधात्य् अस्या अनतिदाहाय 
   उवाच हेयम् 
   अदद् इत् स ब्रह्मणाऽन्नं यस्यैता उपधीयान्तै य उ चैना एवं वेदद् इति 
   प्राणभृत उप दधाति 
   रेतस्य् एव प्राणान् दधाति 
   तस्माद् वदन् प्राणन् पश्यञ् छृण्वन् पशुर् जायते । 
   अयम् पुरः ॥ 

VERSE: 4

   भुव इति पुरस्ताद् उप दधाति 
   प्राणम् एवैताभिर् दाधार । 
   अयं दक्षिणा विश्वकर्मेति दक्षिणतः । 
   मन एवैताभिर् दाधार । 
   अयम् पश्चाद् विश्वव्यचा इति पश्चात् । 
   चक्षुर् एवैताभिर् दाधार । 
   इदम् उत्तरात् सुवर् इत्य् उत्तरतः 
   श्रोत्रम् एवैताभिर् दाधार । 
   इयम् उपरि मतिर् इत्य् उपरिष्टात् । 
  वाचम् एवैताभिर् दाधार 
  दशदशोप दधाति सवीर्यत्वाय । 
  अक्ष्णया 

VERSE: 5

   उप दधाति 
   तस्माद् अक्ष्णया पशवो ऽङ्गानि प्र हरन्ति 
   प्रतिष्ठित्यै 
   याः प्राचीस् ताभिर् वसिष्ठ आर्ध्नोत् । 
   या दक्षिणा ताभिर् भरद्वाजः । 
   याः प्रतीचीस् ताभिर् विश्वामित्रः । 
   या उदीचीस् ताभिर् जमदग्निः । 
   या ऊर्ध्वास् ताभिर् विश्वकर्मा 
   य एवम् एतासाम् ऋद्धिं वेदर्ध्नोत्य् एव 
  य आसाम् एवम् बन्धुतां वेद बन्धुमान् भवति 
  य आसाम् एवं क्लृप्तिं वेद कल्पते  

VERSE: 6

   अस्मै 
   य आसाम् एवम् आयतनं वेदायतनवान् भवति 
   य आसाम् एवम् प्रतिष्ठां वेद प्रत्य् एव तिष्ठति 
   प्राणभृत उपधाय संयत उप दधाति 
   प्राणान् एवास्मिन् धित्वा संयद्भिः सं यच्छति 
   तत् संयताम्̇ संयत्त्वम् 
   अथो प्राण एवापानं दधाति 
   तस्मात् प्राणापानौ सं चरतः । 
   विषूचीर् उप दधाति 
  तस्माद् विष्वञ्चौ प्राणापानौ 
  यद् वा अग्नेर् असंयतम्  

VERSE: 7

   असुवर्ग्यम् अस्य तत् 
   सुवर्ग्यो ऽग्निः । 
   यत् संयत उपदधाति सम् एवैनं यच्छति सुवर्ग्यम् एवाकस् 
   त्र्यविर् वयः कृतम् अयानाम् इत्य् आह 
   वयोभिर् एवायान् अव रुन्द्धे । 
   अयैर् वयाम्̇सि 
   सर्वतो वायुमतीर् भवन्ति 
   तस्माद् अयम्̇ सर्वतः पवते ॥ 

5.2.11 अनुवाक 11 सूचीभिरसिपथक्लृप्तिः VERSE: 1 गायत्री त्रिष्टुब् जगत्य् अनुष्टुक् पङ्क्त्या सह । बृहत्य् उष्णिहा ककुत् सूचीभिः शिम्यन्तु त्वा ॥ द्विपदा या चतुष्पदा त्रिपदा या च षट्पदा । सच्छन्दा या च विच्छन्दाः सूचीभिः शिम्यन्तु त्वा ॥ महानाम्नी रेवतयो विश्वा आशाः प्रसूवरीः । मेध्या विद्युतो वाचः सूचीभिः शिम्यन्तु त्वा ॥ रजता हरिणीः सीसा युजो युज्यन्ते कर्मभिः । अश्वस्य वाजिनस् त्वचि सूचीभिः शिम्यन्तु त्वा ॥ नारीः ॥

VERSE: 2

   ते पत्नयो लोम वि चिन्वन्तु मनीषया । देवानाम् पत्नीर् दिशः सूचीभिः शिम्यन्तु त्वा ॥ 

कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥

5.2.12 अनुवाक 12

विशसनाभिधानम्

VERSE: 1 कस् त्वा छ्यति कस् त्वा वि शास्ति कस् ते गात्राणि शिम्यति । क उ ते शमिता कविः ॥ ऋतवस् त ऋतुधा परुः शमितारो वि शासतु । संवत्सरस्य धायसा शिमीभिः शिम्यन्तु त्वा ॥ दैव्या अध्वर्यवस् त्वा छ्यन्तु वि च शासतु । गात्राणि पर्वशस् ते शिमाः कृण्वन्तु शिम्यन्तः ॥ अर्धमासाः परूम्̇षि ते मासाश् छ्यन्तु शिम्यन्तः । अहोरात्राणि मरुतो विलिष्टं

VERSE: 2

   सूदयन्तु ते ॥ 

पृथिवी ते ऽन्तरिक्षेण वायुश् छिद्रम् भिषज्यतु । द्यौस् ते नक्षत्रैः सह रूपं कृणोतु साधुया ॥ शं ते परेभ्यो गात्रेभ्यः शम् अस्त्व् अवरेभ्यः । शम् अस्थभ्यो मज्जभ्यः शम् उ ते तनुवे भुवत् ॥


5.3 प्रपाठक: 3 5.3.1 अनुवाक 1 द्वितीयचितिगताश्विन्यादीष्टकाचतुष्ट्याभिधानम् VERSE: 1

   उत्सन्नयज्ञो वा एष यद् अग्निः 
   किं वाऽहैतस्य क्रियते किं वा न 
   यद् वै यज्ञस्य क्रियमाणस्यान्तर्यन्ति पूयति वा अस्य तत् । 
   आश्विनीर् उप दधाति । 
   अश्विनौ वै देवानाम् भिषजौ 
   ताभ्याम् एवास्मै भेषजं करोति 
   पञ्चोप दधाति 
   पाङ्क्तो यज्ञः । 
   यावान् एव यज्ञस् तस्मै भेषजं करोति । 
   ऋतव्या उप दधाति । 
   ऋतूनां क्लृप्त्यै ॥ 

VERSE: 2

   पञ्चोप दधाति 
   पञ्च वा ऋतवः । 
   यावन्त एवर्तवस् 
   तान् कल्पयति 
   समानप्रभृतयो भवन्ति समानोदर्कास् 
   तस्मात् समाना ऋतवः । 
   एकेन पदेन व्यावर्तन्ते 
   तस्माद् ऋतवो व्यावर्तन्ते 
   प्राणभृत उप दधाति । 
   ऋतुष्व् एव प्राणान् दधाति 
   तस्मात् समानाः सन्तं ऋतवो न जीर्यन्ति । 
   अथो प्र जनयत्य् एवैनान् 
   एष वै वायुर् यत् प्राणः । 
   यद् ऋतव्या उपधाय प्राणभृतः  

VERSE: 3

   उपदधाति तस्मात् सर्वान् ऋतून् अनु वायुर् आ वरीवर्त्ति 
   वृष्टिसनीर् उप दधाति 
   वृष्टिम् एवाव रुन्द्धे यद् एकधोपदध्याद् एकम् ऋतुं वर्षेत् । 
   अनुपरिहारम्̇ सादयति तस्मात् सर्वान् ऋतून् वर्षति 
   यत् प्राणभृत उपधाय वृष्टिसनीर् उपदधाति तस्माद् वायुप्रच्युता दिवो वृष्टिर् ईर्ते 
   पशवो वै वयस्याः । 
   नानामनसः खलु वै पशवो नानाव्रतास् ते ऽप एवाभि समनसः ॥ 

VERSE: 4

   यं कामयेत । 
   अपशुः स्याद् इति वयस्यास् तस्योपधायापस्या उप दध्याद् असंज्ञानम् एवास्मै पशुभिः करोति । 
   अपशुर् एव भवति 
   यं कामयेत 
   पशुमान्त् स्याद् इत्य् अपस्यास् तस्योपधाय वयस्या उप दध्यात् संज्ञानम् एवास्मै पशुभिः करोति 
   पशुमान् एव भवति 
   चतस्रः पुरस्ताद् उप दधाति 
   तस्माच् चत्वारि चक्षुषो रूपाणि द्वे शुक्ले द्वे कृष्णे ॥ 

VERSE: 5

   मूर्धन्वतीर् भवन्ति 
   तस्मात् पुरस्तान् मूर्धा 
   पञ्च दक्षिणायाम्̇ श्रोण्याम् उप दधाति पञ्चोत्तरस्यां तस्मात् पश्चाद् वर्षीयान् पुरस्तात्प्रवणः पशुः । 
   बस्तो वय इति दक्षिणे ऽम्̇स उप दधाति वृष्णिर् वय इत्य् उत्तरेऽ  
   अम्̇साव् एव प्रति दधाति 
   व्याघ्रो वय इति दक्षिणे पक्ष उप दधाति सिम्̇हो वय इत्य् उत्तरे 
   पक्षयोर् एव वीर्यं दधाति 
   पुरुषो वय इति मध्ये तस्मात् पुरुषः पशूनाम् अधिपतिः ॥ 

5.3.2 अनुवाक 2 स्वयमातृण्णाद्यभिधानम् VERSE: 1

   इन्द्राग्नी अव्यथमानाम् इति स्वयमातृण्णाम् उप दधाति । 
   इन्द्राग्निभ्यां वा इमौ लोकौ विधृतौ । 
   अनयोर् लोकयोर् विधृत्यै । 
   अधृतेव वा एषा यन् मध्यमा चितिः । 
   अन्तरिक्षम् इव वा एषा । 
   इन्द्राग्नी इत्य् आह । 
   इन्द्राग्नी वै देवानाम् ओजोभृतौ । 
   ओजसैवैनाम् अन्तरिक्षे चिनुते 
   धृत्यै 
   स्वयमातृण्णाम् उप दधाति । 
   अन्तरिक्षं वै स्वयमातृण्णा । 
   अन्तरिक्षम् एवोप धत्ते । 
  अश्वम् उप  

VERSE: 2

   घ्रापयति 
   प्राणम् एवास्यां दधाति । 
   अथो प्राजापत्यो वा अश्वः 
   प्रजापतिनैवाग्निं चिनुते 
   स्वयमातृण्णा भवति 
   प्राणानाम् उत्सृष्ट्यै । 
   अथो सुवर्गस्य लोकस्यानुख्यात्यै । 
   देवानां वै सुवर्गं लोकं यतां दिशः सम् अव्लीयन्त 
   त एता दिश्या अपश्यन् 
  ता उपादधत 
  ताभिर् वै ते दिशो ऽदृम्̇हन् 
   यद् दिश्या उपदधाति 
   दिशां विधृत्यै 
   दश प्राणभृतः पुरस्ताद् उप ॥ 

VERSE: 3

   दधाति 
   नव वै पुरुषे प्राणा नाभिर् दशमी 
   प्राणान् एव पुरस्ताद् धत्ते 
   तस्मात् पुरस्तात् प्राणाः । 
   ज्योतिष्मतीम् उत्तमां उप दधाति 
   तस्मात् प्राणानां वाग् ज्योतिर् उत्तमाः । 
   दशोप दधाति 
   दशाक्षरा { विराड् ^ विराज् } 
   विराट् छन्दसां ज्योतिः । 

0 ज्योतिर् एव पुरस्ताद् धत्ते 1 तस्मात् पुरस्ताज् ज्योतिर् उपाऽऽस्महे 2 छन्दाम्̇सि पशुष्व् आजिम् अयुस् 3 तान् बृहत्य् उद् अजयत् 4 तस्माद् बार्हताः

VERSE: 4

   पशव उच्यन्ते 
   मा छन्द इति दक्षिणत उप दधाति तस्माद् दक्षिणावृतो मासाः 
   पृथिवी छन्द इति पश्चात् प्रतिष्ठित्यै । 
   अग्निर् देवतेत्य् उत्तरत ओजो वा अग्निर् ओज एवोत्तरतो धत्ते तस्माद् उत्तरतोऽभिप्रयायी जयति 
   षट्त्रिम्̇शत् सम् पद्यन्ते 
   षट्त्रिम्̇शदक्षरा बृहती 
   बार्हताः पशवः । 
   बृहत्यैवास्मै पशून् अव रुन्द्धे 
   बृहती छन्दसाम्̇ स्वाराज्यम् परीयाय 
  यस्यैताः  

VERSE: 5

   उपधीयन्ते गच्छति स्वाराज्यम् । 
   सप्त वालखिल्याः पुरस्ताद् उप दधाति सप्त पश्चात् 
   सप्त वै शीर्षण्याः प्राणा द्वाव् अवाञ्चौ प्राणानाम्̇ सवीर्यत्वाय 
   मूर्धासि राड् इति पुरस्ताद् उप दधाति यन्त्री राड् इति पश्चात् 
   प्राणान् एवास्मै समीचो दधाति ॥ 

5.3.3 अनुवाक 3

अक्ष्णयास्तोमीयादीनामभिधानम्

VERSE: 1

   देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत 
   ते देवा एता अक्ष्णयास्तोमीया अपश्यन् 
   ता अन्यथाऽनूच्यान्यथोपादधत 
   तद् असुरा नान्ववायन् 
   ततो देवा अभवन् पराऽसुराः। 
   यद् अक्ष्णयास्तोमीया अन्यथाऽनूच्यान्यथोपदधाति भ्रातृव्याभिभूत्यै 
   भवत्य् आत्मना परास्य भ्रातृव्यो भवति । 
   आशुस् त्रिवृद् इति पुरस्ताद् उप दधाति 
   यज्ञमुखं वै त्रिवृत् । 

VERSE: 2

   यज्ञमुखम् एव पुरस्ताद् वि यातयति 
   व्योम सप्तदश इति दक्षिणतः । 
   अन्नं वै व्योम । 
   अन्नम्̇ सप्तदशः । 
   अन्नम् एव दक्षिणतो धत्ते 
   तस्माद् दक्षिणेनान्नम् अद्यते 
   धरुण एकविम्̇श इति पश्चात् प्रतिष्ठा वा एकविम्̇शः 
   प्रतिष्ठित्यै 
   भान्तः पञ्चदश इत्य् उत्तरतः । 
   ओजो वै भान्तः
 ओजः पञ्चदशः । 
   ओज एवोत्तरतो धत्ते 
   तस्माद् उत्तरतोऽभिप्रयायी जयति 
   प्रतूर्तिर् अष्टादश इति पुरस्तात् 

VERSE: 3

   उप दधाति 
   द्वौ त्रिवृताव् अभिपूर्वं यज्ञमुखे वि यातयति । 
   अभिवर्तः सविम्̇श इति दक्षिणतः । 
   अन्नं वा अभिवर्तः । 
   अन्नम्̇ सविम्̇शः । 
   अन्नम् एव दक्षिणतो धत्ते 
   तस्माद् दक्षिणेनान्नम् अद्यते 
   वर्चो द्वाविम्̇श इति पश्चात् । 
   यद् विम्̇शतिर् द्वे तेन विराजौ 
   यद् द्वे प्रतिष्ठा तेन 
   विराजोर् एवाभिपूर्वम् अन्नाद्ये प्रति तिष्ठति 
   तपो नवदश इत्य् उत्तरतस् 
  तस्मात् सव्यः 

VERSE: 4

   हस्तयोस् तपस्वितरः । 
   योनिश् चतुर्विम्̇श इति पुरस्ताद् उप दधाति 
   चतुर्विम्̇शत्यक्षरा गायत्री 
   गायत्री यज्ञमुखम् । 
   यज्ञमुखम् एव पुरस्ताद् वि यातयति 
   गर्भाः पञ्चविम्̇श इति दक्षिणतः । 
   अन्नं वै गर्भाः । 
   अन्नम् पञ्चविम्̇शः । 
   अन्नम् एव दक्षिणतो धत्ते 
  तस्माद् दक्षिणेनान्नम् अद्यते । 
 ओजस् त्रिणव इति पश्चात् । 
  इमे वै लोकास् त्रिणवः । 
   एष्व् एव लोकेषु प्रति तिष्ठति 
   सम्भरणस् त्रयोविम्̇श इति  

VERSE: 5

   उत्तरतस् 
   तस्मात् सव्यो हस्तयोः सम्भार्यतरः 
   क्रतुर् एकत्रिम्̇श इति पुरस्ताद् उप दधाति 
   वाग् वै क्रतुः । 
   यज्ञमुखं वाक् । 
   यज्ञमुखम् एव पुरस्ताद् वि यातयति 
   ब्रध्नस्य विष्टपं चतुस्त्रिम्̇श इति दक्षिणतः । 
   असौ वा आदित्यो ब्रध्नस्य विष्टपम् 
   ब्रह्मवर्चसम् एव दक्षिणतो धत्ते 
   तस्माद् दक्षिणो ऽर्धो ब्रह्मवर्चसितरः 

1 प्रतिष्ठा त्रयस्त्रिम्̇श इति पश्चात् 2 प्रतिष्ठित्यै 3 नाकः षट्त्रिम्̇श इत्य् उत्तरतः 4 सुवर्गो वै लोको नाकः 5 सुवर्गस्य लोकस्य समष्ट्यै ॥

5.3.4 अनुवाक 4 अक्ष्णयास्तोमीयादीनामभिधानम् VERSE: 1

   अग्नेर् भागो ऽसीति पुरस्ताद् उप दधाति 
   यज्ञमुखं वा अग्निः । 
   यज्ञमुखं दीक्षा 
   यज्ञमुखम् ब्रह्म 
   यज्ञमुखं त्रिवृत् । 
   यज्ञमुखम् एव पुरस्ताद् वि यातयति 
   नृचक्षसाम् भागो ऽसीति दक्षिणतः 
   शुश्रुवाम्̇सो वै नृचक्षसः । 
   अन्नं धाता 

0 जातायैवास्मा अन्नम् अपि दधाति 1 तस्माज् जातो ऽन्नम् अत्ति 2 जनित्रम्̇ स्पृतम्̇ सप्तदश स्तोम इत्य् आह । 3 अन्नं वै जनित्रम् ॥

VERSE: 2

   अन्नम्̇ सप्तदशः । 
   अन्नम् एव दक्षिणतो धत्ते 
   तस्माद् दक्षिणेनान्नम् अद्यते 
   मित्रस्य भागो ऽसीति पश्चात् 
   प्राणो वै मित्रो ऽपानो वरुणः 
   प्राणापानाव् एवास्मिन् दधाति 
   दिवो वृष्टिर् वाता स्पृता एकविम्̇श स्तोम इत्य् आह 
   प्रतिष्ठा वा एकविम्̇शः 
   प्रतिष्ठित्यै । 

0 इन्द्रस्य भागो ऽसीत्य् उत्तरतः । 1 ओजो वा इन्द्रः । 2 ओजो विष्णुः । 3 ओजः क्षत्रम् 4 ओजः पञ्चदशः ॥

VERSE: 3

   ओज एवोत्तरतो धत्ते 
   तस्माद् उत्तरतोऽभिप्रयायी जयति 
   वसूनाम् भागो ऽसीति पुरस्ताद् उप दधाति 
   यज्ञमुखं वै वसवः । 
   यज्ञमुखम्̇ रुद्राः । 
   यज्ञमुखं चतुर्विम्̇शः । 
   यज्ञमुखम् एव पुरस्ताद् वि यातयति । 
   आदित्यानाम् भागो ऽसीति दक्षिणतः । 
   अन्नं वा आदित्याः । 

0 अन्नम् मरुतः । 1 अन्नं गर्भाः । 2 अन्नम् पञ्चविम्̇शः । 3 अन्नम् एव दक्षिणतो धत्ते 4 तस्माद् दक्ष्ण्एनान्नम् अद्यते । 5 अदित्यै भागः ॥

VERSE: 4

   असीति पश्चात् 
   प्रतिष्ठा वा अदितिः 
   प्रतिष्ठा पूषा 
   प्रतिष्ठा त्रिणवः 
   प्रतिष्ठित्यै 
   देवस्य सवितुर् भागो ऽसीत्य् उत्तरतः । 
   ब्रह्म वै देवः सविता 
   ब्रह्म बृहस्पतिः । 
   ब्रह्म चतुष्टोमः । 

0 ब्रह्मवर्चसम् एवोत्तरतो धत्ते 1 तस्माद् उत्तरो ऽर्धो ब्रह्मवर्चसितरः 2 सावित्रवती भवति 3 प्रसूत्यै 4 तस्माद् ब्राह्मणानाम् उदीची सनिः प्रसूता 5 धर्त्रश् चतुष्टोम इति पुरस्ताद् उप दधाति 6 यज्ञमुखं वै धर्त्रः ॥

VERSE: 5

   यज्ञमुखं चतुष्टोमः । 
   यज्ञमुखम् एव पुरस्ताद् वि यातयति 
   यावानाम् भागो ऽसीति 
   दक्षिणतः । 
   मासा वै यावा अर्धमासा अयावास् 
   तस्माद् दक्षिणावृतो मासाः । 
   अन्नं वै यावाः । 
   अन्नम् प्रजाः । 
   अन्नम् एव दक्षिणतो धत्ते 

0 तस्माद् दक्षिणेनान्नम् अद्यते । 1 ऋभूणाम् भागो ऽसीति पश्चात् 2 प्रतिष्ठित्यै 3 विवर्तो ऽष्टाचत्वारिम्̇श इत्य् उत्तरतः । 4 अनयोर् लोकयोः सवीर्यत्वाय 5 तस्माद् इमौ लोकौ समावद्वीर्यौ ॥

VERSE: 6

   यस्य मुख्यवतीः पुरस्ताद् उपधीयन्ते मुख्य एव भवति । 
   आस्य मुख्यो जायते 
   यस्यान्नवतीर् दक्षिणतो ऽत्त्य् अन्नम् 
   आस्यान्नादो जायते 
   यस्य प्रतिष्ठावतीः पश्चात् प्रत्य् एव तिष्ठति 
   यस्यौजस्वतीर् उत्तरत ओजस्व्य् एव भवति । 
   आस्यौजस्वी जायते । 
   अर्को वा एष यद् अग्निस् 
   तस्यैतद् एव स्तोत्रम् एतच् छस्त्रम् । 

0 यद् एष विधा ॥

VERSE: 7

   विधीयते ऽर्क एव तद् अर्क्य्àम् अनु वि धीयते । 
   अत्त्य् अन्नम् आस्यान्नाद्यो जायते यस्यैषा विधा विधीयते य उ चैनाम् एवं वेद 
   सृष्टीर् उप दधाति 
   यथासृष्टम् एवाव रुन्द्धे 
   न वा इदं दिवा न नक्तम् आसीद् अव्यावृत्तम् । 
   ते देवा एता व्युष्टीर् अपश्यन् 
   ता उपादधत 
   ततो वा इदं व्यौच्छत् । 
   यस्यैता उपधीयन्ते व्य् एवास्मा उच्छति । 

0 अथो तम एवाप हते ॥

5.3.5 अनुवाक 5

असपत्नविराडाख्येष्टकाभिधानम्

VERSE: 1

   अग्ने जातान् प्र णुदा नः सपत्नान् इति पुरस्ताद् उप दधाति 
   जातान् एव भ्रातृव्यान् प्र णुदते 
   सहसा जातान् इति पश्चात् । 
   जनिष्यमाणान् एव प्रति नुदते 
   चतुश्चत्वारिम्̇श स्तोम इति दक्षिणतः । 
   ब्रह्मवर्चसं वै चतुश्चत्वारिम्̇शः । 
   ब्रह्मवर्चसम् एव दक्षिणतो धत्ते 
   तस्माद् दक्षिणो ऽर्धो ब्रह्मवर्चसितरः 
   षोडश स्तोम इत्य् उत्तरतः । 
  ओजो वै षोडशः । 
   ओज एवोत्तरतो धत्ते 
  तस्मात्  

VERSE: 2

   उत्तरतोऽभिप्रयायी जयति 
   वज्रो वै चतुश्चत्वारिम्̇शो वज्रः षोडशः । 
   यद् एते इष्टके उपदधाति जाताम्̇श् चैव जनिष्यमाणाम्̇श् च भ्रातृव्यान् प्रणुद्य वज्रम् अनु प्र हरति 
   स्तृत्यै 
   पुरीषवतीम् मध्य उप दधाति 
   पुरीषं वै मध्यम् आत्मनः 
   सात्मानम् एवाग्निं चिनुते 
   सात्मामुष्मिम्̐ लोके भवति य एवं वेद । 
   एता वा असपत्ना नामेष्टकाः । 
  यस्यैता उपधीयन्ते । 

VERSE: 3

   नास्य सपत्नो भवति 
   पशुर् वा एष यद् अग्निः । 
   विराजः उत्तमायां चित्याम् उप दधाति 
   विराजम् एवोत्तमाम् पशुषु दधाति 
   तस्मात् पशुमान् उत्तमां वाचं वदति 
   दशदशोप दधाति सवीर्यत्वाय । 
   अक्ष्णयोप दधाति 
   तस्माद् अक्ष्णया पशवो ऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै 
   यानि वै छन्दाम्̇सि सुवर्ग्याण्य् आसन् तैर् देवाः सुवर्गं लोकम् आयन् 

0 तेनर्षयः

VERSE: 4

   अश्राम्यन् 
   ते तपो ऽतप्यन्त 
   तानि तपसापश्यन् 
   तेभ्य एता इष्टका निर् { अमिमत्। ^ अमिमत }     ।

एवश् छन्दो वरिवश् छन्द इति

   ता उपादधत 
   ताभिर् वै ते सुवर्गं लोकम् आयन् 
   यद् एता इष्टका उपदधाति 
   यान्य् एव छन्दाम्̇सि सुवर्ग्याणि तैर् एव यजमानः सुवर्गं लोकम् एति 
   यज्ञेन वै प्रजापतिः प्रजा असृजत 
   ता स्तोमभागैर् एवासृजत 
  यत्  

VERSE: 5

   स्तोमभागा उपदधाति प्रजा एव तद् यजमानः सृजते 
   बृहस्पतिर् वा एतद् यज्ञस्य तेजः सम् अभरद् यद् स्तोमभागाः । 
   यत् स्तोमभागा उपदधाति सतेजसम् एवाग्निं चिनुते 
   बृहस्पतिर् वा एतां यज्ञस्य प्रतिष्ठाम् अपश्यद् यत् स्तोमभागाः । 
   यत् स्तोमभागा उपदधाति यज्ञस्य प्रतिष्ठित्यै 
   सप्तसप्तोप दधाति सवीर्यत्वाय 
   तिस्रो मध्ये प्रतिष्ठित्यै ॥ 

5.3.6 अनुवाक 6

स्तोमभागाख्येष्टकाभिधानम्

VERSE: 1

   रश्मिर् इत्य् एवादित्यम् असृजत 
   प्रेतिर् इति धर्मम् 
   अन्वितिर् इति दिवम् । 
   संधिर् इत्य् अन्तरिक्षम् 
   प्रतिधिर् इति पृथिवीम् । 
   विष्टम्भ इति वृष्टिम् 
   प्रवेत्य् अहर् 
   अनुवेति रात्रिम् 
   उशिग् इति वसून् 
  प्रकेत इति रुद्रान् । 
   सुदीतिर् इत्य् आदित्यान् 
  ओज इति पितॄन् । 
   तन्तुर् इति प्रजाः 
  पृतनाषाड् इति पशून् 
   रेवद् इत्य् ओषधीः 
   अभिजिद् असि युक्तग्रावा  

VERSE: 2

   इन्द्राय त्वेन्द्रं जिन्वेत्य् एव दक्षिणतो वज्रम् पर्य् औहद् अभिजित्यै 
   ताः प्रजा अपप्राणा असृजत 
   तास्व् अधिपतिर् असीत्य् एव प्राणम् अदधात् । 
   यन्तेत्य् अपानम् । 
   सम्̇सर्प इति चक्षुः । 
   वयोधा इति श्रोत्रम् । 
   ताः प्रजाः प्राणतीर् अपानतीः पश्यन्तीः शृण्वतीर् न मिथुनी अभवन् 
   तासु त्रिवृद् असीत्य् एव मिथुनम् अदधात् 
   ताः प्रजा मिथुनी  

VERSE: 3

   भवन्तीर् न प्राजायन्त 
   ताः सम्̇रोहो ऽसि नीरोहो ऽसीत्य् एव प्राजनयत् 
   ताः प्रजाः प्रजाता न प्रत्य् अतिष्ठन् 
   ता वसुको ऽसि वेषश्रिर् असि वस्यष्टिर् असीत्य् एवैषु लोकेषु प्रत्य् अस्थापयत् । 
   यद् आह 
   वसुको ऽसि वेषश्रिर् असि वस्यष्टिर् असीति प्रजा एव प्रजाता एषु लोकेषु प्रति ष्ठापयति 
   सात्मान्तरिक्षम्̇ रोहति 
   सप्राणो ऽमुष्मिम्̐ लोके प्रति तिष्ठति । 
   अव्यर्धुकः प्राणापानाभ्याम् भवति य एवं वेद ॥ 

5.3.7 अनुवाक 7 नाकसदादि पञ्चविधेष्टकाभिधानम् VERSE: 1

   नाकसद्भिर् वै देवाः सुवर्गं लोकम् आयन् 
   तन् नाकसदां नाकसत्त्वम् । 
   यन् नाकसद उपदधाति नाकसद्भिर् एव तद् यजमानः सुवर्गं लोकम् एति 
   सुवर्गो वै लोको नाकः । 
   यस्यैता उपधीयन्ते नास्मा अकम् भवति 
   यजमानायतनं वै नाकसदः । 
   यन् नाकसद उपदधात्य् आयतनम् एव तद् यजमानः कुरुते 
   पृष्ठानां वा एतत् तेजः सम्भृतं यन् नाकसदः । 
   यन् नाकसदः  

VERSE: 2

   उपदधाति पृष्ठानाम् एव तेजो ऽव रुन्द्धे 
   पञ्चचोडा उप दधाति । 
   अप्सरस एवैनम् एता भूता अमुष्मिम्̐ लोक उप शेरे । 
   अथो तनूपानीर् एवैता यजमानस्य 
   यं द्विष्यात् तम् उपदधद् ध्यायेत् । 
   एताभ्य एवैनं देवताभ्य आ वृश्चति 
   ताजग् आर्तिम् आर्छति । 
   उत्तरा नाकसद्भ्य उप दधाति 
   यथा जायाम् आनीय गृहेषु निषादयति तादृग् एव तत् ॥ 

VERSE: 3

   पश्चात् प्राचीम् उत्तमाम् उप दधाति तस्मात् पश्चात् प्राची पत्न्य् अन्व् आस्ते 
   स्वयमातृण्णां च विकर्णीं चोत्तमे उप दधाति 
   प्राणो वै स्वयमातृण्णाऽऽयुर् विकर्णी 
   प्राणं चैवायुश् च प्राणानाम् उत्तमौ धत्ते 
   तस्मात् प्राणश् चायुश् च प्राणानाम् उत्तमौ 
   नान्याम् उत्तराम् इष्टकाम् उप दध्यात् । 
   यद् अन्याम् उत्तराम् इष्टकाम् उपदध्यात् पशूनाम्  

VERSE: 4

   च यजमानस्य च प्राणं चायुश् चापि दध्यात् 
   तस्मान् नान्योत्तरेष्टकोपधेया 
   स्वयमातृण्णाम् उप दधाति । 
   असौ वै स्वयमातृण्णाऽमूम् एवोप धत्ते । 
   अश्वम् उप घ्रापयति प्राणम् एवास्यां दधाति । 
   अथो प्राजापत्यो वा अश्वः प्रजापतिनैवाग्निं चिनुते 
   स्वयमातृण्णा भवति प्राणानाम् उत्सृष्ट्या अथो सुवर्गस्य लोकस्यानुख्यात्यै । 
   एषा वै देवानां विक्रान्तिर् यद् विकर्णी 
   यद् विकर्णीम् उपदधाति देवानाम् एव विक्रान्तिम् अनु वि क्रमते । 
  उत्तरत उप दधाति 
  तस्माद् उत्तरतौपचारो ऽग्निः । 

2 वायुमती भवति 3 समिद्ध्यै ॥

5.3.8 अनुवाक 8 छन्दोभिधेष्टकाभिधानम् VERSE: 1

   छन्दाम्̇स्य् उप दधाति 
   पशवो वै छन्दाम्̇सि 
   पशून् एवाव रुन्द्धे 
   छन्दाम्̇सि वै देवानां वामम् पशवः । 
   वामम् एव पशून् अव रुन्द्धे । 
   एताम्̇ ह वै यज्ञसेनश् चैत्रियायणश् चितिं विदां चकार 
   तया वै स पशून् अवारुन्द्ध 
   यद् एताम् उपदधाति पशून् एवाव रुन्द्धे 
   गायत्रीः पुरस्ताद् उप दधाति 
  तेजो वै गायत्री 
  तेज एव 

VERSE: 2

   मुखतो धत्ते 
   मूर्धन्वतीर् भवन्ति 
   मूर्धानम् एवैनम्̇ समानानां करोति 
   त्रिष्टुभ उप दधाति । 
   इन्द्रियं वै { त्रिष्टुग् ^ त्रिष्टुभ् } 
   इन्द्रियम् एव मध्यतो धत्ते 
   जगतीर् उप दधाति 
   जागता वै पशवः 
   पशून् एवाव रुन्द्धे । 
   अनुष्टुभ उप दधाति 
  प्राणा वा { अनुष्टुप् ^ अनुष्टुभ् } 
  प्राणानाम् उत्सृष्ट्यै 
  बृहतीर् उष्णिहाः पङ्क्तीर् अक्षरपङ्क्तीर् इति विषुरूपाणि छन्दाम्̇स्य् उप दधाति 
   विषुरूपा वै पशवः 
  पशवः  

VERSE: 3

   छन्दाम्̇सि 
   विषुरूपान् एव पशून् अव रुन्द्धे 
   विषुरूपम् अस्य गृहे दृश्यते यस्यैता उपधीयन्ते य उ चैनाम् एवं वेद । 
   अतिच्छन्दसम् उप दधाति । 
   अतिच्छन्दा वै सर्वाणि छन्दाम्̇सि 
   सर्वेभिर् एवैनं छन्दोभिश् चिनुते 
   वर्ष्म वा एषा छन्दसां यद् अतिच्छन्दाः । 
   यत् अतिच्छन्दसम् उपदधाति वर्ष्मैवैनम्̇ समानानां करोति 
   द्विपदा उप दधाति 
  द्विपाद् यजमानः 
  प्रतिष्ठित्यै ॥ 

5.3.9 अनुवाक 9 सयुगादीष्टकात्रयाभिधानम् VERSE: 1

   सर्वाभ्यो वै देवताभ्यो ऽग्निश् चीयते 
   यत् सयुजो नोपदध्याद् देवता अस्याग्निं वृञ्जीरन् 
   यत् सयुज उपदधात्य् आत्मनैवैनम्̇ सयुजं चिनुते नाग्निना व्यृध्यते । 
   अथो यथा पुरुषः स्नावभिः संतत एवम् एवैताभिर् अग्निः संततः। 
   अग्निना वै देवाः सुवर्गं लोकम् आयन् ता अमूः कृत्तिका अभवन् 
   यस्यैता उपधीयन्ते सुवर्गम् एव  

VERSE: 2

   लोकम् एति गच्छति प्रकाशं चित्रम् एव भवति ॥
   मण्डलेष्टका उप दधाति । 
   इमे वै लोका मण्डलेष्टका  
   इमे खलु वै लोका देवपुरा 
   देवपुरा एव प्र विशति नार्तिम् आर्छत्य् अग्निं चिक्यानः॥
   विश्वज्योतिष उप दधाति । 
   इमान् एवैताभिर् लोकाञ् ज्योतिष्मतः कुरुते । 
   अथो प्राणान् एवैता यजमानस्य दाध्रति । 
   एता वै देवताः सुवर्ग्यास् 

0 ता एवान्वारभ्य सुवर्गं लोकम् एति ॥

5.3.10 अनुवाक 10 वृष्टिसन्यादीष्टकापञ्चकाभिधानम् VERSE: 1

   वृष्टिसनीर् उप दधाति 
   वृष्टिम् एवाव रुन्द्धे 
   यद् एकधोपदध्याद् एकम् ऋतुं वर्षेत् । 
   अनुपरिहारम्̇ सादयति तस्मात् सर्वान् ऋतून् वर्षति 
   पुरोवातसनिर् असीत्य् आह । 
   एतद् वै वृष्ट्यै रूपम् । 
   रूपेणैव वृष्टिम् अव रुन्द्धे 
   संयानीभिर् वै देवा इमाँल्लोकान्त् सम् अयुस् 
   तत् संयानीनाम्̇ संयानित्वम् । 
  यत् संयानीर् उपदधाति यथाप्सु नावा संयात्य् एवम्  

VERSE: 2

   एवैताभिर् यजमान इमाँल्लोकान्त् सं याति 
   प्लवो वा एषो ऽग्नेर् यत् संयानीः । 
   यत् संयानिर् उपदधाति प्लवम् एवैतम् अग्नय उप दधाति । 
   उत यस्यैतासूपहितास्व् आपो ऽग्निम्̇ हरन्त्य् अहृत एवास्याग्निः। 
   आदित्येष्टका उप दधाति । 
   आदित्या वा एतम् भूत्यै प्रति नुदन्ते यो ऽलम् भूत्यै सन् भूतिं न प्राप्नोति । 
   आदित्याः 

VERSE: 3

   एवैनम् भूतिं गमयन्ति । 
   असौ वा एतस्यादित्यो रुचम् आ दत्ते यो ऽग्निं चित्वा न रोचते 
   यद् आदित्येष्टका उपदधात्य् असाव् एवास्मिन्न् आदित्यो रुचं दधाति 
   यथासौ देवानाम्̇ रोचत एवम् एवैष मनुष्याणाम्̇ रोचते ॥
   घृतेष्टका उप दधाति । 
   एतद् वा अग्नेः प्रियं धाम यद् घृतम् 
   प्रियेणैवैनं धाम्ना सम् अर्धयति । 

VERSE: 4

   अथो तेजसा 
   अनुपरिहारम्̇ सादयति । 
   अपरिवर्गम् एवास्मिन् तेजो दधाति 
   प्रजापतिर् अग्निम् अचिनुत 
   स यशसा व्य् आर्ध्यत 
   स एता यशोदा अपश्यत् 
   ता उपाधत्त 
   ताभिर् वै स यश आत्मन्न् अधत्त 
   यद् यशोदा उपदधाति यश एव ताभिर् यजमान आत्मन् धत्ते 
   पञ्चोप दधाति 
  पाङ्क्तः पुरुषः । 
   यावान् एव पुरुषस् तस्मिन् यशो दधाति ॥ 

5.3.11 अनुवाक 11 भूयस्कृदादीष्टकाषट्काभिधानम् VERSE: 1

   देवासुराः संयत्ता आसन् 
   कनीयाम्̇सो देवा आसन् भूयाम्̇सो ऽसुरास् 
   ते देवा एता इष्टका अपश्यन् 
   ता उपादधत 
   भूयस्कृद् असीत्य् एव भूयाम्̇सो ऽभवन् वनस्पतिभिर् ओषधीभिः । 
   वरिवस्कृद् असीतीमाम् अजयन् 
   प्राच्य् असीति प्राचीं दिशम् अजयन् । 
   ऊर्ध्वासीत्य् अमूम् अजयन् । 
   अन्तरिक्षसद् अस्य् अन्तरिक्षे सीदेत्य् अन्तरिक्षम् अजयन् 
  ततो देवा अभवन् 

VERSE: 2

   पराऽसुराः । 
   यस्यैता उपधीयन्ते भूयान् एव भवति । 
   अभीमाँल्लोकाञ् जयति 
   भवत्य् आत्मना परास्य भ्रातृव्यो भवति । 
   अप्सुषद् असि श्येनसद् असीत्य् आह । 
   एतद् वा अग्ने रूपम् । 
   रूपेणैवाग्निम् अव रुन्द्धे 
   पृथिव्यास् त्वा द्रविणे सादयामीत्य् आह । 
   इमान् एवैताभिर् लोकान् द्रविणावतः कुरुते ॥ 
  आयुष्या उप दधाति । 
 आयुर् एव  

VERSE: 3

   अस्मिन् दधाति । 
   अग्ने यत् ते परम्̇ हृन् नामेत्य् आह । 
   एतद् वा अग्नेः प्रियं धाम 
   प्रियम् एवास्य धामोपाप्नोति 
   ताव् एहि सम्̇ रभावहा इत्य् आह 
   व्य् एवैनेन परि धत्ते 
   पाञ्चजन्येष्व् अप्य् एध्य् अग्न इत्य् आह । 
   एष वा अग्निः पाञ्चजन्यो यः पञ्चचितीकस् 
   तस्माद् एवम् आह ॥ 
  ऋतव्या उप दधाति । 
   एतद् वा ऋतूनाम् प्रियं धाम यद् ऋतव्याः । 
   ऋतूनाम् एव प्रियं धामाव रुन्द्धे 
  सुमेक इत्य् आह 
  संवत्सरो वै सुमेकः 
  संवत्सरस्यैव प्रियं धामोपाप्नोति ॥ 

5.3.12 अनुवाक 12 अश्वमेधविधिः VERSE: 1

   प्रजापतेर् अक्ष्य् अश्वयत् 
   तत् परापतत् 
   तद् अश्वो ऽभवत् । 
   यद् अश्वयत् तद् अश्वस्याश्वत्वम् । 
   तद् देवा अश्वमेधेनैव प्रत्य् अदधुः । 
   एष वै प्रजापतिम्̇ सर्वं करोति यो ऽश्वमेधेन यजते 
   सर्व एव भवति 
   सर्वस्य वा एषा प्रायश्चित्तिः सर्वस्य भेषजम् । 
   सर्वं वा एतेन पाप्मानं देवा अतरन् । 
  अपि वा एतेन ब्रह्महत्याम् अतरन् । 
  सर्वम् पाप्मानम्  

VERSE: 2

   तरति तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते य उ चैनम् एवं वेद । 
   उत्तरं वै तत् प्रजापतेर् अक्ष्य् अश्वयत् 
   तस्माद् अश्वस्योत्तरतो ऽव द्यन्ति दक्षिणतो ऽन्येषाम् पशूनाम् । 
   वैतसः कटो भवति । 
   अप्सुयोनिर् वा अश्वः। 
   अप्सुजो वेतसः 
   स्व एवैनं योनौ प्रति ष्ठापयति 
   चतुष्टोम स्तोमो भवति 
   सरड्ढ वा अश्वस्य सक्थ्य् आवृहत् 
   तद् देवाश् चतुष्टोमेनैव प्रत्य् अदधुः । 
   यच् चतुष्टोम स्तोमो भवत्य् अश्वस्य सर्वत्वाय ॥ 


5.4 प्रपाठक: 4 5.4.1 अनुवाक 1 VERSE: 1

   देवासुराः संयत्ता आसन् 
   ते न व्यजयन्त 
   स एता इन्द्रस् तनूर् अपश्यत् 
   ता उपाधत्त 
   ताभिर् वै स तनुवम् इन्द्रियं वीर्यम् आत्मन्न् अधत्त 
   ततो देवा अभवन् परासुराः । 
   यद् इन्द्रतनूर् उपदधाति तनुवम् एव ताभिर् इन्द्रियं वीर्यं यजमान आत्मन् धत्ते । 
   अथो सेन्द्रम् एवाग्निम्̇ सतनुं चिनुते 
   भवत्य् आत्मना परास्य भ्रातृव्यः 

VERSE: 2

   भवति। 
   यज्ञो देवेभ्यो ऽपाक्रामत् 
   तम् अवरुधं नाशक्नुवन् 
   त एता यज्ञतनूर् अपश्यन् 
   ता उपादधत 
   ताभिर् वै ते यज्ञम् अवारुन्धत 
   यद् यज्ञतनूर् उपदधाति यज्ञम् एव ताभिर् यजमानो ऽव रुन्द्धे 
   त्रयस्त्रिम्̇शतम् उप दधाति 
   त्रयस्त्रिम्̇शद् वै देवता 
  देवता एवाव रुन्द्धे । 
अथो सात्मानम् एवाग्निम्̇ सतनुं चिनुते 
  सात्मामुष्मिम्̐ लोके 

VERSE: 3

   भवति य एवं वेद ॥
   ज्योतिष्मतीर् उप दधाति 
   ज्योतिर् एवास्मिन् दधाति । 
   एताभिर् वा अग्निश् चितो ज्वलति 
   ताभिर् एवैनम्̇ सम् इन्द्धे । 
   उभयोर् अस्मै लोकयोर् ज्योतिर् भवति ॥
   नक्षत्रेष्टका उप दधाति । 
   एतानि वै दिवो ज्योतीम्̇षि 
   तान्य् एवाव रुन्द्धे 
  सुकृतां वा एतानि ज्योतीम्̇षि यन् नक्षत्राणि 
  तान्य् एवाप्नोति । 
  अथो अनूकाशम् एवैतानि  

VERSE: 4

   ज्योतीम्̇षि कुरुते सुवर्गस्य लोकस्यानुख्यात्यै 
   यत् सम्̇स्पृष्टा उपदध्याद् वृष्ट्यै लोकम् अपि दध्याद् अवर्षुकः पर्जन्यः स्यात् । 
   असम्̇स्पृष्टा उप दधाति वृष्ट्या एव लोकं करोति वर्षुकः पर्जन्यो भवति 
   पुरस्ताद् अन्याः प्रतीचीर् उप दधाति पश्चाद् अन्याः प्राचीस् 
   तस्मात् प्राचीनानि च प्रतीचीनानि च नक्षत्राण्य् आ वर्तन्ते ॥ 

5.4.2 अनुवाक 2 ऋतव्यादीष्टकात्रयप्रोक्षणयोरभिधानम् VERSE: 1

   ऋतव्या उप दधाति । 
   ऋतूनां क्लृप्त्यै 
   द्वंद्वम् उप दधाति 
   तस्माद् द्वंद्वम् ऋतवः । 
   अधृतेव वा एषा यन् मध्यमा चितिः । 
   अन्तरिक्षम् इव वा एषा 
   द्वंद्वम् अन्यासु चितीषूप दधाति चतस्रो मध्ये धृत्यै । 
   अन्तःश्लेषणं वा एताश् चितीनां यद् ऋतव्याः । 
   यद् ऋतव्या उपदधाति चितीनां विधृत्यै । 
अवकाम् अनूप दधाति । 
  एषा वा अग्नेर् योनिः 
  सयोनिम्  

VERSE: 2

   एवाग्निं चिनुते । 
   उवाच ह विश्वामित्रः । 
   अदद् इत् स ब्रह्मणाऽन्नं यस्यैता उपधीयान्तै य उ चैना एवं वेदद् इति 
   संवत्सरो वा एतम् प्रतिष्ठायै नुदते यो ऽग्निं चित्वा न प्रतितिष्ठति 
   पञ्च पूर्वाश् चितयो भवन्त्य् अथ षष्ठीं चितिं चिनुते 
   षड् वा ऋतवः संवत्सरः। 
   ऋतुष्व् एव संवत्सरे प्रति तिष्ठति । 
   एता वै  

VERSE: 3

   अधिपत्नीर् नामेष्टकाः । 
   यस्यैता उपधीयन्ते ऽधिपतिर् एव समानानाम् भवति 
   यं द्विष्यात् तम् उपदधद् ध्यायेत् । 
   एताभ्य एवैनं देवताभ्य आ वृश्चति 
   ताजग् आर्तिम् आर्छति । 
   अङ्गिरसः सुवर्गं लोकं यन्तो या यज्ञस्य निष्कृतिर् आसीत् ताम् ऋषिभ्यः प्रत्य् औहन् 
   तद्धिरण्यम् अभवत् । 
   यद्धिरण्यशल्कैः प्रोक्षति यज्ञस्य निष्कृत्यै । 
   अथो भेषजम् एवास्मै करोति । 

VERSE: 4

   अथो रूपेणैवैनम्̇ सम् अर्धयति । 
   अथो हिरण्यज्योतिषैव सुवर्गं लोकम् एति 
   साहस्रवता प्रोक्षति 
   साहस्रः प्रजापतिः 
   प्रजापतेर् आप्त्यै । 
   इमा मे अग्न इष्टका धेनवः सन्त्व् इत्य् आह । 
   धेनूर् एवैनाः कुरुते 
   ता एनं कामदुघा अमुत्रामुष्मिम्̐ लोक उप तिष्ठन्ते ॥ 

5.4.3 अनुवाक 3 शतरुद्रीयहोमाभिधानम् VERSE: 1

   रुद्रो वा एष यद् अग्निः 
   स एतर्हि जातो यर्हि सर्वश् चितः 
   स यथा वत्सो जात स्तनम् प्रेप्सत्य् एवं वा एष एतर्हि भागधेयम् प्रेप्सति 
   तस्मै यद् आहुतिं न जुहुयाद् अध्वर्युं च यजमानं च ध्यायेत् । 
   शतरुद्रीयं जुहोति 
   भागधेयेनैवैनम्̇ शमयति 
   नाऽऽर्तिम् आर्छत्य् अध्वर्युर् न यजमानः । 
   यद् ग्राम्याणाम् पशूनाम्  

VERSE: 2

   पयसा जुहुयाद् ग्राम्यान् पशूञ् छुचार्पयेत् । 
   यद् आरण्यानाम् आरण्यान् । 
   जर्तिलयवाग्वा वा जुहुयाद् गवीधुकयवाग्वा वा 
   न ग्राम्यान् पशून् हिनस्ति नारण्यान् 
   अथो खल्व् आहुः । 
   अनाहुतिर् वै जर्तिलाश् च गवीधुकाश् चेति । 
   अजक्षीरेण जुहोति । 
   आग्नेयी वा एषा यद् अजा । 
   आहुत्यैव जुहोति 
  न ग्राम्यान् पशून् हिनस्ति नारण्यान् ॥
  अङ्गिरसः सुवर्गं लोकं यन्तः  

VERSE: 3

   अजायां घर्मम् प्रासिञ्चन् । 
   सा शोचन्ती पर्णम् पराऽजिहीत 
   सो ऽर्को ऽभवत् 
   तद् अर्कस्यार्कत्वम् 
   अर्कपर्णेन जुहोति सयोनित्वाय । 
   उदङ् तिष्ठञ् जुहोति । 
   एषा वै रुद्रस्य { दिक् ^ दिश् } 
   स्वायाम् एव दिशि रुद्रं निरवदयते 
   चरमायाम् इष्टकायां जुहोति । 
   अन्तत एव रुद्रं निरवदयते 
  त्रेधाविभक्तं जुहोति 
  त्रय इमे लोकाः
  इमान् एव लोकान्त् समावद्वीर्यान् करोति । 
   इयत्य् अग्रे जुहोति । 

VERSE: 4

   अथेयत्य् अथेयति 
   त्रय इमे लोका 
   एभ्य एवैनं लोकेभ्यः शमयति 
   तिस्र उत्तरा आहुतीर् जुहोति 
   षट् सम् पद्यन्ते 
   षड् वा ऋतव 
   ऋतुभिर् एवैनम्̇ शमयति 
   यद् अनुपरिक्रामं जुहुयाद् अन्तरवचारिणम्̇ रुद्रं कुर्यात् । 
   अथो खल्व् आहुः 
 कस्यां वाऽह दिशि रुद्रः कस्यां वेति । 
  अनुपरिक्रामम् एव होतव्यम् 
  अपरिवर्गम् एवैनम्̇ शमयति ॥ 

VERSE: 5

   एता वै देवताः सुवर्ग्या या उत्तमास् 
   ता यजमानं वाचयति 
   ताभिर् एवैनम्̇ सुवर्गं लोकं गमयति 
   यं द्विष्यात् तस्य संचरे पशूनां न्य् अस्येत् । 
   यः प्रथमः पशुर् अभितिष्ठति स आर्तिम् आर्छति ॥ 

5.4.4 अनुवाक 4 परिषेचनाद्यभिधानम् VERSE: 1

   अश्मन्न् ऊर्जम् इति परि षिञ्चति 
   मार्जयत्य् एवैनम् 
   अथो तर्पयत्य् एव 
   स एनं तृप्तो ऽक्षुध्यन्न् अशोचन्न् अमुष्मिम्̐ लोक उप तिष्ठते 
   तृप्यति प्रजया पशुभिर् य एवं वेद 
   तां न इषमूर्जं धत्त मरुतः सम्̇रराणा इत्य् आह । 
   अन्नं वा ऊर्ज् 
   अन्नम् मरुतः । 
   अन्नम् एवाव रुन्द्धे । 
 अश्मम्̇स् ते क्षुध् । 
 अमुं ते शुक् 

VERSE: 2

   ऋच्छतु यं द्विष्म इत्य् आह 
   यम् एव द्वेष्टि तम् अस्य क्षुधा च शुचा चार्पयति 
   त्रिः परिषिञ्चन् पर्य् एति 
   त्रिवृद् वा अग्निः । 
   यावान् एवाग्निस् तस्य शुचम्̇ शमयति 
   त्रिः पुनः पर्य् एति 
   षट् सम् पद्यन्ते 
   षड् वा ऋतवः । 
   ऋतुभिर् एवास्य शुचम्̇ शमयति । 
   अपां वा एतत् पुष्पं यद् वेतसः । 
  अपाम्  

VERSE: 3

   शरो ऽवकाः । 
   वेतसशाखया चावकाभिश् च वि कर्षति । 
   आपो वै शान्ताः 
   शान्ताभिर् एवास्य शुचम्̇ शमयति 
   यो वा अग्निं चितम् प्रथमः पशुर् अधिक्रामतीश्वरो वै तम्̇ शुचा प्रदहः । 
   मण्डूकेन वि कर्षति । 
   एष वै पशूनाम् अनुपजीवनीयः। 
   न वा एष ग्राम्येषु पशुषु हितो नारण्येषु 
   तम् एव शुचार्पयति । 

0 अष्टाभिर् वि कर्षति

VERSE: 4

   अष्टाक्षरा गायत्री 
   गायत्रो ऽग्निः । 
   यावान् एवाग्निर् तस्य शुचम्̇ शमयति 
   पावकवतीभिः । 
   अन्नं वै पावको 
   अन्नेनैवास्य शुचम्̇ शमयति 
   मृत्युर् वा एष यद् अग्निः
   ब्रह्मण एतद् रूपं यत् कृष्णाजिनम् । 
   कार्ष्णी उपानहाव् उप मुञ्चते 
   ब्रह्मणैव मृत्योर् अन्तर् धत्ते 
   अन्तर् मृत्योर् धत्ते । 

2 अन्तर् अन्नाद्याद् इत्य् आहुः। 3 अन्याम् उपमुञ्चते ऽन्यां नान्तः

VERSE: 5

   एव मृत्योर् धत्ते ऽवान्नाद्यम्̇ रुन्द्धे 
   नमस् ते हरसे शोचिष इत्य् आह 
   नमस्कृत्य हि वसीयाम्̇सम् उपचरन्ति । 
   अन्यं ते अस्मत् तपन्तु हेतय इत्य् आह 
   यम् एव द्वेष्टि तम् अस्य शुचार्पयति 
   पावको अस्मभ्यम्̇ शिवो भवेत्य् आह । 
   अन्नं वै पावको 
   अन्नम् एवाव रुन्द्धे 
   द्वाभ्याम् अधि क्रामति प्रतिष्ठित्यै । 
  अपस्यवतीभ्याम्̇ शान्त्यै ॥ 

5.4.5 अनुवाक 5

व्याघारणाद्यभिधानम्

VERSE: 1

   नृषदे वड् इति व्याघारयति 
   पङ्क्त्याहुत्या यज्ञमुखम् आ रभते । 
   अक्ष्णया व्याघारयति 
   तस्माद् अक्ष्णया पशवो ऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै 
   यद् वषट्कुर्याद् यातयामाऽस्य वषट्कारः स्यात् । 
   यन् न वषट्कुर्याद् रक्षाम्̇सि यज्ञम्̇ हन्युः । 
   वड् इत्य् आह परोऽक्षम् एव वषट् करोति 
   नास्य यातयामा वषट्कारो भवति न यज्ञम्̇ रक्षाम्̇सि घ्नन्ति 
   हुतादो वा अन्ये देवाः 

VERSE: 2

   अहुतादो ऽन्ये ।
   तान् अग्निचिद् एवोभयान् प्रीणाति 
   ये देवा देवानाम् इति दध्ना मधुमिश्रेणावोक्षति 
   हुतादश् चैव देवान् अहुतादश् च यजमानः प्रीणाति 
   ते यजमानम् प्रीणन्ति 
   दध्नैव हुतादः प्रीणाति मधुषाऽहुतादः । 
   ग्राम्यं वा एतद् अन्नं यद् दध्य् आरण्यम् मधु 
   यद् दध्ना मधुमिश्रेणावोक्षत्य् उभयस्यावरुद्ध्यै 
   ग्रुमुष्टिनाऽवोक्षति 
   प्राजापत्यः  

VERSE: 3

   वै ग्रुमुष्टिः सयोनित्वाय 
   द्वाभ्याम् प्रतिष्ठित्यै । 
   अनुपरिचारम् अवोक्षति । 
   अपरिवर्गम् एवैनान् प्रीणाति 
   वि वा एष प्राणैः प्रजया पशुभिर् ऋध्यते यो ऽग्निं चिन्वन्न् अधिक्रामति 
   प्राणदा अपानदा इत्य् आह 
   प्राणान् एवात्मन् धत्ते 
   वर्चोदा वरिवोदा इत्य् आह 
   प्रजा वै वर्चः पशवो वरिवः 
   प्रजाम् एव पशून् आत्मन् धत्ते । 
   इन्द्रो वृत्रम् अहन् 
   तं वृत्रः  

VERSE: 4

   हतः षोडशभिर् भोगैर् असिनात् 
   स एताम् अग्नये ऽनीकवत आहुतिम् अपश्यत् 
   ताम् अजुहोत् 
   तस्याग्निर् अनीकवान्त् स्वेन भागधेयेन प्रीतः षोडशधा वृत्रस्य भोगान् अप्य् अदहत् । 
   वैश्वकर्मणेन पाप्मनो निर् अमुच्यत 
   यद् अग्नये ऽनीकवत आहुतिं जुहोत्य् अग्निर् एवास्यानीकवान्त् स्वेन भागधेयेन प्रीतः पाप्मानम् अपि दहति 
   वैश्वकर्मणेन पाप्मनो निर् मुच्यते 
   यं कामयेत 
   चिरम् पाप्मनः  

VERSE: 5

   निर् मुच्येतेत्य् एकैकं तस्य जुहुयात् । 
   चिरम् एव पाप्मनो निर् मुच्यते 
   यं कामयेत 
   ताजक् पाप्मनो निर् मुच्येतेति सर्वाणि तस्यानुद्रुत्य जुह्यात् 
   ताजग् एव पाप्मनो निर् मुच्यते । 
   अथो खलु नानैव सूक्ताभ्यां जुहोति 
   नानैव सूक्तयोर् वीर्यं दधाति । 
   अथो प्रतिष्ठित्यै ॥ 

5.4.6 अनुवाक 6

समित् आधानादिविधिः

VERSE: 1

   उद् एनम् उत्तरां नयेति समिध आ दधाति 
   यथा जनं यते ऽवसं करोति तादृग् एव तत् 
   तिस्र आ दधाति 
   त्रिवृद् वा अग्निः । 
   यावान् एवाग्निस् तस्मै भागधेयं करोति । 
   औदुम्बरीर् भवन्ति । 
   ऊर्ग् वा उदुम्बरः । 
   ऊर्जम् एवास्मा अपि दधाति । 
   उद् उ त्वा विश्वे देवा इत्य् आह 

0 प्राणा वै विश्वे देवाः 1 प्राणैः

VERSE: 2

   एवैनम् उद् यच्छते । 
   अग्ने भरन्तु चित्तिभिर् इत्य् आह 
   यस्मा एवैनं चित्तायोद्यच्छते तेनैवैनम्̇ सम् अर्धयति 
   पञ्च दिशो दैवीर् यज्ञम् अवन्तु देवीर् इत्य् आह 
   दिशो ह्य् एषो ऽनु प्रच्यवते । 
   अपामतिं दुर्मतिम् बाधमाना इत्य् आह रक्षसाम् अपहत्यै 
   रायस् पोषे यज्ञपतिम् आभजन्तीर् इत्य् आह 
   पशवो वै रायस् पोषः । 

VERSE: 3

   पशून् एवाव रुन्द्धे 
   षड्भिर् हरति 
   षड् वा ऋतवः । 
   ऋतुभिर् एवैनम्̇ हरति। 
   द्वे परिगृह्यवती भवतो रक्षसाम् अपहत्यै। 
   सूर्यरश्मिर् हरिकेशः पुरस्ताद् इत्य् आह 
   प्रसूत्यै ।
   ततः पावका आशिषो नो जुषन्ताम् इत्य् आह । 
   अन्नं वै पावकः । 
  अन्नम् एवाव रुन्द्धे ।
   देवासुराः संयत्ता आसन् 
   ते देवा एतद् अप्रतिरथम् अपश्यन् 
   तेनैव ते ऽप्रति 

VERSE: 4

   असुरान् अजयन् ।
   तद् अप्रतिरथस्याप्रतिरथत्वम् । 
   यद् अप्रतिरथं द्वितीयो होताऽन्वाहाप्रत्य् एव तेन यजमानो भ्रातृव्याञ् जयति । 
   अथो अनभिजितम् एवाभि जयति 
   दशर्चम् भवति 
   दशाक्षरा { विराड् ^ विराज् } 
   विराजेमौ लोकौ विधृतौ । 
   अनयोर् लोकयोर् विधृत्यै । 
   अथो दशाक्षरा { विराड् ^ विराज् } 
   अन्नं { विराड् ^ विराज् } 
  विराज्य् एवान्नाद्ये प्रति तिष्ठति । 
  असद् इव वा अन्तरिक्षम् ।
   अन्तरिक्षम् इवाग्नीध्रम्। 
 आग्नीध्रे  

VERSE: 5

   अश्मानं नि दधाति 
   सत्त्वाय ।
   द्वाभ्याम् 
   प्रतिष्ठित्यै 
   विमान एष दिवो मध्य आस्त इत्य् आह 
   व्य् एवैतया मिमीते 
   मध्ये दिवो निहितः पृश्निर् अश्मेत्य् आह । 
   अन्नं वै पृश्नि । 
   अन्नम् एवाव रुन्द्धे 
   चतसृभिर् आ पुच्छाद् एति 
   चत्वारि छन्दाम्̇सि 
   छन्दोभिर् एव । 
  इन्द्रं विश्वा अवीवृधन्न् इत्य् आह 
  वृद्धिम् एवोपावर्तते 
  वाजानाम्̇ सत्पतिम् पतिम्  

VERSE: 6

   इत्य् आह । 
   अन्नं वै वाजः । 
   अन्नम् एवाव रुन्द्धे 
   सुम्नहूर् यज्ञो देवाम्̇ आ च वक्षद् इत्य् आह 
   प्रजा वै पशवः सुम्नम् 
   प्रजाम् एव पशून् आत्मन् धत्ते 
   यक्षद् अग्निर् देवो देवाम्̇ आ च वक्षद् इत्य् आह 
   स्वगाकृत्यै 
   वाजस्य मा प्रसवेनोद्ग्राभेणोद् अग्रभीद् इत्य् आह । 
  असौ वा आदित्य उद्यन्न् उद्ग्राभ एष निम्रोचन् निग्राभः । 
   ब्रह्मणैवात्मानम् उद्ग्रृह्णाति ब्रह्मणा भ्रातृव्यं नि गृह्णाति ॥ 

5.4.7 अनुवाक 7

चितौ वह्निक्षेपविधिः

VERSE: 1

   प्राचीम् अनु प्रदिशम् प्रेहि विद्वान् इत्य् आह 
   देवलोकम् एवैतयोपावर्तते 
   क्रमध्वम् अग्निना नाकम् इत्य् आह । 
   इमान् एवैतया लोकान् क्रमते 
   पृथिव्या अहम् उद् अन्तरिक्षम् आरुहम् इत्य् आह । 
   इमान् एवैतया लोकान्त् समारोहति 
   सुवर् यन्तो नापेक्षन्त इत्य् आह 
   सुवर्गम् एवैतया लोकम् एति । 
   अग्ने प्रेहि  

VERSE: 2

   प्रथमो देवयताम् इत्य् आह । 
   उभयेष्व् एवैतया देवमनुष्येषु चक्षुर् दधाति 
   पञ्चभिर् अधि क्रामति 
   पाङ्क्तो यज्ञः । 
   यावान् एव यज्ञस् तेन सह सुवर्गं लोकम् एति 
   नक्तोषासेति पुरोऽनुवाक्याम् अन्व् आह 
   प्रत्त्यै । 
   अग्ने सहस्राक्षेत्य् आह 
   साहस्रः प्रजापतिः 
   प्रजापतेर् आप्त्यै 
  तस्मै ते विधेम वाजाय स्वाहेत्य् आह । 
   अन्नं वै वाजः । 
  अन्नम् एवाव  

VERSE: 3

   रुन्द्धे ।
   दध्नः पूर्णाम् औदुम्बरीम्̇ स्वयमातृण्णायां जुहोति । 
   ऊर्ग् वै दधि । 
   ऊर्ग् उदुम्बरः । 
   असौ स्वयमातृण्णा । 
   अमुष्याम् एवोर्जं दधाति 
   तस्माद् अमुतो ऽर्वाचीमूर्जम् उप जीवामस् 
   तिसृभिः सादयति 
   त्रिवृद् वा अग्निः । 
   यावान् एवाग्निस् तम् प्रतिष्ठां गमयति 
  प्रेद्धो अग्ने दीदिहि पुरो न इत्य् औदुम्बरीम् आ दधाति । 
   एष वै सूर्मी कर्णकावती । 
   एतया ह स्म  

VERSE: 4

   वै देवा असुराणाम्̇ शततर्हाम्̇स् तृम्̇हन्ति 
   यद् एतया समिधम् आदधाति वज्रम् एवैतच् छतघ्नीं यजमानो भ्रातृव्याय प्र हरति स्तृत्यै । 
   अच्छम्बट्कारम् । 
   विधेम ते परमे जन्मन्न् अग्न इति वैकङ्कतीम् आ दधाति 
   भा एवाव रुन्द्धे 
   ताम्̇ सवितुर् वरेण्यस्य चित्राम् इति शमीमयीम्̇ शान्त्यै । 
   अग्निर् वा ह वा अग्निचितं दुहे ऽग्निचिद् वाग्निं दुहे 
   ताम्  

VERSE: 5

   सवितुर् वरेण्यस्य चित्राम् इत्य् आह । 
   एष वा अग्नेर् दोहस् 
   तम् अस्य कण्व एव श्रायसो ऽवेत् 
   तेन ह समैनम्̇ स दुहे 
   यद् एतया समिधम् आदधात्य् अग्निचिद् एव तद् अग्निं दुहे 
   सप्त ते अग्ने समिधः सप्त जिह्वा इत्य् आह 
   सप्तैवास्य साप्तानि प्रीणाति 
   पूर्णया जुहोति 
   पूर्ण इव हि प्रजापतिः 
  प्रजापतेः 

VERSE: 6

   आप्त्यै 
   न्यूनया जुहोति 
   न्यूनाद् धि प्रजापतिः प्रजा असृजत 
   प्रजानाम्̇ सृष्ट्यै । 
   अग्निर् देवेभ्यो निलायत 
   स दिशो ऽनु प्राविशत् । 
   जुह्वन् मनसा दिशो ध्यायेत् । 
   दिग्भ्य एवैनम् अव रुन्द्धे 
   दध्ना पुरस्ताज् जुहोत्य् आज्येनोपरिष्टात् 
   तेजश् चैवास्मा इन्द्रियं च समीची दधाति 
   द्वादशकपालो वैश्वानरो भवति 
   द्वादश मासाः संवत्सरः 
   संवत्सरो ऽग्निर् वैश्वानरः 
   साक्षात् 

VERSE: 7

   एव वैश्वानरम् अव रुन्द्धे 
   यत् प्रयाजानूयाजान् कुर्याद् विकस्तिः सा यज्ञस्य 
   दर्विहोमं करोति यज्ञस्य प्रतिष्ठित्यै 
   राष्ट्रं वै वैश्वानरो विण् मरुतः । 
   वैश्वानरम्̇ हुत्वा मारुताञ् जुहोति 
   राष्ट्र एव विशम् अनु बध्नाति । 
   उच्चैर् वैश्वानरस्या श्रावयत्य् उपाम्̇शु मारुताञ् जुहोति 
   तस्माद् राष्ट्रं विशम् अति वदति 
   मारुता भवन्ति 
   मरुतो वै देवानां विशः । 
   देवविशेनैवास्मै मनुष्य विशम् अव रुन्द्धे 
   सप्त भवन्ति 
   सप्तगणा वै मरुतः । 
   गणश एव विशम् अव रुन्द्धे 
   गणेन गणम् अनुद्रुत्य जुहोति 
   विशम् एवास्मा अनु वर्त्मानं करोति ॥ 

5.4.8 अनुवाक 8 वसोर्धाराभिधानम् VERSE: 1

   वसोर् धारां जुहोति 
   वसोर् मे धारासद् इति वा एषा हूयते 
   घृतस्य वा एनम् एषा धारामुष्मिम्̐ लोके पिन्वमानोप तिष्ठते । 
   आज्येन जुहोति 
   तेजो वा आज्यं तेजो वसोर् धारा 
   तेजसैवास्मै तेजो ऽव रुन्द्धे । 
   अथो कामा वै वसोर् धारा 
   कामान् एवाव रुन्द्धे 
   यं कामयेत 
   प्राणान् अस्यान्नाद्यं वि 

VERSE: 2

   छिन्द्याम् इति विग्राहं तस्य जुहुयात् 
   प्राणान् एवास्यान्नाद्यं वि च्छिनत्ति 
   यं कामयेत 
   प्राणान् अस्यान्नाद्यम्̇ सं तनुयाम् इति संततां तस्य जुहुयात् 
   प्राणान् एवास्यान्नाद्यम्̇ सं तनोति 
   द्वादश द्वादशानि जुहोति द्वादश मासाः संवत्सरः 
   संवत्सरेणैवास्मा अन्नम् अव रुन्द्धे । 
   अन्नं च मे ऽक्षुच् च म इत्य् आह । 
   एतद् वै 

VERSE: 3

   अन्नस्य रूपम् । 
   रूपेणैवान्नम् अव रुन्द्धे । 
   अग्निश् च म आपश् च म इत्य् आह । 
   एषा वा अन्नस्य योनिः 
   सयोन्य् एवान्नम् अव रुन्द्धे । 
   अर्धेन्द्राणि जुहोति 
   देवता एवाव रुन्द्धे 
   यत् सर्वेषाम् अर्धम् इन्द्रः प्रति तस्माद् इन्द्रो देवतानाम् भूयिष्ठभाक्तमः । 
   इन्द्रम् उत्तरम् आह । 
   इन्द्रियम् एवास्मिन्न् उपरिष्टाद् दधाति 
   यज्ञायुधानि जुहोति 
   यज्ञः  

VERSE: 4

   वै यज्ञायुधानि 
   यज्ञम् एवाव रुन्द्धे । 
   अथो एतद् वै यज्ञस्य रूपम् । 
   रूपेणैव यज्ञम् अव रुन्द्धे । 
   अवभृथश् च मे स्वगाकारश् च म इत्य् आह 
   स्वगाकृत्यै । 
   अग्निश् च मे घर्मश् च म इत्य् आह । 
   एतद् वै ब्रह्मवर्चसस्य रूपम् । 
   रूपेणैव ब्रह्मवर्चसम् अव रुन्द्धे । 
  ऋक् च मे साम च म इत्य् आह । 

VERSE: 5

   एतद् वै छन्दसाम्̇ रूपम् । 
   रूपेणैव छन्दाम्̇स्य् अव रुन्द्धे 
   गर्भाश् च मे वत्साश् च म इत्य् आह । 
   एतद् वै पशूनाम्̇ रूपम् । 
   रूपेणैव पशून् अव रुन्द्धे 
   कल्पाञ् जुहोति । 
   अक्लृप्तस्य क्लृप्त्यै 
   युग्मदयुजे जुहोति 
   मिथुनत्वाय । 

0 उत्तरावती भवतः । 1 अभिक्रान्त्यै । 2 एका च मे तिस्रश् च म इत्य् आह 3 देवछन्दसं वा एका च तिस्रश् च ॥

VERSE: 6

   मनुष्यछन्दसं चतस्रश् चाष्टौ च 
   देवछन्दसं चैव मनुष्यछन्दसं चाव रुन्द्धे । 
   आ त्रयस्त्रिम्̇शतो जुहोति 
   त्रयस्त्रिम्̇शद् वै देवताः । 
   देवता एवाव रुन्द्धे । 
   आष्टाचत्वारिम्̇शतो जुहोति । 
   अष्टाचत्वारिम्̇शदक्षरा जगती 
   जागताः पशवः । 
   जगत्यैवास्मै पशून् अव रुन्द्धे 
   वाजश् च प्रसवश् चेति द्वादशं जुहोति 
   द्वादश मासाः संवत्सरः 
   संवत्सर एव प्रति तिष्ठति ॥ 

5.4.9 अनुवाक 9

वाजप्रसवीयाभिधानम्

VERSE: 1

   अग्निर् देवेभ्यो ऽपाक्रामद् भागधेयम् इच्छमानस् 
   तं देवा अब्रुवन् । 
   उप न आ वर्तस्व हव्यं नो वहेति 
   सो ऽब्रवीत् । 
   वरं वृणै मह्यम् एव वाजप्रसवीयं जुहवन्न् इति 
   तस्माद् अग्नये वाजप्रसवीयं जुह्वति 
   यद् वाजप्रसवीयं जुहोत्य् अग्निम् एव तद् भागधेयेन सम् अर्धयति । 
   अथो अभिषेक एवास्य { स ^ सस् } 
   चतुर्दशभिर् जुहोति 
   सप्त ग्राम्या ओषधयः सप्त  

VERSE: 2

   आरण्या। 
   उभयीषाम् अवरुद्ध्यै । 
   अन्नस्यान्नस्य जुहोति । 
   अन्नस्यान्नस्यावरुद्ध्यै । 
   औदुम्बरेण स्रुवेण जुहोति । 
   ऊर्ग् वा उदुम्बर ऊर्ग् अन्नम् 
   ऊर्जैवास्मा ऊर्जम् अन्नम् अव रुन्द्धे । 
   अग्निर् वै देवानाम् अभिषिक्तो ऽग्निचिन् मनुष्याणाम् । 
   तस्माद् अग्निचिद् वर्षति न धावेत् । 
   अवरुद्धम्̇ ह्य् अस्यान्नम् 
  अन्नम् इव खलु वै वर्षम् । 
  यद् धावेद् अन्नाद्याद् धावेत् । 
   उपावर्तेत । 
   अन्नाद्यम् एवाभि 

VERSE: 3

   उपावर्तते ।
   नक्तोषासेति कृष्णायै श्वेतवत्सायै पयसा जुहोति । 
   अह्नैवास्मै रात्रिम् प्र दापयति रात्रियाऽहर् 
   अहोरात्रे एवास्मै प्रत्ते कामम् अन्नाद्यं दुहाते ।
   राष्ट्रभृतो जुहोति 
   राष्ट्रम् एवाव रुन्द्धे 
   षड्भिर् जुहोति 
   षड् वा ऋतवः  । 
   ऋतुष्व् एव प्रति तिष्ठति 
   भुवनस्य पत इति रथमुखे पञ्चाहुतीर् जुहोति 
   वज्रो वै रथः । 
   वज्रेणैव दिशः 

VERSE: 4

   अभि जयति । 
   अग्निचितम्̇ ह वा अमुष्मिम्̐ लोके वातो ऽभि पवते 
   वातनामानि जुहोति । 
   अभ्य् एवैनम् अमुष्मिम्̐ लोके वातः पवते 
   त्रीणि जुहोति 
   त्रय इमे लोकाः । 
   एभ्य एव लोकेभ्यो वातम् अव रुन्द्धे 
   समुद्रो ऽसि नभस्वान् इत्य् आह । 
   एतद् वै वातस्य रूपम् । 
   रूपेणैव वातम् अव रुन्द्धे । 
   अञ्जलिना जुहोति 
   न ह्य् एतेषाम् अन्यथाहुतिर् अवकल्पते ॥ 

5.4.10 अनुवाक 10 अग्निसंयोजनाभिधानम् VERSE: 1

   सुवर्गाय वै लोकाय देवरथो युज्यते यत्राकूताय मनुष्यरथ एष खलु वै देवरथो यद् अग्निर् अग्निं युनज्मि शवसा घृतेनेत्य् आह युनक्त्य् एवैनम्̇ स एनं युक्तः सुवर्गं लोकम् अभि वहति 
   यत् सर्वाभिः पञ्चभिर् युञ्ज्याद् युक्तो ऽस्याग्निः प्रच्युतः स्याद् अप्रतिष्ठिता आहुतयः स्युर् अप्रतिष्ठिता स्तोमा अप्रतिष्ठितान्य् उक्थानि तिसृभिः प्रातःसवने ऽभि मृशति त्रिवृत्  

VERSE: 2

   वा अग्निर् यावान् एवाग्निस् तं युनक्ति यथानसि युक्त आधीयत एवम् एव तत् प्रत्य् आहुतयस् तिष्ठन्ति प्रति स्तोमाः प्रत्य् उक्थानि। 
   यज्ञायज्ञियस्य स्तोत्रे द्वाभ्याम् अभि मृशत्य् एतावान् वै यज्ञो यावान् अग्निष्टोमो भूमा त्वा अस्यात ऊर्ध्वः क्रियते यावान् एव यज्ञस् तम् अन्ततो ऽन्वारोहति द्वाभ्याम् प्रतिष्ठित्या एकयाऽप्रस्तुतम् भवत्य् अथ  

VERSE: 3

   अभि मृशत्य् उपैनम् उत्तरो यज्ञो नमत्य् अथो संतत्यै 
   प्र वा एषो ऽस्माल् लोकाच् च्यवते यो ऽग्निं चिनुते न वा एतस्यानिष्टक आहुतिर् अव कल्पते यां वा एषो ऽनिष्टक आहुतिं जुहोति 
   स्रवति वै सा ताम्̇ स्रवन्तीं यज्ञो ऽनु परा भवति यज्ञं यजमानो यत् पुनश्चितिं चिनुत आहुतीनाम् प्रतिष्ठित्यै प्रत्य् आहुतयस् तिष्ठन्ति  

VERSE: 4

   न यज्ञः पराभवति न यजमानः । 
   अष्टाव् उप दधात्य् अष्टाक्षरा गायत्री गायत्रेणैवैनं छन्दसा चिनुते यद् एकादश त्रैष्टुभेन यद् द्वादश जागतेन छन्दोभिर् एवैनं चिनुते 
   नपात्को वै नामैषो ऽग्निर् यत् पुनश्चितिर् य एवं विद्वान् पुनश्चितिं चिनुत आ तृतीयात् पुरुषाद् अन्नम् अत्ति 
   यथा वै पुनराधेय एवम् पुनश्चितिर् यो ऽग्न्याधेयेन न 

VERSE: 5

   ऋध्नोति स पुनराधेयम् आ धत्ते यो ऽग्निं चित्वा नर्ध्नोति स पुनश्चितिं चिनुते यत् पुनश्चितिं चिनुत ऋद्ध्यै । 
   अथो खल्व् आहुर् न चेतव्येति रुद्रो वा एष यद् अग्निर् यथा व्याघ्रम्̇ सुप्तम् बोधयति तादृग् एव तत् । 
   अथो खल्व् आहुश् चेतव्येति यथा वसीयाम्̇सम् भागधेयेन बोधयति तादृग् एव तत् । 
   मनुर् अग्निम् अचिनुत तेन नार्ध्नोत् स एताम् पुनश्चितिम् अपश्यत् ताम् अचिनुत तया वै स आर्ध्नोद् यत् पुनश्चितिं चिनुत ऋद्ध्यै ॥ 

5.4.11 अनुवाक 11

काम्यचितीनामभिधानम्

VERSE: 1

   छन्दश्चितं चिन्वीत पशुकामः पशवो वै छन्दाम्̇सि पशुमान् एव भवति 
   श्येनचितं चिन्वीत सुवर्गकामः श्येनो वै वयसाम् पतिष्ठः श्येन एव भूत्वा सुवर्गं लोकम् पतति 
   कङ्कचितं चिन्वीत यः कामयेत शीर्षण्वान् अमुष्मिम्̐ लोके स्याम् इति शीर्षण्वान् एवामुष्मिम्̐ लोके भवति । 
   अलजचितं चिन्वीत चतुःसीतम् प्रतिष्ठाकामश् चतस्रो दिशो दिक्ष्व् एव प्रति तिष्ठति 
   प्रउगचितं चिन्वीत भ्रातृव्यवान् प्र  

VERSE: 2

   एव भ्रातृव्यान् नुदते । 
   उभयतःप्रौगं चिन्वीत यः कामयेत प्र जातान् भ्रातृव्यान् नुदेय प्रतिजनिष्यमाणान् इति प्रैव जातान् भ्रातृव्यान् नुदते प्रति जनिष्यमाणान् 
   रथचक्रचितं चिन्वीत भ्रातृव्यवान् वज्रो वै रथो वज्रम् एव भ्रातृव्येभ्यः प्र हरति 
   द्रोणचितं चिन्वीतान्नकामो द्रोणे वा अन्नम् भ्रियते सयोन्य् एवान्नम् अव रुन्द्धे 
   समूह्यं चिन्वीत पशुकामः पशुमान् एव भवति ॥ 

VERSE: 3

   परिचाय्यं चिन्वीत ग्रामकामो ग्राम्य् एव भवति 
   श्मशानचितं चिन्वीत यः कामयेत पितृलोक ऋध्नुयाम् इति पितृलोक एवर्ध्नोति 
   विश्वामित्रजमदग्नी वसिष्ठेनास्पर्धेताम्̇ स एता जमदग्निर् विहव्या अपश्यत् ता उपाधत्त ताभिर् वै स वसिष्ठस्येन्द्रियं वीर्यम् अवृङ्क्त यद् विहव्या उपदधातीन्द्रियम् एव ताभिर् वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते 
   होतुर् धिष्णिय उप दधाति यजमानायतनं वै ॥ 

VERSE: 4

   होता स्व एवास्मा आयतन इन्द्रियं वीर्यम् अव रुन्द्धे 
   द्वादशोप दधाति द्वादशाक्षरा जगती जागताः पशवो जगत्यैवास्मै पशून् अव रुन्द्धे । 
   अष्टावष्टाव् अन्येषु धिष्णियेषूप दधात्य् अष्टाशफाः पशवः पशून् एवाव रुन्द्धे 
   षण् मार्जालीये षड् वा ऋतव ऋतवः खलु वै देवाः पितर ऋतून् एव देवान् पितॄन् प्रीणाति ॥ 

5.4.12 अनुवाक 12 अश्वमेधीयस्तोत्रसम्बन्धि ऋगाद्यभिधानम् VERSE: 1

   पवस्व वाजसातय इत्य् अनुष्टुक् प्रतिपद् भवति 
   तिस्रो ऽनुष्टुभश् चतस्रो गायत्रियः । 
   यत् तिस्रो ऽनुष्टुभस् तस्माद् अश्वस् त्रिभिस् तिष्ठम्̇स् तिष्ठति 
   यच् चतस्रो गायत्रियस् तस्मात् सर्वाम्̇श् चतुरः पदः प्रतिदधत् पलायते 
   परमा वा एषा छन्दसां यद् { अनुष्टुक् ^ अनुष्टुभ् } 
   परमश् चतुष्टोम स्तोमानाम् 
   परमस् त्रिरात्रो यज्ञानाम् 
   परमो ऽश्वः पशूनाम् 
   परमेणैवैनम् परमतां गमयति । 

0 एकविम्̇शम् अहर् भवति ॥

VERSE: 2

   यस्मिन्न् अश्व आलभ्यते 
   द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्य एकविम्̇श एष प्रजापतिः 
   प्राजापत्यो ऽश्वस् 
   तम् एव साक्षाद् ऋध्नोति 
   शक्वरयः पृष्ठम् भवन्ति । 
   अन्यदन्यच् छन्दः । 
   अन्येऽन्ये वा एते पशव आ लभ्यन्त उतेव ग्राम्या उतेवाऽऽरण्याः । 
   यच् छक्वरयः पृष्ठम् भवन्त्य् अश्वस्य सर्वत्वाय 
   पार्थुरश्मम् ब्रह्मसामम् भवति 

0 रश्मिना वा अश्वः

VERSE: 3

   यतः। 
   ईश्वरो वा अश्वो ऽयतो ऽप्रतिष्ठितः पराम् परावतं गन्तोः । 
   यत् पार्थुरश्मम् ब्रह्मसामम् भवत्य् अश्वस्य यत्यै धृत्यै ॥
   संकृत्य् अच्छावाकसामम् भवति । 
   उत्सन्नयज्ञो वा एष यद् अश्वमेधः 
   कस् तद् वेदेत्य् आहुर् यदि सर्वो वा क्रियते न वा सर्व इति 
   यत् संकृत्य् अच्छावाकसामम् भवत्य् अश्वस्य सर्वत्वाय पर्याप्त्या अनन्तरायाय 
   सर्वस्तोमो ऽतिरात्र उत्तमम् अहर् भवति सर्वस्याप्त्यै सर्वस्य जित्यै 
   सर्वम् एव तेनाप्नोति सर्वं जयति ॥ 


5.5 प्रपाठक: 5 5.5.1 अनुवाक 1

दीक्षणीयेष्टकाभिधानम्

VERSE: 1

   यद् एकेन सम्̇स्थापयति यज्ञस्य संतत्या अविच्छेदाय । 
   ऐन्द्राः पशवो ये मुष्कराः । 
   यद् ऐन्द्राः सन्तो ऽग्निभ्य आलभ्यन्ते देवताभ्यः समदं दधाति । 
   आग्नेयीस् त्रिष्टुभो याज्यानुवाक्याः कुर्यात् । 
   यद् अग्नेयीस् तेनाग्नेयाः । 
   यत् त्रिष्टुभस् तेनैन्द्राः 
   समृद्ध्यै 
   न देवताभ्यः समदं दधाति 
   वायवे नियुत्वते तूपरम् आ लभते तेजो ऽग्नेर् वायुस् 
   तेजस एष आ लभ्यते 
   तस्माद् यद्रियङ्  वायुः ॥ 

VERSE: 2

   वाति तद्रियङ्ङ् अग्निर् दहति 
   स्वम् एव तत् तेजो ऽन्व् एति 
   यन् न नियुत्वते स्याद् उन् माद्येद् यजमानः । 
   नियुत्वते भवति यजमानस्यानुन्मादाय 
   वायुमती श्वेतवती याज्यानुवाक्ये भवतः 
   सतेजस्त्वाय 
   हिरण्यगर्भः सम् अवर्तताग्र इत्य् आघारम् आ घारयति 
   प्रजापतिर् वै हिरण्यगर्भः 
   प्रजापतेर् अनुरूपत्वाय 
  सर्वाणि वा एष रूपाणि पशूनाम् प्रत्य् आ लभ्यते। 
   यच् छ्मश्रुणस् तत्  

VERSE: 3

   पुरुषाणाम्̇ रूपम् । 
   यत् तूपरस् तद् अश्वानाम् । 
   यद् अन्यतोदन् तद् गवाम् । 
   यद् अव्या इव शफास् तद् अवीनाम् । 
   यद् अजस् तद् अजानाम् । 
   वायुर् वै पशूनाम् प्रियं धाम 
   यद् वायव्यो भवत्य् एतम् एवैनम् अभि संजानानाः पशव उप तिष्ठन्ते 
   वायव्यः कार्या3ः प्राजापत्या3 इत्य् आहुः । 
   यद् वायव्यं कुर्यात् प्रजापतेर् इयात् । 
  यत् प्राजापत्यं कुर्याद् वायोः  

VERSE: 4

   इयात् । 
   यद् वायव्यः पशुर् भवति तेन वायोर् नैति 
   यत् प्राजापत्यः पुरोडाशो भवति तेन प्राजापतेर् नैति 
   यद् द्वादशकपालस् तेन वैश्वानरान् नैति । 
   आग्नावैष्णवम् एकादशकपालं निर् वपति दीक्षिष्यमाणः । 
   अग्निः सर्वा देवता विष्णुर् यज्ञः । 
   देवताश् चैव यज्ञं चाऽऽ रभते । 
   अग्निर् अवमो देवतानां विष्णुः परमः । 
   यद् आग्नावैष्णवम् एकादशकपालं निर्वपति देवताः 

VERSE: 5

   एवोभयतः परिगृह्य यजमानो ऽव रुन्द्धे 
   पुरोडाशेन वै देवा अमुष्मिम्̐ लोक आर्धुवञ् चरुणास्मिन् 
   यः कामयेत । 
   अमुष्मिम्̐ लोक ऋध्नुयाम् इति स पुरोडाशं कुर्वीत । 
   अमुष्मिन्न् एव लोक ऋध्नोति 
   यद् अष्टाकपालस् तेनाग्नेयः । 
   यत् त्रिकपालस् तेन वैष्णवः 
   समृद्ध्यै 
   यः कामयेत । 
  अस्मिम्̐ लोक ऋध्नुयाम् इति स चरुं कुर्वीत । 
  अग्नेर् घृतं विष्णोस् तण्डुलास् 
  तस्मात् 

VERSE: 6

   चरुः कार्यः । 
   अस्मिन्न् एव लोक ऋध्नोति । 
   आदित्यो भवति । 
   इयं वा अदितिः । 
   अस्याम् एव प्रति तिष्ठत्य् अथो अस्याम् एवाधि यज्ञं तनुते 
   यो वै संवत्सरम् उख्यम् अभृत्वाग्निं चिनुते यथा सामि गर्भो ऽवपद्यते तादृग् एव तत् । 
   आर्तिम् आर्छेत् । 
   वैश्वानरं द्वादशकपालम् पुरस्तान् निर् वपेत् 
   संवत्सरो वा अग्निर् वैश्वानरः । 
  यथा संवत्सरम् आप्त्वा  

VERSE: 7

   काल आगते विजायत एवम् एव संवत्सरम् आप्त्वा काल आगते ऽग्निं चिनुते 
   नार्तिम् आर्छति । 
   एषा वा अग्नेः प्रिया तनूर् यद् वैश्वानरः 
   प्रियाम् एवास्य तनुवम् अव रुन्द्धे 
   त्रीण्य् एतानि हवीम्̇षि भवन्ति 
   त्रय इमे लोकाः । 
   एषां लोकानाम्̇ रोहाय ॥ 

5.5.2 अनुवाक 2

चयनतत्फलाभिधानम्

VERSE: 1

   प्रजापतिः प्रजाः सृष्ट्वा  प्रेणाऽनु प्राविशत् 
   ताभ्यः पुनः सम्भवितुं नाशक्नोत् 
   सो ऽब्रवीत् । 
   ऋध्नवद् इत् स यो मेतः पुनः संचिनवद् इति 
   तं देवाः सम् अचिन्वन् 
   ततो वै त आर्ध्नुवन् 
   यत् समचिन्वन् तच् चित्यस्य चित्यत्वम् । 
   य एवं विदान् अग्निं चिनुत ऋध्नोत्य् एव 
   कस्मै कम् अग्निश् चीयत इत्य् आहुः । 
   अग्निवान् 

VERSE: 2

   असानीति वा अग्निश् चीयते । 
   अग्निवान् एव भवति 
   कस्मै कम् अग्निश् चीयत इत्य् आहुः । 
   देवा मा वेदन्न् इति वा अग्निश् चीयते 
   विदुर् एनं देवाः 
   कस्मै कम् अग्निश् चीयत इत्य् आहुः । 
   गृह्य् असानीति वा अग्निश् चीयते 
   गृह्य् एव भवति 
   कस्मै कम् अग्निश् चीयत इत्य् आहुः ।
   पशुमान् असानीति वा अग्निः 

VERSE: 3

   चीयते 
   पशुमान् एव भवति 
   कस्मै कम् अग्निश् चीयत इत्य् आहुः 
   सप्त मा पुरुषा उप जीवान् इति वा अग्निश् चीयते 
   त्रयः प्राञ्चस् त्रयः प्रत्यञ्च आत्मा सप्तम एतावन्त एवैनम् अमुष्मिम्̐ लोक उप जीवन्ति 
   प्रजापतिर् अग्निम् अचिकीषत 
   तम् पृथिव्यब्रवीत् । 
   न मय्य् अग्निं चेष्यसेऽति मा धक्ष्यति सा त्वाऽतिदह्यमाना वि धविष्ये  

VERSE: 4

   स पापीयान् भविष्यसीति। 
   सो ऽब्रवीत् 
   तथा वा अहं करिष्यामि यथा त्वा नातिधक्ष्यतीति 
   स इमाम् अभ्य् अमृशत् 
   प्रजापतिस् त्वा सादयतु तया देवतयाङ्गिरस्वद् ध्रुवा सीद । 
   इति । 
   इमाम् एवेष्टकां कृत्वोपाधत्तानतिदाहाय 
   यत् प्रत्य् अग्निं चिन्वीत तद् अभि मृशेत् 
   प्रजापतिस् त्वा सादयतु तया देवतयाङ्गिरस्वद् ध्रुवा सीद  

VERSE: 5

   इति । 
   इमाम् एवेष्टकां कृत्वोप धत्ते ऽनतिदाहाय 
   प्रजापतिर् अकामयत 
   प्र जायेयेति 
   स एतम् उख्यम् अपश्यत् 
   तम्̇ संवत्सरम् अबिभस् 
   ततो वै स प्राजायत 
   तस्मात् संवत्सरम् भार्यः प्रैव जायते 
   तं वसवो ऽब्रुवन् 

0 प्र त्वम् अजनिष्ठा वयम् प्र जायामहा इति 1 तं वसुभ्यः प्रायच्छत् 2 तं त्रीण्य् अहान्य् अबिभरुः । 3 तेन

VERSE: 6

   त्रीणि च शतान्य् असृजन्त त्रयस्त्रिम्̇शतं च 
   तस्मात् त्र्यहम् भार्यः प्रैव जायते 
   तान् रुद्रा अब्रुवन् 
   प्र यूयम् अजनिढ्वं वयम् प्र जायामहा इति 
   तम्̇ रुद्रेभ्यः प्रायच्छन् 
   तम्̇ षड् अहान्य् अबिभरुस् 
   तेन त्रीणि च शतान्य् असृजन्त त्रयस्त्रिम्̇शतं च 
   तस्मात् षडहम् भार्यः प्रैव जायते 
   तान् आदित्या अब्रुवन् 

0 प्र यूयम् अजनिढ्वं वयम्

VERSE: 7

   प्र जायामहा इति ।
   तम् आदित्येभ्यः प्रायच्छन् 
   तं द्वादशाहान्य् अबिभरुस् 
   तेन त्रीणि च शतान्य् असृजन्त त्रयस्त्रिम्̇शतं च 
   तस्माद् द्वादशाहम् भार्यः प्रैव जायते 
   तेनैव ते सहस्रम् असृजन्तोखाम्̇ सहस्रतमीम् । 
   य एवम् उख्यम्̇ साहस्रं वेद प्र सहस्रम् पशून् आप्नोति ॥ 

5.5.3 अनुवाक 3 उखाहोमादेरभिधानम् VERSE: 1

   यजुषा  वा एषा क्रियते यजुषा पच्यते यजुषा वि मुच्यते यद् उखा 
   सा वा एषैतर्हि यातयाम्नी सा न पुनः प्रयुज्येत्य् आहुः । 
   अग्ने युक्ष्वा हि ये तव युक्ष्वा हि देवहूतमाम्̇ इत्य् उखायां जुहोति 
   तेनैवैनाम् पुनः प्र युङ्क्ते तेनायातयाम्नी 
   यो वा अग्निं योग आगते युनक्ति युङ्क्ते युञ्जानेषु । 
   अग्ने  

VERSE: 2

   युक्ष्वा हि ये तव युक्ष्वा हि देवहूतमाम्̇ इत्य् आह । 
   एष वा अग्नेर् योगस् 
   तेनैवैनं युनक्ति युङ्क्ते युञ्जानेषु 
   ब्रह्मवादिनो वदन्ति 
   न्यङ्ङ् अग्निश् चेतव्या3 उत्ताना3 इति 
   वयसां वा एष प्रतिमया चीयते यद् अग्निः । 
   यन् न्यञ्चं चिनुयात् पृष्टित एनम् आहुतय ऋच्छेयुः । 
   यद् उत्तानं न पतितुम्̇ शक्नुयाद् असुवर्ग्यो ऽस्य स्यात् 
   प्राचीनम् उत्तानम् 

VERSE: 3

   पुरुषशीर्षम् उप दधाति मुखत एवैनम् आहुतय ऋच्छन्ति नोत्तानं चिनुते सुवर्ग्यो ऽस्य भवति 
   सौर्या जुहोति चक्षुर् एवास्मिन् प्रति दधाति 
   द्विर् जुहोति द्वे हि चक्षुषी 
   समान्या जुहोति समानम्̇ हि चक्षुः समृद्ध्यै ॥
   देवासुराः संयत्ता आसन् 
   ते वामं वसु सं न्यदधत 
   तद् देवा वामभृताऽवृञ्जत 
   तद् वामभृतो वामभृत्त्वम् । 
   यद् वामभृतम् उपदधाति वामम् एव तया वसु यजमानो भ्रातृव्यस्य वृङ्क्ते 
  हिरण्यमूर्ध्नी भवति 
  ज्योतिर् वै हिरण्यं ज्योतिर् वामम् । 
  ज्योतिषैवास्य ज्योतिर् वामं वृङ्क्ते 
   द्वियजुर् भवति प्रतिष्ठित्यै ॥ 

5.5.4 अनुवाक 4

रेतःसिगाद्यभिधानम्

VERSE: 1

   आपो वरुणस्य पत्नय आसन् ता अग्निर् अभ्य् ध्यायत् ताः सम् अभवत् तस्य रेतः पराऽपतत् तद् इयम् अभवद् यद् द्वितीयम् पराऽपतत् तद् असाव् अभवद् इयं वै विराड् असौ { स्वराड् ^ स्वराज् } 
   यद् विराजाव् उपदधातीमे एवोप धत्ते 
   यद् वा असौ रेतः सिञ्चति तद् अस्याम् प्रति तिष्ठति तत् प्र जायते ता ओषधयः ॥ 

VERSE: 2

   वीरुधो भवन्ति ता अग्निर् अत्ति य एवं वेद प्रैव जायते ऽन्नादो भवति यो रेतस्वी स्यात् प्रथमायां तस्य चित्याम् उभे उप दध्याद् इमे एवास्मै समीची रेतः सिञ्चतो यः सिक्तरेताः स्यात् प्रथमायां तस्य चित्याम् अन्याम् उप दध्याद् उत्तमायाम् अन्याम्̇ रेत एवास्य सिक्तम् आभ्याम् उभयतः परि गृह्णाति ॥
   संवत्सरं न कम् 

VERSE: 3

   चन प्रत्यवरोहेन् न हीमे कं चन प्रत्यवरोहतस् तद् एनयोर् व्रतम् । 
   यो वा अपशीर्षाणम् अग्निं चिनुते ऽपशीर्षामुष्मिम्̐ लोके भवति यः सशीर्षाणं चिनुते सशीर्षामुष्मिम्̐ लोके भवति 
   चित्तिं जुहोमि मनसा घृतेन यथा देवा इहाऽऽगमन् वीतिहोत्रा ऋतावृधः समुद्रस्य वयुनस्य पत्मञ् जुहोमि विश्वकर्मणे विश्वाऽहामर्त्यम्̇ हविर् इति स्वयमातृण्णाम् उपधाय जुहोति ॥ 

VERSE: 4

   एतद् वा अग्नेः शिरः सशीर्षाणम् एवाग्निं चिनुते सशीर्षाऽमुष्मिम्̐ लोके भवति य एवं वेद 
   सुवर्गाय वा एष लोकाय चीयते यद् अग्निस् तस्य यद् अयथापूर्वं क्रियते ऽसुवर्ग्यम् अस्य तत्।
सुवर्ग्यो ऽग्निः।
   चितिम् उपधायाभि मृशेत् । 
   चित्तिम् अचित्तिं चिनवद् वि विद्वान् पृष्ठेव वीता वृजिना च मर्तान् राये च नः स्वपत्याय देव दितिं च रास्वादितिम् उरुष्येति यथापूर्वम् एवैनाम् उप धत्ते 
   प्राञ्चम् एनं चिनुते सुवर्ग्यो ऽस्य भवति ॥ 

5.5.5 अनुवाक 5 हिरण्येष्टकादेरभिधानम् VERSE: 1

   विश्वकर्मा दिशाम् पतिः स नः पशून् पातु सो ऽस्मान् पातु तस्मै नमः 
   प्रजापती रुद्रो वरुणो ऽग्निर् दिशाम् पतिः स नः पशून् पातु सो ऽस्मान् पातु तस्मै नमः । 
   एता वै देवता एतेषाम् पशूनाम् अधिपतयस् 
   ताभ्यो वा एष आ वृश्च्यते यः पशुशीर्षाण्य् उपदधाति 
   हिरण्येष्टका उप दधाति । 
   एताभ्य एव देवताभ्यो नमस् करोति 
   ब्रह्मवादिनः 

VERSE: 2

   वदन्ति । 
   अग्नौ ग्राम्यान् पशून् प्र दधाति शुचारण्यान् अर्पयति किं तत उच् छिम्̇षतीति 
   यद् धिरण्येष्टका उपदधात्य् अमृतं वै हिरण्यम् अमृतेनैव ग्राम्येभ्यः पशुभ्यो भेषजं करोति नैनान् हिनस्ति 
   प्राणो वै प्रथमा स्वयमातृण्णा व्यानो द्वितीयाऽपानस् तृतीया । 
   अनु प्राण्यात् प्रथमाम्̇ स्वयमातृण्णाम् उपधाय 
   प्राणेनैव प्राणम्̇ सम् अर्धयति 
   व्यन्यात्  

VERSE: 3

   द्वितीयाम् उपधाय 
   व्यानेनैव व्यानम्̇ सम् अर्धयति । 
   अपान्यात् तृतीयाम् उपधाय । 
   अपानेनैवापानम्̇ सम् अर्धयति । 
   अथो प्राणैर् एवैनम्̇ सम् इन्द्धे 
   भूर् भुवः सुवर् इति स्वयमातृण्णा उप दधाति । 
   इमे वै लोकाः स्वयमातृण्णाः । 
   एताभिः खलु वै व्याहृतीभिः प्रजापतिः प्राजायत 
   यद् एताभिर् व्याहृतीभिः स्वयमातृण्णा उपदधातीमान् एव लोकान् उपधायैषु  

VERSE: 4

   लोकेष्व् अधि प्र जायते ।
   प्राणाय व्यानायापानाय वाचे त्वा चक्षुषे त्वा तया देवतयाङ्गिरस्वद् ध्रुवा सीद । 
   अग्निना वै देवाः सुवर्गं लोकम् अजिगाम्̇सन् 
   तेन पतितुं नाशक्नुवन् 
   त एताश् चतस्रः स्वयमातृण्णा अपश्यन् 
   ता दिक्षूपादधत 
   तेन सर्वतश्चक्षुषा सुवर्गं लोकम् आयन् 
   यच् चतस्रः स्वयमातृण्णा दिक्षूपदधाति सर्वतश्चक्षुषैव तद् अग्निना यजमानः सुवर्गं लोकम् एति ॥ 

5.5.6 अनुवाक 6

अह्नां रूपादीनामभिधानम्

VERSE: 1 अग्न आ याहि वीतये ।

   इत्य् आहाह्वतैवैनम् 

अग्निं दूतं वृणीमहे ।

   इत्य् आह हुत्वैवैनं वृणीते । 

अग्निनाग्निः सम् इध्यते ।

   इत्य् आह सम् इन्द्ध एवैनम् 

अग्निर् वृत्राणि जङ्घनत् ।

   इत्य् आह समिद्ध एवास्मिन्न् इन्द्रियं दधाति । 

अग्ने स्तोमम् मनामहे ।

इत्य् आह मनुत एवैनम् 
   एतानि वा अह्नाम्̇ रूपाणि ॥ 

VERSE: 2

   अन्वहम् एवैनं चिनुते । 
   अवाह्नाम्̇ रूपाणि रुन्द्धे 
   ब्रह्मवादिनो वदन्ति 
   कस्मात् सत्याद् यातयाम्नीर् अन्या इष्टका अयातयाम्नी लोकम्पृणेत्य् ऐन्द्राग्नी हि बार्हस्पत्येति ब्रूयात् । 
   इन्द्राग्नी च हि देवानाम् बृहस्पतिश् चायातयामानः । 
   अनुचरवती भवति । 
   अजामित्वाय । 
   अनुष्टुभानु चरति । 
   आत्मा वै लोकम्पृणा प्राणो ऽनुष्टुप् तस्मात् प्राणःसर्वाण्य् अङ्गान्य् अनु चरति 
  ता अस्य सूददोहसः 

VERSE: 3

   इत्य् आह 
   तस्मात् परुषिपरुषि रसः। 
   सोमम्̇ श्रीणन्ति पृश्नय इत्य् आह । 
   अन्नं वै पृश्न्य् अन्नम् एवाव रुन्द्धे । 
   अर्को वा अग्निर् अर्को ऽन्नम् अन्नम् एवाव रुन्द्धे 
   जन्मन् देवानां विशस् तृष्व् आ रोचने दिव इत्य् आह । 
   इमान् एवास्मै लोकाञ् ज्योतिष्मतः करोति 
   यो वा इष्टकानाम् प्रतिष्ठां वेद प्रत्य् एव तिष्ठति 
   तया देवतयाङ्गिरस्वद् ध्रुवा सीदेत्य् आह । 
  एषा वा इष्टकानाम् प्रतिष्ठा य एवं वेद प्रत्य् एव तिष्ठति ॥ 

5.5.7अनुवाक 7 यूपैकत्वादीनामभिधानम् VERSE: 1

   सुवर्गाय वा एष लोकाय चीयते यद् अग्निः। 
   वज्र एकादशिनी 
   यद् अग्नाव् एकादशिनीम् मिनुयाद् वज्रेणैनम्̇ सुवर्गाल् लोकाद् अन्तर् दध्यात् । 
   यन् न मिनुयात् स्वरुभिः पशून् व्यर्धयेत् । 
   एकयूपम् मिनोति 
   नैनं वज्रेण सुवर्गाल् लोकाद् अन्तर्दधाति न स्वरुभिः पशून् व्यर्धयति 
   वि वा एष इन्द्रियेण वीर्येणर्ध्यते यो ऽग्निं चिन्वन्न् अधिक्रामति । 
   ऐन्द्रिया  

VERSE: 2

   ऋचाऽऽक्रमणम् प्रतीष्टकाम् उप दध्यात् । 
   नेन्द्रियेण वीर्येण व्यृध्यते 
   रुद्रो वा एष यद् अग्निः ।
   तस्य तिस्रः शरव्याः प्रतीची तिरश्च्य् अनूची 
   ताभ्यो वा एष आ वृश्च्यते यो ऽग्निं चिनुते । 
   अग्निं चित्वा तिसृधन्वम् अयाचितम् ब्राह्मणाय दद्यात् 
   ताभ्य एव नमस् करोति । 
   अथो ताभ्य एवाऽऽत्मानं निष्क्रीणीते 
   यत् ते रुद्र पुरः  

VERSE: 3

   धनुस् तद् वातो अनु वातु ते 
   तस्मै ते रुद्र संवत्सरेण नमस् करोमि 
   यत् ते रुद्र दक्षिणा धनुस् तद् वातो अनु वातु ते 
   तस्मै ते रुद्र परिवत्सरेण नमस् करोमि 
   यत् ते रुद्र पश्चाद् धनुस् तद् वातो अनु वातु ते 
   तस्मै ते रुद्रेदावत्सरेण नमस् करोमि 
   यत् ते रुद्रोत्तराद् धनुस् तत् 

VERSE: 4

   वातो अनु वातु ते 
   तस्मै ते रुद्रेदुवत्सरेण नमस् करोमि 
   यत् ते रुद्रोपरि धनुस् तद् वातो अनु वातु ते 
   तस्मै ते रुद्र वत्सरेण नमस् करोमि 
   रुद्रो वा एष यद् अग्निः 
   स यथा व्याघ्रः क्रुद्धस् तिष्ठत्य् एवं वा एष एतर्हि 
   संचितम् एतैर् उप तिष्ठते 
   नमस्कारैर् एवैनम्̇ शमयति 
   ये ऽग्नयः 

VERSE: 5

   पुरीष्याः प्रविष्टाः पृथिवीम् अनु । 
   तेषां त्वम् अस्य् उत्तमः प्र णो जीवातवे सुव ॥ 
   आपं त्वाग्ने मनसा । 
   आपं त्वाग्ने तपसा । 
   आपं त्वाग्ने दीक्षया । 
   आपं त्वाग्न उपसद्भिः । 
   आपं त्वाग्ने सुत्यया । 
   आपं त्वाग्ने दक्षिणाभिः । 
   आपं त्वाग्ने ऽवभृथेन । 

0 आपं त्वाग्ने वशया । 1 आपं त्वाग्ने स्वगाकारेणेत्य् आह । 2 एषा वा अग्नेर् आप्तिस् 3 तयैवैनम् आप्नोति ॥

5.5.8 अनुवाक 8

उपस्थानाद्यभिधानम्

VERSE: 1

   गायत्रेण पुरस्ताद् उप तिष्ठते प्राणम् एवास्मिन् दधाति 
   बृहद्रथंतराभ्याम् पक्षाव् ओज एवास्मिन् दधाति । 
   ऋतुस्था यज्ञायज्ञियेन पुच्छम् ऋतुष्व् एव प्रति तिष्ठति 
   पृष्ठैर् उप तिष्ठते 
   तेजो वै पृष्ठानि 
   तेज एवास्मिन् दधाति 
   प्रजापतिर् अग्निम् असृजत 
   सो ऽस्मात् सृष्टः पराङ् ऐत् 
   तं वारवन्तीयेनावारयत तद् वारवन्तीयस्य वारवन्तीयत्वम् । 
  श्यैतेन श्येती अकुरुत तच् छ्यैतस्य श्यैतत्वम् ॥ 

VERSE: 2

   यद् वारवन्तीयेनोपतिष्ठते वारयत एवैनम् । 
   श्यैतेन श्येती कुरुते 
   प्रजापतेर् हृदयेनापिपक्षम् प्रत्य् उप तिष्ठते 
   प्रेमाणम् एवास्य गच्छति 
   प्राच्या त्वा दिशा सादयामि गायत्रेण छन्दसाग्निना देवतयाग्नेः शीर्ष्णाग्नेः शिर उप दधामि 
   दक्षिणया त्वा दिशा सादयामि त्रैष्टुभेन छन्दसेन्द्रेण देवतयाग्नेः पक्षेणाग्नेः पक्षम् उप दधामि 
   प्रतीच्या त्वा दिशा सादयामि ॥ 

VERSE: 3

   जागतेन छन्दसा सवित्रा देवतयाग्नेः पुच्छेनाग्नेः पुच्छम् उप दधामि । 
   उदीच्या त्वा दिशा सादयाम्य् आनुष्टुभेन छन्दसा मित्रावरुणाभ्यां देवतयाग्नेः पक्षेणाग्नेः पक्षम् उप दधामि । 
   ऊर्ध्वया त्वा दिशा सादयामि पाङ्क्तेन छन्दसा बृहस्पतिना देवतयाग्नेः पृष्ठेनाग्नेः पृष्ठम् उप दधामि 
   यो वा अपात्मानम् अग्निं चिनुते ऽपात्मामुष्मिम्̐ लोके भवति 
   यः सात्मानं  चिनुते सात्मामुष्मिम्̐ लोके भवति । 
   आत्मेष्टका उप दधाति । 
   एष वा अग्नेर् आत्मा 
   सात्मानम् एवाग्निं चिनुते 
   सात्मामुष्मिम्̐ लोके भवति य एवं वेद ॥ 

5.5.9 अनुवाक 9 आहुत्याद्यभिधानम् VERSE: 1 अग्न उदधे या त इषुर् युवा नाम तया नो मृड तस्यास् ते नमस् तस्यास् त उप जीवन्तो भूयास्म । अग्ने दुध्र गह्य किम्̇शिल वन्य या त इषुर् युवा नाम तया नो मृड तस्यास् ते नमस् तस्यास् त उप जीवन्तो भूयास्म पञ्च वा एते ऽग्नयो यच् चितय उदधिर् एव नाम प्रथमो दुध्रः

VERSE: 2

   द्वितीयो गह्यस् तृतीयः किम्̇शिलश् चतुर्थो वन्यः पञ्चमस् तेभ्यो यद् आहुतीर् न जुहुयाद् अध्वर्युं च यजमानं च प्र दहेयुर् यद् एता आहुतीर् जुहोति भागधेयेनैवैनाञ् छमयति नार्तिम् आर्छत्य् अध्वर्युर् न यजमानः । 

वाङ् म आसन् नसोः प्राणो ऽक्ष्योश् चक्षुः कर्णयोः श्रोत्रम् बाहुवोर् बलमूरुवोर् ओजो ऽरिष्टा विश्वान्य् अङ्गानि तनूः

VERSE: 3

   तनुवा मे सह नमस् ते अस्तु मा मा हिम्̇सीः । 

अप वा एतस्मात् प्राणाः क्रामन्ति यो ऽग्निं चिन्वन्न् अधिक्रामति वाङ् म आसन् नसोः प्राणः ।

   इत्य् आह प्राणान् एवात्मन् धत्ते 

यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश तस्मै रुद्राय नमो अस्तु । आहुतिभागा वा अन्ये रुद्रा हविर्भागाः

VERSE: 4

   अन्ये शतरुद्रीयम्̇ हुत्वा गावीधुकं चरुम् एतेन यजुषा चरमायाम् इष्टकायां नि दध्याद् भागधेयेनैवैनम्̇ शमयति तस्य त्वै शतरुद्रीयम्̇ हुतम् 
   इत्य् आहुर् यस्यैतद् अग्नौ क्रियत इति। 

वसवस् त्वा रुद्रैः पुरस्तात् पान्तु पितरस् त्वा यमराजानः पितृभिर् दक्षिणतः पान्त्व् आदित्यास् त्वा विश्वैर् देवैः पश्चात् पान्तु द्युतानस् त्वा मारुतो मरुद्भिर् उत्तरतः पातु ।

VERSE: 5 देवास् त्वेन्द्रज्येष्ठा वरुणराजानो ऽधस्ताच् चोपरिष्टाच् च पान्तु। न वा एतेन पूतो न मेध्यो न प्रोक्षितो यद् एनम् अतः प्राचीनम् प्रोक्षति यत् संचितम् आज्येन प्रोक्षति तेन पूतस् तेन मेध्यस् तेन प्रोक्षितः ॥

5.5.10 अनुवाक 10 सर्पाहुत्याद्यभिधानम् VERSE: 1 समीची नामासि प्राची दिक् (तुलनीय : शौ. अथर्ववेद 3.27.1)

   तस्यास् ते ऽग्निर् अधिपतिर् असितो रक्षिता 
   यश् चाधिपतिर् यश् च गोप्ता ताभ्यां नमस् तौ नो मृडयताम् । 
   ते यं द्विष्मो यश् च नो द्वेष्टि तं वां जम्भे दधामि । 
   ओजस्विनी नामासि दक्षिणा  दिक्  
   तस्यास् त इन्द्रो ऽधिपतिः पृदाकुः। 
   प्राची नामासि प्रतीची  दिक्  
   तस्यास् ते  

VERSE: 2

   सोमो ऽधिपतिः स्वजः । 
   अवस्थावा नामास्य् उदीची  दिक्
   तस्यास् ते वरुणो ऽधिपतिस् तिरश्चराजिः । 
   अधिपत्नी नामासि बृहती   दिक् 
   तस्यास् ते बृहस्पतिर् अधिपतिः श्वित्रः । 
   वशिनी नामासीयं  दिक्  
   तस्यास् ते यमो ऽधिपतिः कल्माषग्रीवो रक्षिता 
   यश् चाधिपतिर् यश् च गोप्ता ताभ्यां नमस् तौ नो मृडयताम् । 
   ते यं द्विष्मो यश् च  

VERSE: 3

   नो द्वेष्टि तं वां जम्भे दधामि । 

एता वै देवता अग्निं चितम्̇ रक्षन्ति

   ताभ्यो यद् आहुतीर् न जुहुयाद् अध्वर्युं च यजमानं च ध्यायेयुः । 
   यद् एता आहुतीर् जुहोति भागधेयेनैवैनाञ् छमयति 
   नार्तिम् आर्छत्य् अध्वर्युर् न यजमानः । 

हेतयो नाम स्थ

   तेषां वः पुरो गृहाः । 
   अग्निर् व इषवः सलिलः । 
   निलिम्पा नाम  

VERSE: 4

   स्थ 
   तेषां वो दक्षिणा गृहाः 
   पितरो व इषवः सगरः । 
   वज्रिणो नाम स्थ 
   तेषां वः पश्चाद् गृहाः 
   स्वप्नो व इषवो गह्वरः । 
   अवस्थावानो नाम स्थ 
   तेषां व उत्तराद् गृहाः । 
   आपो व इषवः समुद्रः । 
  अधिपतयो नाम स्थ 
  तेषां व उपरि गृहाः । 
  वर्षं व इषवो ऽवस्वान् 
   क्रव्या नाम स्थ पार्थिवाः 
   तेषां व इह गृहाः ॥ 

VERSE: 5

   अन्नं व इषवो निमिषो वातनामम् । 
   तेभ्यो वो नमस् 
   ते नो मृडयत 
   ते यं द्विष्मो यश् च नो द्वेष्टि तं वो जम्भे दधामि 

हुतादो वा अन्ये देवा अहुतादो ऽन्ये

   तान् अग्निचिद् एवोभयान् प्रीणाति 
   दध्ना मधुमिश्रेणैता आहुतीर् जुहोति 
   भागधेयेनैवैनान् प्रीणाति । 
   अथो खल्व् आहुः । 
   इष्टका वै देवा अहुताद इति  

VERSE: 6

   अनुपरिक्रामं जुहोति । 
   अपरिवर्गम् एवैनान् प्रीणाति । 

इमम्̇ स्तनमूर्जस्वन्तं धयापाम् प्रप्यातम् अग्ने सरिरस्य मध्ये । उत्सं जुषस्व मधुमन्तमूर्व समुद्रियम्̇ सदनम् आ विशस्व ॥ यो वा अग्निम् प्रयुज्य न विमुञ्चति यथाश्वो युक्तो ऽविमुच्यमानः क्षुध्यन् पराभवत्य् एवम् अस्याग्निः परा भवति

   तम् पराभवन्तं यजमानो ऽनु परा भवति 
   सो ऽग्निं चित्वा लूक्षः  

VERSE: 7

   भवति । 
   इमम्̇ स्तनमूर्जस्वन्तं धयापाम् इत्य् आज्यस्य पूर्णाम्̇ स्रुचं जुहोति । 
   एष वा अग्नेर् विमोकः । 
   विमुच्यैवास्मा अन्नम् अपि दधाति 
   तस्माद् आहुर् यश् चैवं वेद यश् च न 
   सुधायम्̇ ह वै वाजी सुहितो दधातीति । 
   अग्निर् वाव वाजी 
   तम् एव तत् प्रीणाति 
   स एनम् प्रीतः प्रीणाति वसीयान् भवति ॥ 

5.5.11 अनुवाक 11 अश्वमेधशेषभूतप्रथमपशुसंघविधिः VERSE: 1

   इन्द्राय राज्ञे सूकरः । 
   वरुणाय राज्ञे कृष्णः । 
   यमाय राज्ञ ऋश्यः। 
   ऋषभाय राज्ञे गवयः 
   शार्दूलाय राज्ञे गौरः 
   पुरुषराजाय मर्कटः 
   क्षिप्रश्येनस्य वर्तिका 
   नीलङ्गोः क्रिमिः 
   सोमस्य राज्ञः कुलुङ्गः 
  सिन्धोः शिम्̇शुमारः । 
  हिमवतो हस्ती ॥ 

5.5.12 अनुवाक 12 अश्वमेधशेषभूतद्वितीय पशुसंघविधिः VERSE: 1

   मयुः प्राजापत्यः । 
   ऊलो हलीक्ष्णो वृषदम्̇शस् ते धातुः 
   सरस्वत्यै शारिः श्येता पुरुषवाक् । 
   सरस्वते शुकः श्येतः पुरुषवाक् । 
   आरण्यो ऽजो नकुलः शका ते पौष्णाः । 
   वाचे क्रौञ्चः ॥ 

5.5.13 अनुवाक 13 अश्वमेधशेषभूततृतीयपशुसंघविधिः VERSE: 1

   अपां नप्त्रे जषः । 
   नाक्रो मकरः कुलीकयस् ते ऽकूपारस्य 
   वाचे पैङ्गराजः । 
   भगाय कुषीतकः । 
   आती वाहसो दर्विदा ते वायव्याः । 
   दिग्भ्यश् चक्रवाकः ॥ 

5.5.14 अनुवाक 14 अश्वमेधशेषभूतचतु्र्थपशुसंघविधिः

VERSE: 1

   बलायाजगरः । 
   आखुः सृजया शयण्डकस् ते मैत्राः । 
   मृत्यवे ऽसितः । 
   मन्यवे स्वजः 
   कुम्भीनसः पुष्करसादो लोहिताहिस् ते त्वाष्ट्राः 
   प्रतिश्रुत्कायै वाहसः ॥ 

5.5.15 अनुवाक 15 अश्वमेधशेषभूतपञ्चमपशुसंघविधिः

VERSE: 1

   पुरुषमृगश् चन्द्रमसे 
   गोधा कालका दार्वाघाटस् ते वनस्पतीनाम् 
   एण्य् अह्ने कृष्णो रात्रियै 
   पिकः क्ष्विङ्का नीलशीर्ष्णी ते ऽर्यम्णे 
   धातुः कत्कटः ॥ 

5.5.16 अनुवाक 16

अश्वमेधशेषभूतषष्ठपशुसंघविधिः

VERSE: 1

   सौरी बलाका । 
   ऋश्यो मयूरः श्येनस् ते गन्धर्वाणाम् । 
   वसूनां कपिञ्जलः । 
   रुद्राणां तित्तिरिः । 
   रोहित् कुण्डृणाची गोलत्तिका ता अप्सरसाम् 
   अरण्याय सृमरः ॥ 

5.5.17 अनुवाक 17 अश्वमेधशेषभूतसप्तमपशुसंघविधिः

VERSE: 1

   पृषतो वैश्वदेवः 
   पित्वो न्यङ्कुः कशस् ते ऽनुमत्यै । 
   अन्यवापो ऽर्धमासानाम् 
   मासां कश्यपः 
   क्वयिः कुटरुर् दात्यौहस् ते सिनीवाल्यै 
   बृहस्पतये शित्पुटः ॥ 

5.5.18 अनुवाक 18 अश्वमेधशेषभूताष्टमपशुसंघविधिः

VERSE: 1

   शका भौमी 
   पाङ्क्त्राः कशो मान्थीलवस् ते पितृणाम् 
   ऋतूनां जहका 
   संवत्सराय लोपा 
   कपोत उलूकः शशस् ते नैर्ऋताः 
   कृकवाकुः सावित्रः ॥ 

5.5.19 अनुवाक 19

अश्वमेधशेषभूतनवमपशुसंघविधिः

VERSE: 1

   रुरू रौद्रः 
   कृकलासः शकुनिः पिप्पका ते शरव्यायै 
   हरिणो मारुतः । 
   ब्रह्मणे शार्गः 
   तरक्षुः कृष्णः श्वा चतुरक्षो गर्दभस् त इतरजनानाम् 
   अग्नये धूङ्क्ष्णा ॥ 

5.5.20 अनुवाक 20 अश्वमेधशेषभूतदशमपशुसंघविधिः

VERSE: 1

   अलज आन्तरिक्षः । 
   उद्रो मद्गुः प्लवस् ते ऽपाम् 
   अदित्यै हम्̇ससाचिः । 
   इन्द्राण्यै कीर्शा 
   गृध्रः शितिकक्षी वार्ध्राणसस् ते दिव्याः । 
   द्यावापृथिव्या श्वावित् ॥ 

5.5.21 अनुवाक 21 अश्वमेधशेषभूतएकादशपशुसंघविधिः

VERSE: 1

   सुपर्णः पार्जन्यः । 
   हम्̇सो वृको वृषदम्̇शस् त ऐन्द्राः । 
   अपाम् उद्रः । 
   अर्यम्णे लोपाशः 
   सिम्̇हो नकुलो व्याघ्रस् ते महेन्द्राय 
   कामाय परस्वान् ॥ 

5.5.22 अनुवाक 22

अश्वमेधशेषभूतप्रथमग्राम्यपशुसंघविधिः

VERSE: 1

   आग्नेयः कृष्णग्रीवः 
   सारस्वती मेषी 
   बभ्रुः सौम्यः 
   पौष्णः श्यामः 
   शितिपृष्ठो बार्हस्पत्यः 
   शिल्पो वैश्वदेवः । 
   ऐन्द्रो ऽरुणः । 
   मारुतः कल्माषः । 
   ऐन्द्राग्नः सम्̇हितः । 
  अधोरामः सावित्रः । 
  वारुणः पेत्वः ॥ 

5.5.23 अनुवाक 23 अश्वमेधशेषभूतद्वितीयं ग्राम्यपशुसंघविधिः

VERSE: 1

   अश्वस् तूपरो गोमृगस् ते प्राजापत्याः । 
   आग्नेयौ कृष्णग्रीवौ 
   त्वाष्ट्रौ लोमशसक्थौ 
   शितिपृष्ठौ बार्हस्पत्यौ 
   धात्रे पृषोदरः 
   सौर्यो बलक्षः पेत्वः ॥ 

5.5.24अनुवाक 24 अश्वमेधशेषभूततृतीयग्राम्यपशुसंघविधिः

VERSE: 1

   अग्नये ऽनीकवते रोहिताञ्जिर् अनड्वान् 
   अधोरामौ सावित्रौ 
   पौष्णौ रजतनाभी 
   वैश्वदेवौ पिशंगौ तूपरौ 
   मारुतः कल्माषः । 
   आग्नेयः कृष्णो ऽजः 
   सारस्वती मेषी 
   वारुणः कृष्ण एकशितिपात् पेत्वः ॥ 


5.6 प्रपाठक: 6 5.6.1 अनुवाक 1

कुम्भेष्टकामन्त्रणार्थमन्त्राभिधानम्

VERSE: 1 हिरण्यवर्णाः शुचयः पावका यासु जातः कश्यपो यास्व् इन्द्रः । अग्निं गर्भं दधिरे विरूपास् ता न आपः शम्̇ स्योना भवन्तु ॥ यासाम्̇ राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ् जनानाम् । मधुश्चुतः शुचयो याः पावकास् ता न आपः शम्̇ स्योना भवन्तु ॥ यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति । याः पृथिवीम् पयसोन्दन्ति

VERSE: 2

   शुक्रास् ता न आपः शम्̇ स्योना भवन्तु ॥ 

शिवेन मा चक्षुषा पश्यतापः शिवया तनुवो ऽप स्पृशत त्वचम् मे । सर्वाम्̇ अग्नीम्̇र् अप्सुषदो हुवे वो मयि वर्चो बलम् ओजो नि धत्त ॥ यद् अदः सम्प्रयतीर् अहाव् अनदता हते । तस्माद् आ नद्यो नाम स्थ ता वो नामानि सिन्धवः ॥ यत् प्रेषिता वरुणेन ताः शीभम्̇ समवल्गत ।

VERSE: 3

   तद् आप्नोद् इन्द्रो वो यतीस् तस्माद् आपो अनु स्थन ॥ 

अपकामम्̇ स्यन्दमाना अवीवरत वो हिकम् । इन्द्रो वः शक्तिभिर् देवीस् तस्माद् वार् णाम वो हितम् ॥ एको देवो अप्य् अतिष्ठत् स्यन्दमाना यथावशम् । उद् आनिषुर् महीर् इति तस्माद् उदकम् उच्यते ॥ आपो भद्रा घृतम् इद् आप आसुर् अग्नीषोमौ बिभ्रत्य् आप इत् ताः । तीव्रो रसो मधुपृचाम् ॥

VERSE: 4

   अरंगम आ मा प्राणेन सह वर्चसा गन् ॥ 

आद् इत् पश्याम्य् उत वा शृणोम्य् आ मा घोषो गच्छति वाङ् न आसाम् । मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यद् वः ॥ आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वः शिवतमो रसस् तस्य भाजयतेह नः । उशतीर् इव मातरः ॥ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥ दिवि श्रयस्वान्तरिक्षे यतस्व पृथिव्या सम् भव ब्रह्मवर्चसम् असि ब्रह्मवर्चसाय त्वा ॥

5.6.2 अनुवाक 2 कुम्भेष्टकोपधानविधिः VERSE: 1

   अपां ग्रहान् गृह्णाति । 
   एतद् वाव राजसूयं यद् एते ग्रहाः सवो ऽग्निः । 
   वरुणसवो राजसूयम् अग्निसवश् चित्यः 
   ताभ्याम् एव सूयते । 
   अथो उभाव् एव लोकाव् अभि जयति यश् च राजसूयेनेजानस्य यश् चाग्निचिते । 
   आपो भवन्ति । 
   आपो वा अग्नेर् भ्रातृव्याः । 
   यद् अपो ऽग्नेर् अधस्ताद् उपदधाति भ्रातृव्याभिभूत्यै 
   भवत्य् आत्मना परास्य भ्रातृव्यो भवति । 
   अमृतम्  

VERSE: 2

   वा आपः 
   तस्माद् अद्भिर् अवतान्तम् अभि षिञ्चन्ति 
   नार्तिम् आर्छति सर्वम् आयुर् एति यस्यैता उपधीयन्ते य उ चैना एवं वेद । 
   अन्नं वा आपः 
   पशव आपः । 
   अन्नम् पशवः । 
   अन्नादः पशुमान् भवति यस्यैता उपधीयन्ते य उ चैना एवं वेद 
   द्वादश भवन्ति 
   द्वादश मासाः संवत्सरः 
  संवत्सरेनैवास्मै  

VERSE: 3

   अन्नम् अव रुन्द्धे 
   पात्राणि भवन्ति 
   पात्रे वा अन्नम् अद्यते 
   सयोन्य् एवान्नम् अव रुन्द्धे । 
   आ द्वादशात् पुरुषाद् अन्नम् अत्त्य् अथो पात्रान् न छिद्यते यस्यैता उपधीयन्ते य उ चैना एवं वेद 
   कुम्भाश् च कुम्भीश् च मिथुनानि भवन्ति 
   मिथुनस्य प्रजात्यै 
   प्र प्रजया पशुभिर् मिथुनैर् जायते यस्यैता उपधीयन्ते य उ  

VERSE: 4

   चैना एवं वेद 
   शुग् वा अग्निः 
   सो ऽध्वर्युं यजमानम् प्रजाः शुचार्पयति 
   यद् अप उपदधाति शुचम् एवास्य शमयति 
   नार्तिम् आर्छत्य् अध्वर्युर् न यजमानः शाम्यन्ति प्रजा यत्रैता उपधीयन्ते । 
   अपां वा एतानि हृदयानि यद् एता आपः । 
   यद् एता अप उपदधाति दिव्याभिर् एवैनाः सम्̇ सृजति वषुकः पर्जन्यः  

VERSE: 5

   भवति 
   यो वा एतासाम् आयतनं क्लृप्तिं वेदायतनवान् भवति कल्पते ऽस्मै । 
   अनुसीतम् उप दधाति । 
   एतद् वा आसाम् आयतनम् एषा क्लृप्तिः । 
   य एवं वेदायतनवान् भवति कल्पते ऽस्मै 
   द्वंद्वम् अन्या उप दधाति चतस्रो मध्ये धृत्यै । 
   अन्नं वा इष्टकाः । 
   एतत् खलु वै साक्षाद् अन्नं यद् एष चरुः । 
   यद् एतं चरुम् उपदधाति साक्षात्  

VERSE: 6

   एवास्मा अन्नम् अव रुन्द्धे 
   मध्यत उप दधाति 
   मध्यत एवास्मा अन्नं दधाति 
   तस्मान् मध्यतो ऽन्नम् अद्यते 
   बार्हस्पत्यो भवति 
   ब्रह्म वै देवानाम् बृहस्पतिः । 
   ब्रह्मणैवास्मा अन्नम् अव रुन्द्धे 
   ब्रह्मवर्चसम् असि ब्रह्मवर्चसाय त्वेत्य् आह 
   तेजस्वी ब्रह्मवर्चसी भवति यस्यैष उपधीयते य उ चैनम् एवं वेद ॥ 

5.6.3 अनुवाक 3 भूतेष्टकाद्यभिधानविधिः VERSE: 1

   भूतेष्टका उप दधाति । 
   अत्रात्र वै मृत्युर् जायते 
   यत्रयत्रैव मृत्युर् जायते तत एवैनम् अव यजते 
   तस्माद् अग्निचित् सर्वम् आयु एति सर्वे ह्य् अस्य मृत्यवो ऽवेष्टाः 
   तस्माद् अग्निचिन् नाभिचरितवै प्रत्यग् एनम् अभिचारः स्तृणुते 
   सूयते वा एष यो ऽग्निं चिनुते 
   देवसुवाम् एतानि हवीम्̇षि भवन्ति । 
   एतावन्तो वै देवानाम्̇ सवाः 
   त एव  

VERSE: 2

   अस्मै सवान् प्र यच्छन्ति 
   त एनम्̇ सुवन्ते 
   सवो ऽग्निर् वरुणसवो राजसूयम् ब्रह्मसवश् चित्यः । 
   देवस्य त्वा सवितुः प्रसव इत्य् आह 
   सवितृप्रसूत एवैनम् ब्रह्मणा देवताभिर् अभि षिञ्चति । 
   अन्नस्यान्नस्याभि षिञ्चति । 
   अन्नस्यान्नस्यावरुद्ध्यै 
   पुरस्तात् प्रत्यञ्चम् अभि षिञ्चति 
   पुरस्ताद् धि प्रतीचीनम् अन्नम् अद्यते 
   शीर्षतो ऽभि षिञ्चति 
   शीर्षतो ह्य् अन्नम् अद्यते । 
  आ मुखाद् अन्ववस्रावयति ॥ 

VERSE: 3

   मुखत एवास्मा अन्नाद्यं दधाति । 
   अग्नेस् त्वा साम्राज्येनाभि षिञ्चामीत्य् आह । 
   एष वा अग्नेः सवः 
   तेनैवैनम् अभि षिञ्चति 
   बृहस्पतेस् त्वा साम्राज्येनाभि षिञ्चामीत्य् आह 
   ब्रह्म वै देवानाम् बृहस्पतिः । 
   ब्रह्मणैवैनम् अभि षिञ्चति । 
   इन्द्रस्य त्वा साम्राज्येनाभि षिञ्चामीत्य् आह । 
   इन्द्रियम् एवास्मिन्न् उपरिष्टाद् दधाति । 
   एतत्  

VERSE: 4

   वै राजसूयस्य रूपम् । 
   य एवं विद्वान् अग्निं चिनुत उभाव् एव लोकाव् अभि जयति यश् च राजसूयेनेजानस्य यश् चाग्निचितः । 
   इन्द्रस्य सुषुवाणस्य दशधेन्द्रियं वीर्यम् परापतत् 
   तद् देवाः सौत्रामण्या सम् अभरन् । 
   सूयते वा एष यो ऽग्निं चिनुते । 
   अग्निं चित्वा सौत्रामण्या यजेतेन्द्रियम् एव वीर्यम्̇ सम्भृत्यात्मन् धत्ते ॥ 

5.6.4 अनुवाक 4 होमाभिधानम् VERSE: 1

   सजूर् अब्दो ऽयावभिः 
   सजूर् उषा अरुणीभिः 
   सजूः सूर्य एतशेन 
   सजोषाव् अश्विना दम्̇सोभिः 
   सजूर् अग्निर् वैश्वानर इडाभिः । 
   घृतेन स्वाहा 
   संवत्सरो वा अब्दः । 
   मासा अयावाः । 
   उषा अरुणी 
  सूर्य एतशः । 
   इमे अश्विना 
  संवत्सरो ऽग्निर् वैश्वानरः 
  पशव इडा 
  पशवो घृतम् । 
 संवत्सरम् पशवो ऽनु प्र जायन्ते 
   संवत्सरेणैवास्मै पशून् प्र जनयति 
  दर्भस्तम्बे जुहोति 
   यत् 

VERSE: 2

   वा अस्या अमृतं यद् वीर्यं तद् दर्भाः 
   तस्मिञ् जुहोति 
   प्रैव जायते ऽन्नादो भवति यस्यैवं जुह्वति । 
   एता वै देवता अग्नेः पुरस्ताद्भागाः 
   ता एव प्रीणाति । 
   अथो चक्षुर् एवाग्नेः पुरस्तात् प्रति दधाति । 
   अनन्धो भवति य एवं वेद । 
   आपो वा इदम् अग्रे सलिलम् आसीत् 
   स प्रजापतिः पुष्करपर्णे वातो भूतो ऽलेलायत् 
  सः  

VERSE: 3

   प्रतिष्ठां नाविन्दत 
   स एतद् अपां कुलायम् अपश्यत् 
   तस्मिन्न् अग्निम् अचिनुत 
   तद् इयम् अभवत् 
   ततो वै स प्रत्य् अतिष्ठत् । 
   याम् पुरस्ताद् उपादधात् तच् छिरो ऽभवत् सा प्राची  दिग्  
   यां दक्षिणत उपादधात् स दक्षिणः पक्षो ऽभवत् सा दक्षिणा  दिग् 
   याम् पश्चाद् उपादधात् तत् पुच्छम् अभवत् सा प्रतीची  दिग्  
   याम् उत्तरत उपादधात्  

VERSE: 4

   स उत्तरः पक्षो ऽभवत् सोदीची  दिग्  
   याम् उपरिष्टाद् उपादधात् तत् पृष्ठम् अभवत् सोर्ध्वा  दिग्  
   इयम् वा अग्निः पञ्चेष्टकः 
   तस्माद् यद् अस्यां खनन्त्य् अभीष्टकां तृन्दन्त्य् अभि शर्कराम् । 
   सर्वा वा इयं वयोभ्यो नक्तं दृशे दीप्यते 
   तस्माद् इमां वयाम्̇सि नक्तं नाध्य् आसते 
   य एवं विद्वान् अग्निं चिनुते प्रत्य् एव 

VERSE: 5

   तिष्ठत्य् अभि दिशो जयति । 
   आग्नेयो वै ब्राह्मणः 
   तस्माद् ब्राह्मणाय सर्वासु दिक्ष्व् अर्धुकम् । 
   स्वाम् एव तद् दिशम् अन्व् एति । 
   अपां वा अग्निः कुलायम् । 
   तस्माद् आपो ऽग्निम्̇ हारुकाः 
   स्वाम् एव तद् योनिम् प्र विशन्ति ॥ 

5.6.5 अनुवाक 5 केषांचिद् हविषामभिधानम् VERSE: 1

   संवत्सरम् उख्यम् भृत्वा द्वितीये संवत्सर आग्नेयम् अष्टाकपालं निर् वपेद् ऐन्द्रम् एकादशकपालं वैश्वदेवं द्वादशकपालम् बार्हस्पत्यं चरुं वैष्णवं त्रिकपालम् । 
   तृतीये संवत्सरे ऽभिजिता यजेत 
   यद् अष्टाकपालो भवत्य् अष्टाक्षरा गायत्र्य् आग्नेयं गायत्रम् प्रातःसवनम् 
   प्रातःसवनम् एव तेन दाधार गायत्रीं छन्दः । 
   यद् एकादशकपालो भवत्य् एकादशाक्षरा त्रिष्टुग् ऐन्द्रं त्रैष्टुभम् माध्यंदिनम्̇ सवनम् 
   माध्यंदिनम् एव सवनं तेन दाधार त्रिष्टुभम्  

VERSE: 2

   छन्दः । 
   यद् द्वादशकपालो भवति द्वादशाक्षरा जगती वैश्वदेवं जागतं तृतीयसवनम् । 
   तृतीयसवनम् एव तेन दाधार जगतीं छन्दः । 
   यद् बार्हस्पत्यश् चरुर् भवति ब्रह्म वै देवानाम् बृहस्पतिः । 
   ब्रह्मैव तेन दाधार 
   यद् वैष्णवस् त्रिकपालो भवति यज्ञो वै विष्णुः । 
   यज्ञम् एव तेन दाधार 
   यत् तृतीये संवत्सरे ऽभिजिता यजते ऽभिजित्यै 
   यत् संवत्सरम् उख्यम् बिभर्तीमम् एव 

VERSE: 3

   तेन लोकम्̇ स्पृणोति 
   यद् द्वितीये संवत्सरे ऽग्निं चिनुते ऽन्तरिक्षम् एव तेन स्पृणोति 
   यत् तृतीये संवत्सरे यजते ऽमुम् एव तेन लोकम्̇ स्पृणोति । 
   एतं वै पर  आट्णारः कक्षीवाम्̇ औशिजो वीतहव्यः श्रायसस् त्रसदस्युः पौरुकुत्स्यः प्रजाकामा अचिन्वत 
   ततो वै ते सहस्रम्̇सहस्रम् पुत्रान् अविन्दन्त 
   प्रथते प्रजया पशुभिस् ताम् मात्राम् आप्नोति यां ते ऽगच्छन् य एवं विद्वान् अग्निं चिनुते ॥ 

5.6.6 अनुवाक 6 पूर्वोक्तविधिप्रशंसा VERSE: 1

   प्रजापतिर् अग्निम् अचिनुत 
   स क्षुरपविर् भूत्वातिष्ठत् 
   तं देवा बिभ्यतो नोपायन् 
   ते छन्दोभिर् आत्मानं छादयित्वोपायन् 
   तच् छन्दसां छन्दस्त्वम् 
   ब्रह्म वै छन्दाम्̇सि 
   ब्रह्मण एतद् रूपं यत् कृष्णाजिनम् । 
   कार्ष्णी उपानहाव् उप मुञ्चते छन्दोभिर् एवात्मानं छादयित्वाग्निम् उप चरत्य् आत्मनो ऽहिम्̇सायै 
   देवनिधिर् वा एष नि धीयते यद् अग्निः ॥ 

VERSE: 2

   अन्ये वा वै निधिम् अगुप्तं विन्दन्ति न वा प्रति प्र जानाति । 
   उखाम् आ क्रामत्य् आत्मानम् एवाधिपां कुरुते गुप्त्यै । 
   अथो खल्व् आहुः । 
   नाक्रम्येति 
   नैर्ऋत्य् उखा यद् आक्रामेन् निर्ऋत्या आत्मानम् अपि दध्यात् तस्मान् नाक्रम्या 
   पुरुषशीर्षम् उप दधाति गुप्त्यै । 
   अथो यथा ब्रूयात् । 
   एतन् मे गोपायेति तादृग् एव तत् ॥ 

VERSE: 3

   प्रजापतिर् वा अथर्वा । 
   अग्निर् एव दध्यङ्ङ् आथर्वणस् 
   तस्येष्टका अस्थानि । 
   एतम्̇ ह वाव तद् ऋषिर् अभ्यनूवाच । 
   इन्द्रो दधीचो अस्थभिर् इति 
   यद् इष्टकाभिर् अग्निं चिनोति सात्मानम् एवाग्निं चिनुते 
   सात्मामुष्मिम्̐ लोके भवति य एवं वेद 
   शरीरं वा एतद् अग्नेर् यच् चित्य आत्मा वैश्वानरः । 
   यच् चिते वैश्वानरं जुहोति शरीरम् एव सम्̇स्कृत्य 

VERSE: 4

   अभ्यारोहति 
   शरीरं वा एतद् यजमानः सम्̇स् कुरुते यद् अग्निं चिनुते 
   यच् चिते वैश्वानरं जुहोति शरीरम् एव सम्̇स्कृत्यात्मनाभ्यारोहति 
   तस्मात् तस्य नावद्यन्ति जीवन्न् एव देवान् अप्य् एति 
   वैश्वानर्यर्चा पुरीषम् उप दधाति । 
   इयं वा अग्निर् वैश्वानरस् 
   तस्यैषा चितिर् यत् पुरीषम् 
   अग्निम् एव वैश्वानरं चिनुते । 
   एषा वा अग्नेः प्रिया तनूर् यद् वैश्वानरः 
   प्रियाम् एवास्य तनुवम् अव रुन्द्धे ॥ 

5.6.7 अनुवाक 7 दीक्षाविकल्पविधिः VERSE: 1

   अग्नेर् वै दीक्षया देवा विराजम् आप्नुवन् 
   तिस्रो रात्रीर् दीक्षितः स्यात् 
   त्रिपदा { विराट् ^ विराज् } 
   विराजम् आप्नोति 
   षड् रात्रीर् दीक्षितः स्यात् 
   षड् वा ऋतवः संवत्सरः 
   संवत्सरो { विराड् ^ विराज् } 
   विराजम् आप्नोति 
   दश रात्रीर् दीक्षितः स्यात् । 

0 दशाक्षरा { विराड् ^ विराज् } 1 विराजम् आप्नोति 2 द्वादश रात्रीर् दीक्षितः स्यात् । 3 द्वादश मासाः संवत्सरः 4 संवत्सरो { विराड् ^ विराज् } 5 विराजम् आप्नोति 6 त्रयोदश रात्रीर् दीक्षितः स्यात् 7 त्रयोदश

VERSE: 2

   मासाः संवत्सरः॥ 
   संवत्सरो { विराड् ^ विराज् } 
   पञ्चदश रात्रीर् दीक्षितः स्यात् 
   पञ्चदश वा अर्धमासस्य रात्रयः । 
   अर्धमासशः संवत्सर आप्यते 
   संवत्सरो { विराड् ^ विराज् } 
   विराजम् आप्नोति 
   सप्तदश रात्रीर् दीक्षितः स्यात् । 
   द्वादश मासाः पञ्चर्तवः स संवत्सरः 
   संवत्सरो { विराड् ^ विराज् } 
   विराजम् आप्नोति 
  चतुर्विम्̇शतिम्̇ रात्रीर् दीक्षितः स्यात् । 
   चतुर्विम्̇शतिर् अर्धमासाः संवत्सरः 
   संवत्सरो { विराड् ^ विराज् } 
  विराजम् आप्नोति 
   त्रिम्̇शतम्̇ रात्रीर् दीक्षितः स्यात् ॥ 

VERSE: 3

   त्रिम्̇शदक्षरा { विराड् ^ विराज् } 
   विराजम् आप्नोति 
   मासं दीक्षितः स्यात् । 
   यो मासः स संवत्सरः 
   संवत्सरो { विराड् ^ विराज् } 
   विराजम् आप्नोति 
   चतुरो मासो दीक्षितः स्यात् । 
   चतुरो वा एतम् मासो वसवो ऽबिभरुस् ते पृथिवीम् आऽजयन् गायत्रीं छन्दः । 
   अष्टौ रुद्रास् ते ऽन्तरिक्षम् आऽजयन् त्रिष्टुभं छन्दः । 
   द्वादशादित्यास् ते दिवम् आऽजयञ् जगतीं छन्दस् 
   ततो वै ते व्यावृतम् अगच्छञ् छ्रैष्ठ्यं देवानाम् । 
   तस्माद् द्वादश मासो भृत्वाग्निं चिन्वीत 
   द्वादश मासाः संवत्सरः 
   संवत्सरो ऽग्निश् चित्यस् 
   तस्याहोरात्राणीष्टकाः । 
  आप्तेष्टकम् एनं चिनुते ऽथो व्यावृतम् एव गच्छति श्रैष्ठ्यम्̇ समानानाम् ॥ 

5.6.8 अनुवाक 8 अन्वारोहणाद्यभिधानम् VERSE: 1 सुवर्गाय वा एष लोकाय चीयते यद् अग्निस्

   तं यन् नान्वारोहेत् सुवर्गाल् लोकाद् यजमानो हीयेत 
   पृथिवीम् आक्रमिषम् प्राणो मा मा हासीत् । 
   अन्तरिक्षम् आक्रमिषम् प्रजा मा मा हासीत् । 
   दिवम् आक्रमिषम्̇ सुवर् अगन्म । 
   इत्य् आह । 
   एष वा अग्नेर् अन्वारोहस् 
   तेनैवैनम् अन्वारोहति 
   सुवर्गस्य लोकस्य समष्ट्यै 

यत् पक्षसम्मिताम् मिनुयात् ।

VERSE: 2

   कनीयाम्̇सं यज्ञक्रतुम् उपेयात् पापीयस्य् अस्यात्मनः प्रजा स्यात् । 
   वेदिसम्मिताम् मिनोति 
   ज्यायाम्̇सम् एव यज्ञक्रतुम् उपैति 
   नास्यात्मनः पापीयसी प्रजा भवति 

साहस्रं चिन्वीत प्रथमं चिन्वानः

   सहस्रसम्मितो वा अयं लोकः । 
   इमम् एव लोकम् अभि जयति 
   द्विषाहस्रं चिन्वीत द्वितीयं चिन्वानः । 
   द्विषाहस्रं वा अन्तरिक्षम् 

0 अन्तरिक्षम् एवाभि जयति 1 त्रिषाहस्रं चिन्वीत तृतीयं चिन्वानः ॥

VERSE: 3

   त्रिषाहस्रो वा असौ लोको ऽमुम् एव लोकम् अभि जयति 

जानुदघ्नं चिन्वीत प्रथमं चिन्वानः ।

   गायत्रियैवेमं लोकम् अभ्यारोहति 
   नाभिदघ्नं चिन्वीत द्वितीयं चिन्वानस् 
   त्रिष्टुभैवान्तरिक्षम् अभ्यारोहति 
   ग्रीवदघ्नं चिन्वीत तृतीयं चिन्वानः । 
   जगत्यैवामुं लोकम् अभ्यारोहति 

नाग्निं चित्वा रामाम् उपेयाद् अयोनौ रेतो धास्यामीति

   न द्वितीयं चित्वान्यस्य स्त्रियम्  

VERSE: 4

   उपेयात् । 
   न तृतीयं चित्वा कां चनोपेयात् । 
   रेतो वा एतन् नि धत्ते यद् अग्निं चिनुते 
   यद् उपेयाद् रेतसा व्यृध्येत । 
   अथो खल्व् आहुः । 
   अप्रजस्यं तद् यन् नोपेयाद् इति 
   यद् रेतःसिचाव् उपदधाति ते एव यजमानस्य रेतो बिभृतस् 
   तस्माद् उपेयाद् रेतसो ऽस्कन्दाय 

त्रीणि वाव रेताम्̇सि पिता पुत्रः पौत्रः ॥

VERSE: 5

   यद् द्वे रेतःसिचाव् उपदध्याद् रेतो ऽस्य वि छिन्द्यात् 
   तिस्र उप दधाति रेतसः संतत्यै । 
   इयं वाव प्रथमा रेतःसिग् वाग् वा इयं तस्मात् पश्यन्तीमाम् पश्यन्ति वाचं वदन्तीम् 
   अन्तरिक्षं द्वितीया प्राणो वा अन्तरिक्षं तस्मान् नान्तरिक्षम् पश्यन्ति न प्राणम् 
   असौ तृतीया चक्षुर् वा असौ तस्मात् पश्यन्त्य् अमूम् पश्यन्ति चक्षुः । 
   यजुषेमां च  

VERSE: 6

   अमूंचोप दधाति मनसा मध्यमाम् 
   एषां लोकानां क्लृप्त्यै । 
   अथो प्राणानाम् 

इष्टो यज्ञो भृगुभिर् आशीर्दा वसुभिस् तस्य त इष्टस्य वीतस्य द्रविणेह भक्षीयेत्य् आह

   स्तुतशस्त्रे एवैतेन दुहे 
   पिता मातरिश्वाऽछिद्रा पदा धा अछिद्रा उशिजः पदाऽनु तक्षुः सोमो विश्वविन् नेता नेषद् बृहस्पतिर् उक्थामदानि शम्̇सिषद् इत्य् आह । 
   एतद् वा अग्नेर् उक्थम् । 
   तेनैवैनम् अनु शम्̇सति ॥ 

5.6.9 अनुवाक 9 आसन्द्याद्यभिधानम् VERSE: 1 सूयते वा एषो ऽग्नीनां य उखायाम् भ्रियते

   यद् अधः सादयेद् गर्भाः प्रपादुकाः स्युः । 
   अथो यथा सवात् प्रत्यवरोहति तादृग् एव तत् । 
   आसन्दी सादयति गर्भाणां धृत्या अप्रपादाय । 
   अथो सवम् एवैनं करोति 

गर्भो वा एष यद् उख्यो योनिः शिक्यम् ।

   यच् छिक्याद् उखां निरूहेद् योनेर् गर्भं निर् हण्यात् 
   षड्-उद्यामम्̇ शिक्यम् भवति 
   षोढाविहितो वै 

VERSE: 2

   पुरुष आत्मा च शिरश् च चत्वार्य् अङ्गानि । 
   आत्मन्न् एवैनम् बिभर्ति 

प्रजापतिर् वा एष यद् अग्निस्

   तस्योखा चोलूखलं च स्तनौ 
   ताव् अस्य प्रजा उप जीवन्ति 
   यद् उखां चोलूखलं चोपदधाति ताभ्याम् एव यजमानो ऽमुष्मिम्̐ लोके ऽग्निं दुहे 

संवत्सरो वा एष यद् अग्निस्

   तस्य त्रेधाविहिता इष्टकाः प्राजापत्या वैष्णवीः ॥ 

VERSE: 3

   वैश्वकर्मणीः । 
   अहोरात्राण्य् एवास्य प्राजापत्याः । 
   यद् उख्यम् बिभर्ति प्राजापत्या एव तद् उप धत्ते 
   यत् समिध आदधाति वैष्णवा वै वनस्पतयः । 
   वैष्णवीर् एव तद् उप धत्ते 
   यद् इष्टकाभिर् अग्निं चिनोतीयं वै विश्वकर्मा 
   वैश्वकर्मणीर् एव तद् उप धत्ते 
   तस्माद् आहुस् 
   त्रिवृद् अग्निर् इति 

तं वा एतं यजमान एव चिन्वीत

   यद् अस्यान्यश् चिनुयाद् यत् तं दक्षिणाभिर् न राधयेद् अग्निम् अस्य वृञ्जीत 
   यो ऽस्याग्निं चिनुयात् तं दक्षिणाभी राधयेत् । 
   अग्निम् एव तत् स्पृणोति ॥ 

5.6.10 अनुवाक 10

बहुधा चयनप्रशंसा

VERSE: 1

   प्रजापतिर् अग्निम् अचिनुतर्तुभिः संवत्सरम् । 
   वसन्तेनैवास्य पूर्वार्धम् अचिनुत 
   ग्रीष्मेण दक्षिणम् पक्षम् । 
   वर्षाभिः पुच्छम् । 
   शरदोत्तरम् पक्षम् । 
   हेमन्तेन मध्यम् 
   ब्रह्मणा वा अस्य तत् पूर्वार्धम् अचिनुत 
   क्षत्रेण दक्षिणम् पक्षम् 
   पशुभिः पुच्छम् । 
  विशोत्तरम् पक्षम् 
  आशया मध्यम् । 
   य एवं विद्वान् अग्निं चिनुत ऋतुभिर् एवैनं चिनुते । 
  अथो एतद् एव सर्वम् अव  

VERSE: 2

   रुन्द्धे 
   शृण्वन्त्य् एनम् अग्निं चिक्यानम् 
   अत्त्य् अन्नम् । 
   रोचते । 
   इयं वाव प्रथमा चितिर् ओषधयो वनस्पतयः पुरीषम् 
   अन्तरिक्षं द्वितीया वयाम्̇सि पुरीषम् 
   असौ तृतीया नक्षत्राणि पुरीषम् । 
   यज्ञश् चतुर्थी दक्षिणा पुरीषम् । 
   यजमानः पञ्चमी प्रजा पुरीषम् । 
   यत् त्रिचितीकं चिन्वीत यज्ञं दक्षिणाम् आत्मानम् प्रजाम् अन्तर् इयात् 
  तस्मात् पञ्चचितीकश् चेतव्यः । 
   एतद् एव सर्वम्̇ स्पृणोति 
  यत् तिस्रश् चितयः ॥ 

VERSE: 3

   त्रिवृद् ध्य् अग्निः । 
   यद् द्वे द्विपाद् यजमानः प्रतिष्ठित्यै 
   पञ्च चितयो भवन्ति 
   पाङ्क्तः पुरुषः । 
   आत्मानम् एव स्पृणोति 
   पञ्च चितयो भवन्ति 
   पञ्चभिः पुरीषैर् अभ्य् ऊहति 
   दश सम् पद्यन्ते 
   दशाक्षरो वै पुरुषः । 
   यावान् एव पुरुषस् तम्̇ स्पृणोति । 
   अथो दशाक्षरा { विराड् ^ विराज् } 
  अन्नं { विराड् ^ विराज् } 
  विराज्य् एवान्नाद्ये प्रति तिष्ठति 
   संवत्सरो वै षष्ठी चितिः । 
  ऋतवः पुरीषम् । 
 षट् चितयो भवन्ति षट् पुरीषाणि 
  द्वादश सम् पद्यन्ते 
  द्वादश मासाः संवत्सरः 
   संवत्सर एव प्रति तिष्ठति ॥ 

5.6.11 अनुवाक 11 अष्टादशिपशुप्रथमसंघाभिधानम् VERSE: 1

   रोहितो धूम्ररोहितः कर्कन्धुरोहितस् ते प्राजापत्याः । 
   बभ्रुर् अरुणबभ्रुः शुकबभ्रुस् ते रौद्राः 
   श्येतः श्येताक्षः श्येतग्रीवस् ते पितृदेवत्यास् 
   तिस्रः कृष्णा वशा वारुण्यस् 
   तिस्रः श्वेता वशाः सौर्यः । 
   मैत्राबार्हस्पत्या धूम्रललामास् तूपराः ॥ 

5.6.12 अनुवाक 12 अष्टादशिपशुद्वितीयसंघाभिधानम् VERSE: 1

   पृश्निस् तिरश्चीनपृश्निर् ऊर्ध्वपृश्निस् ते मारुताः 
   फल्गूर् लोहितोर्णी बलक्षी ताः सारस्वत्यः 
   पृषती स्थूलपृषती क्षुद्रपृषती ता वैश्वदेव्यस् 
   तिस्रः श्यामा वशाः पौष्णियस् 
   तिस्रो रोहिणीर् वशा मैत्रियः । 
   ऐन्द्राबार्हस्पत्या अरुणललामास् तूपराः ॥ 

5.6.13 अनुवाक 13 अष्टादशिपशुतृतीयसंघाभिधानम् VERSE: 1

   शितिबाहुर् अन्यतःशितिबाहुः समन्तशितिबाहुस् त ऐन्द्रवायवाः 
   शितिरन्ध्रो ऽन्यतःशितिरन्ध्रः समन्तशितिरन्ध्रस् ते मैत्रावरुणाः 
   शुद्धवालः सर्वशुद्धवालो मणिवालस् त आश्विनास् 
   तिस्रः शिल्पा वशा वैश्वदेव्यस् 
   तिस्रः श्येनीः परमेष्ठिने 
   सोमापौष्णाः श्यामललामास् तूपराः ॥ 

5.6.14 अनुवाक 14 अष्टादशिपशुचतुर्थसंघाभिधानम् VERSE: 1

   उन्नत ऋषभो वामनस् त ऐन्द्रावरुणाः 
   शितिककुच् छितिपृष्ठः शितिभसत् त ऐन्द्राबार्हस्पत्याः 
   शितिपाच् छित्योष्ठः शितिभ्रुस् त ऐन्द्रावैष्णवास् 
   तिस्रः सिध्मा वशा वैश्वकर्मण्यस् 
   तिस्रो धात्रे पृषोदरा ऐन्द्रापौष्णाः श्येतललामास् तूपराः ॥ 

5.6.15अनुवाक 15 अष्टादशिपशुपञ्चमसंघाभिधानम् VERSE: 1

   कर्णास् त्रयो यामाः 
   सौम्यास् त्रयः श्वितिंगा अग्नये यविष्ठाय त्रयो नकुलास् 
   तिस्रो रोहिणीस् त्र्यव्यस् ता वसूनाम् । 
   तिस्रो ऽरुणा दित्यौह्यस् ता रुद्राणाम् । 
   सोमैन्द्रा बभ्रुललामास् तूपराः ॥ 

5.6.16 अनुवाक 16 अष्टादशिपशुषष्ठसंघाभिधानम् VERSE: 1

   शुण्ठास् त्रयो वैष्णवाः । 
   अधीलोधकर्णास् त्रयो विष्णव उरुक्रमाय 
   लप्सुदिनस् त्रयो विष्णव उरुगायाय 
   पञ्चावीस् तिस्र आदित्यानाम् । 
   त्रिवत्सास् तिस्रो ऽङ्गिरसाम् 
   ऐन्द्रावैष्णवा गौरललामास् तूपराः ॥ 

5.6.17 अनुवाक 17 अष्टादशिपशुसप्तमसंघाभिधानम् VERSE: 1

   इन्द्राय राज्ञे त्रयः शितिपृष्ठाः । 
   इन्द्रायाधिराजाय त्रयः शितिककुदः । 
   इन्द्राय स्वराज्ञे त्रयः शितिभसदस् 
   तिस्रस् तुर्यौह्यः साध्यानाम् । 
   तिस्रः पष्ठौह्यो विश्वेषां देवानाम् 
   आग्नेन्द्राः कृष्णललामास् तूपराः ॥ 

5.6.18 अनुवाक 18 अष्टादशिपशुअष्टमसंघाभिधानम् VERSE: 1

   अदित्यै त्रयो रोहितैताः । 
   इन्द्राण्यै त्रयः कृष्णैताः 
   कुह्वै त्रयो ऽरुणैतास् 
   तिस्रो धेनवो राकायै 
   त्रयो ऽनड्वाहः सिनीवाल्याः । 
   आग्नावैष्णवा रोहितललामास् तूपराः ॥ 

5.6.19 अनुवाक 19 अष्टादशिपशुनवमसंघाभिधानम् VERSE: 1

   सौम्यास् त्रयः पिशंगाः 
   सोमाय राज्ञे त्रयः सारंगाः 
   पार्जन्या नभोरूपास् 
   तिस्रो ऽजा मल्हा इन्द्राण्यै 
   तिस्रो मेष्य आदित्याः । 
   द्यावापृथिव्या मालंगास् तूपराः ॥ 

5.6.20 अनुवाक 20 अष्टादशिपशुदशमसंघाभिधानम् VERSE: 1

   वारुणास् त्रयः कृष्णललामाः । 
   वरुणाय राज्ञे त्रयो रोहितललामाः । 
   वरुणाय रिशादसे त्रयो ऽरुणललामाः 
   शिल्पास् त्रयो वैश्वदेवास् 
   त्रयः पृश्नयः सर्वदेवत्याः । 
   ऐन्द्रासूराः श्येतललामास् तूपराः ॥ 

5.6.21 अनुवाक 21 द्वंद्विपश्वभिधानम् VERSE: 1

   सोमाय स्वराज्ञे ऽनोवाहाव् अनड्वाहौ । 
   इन्द्राग्निभ्याम् ओजोदाभ्याम् उष्टारौ । 
   इन्द्राग्निभ्याम् बलदाभ्याम्̇ सीरवाहाव् अवी 
   द्वे धेनू भौमी 
   दिग्भ्यो वडबे 
   द्वे धेनू भौमी 
   वैराजी पुरुषी 
   द्वे धेनू भौमी 
   वायव आरोहणवाहाव् अनड्वाहौ 

0 वारुणी कृष्णे वशे 1 अराड्यौ दिव्याव् ऋषभौ परिमरौ ॥

5.6.22 अनुवाक 22

ऋतुपश्वभिधानम्

VERSE: 1

   एकादश प्रातर् गव्याः पशव आ लभ्यन्ते 

छगलः कल्माषः किकिदीविर् विदीगयस् ते त्वाष्ट्राः

   सौरीर् नव श्वेता वशा अनूबन्ध्या भवन्ति । 
   आग्नेय ऐन्द्राग्न आश्विनस् ते विशालयूप आ लभ्यन्ते ॥ 

5.6.23 अनुवाक 23 ऋतुपश्वभिधानम् VERSE: 1

   पिशंगास् त्रयो वासन्ताः 
   सारंगास् त्रयो ग्रीष्माः 
   पृषन्तस् त्रयो वार्षिकाः 
   पृश्नयस् त्रयः शारदाः 
   पृश्निसक्थास् त्रयो हैमन्तिकास् 
   अवलिप्तास् त्रयः शैशिराः 
   संवत्सराय निवक्षसः ॥ 


5.7 प्रपाठक: 7 5.7.1 अनुवाक 1

चितिस्पर्शाद्यभिधानम्

VERSE: 1

   यो वा अयथादेवतम् अग्निं चिनुत आ देवताभ्यो वृश्च्यते पापीयान् भवति 
   यो यथादेवतं न देवताभ्य आ वृश्च्यते वसीयान् भवति । 
   आग्नेय्या गायत्रिया प्रथमां चितिम् अभि मृशेत् त्रिष्टुभा द्वितीयां जगत्या तृतीयाम् अनुष्टुभा चतुर्थीम् पङ्क्त्या पञ्चमीम् । 
   यथादेवतम् एवाग्निं चिनुते न देवताभ्य आ वृश्च्यते वसीयान् भवति । 
   इडायै वा एषा विभक्तिः 
   पशव इडा 
   पशुभिर् एनम्  

VERSE: 2

   चिनुते 
   यो वै प्रजापतये प्रतिप्रोच्याग्निं चिनोति नार्तिम् आर्छति । 
   अश्वाव् अभितस् तिष्ठेतां कृष्ण उत्तरतः श्वेतो दक्षिणस् 
   ताव् आलभ्येष्टका उप दध्यात् । 
   एतद् वै प्रजापते रूपम् 
   प्राजापत्यो ऽश्वः 
   साक्षाद् एव प्रजापतये प्रतिप्रोच्याग्निं चिनोति नार्तिम् आर्छति । 
   एतद् वा अह्नो रूपं यच् छ्वेतो ऽश्वो रात्रियै कृष्णः । 
   एतद् अह्नः  

VERSE: 3

   रूपं यद् इष्टका रात्रियै पुरीषम् 
   इष्टका उपधास्यञ् छ्वेतम् अश्वम् अभि मृशेत् पुरीषम् उपधास्यन् कृष्णम् 
   अहोरात्राभ्याम् एवैनं चिनुते 
   हिरण्यपात्रम् मधोः पूर्णं ददाति 
   मधव्यो ऽसानीति 
   सौर्या चित्रवत्यावेक्षते 
   चित्रम् एव भवति मध्यंदिने । 
   अश्वम् अव घ्रापयति । 
   असौ वा आदित्य इन्द्र एष प्रजापतिः 
  प्राजापत्यो ऽश्वस् 
  तम् एव साक्षाद् ऋध्नोति ॥ 

5.7.2 अनुवाक 2

ऋषभेष्टकाद्यभिधानम्

VERSE: 1 त्वाम् अग्ने वृषभं चेकितानम् पुनर् युवानम् जनयन्न् उपागाम् । अस्थूरि णो गार्हपत्यानि सन्तु तिग्मेन नो ब्रह्मणा सम्̇ शिशाधि ॥

   पशवो वा एते यद् इष्टकाश् चित्यांचित्याम् ऋषभम् उप दधाति मिथुनम् एवास्य तद् यज्ञे करोति प्रजननाय तस्माद् यूथे-यूथ ऋषभः ।

संवत्सरस्य प्रतिमां यां त्वा रात्र्य् उपासते । प्रजाम्̇ सुवीरां कृत्वा विश्वम् आयुर् व्यश्नवत् ॥

   प्राजापत्याम् 

VERSE: 2

   एताम् उप दधातीयं वावैषैकाष्टका यद् एवैकाष्टकायाम् अन्नं क्रियते तद् एवैतयाव रुन्द्धे । 
   एषा वै प्रजापतेः कामदुघा तयैव यजमानो ऽमुष्मिम्̐ लोके ऽग्निं दुहे 

येन देवा ज्योतिषोर्ध्वा उदायन् येनादित्या वसवो येन रुद्राः । येनाङ्गिरसो महिमानम् आनशुस् तेनैतु यजमानः स्वस्ति ॥

   सुवर्गाय वा एष लोकाय  

VERSE: 3

   चीयते यद् अग्निः । 
   येन देवा ज्योतिषोर्ध्वा उदायन्न् इत्य् उख्यम्̇ सम् इन्द्ध इष्टका एवैता उप धत्ते वानस्पत्याः सुवर्गस्य लोकस्य समष्ट्यै 

शतायुधाय शतवीर्याय शतोतये ऽभिमातिषाहे । शतं यो नः शरदो अजीतान् इन्द्रो नेषद् अति दुरितानि विश्वा ॥ ये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति । तेषां यो अज्यानिम् अजीतिम् आवहात् तस्मै नो देवाः

VERSE: 4

   परि दत्तेह सर्वे ॥ 

ग्रीष्मो हेमन्त उत नो वसन्तः शरद् वर्षाः सुवितं नो अस्तु । तेषाम् ऋतूनाम्̇ शतशारदानां निवात एषां अभये स्याम ॥ इदुवत्सराय परिवत्सराय संवत्सराय कृणुता बृहन् नमः । तेषां वयम्̇ सुमतौ यज्ञियानां ज्योग् अजीता अहताः स्याम ॥ भद्रान् नः श्रेयः सम् अनैष्ट देवास् त्वयावसेन सम् अशीमहि त्वा । स नो मयोभूः पितो

VERSE: 5

   आ विशस्व शं तोकाय तनुवे स्योनः ॥ 
   अज्यानीर् एता उप दधात्य् एता वै देवता अपराजितास् ता एव प्र विशति नैव जीयते 
   ब्रह्मवादिनो वदन्ति 
   यद् अर्धमासा मासा ऋतवः संवत्सर ओषधीः पचन्त्य् अथ कस्माद् अन्याभ्यो देवताभ्य आग्रयणं निर् उप्यत इति । 
   एता हि तद् देवता उदजयन् यद् ऋतुभ्यो निर्वपेद् देवताभ्यः समदं दध्यात् । 
   आग्रयणं निरुप्यैता आहुतीर् जुहोति । 
   अर्धमासान् एव मासान् ऋतून्त् संवत्सरम् प्रीणाति न देवताभ्यः समदम् दधाति 
   भद्रान् नः श्रेयः सम् अनैष्ट देवा इत्य् आह हुताद्याय यजमानस्यापराभावाय ॥ 

5.7.3 अनुवाक 3 वज्रिणीष्टकोपधानविधिः VERSE: 1 इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् तनूपा नः प्रतिस्पशः । यो नः पुरस्ताद् दक्षिणतः पश्चाद् उत्तरतो ऽघायुर् अभिदासत्य् एतम्̇ सो ऽश्मानम् ऋच्छतु ॥

   देवासुराः संयत्ता आसन् 
   ते ऽसुरा दिग्भ्य आबाधन्त 
   तान् देवा इष्वा च वज्रेण चापानुदन्त 
   यद् वज्रिणीर् उपदधातीष्वा चैव तद् वज्रेण च यजमानो भ्रातृव्यान् अप नुदते 
   दिक्षूप  

VERSE: 2

   दधाति 
   देवपुरा एवैतास् तनूपानीः पर्यूहते । 

अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः । द्युम्नैर् वाजेभिर् आ गतम् ॥

   ब्रह्मवादिनो वदन्ति 
   यन् न देवतायै जुह्वत्य् अथ किंदेवत्या वसोर् धारेति । 
   अग्निर् वसुस् तस्यैषा धारा 
   विष्णुर् वसुस् तस्यैषा धारा । 
   ऽऽआग्नावैष्णव्यर्चा वसोर् धारां जुहोति 
   भागधेयेनैवैनौ सम् अर्धयति । 
   अथो एताम्  

VERSE: 3

   एवाऽऽहुतिम् आयतनवतीं करोति 
   यत्काम एनां जुहोति तद् एवाव रुन्द्धे 
   रुद्रो वा एष यद् अग्निस् 
   तस्यैते तनुवौ घोराऽन्या शिवाऽन्या 
   यच् छतरुद्रीयं जुहोति यैवास्य घोरा तनूस् तां तेन शमयति 
   यद् वसोर् धारां जुहोति यैवास्य शिवा तनूस् तां तेन प्रीणाति 
   यो वै वसोर् धारायै  

VERSE: 4

   प्रतिष्ठां वेद प्रत्य् एव तिष्ठति 
   यद् आज्यम् उच्छिष्येत तस्मिन् ब्रह्मौदनम् पचेत् 
   तम् ब्राह्मणाश् चत्वारः प्राश्नीयुः । 
   एष वा अग्निर् वैश्वानरो यद् ब्राह्मणः । 
   एषा खलु वा अग्नेः प्रिया तनूर् यद् वैश्वानरः 
   प्रियायाम् एवैनां तनुवाम् प्रति ष्ठापयति 
   चतस्रो धेनूर् दद्यात् 
   ताभिर् एव यजमानो ऽमुष्मिम्̐ लोके ऽग्निं दुहे ॥ 

5.7.4 अनुवाक 4 होमविशेषाणां राष्ट्रभृदिष्टकानां अभिधानम् VERSE: 1 चित्तिं जुहोमि मनसा घृतेन ।

   इत्य् आह । 
   अदाभ्या वै नामैषाऽऽहुतिर् वैश्वकर्मणी 
   नैनं चिक्यानम् भ्रातृव्यो दभ्नोति । 
   अथो देवता एवाव रुन्द्धे । 

अग्ने तम् अद्य इति पङ्क्त्या जुहोति

   पङ्क्त्याहुत्या यज्ञमुखम् आरभते 

सप्त ते अग्ने समिधः सप्त जिह्वाः इत्य् आह

  होत्रा एवाव रुन्द्धे । 
  अग्निर् देवेभ्यो ऽपाक्रामद् भागधेयम्  

VERSE: 2

   इच्छमानस् 
   तस्मा एतद् भागधेयम् प्रायच्छन् । 
   एतद् वा अग्नेर् अग्निहोत्रम् 
   एतर्हि खलु वा एष जातो यर्हि सर्वश् चितः । 
   जातायैवास्मा अन्नम् अपि दधाति 
   स एनम् प्रीतः प्रीणाति 
   वसीयान् भवति 

ब्रह्मवादिनो वदन्ति यद् एष गार्हपत्यश् चीयते ऽथ क्वास्याहवनीय इति ।

   असाव् आदित्य इति ब्रूयात् । 
  एतस्मिन् हि सर्वाभ्यो देवताभ्यो जुह्वति ॥ 

VERSE: 3

   य एवं विद्वान् अग्निं चिनुते साक्षाद् एव देवता ऋध्नोति । 

अग्ने यशस्विन् यशसेमम् अर्पयेन्द्रावतीम् अपचितीम् इहा वह । अयम् मूर्धा परमेष्ठी सुवर्चाः समानानाम् उत्तमश्लोको अस्तु ॥

   भद्रम् पश्यन्त उप सेदुर् अग्रे तपो दीक्षाम् ऋषयः सुवर्विदः । ततः क्षत्रम् बलम् ओजश् च जातं तद् अस्मै देवा अभि सं नमन्तु ॥ 
   धाता विधाता परमा  

VERSE: 4

   उत संदृक् प्रजापतिः परमेष्ठी विराजा । स्तोमाश् छन्दाम्̇सि निविदो म आहुर् एतस्मै राष्ट्रम् अभि सं नमाम ॥ 
   अभ्यावर्तध्वम् उप मेत साकम् अयम्̇ शास्ताधिपतिर् वो अस्तु । अस्य विज्ञानम् अनु सम्̇ रभध्वम् इमम् पश्चाद् अनु जीवाथ सर्वे ॥ 
   राष्ट्रभृत एता उप दधाति । 
   एषा वा अग्नेश् चिती राष्ट्रभृत् 
   तयैवास्मिन् राष्ट्रं दधाति 
   राष्ट्रम् एव भवति 
   नास्माद् राष्ट्रम् भ्रम्̇शते ॥ 

5.7.5 अनुवाक 5 पुनःपरीन्धनाद्यभिधानम् VERSE: 1 यथा वै पुत्रो जातो म्रियत एवं वा एष म्रियते यस्याग्निर् उख्य उद्वायति

   यन् निर्मन्थ्यं कुर्याद् वि छिन्द्याद् भ्रातृव्यम् अस्मै जनयेत् 
   स एव पुनः परीध्यः 
   स्वाद् एवैनं योनेर् जनयति 
   नास्मै भ्रातृव्यं जनयति 
   तमो वा एतं गृह्णाति यस्याग्निर् उख्य उद्वायति 
   मृत्युस् तमः 
   कृष्णं वासः कृष्णा धेनुर् दक्षिणा 
   तमसा 

VERSE: 2

   एव तमो मृत्युम् अप हते 
   हिरण्यं ददाति 
   ज्योतिर् वै हिरण्यम् । 
   ज्योतिषैव तमो ऽप हते । 
   अथो तेजो वै हिरण्यम् । 
   तेज एवात्मन् धत्ते 

सुवर् न घर्मः स्वाहा सुवर् नार्कः स्वाहा सुवर् न शुक्रः स्वाहा सुवर् न ज्योतिः स्वाहा सुवर् न सूर्यः स्वाहा ।

   अर्को वा एष यद् अग्निर् असाव् आदित्यः  

VERSE: 3

   अश्वमेधः । 
   यद् एता आहुतीर् जुहोत्य् अर्काश्वमेधयोर् एव ज्योतीम्̇षि सं दधाति । 
   एष ह त्वा अर्काश्वमेधी यस्यैतद् अग्नौ क्रियते । 

आपो वा इदम् अग्रे सलिलम् आसीत्

   स एताम् प्रजापतिः प्रथमां चितिम् अपश्यत् ताम् उपाधत्त तद् इयम् अभवत् 
   तं विश्वकर्माब्रवीत् । 
   उप त्वायानीति 
   नेह लोको ऽस्तीति  

VERSE: 4

   अब्रवीत् । 
   स एतां द्वितीयां चितिम् अपश्यत् ताम् उपाधत्त तद् अन्तरिक्षम् अभवत् 
   स यज्ञः प्रजापतिम् ब्रवीत् । 
   उप त्वायानीति 
   नेह लोको ऽस्तीत्य् अब्रवीत् 
   स विश्वकर्माणम् अब्रवीत् । 
   उप त्वायानीति 
   केन मोपैष्यसीति 
   दिश्याभिर् इत्य् अब्रवीत् 
  तम् दिश्याभिर् उपैत् 
  ता उपाधत्त 
   ता दिशः ॥ 

VERSE: 5

   अभवन् । 
   स परमेष्ठी प्रजापतिम् अब्रवीत् । 
   उप त्वायानीति 
   नेह लोको ऽस्तीत्य् अब्रवीत् 
   स विश्वकर्माणं च यज्ञं चाब्रवीत् । 
   उप वाम् आयानीति 
   नेह लोको ऽस्तीत्य् अब्रूताम् । 
   स एतां तृतीयां चितिम् अपश्यत् 
   ताम् उपाधत्त 
  तद् असाव् अभवत् 
  स आदित्यः प्रजापतिम् अब्रवीत् । 
 उप त्वा 

VERSE: 6

   आयानीति। 
   नेह लोको ऽस्तीत्य् अब्रवीत् 
   स विश्वकर्माणं च यज्ञं चाब्रवीत् । 
   उप वाम् आयानीति 
   नेह लोको ऽस्तीत्य् अब्रूताम् । 
   स परमेष्ठिनम् अब्रवीत् । 
   उप त्वायानीति 
   केन मोपैष्यसीति 
   लोकम्पृणयेत्य् अब्रवीत् 

0 तं लोकम्पृणयोपैत् 1 तस्माद् अयातयाम्नी लोकम्पृणा । 2 अयातयामा ह्य् असौ

VERSE: 7

    आदित्यस् ।
   तान् ऋषयो ऽब्रुवन् । 
   उप व आयामेति 
   केन न उपैष्यथेति 
   भूम्नेत्य् अब्रुवन् 
   तान् द्वाभ्यां चितीभ्याम् उपायन् । 
   स पञ्चचितीकः सम् अपद्यत 
   य एवं विद्वान् अग्निं चिनुते भूयान् एव भवत्य् अभीमाँल्लोकाञ् जयति विदुर् एनं देवाः । 
   अथो एतासाम् एव देवतानाम्̇ सायुज्यं गच्छति ॥ 

5.7.6 अनुवाक 6

व्रतचरणाद्यभिधानम् 

VERSE: 1 वयो वा अग्निर् यद् अग्निचित् पक्षिणो ऽश्नीयात् तम् एवाग्निम् अद्याद् आर्तिम् आर्छेत्

   संवत्सरं व्रतं चरेत् 
   संवत्सरम्̇ हि व्रतं नाति 

पशुर् वा एष यद् अग्निः ।

   हिनस्ति खलु वै तम् पशुर् य एनम् पुरस्तात् प्रत्यञ्चम् उपचरति 
   तस्मात् पश्चात् प्राङ् उपचर्य आत्मनो ऽहिम्̇सायै 

तेजो ऽसि तेजो मे यच्छ पृथिवीं यच्छ ।

VERSE: 2

   पृथिव्यै मा पाहि ज्योतिर् असि ज्योतिर् मे यच्छान्तरिक्षं यच्छान्तरिक्षान् मा पाहि सुवर् असि सुवर् मे यच्छ दिवं यच्छ दिवो मा पाहि । 
   इति आहैताभिर् वा इमे लोका विधृताः । 
   यद् एता उपदधात्य् एषां लोकानां विधृत्यै 
   स्वयमातृण्णा उपधाय हिरण्येष्टका उप दधातीमे वै लोकाः स्वयमातृण्णा ज्योतिर् हिरण्यम् । 
   यत् स्वयमातृण्णा उपधाय 

VERSE: 3

   हिरण्येष्टका उपदधातीमान् एवैताभिर् लोकाञ् ज्योतिष्मतः कुरुते ऽथो एताभिर् एवास्मा इमे लोकाः प्र भान्ति 

यास् ते अग्ने सूर्ये रुच उद्यतो दिवम् आतन्वन्ति रश्मिभिः । ताभिः सर्वाभी रुचे जनाय नस् कृधि ॥

   या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः । इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते ॥ 
   रुचं नो धेहि 

VERSE: 4

   ब्राह्मणेषु रुचम्̇ राजसु नस् कृधि । रुचं विश्येषु शूद्रेषु मयि धेहि रुचा रुचम् ॥ 
   द्वेधा वा अग्निं चिक्यानस्य यश इन्द्रियं गच्छत्य् अग्निं वा चितम् ईजानं वा 
   यद् एता आहुतीर् जुहोति । 
   आत्मन्न् एव यश इन्द्रियं धत्ते । 

ईश्वरो वा एष आर्तिम् आर्तोर् यो ऽग्निं चिन्वन्न् अधिक्रामति

   तत् त्वा यामि ब्रह्मणा वन्दमानः । 
   इति वारुण्यर्चा 

VERSE: 5

   जुहुयाच् छान्तिर् एवैषाग्नेर् गुप्तिर् आत्मनः । 

हविष्कृतो वा एष यो ऽग्निं चिनुते

   यथा वै हवि स्कन्दत्य् एवं वा एष स्कन्दति यो ऽग्निं चित्वा स्त्रियम् उपैति मैत्रावरुण्यामिक्षया यजेत मैत्रावरुणताम् एवोपैत्य् आत्मनो ऽस्कन्दाय 

यो वा अग्निम् ऋतुस्थां वेदर्तुर्ऋतुर् अस्मै कल्पमान एति प्रत्य् एव तिष्ठति

   संवत्सरो वा अग्निः  

VERSE: 6

   ऋतुस्थास् तस्य वसन्तः शिरो ग्रीष्मो दक्षिणः पक्षो वर्षाः पुच्छम्̇ शरद् उत्तरः पक्षो हेमन्तो मध्यम् पूर्वपक्षाश् चितयो ऽपरपक्षाः पुरीषम् अहोरात्राणीष्टका एष वा अग्निर् ऋतुस्था य एवं वेदर्तुर्ऋतुर् अस्मै कल्पमान एति प्रत्य् एव तिष्ठति 

प्रजापतिर् वा एतं ज्यैष्ठ्यकामो न्य् अधत्त

   ततो वै स ज्यैष्ठ्यम् अगच्छत् । 
   य एवं विद्वान् अग्निं चिनुते ज्यैष्ठ्यम् एव गच्छति ॥ 

5.7.7 अनुवाक 7 आकूतिमन्त्राभिधानम् VERSE: 1 यद् आकूतात् समसुस्रोद्धृदो वा मनसो वा सम्भृतं चक्षुषो वा । तम् अनु प्रेहि सुकृतस्य लोकं यत्रर्षयः प्रथमजा ये पुराणाः ॥ एतम्̇ सधस्थ परि ते ददामि यम् आवहाच् छेवधिं जातवेदाः । अन्वागन्ता यज्ञपतिर् वो अत्र तम्̇ सम जानीत परमे व्योमन् ॥ जानीताद् एनम् परमे व्योमन् देवाः सधस्था विद रूपम् अस्य । यद् आगच्छात्

VERSE: 2

   पथिभिर् देवयानैर् इष्टापूर्ते कृणुताद् आविर् अस्मै ॥ 

सम् प्र च्यवध्वम् अनु सम् प्र याताग्ने पथो देवयानान् कृणुध्वम् । अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विश्वे देवा यजमानश् च सीदत ॥ प्रस्तरेण परिधिना स्रुचा वेद्या च बर्हिषा । ऋचेमं यज्ञं नो वह सुवर् देवेषु गन्तवे ॥ यद् इष्टम् यत् परादानं यद् दत्तं या च दक्षिणा । तत्

VERSE: 3

   अग्निर् वैश्वकर्मणः सुवर् देवेषु नो दधत् ॥ 

येना सहस्रं वहसि येनाग्ने सर्ववेदसम् । तेनेमं यज्ञं नो वह सुवर् देवेषु गन्तवे ॥ येनाग्ने दक्षिणा युक्ता यज्ञं वहन्त्य् ऋत्विजः । तेनेमं यज्ञं नो वह सुवर् देवेषु गन्तवे ॥ येनाग्ने सुकृतः पथा मधोर् धारा व्यानशुः । तेनेमं यज्ञं नो वह सुवर् देवेषु गन्तवे ॥ यत्र धारा अनपेता मधोर् घृतस्य च याः । तद् अग्निर् वैश्वकर्मणः सुवर् देवेषु नो दधत् ॥

5.7.8 अनुवाक 8 स्वयंचित्याद्यभिधानम् VERSE: 1 यास् ते अग्ने समिधो यानि धाम या जिह्वा जातवेदो यो अर्चिः । ये ते अग्ने मेडयो य इन्दवस् तेभिर् आत्मानं चिनुहि प्रजानन् ॥

   उत्सन्नयज्ञो वा एष यद् अग्निः किं वाहैतस्य क्रियते किं वा न यद् वा अध्वर्युर् अग्नेश् चिन्वन्न् अन्तरेत्य् आत्मनो वै तद् अन्तर् एति यास् ते अग्ने समिधो यानि  

VERSE: 2

   धामेत्य् आहैषा वा अग्नेः स्वयंचितिर् अग्निर् एव तद् अग्निं चिनोति नाध्वर्युर् आत्मनो ऽन्तर् एति 
   चतस्र आशाः प्र चरन्त्व् अग्नय इमं नो यज्ञं नयतु प्रजानन् । घृतम् पिन्वन्न् अजरम्̇ सुवीरम् ब्रह्म समिद् भवत्य् आहुतीनाम् ॥ 
   सुवर्गाय वा एष लोकायोप धीयते यत् कूर्मश् 

चतस्र आशाः प्र चरन्त्व् अग्नय इत्य् आह ।

VERSE: 3

   दिश एवैतेन प्र जानातीमं नो यज्ञं नयतु प्रजानन्न् इत्य् आह सुवर्गस्य लोकस्याभिनीत्यै ब्रह्म समिद् भवत्य् आहुतीनाम् इत्य् आह ब्रह्मणा वै देवाः सुवर्गं लोकम् आयन् यद् ब्रह्मण्वत्योपदधाति ब्रह्मणैव तद् यजमानः सुवर्गं लोकम् एति 
   प्रजापतिर् वा एष यद् अग्निस् तस्य प्रजाः पशवश् छन्दाम्̇सि रूपम्̇ सर्वान् वर्णान् इष्टकानां कुर्याद् रूपेणैव प्रजाम् पशूञ् छन्दाम्̇स्य् अव रुन्द्धे ऽथो प्रजाभ्य एवैनम् पशुभ्यश् छन्दोभ्यो ऽवरुद्ध्य चिनुते ॥ 

5.7.9 अनुवाक 9 अग्निग्रहणाद्यभिधानम् VERSE: 1 मयि गृह्णाम्य् अग्रे अग्निम्̇ रायस् पोषाय सुप्रजास्त्वाय सुवीर्याय । मयि प्रजाम् मयि वर्चो दधाम्य् अरिष्टाः स्याम तनुवा सुवीराः ॥

   यो नो अग्निः पितरो हृत्स्व् अन्तर् अमर्त्यो मर्त्याम्̇ आविवेश । तम् आत्मन् परि गृह्णीमहे वयम् मा सो अस्माम्̇ अवहाय परा गात् ॥ 
   यद् अध्वर्युर् आत्मन्न् अग्निम् अगृहीत्वाग्निं चिनुयाद् यो ऽस्य स्वो ऽग्निस् तम् अपि  

VERSE: 2

   यजमानाय चिनुयाद् अग्निं खलु वै पशवोऽनूप तिष्ठन्ते ऽपक्रामुका अस्मात् पशवः स्युर् मयि गृह्णाम्य् अग्रे अग्निम् इत्य् आहात्मन्न् एव स्वम् अग्निं दाधार नास्मात् पशवो ऽप क्रामन्ति 
   ब्रह्मवादिनो वदन्ति यन् मृच् चापश् चाग्नेर् अनाद्यम् अथ कस्मान् मृदा चाद्भिश् चाग्निश् चीयत इति यद् अद्भिः संयौति ॥ 

VERSE: 3

   आपो वै सर्वा देवता देवताभिर् एवैनम्̇ सम्̇ सृजति यन् मृदा चिनोतीयं वा अग्निर् वैश्वानरो ऽग्निनैव तद् अग्निं चिनोति 
   ब्रह्मवादिनो वदन्ति यन् मृदा चाद्भिश् चाग्निश् चीयतेथ कस्माद् अग्निर् उच्यत इति यच् छन्दोभिश् चिनोत्य् अग्नयो वै छन्दाम्̇सि तस्माद् अग्निर् उच्यते ऽथो इयं वा अग्निर् वैश्वानरो यत् 

VERSE: 4

   मृदा चिनोति तस्माद् अग्निर् उच्यते 
   हिरण्येष्टका उप दधाति ज्योतिर् वै हिरण्यं ज्योतिर् एवास्मिन् दधात्य् अथो तेजो वै हिरण्यं तेज एवात्मन् धत्ते 
   यो वा अग्निम्̇ सर्वतोमुखं चिनुते सर्वासु प्रजास्व् अन्नम् अत्ति सर्वा दिशो ऽभि जयति गायत्रीम् पुरस्ताद् उप दधाति त्रिष्टुभं दक्षिणतो जगतीम् पश्चाद् अनुष्टुभम् उत्तरतः पङ्क्तिम् मध्य एष वा अग्निः सर्वतोमुखस् तं य एवं विद्वाम्̇श् चिनुते सर्वासु प्रजास्व् अन्नम् अत्ति सर्वा दिशो ऽभि जयत्य् अथो दिश्य् एव दिशम् प्र वयति तस्माद् दिशि दिक् प्रोता ॥ 

5.7.10 अनुवाक 10 पशुशीर्षाभिधानम् VERSE: 1

   प्रजापतिर् अग्निम् असृजत 
   सो ऽस्मात् सृष्टः प्राङ् प्राद्रवत् तस्मा अश्वम् प्रत्य् आस्यत् 
   स दक्षिणाऽवर्तत तस्मै वृष्णिम् प्रत्य् आस्यत् 
   स प्रत्यङ्ङ् आवर्तत तस्मा ऋषभम् प्रत्य् आस्यत् 
   स उदङ्ङ् आवर्तत तस्मै बस्तम् प्रत्य् आस्यत् 
   स ऊर्ध्वो ऽद्रवत् तस्मै पुरुषम् प्रत्य् आस्यत् । 
   यत् पशुशीर्षाण्य् उपदधाति सर्वत एवैनम् 

VERSE: 2

   अवरुध्य चिनुते । 
   एता वै प्राणभृतश् चक्षुष्मतीर् इष्टका यत् पशुशीर्षाणि 
   यत् पशुशीर्षाण्य् उपदधाति ताभिर् एव यजमानो ऽमुष्मिम्̐ लोके प्राणित्य् अथो ताभिर् एवास्मा इमे लोकाः प्र भान्ति 
   मृदाभिलिप्योप दधाति मेध्यत्वाय 
   पशुर् वा एष यद् अग्निर् अन्नम् पशवः । 
   एष खलु वा अग्निर् यत् पशुशीर्षाणि 
   यं कामयेत 
   कनीयो ऽस्यान्नम् 

VERSE: 3

   स्याद् इतिसंतरां तस्य पशुशीर्षाण्य् उप दध्यात् कनीय एवास्यान्नम् भवति 
   यं कामयेत 
   समावद् अस्यान्नम्̇ स्याद् इति मध्यतस् तस्योप दध्यात् समावद् एवास्यान्नम् भवति 
   यं कामयेत 
   भूयो ऽस्यान्नम्̇ स्याद् इत्य् अन्तेषु तस्य व्युदूह्योप दध्याद् अन्तत एवास्मा अन्नम् अव रुन्द्धे भूयो ऽस्यान्नम् भवति ॥ 

5.7.11 अनुवाक 11 अश्वमेधाङ्गमन्त्राभिधानम् VERSE: 1

   स्तेगान् दम्̇ष्ट्राभ्याम् 
   मण्डूकाञ् जम्भ्येभिः । 
   आदकां खादेन । 
   ऊर्जम्̇ सम्̇सूदेन । 
   अरण्यं जाम्बीलेन 
   मृदम् बर्स्वेभिः 
   शर्कराभिर् अवकाम् 
   अवकाभिः शर्कराम् 
   उत्सादेन जिह्वाम् 

0 अवक्रन्देन तालुम् । 1 सरस्वतीं जिह्वाग्रेण ॥

अनुवाक 12 पूर्वोक्तद्वितीयानुवाकगतमन्त्राभिधानम् VERSE: 1

   वाजम्̇ हनूभ्याम् 
   अप आस्येन । 
   आदित्याञ्̇ छ्मश्रुभिः । 
   उपयामम् अधरेणोष्ठेन 
   सद् उत्तरेण । 
   अन्तरेणानूकाशम् 
   प्रकाशेन बाह्यम् । 
   स्तनयित्नुं निर्बाधेन 
   सूर्याग्नी चक्षुर्भ्याम् । 

0 विद्युतौ कनानकाभ्याम् 1 अशनिम् मस्तिष्केण 2 बलम् मज्जभिः ॥

5.7.13 अनुवाक 13 पूर्वोक्ततृतीयानुवाकगतमन्त्राभिधानम् VERSE: 1

   कूर्माञ् छफैः । 
   अच्छलाभिः कपिञ्जलान् । 
   साम कुष्ठिकाभिः । 
   जवं जङ्घाभिः । 
   अगदं जानुभ्याम् । 
   वीर्यं कुहाभ्याम् 
   भयम् प्रचालाभ्याम् । 
   गुहोपपक्षाभ्याम् 
   अश्विनाव् अम्̇साभ्याम् 

0 अदितिम्̇ शीर्ष्णा 1 निर्ऋतिं निर्जाल्मकेन शीर्ष्णा ॥

5.7.14 अनुवाक 14 पूर्वोक्तचतुर्थानुवाकगतमन्त्राभिधानम् VERSE: 1

   योक्त्रं गृध्राभिः । 
   युगम् आनतेन 
   चित्तम् मन्याभिः 
   संक्रोशान् प्राणैः 
   प्रकाशेन त्वचम् 
   पराकाशेनान्तराम् 
   मशकान् केशैः । 
   इन्द्रम्̇ स्वपसा वहेन 
   बृहस्पतिम्̇ शकुनिसादेन 

0 रथम् उष्णिहाभिः ॥

5.7.15 अनुवाक 15 पूर्वोक्तपञ्चमानुवाकगतमन्त्राभिधानम् VERSE: 1

   मित्रावरुणौ श्रोणीभ्याम् 
   इन्द्राग्नी शिखण्डाभ्याम् 
   इन्द्राबृहस्पती ऊरुभ्याम् 
   इन्द्राविष्णू अष्ठीवद्भ्याम् । 
   सवितारम् पुच्छेन 
   गन्धर्वाञ् छेपेन । 
   अप्सरसो मुष्काभ्याम् 
   पवमानम् पायुना 
   पवित्रम् पोत्राभ्याम् 

0 आक्रमणम्̇ स्थूराभ्याम् 1 प्रतिक्रमणं कुष्ठाभ्याम् ॥

5.7.16 अनुवाक 16 पूर्वोक्तषष्ठानुवाकगतमन्त्राभिधानम् VERSE: 1

   इन्द्रस्य क्रोडः । 
   अदित्यै पाजस्यम् । 
   दिशां जत्रवः । 
   जीमूतान् हृदयौपशाभ्याम् 
   अन्तरिक्षम् पुरितता 
   नभ उदर्येण । 
   इन्द्राणीम् प्लीह्ना 
   वल्मीकान् क्लोम्ना 
   गिरीन् प्लाशिभिः 
   समुद्रम् उदरेण 
   वैश्वानरम् भस्मना ॥ 

5.7.17 अनुवाक 17 पूर्वोक्तसप्तमानुवाकगतमन्त्राभिधानम् VERSE: 1

   पूष्णो वनिष्ठुः । 
   अन्धाहे स्थूरगुदा 
   सर्पान् गुदाभिः । 
   ऋतून् पृष्टीभिः । 
   दिवम् पृष्ठेन 
   वसूनाम् प्रथमा कीकसा 
   रुद्राणां द्वितीया । 
   आदित्यानां तृतीया । 
   अङ्गिरसां चतुर्थी 
   साध्यानाम् पञ्चमी 
   विश्वेषां देवानाम्̇ षष्ठी ॥ 

5.7.18 अनुवाक 18 पूर्वोक्तअष्टमानुवाकगतमन्त्राभिधानम् VERSE: 1

   ओजो ग्रीवाभिः । 
   निर्ऋतिम् अस्थभिः । 
   इन्द्रम्̇ स्वपसा वहेन 
   रुद्रस्य विचलः स्कन्धः । 
   अहोरात्रयोर् द्वितीयः । 
   अर्धमासानां तृतीयः । 
   मासां चतुर्थः । 
   ऋतूनाम् पञ्चमः 
   संवत्सरस्य षष्ठः ॥ 

5.7.19 अनुवाक 19 पूर्वोक्तनवमानुवाकगतमन्त्राभिधानम् VERSE: 1

   आनन्दं नन्दथुना 
   कामम् प्रत्यासाभ्याम् 
   भयम्̇ शितीमभ्याम् 
   प्रशिषम् प्रशासाभ्याम् । 
   सूर्याचन्द्रमसौ वृक्याभ्याम् । 
   श्यामशबलौ मतस्नाभ्याम् । 
   व्युष्टिम्̇ रूपेण 
   निम्रुक्तिम् अरूपेण ॥ 

5.7.20 अनुवाक 20 पूर्वोक्तदशमानुवाकगतमन्त्राभिधानम् VERSE: 1

   अहर् माम्̇सेन 
   रात्रिम् पीवसा । 
   अपो यूषेण 
   घृतम्̇ रसेन् 
   श्यां वसया 
   दूषीकाभिर् ह्रादुनिम् 
   अश्रुभिः पृष्वाम् । 
   दिवम्̇ रूपेण 
   नक्षत्राणि प्रतिरूपेण 
   पृथिवीं चर्मणा 
   छवीं छव्या । 
   उपाकृताय स्वाहा । 
   आलब्धाय स्वाहा 
   हुताय स्वाहा ॥ 

5.7.21 अनुवाक 21 पूर्वोक्तैकादशानुवाकगतमन्त्राभिधानम् VERSE: 1

   अग्नेः पक्षतिः 
   सरस्वत्यै निपक्षतिः 
   सोमस्य तृतीया । 
   अपां चतुर्थी । 
   ओषधीनाम् पञ्चमी 
   संवत्सरस्य षष्ठी 
   मरुताम्̇ सप्तमी 
   बृहस्पतेर् अष्टमी 
   मित्रस्य नवमी 
  वरुणस्य दशमी । 
  इन्द्रस्यैकादशी 
   विश्वेषां देवानां द्वादशी 
  द्यावापृथिव्योः पार्श्वम् । 
   यमस्य पाटूरः ॥ 

5.7.22 अनुवाक 22 पूर्वोक्तद्वादशानुवाकगतमन्त्राभिधानम् VERSE: 1

   वायोः पक्षतिः 
   सरस्वतो निपक्षतिः । 
   चन्द्रमसस् तृतीया 
   नक्षत्राणां चतुर्थी 
   सवितुः पञ्चमी 
   रुद्रस्य षष्ठी 
   सर्पाणाम्̇ सप्तमी । 
   अर्यम्णो ऽष्टमी 
   त्वष्टुर् नवमी धातुर् दशमी । 
   इन्द्राण्या एकादशी । 
   अदित्यै द्वादशी 
  द्यावापृथिव्योः पार्श्वम् । 
   यम्यै पाटूरः ॥ 

5.7.23 अनुवाक 23 पूर्वोक्तत्रयोदशानुवाकगतमन्त्राभिधानम् VERSE: 1

   पन्थाम् अनूवृग्भ्याम् । 
   संततिम्̇ स्नावन्याभ्याम् । 
   शुकान् पित्तेन 
   हरिमाणं यक्ना 
   हलीक्ष्णान् पापवातेन 
   कूश्माञ् छकभिः 
   शवर्तान् ऊवध्येन 
   शुनो विशसनेन 
   सर्पाम्̐ लोहितगन्धेन 
   वयाम्̇सि पक्वगन्धेन 
  पिपीलिकाः प्रशादेन ॥ 

5.7.24 अनुवाक 24 पूर्वोक्तचतु्र्दशानुवाकगतमन्त्राभिधानम् VERSE: 1

   क्रमैर् अत्य् अक्रमीद् वाजी विश्वैर् देवैर् यज्ञियैः संविदानः 
   स नो नय सुकृतस्य लोकं तस्य ते वयम्̇ स्वधया मदेम ॥ 

5.7.25 अनुवाक 25 अश्वमेधब्राह्मणोक्त द्यौस्त इति मन्त्राभिधानम् VERSE: 1 द्यौस् ते पृष्ठम् पृथिवी सधस्थम् आत्मान्तरिक्षम् । समुद्रो योनिः सूर्यस् ते चक्षुः । वातः प्राणः । चन्द्रमाः श्रोत्रम् मासाश् चार्धमाषाश् च पर्वाणि । ऋतवोङ्गानि संवत्सरो महिमा ॥

5.7.26 अनुवाक 26 अश्वमेधब्राह्मणोक्त अग्निः पशुरिति मन्त्राभिधानम् VERSE: 1

   अग्निः पशुर् आसीत् 
   तेनायजन्त 
   स एतं लोकम् अजयद् यस्मिन्न् अग्निः 
   स ते लोकस् 
   तं जेष्यसि । 
   अथाव जिघ्र 
   वायुः पशुर् आसीत् 
   तेनायजन्त 
   स एतं लोकम् अजयद् यस्मिन् वायुः 
   स ते लोकस् 
   तस्मात् त्वान्तर् एष्यामि यदि नावजिघ्रसि । 
  आदित्यः पशुर् आसीत् 
   तेनायजन्त 
   स एतं लोकम् अजयद् यस्मिन्न् आदित्यः 
  स ते लोकस् 
   तं जेष्यसि यद्य् अवजिघ्रसि ॥ 

तैत्तिरीय संहिता काण्ड 6 6.1 प्रपाठक: 1 6.1.1 अनुवाक 1 क्षुरकर्मादिसंस्कृतस्य प्राग्वंशप्रवेशाभिधानम् VERSE: 1

   प्राचीनवम्̇शं करोति 
   देवमनुष्या दिशो व्यभजन्त 
   प्राचीं देवा दक्षिणा पितरः प्रतीचीम् मनुष्या उदीचीम्̇ रुद्राः । 
   यत् प्राचीनवम्̇शं करोति देवलोकम् एव तद् यजमान उपावर्तते 
   परि श्रयति । 
   अन्तर्हितो हि देवलोको मनुष्यलोकात् । 
   नास्माल्लोकात् स्वेतव्यम् इवेत्य् आहुः 
   को हि तद् वेद यद्य् अमुष्मिम्̐ लोके ऽस्ति वा न वेति 
   दिक्ष्व् अतीकाशान् करोति  

VERSE: 2

   उभयोर् लोकयोर् अभिजित्यै 
   केशश्मश्रु वपते नखानि नि कृन्तते 
   मृता वा एषा त्वग् अमेध्या यत् केशश्मश्रु 
   मृताम् एव त्वचम् अमेध्याम् अपहत्य यज्ञियो भूत्वा मेधम् उपैति । 
   अङ्गिरसः सुवर्गं लोकम् यन्तो ऽप्सु दीक्षातपसी प्रावेशयन् । 
   अप्सु स्नाति 
   साक्षाद् एव दीक्षातपसी अव रुन्द्धे 
   तीर्थे स्नाति 
   तीर्थे हि ते ताम् प्रावेशयन् 
  तीर्थे स्नाति  

VERSE: 3

   तीर्थम् एव समानानाम् भवति । 
   अपो ऽश्नाति । 
   अन्तरत एव मेध्यो भवति 
   वाससा दीक्षयति 
   सौम्यं वै क्षौमं देवतया 
   सोमम् एष देवताम् उपैति यो दीक्षते 
   सोमस्य तनूर् असि तनुवम् मे पाहीत्य् आह 
   स्वाम् एव देवताम् उपैति । 
   अथो आशिषम् एवैतां आ शास्ते । 
   अग्नेस् तूषाधानम् । 
   वायोर् वातपानम् 
   पितृणां नीविः । 
  ओषधीनाम् प्रघातः । 

VERSE: 4

   आदित्यानाम् प्राचीनतानः । 
   विश्वेषां देवानाम् ओतुः । 
   नक्षत्राणाम् अतीकाशास् 
   तद् वा एतत् सर्वदेवत्यं यद् वासः । 
   यद् वाससा दीक्षयति सर्वाभिर् एवैनं देवताभिर् दीक्षयति 
   बहिःप्राणो वै मनुष्यस् 
   तस्याशनम् प्राणः । 
   अश्नाति सप्राण एव दीक्षते । 
   आशितो भवति 
   यावान् एवास्य प्राणस् तेन सह मेधम् उपैति 
   घृतं देवानाम् 
   मस्तु पितृणाम् । 
   निष्पक्वम् मनुष्याणाम् । 
   तद् वै 

VERSE: 5

   एतत् सर्वदेवत्यं यन् नवनीतम् । 
   यन् नवनीतेनाभ्यङ्क्ते सर्वा एव देवताः प्रीणाति 
   प्रच्युतो वा एषो ऽस्माल् लोकाद् अगतो देवलोकं यो दीक्षितः । 
   अन्तरेव नवनीतम् । 
   तस्मान् नवनीतेनाभ्य् अङ्क्ते । 
   अनुलोमम् । 
   यजुषा 
   व्यावृत्त्यै । 
   इन्द्रो वृत्रम् अहन् 
  तस्य कनीनिका परापतत् 
   तद् आञ्जनम् अभवत् । 
  यद् आङ्क्ते चक्षुर् एव भ्रातृव्यस्य वृङ्क्ते 
   दक्षिणम् पूर्वम् आङ्क्ते 

VERSE: 6

   सव्यम्̇ हि पूर्वम् मनुष्या आञ्जते 
   न नि धावते 
   नीव हि मनुष्या धावन्ते 
   पञ्च कृत्व आऽङ्क्ते
   पञ्चाक्षरा पङ्क्तिः 
   पाङ्क्तो यज्ञः । 
   यज्ञम् एवाव रुन्द्धे 
   परिमितम् आऽङ्क्ते। 
   परिमितम्̇ हि मनुष्या आञ्जते 
   सतूलयाऽऽङ्क्ते। 
   अपतूलया हि मनुष्या आञ्जते 
   व्यावृत्त्यै 
   यद् अपतूलयाऽऽञ्जीत वज्र इव स्यात् 
  सतूलयाऽङ्क्ते मित्रत्वाय । 

VERSE: 7

   इन्द्रो वृत्रम् अहन् । 
   सो ऽपो ऽभ्य्य् अम्रियत 
   तासां यन् मेध्यं यज्ञियम्̇ सदेवम् आसीत् तद् अपोदक्रामत् 
   ते दर्भा अभवन् 
   यद् दर्भपुञ्जीलैः पवयति या एव मेध्या यज्ञियाः सदेवा आपस् ताभिर् एवैनम् पवयति 
   द्वाभ्याम् पवयति । 
   अहोरात्राभ्याम् एवैनम् पवयति 
   त्रिभिः पवयति 
   त्रय इमे लोकाः । 
   एभिर् एवैनं लोकैः पवयति 
   पञ्चभिः 

VERSE: 8

   पवयति 
   पञ्चाक्षरा पङ्क्तिः 
   पाङ्क्तो यज्ञः । 
   यज्ञायैवैनम् पवयति 
   षड्भिः पवयति 
   षड् वा ऋतवः । 
   ऋतुभिर् एवैनम् पवयति 
   सप्तभिः पवयति 
   सप्त छन्दाम्̇सि 
  छन्दोभिर् एवैनम् पवयति 
   नवभिः पवयति 
   नव वै पुरुषे प्राणाः 
  सप्राणम् एवैनम् पवयति । 
   एकविम्̇शत्या पवयति 
   दश हस्त्या अङ्गुलयो दश पद्या आत्मैकविम्̇शः । 
   यावान् एव पुरुषस् तम् अपरिवर्गम्

VERSE: 9

   पवयति 
   चित्पतिस् त्वा पुनात्व् इत्य् आह 
   मनो वै चित्पतिः । 
   मनसैवैनम् पवयति 
   वाक्पतिस् त्वा पुनात्व् इत्य् आह 
   वाचैवैनम् पवयति 
   देवस् त्वा सविता पुनात्व् इत्य् आह 
   सवितृप्रसूत एवैनम् पवयति 
   तस्य ते पवित्रपते पवित्रेण यस्मै कम् पुने तच् छकेयम् इत्य् आह । 
   आशिषम् एवैताम् आ शास्ते ॥ 

6.1.2 अनुवाक 2 दीक्षाहुत्याभिधानम् VERSE: 1

   यावन्तो वै देवा यज्ञायापुनत त एवाभवन् 
   य एवं विद्वान् यज्ञाय पुनीते भवत्य् एव 
   बहिः पवयित्वान्तः प्र पादयति 
   मनुष्यलोक एवैनम् पवयित्वा पूतं देवलोकम् प्र णयति । 
   अदीक्षित एकयाऽऽहुत्येत्य् आहुः 
   स्रुवेण चतस्रो जुहोति दीक्षितत्वाय स्रुचा पञ्चमीम् 
   पञ्चाक्षरा पङ्क्तिः 
   पाङ्क्तो यज्ञः । 
   यज्ञम् एवाव रुन्द्धे । 
   आकूत्यै प्रयुजे ऽग्नये  

VERSE: 2

   स्वाहेत्य् आह । 
   आकूत्या हि पुरुषो यज्ञम् अभि प्रयुङ्क्ते 
   यजेयेति 
   मेधायै मनसे ऽग्नये स्वाहेत्य् आह 
   मेधया हि मनसा पुरुषो यज्ञम् अभिगच्छति 
   सरस्वत्यै पूष्णे ऽग्नये स्वाहेत्य् आह 
   वाग् वै सरस्वती पृथिवी पूषा 
   वाचैव पृथिव्या यज्ञम् प्र युङ्क्ते । 
   आपो देवीर् बृहतीर् विश्वशम्भुव इत्य् आह 
  या वै वर्ष्यास् ताः 

VERSE: 3

   आपो देवीर् बृहतीर् विश्वशम्भुवः । 
   यद् एतद् यजुर् न ब्रूयाद् दिव्या आपो ऽशान्ता इमं लोकम् आ गच्छेयुः । 
   आपो देवीर् बृहतीर् विश्वशम्भुव इत्य् आह । 
   अस्मा एवैना लोकाय शमयति 
   तस्माच् छान्ता इमं लोकम् आ गच्छन्ति 
   द्यावापृथिवी इत्य् आह 
   द्यावापृथिव्योर् हि यज्ञः । 
   उर्व् अन्तरिक्षम् इत्य् आह । 
   अन्तरिक्षे हि यज्ञः । 

बृहस्पतिर् नो हविषा वृधातु

VERSE: 4

   इत्य् आह। 
   ब्रह्म वै देवानाम् बृहस्पतिः । 
   ब्रह्मणैवास्मै यज्ञम् अव रुन्द्धे 
   यद् ब्रूयात् । 
   विधेर् इति यज्ञस्थाणुम् ऋच्छेत् । 
   वृधात्व् इत्य् आह यज्ञस्थाणुम् एव परि वृणक्ति 
   प्रजापतिर् यज्ञम् असृजत 
   सो ऽस्मात् सृष्टः पराङ् ऐत् 
   स प्र यजुर् अव्लीनात् प्र साम 
   तम् ऋग् उद् अयच्छत् । 
   यद् ऋग् उदयच्छत् तद् औद्ग्रहणस्यौद्ग्रहणत्वम् ॥
  ऋचा 

VERSE: 5

   जुहोति यज्ञस्योद्यत्यै । 
   अनुष्टुप् छन्दसाम् उदयच्छद् इत्य् आहुस् 
   तस्माद् अनुष्टुभा जुहोति 
   यज्ञस्योद्यत्यै 
   द्वादश वात्सबन्धान्य् उद् अयच्छन्न् इत्य् आहुस् 
   तस्माद् द्वादशभिर् वात्सबन्धविदो दीक्षयन्ति 
   सा वा एषर्ग्  अनुष्टुग्  
   वाग्  अनुष्टुग् 
   यद् एतयर्चा दीक्षयति वाचैवैनम्̇ सर्वया दीक्षयति 
   विश्वे देवस्य नेतुर् इत्य् आह सावित्र्य् एतेन ।
   मर्तो वृणीत सख्यम् 

VERSE: 6

   इत्य् आह पितृदेवत्यैतेन। 
   विश्वे राय इषुध्यसीत्य् आह वैश्वदेव्य् एतेन 
   द्युम्नं वृणीत पुष्यस इत्य् आह पौष्ण्य् एतेन 
   सा वा एषर्क् सर्वदेवत्या 
   यद् एतयर्चा दीक्षयति सर्वाभिर् एवैनं देवताभिर् दीक्षयति 
   सप्ताक्षरम् प्रथमम् पदम् अष्टाक्षराणि त्रीणि 
   यानि त्रीणि तान्य् अष्टाव् उप यन्ति 
   यानि चत्वारि तान्य् अष्टौ 
   यद् अष्टाक्षरा तेन 

VERSE: 7

   गायत्री ।
   यद् एकादशाक्षरा तेन  त्रिष्टुग्  
   यद् द्वादशाक्षरा तेन जगती सा वा एषर्क् सर्वाणि छन्दाम्̇सि 
   यद् एतयर्चा दीक्षयति सर्वेभिर् एवैनं छन्दोभिर् दीक्षयति 
   सप्ताक्षरम् प्रथमम् पदम् । 
   सप्तपदा शक्वरी 
   पशवः शक्वरी 
   पशून् एवाव रुन्द्धे । 
   एकस्माद् अक्षराद् अनाप्तम् प्रथमम् पदम् । 
   तस्माद् यद् वाचो ऽनाप्तं तन् मनुष्या उप जीवन्ति 
  पूर्णया जुहोति 
   पूर्ण इव हि प्रजापतिः 
  प्रजापतेर् आप्त्यै 
  न्यूनया जुहोति 
  न्यूनाद् धि प्रजापतिः प्रजा असृजत प्रजानाम्̇ सृष्ट्यै ॥ 

6.1.3 अनुवाक 3

 कृष्णाजिनादिभिर्दीक्षाकरणाभिधानम्

VERSE: 1

   ऋक्सामे वै देवेभ्यो यज्ञायातिष्ठमाने कृष्णो रूपं कृत्वाऽपक्रम्यातिष्ठताम् । 
   ते ऽमन्यन्त 
   यं वा इमे उपावर्त्स्यतः स इदं भविष्यतीति ते उपामन्त्रयन्त् ते अहोरात्रयोर् महिमानम् अपनिधाय देवान् उपावर्तेताम् 
   एष वा ऋचो वर्णो यच् छुक्लं कृष्णाजिनस्य । 
   एष साम्नो यत्कृष्णम् 
   ऋक्सामयोः शिल्पे स्थ इत्य् आह । 
   ऋक्सामे एवाव रुन्धे । 
   एषः  

VERSE: 2

   वा अह्नो वर्णो यच् छुक्लं कृष्णाजिनस्यैष रात्रिया यत् कृष्णं यद् एवैनयोस् तत्र न्यक्तं तद् एवाव रुन्द्धे 
   कृष्णाजिनेन दीक्षयति ब्रह्मणो वा एतद् रूपं यत् कृष्णाजिनम् ब्रह्मणैवैनं दीक्षयति । 
   इमां धियम्̇ शिक्षमाणस्य देवेत्य् आह यथायजुर् एवैतत् । 
   गर्भो वा एष यद् दीक्षित उल्बं वासः प्रोर्णुते तस्मात्  

VERSE: 3

   गर्भाः प्रावृता जायन्ते 
   न पुरा सोमस्य क्रयाद् अपोर्ण्वीत यत् पुरा सोमस्य क्रयाद् अपोर्ण्वीत गर्भाः प्रजानाम् परापातुकाः स्युः 
   क्रीते सोमे ऽपोर्णुते जायत एव तद् अथो यथा वसीयाम्̇सम् प्रत्यपोर्णुते तादृग् एव तद् 
   अङ्गिरसः सुवर्गं लोकं यन्त ऊर्जं व्यभजन्त ततो यद् अत्यशिष्यत ते शरा अभवन्न् ऊर्ग् वै शरा यच् छरमयी  

VERSE: 4

   मेखला भवत्य् ऊर्जम् एवाव रुन्द्धे 
   मध्यतः सं नह्यति मध्यत एवास्मा ऊर्जं दधाति तस्मान् मध्यत ऊर्जा भुञ्जते । 
   ऊर्ध्वं वै पुरुषस्य नाभ्यै मेध्यम् अवाचीनम् अमेध्यं यन् मध्यतः संनह्यति मेध्यं चैवास्यामेध्यं च व्यावर्तयति । 
   इन्द्रो वृत्राय वज्रम् प्राहरत् स त्रेधा व्यभवत् स्फ्यस् तृतीयम्̇ रथस् तृतीयं यूपस् तृतीयम् ॥ 

VERSE: 5

   ये ऽन्तःशरा अशीर्यन्त ते शरा अभवन् तच् छराणाम्̇ शरत्वम् 
   वज्रो वै शराः क्षुत् खलु वै मनुष्यस्य भ्रातृव्यो यच् छरमयी मेखला भवति वज्रेणैव साक्षात् क्षुधम् भ्रातृव्यम् मध्यतो ऽप हते 
   त्रिवृद् भवति त्रिवृद् वै प्राणस् त्रिवृतम् एव प्राणम् मध्यतो यजमाने दधाति 
   पृथ्वी भवति रज्जूनां व्यावृत्त्यै 
   मेखलया यजमानं दीक्षयति योक्त्रेण पत्नीम् मिथुनत्वाय । 

VERSE: 6

   यज्ञो दक्षिणाम् अभ्यध्यायत् ताम्̇ सम् अभवत् तद् इन्द्रो ऽचायत् सो ऽमन्यत यो वा इतो जनिष्यते स इदम् भविष्यतीति ताम् प्राविशत् तस्या इन्द्र एवाजायत 
   सो ऽमन्यत 
   यो वै मद् इतो ऽपरो जनिष्यते स इदम् भविष्यतीति तस्या अनुमृश्य योनिम् आऽच्छिनत् सा सूतवशाऽभवत् तत् सूत वशायै जन्म ॥ 

VERSE: 7

   ताम्̇ हस्ते न्य् अवेष्टयत ताम् मृगेषु न्य् अदधात् सा कृष्णविषाणाऽभवद् इन्द्रस्य योनिर् असि मा मा हिम्̇सीर् इति कृष्णविषाणाम् प्र यच्छति सयोनिम् एव यज्ञं करोति सयोनिं दक्षिणाम्̇ सयोनिम् इन्द्रम्̇ सयोनित्वाय 
   कृष्यै त्वा सुसस्याया इत्य् आह तस्माद् अकृष्टपच्या ओषधयः पच्यन्ते 
   सुपिप्पलाभ्यस् त्वौषधीभ्य इत्य् आह तस्माद् ओषधयः फलं गृह्णन्ति 
   यद् धस्तेन  

VERSE: 8

   कण्डूयेत पामनम्भावुकाः प्रजाः स्युर् यत् स्मयेत नग्नम्भावुकाः 
   कृष्णविषाणया कण्डूयते ऽपिगृह्य स्मयते प्रजानां गोपीथाय 
   न पुरा दक्षिणाभ्यो नेतोः कृष्णविषाणाम् अव चृतेद् यत् पुरा दक्षिणाभ्यो नेतोः कृष्णविषाणाम् अवचृतेद् योनिः प्रजानाम् परापातुका स्यात् । 
   नीतासु दक्षिणासु चात्वाले कृष्णविषाणाम् प्रास्यति योनिर् वै यज्ञस्य चात्वालं योनिः कृष्णविषाणा योनाव् एव योनिं दधाति यज्ञस्य सयोनित्वाय ॥ 

6.1.4 अनुवाक 4

दण्डादानादिकरणपूर्वकनियमानुष्ठानविधिः

VERSE: 1

   वाग् वै देवेभ्यो ऽपाक्रामद् यज्ञायातिष्ठमाना सा वनस्पतीन् प्राविशत् सैषा वाग् वनस्पतिषु वदति या दुन्दुभौ या तूणवे या वीणायाम् । 
   यद् दीक्षितदण्डम् प्रयच्छति वाचम् एवाव रुन्द्धे । 
   औदुम्बरो भवत्य् ऊर्ग् वा  उदुम्बर ऊर्जम् एवाव रुन्द्धे 
   मुखेन सम्मितो भवति मुखत एवास्मा ऊर्जं दधाति तस्मान् मुखत ऊर्जा भुञ्जते । 

VERSE: 2

   क्रीते सोमे मैत्रावरुणाय दण्डम् प्र यच्छति मैत्रावरुणो हि पुरस्ताद् ऋत्विग्भ्यो वाचं विभजति ताम् ऋत्विजो यजमाने प्रति ष्ठापयन्ति 
   स्वाहा यज्ञम् मनसेत्य् आह मनसा हि पुरुषो यज्ञम् अभिगच्छति 
   स्वाहा द्यावापृथिवीभ्याम् इत्य् आह द्यावापृथिव्योर् हि यज्ञः 
   स्वाहोरोर् अन्तरिक्षाद् इत्य् आहान्तरिक्षे हि यज्ञः स्वाहा यज्ञं वाताद् आरभ इत्य् आहायम्  

VERSE: 3

   वाव यः पवते स यज्ञस् तम् एव साक्षाद् आ रभते 
   मुष्टी करोति वाचं यच्छति यज्ञस्य धृत्यै । 
   अदीक्षिष्टायम् ब्राह्मण इति त्रिर् उपाम्̇श्व् आह देवेभ्य एवैनम् प्राह त्रिर् उच्चैर् उभयेभ्य एवैनं देवमनुष्येभ्यः प्राह 
   न पुरा नक्षत्रेभ्यो वाचं वि सृजेत् । 
   यत् पुरा नक्षत्रेभ्यो वाचं विसृजेद् यज्ञं वि च्छिन्द्यात् । 

VERSE: 4

   उदितेषु नक्षत्रेषु व्रतं कृणुतेति वाचं वि सृजति यज्ञव्रतो वै दीक्षितो यज्ञम् एवाभि वाचं वि सृजति 
   यदि विसृजेद् वैष्णवीम् ऋचम् अनु ब्रूयाद् यज्ञो वै विष्णुर् यज्ञेनैव यज्ञम्̇ सं तनोति 
   दैवीं धियम् मनामह इत्य् आह यज्ञम् एव तन् म्रदयति 
   सुपारा नो असद् वश इत्य् आह व्युष्टिम् एवाव रुन्द्धे । 

VERSE: 5

   ब्रह्मवादिनो वदन्ति 
   होतव्यं दीक्षितस्य गृहा३इ न होतव्या३म् इति 
   हविर् वै दीक्षितो यज् जुहुयाद् यजमानस्यावदाय जुहुयाद् यन् न जुहुयाद् यज्ञपरुर् अन्तर् इयाद् ये देवा मनोजाता मनोयुज इत्य् आह 
   प्राणा वै देवा मनोजाता मनोयुजस् 
   तेष्व् एव परोऽक्षं जुहोति 
   तन् नेव हुतं नेवाहुतम् । 
   स्वपन्तं वै दीक्षितम्̇ रक्षाम्̇सि जिघाम्̇सन्त्य् अग्निः  

VERSE: 6

   खलु वै रक्षोहाग्ने त्वम्̇ सु जागृहि वयम्̇ सु मन्दिषीमहीत्य् आहाग्निम् एवाधिपां कृत्वा स्वपिति 
   रक्षसाम् अपहत्यै । 
   अव्रत्यम् इव वा एष करोति यो दीक्षितः स्वपिति त्वम् अग्ने व्रतपा असीत्य् आहाग्निर् वै देवानां व्रतपतिः स एवैनं व्रतम् आलम्भयति 
   देव आ मर्त्येष्वा इत्य् आह 
   देवः  

VERSE: 7

   ह्य् एष सन् मर्त्येषु 
   त्वं यज्ञेष्व् ईड्य इत्य् आहैतम्̇ हि यज्ञेष्व् ईडते । 
   अप वै दीक्षितात् सुषुपुष इन्द्रियं देवताः क्रामन्ति 
   विश्वे देवा अभि माम् आववृत्रन्न् इत्य् आह । 
   इन्द्रियेणैवैनं देवताभिः सं नयति 
   यद् एतद् यजुर् न ब्रूयाद् यावत एव पशून् अभि दीक्षेत तावन्तो ऽस्य पशवः स्यू रास्वेयत् ॥ 

VERSE: 8

   सोमाऽऽभूयो भरेत्य् आहापरिमितान् एव पशून् अव रुन्द्धे 
   चन्द्रमसि मम भोगाय भवेत्य् आह 
   यथादेवतम् एवैनाः प्रति गृह्णाति 
   वायवे त्वा वरुणाय त्वेति यद् एवम् एता नानुदिशेद् अयथा देवतं दक्षिणा गमयेद् आ देवताभ्यो वृश्च्येत 
   यद् एवम् एता अनुदिशति यथादेवतम् एव दक्षिणा गमयति न देवताभ्य आ वृश्च्यते 

VERSE: 9

   देवीर् आपो अपां नपाद् इत्य् आह 
   यद् वो मेध्यं यज्ञियम्̇ सदेवं तद् वो माव क्रमिषम् इति वावैतद् आह । 
   अच्छिन्नं तन्तुम् पृथिव्या अनु गेषम् इत्य् आह सेतुम् एव कृत्वाऽत्य् एति ॥ 

6.1.5 अनुवाक 5

प्रायणीया विधानम्

VERSE: 1

   देवा वै देवयजनम् अध्यवसाय दिशो न प्राजानन् ते ऽन्योऽन्यम् उपाधावन् 
   त्वया प्र जानाम त्वयेति तेऽदित्याम्̇ सम् अध्रियन्त 
   त्वया प्र जानामेति साब्रवीद् वरं वृणै मत्प्रायणा एव वो यज्ञा मदुदयना असन्न् इति 
   तस्माद् आदित्यः प्रायणीयो यज्ञानाम् आदित्य उदयनीयः 
   पञ्च देवता यजति पञ्च दिशो दिशाम् प्रज्ञात्यै ॥ 

VERSE: 2

   अथो पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञम् एवाव रुन्द्धे 
   पथ्याम्̇ स्वस्तिम् अयजन् प्राचीम् एव तया दिशम् प्राजानन्न्
अग्निना दक्षिणा
सोमेन प्रतीचीम्

̇ सवित्रोदीचीम् अदित्योर्ध्वाम्

   पथ्याम्̇ स्वस्तिं यजति प्राचीम् एव तया दिशम् प्र जानाति 
   पथ्याम्̇ स्वस्तिम् इष्ट्वाग्नीषोमौ यजति चक्षुषी वा एते यज्ञस्य यद् अग्नीषोमौ ताभ्याम् एवानु पश्यति ॥ 

VERSE: 3

   अग्नीषोमाव् इष्ट्वा सवितारं यजति सवितृप्रसूत एवानु पश्यति 
   सवितारम् इष्ट्वाऽदितिं यजतीयं वा अदितिर् अस्याम् एव प्रतिष्ठायानु पश्यति । 
   अदितिम् इष्ट्वा मारुतीम् ऋचम् अन्वाह विशां क्लृप्त्यै 
   ब्रह्मवादिनो वदन्ति 
   प्रयाजवद् अननूयाजम् प्रायणीयं कार्यम् अनूयाजवत् 

VERSE: 4

   अप्रयाजम् उदयनीयम् इति । 
   इमे वै प्रयाजा अमी अनूयाजाः सैव सा यज्ञस्य संततिस् 
   तत् तथा न कार्यम् आत्मा वै प्रयाजाः प्रजानूयाजा यत् प्रयाजान् अन्तरियाद् आत्मानम् अन्तर् इयाद् यद् अनूयाजान् अन्तरियात् प्रजाम् अन्तर् इयाद् यतः खलु वै यज्ञस्य विततस्य न क्रियते तद् अनु यज्ञः परा भवति 
   यज्ञम् पराभवन्तं यजमानो ऽनु 

VERSE: 5

   परा भवति 
   प्रयाजवद् एवानूयाजवत् प्रायणीयं कार्यम् प्रयाजवद् अनूयाजवद् उदयनीयं नात्मानम् अन्तरेति न प्रजां न यज्ञः पराभवति न यजमानः 
   प्रायणीयस्य निष्कास उदयनीयम् अभि निर् वपति सैव सा यज्ञस्य संततिः । 
   याः प्रायणीयस्य याज्या यत् ता उदयनीयस्य याज्याः कुर्यात् पराङ् अमुं लोकम् आ रोहेत् प्रमायुकः स्यात् । 
   याः प्रायणीयस्य पुरोऽनुवाक्यास् ता उदयनीयस्य याज्याः करोत्य् अस्मिन्न् एव लोके प्रति तिष्ठति ॥ 

6.1.6 अनुवाक 6 अरुणया सोमक्रयाभिधानम् VERSE: 1

   कद्रूश् च वै सुपर्णी चात्मरूपयोर् अस्पर्धेताम् । 
   सा कद्रूः सुपर्णीम् अजयत् 
   साब्रवीत् 
   तृतीयस्याम् इतो दिवि सोमस् तम् आ हर तेनात्मानं निष्क्रीणीष्वेति । 
   इयं वै कद्रूर् असौ सुपर्णी 
   छन्दाम्̇सि सौपर्णेयाः 
   साब्रवीत् । 
   अस्मै वै पितरौ पुत्रान् बिभृतस् तृतीयस्याम् इतो दिवि सोमस् तम् आ हर तेनात्मानं निष् क्रीणीष्व  

VERSE: 2

   इति मा कद्रूर् अवोचद् इति 
   जगत्य् उद् अपतच् चतुर्दशाक्षरा सती 
   साऽप्राप्य न्य् अवर्तत 
   तस्यै द्वे अक्षरे अमीयेताम् । 
   सा पशुभिश् च दीक्षया चाऽगच्छत् 
   तस्माज् जगती छन्दसाम् पशव्यतमा 
   तस्मात् पशुमन्तं दीक्षोप नमति 
   त्रिष्टुग् उद् अपतत् त्रयोदशाक्षरा सती 
   साऽप्राप्य न्य् अवर्तत 
   तस्यै द्वे अक्षरे अमीयेताम् । 
  सा दक्षिणाभिश् च 

VERSE: 3

   तपसा चागच्छत् 
   तस्मात् त्रिष्टुभो लोके माध्यंदिने सवने दक्षिणा नीयन्ते । 
   एतत् खलु वाव तप इत्य् आहुर् यः स्वं ददातीति 
   गायत्र्य् उद् अपतच् चतुरक्षरा सत्य् अजया ज्योतिषा 
   तम् अस्या अजाऽभ्यरुन्द्ध 
   तद् अजाया अजत्वम् । 
   सा सोमं चाऽहरच् चत्वारि चाक्षराणि 
   साष्टाक्षरा समपद्यत 
   ब्रह्मवादिनो वदन्ति । 

VERSE: 4

   कस्मात् सत्याद् गायत्री कनिष्ठा छन्दसाम्̇ सती यज्ञमुखम् परीयायेति 
   यद् एवादः सोमम् आऽहरत् तस्माद् यज्ञमुखम् पर्य् ऐत् 
   तस्मात् तेजस्विनीतमा 
   पद्भ्यां द्वे सवने समगृह्णान् मुखेनैकम् । 
   यम् मुखेन समगृह्णात् तद् अधयत् 
   तस्माद् द्वे सवने शुक्रवती प्रातःसवनं च माध्यंदिनं च 
   तस्मात् तृतीयसवन ऋजीषम् अभि षुण्वन्ति 
   धीतम् इव हि मन्यन्ते ॥ 

VERSE: 5

   आशिरम् अव नयति सशुक्रत्वायाथो सम् भरत्य् एवैनत् 
   तम्̇ सोमम् आह्रियमाणं गन्धर्वो विश्वावसुः पर्यमुष्णात् 
   स तिस्रो रात्रीः परिमुषितो ऽवसत् 
   तस्मात् तिस्रो रात्रीः क्रीतः सोमो वसति 
   ते देवा अब्रुवन् । 
   स्त्रीकामा वै गन्धर्वा स्त्रिया निष्क्रीणामेति 
   ते वाचम्̇ स्त्रियम् एकहायनीं कृत्वा तया निर् अक्रीणन् । 
   सा रोहिद् रूपं कृत्वा गन्धर्वेभ्यः  

VERSE: 6

   अपक्रम्यातिष्ठत् 
   तद् रोहितो जन्म 
   ते देवा अब्रुवन् । 
   अप युष्मद् अक्रमीन् नास्मान् उपावर्तते वि ह्वयामहा इति 
   ब्रह्म गन्धर्वा अवदन्न् अगायन् देवाः 
   सा देवान् गायत उपावर्तत 
   तस्माद् गायन्तम्̇ स्त्रियः कामयन्ते 
   कामुका एनम्̇ स्त्रियो भवन्ति य एवं वेदाथो य एवं विद्वान् अपि जन्येषु भवति तेभ्य एव ददत्य् उत यद् बहुतयाः  

VERSE: 7

   भवन्ति । 
   एकहायन्या क्रीणाति 
   वाचैवैनम्̇ सर्वया क्रीणाति 
   तस्माद् एकहायना मनुष्या वाचं वदन्ति । 
   अकूटयाऽकर्णयाऽकणायाऽश्लोणयाऽसप्तशफया क्रीणाति 
   सर्वयैवैनं क्रीणाति 
   यच् छ्वेतया क्रीणीयाद् दुश्चर्मा यजमानः स्यात् । 
   यत् कृष्णयानुस्तरणी स्यात् 
   प्रमायुको यजमानः स्यात् । 
 यद् द्विरूपया वार्त्रघ्नी स्यात् 
  स वान्यं जिनीयात् तं वान्यो जिनीयात् । 
  अरुणया पिङ्गाक्ष्या क्रीणाति । 
   एतद् वै सोमस्य रूपम् । 
   स्वयैवैनं देवतया क्रीणाति ॥ 

6.1.7 अनुवाक 7 अरुणया सोमक्रयप्रकाराभिधानम् VERSE: 1

   तद् धिरण्यम् अभवत् 
   तस्माद् अद्भ्यो हिरण्यम् पुनन्ति 
   ब्रह्मवादिनो वदन्ति 
   कस्मात् सत्याद् अनस्थिकेन प्रजाः प्रवीयन्ते ऽस्थन्वतीर् जायन्त इति 
   यद् धिरण्यं घृते ऽवधाय जुहोति तस्माद् अनस्थिकेन प्रजाः प्र वीयन्ते ऽस्थन्वतीर् जायन्ते । 
   एतद् वा अग्नेः प्रियं धाम यद् घृतं तेजो हिरण्यम् 
   इयं ते शुक्र तनूर् इदं वर्च इत्य् आह 
   सतेजसम् एवैनम्̇ सतनुम् ॥ 

VERSE: 2

   करोति । 
   अथो सम् भरत्य् एवैनम् । 
   यद् अबद्धम् अवदध्याद् गर्भाः प्रजानाम् परापातुकाः स्युः । 
   बद्धम् अव दधाति गर्भाणां धृत्यै 
   निष्टर्क्यम् बध्नाति 
   प्रजानाम् प्रजननाय 
   वाग् वा एषा यत् सोमक्रयणी 
   जूर् असीत्य् आह 
   यद् धि मनसा जवते तद् वाचा वदति 
   धृता मनसेत्य् आह 
   मनसा हि वाग् धृता 
   जुष्टा विष्णव इत्य् आह । 

VERSE: 3

   यज्ञो वै विष्णुः । 
   यज्ञायैवैनां जुष्टां करोति 
   तस्यास् ते सत्यसवसः प्रसव इत्य् आह 
   सवितृप्रसूताम् एव वाचम् अव रुन्द्धे 
   काण्डेकाण्डे वै क्रियमाणे यज्ञम्̇ रक्षाम्̇सि जिघाम्̇सन्ति । 
   एष खलु वा अरक्षोहतः पन्था यो ऽग्नेश् च सूर्यस्य च 
   सूर्यस्य चक्षुर् आरुहम् अग्नेर् अक्ष्णः कनीनिकाम् इत्य् आह 
   य एवारक्षोहतः पन्थास् तम्̇ समारोहति 

VERSE: 4

   वाग् वा एषा यत् सोमक्रयणी 
   चिद् असि मनासीत्य् आह 
   शास्त्य् एवैनाम् एतत् 
   तस्माच् छिष्टाः प्रजा जायन्ते 
   चिद् असीत्य् आह 
   यद् धि मनसा चेतयते तद् वाचा वदति 
   मनासीत्य् आह 
   यद् धि मनसाभिगच्छति तत् करोति 
   धीर् असीत्य् आह 
   यद् धि मनसा ध्यायति तद् वाचा  

VERSE: 5

   वदति 
   दक्षिणासीत्य् आह 
   दक्षिणा ह्य् एषा 
   यज्ञियासीत्य् आह 
   यज्ञियाम् एवैनां करोति 
   क्षत्रियासीत्य् आह 
   क्षत्रिया ह्य् एषा । 
   अदितिर् अस्य् उभयतःशीर्ष्णीत्य् आह 
   यद् एवादित्यः प्रायणीयो यज्ञानाम् आदित्य उदयनीयस् तस्माद् एवम् आह 
  यद् अबद्धा स्याद् अयता स्यात् । 
   यत् पदिबद्धानुस्तरणी स्यात् 
   प्रमायुको यजमानः स्यात् ॥ 

VERSE: 6

   यत् कर्णगृहीता वार्त्रघ्नी स्यात् 
   स वान्यं जिनीयात् तं वान्यो जिनीयात् । 
   मित्रस् त्वा पदि बध्नात्व् इत्य् आह 
   मित्रो वै शिवो देवानाम् । 
   तेनैवैनाम् पदि बध्नाति 
   पूषाध्वनः पात्व् इत्य् आह । 
   इयं वै पूषा । 
   इमाम् एवास्या अधिपाम् अकर् । 
   समष्ट्यै । 
   इन्द्रायाध्यक्षायेत्य् आह । 
   इन्द्रम् एवास्या अध्यक्षं करोति ॥ 

VERSE: 7

   अनु त्वा माता मन्यताम् अनु पितेत्य् आह । 
   अनुमतयैवैनया क्रीणाति 
   सा देवि देवम् अच्छेहीत्य् आह 
   देवी ह्य् एषा देवः सोमः । 
   इन्द्राय सोमम् इत्य् आह । 
   इन्द्राय हि सोम आह्रियते 
   यद् एतद् यजुर् न ब्रूयात् पराच्य् एव सोमक्रयणीयात् । 
   रुद्रस् त्वाऽऽ वर्तयत्वित्याह 
   रुद्रो वै क्रूरः  

VERSE: 8

   देवानाम् । 
   तम् एवास्यै परस्ताद् दधात्य् आवृत्त्यै 
   क्रूरम् इव वा एतत् करोति यद् रुद्रस्य कीर्तयति 
   मित्रस्य पथेत्य् आह 
   शान्त्यै 
   वाचा वा एष वि क्रीणीते यः सोमक्रयण्या 
   स्वस्ति सोमसखा पुनर् एहि सह रय्येत्य् आह 
   वाचैव विक्रीय पुनर् आत्मन् वाचं धत्ते । 
   अनुपदासुकाऽस्य वाग् भवति य एवं वेद ॥ 

6.1.8 अनुवाक 8 पदसंग्रहणाभिधानम् VERSE: 1

   षट् पदान्य् अनु नि क्रामति 
   षडहं वाङ् नाति वदति । 
   उत संवत्सरस्यायने यावत्य् एव वाक् ताम् अव रुन्द्धे 
   सप्तमे पदे जुहोति 
   सप्तपदा शक्वरी 
   पशवः शक्वरी 
   पशून् एवाव रुन्द्धे 
   सप्त ग्राम्याः पशवः सप्तारण्याः सप्त छन्दाम्̇सि । 
   उभयस्यावरुद्ध्यै 
   वस्व्य् असि रुद्राऽसीत्य् आह 
   रूपम् एवास्या एतन् महिमानम्  

VERSE: 2

   व्याचष्टे 
   बृहस्पतिस् त्वा सुम्ने रण्वत्व् इत्याह 
   ब्रह्म वै देवानाम् बृहस्पतिः । 
   ब्रह्मणैवास्मै पशून् अव रुन्द्धे 
   रुद्रो वसुभिर् आ चिकेत्व् इत्य् आह । 
   आवृत्त्यै 
   पृथिव्यास् त्वा मूर्धन्न् आ जिघर्मि देवयजन इत्य् आह 
   पृथिव्या ह्य् एष मूर्धा यद् देवयजनम् 
   इडायाः पद इत्य् आह । 
  इडायै ह्य् एतत् पदं यत् सोमक्रयण्यै 
  घृतवति स्वाहा  

VERSE: 3

   इत्य् आह 
   यद् एवास्यै पदाद् घृतम् अपीड्यत तस्माद् एवम् आह 
   यद् अध्वर्युर् अनग्नाव् आहुतिं जुहुयाद् अन्धो ऽध्वर्युः भवति न यज्ञम्̇ रक्षाम्̇सि घ्नन्ति 
   काण्डेकाण्डे वै क्रियमाणे यज्ञम्̇ रक्षाम्̇सि जिघाम्̇सन्ति 
   परिलिखितम्̇ रक्षः परिलिखिता अरातय इत्य् आह 
   रक्षसाम् अपहत्यै  

VERSE: 4

   इदम् अहम्̇ रक्षसो ग्रीवा अपि कृन्तामि यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इत्य् आह 
   द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश् चैनं द्वेष्टि तयोर् एवानन्तरायं ग्रीवाः कृन्तति 
   पशवो वै सोमक्रयण्यै पदम् । 
   यावत्त्मूतम्̇ सं वपति 
   पशून् एवाव रुन्द्धे । 
   अस्मे राय इति सं वपति । 
   आत्मानम् एवाध्वर्युः  

VERSE: 5

   पशुभ्यो नान्तर् एति 
   त्वे राय इति यजमानाय प्र यच्छति 
   यजमान एव रयिं दधाति 
   तोते राय इति पत्नियाः । 
   अर्धो वा एष आत्मनो यत् पत्नी 
   यथा गृहेषु निधत्ते तादृग् एव तत् 
   त्वष्टीमती ते सपेयेत्य् आह 
   त्वष्टा वै पशूनाम् मिथुनानाम्̇ रूपकृत् । 
   रूपम् एव पशुषु दधाति । 
   अस्मै वै लोकाय गार्हपत्य आ धीयते ऽमुष्मा आहवनीयः । 
   यद् गार्हपत्य उपवपेद् अस्मिम्̐ लोके पशुमान्त् स्यात् । 
   यद् आहवनीये ऽमुष्मिम्̐ लोके पशुमान्त् स्यात् । 
  उभयोर् उप वपति । 
   उभयोर् एवैनं लोकयोः पशुमन्तं करोति ॥ 

6.1.9 अनुवाक 9 सोमोन्मानाभिधानम् VERSE: 1

   ब्रह्मवादिनो वदन्ति 
   विचित्यः सोमा3 न विचित्या3 इति 
   सोमो वा ओषधीनाम्̇ राजा 
   तस्मिन् यद् आपन्नं ग्रसितम् एवास्य तत् । 
   यद् विचिनुयाद् यथाऽऽस्याद् ग्रसितं निष्खिदति तादृग् एव तत् । 
   यन् न विचिनुयाद् यथाऽक्षन्न् आपन्नं विधावति तादृग् एव तत् 
   क्षोधुको ऽध्वर्युः स्यात् क्षोधुको यजमानः 
   सोमविक्रयिन्त् सोमम्̇ शोधयेत्य् एव ब्रूयात् । 
   यदीतरम्  

VERSE: 2

   यदीतरम् उभयेनैव सोमविक्रयिणम् अर्पयति 
   तस्मात् सोमविक्रयी क्षोधुकः । 
   अरुणो ह स्माहौपवेशिः 
   सोमक्रयण एवाहं तृतीयसवनम् अव रुन्ध इति 
   पशूनां चर्मन् मिमीते पशून् एवाव रुन्द्धे 
   पशवो हि तृतीयम्̇ सवनम् । 
   यं कामयेत । 
   अपशुः स्याद् इत्य् ऋक्षतस् तस्य मिमीत । 
   ऋक्षं वा अपशव्यम् 
   अपशुर् एव भवति 
   यं कामयेत 
   पशुमान्त् स्यात् ॥ 

VERSE: 3

   इति लोमतस् तस्य मिमीत । 
   एतद् वै पशूनाम्̇ रूपम् । 
   रूपेणैवास्मै पशून् अव रुन्द्धे 
   पशुमान् एव भवति । 
   अपाम् अन्ते क्रीणाति 
   सरसम् एवैनं क्रीणाति । 
   अमात्यो ऽसीत्य् आह । 
   अमैवैनं कुरुते 
   शुक्रस् ते ग्रह इत्य् आह 
   शुक्रो ह्य् अस्य ग्रहः । 
   न साऽच्छ याति 
   महिमानम् एवास्याच्छ याति । 
   अनसा  

VERSE: 4

   अच्छ याति 
   तस्माद् अनोवाह्यम्̇ समे जीवनम् । 
   यत्र खलु वा एतम्̇ शीर्ष्णा हरन्ति 
   तस्माच् छीर्षहार्यं गिरौ जीवनम् 
   अभि त्यं देवम्̇ सवितारम् इत्य् अतिच्छन्दसर्चा मिमीते । 
   अतिच्छन्दा वै सर्वाणि छन्दाम्̇सि 
   सर्वेभिर् एवैनं छन्दोभिर् मिमीते 
   वर्ष्म वा एषा छन्दसां यद् अतिच्छन्दाः । 
   यद् अतिच्छन्दसर्चा मिमीते वर्ष्मैवैनम्̇ समानानां करोति । 
  एकयैकयोत्सर्गम्  

VERSE: 5

   मिमीते ऽयातयाम्नियायातयाम्नियैवैनम् मिमीते 
   तस्मान् नाना  वीर्या अङ्गुलयः 
   सर्वास्व् अङ्गुष्ठम् उप नि गृह्णाति 
   तस्मात् समावद्वीर्यो ऽन्याभिर् अङ्गुलिभिस् 
   तस्मात् सर्वा अनु सं चरति 
   यत् सह सर्वाभिर् मिमीत सम्̇श्लिष्टा अङ्गुलयो जायेरन् । 
   एकयैकयोत्सर्गम् मिमीते 
   तस्माद् विभक्ता जायन्ते 
   पञ्च कृत्वो यजुषा मिमीते 
   पञ्चाक्षरा पङ्क्तिः 
  पाङ्क्तो यज्ञः । 
  यज्ञम् एवाव रुन्द्धे 
   पञ्च कृत्वस् तूष्णीम्  

VERSE: 6

   दश सम् पद्यन्ते 
   दशाक्षरा  विराड्  
   अन्नं  विराड्  
   विराजैवान्नाद्यम् अव रुन्द्धे 
   यद् यजुषा मिमीते भूतम् एवाव रुन्द्धे 
   यत् तूष्णीम् भविष्यत् 
   यद् वै तावान् एव सोमः स्याद् यावन्तम् मिमीते यजमानस्यैव स्यान् नापि सदस्यानाम् 
   प्रजाभ्यस् त्वेत्य् उप समूहति 
   सदस्यान् एवान्वाभजति 
   वाससोप नह्यति 
  सर्वदेवत्यं वै  

VERSE: 7

   वासः 
   सर्वाभिर् एवैनं देवताभिः सम् अर्धयति 
   पशवो वै सोमः 
   प्राणाय त्वेत्य् उप नह्यति 
   प्राणम् एव पशुषु दधाति 
   व्यानाय त्वेत्य् अनु शृन्थति 
   व्यानम् एव पशुषु दधाति 
   तस्मात् स्वपन्तम् प्राणा न जहति ॥ 

6.1.10 अनुवाक 10 अन्यैः सोमक्रयाभिधानम् VERSE: 1

   यत् कलया ते शफेन ते क्रीणानीति पणेतागोअर्घम्̇ सोमं कुर्याद् अगोअर्घं यजमानम् अगोअर्घम् अध्वर्युम् । 
   गोस् तु महिमानं नाव तिरेत् । 
   गवा ते क्रीणानीत्य् एव ब्रूयात् । 
   गोअर्घम् एव सोमं करोति गोअर्घं यजमानं गोअर्घम् अध्वर्युम् । 
   न गोर् महिमानम् अव तिरति । 
   अजया क्रीणाति 
   सतपसम् एवैनं क्रीणाति 
   हिरण्येन क्रीणाति 
   सशुक्रम् एव  

VERSE: 2

   एनं क्रीणाति 
   धेन्वा क्रीणाति 
   साशिरम् एवैनं क्रीणाति । 
   ऋषभेण क्रीणाति 
   सेन्द्रम् एवैनं क्रीणाति । 
   अनडुहा क्रीणाति 
   वह्निर् वा अनड्वान् 
   वह्निनैव वह्नि यज्ञस्य क्रीणाति 
   मिथुनाभ्यां क्रीणाति 
   मिथुनस्यावरुद्ध्यै 
   वाससा क्रीणाति 
   सर्वदेवत्यं वै वासः सर्वाभ्य एवैनं देवताभ्यः क्रीणाति 
   दश सम् पद्यन्ते 
   दशाक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्द्धे ॥ 

VERSE: 3

   तपसस् तनूर् असि प्रजापतेर् वर्ण इत्य् आह 
   पशुभ्य एव तद् अध्वर्युर् नि ह्नुत आत्मनो ऽनाव्रस्काय गच्छति श्रियम् प्र पशून् आप्नोति य एवं वेद 
   शुक्रं ते शुक्रेण क्रीणामीत्य् आह यथायजुर् एवैतत् । 
   देवा वै येन हिरण्येन सोमम् अक्रीणन् तत् अभीषहा पुनर् आददत को हि तेजसा विक्रेष्यत इति 
   येन हिरण्येन  

VERSE: 4

   सोमं क्रीणीयात् तद् अभीषहा पुनर् आ ददीत तेज एवात्मन् धत्ते । 
   अस्मे ज्योतिः सोमविक्रयिणि तम इत्य् आह 
   ज्योतिर् एव यजमाने दधाति 
   तमसा सोमविक्रयिणम् अर्पयति 
   यद् अनुपग्रथ्य हन्याद् दन्दशूकास् ताम्̇ समाम्̇ सर्पाः स्युः । 
   इदम् अहम्̇ सर्पाणां दन्दशूकानां ग्रीवा उप ग्रथ्नामीत्य् आहादन्दशूकास् ताम्̇ समाम्̇ सर्पा भवन्ति तमसा सोमविक्रयिणं विध्यति 
   स्वान  

VERSE: 5

   भ्राजेत्य् आहैते वा अमुष्मिम्̐ लोके सोमम् अरक्षन् तेभ्यो ऽधि सोमम् आहरन् 
   यद् एतेभ्यः सोमक्रयणान् नानुदिशेद् अक्रीतो ऽस्य सोमः स्यान् नास्यैते ऽमुष्मिम्̐ लोके सोमम्̇ रक्षेयुः । 
   यद् एतेभ्यः सोमक्रयणान् अनुदिशति क्रीतो ऽस्य सोमो भवत्य् एते ऽस्यामुष्मिम्̐ लोके सोमम्̇ रक्षन्ति ॥ 

6.1.11 अनुवाक 11 क्रीतसोमस्य शकटेन नयनाभिधानम् VERSE: 1

   वारुणो वै क्रीतः सोम उपनद्धः । 
   मित्रो न एहि सुमित्रधा इत्य् आह 
   शान्त्यै । 
   इन्द्रस्योरुम् आ विश दक्षिणम् इत्य् आह 
   देवा वै यम्̇ सोमम् अक्रीणन् तम् इन्द्रस्योरौ दक्षिण आसादयन् । 
   एष खलु वा एतर्हीन्द्रो यो यजते 
   तस्माद् एवम् आह । 
   उद् आयुषा स्वायुषेत्य् आह 
   देवता एवान्वारभ्योत्  

VERSE: 2

   तिष्ठति । 
   उर्व् अन्तरिक्षम् अन्व् इहीत्य् आह । 
   अन्तरिक्षदेवत्यो ह्य् एतर्हि सोमः । 
   अदित्याः सदो ऽस्य् अदित्याः सद आ सीदेत्य् आह 
   यथायजुर् एवैतत् । 
   वि वा एनम् एतद् अर्धयति यद् वारुणम्̇ सन्तम् मैत्रं करोति 
   वारुण्यर्चाऽऽ सादयतिस्वयैवैनं देवतया सम् अर्धयति 
   वाससा पर्यानह्यति 
   सर्वदेवत्यं वै वासः 
   सर्वाभिर् एव  

VERSE: 3

   एनं देवताभिः सम् अर्धयति । 
   अथो रक्षसाम् अपहत्यै 
   वनेषु व्यन्तरिक्षं ततानेत्य् आह 
   वनेषु हि व्यन्तरिक्षं ततान् 
   वाजम् अर्वत्स्व् इत्य् आह 
   वाजम्̇ ह्य् अर्वत्सु 
   पयो अघ्नियास्व् इत्य् आह 
   पयो ह्य् अघ्नियासु 
   हृत्सु क्रतुम् इत्य् आह 
   हृत्सु हि क्रतुम् । 
   वरुणो विक्ष्व् अग्निम् इत्य् आह 
   वरुणो हि विक्ष्व् अग्निम् । 
   दिवि सूर्यम्  

VERSE: 4

   इत्य् आह 
   दिवि हि सूर्यम् । 
   सोमम् अद्राव् इत्य् आह 
   ग्रावाणो वा अद्रयस् 
   तेषु वा एष सोमं दधाति यो यजते 
   तस्माद् एवम् आह । 
   उद् उ त्यं जातवेदसम् इति सौर्यर्चा कृष्णाजिनम् प्रत्यानह्यति 
   रक्षसाम् अपहत्यै । 
   उस्राव् एतं धूर्षाहाव् इत्य् आह 
   यथायजुर् एवैतत् 
   प्र च्यवस्व भुवस् पत इत्य् आह 
   भूतानाम्̇ हि  

VERSE: 5

   एष पतिः । 
   विश्वान्य् अभि धामानीत्य् आह 
   विश्वानि ह्य् एषो ऽभि धामानि प्रच्यवते 
   मा त्वा परिपरी विदद् इत्य् आह 
   यद् एवादः सोमं आह्रियमाणं गन्धर्वो विश्वावसुः पर्यमुष्णात् तस्माद् एवम् आह । 
   अपरिमोषाय 
   यजमानस्य स्वस्त्ययन्य् असीत्य् आह 
   यजमानस्यैवैष यज्ञस्यान्वारम्भः । 
   अनवछित्त्यै 
  वरुणो वा एष यजमानम् अभ्य् ऐति यत्  

VERSE: 6

   क्रीतः सोम उपनद्धः । 
   नमो मित्रस्य वरुणस्य चक्षस इत्य् आह 
   शान्त्यै । 
   आ सोमं वहन्ति । 
   अग्निना प्रति तिष्ठते 
   तौ सम्भवन्तौ यजमानम् अभि सम् भवतः 
   पुरा खलु वावैष मेधायात्मानम् आरभ्य चरति यो दीक्षितः । 
   यद् अग्नीषोमीयम् पशुम् आलभत आत्मनिष्क्रयण एवास्य  स  
   तस्मात् तस्य नाऽऽश्यम् 
   पुरुषनिष्क्रयण इव हि । 
  अथो खल्व् आहुः । 
  अग्नीषोमाभ्यां वा इन्द्रो वृत्रम् अहन्न् इति 
  यद् अग्नीषोमीयम् पशुम् आलभते वार्त्रघ्न एवास्य  स  
   तस्माद् वाश्यम् । 
   वारुण्यर्चा परि चरति 
  स्वयैवैनं देवतया परि चरति ॥ 


6.2 प्रपाठक: 2 6.2.1 अनुवाक 1 आतिथ्येष्ट्यभिधानम् VERSE: 1

   यद् उभौ विमुच्यातिथ्यं गृह्णीयाद् यज्ञं वि छिन्द्यात् । 
   यद् उभाव् अविमुच्य यथानागतायातिथ्यं क्रियते तादृग् एव तत् । 
   विमुक्तो ऽन्यो ऽनड्वान् भवत्य् अविमुक्तो ऽन्यो ऽथाऽऽतिथ्यं गृह्णाति यज्ञस्य संतत्यै 
   पत्न्य् अन्वारभते 
   पत्नी हि पारीणह्यस्येशे पत्नियैवानुमतं निर् वपति 
   यद् वै पत्नी यज्ञस्य करोति मिथुनं तत् । 
   अथो पत्निया एव  

VERSE: 2

   एष यज्ञस्यान्वारम्भो ऽनवछित्त्यै 
   यावद्भिर् वै राजानुचरैर् आगच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते छन्दाम्̇सि खलु वै सोमस्य राज्ञो ऽनुचराणि । 
   अग्नेर् आतिथ्यम् असि विष्णवे त्वेत्याह गायत्रिया एवैतेन करोति 
   सोमस्यातिथ्यम् असि विष्णवे त्वेत्य् आह त्रिष्टुभ एवैतेन करोति । 
   अतिथेर् आतिथ्यम् असि विष्णवे त्वेत्य् आह जगत्यै  

VERSE: 3

   एवैतेन करोति । 
   अग्नये त्वा रायस्पोषदाव्ने विष्णवे त्वेत्य् आहानुष्टुभ एवैतेन करोति 
   श्येनाय त्वा सोमभृते विष्णवे त्वेत्य् आह गायत्रिया एवैतेन करोति 
   पञ्च कृत्वो गृह्णाति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञम् एवाव रुन्द्धे 
   ब्रह्मवादिनो वदन्ति 
   कस्मात् सत्याद् गायत्रिया उभयत आतिथ्यस्य क्रियत इति 
   यद् एवादः सोमम् आ 

VERSE: 4

   अहरत् तस्माद् गायत्रिया उभयत आतिथ्यस्य क्रियते पुरस्ताच् चोपरिष्टाच् च 
   शिरो वा एतद् यज्ञस्य यद् आतिथ्यं नवकपालः पुरोडाशो भवति तस्मान् नवधा शिरो विष्यूतम् । 
   नवकपालः पुरोडाशो भवति ते त्रयस् त्रिकपालास् त्रिवृता स्तोमेन सम्मितास् तेजस् त्रिवृत् तेज एव यज्ञस्य शीर्षन् दधाति 
   नवकपालः पुरोडाशो भवति ते त्रयस् त्रिकपालास् त्रिवृता प्राणेन सम्मितास् त्रिवृद् वै ॥ 

VERSE: 5

   प्राणस् त्रिवृतम् एव प्राणम् अभिपूर्वं यज्ञस्य शीर्षन् दधाति 
   प्रजापतेर् वा एतानि पक्ष्माणि यद् अश्ववाला ऐक्षवी तिरश्ची यद् आश्ववालः प्रस्तरो भवत्य् ऐक्षवी तिरश्ची प्रजापतेर् एव तच् चक्षुः सम् भरति 
   देवा वै या आहुतीर् अजुहवुस् ता असुरा निष्कावम् आदन् ते देवाः कार्ष्मर्यम् अपश्यन् कर्मण्यो वै 
   कर्मैनेन कुर्वीतेति ते कार्ष्मर्यमयान् परिधीन्  

VERSE: 6

   अकुर्वत तैर् वै ते रक्षाम्̇स्य् अपाघ्नत 
   यत् कार्ष्मर्यमयाः परिधयो भवन्ति रक्षसाम् अपहत्यै 
   सम्̇ स्पर्शयति रक्षसाम् अनन्ववचाराय 
   न पुरस्तात् परि दधात्य् आदित्यो ह्य् एवोद्यन् पुरस्ताद् रक्षाम्̇स्य् अपहन्ति । 
   ऊर्ध्वे समिधाव् आ दधात्य् उपरिष्टाद् एव रक्षाम्̇स्य् अपहन्ति 
   यजुषान्यां तूष्णीम् अन्याम् मिथुनत्वाय 
   द्वे आ दधाति द्विपाद् यजमानः प्रतिष्ठित्यै 
   ब्रह्मवादिनो वदन्ति । 

VERSE: 7

   अग्निश् च वा एतौ सोमश् च कथा सोमायातिथ्यं क्रियते नाग्नय इति 
   यद् अग्नाव् अग्निम् मथित्वा प्रहरति तेनैवाग्नय आतिथ्यं क्रियते । 
   अथो खल्व् आहुर् अग्निः सर्वा देवता इति यद् धविर् आसाद्याग्निम् मन्थति हव्यायैवाऽऽसन्नाय सर्वा देवता जनयति ॥ 

अनुवाक 2 तानूनप्त्र्येष्ट्यभिधानम् VERSE: 1

   देवासुराः संयत्ता आसन् 
   ते देवा मिथो विप्रिया आसन् 
   ते ऽन्योऽन्यस्मै ज्यैष्ठ्यायातिष्ठमानाः पञ्चधा व्यक्रामन्न् अग्निर् वसुभिः सोमो रुद्रैर् इन्द्रो मरुद्भिर् वरुण आदित्यैर् बृहस्पतिर् विश्वैर् देवैस् 
   ते ऽमन्यन्त । 
   असुरेभ्यो वा इदम् भ्रातृव्येभ्यो रध्यामो यन् मिथो विप्रियाः स्मो या न इमाः प्रियास् तनुवस् ताः समवद्यामहै ताभ्यः स निर् ऋच्छाद् यः  

VERSE: 2

   नः प्रथमो ऽन्योऽन्यस्मै द्रुह्याद् इति 
   तस्माद् यः सतानूनप्त्रिणाम् प्रथमो द्रुह्यति स आर्तिम् आर्छति 
   यत् तानूनप्त्रम्̇ समवद्यति भ्रातृव्याभिभूत्यै 
   भवत्य् आत्मना परास्य भ्रातृव्यो भवति 
   पञ्च कृत्वो ऽव द्यति 
   पञ्चधा हि ते तत् समवाद्यन्त । 
   अथो पञ्चाक्षरा पङ्क्तिः 
   पाङ्क्तो यज्ञः । 
   यज्ञम् एवाव रुन्द्धे । 
   आपतये त्वा गृह्णामीत्य् आह 
  प्राणो वै  

VERSE: 3

   आपतिः 
   प्राणम् एव प्रीणाति 
   परिपतय इत्य् आह 
   मनो वै परिपतिः । 
   मन एव प्रीणाति 
   तनूनप्त्र इत्य् आह 
   तनुवो हि ते ताः समवाद्यन्त 
   शाक्वरायेत्य् आह 
   शक्त्यै हि ते ताः समवाद्यन्त 
   शक्मन्न् ओजिष्ठायेत्य् आह । 
   ओजिष्ठम्̇ हि ते तद् आत्मनः समवाद्यन्त । 
   अनाधृष्टम् अस्य् अनाधृष्यम् इत्य् आह । 
  अनाधृष्टम्̇ ह्य् एतद् अनाधृष्यम् । 
  देवानाम् ओजः  

VERSE: 4

   इत्य् आह 
   देवानाम्̇ ह्य् एतद् ओजः । 
   अभिशस्तिपा अनभिशस्तेन्यम् इत्य् आह । 
   अभिशस्तिपा ह्य् एतद् अनभिशस्तेन्यम् 
   अनु मे दीक्षां दीक्षापतिर् मन्यताम् इत्य् आह 
   यथायजुर् एवैतत् । 
   घृतं वै देवा वज्रं कृत्वा सोमम् अघ्नन् । 
   अन्तिकम् इव खलु वा अस्यैतच् चरन्ति यत् तानूनप्त्रेण प्रचरन्ति । 
   अम्̇शुरम्̇श्स् ते देव सोमा प्यायताम् इत्य् आह 
   यत्  

VERSE: 5

   एवास्यापुवायते यन् मीयते तद् एवास्यैतेना प्याययति । 
   आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्वेत्य् आह । 
   उभाव् एवेन्द्रं च सोमं चाऽऽप्याययति । 
   आ प्यायय सखीन्त् सन्या मेधयेत्य् आह । 
   ऋत्विजो वा अस्य सखायस् 
   तान् एवाऽऽप्याययति 
   स्वस्ति ते देव सोम सुत्याम् अशीय 

VERSE: 6

   इत्य् आह । 
   आशिषं एवैताम् आ शास्ते 
   प्र वा एते ऽस्माल् लोकाच् च्यवन्ते ये सोमम् आप्याययन्ति । 
   अन्तरिक्षदेवत्यो हि सोम आप्यायितः । 
   एष्टा रायः प्रेषे भगायेत्य् आह 
   द्यावापृथिवीभ्याम् एव नमस्कृत्यास्मिम्̐ लोके प्रति तिष्ठन्ति 
   देवासुराः संयत्ता आसन् 
   ते देवा बिभ्यतो ऽग्निम् प्राविशन् 
   तस्माद् आहुः । 
   अग्निः सर्वा देवता इति 
   ते  

VERSE: 7

   अग्निम् एव वरूथं कृत्वाऽसुरान् अभ्य् अभवन् । 
   अग्निम् इव खलु वा एष प्र विशति यो ऽवान्तरदीक्षाम् उपैति 
   भ्रातृव्याभिभूत्यै 
   भवत्य् आत्मना परास्य भ्रातृव्यो भवति । 
   आत्मानम् एव दीक्षया पाति प्रजाम् अवान्तरदीक्षया 
   संतराम् मेखलाम्̇ समायच्छते 
   प्रजा ह्य् आत्मनो ऽन्तरतरा 
   तप्तव्रतो भवति 
   मदन्तीभिर् मार्जयते 
   निर् ह्य् अग्निः शीतेन वायति 
   समिद्ध्यै 
   या ते अग्ने रुद्रिया तनूर् इत्य् आह 
   स्वयैवैनद् देवतया व्रतयति 
   सयोनित्वाय शान्त्यै ॥ 

6.2.3 अनुवाक 3 उपसद्धोमाभिधानम् VERSE: 1

   तेषाम् असुराणां तिस्रः पुर आसन्न् अयस्मय्य् अवमाथ रजताथ हरिणी 
   ता देवा जेतुं नाशक्नुवन् ता उपसदैवाजिगीषन् 
   तस्माद् आहुर् यश् चैवं वेद यश् च न । 
   उपसदा वै महापुरं जयन्तीति 
   त इषुम्̇ सम् अस्कुर्वताग्निम् अनीकम्̇ सोमम्̇ शल्यं विष्णुं तेजनम् । 
   ते ऽब्रुवन् 
   क इमाम् असिष्यतीति ॥ 

VERSE: 2

   रुद्र इत्य् अब्रुवन् रुद्रो वै क्रूरः सो ऽस्यत्विति 
   सो ऽब्रवीत् । 
   वरं वृणा अहम् एव पशूनाम् अधिपतिर् असानीति तस्माद् रुद्रः पशूनाम् अधिपतिस् 
   ताम्̇ रुद्रो ऽवासृजत् स तिस्रः पुरो भित्त्वैभ्यो लोकेभ्यो ऽसुरान् प्राणुदत 
   यद् उपसद उपसद्यन्ते भ्रातृव्यपराणुत्तयै 
   नान्याम् आहुतिम् पुरस्ताज् जुहुयात् । 
   यद् अन्याम् आहुतिम् पुरस्ताज् जुहुयात्  

VERSE: 3

   अन्यन् मुखं कुर्यात् 
   स्रुवेणाघारम् आ घारयति यज्ञस्य प्रज्ञात्यै 
   पराङ् अतिक्रम्य जुहोति 
   पराच एवैभ्यो लोकेभ्यो यजमानो भ्रातृव्यान् प्र णुदते 
   पुनर् अत्याक्रम्योपसदं जुहोति 
   प्रणुद्यैवैभ्यो लोकेभ्यो भ्रातृव्याञ्जित्वा भ्रातृव्यलोकम् अभ्यारोहति 
   देवा वै याः प्रातर् उपसद उपासीदन्न् अह्नस् ताभिर् असुरान् प्राणुदन्त 
   याः सायम्̇ रात्रियै ताभिः । 
   यत् सायम्प्रातर् उपसदः  

VERSE: 4

   उपसद्यन्ते ऽहोरात्राभ्याम् एव तद् यजमानो भ्रातृव्यान् प्र णुदते 
   याः प्रातर् याज्याः स्युस् ताः सायम् पुरोऽनुवाक्याः कुर्याद् अयातयामत्वाय 
   तिस्र उपसद उपैति त्रय इमे लोका इमान् एव लोकान् प्रीणाति 
   षट् सम् पद्यन्ते षड् वा ऋतव ऋतून् एव प्रीणाति द्वादशाहीने सोम उपैति द्वादश मासाः संवत्सरः संवत्सरम् एव प्रीणाति 
   चतुर्विम्̇शतिः सम्  

VERSE: 5

   पद्यन्ते 
   चतुर्विम्̇शतिर् अर्धमासा अर्धमासान् एव प्रीणाति । 
   आराग्राम् अवान्तरदीक्षाम् उपेयाद् यः कामयेत । 
   अस्मिन् मे लोके ऽर्धुकम्̇ स्याद् इत्य् एकम् अग्रे ऽथे द्वाव् अथ त्रीन् अथ चतुर एषा वा आराग्राऽवान्तरदीक्षाऽस्मिन्न् एवास्मै लोके ऽर्धुकम् भवति 
   परोवरीयसीम् अवान्तरदीक्षाम् उपेयाद् यः कामयेत । 
   अमुष्मिन् मे लोके ऽर्धुकम्̇ स्याद् इति चतुरो ऽग्रे ऽथे त्रीन् अथ द्वाव् अथैकम् एषा वै परोवरीयस्य् अवान्तरदीक्षाऽमुष्मिन्न् एवास्मै लोके ऽर्धुकं भवति ॥ 

6.2.4 अनुवाक 4 वेद्यभिधानम् VERSE: 1

   सुवर्गं वा एते लोकं यन्ति य उपसद उपयन्ति 
   तेषां य उन्नयते हीयत एव स  
   नोद् अनेषीति सून्नीयम् इव 
   यो वै स्वार्थेतां यताम्̇ श्रान्तो हीयत उत स निष्ट्याय सह वसति 
   तस्मात् सकृद् उन्नीय नापरम् उन्नयेत 
   दध्नोन्नयेत । 
   एतद् वै पशूनाम्̇ रूपम् । 
   रूपेणैव पशून् अव रुन्द्धे ॥ 

VERSE: 2

   यज्ञो देवेभ्यो निलायत विष्णू रूपं कृत्वा 
   स पृथिवीम् प्राविशत् 
   तं देवा हस्तान्त् सम्̇रभ्यैच्छन् 
   तम् इन्द्र उपर्युपर्य् अत्य् अक्रामत् 
   सो ऽब्रवीत् 
   को मायम् उपर्युपर्य् अत्य् अक्रमीद् इति । 
   अहं दुर्गे हन्तेत्य् अथ कस् त्वम् इति । 
   अहं दुर्गाद् आहर्तेति 
   सो ऽब्रवीत् । 
   दुर्गे वै हन्ताऽवोचथा वराहो ऽयं वाममोषः  

VERSE: 3

   सप्तानां गिरीणाम् परस्ताद् वित्तं वेद्यम् असुराणाम् बिभर्ति तं जहि यदि दुर्गे हन्तासीति 
   स दर्भपुञ्जीलम् उद्वृह्य सप्तगिरीन् भित्त्वा तम् अहन् । 
   सो ऽब्रवीत् । 
   दुर्गाद् वा आहर्तावोचथा एतम् आ हरेति 
   तम् एभ्यो यज्ञ एव यज्ञम् आहरत् । 
   यत् तद् वित्तं वेद्यम् असुराणाम् अविन्दन्त तद् एकं वेद्यै वेदित्वम् 
   असुराणाम्  

VERSE: 4

   वा इयम् अग्र आसीत् । 
   यावद् आसीनः परापश्यति तावद् देवानाम् । 
   ते देवा अब्रुवन् । 
   अस्त्व् एव नो ऽस्याम् अपीति 
   कियद् वो दास्याम इति 
   यावद् इयम्̇ सलावृकी त्रिः परिक्रामति तावन् नो दत्तेति 
   स इन्द्रः सलावृकी रूपं कृत्वेमां त्रिः सर्वतः पर्य् अक्रामत् 
   तद् इमाम् अविन्दन्त 
   यद् इमाम् अविन्दन्त तद् वेद्यै वेदित्वम् ॥ 

VERSE: 5

   सा वा इयम्̇ सर्वैव वेदिः । 
   इयति शक्ष्यामीति त्वा अवमाय यजन्ते 
   त्रिम्̇शत् पदानि पश्चात् तिरश्ची भवति षट्त्रिम्̇शत् प्राची चतुर्विम्̇शतिः पुरस्तात् तिरश्ची 
   दशदश सम् पद्यन्ते 
   दशाक्षरा विराड् 
   अन्नं  विराड् 
   विराजैवान्नाद्यम् अव रुन्द्धे । 
   उद् धन्ति 
   यद् एवास्या अमेध्यं तद् अप हन्ति । 
   उद् धन्ति 
   तस्माद् ओषधयः परा भवन्ति 
   बर्हि स्तृणाति 
   तस्माद् ओषधयः पुनर् आ भवन्ति । 
   उत्तरम् बर्हिष उत्तरबर्हि स्तृणाति 
   प्रजा वै बर्हिर् यजमान उत्तरबर्हिः । 
   यजमानम् एवायजमानाद् उत्तरं करोति 
   तस्माद् यजमानो ऽयजमानाद् उत्तरः ॥ 

6.2.5 अनुवाक 5 व्रतनिरूपणम् VERSE: 1

   यद् वा अनीशानो भारम् आदत्ते वि वै स लिशते 
   यद् द्वादश साह्नस्योपसदः स्युस् तिस्रो ऽहीनस्य यज्ञस्य विलोम क्रियेत 
   तिस्र एव साह्नस्योपसदो द्वादशाहीनस्य यज्ञस्य सवीर्यत्वायाथो सलोम क्रियते 
   वत्सस्यैकः स्तनो भागी हि सो ऽथैकम्̇ स्तनं व्रतम् उपैत्य् अथ द्वाव् अथ त्रीन् अथ चतुर एतद् वै  

VERSE: 2

   क्षुरपवि नाम व्रतं येन प्र जातान् भ्रातृव्यान् नुदते प्रति जनिष्यमाणान् अथो कनीयसैव भूय उपैति 
   चतुरो ऽग्रे स्तनान् व्रतम् उपैत्य् अथ त्रीन् अथ द्वाव् अथैकम् एतद् वै सुजघनं नाम व्रतं तपस्यम्̇ सुवर्ग्यम् अथो प्रैव जायते प्रजया पशुभिः । 
   यवागू राजन्यस्य व्रतं क्रूरेव वै यवागूः क्रूर इव  

VERSE: 3

   राजन्यो वज्रस्य रूपम्̇ समृद्ध्यै । 
   आमिक्षा वैश्यस्य पाकयज्ञस्य रूपम् पुष्ट्यै 
   पयो ब्राह्मणस्य तेजो वै ब्राह्मणस् तेजः पयस् तेजसैव तेजः पय आत्मन् धत्ते । 
   अथो पयसा वै गर्भा वर्धन्ते गर्भ इव खलु वा एष यद् दीक्षितो यद् अस्य पयो व्रतम् भवत्य् आत्मानम् एव तद् वर्धयति 
   त्रिव्रतो वै मनुर् आसीद् द्विव्रता असुरा एकव्रताः  

VERSE: 4

   देवाः । 
   प्रातर् मध्यंदिने सायं तन् मनोर् व्रतम् आसीत् पाकयज्ञस्य रूपम् पुष्ट्यै 
   प्रातश् च सायं चासुराणां निर्मध्यं क्षुधो रूपं ततस् ते पराभवन् 
   मध्यंदिने मध्यरात्रे देवानां ततस् ते ऽभवन्त् सुवर्गं लोकम् आयन् 
   यद् अस्य मध्यंदिने मध्यरात्रे व्रतम् भवति मध्यतो वा अन्नेन भुञ्जते मध्यत एव तद् ऊर्जं धत्ते भ्रातृव्याभिभूत्यै 
   भवत्य् आत्मना  

VERSE: 5

   परास्य भ्रातृव्यो भवति 
   गर्भो वा एष यद् दीक्षितो योनिर् दीक्षितविमितं यद् दीक्षितो दीक्षितविमितात् प्रवसेद् यथा योनेर् गर्भ स्कन्दति तादृग् एव तन् न प्रवस्तव्यम् आत्मनो गोपीथाय । 
   एष वै व्याघ्रः कुलगोपो यद् अग्निस् तस्माद् यद् दीक्षितः प्रवसेत् स एनम् ईश्वरो ऽनूत्थाय हन्तोर् न प्रवस्तव्यम् आत्मनो गुप्त्यै 
   दक्षिणतः शय एतद् वै यजमानस्यायतनम्̇ स्व एवायतने शये । 
   अग्निम् अभ्यावृत्य शये देवता एव यज्ञम् अभ्यावृत्य शये ॥ 

6.2.6 अनुवाक 6 काम्ययागभूम्याभिधानम् VERSE: 1

   पुरोहविषि देवयजने याजयेद् यं कामयेत । 
   उपैनम् उत्तरो यज्ञो नमेद् अभि सुवर्गं लोकं जयेद् इति । 
   एतद् वै पुरोहविर् देवयजनं यस्य होता प्रातरनुवाकम् अनुब्रुवन्न् अग्निम् अप आदित्यम् अभि विपश्यति । 
   उपैनम् उत्तरो यज्ञो नमत्य् अभि सुवर्गं लोकं जयति । 
   आप्ते देवयजने याजयेद् भ्रातृव्यवन्तम् 
   पन्थां वाऽधिस्पर्शयेत् कर्तं वा 
   यावन् नानसे यातवै  

VERSE: 2

   न रथायैतद् वा आप्तं देवयजनम् 
   आप्नोत्य् एव भ्रातृव्यं नैनम् भ्रातृव्य आप्नोति । 
   एकोन्नते देवयजने याजयेत् पशुकामम् 
   एकोन्नताद् वै देवयजनाद् अङ्गिरसः पशून् असृजन्त । 
   अन्तरा सदोहविर्धाने उन्नतम्̇ स्यात् । 
   एतद् वा एकोन्नतं देवयजनम् 
   पशुमान् एव भवति 
   त्र्युन्नते देवयजने याजयेत् सुवर्गकामम् । 
   त्र्युन्नताद् वै देवयजनाद् अङ्गिरसः सुवर्गं लोकम् आयन् । 
   अन्तराहवनीयं च हविर्धानं च  

VERSE: 3

   उन्नतम्̇ स्याद् अन्तरा हविर्धानं च सदश् चान्तरा सदश् च गार्हपत्यं च । 
   एतद् वै त्र्युन्नतं देवयजनम् । 
   सुवर्गम् एव लोकम् एति 
   प्रतिष्ठिते देवयजने याजयेत् प्रतिष्ठाकामम् 
   एतद् वै प्रतिष्ठितं देवयजनं यत् सर्वतः समम् 
   प्रत्य् एव तिष्ठति 
   यत्रान्याअन्या ओषधयो व्यतिषक्ताः स्युस् तद् याजयेत् पशुकामम् 
   एतद् वै पशूनाम्̇ रूपम् । 
   रूपेणैवास्मै पशून्  

VERSE: 4

   अव रुन्द्धे 
   पशुमान् एव भवति 
   निर्ऋतिगृहीते देवयजने याजयेद् यं कामयेत 
   निर्ऋत्याऽस्य यज्ञं ग्राहयेयम् इति । 
   एतद् वै निर्ऋतिगृहीतं देवयजनं यत् सदृश्यै सत्या ऋक्षम् । 
   निर्ऋत्यैवास्य यज्ञं ग्राहयति 
   व्यावृत्ते देवयजने याजयेद् व्यावृत्कामं यम् पात्रे वा तल्पे वा मीमाम्̇सेरन् 
   प्राचीनम् आहवनीयात् प्रवणम्̇ स्यात् प्रतीचीनं गार्हपत्याद् एतद् वै व्यावृत्तं देवयजनम् । 
   वि पाप्मना भ्रातृव्येणा वर्तते 
   नैनम् पात्रे न तल्पे मीमाम्̇सन्ते 
   कार्ये देवयजने याजयेद् भूतिकामम् । 
  कार्यो वै पुरुषः । 
  भवत्य् एव ॥ 

6.2.7 अनुवाक 7 उत्तरवेदिनिरूपणम् VERSE: 1

   तेभ्य उत्तरवेदिः सिम्̇ही रूपं कृत्वोभयान् अन्तरापक्रम्यातिष्ठत् 
   ते देवा अमन्यन्त 
   यन्तरान् वा इयम् उपावर्त्स्यति त इदम् भविष्यन्तीति 
   ताम् उपामन्त्रयन्त 
   साब्रवीद् 
   वरं वृणै सर्वान् मया कामान् व्यश्नवथ पूर्वां तु माग्नेर् आहुतिर् अश्नवता इति 
   तस्माद् उत्तरवेदिम् पूर्वाम् अग्नेर् व्याघारयन्ति 
   वारेवृतम्̇ ह्य् अस्यै 
   शम्यया परि मिमीते  

VERSE: 2

   मात्रैवास्यै साऽथो युक्तेनैव युक्तम् अव रुन्द्धे 
   वित्तायनी मे ऽसीत्य् आह 
   वित्ता ह्य् एनान् आवत् 
   तिक्तायनी मे ऽसीत्य् आह 
   तिक्तान् ह्य् एनान् आवत् 
   अवतान् मा नाथितम् इत्य् आह 
   नाथितान् ह्य् एनान् आवद् 
   अवतान् मा व्यथितम् इत्य् आह 
   व्यथितान् ह्य् एनान् आवद् 
  विदेर् अग्निर् नभो नाम  

VERSE: 3

   अग्ने अङ्गिर इति त्रिर् हरति 
   य एवैषु लोकेष्व् अग्नयस् 
   तान् एवाव रुन्द्धे तूष्णीं चतुर्थम्̇ हरत्य् 
   अनिरुक्तम् एवाव रुन्द्धे 
   सिम्̇हीर् असि महिषीर् असीत्य् आह 
   सिम्̇हीर् ह्य् एषा रूपं कृत्वोभयान् अन्तरापक्रम्यातिष्ठद् 
   उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् इत्य् आह 
   यजमानम् एव प्रजया पशुभिः प्रथयति 
   ध्रुवा  

VERSE: 4

   असीति सम्̇ हन्ति धृत्यै देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्वेत्य् अव चोक्षति प्र च किरति शुद्ध्यै । 
   इन्द्रघोषस् त्वा वसुभिः पुरस्तात् पात्व् इत्य् आह दिग्भ्य एवैनाम् प्रोक्षति 
   देवाम्̇श् चेद् उत्तरवेदिर् उपाववर्तीहैव वि जयामहा इत्य् असुरा वज्रम् उद्यत्य देवान् अभ्य् आयन्त तान् इन्द्रघोषो वसुभिः पुरस्ताद् अप  

VERSE: 5

   अनुदत मनोजवाः पितृभिर् दक्षिणतः प्रचेता रुद्रैः पश्चाद् विश्वकर्मादित्यैर् उत्तरतो 
   यद् एवम् उत्तरवेदिम् प्रोक्षति दिग्भ्य एव तद् यजमानो भ्रातृव्यान् प्रणुदत 
   इन्द्रो यतीन्त् सालावृकेभ्यः प्रायच्छत् तान् दक्षिणत उत्तरवेद्या आदन् 
   यत् प्रोक्षणीनाम् उच्छिष्येत तद् दक्षिणत उत्तरवेद्यै नि नयेद् 
   यद् एव तत्र क्रूरं तत् तेन शमयति 
   यं द्विष्यात् तं ध्यायेच् छुचैवैनम् अर्पयति ॥

6.2.8 अनुवाक 8 व्याघारणविधिः VERSE: 1

   सोत्तरवेदिर् अब्रवीत् 
   सर्वान् मया कामान् व्यश्नवथेति 
   ते देवा अकामयन्त । 
   असुरान् भ्रातृव्यान् अभि भवेमेति 
   ते ऽजुहवुः 
   सिम्̇हीर् असि सपत्नसाही स्वाहेति 
   ते ऽसुरान् भ्रातृव्यान् अभ्य् अभवन् 
   ते ऽसुरान् भ्रातृव्यान् अभिभूयाकामयन्त 
   प्रजां विन्देमहीति 
   ते ऽजुहवुः 
   सिम्̇हीर् असि सुप्रजावनिः स्वाहेति 
   ते प्रजाम् अविन्दन्त 
   ते प्रजां वित्त्वा  

VERSE: 2

   अकामयन्त 
   पशून् विन्देमहीति 
   ते ऽजुहवुः 
   सिम्̇हीर् असि रायस्पोषवनिः स्वाहेति 
   ते पशून् अविन्दन्त 
   ते पशून् वित्त्वाकामयन्त 
   प्रतिष्ठां विन्देमहीति 
   ते ऽजुहवुः 
   सिम्̇हीर् अस्य् आदित्यवनिः स्वाहेति 
   त इमाम् प्रतिष्ठाम् अविन्दन्त 
   त इमाम् प्रतिष्ठां वित्त्वाकामयन्त 
   देवता आशिष उपेयामेति 
   ते ऽजुहवुः 
   सिम्̇हीर् अस्य् आ वह देवान् देवयते  

VERSE: 3

   यजमानाय स्वाहेति 
   ते देवता आशिष उपायन् 
   पञ्च कृत्वो व्याघारयति 
   पञ्चाक्षरा पङ्क्तिः 
   पाङ्क्तो यज्ञः । 
   यज्ञम् एवाव रुन्द्धे । 
   अक्ष्ण्या व्याघारयति 
   तस्माद् अक्ष्णया पशवो ऽङ्गानि प्र हरन्ति 
   प्रतिष्ठित्यै 
   भूतेभ्यस् त्वेति स्रुचम् उद् गृह्णाति 
   य एव देवा भूतास् तेषां तद् भागधेयम् । 
   तान् एव तेन प्रीणाति 
   पौतुद्रवान् परिधीन् परि दधाति । 
   एषाम्  

VERSE: 4

   लोकानां विधृत्यै । 
   अग्नेस् त्रयो ज्यायाम्̇सो भ्रातर आसन् 
   ते देवेभ्यो हव्यं वहन्तः प्रामीयान्त 
   सो ऽग्निर् अबिभेत् । 
   इत्थं वाव स्य आर्तिम् आरिष्यतीति 
   स निलायत 
   स यां वनस्पतिष्व् अवसत् ताम् पूतुद्रौ याम् ओषधीषु ताम्̇ सुगन्धितेजने याम् पशुषु ताम् पेत्वस्यान्तरा शृङ्गे 
   तं देवताः प्रैषम् ऐच्छन् 
   तम् अन्व् अविन्दन् 
   तम् अब्रुवन्  

VERSE: 5

   उप न आ वर्तस्व हव्यं नो वहेति 
   सो ऽब्रवीत् । 
   वरं वृणै यद् एव गृहीतस्याहुतस्य बहिःपरिधि स्कन्दात् तन् मे भ्रातृणाम् भागधेयम् असद् इति 
   तस्माद् यद् गृहीतस्याहुतस्य बहिःपरिधि स्कन्दति तेषां तद् भागधेयं तान् एव तेन प्रीणाति 
   सो ऽमन्यत । 
   अस्थन्वन्तो मे पूर्वे भ्रातरः प्रामेषतास्थानि शातया इति 
   स यानि  

VERSE: 6

   अस्थान्य् अशातयत तत् पूतुद्र्वभवत् । 
   यन् माम्̇सम् उपमृतं तद् गुल्गुलु यद् एतान्त् सम्भारान्त् सम्भरत्य् अग्निम् एव तत् सम् भरति । 
   अग्नेः पुरीषम् असीत्य् आह । 
   अग्नेर् ह्य् एतत् पुरीषं यत् संभाराः । 
   अथो खल्व् आहुः । 
   एते वावैनं ते भ्रातरः परि शेरे यत् पौतुद्रवाः परिधय इति ॥ 

6.2.9 अनुवाक 9 व्याघारणविधिः VERSE: 1

   बद्धम् अव स्यति 
   वरुणपाशाद् एवैने मुञ्चति 
   प्र णेनेक्ति मेध्ये एवैने करोति 
   सावित्रियर्चा हुत्वा हविर्धाने प्र वर्तयति 
   सवितृप्रसूत एवैने प्र वर्तयति 
   वरुणो वा एष दुर्वाग् उभयतो बद्धो यद् अक्षः 
   स यद् उत्सर्जेद् यजमानस्य गृहान् अभ्युत्सर्जेत् 
   सुवाग् देव दुर्याम्̇ आ वदेत्य् आह 
   गृहा वै दुर्याः 
   शान्त्यै 
   पत्नी  

VERSE: 2

   उपानक्ति 
   पत्नी हि सर्वस्य मित्रम् 
   मित्रत्वाय 
   यद् वै पत्नी यज्ञस्य करोति मिथुनं तत् । 
   अथो पत्निया एवैष यज्ञस्यान्वारम्भोऽनवछित्त्यै 
   वर्त्मना वा अन्वित्य यज्ञम्̇ रक्षाम्̇सि जिघाम्̇सन्ति 
   वैष्णवीभ्याम् ऋग्भ्यां वर्त्मनोर् जुहोति 
   यज्ञो वै विष्णुः । 
   यज्ञाद् एव रक्षाम्̇स्य् अप हन्ति 
   यद् अध्वर्युर् अनग्नाव् आहुतिं जुहुयाद् अन्धो ऽध्वर्युः स्याद् रक्षाम्̇सि यज्ञम्̇ हन्युः । 

VERSE: 3

   हिरण्यम् उपास्य जुहोति । 
   अग्निवत्य् एव जुहोति 
   नान्धो ऽध्वर्युर् भवति न यज्ञम्̇ रक्षाम्̇सि घ्नन्ति 
   प्राची प्रेतम् अध्वरं कल्पयन्ती इत्य् आह 
   सुवर्गम् एवैने लोकं गमयति । 
   अत्र रमेथां वर्ष्मन् पृथिव्या इत्य् आह 
   वर्ष्म ह्य् एतत् पृथिव्या यद् देवयजनम् । 
   शिरो वा एतद् यज्ञस्य यद् धविर्धानम् । 
   दिवो वा विष्णवुत वा पृथिव्याः  

VERSE: 4

   इत्य् आशीर्पदयर्चा दक्षिणस्य हविर्धानस्य मेथीं नि हन्ति 
   शीर्षत एव यज्ञस्य यजमान आशिषो ऽव रुन्द्धे 
   दण्डो वा औपरस् तृतीयस्य हविर्धानस्य वषट्कारेणाक्षम् अच्छिनत् । 
   यत् तृतीयं छदिर् हविर्धानयोर् उदाह्रियते तृतीयस्य हविर्धानस्यावरुद्ध्यै 
   शिरो वा एतद् यज्ञस्य यद् धविर्धानम् । 
   विष्णो रराटम् असि विष्णोः पृष्ठम् असीत्य् आह 
   तस्माद् एतावद्धा शिरो विष्यूतम् । 
   विष्णोः स्यूर् असि विष्णोर् ध्रुवम् असीत्य् आह 
   वैष्णवम्̇ हि देवतया हविर्धानम् । 
   यम् प्रथमं ग्रन्थिं ग्रथ्नीयात् यत् तं न विस्रम्̇सयेद् अमेहेनाध्वर्युः प्र मीयेत 
   तस्मात् स विस्रस्यः ॥ 

6.2.10अनुवाक 10 सदोभिधानम् VERSE: 1

   देवस्य त्वा सवितुः प्रसव इत्य् अभ्रिम् आ दत्ते प्रसूत्यै । 
   अश्विनोर् बाहुभ्याम् इत्य् आह । 
   अश्विनौ हि देवानाम् अध्वर्यू आस्ताम् 
   पूष्णो हस्ताभ्याम् इत्य् आह यत्यै 
   वज्र इव वा एषा यद् अभ्रिर् अभ्रिर् असि नारिर् असीत्य् आह शान्त्यै 
   काण्डेकाण्डे वै क्रियमाणे यज्ञम्̇ रक्षाम्̇सि जिघाम्̇सन्ति 
   परिलिखितम्̇ रक्षः परिलिखिता अरातय इत्य् आह रक्षसाम् अपहत्यै ॥ 

VERSE: 2

   इदम् अहम्̇ रक्षसो ग्रीवा अपि कृन्तामि यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इत्य् आह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश् चैनं द्वेष्टि तयोर् एवानन्तरायं ग्रीवाः कृन्तति 
   दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेत्य् आहैभ्य एवैनं लोकेभ्यः प्रोक्षति 
   परस्ताद् अर्वाचीम् प्रोक्षति तस्मात्  

VERSE: 3

   परस्ताद् अर्वाचीम् मनुष्या ऊर्जम् उप जीवन्ति 
   क्रूरम् इव वा एतत् करोति यत् खनत्य् अपो ऽव नयति शान्त्यै 
   यवमतीर् अव नयत्य् ऊर्ग् वै यव ऊर्ग् उदुम्बर ऊर्जैवोर्जम्̇ सम् अर्धयति 
   यजमानेन सम्मितौदुम्बरी भवति यावान् एव यजमानस् तावतीम् एवास्मिन्न् ऊर्जं दधाति 
   पितृणाम्̇ सदनम् असीति बर्हिर् अव स्तृणाति पितृदेवत्यम्  

VERSE: 4

   ह्य् एतद् यन् निखातम् । 
   यद् बर्हिर् अनवस्तीर्य मिनुयात् पितृदेवत्या निखाता स्याद् बर्हिर् अवस्तीर्य मिनोत्य् अस्याम् एवैनां मिनोत्य् अथो स्वारुहम् एवैनां करोति । 
   उद् दिवम्̇ स्तभानान्तरिक्षम् पृणेत्य् आहैषां लोकानां विधृत्यै 
   द्युतानस् त्वा मारुतो मिनोत्व् इत्य् आह द्युतानो ह स्म वै मारुतो देवानाम् औदुम्बरीम् मिनोति तेनैव  

VERSE: 5

   एनाम् मिनोति 
   ब्रह्मवनिं त्वा क्षत्रवनिम् इत्य् आह यथायजुर् एवैतत् । 
   घृतेन द्यावापृथिवी आ पृणेथाम् इत्य् औदुम्बर्यां जुहोति द्यावापृथिवी एव रसेनानक्ति । 
   आन्तम् अन्ववस्रावयत्य् आन्तम् एव यजमानं तेजसाऽनक्ति । 
   ऐन्द्रम् असीति छदिर् अधि नि दधात्य् ऐन्द्रम्̇ हि देवतया सदः । 
   विश्वजनस्य छायेत्य् आह विश्वजनस्य ह्य् एषा छाया यत् सदः । 
   नवछदि  

VERSE: 6

   तेजस्कामस्य मिनुयात् त्रिवृता स्तोमेन सम्मितम् तेजस् त्रिवृत् तेजस्व्य् एव भवति । 
   एकादशछदीन्द्रियकामस्यैकादशाक्षरा त्रिष्टुग् इन्द्रियं त्रिष्टुग् इन्द्रियाव्य् एव भवति 
   पञ्चदशछदि भ्रातृव्यवतः पञ्चदशो वज्रो भ्रातृव्याभिभूत्यै 
   सप्तदशछदि प्रजाकामस्य सप्तदशः प्रजापतिः प्रजापतेर् आप्त्यै । 
   एकविम्̇शतिछदि  प्रतिष्ठाकामस्यैकविम्̇शः  स्तोमानाम् प्रतिष्ठा प्रतिष्ठित्यै । 
   उदरं वै सद ऊर्ग् उदुम्बरो मध्यत औदुम्बरीम् मिनोति मध्यत एव प्रजानामूर्जं दधाति तस्मात्  

VERSE: 7

   मध्यत ऊर्जा भुञ्जते 
   यजमानलोके वै दक्षिणानि छदीम्̇षि भ्रातृव्यलोक उत्तराणि दक्षिणान्य् उत्तराणि करोति यजमानम् एवायजमानाद् उत्तरं करोति तस्माद् यजमानो ऽयजमानाद् उत्तरः । 
   अन्तर्वर्तान् करोति व्यावृत्त्यै तस्माद् अरण्यम् प्रजा उप जीवन्ति 
   परि त्वा गिर्वणो गिर इत्य् आह यथायजुर् एवैतत् । 
   इन्द्रस्य स्यूर् असीन्द्रस्य ध्रुवम् असीत्य् आहैन्द्रम्̇ हि देवतया सदः । 
   यम् प्रथमं ग्रन्थिं ग्रथ्नीयाद् यत् तं न विस्रम्̇सयेद् अमेहेनाध्वर्युः प्र मीयेत तस्मात् स विस्रस्यः ॥ 

6.2.11 अनुवाक 11 उपरवाभिधानम् VERSE: 1

   शिरो वा एतद् यज्ञस्य यद् धविर्धानम् प्राणा उपरवाः । 
   हविर्धाने खायन्ते 
   तस्माच् छीर्षन् प्राणाः । 
   अधस्तात् खायन्ते 
   तस्माद् अधस्ताच् छीर्ष्णः प्राणाः । 
   रक्षोहणो वलगहनो वैष्णवान् खनामीत्य् आह 
   वैष्णवा हि देवतयोपरवाः । 
   असुरा वै निर्यन्तो देवानाम् प्राणेषु वलगान् न्य् अखनन् 
   तान् बाहुमात्रे ऽन्व् अविन्दन् 
   तस्माद् बाहुमात्राः खायन्ते । 
   इदम् अहं तं वलगं उद् वपामि  

VERSE: 2

   यं नः समानो यम् असमानो निचखानेत्य् आह 
   द्वौ वाव पुरुषौ यश् चैव समानो यश् चासमानः । 
   यम् एवास्मै तौ वलगं निखनस्तस् तम् एवोद् वपति 
   सं तृणत्ति 
   तस्मात् संतृण्णा अन्तरतः प्राणाः । 
   न सम् भिनत्ति 
   तस्माद् असम्भिन्नाः प्राणाः । 
   अपो ऽव नयति 
   तस्माद् आर्द्रा अन्तरतः प्राणाः । 
  यवमतीर् अव नयति ॥ 

VERSE: 3

   ऊर्ग् वै यवः 
   प्राणा उपरवाः 
   प्राणेष्व् एवोर्जं दधाति 
   बर्हिर् अव स्तृणाति 
   तस्माल् लोमशा अन्तरतः प्राणाः । 
   आज्येन व्याघारयति 
   तेजो वा आज्यम् 
   प्राणा उपरवाः 
   प्राणेष्व् एव तेजो दधाति 
  हनू वा एते यज्ञस्य यद् अधिषवणे 
   न सं तृणत्ति । 
  असंतृण्णे हि हनू 
   अथो खलु दीर्घसोमे संतृद्ये 
   धृत्यै 
   शिरो वा एतद् यज्ञस्य यद् धविर्धानम्  

VERSE: 4

   प्राणा उपरवा हनू अधिषवणे जिह्वा चर्म ग्रावाणो दन्ता मुखम् आहवनीयो नासिकोत्तरवेदिर् उदरम्̇ सदः । 
   यदा खलु वै जिह्वया दत्स्व् अधि खादत्य् अथ मुखं गच्छति 
   यदा मुखं गच्छत्य् अथोदरं गच्छति 
   तस्माद् धविर्धाने चर्मन्न् अधि ग्रावभिर् अभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति 
   यो वै विराजो यज्ञमुखे दोहं वेद 
   दुह एवैनाम् 
   इयं वै  विराट् 
   तस्यै त्वक् चर्मोधो ऽधिषवणे स्तना उपरवा ग्रावाणो वत्सा ऋत्विजो दुहन्ति सोमः पयः । 
   य एवं वेद दुह एवैनाम् ॥ 


6.3 प्रपाठक: 3 6.3.1 अनुवाक 1 धिष्णियाभिधानम् VERSE: 1

   चात्वालाद् धिष्णियान् उप वपति 
   योनिर् वै यज्ञस्य चात्वालं यज्ञस्य सयोनित्वाय 
   देवा वै यज्ञम् पराजयन्त 
   तम् आग्नीध्रात् पुनर् अपाजयन् । 
   एतद् वै यज्ञस्यापराजितं यद् आग्नीध्रम् । 
   यद् आग्नीध्राद् धिष्णियान् विहरति यद् एव यज्ञस्यापराजितं तत एवैनम् पुनस् तनुते 
   पराजित्येव खलु वा एते यन्ति ये बहिष्पवमानम्̇ सर्पन्ति 
   बहिष्पवमाने स्तुते  

VERSE: 2

   आह । 
   अग्नीद् अग्नीन् वि हर बर्हिः स्तृणाहि पुरोडाशाम्̇ अलं कुर्व् इति 
   यज्ञम् एवापजित्य पुनस् तन्वाना यन्ति । 
   अङ्गारैर् द्वे सवने वि हरति शलाकाभिस् तृतीयम् । 
   सशुक्रत्वाय । 
   अथो सम् भरत्य् एवैनद् । 
   धिष्णिया वा अमुष्मिम्̐ लोके सोमम् अरक्षन् 
   तेभ्यो ऽधि सोमम् आहरन् 
   तम् अन्ववायन् तम् पर्य् अविशन् 
  य एवं वेद विन्दते  

VERSE: 3

   परिवेष्टारम् । 
   ते सोमपीथेन व्य् आर्ध्यन्त 
   ते देवेषु सोमपीथम् ऐच्छन्त 
   तान् देवा अब्रुवन् 
   द्वेद्वे नामनी कुरुध्वम् अथ प्र वाऽऽप्स्यथ न वेति । 
   अग्नयो वा अथ धिष्णियास् 
   तस्माद् द्विनामा ब्राह्मणो ऽर्धुकस् 
   तेषां ये नेदिष्ठम् पर्यविशन् ते सोमपीथम् प्राऽऽप्नुवन्न् आहवनीय आग्नीध्रीयो होत्रीयो मार्जालीयस् 
   तस्मात् तेषु जुह्वति । 
   अतिहाय वषट् करोति 
  वि हि  

VERSE: 4

   एते सोमपीथेनार्ध्यन्त 
   देवा वै याः प्राचीर् आहुतीर् अजुहवुर् ये पुरस्ताद् असुरा आसन् ताम्̇स् ताभिः प्राणुदन्त 
   याः प्रतीचीर् ये पश्चाद् असुरा आसन् ताम्̇स् ताभिर् अपानुदन्त 
   प्राचीर् अन्या आहुतयो हूयन्ते प्रत्यङ्ङ् आसीनो धिष्णियान् व्याघारयति 
   पश्चाच् चैव पुरस्ताच् च यजमानो भ्रातृव्यान् प्र णुदते 
   तस्मात् पराचीः प्रजाः प्र वीयन्ते प्रतीचीः  

VERSE: 5

   जायन्ते 
   प्राणा वा एते यद् धिष्णियाः । 
   यद् अध्वर्युः प्रत्यङ् धिष्णियान् अतिसर्पेत् प्राणान्त् सं कर्षेत् 
   प्रमायुकः स्यात् । 
   नाभिर् वा एषा यज्ञस्य यद् होता । 
   ऊर्ध्वः खलु वै नाभ्यै प्राणो ऽवाङ् अपानः । 
   यद् अध्वर्युः प्रत्यङ् होतारम् अतिसर्पेद् अपाने प्राणं दध्यात् प्रमायुकः स्यात् । 
   नाध्वर्युर् उप गायेत् । 
   वाग्वीर्यो वा अध्वर्युः । 
   यद् अध्वर्युर् उपगायेद् उद्गात्रे  

VERSE: 6

   वाचम्̇ सम् प्र यच्छेद् उपदासुकाऽस्य वाक् स्यात् । 
   ब्रह्मवादिनो वदन्ति 
   नासम्̇स्थिते सोमे ऽध्वर्युः प्रत्यङ्क् सदो ऽतीयाद् अथ कथा दाक्षिणानि होतुम् एति यामो हि स तेषां कस्मा अह देवा यामं वाऽयामं वानु ज्ञास्यन्तीति । 
   उत्तरेणाग्नीध्रम् परीत्य जुहोति दाक्षिणानि 
   न प्राणान्त् सं कर्षति 
   न्य् अन्ये धिष्णिया उप्यन्ते नान्ये 
   यान् निवपति तेन तान् प्रीणाति 
   यान् न निवपति यद् अनुदिशति तेन तान् ॥ 

6.3.2 अनुवाक 2 अग्नीषोमीयप्रणयनाभिधानम् VERSE: 1

   सुवर्गाय वा एतानि लोकाय हूयन्ते यद् वैसर्जनानि 
   द्वाभ्यां गार्हपत्ये जुहोति 
   द्विपाद् यजमानः 
   प्रतिष्ठित्यै । 
   आग्नीध्रे जुहोति । 
   अन्तरिक्ष एवाऽऽक्रमते । 
   आहवनीये जुहोति 
   सुवर्गम् एवैनं लोकं गमयति 
   देवान् वै सुवर्गं लोकं यतो रक्षाम्̇स्य् अजिघाम्̇सन् 
   ते सोमेन राज्ञा रक्षाम्̇स्य् अपहत्याप्तुम् आत्मानं कृत्वा सुवर्गं लोकम् आयन् 
   रक्षसाम् अनुपलाभाय । 
   आत्तः सोमो भवत्य् अथ  

VERSE: 2

   वैसर्जनानि जुहोति रक्षसाम् अपहत्यै 
   त्वम्̇ सोम तनूकृद्भ्य इत्य् आह 
   तनूकृद् ध्य् एष  
   द्वेषोभ्यो ऽन्यकृतेभ्य इत्य् आह । 
   अन्यकृतानि हि रक्षाम्̇सि । 
   उरु यन्तासि वरूथम् इत्य् आह । 
   उरु णस् कृधीति वावैतद् आह 
   जुषाणो अप्तुर् आज्यस्य वेत्व् इत्य् आह । 
   अप्तुम् एव यजमानं कृत्वा सुवर्गं लोकं गमयति 
   रक्षसाम् अनुपलाभाय । 
   आ सोमं ददते  

VERSE: 3

   आ ग्राव्ण आ वायव्यान्य् आ द्रोणकलशम् 
   उत् पत्नीम् आ नयन्ति । 
   अन्व् अनाम्̇सि प्र वर्तयन्ति 
   यावद् एवास्यास्ति तेन सह सुवर्गं लोकम् एति 
   नयवत्यर्चाऽऽग्नीध्रे जुहोति 
   सुवर्गस्य लोकस्याभिनीत्यै 
   ग्राव्णो वायव्यानि द्रोणकलशम् आग्नीध्र उप वासयति 
   वि ह्य् एनं तैर् गृह्णते 
   यत् सहोपवासयेद् अपुवायेत 
  सौम्यर्चा प्र पादयति 
   स्वया  

VERSE: 4

   एवैनं देवतया प्र पादयति । 
   अदित्याः सदो ऽस्य् अदित्याः सद आ सीदेत्य् आह 
   यथायजुर् एवैतत् । 
   यजमानो वा एतस्य पुरा गोप्ता भवति । 
   एष वो देव सवितः सोम इत्य् आह 
   सवितृप्रसूत एवैनं देवताभ्यः सम् प्र यच्छति । 
   एतत् त्वम्̇ सोम देवो देवान् उपागा इत्य् आह 
   देवो ह्य् एष सन्  

VERSE: 5

   देवान् उपैति । 
   इदम् अहम् मनुष्यो मनुष्यान् इत्य् आह 
   मनुष्यो ह्य् एष सन् मनुष्यान् उपैति 
   यद् एतद् यजुर् न ब्रूयाद् अप्रजा अपशुर् यजमानः स्यात् 
   सह प्रजया सह रायस् पोषेणेत्य् आह 
   प्रजयैव पशुभिः सहेमं लोकम् उपावर्तते 
   नमो देवेभ्य इत्य् आह 
   नमस्कारो हि देवानाम् । 
   स्वधा पितृभ्य इत्य् आह 
  स्वधाकारो हि  

VERSE: 6

   पितृणाम् 
   इदम् अहं निर् वरुणस्य पाशाद् इत्य् आह 
   वरुणपाशाद् एव निर् मुच्यते । 
   अग्ने व्रतपते । 
   आत्मनः पूर्वा तनूर् आदेयेत्य् आहुः 
   को हि तद् वेद यद् वसीयान्त् स्वे वशे भूते पुनर् वा ददाति न वेति 
   ग्रावाणो वै सोमस्य राज्ञो मलिम्लुसेना 
   य एवं विद्वान् ग्राव्ण आग्नीध्र उपवासयति नैनम् मलिम्लुसेना विन्दति ॥ 

6.3.3 अनुवाक 3 यूपखण्डनाभिधानम् VERSE: 1

   वैष्णव्यर्चा हुत्वा यूपम् अच्छैति वैष्णवो वै देवतया यूपः स्वयैवैनं देवतयाऽच्छैत्य् 
   अत्य् अन्यान् अगां नान्यान् उपागाम् इत्य् आहाति ह्य् अन्यान् एति नान्यान् उपैत्य् अर्वाक् त्वा परैर् अविदम् परोवरैर् इत्य् आहार्वाग् घ्य् एनम् परैर् विन्दति परोवरैस् तं त्वा जुषे ॥ 

VERSE: 2

   वैष्णवं देवयज्याया इत्य् आह देवयज्यायै ह्य् एनं जुषते 
   देवस् त्वा सविता मध्वाऽनक्त्व् इत्य् आह तेजसैवैनम् अनक्त्य् ओषधे त्रायस्वैनम्̇ स्वधिते मैनम्̇ हिम्̇सीर् इत्य् आह वज्रो वै स्वधितिः शान्त्यै 
   स्वधितेर् वृक्षस्य बिभ्यतः प्रथमेन शकलेन सह तेजः परा पतति यः प्रथमः शकलः परापतेत् तम् अप्य् आ हरेत् सतेजसम्  

VERSE: 3

   एवैनम् आ हरतीमे वै लोका यूपात् प्रयतो बिभ्यति दिवम् अग्रेण मालेखीर् अन्तरिक्षम् मध्येन मा हिम्̇सीर् इत्य् आहैभ्य एवैनं लोकेभ्यः शमयति 
   वनस्पते शतवल्शो वि रोहेत्य् आव्रश्चने जुहोति तस्माद् आव्रश्चनाद् वृक्षाणाम् भूयाम्̇स उत् तिष्ठन्ति 
   सहस्रवल्शा वि वयम्̇ रुहेमेत्य् आहाऽऽशिषम् एवैताम् आ शास्ते । 
   अनक्षसङ्गम्  

VERSE: 4

   वृश्चेद् यद् अक्षसङ्गं वृश्चेद् अधईषं यजमानस्य प्रमायुकम्̇ स्याद् 
   यं कामयेताप्रतिष्ठितः स्याद् इत्य् आरोहं तस्मै वृश्चेद् एष वै वनस्पतीनाम् अप्रतिष्ठितोऽप्रतिष्ठित एव भवति 
   यं कामयेतापशुः स्याद् इत्य् अपर्णं तस्मै शुष्काग्रं वृश्चेद् एष वै वनस्पतीनाम् अपशव्यो ऽपशुर् एव भवति 
   यं कामयेत पशुमान्त् स्याद् इति बहुपर्णं तस्मै बहुशाखं वृश्चेद् एष वै  

VERSE: 5

   वनस्पतीनाम् पशव्यः पशुमान् एव भवति 
   प्रतिष्ठितं वृश्चेत् प्रतिष्ठाकामस्यैष वै वनस्पतीनाम् प्रतिष्ठितो यः समे भूम्यै स्वाद् योने रूढः प्रत्य् एव तिष्ठति यः प्रत्यङ्ङ् उपनतस् तं वृश्चेत् स हि मेधम् अभ्य् उपनतः 
   पञ्चारत्निं तस्मै वृश्चेद् यं कामयेतोपैनम् उत्तरो यज्ञो नमेद् इति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञ उपैनम् उत्तरो यज्ञः  

VERSE: 6

   नमति 
   षडरत्निम् प्रतिष्ठाकामस्य षड् वा ऋतव ऋतुष्व् एव प्रति तिष्ठति 
   सप्तारत्निम् पशुकामस्य सप्तपदा शक्वरी पशवः शक्वरी पशून् एवाव रुन्द्धे 
   नवारत्निं तेजस्कामस्य त्रिवृता स्तोमेन सम्मितं तेजस् त्रिवृत् तेजस्व्य् एव भवति । 
   एकादशारत्निम् इन्द्रियकामस्यैकादशाक्षरा त्रिष्टुग् इन्द्रियं त्रिष्टुग् इन्द्रियाव्य् एव भवति 
   पञ्चदशारत्निम् भ्रातृव्यवतः पञ्चदशो वज्रो भ्रातृव्याभिभूत्यै 
   सप्तदशारत्निम् प्रजाकामस्य सप्तदशः प्रजापतिः प्रजापतेर् आप्त्यै । 
   एकविम्̇शत्यरत्निम् प्रतिष्ठाकामस्यैकविम्̇श स्तोमानाम् प्रतिष्ठा प्रतिष्ठित्यै । 
   अष्टाश्रिर् भवत्य् अष्टाक्षरा गायत्री तेजो गायत्री गायत्री यज्ञमुखं तेजसैव गायत्रिया यज्ञमुखेन सम्मितः ॥ 

6.3.4 अनुवाक 4 यूपस्थापनाभिधानम् VERSE: 1

   पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वेत्य् आहैभ्य एवैनं लोकेभ्यः प्रोक्षति 
   पराञ्चम् प्रोक्षति पराङ् इव हि सुवर्गो लोकः 
   क्रूरम् इव वा एतत् करोति यत् खनत्य् अपोऽव नयति शान्त्यै यवमतीर् अव नयत्य् ऊर्ग् वै यवो यजमानेन यूपः सम्मितो यावान् एव यजमानस् तावतीम् एवास्मिन्न् ऊर्जं दधाति  

VERSE: 2

   पितृणाम्̇ सदनम् असीति बर्हिर् अव स्तृणाति पितृदेवत्यम्̇ ह्य् एतद् यन् निखातं यद् बर्हिर् अनवस्तीर्य मिनुयात् पितृदेवत्यो निखातः स्याद् बर्हिर् अवस्तीर्य मिनोत्य् अस्याम् एवैनम् मिनोति 
   यूपशकलम् अवास्यति सतेजसम् एवैनम् मिनोति 
   देवस् त्वा सविता मध्वानक्त्व् इत्य् आह तेजसैवैनम् अनक्ति 
   सुपिप्पलाभ्यस् त्वौषधीभ्य इति चषालम् प्रति  

VERSE: 3

   मुञ्चति तस्माच् छीर्षत ओषधयः फलं गृह्णन्त्य् 
   अनक्ति तेजो वा आज्यं यजमानेनाग्निष्ठाऽश्रिः सम्मिता यद् अग्निष्ठाम् अश्रिम् अनक्ति यजमानम् एव तेजसाऽनक्त्य् 
   आन्तम् अनक्त्य् आन्तम् एव यजमानं तेजसाऽनक्ति 
   सर्वतः परि मृशत्य् अपरिवर्गम् एवास्मिन् तेजो दधात्य् 
   उद् दिवम्̇ स्तभानाऽन्तरिक्षम् पृणेत्य् आहैषां लोकानां विधृत्यै 
   वैष्णव्यर्चा  

VERSE: 4

   कल्पयति वैष्णवो वै देवतया यूपः स्वयैवैनं देवतया कल्पयति 
   द्वाभ्यां कल्पयति द्विपाद् यज्मानः प्रतिष्ठित्यै 
   यं कामयेत तेजसैनं देवताभिर् इन्द्रियेण व्यर्धयेयम् इत्य् अग्निष्ठां तस्याश्रिं आहवनीयाद् इत्थं वेत्थं वाति नावयेत् तेजसैवैनं देवताभिर् इन्द्रियेण व्यर्धयति 
   यं कामयेत तेजसैनं देवताभिर् इन्द्रियेण सम् अर्धयेयम् इति ॥ 

VERSE: 5

   अग्निष्ठां तस्याश्रिम् आहवनीयेन सम् मिनुयात् तेजसैवैनं देवताभिर् इन्द्रियेण सम् अर्धयति 
   ब्रह्मवनिं त्वा क्षत्रवनिम् इत्य् आह यथायजुर् एवैतत् 
   परि व्ययत्य् ऊर्ग् वै रशना यजमानेन यूपः सम्मितो यजमानम् एवोर्जा सम् अर्धयति 
   नाभिदघ्ने परि व्ययति नाभिदघ्न एवास्मा ऊर्जं दधाति तस्मान् नाभिदघ्न ऊर्जा भुञ्जते 
   यं कामयेतोर्जैनम्  

VERSE: 6

   व्यर्धयेयम् इत्य् ऊर्ध्वां वा तस्यावाचीं वाऽवोहेद् ऊर्जैवैनं व्यर्धयति 
   यदि कामयेत वर्षुकः पर्जन्यः स्याद् इत्य् अवाचीम् अवोहेद् वृष्टिम् एव नि यच्छति यदि कामयेतावर्षुकः स्याद् इत्य् ऊर्ध्वाम् उद् ऊहेद् वृष्टिम् एवोद् यच्छति 
   पितृणां निखातम् मनुष्याणामूर्ध्वं निखाताद् आ रशनाया ओषधीनाम्̇ रशना विश्वेषाम्  

VERSE: 7

   देवानां ऊर्ध्वम्̇ रशनाया आ चषालाद् इन्द्रस्य चषालम्̇ साध्यानाम् अतिरिक्तम्̇ स वा एष सर्व देवत्यो यद् यूपो यद् यूपम् मिनोति सर्वा एव देवताः प्रीणाति 
   यज्ञेन वै देवाः सुवर्गं लोकम् आयन् ते ऽमन्यन्त मनुष्या नो ऽन्वाभविष्यन्तीति ते यूपेन योपयित्वा सुवर्गं लोकम् आयन् तम् ऋषयो यूपेनैवानु प्राजानन् तद् यूपस्य यूपत्वम् । 

VERSE: 8

   यद् यूपम् मिनोति सुवर्गस्य लोकस्य प्रज्ञात्यै 
   पुरस्तान् मिनोति पुरस्ताद् धि यज्ञस्य प्रज्ञायते ऽप्रज्ञातम्̇ हि तद् यद् अतिपन्न आहुर् इदं कार्यम् आसीद् इति साध्या वै देवा यज्ञम् अत्य् अमन्यन्त तान् यज्ञो नास्पृशत् तान् यद् यज्ञस्यातिरिक्तम् आसीत् तद् अस्पृशद् अतिरिक्तं वा एतद् यज्ञस्य यद् अग्नाव् अग्निम् मथित्वा प्रहरत्य् अतिरिक्तम् एतत्  

VERSE: 9

   यूपस्य यद् ऊर्ध्वं चषालात् तेषां तद् भागधेयं तान् एव तेन प्रीणाति 
   देवा वै सम्̇स्थिते सोमे प्र स्रुचोहरन् प्र यूपं ते ऽमन्यन्त यज्ञवेशसं वा इदं कुर्म इति ते प्रस्तरम्̇ स्रुचाम्̇ निष्क्रयणम् अपश्यन्त् स्वरुं यूपस्य सम्̇स्थिते सोमे प्र प्रस्तरम्̇ हरति जुहोति स्वरुं अयज्ञवेशसाय ॥

6.3.5 अनुवाक 5 अग्निमन्थनाभिधानम् VERSE: 1

   साध्या वै देवा अस्मिम्̐ लोक आसन् 
   नान्यत् किं चन मिषत् 
   ते ऽग्निम् एवाग्नये मेधायालभन्त 
   न ह्य् अन्यद् आलम्भ्यम् अविन्दन् 
   ततो वा इमाः प्रजाः प्राजायन्त 
   यद् अग्नाव् अग्निम् मथित्वा प्रहरति प्रजानाम् प्रजननाय 
   रुद्रो वा एष यद् अग्निर् यजमानः पशुः । 
   यत् पशुम् आलभ्याग्निम् मन्थेद् रुद्राय यजमानम्  

VERSE: 2

   अपि दध्यात् 
   प्रमायुकः स्यात् । 
   अथो खल्व् आहुः । 
   अग्निः सर्वा देवता हविर् एतद् यत् पशुर् इति 
   यत् पशुम् आलभ्याग्निम् मन्थति हव्यायैवासन्नाय सर्वा देवता जनयति । 
   उपाकृत्यैव मन्थ्यस् 
   तन् नेवालब्धं नेवानालब्धम् 
   अग्नेर् जनित्रम् असीत्य् आह । 
   अग्नेर् ह्य् एतज् जनित्रम् । 
   वृषणौ स्थ इत्य् आह 

1 वृषणौ

VERSE: 3

   ह्य् एतौ । 
   उर्वश्य् अस्य् आयुर् असीत्य् आह 
   मिथुनत्वाय 
   घृतेनाक्ते वृषणं दधाथाम् इत्य् आह 
   वृषणम्̇ ह्य् एते दधाते ये अग्निम् । 
   गायत्रं छन्दो ऽनु प्र जायस्वेत्य् आह 
   छन्दोभिर् एवैनम् प्र जनयति । 
   अग्नये मथ्यमानायानु ब्रूहीत्य् आह 
   सावित्रीम् ऋचम् अन्व् आह 
   सवितृप्रसूत एवैनम् मन्थति 
   जातायानु ब्रूहि  

VERSE: 4

   प्रह्रियमानायानु ब्रूहीत्य् आह 
   काण्डेकाण्ड एवैनं क्रियमाणे सम् अर्धयति 
   गायत्रीः सर्वा अन्व् आह 
   गायत्रछन्दा वा अग्निः 
   स्वेनैवैनं छन्दसा सम् अर्धयति । 
   अग्निः पुरा भवत्य् अग्निम् मथित्वा प्र हरति 
   तौ सम्भवन्तौ यजमानम् अभि सम् भवतः । 
   भवतं नः समनसाव् इत्य् आह 
   शान्त्यै 
   प्रहृत्य जुहोति 
   जातायैवास्मा अन्नम् अपि दधाति । 
   आज्येन जुहोति । 
   एतद् वा अग्नेः प्रियं धाम यद् आज्यम् 
   प्रियेणैवैनं धाम्ना सम् अर्धयत्य् अथो तेजसा ॥ 

6.3.6 अनुवाक 6 पशुनियोजनम् VERSE: 1

   इषे त्वेति बर्हिर् आ दत्त इच्छत इव ह्य् एष यो यजते । 
   उपवीर् असीत्य् आहोप ह्य् एनान् आकरोति । 
   उपो देवान् दैवीर् विशः प्रागुर् इत्य् आह दैवीर् ह्य् एता विशः सतीर् देवान् उपयन्ति 
   वह्नीर् उशिज इत्य् आहर्त्विजो वै वह्नय उशिजस् तस्माद् एवम् आह 
   बृहस्पते धारया वसूनीति  

VERSE: 2

   आह ब्रह्म वै देवानाम् बृहस्पतिर् ब्रह्मणैवास्मै पशून् अव रुन्द्धे 
   हव्या ते स्वदन्ताम् इत्य् आह स्वदयत्य् एवैनान् 
   देव त्वष्टर् वसु रण्वेत्य् आह त्वष्टा वै पशूनाम् मिथुनानाम्̇ रूपकृद् रूपम् एव पशुषु दधाति 
   रेवती रमध्वम् इत्य् आह पशवो वै रेवतीः पशून् एवास्मै रमयति 
   देवस्य त्वा सवितुः प्रसव इति 

VERSE: 3

   रशनाम् आ दत्ते प्रसूत्या अश्विनोर् बाहुभ्याम् इत्य् आहाश्विनौ हि देवानाम् अध्वर्यू आस्ताम् पूष्णो हस्ताभ्याम् इत्य् आह यत्यै । 
   ऋतस्य त्वा देवहविः पाशेना रभ इत्य् आह सत्यं वा ऋतम्̇ सत्येनैवैनम् ऋतेना रभते । 
   अक्ष्णया परि हरति वध्यम्̇ हि प्रत्यञ्चम् प्रतिमुञ्चन्ति व्यावृत्त्यै 
   धर्षा मानुषान् इति नि युनक्ति धृत्यै । 
   अद्भ्यः  

VERSE: 4

   त्वौषधीभ्यः प्रोक्षामीत्य् आहाद्भ्यो ह्य् एष ओषधीभ्यः सम्भवति यत् पशुः । 
   अपाम् पेरुर् असीत्य् आहैष ह्य् अपाम् पाता यो मेधायारभ्यते 
   स्वात्तं चित् सदेवम्̇ हव्यम् आपो देवीः स्वदतैनम् इत्य् आह स्वदयत्य् एवैनम् 
   उपरिष्टात् प्रोक्षत्य् उपरिष्टाद् एवैनम् मेध्यं करोति पाययत्य् अन्तरत एवैनम् मेध्यं करोत्य् अधस्ताद् उपोक्षति सर्वत एवैनम् मेध्यं करोति ॥ 

6.3.7 अनुवाक 7 सामिधेन्याद्यभिधानम् VERSE: 1

   अग्निना वै होत्रा देवा असुरान् अभ्य् अभवन्न् अग्नये समिध्यमानायानु ब्रूहीत्य् आह भ्रातृव्याभिभूत्यै 
   सप्तदश सामिधेनीर् अन्व् आह सप्तदशः प्रजापतिः प्रजापतेर् आप्त्यै 
   सप्तदशान्वाह द्वादश मासाः पञ्चर्तवः स संवत्सरः संवत्सरम् प्रजा अनु प्र जायन्ते प्रजानाम् प्रजननाय 
   देवा वै सामिधेनीर् अनूच्य यज्ञं नान्व् अपश्यन्त् स प्रजापतिस् तूष्णीम् आघारम्  

VERSE: 2

   आघारयत् ततो वै देवा यज्ञम् अन्व् अपश्यन् यत् तूष्णीम् आघारम् आघारयति यज्ञस्यानुख्यात्यै । 
   असुरेषु वै यज्ञ आसीत् तं देवास् तूष्णीम्̇ होमेनावृञ्जत यत् तूष्णीम् आघारम् आघारयति भ्रातृव्यस्यैव तद् यज्ञं वृङ्क्ते 
   परिधीन्त् सम् मार्ष्टि पुनात्य् एवैनान् त्रिस्त्रिः सम् मार्ष्टि त्र्यावृद् धि यज्ञो ऽथो रक्षसाम् अपहत्यै द्वादश सम् पद्यन्ते द्वादश  

VERSE: 3

   मासाः संवत्सरः संवत्सरम् एव प्रीणात्य् अथो संवत्सरम् एवास्मा उप दधाति सुवर्गस्य लोकस्य समष्ट्यै 
   शिरो वा एतद् यज्ञस्य यद् आघारो ऽग्निः सर्वा देवता यद् आघारम् आघारयति शीर्षत एव यज्ञस्य यजमानः सर्वा देवता अव रुन्द्धे 
   शिरो वा एतद् यज्ञस्य यद् आघार आत्मा पशुर् आघारम् आघार्य पशुम्̇ सम् अनक्त्य् आत्मन्न् एव यज्ञस्य  

VERSE: 4

   शिरः प्रति दधाति 
   सं ते प्राणो वायुना गच्छताम् इत्य् आह वायुदेवत्यो वै प्राणो वायाव् एवास्य प्राणं जुहोति सं यजत्रैर् अङ्गानि सं यज्ञपतिर् आशिषेत्य् आह यज्ञपतिम् एवास्याशिषं गमयति 
   विश्वरूपो वै त्वाष्ट्र उपरिष्टात् पशुम् अभ्य् अवमीत् तस्माद् उपरिष्टात् पशोर् नावद्यन्ति यद् उपरिष्टात् पशुम्̇ समनक्ति मेध्यम् एव  

VERSE: 5

   एनं करोति । 
   ऋत्विजो वृणीते छन्दाम्̇स्य् एव वृणीते सप्त वृणीते सप्त ग्राम्याः पशवः सप्तारण्याः सप्त छन्दाम्̇स्य् उभयस्यावरुद्ध्यै । 
   एकादश प्रयाजान् यजति दश वै पशोः प्राणा आत्मैकादशो यावान् एव पशुस् तम् प्र यजति 
   वपां एकः परि शय आत्मैवात्मानम् परि शये 
   वज्रो वै स्वधितिर् वज्रो यूपशकलो घृतं खलु वै देवा वज्रं कृत्वा सोमम् अघ्नन् घृतेनाक्तौ पशुं त्रायेथाम् इत्य् आह वज्रेणैवैनं वशे कृत्वा लभते ॥ 

6.3.8 अनुवाक 8 पशुहिंसनाभिधानम् VERSE: 1

   पर्यग्नि करोति सर्वहुतम् एवैनं करोत्य् अस्कन्दायास्कन्नं हि तद् यद् धुतस्य स्कन्दति त्रिः पर्यग्नि करोति त्र्यावृद् धि यज्ञो ऽथो रक्षसाम् अपहत्यै 
   ब्रह्मवादिनो वदन्ति । 
   अन्वारभ्यः पशू3र् नान्वारभ्या3 इति मृत्यवे वा एष नीयते यत् पशुस् तम् यद् अन्वारभेत प्रमायुको यजमानः स्याद् अथो खल्व् आहुः 
   सुवर्गाय वा एष लोकाय नीयते यत्  

VERSE: 2

   पशुर् इति यन् नान्वारभेत सुवर्गाल् लोकाद् यजमानो हीयेत वपाश्रपणीभ्याम् अन्वारभते तन् नेवान्वारब्धं नेवानन्वारब्धम् 
   उप प्रेष्य होतर् हव्या देवेभ्य इत्य् आहेषितम्̇ हि कर्म क्रियते 
   रेवतीर् यज्ञपतिं प्रियधा विशतेत्य् आह यथायजुर् एवैतद् 
   अग्निना पुरस्ताद् एति रक्षसाम् अपहत्यै 
   पृथिव्याः संपृचः पाहीति बर्हिः  

VERSE: 3

   उपास्यत्य् अस्कन्दायास्कन्नम्̇ हि तद् यद् बर्हिषि स्कन्दत्य् अथो बर्हिषदम् एवैनं करोति 
   पराङ् आ वर्तते ऽध्वर्युः पशोः संज्ञप्यमानात् पशुभ्य एव तन् नि ह्नुत आत्मनोऽनाव्रस्काय 
   गच्छति श्रियम् प्र पशून् आप्नोति य एवं वेद 
   पश्चाल् लोका वा एषा प्राच्य् उदानीयते यत् पत्नी नमस् त आतानेत्य् आहाऽऽदित्यस्य वै रश्मयः  

VERSE: 4

   आतानास् तेभ्य एव नमस् करोति । 
   अनर्वा प्रेहीत्य् आह भ्रातृव्यो वा अर्वा भ्रातृव्यापनुत्त्यै 
   घृतस्य कुल्याम् अनु सह प्रजया सह रायस् पोषेणेत्य् आहाऽऽशिषम् एवैताम् आ शास्त आपो देवीः शुद्धायुव इत्य् आह यथायजुर् एवैतत् ॥ 

6.3.9 अनुवाक 9 वपाहोमाभिधानम् VERSE: 1

   पशोर् वा आलब्धस्य प्राणाञ् छुग् ऋच्छति 
   वाक् त आ प्यायताम् प्राणस् त आ प्यायताम् इत्य् आह प्राणेभ्य एवास्य शुचम्̇ शमयति 
   सा प्राणेभ्यो ऽधि पृथिवीम्̇ शुक् प्र विशति 
   शम् अहोभ्याम् इति नि नयत्य् अहोरात्राभ्याम् एव पृथिव्यै शुचम्̇ शमयति । 
   ओषधे त्रायस्वैनम्̇ स्वधिते मैनम्̇ हिम्̇सीर् इत्य् आह वज्रो वै स्वधितिः 

VERSE: 2

   शान्त्यै 
   पार्श्वत आ च्छ्यति मध्यतो हि मनुष्या आच्छ्यन्ति तिरश्चीनम् आ छ्यत्य् अनूचीनम्̇ हि मनुष्या आछ्यन्ति व्यावृत्त्यै 
   रक्षसाम् भागो ऽसीति स्थविमतो बर्हिर् अक्त्वापास्यत्य् अस्नैव रक्षाम्̇सि निरवदयते । 
   इदम् अहम्̇ रक्षो ऽधमं तमो नयामि यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इत्य् आह द्वौ वाव पुरुषौ यं चैव  

VERSE: 3

   द्वेष्टि यश् चैनं द्वेष्टि ताव् उभाव् अधमं तमो नयति । 
   इषे त्वेति वपाम् उत् खिदतीच्छत इव ह्य् एष यो यजते 
   यद् उपतृन्द्याद् रुद्रो ऽस्य पशून् घातुकः स्याद् यन् नोपतृन्द्याद् अयता स्याद् अन्ययोपतृणत्त्य् अन्यया न धृत्यै 
   घृतेन द्यावापृथिवी प्रोर्ण्वाथाम् इत्य् आह द्यावापृथिवी एव रसेनानक्ति । 
   अछिन्नः  

VERSE: 4

   रायः सुवीर इत्य् आह यथायजुर् एवैतत् 
   क्रूरम् इव वा एतत् करोति यद् वपाम् उत्खिदत्य् उर्व् अन्तरिक्षम् अन्व् इहीत्य् आह शान्त्यै 
   प्र वा एषो ऽस्माल् लोकाच् च्यवते यः पशुम् मृत्यवे नीयमानम् अन्वारभते वपाश्रपणी पुनर् अन्वारभते ऽस्मिन्न् एव लोके प्रति तिष्ठति । 
   अग्निना पुरस्ताद् एति रक्षसाम् अपहत्या अथो देवता एव हव्येन  

VERSE: 5

   अन्व् एति 
   नान्तमम् अङ्गारम् अति हरेद् यद् अन्तमम् अङ्गारम् अतिहरेद् देवता अति मन्येत 
   वायो वीहि स्तोकानाम् इत्य् आह तस्माद् विभक्ता स्तोका अव पद्यन्ते । 
   अग्रं वा एतत् पशूनां यद् वपाग्रम् ओषधीनाम् बर्हिर् अग्रेणैवाग्रम्̇ सम् अर्धयत्य् अथो ओषधीष्व् एव पशून् प्रति ष्ठापयति 
   स्वाहाकृतीभ्यः प्रेष्येत्य् आह  

VERSE: 6

   यज्ञस्य समिष्ट्यै 
   प्राणापानौ वा एतौ पशूनां यत् पृषदाज्यम् आत्मा वपा पृषदाज्यम् अभिघार्य वपाम् अभि घारयत्य् आत्मन्न् एव पशूनाम् प्राणापानौ दधाति 
   स्वाहोर्ध्वनभसम् मारुतं गच्छतम् इत्य् आहोर्ध्वनभा ह स्म वै मारुतो देवानां वपाश्रपणी प्रहरति तेनैवैने प्र हरति विषूची प्र हरति तस्माद् विष्वञ्चौ प्राणापानौ ॥ 

6.3.10 अनुवाक 10 अवदानाभिधानम् VERSE: 1

   पशुम् आलभ्य पुरोडाशं निर् वपति समेधम् एवैनम् आ लभते 
   वपया प्रचर्य पुरोडाशेन प्र चरत्य् ऊर्ग् वै पुरोडाश ऊर्जम् एव पशूनाम् मध्यतो दधात्य् अथो पशोर् एव छिद्रम् अपि दधाति 
   पृषदाज्यस्योपहत्य त्रिः पृच्छति 
   शृतम्̇ हवी3ः शमितर् इति त्रिषत्या हि देवा यो ऽशृतम्̇ शृतम् आह स एनसा 
   प्राणापानौ वा एतौ पशूनाम्  

VERSE: 2

   यत् पृषदाज्यम् पशोः खलु वा आलब्धस्य हृदयम् आत्माभि सम् एति यत् पृषदाज्येन हृदयम् अभिघारयत्य् आत्मन्न् एव पशूनाम् प्राणापानौ दधाति 
   पशुना वै देवाः सुवर्गं लोकम् आयन् ते ऽमन्यन्त 
   मनुष्या नो ऽन्वाभविष्यन्तीति तस्य शिरश् छित्त्वा मेधम् प्राक्षारयन्त् स प्रक्षो ऽभवत् तत् प्रक्षस्य प्रक्षत्वं यत् प्लक्षशाखोत्तरबर्हिर् भवति समेधस्यैव  

VERSE: 3

   पशोर् अव द्यति 
   पशुं वै ह्रियमाणम्̇ रक्षाम्̇स्य् अनु सचन्ते ऽन्तरा यूपं चाहवनीयं च हरति रक्षसाम् अपहत्यै 
   पशोर् वा आलब्धस्य मनो ऽप क्रामति 
   मनोतायै हविषो ऽवदीयमानस्यानु ब्रूहीत्य् आह मन एवास्याव रुन्द्धे । 
   एकादशावदानान्य् अव द्यति दश वै पशोः प्राणा आत्मैकादशो यावान् एव पशुस् तस्याव  

VERSE: 4

   द्यति 
   हृदयस्याग्रे ऽव द्यत्य् अथ जिह्वाया अथ वक्षसो यद् वै हृदयेनाभिगच्छति तज् जिह्वया वदति यज् जिह्वया वदति तद् उरसो ऽधि निर् वदति । 
   एतद् वै पशोर् यथापूर्वं यस्यैवम् अवदाय यथाकामम् उत्तरेषाम् अवद्यति यथापूर्वम् एवास्य पशोर् अवत्तम् भवति 
   मध्यतो गुदस्याव द्यति मध्यतो हि प्राण उत्तमस्याव द्यति । 

VERSE: 5

   उत्तमो हि प्राणो यदीतरं यदीतरम् उभयम् एवाजामि 
   जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी तद् अवदानैर् एवाव दयते तद् अवदानानाम् अवदानत्वम् । 
   देवासुराः संयत्ता आसन् ते देवा अग्निम् अब्रुवन् 
   त्वया वीरेणासुरान् अभि भवामेति । 

VERSE: 6

   सो ऽब्रवीद् 
   वरं वृणै पशोर् उद्धारम् उद् धरा इति स एतम् उद्धारम् उद् अहरत दोः पूर्वार्धस्य गुदम् मध्यतः श्रोणिं जघनार्धस्य ततो देवा अभवन् परासुरा यत् त्र्यङ्गाणाम्̇ समवद्यति भ्रातृव्याभिभूत्यै भवत्य् आत्मना परास्य भ्रातृव्यो भवति । 
   अक्ष्णयाव द्यति तस्माद् अक्ष्णया पशवो ऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै ॥ 

6.3.11 अनुवाक 11 अनूयाजकथनम् VERSE: 1

   मेदसा स्रुचौ प्रोर्णोति मेदोरूपा वै पशवो रूपम् एव पशुषु दधाति 
   यूषन्न् अवधाय प्रोर्णोति रसो वा एष पशूनां यद् यू रसम् एव पशुषु दधाति 
   पार्श्वेन वसाहोमम् प्र यौति मध्यं वा एतत् पशूनां यत् पार्श्वम्̇ रस एष पशूनां यद् वसा यत् पार्श्वेन वसाहोमम् प्रयौति मध्यत एव पशूनाम्̇ रसं दधाति 
   घ्नन्ति  

VERSE: 2

   वा एतत् पशुं यत् संज्ञपयन्त्य् ऐन्द्रः खलु वै देवतया प्राण ऐन्द्रो ऽपान ऐन्द्रः प्राणो अङ्गेअङ्गे नि देध्यद् इत्य् आह प्राणापानाव् एव पशुषु दधाति 
   देव त्वष्टर् भूरि ते सम्̇सम् एत्व् इत्य् आह त्वाष्ट्रा हि देवतया पशवः । 
   विषुरूपा यत् सलक्ष्माणो भवथेत्य् आह विषुरूपा ह्य् एते सन्तः सलक्ष्माण एतर्हि भवन्ति 
   देवत्रा यन्तम्  

VERSE: 3

   अवसे सखायो ऽनु त्वा माता पितरो मदन्त्व् इत्य् आहानुमतम् एवैनम् मात्रा पित्रा सुवर्गं लोकं गमयति । 
   अर्धर्चे वसाहोमं जुहोत्य् असौ वा अर्धर्च इयम् अर्धर्च इमे एव रसेनानक्ति दिशो जुहोति दिश एव रसेनानक्त्य् अथो दिग्भ्य एवोर्जम्̇ रसम् अव रुन्द्धे 
   प्राणापानौ वा एतौ पशूनां यत् पृषदाज्यं वानस्पत्याः खलु  

VERSE: 4

   वै देवतया पशवो यत् पृषदाज्यस्योपहत्याह 
   वनस्पतये ऽनु ब्रूहि वनस्पतये प्रेष्येति प्राणापानाव् एव पशुषु दधाति । 
   अन्यस्यान्यस्य समवत्तम्̇ समवद्यति तस्मान् नानारूपाः पशवः । 
   यूष्णोप सिञ्चति रसो वा एष पशूनां यद् यू रसम् एव पशुषु दधाति । 
   इडाम् उप ह्वयते पशवो वा इडा पशून् एवोप ह्वयते चतुर् उप ह्वयते  

VERSE: 5

   चतुष्पादो हि पशवः । 
   यं कामयेत । 
   अपशुः स्याद् इत्य् अमेदस्कं तस्मा आ दध्यान् मेदोरूपा वै पशवो रूपेणैवैनम् पशुभ्यो निर् भजत्य् अपशुर् एव भवति 
   यं कामयेत 
   पशुमान्त् स्याद् इति मेदस्वत् तस्मा आ दध्यान् मेदोरूपा वै पशवो रूपेणैवास्मै पशून् अव रुन्द्धे पशुमान् एव भवति 
   प्रजापतिर् यज्ञम् असृजत स आज्यम्  

VERSE: 6

   पुरस्ताद् असृजत पशुम् मध्यतः पृषदाज्यम् पश्चात् तस्माद् आज्येन प्रयाजा इज्यन्ते पशुना पशुना मध्यतः पृषदाज्येनानूयाजास् तस्माद् एतन् मिश्रम् इव पश्चात्सृष्टम्̇ हि । 
   एकादशानूयाजान् यजति दश वै पशोः प्राणा आत्मैकादशो यावान् एव पशुस् तम् अनु यजति 
   घ्नन्ति वा एतत् पशुं यत् संज्ञपयन्ति प्राणापानौ खलु वा एतौ पशूनां यत् पृषदाज्यं यत् पृषदाज्येनानूयाजान् यजति प्राणापानाव् एव पशुषु दधाति ॥ 


6.4 प्रपाठक: 4 6.4.1 अनुवाक 1 गुदयागकथनम् VERSE: 1

   यज्ञेन वै प्रजापतिः प्रजा असृजत 
   ता उपयड्भिर् एवासृजत 
   यद् उपयज उपयजति प्रजा एव तद् यजमानः सृजते 
   जघनार्धाद् अव द्यति 
   जघनार्धाद् धि प्रजाः प्रजायन्ते 
   स्थविमतो ऽव द्यति 
   स्थविमतो हि प्रजाः प्रजायन्ते । 
   असम्भिन्दन्न् अव द्यति प्राणानाम् असम्भेदाय 
   न पर्यावर्तयति 
   यत् पर्यावर्तयेद् उदावर्तः प्रजा ग्राहुकः स्यात् 
   समुद्रं गच्छ स्वाहेत्य् आह 
   रेतः  

VERSE: 2

   एव तद् दधाति । 
   अन्तरिक्षं गच्छ स्वाहेत्य् आह । 
   अन्तरिक्षेणैवास्मै प्रजाः प्र जनयति । 
   अन्तरिक्षम्̇ ह्य् अनु प्रजाः प्रजायन्ते 
   देवम्̇ सवितारं गच्छ स्वाहेत्य् आह 
   सवितृप्रसूत एवास्मै प्रजाः प्र जनयति । 
   अहोरात्रे गच्छ स्वाहेत्य् आह । 
   अहोरात्राभ्याम् एवास्मै प्रजाः प्र जनयति । 
   अहोरात्रे ह्य् अनु प्रजाः प्रजायन्ते 
   मित्रावरुणौ गच्छ स्वाहा  

VERSE: 3

   इत्य् आह 
   प्रजास्व् एव प्रजातासु प्राणापानौ दधाति 
   सोमं गच्छ स्वाहेत्य् आह 
   सौम्या हि देवतया प्रजाः । 
   यज्ञं गच्छ स्वाहेत्य् आह 
   प्रजा एव यज्ञियाः करोति 
   छन्दाम्̇सि गच्छ स्वाहेत्य् आह 
   पशवो वै छन्दाम्̇सि 
   पशून् एवाव रुन्द्धे 
   द्यावापृथिवी गच्छ स्वाहेत्य् आह 
  प्रजा एव प्रजाता द्यावापृथिवीभ्याम् उभयतः परि गृह्णाति 
   नभः  

VERSE: 4

   दिव्यं गच्छ स्वाहेत्य् आह 
   प्रजाभ्य एव प्रजाताभ्यो वृष्टिं नि यच्छति । 
   अग्निं वैश्वानरं गच्छ स्वाहेत्य् आह 
   प्रजा एव प्रजाता अस्याम् प्रति ष्ठापयति 
   प्राणानां वा एषो ऽव द्यति यो ऽवद्यति गुदस्य 
   मनो मे हार्दि यच्छेत्य् आह 
   प्राणान् एव यथास्थानम् उप ह्वयते 
   पशोर् वा आलब्धस्य हृदयम्̇ शुग् ऋच्छति 
   सा हृदयशूलम्  

VERSE: 5

   अभि सम् एति 
   यत् पृथिव्याम्̇ हृदयशूलम् उद्वासयेत् पृथिवीम्̇ शुचार्पयेत् । 
   यद् अप्स्व् अपः शुचार्पयेत् । 
   शुष्कस्य चार्द्रस्य च संधाव् उद् वासयत्य् उभयस्य शान्त्यै 
   यं द्विष्यात् तं ध्यायेत् । 
   शुचैवैनम् अर्पयति ॥ 

6.4.2 अनुवाक 2 वसतीवर्यभिधानम् VERSE: 1

   देवा वै यज्ञम् आग्नीध्रे व्यभजन्त 
   ततो यद् अत्यशिष्यत तद्  अब्रुवन्न्  
   वसतु नु न इदम् इति 
   तद् वसतीवरीणां वसतीवरित्वम् । 
   तस्मिन् प्रातर् न सम् अशक्नुवन् 
   तद् अप्सु प्रावेशयन् 
   ता वसतीवरीर् अभवन् 
   वसतीवरीर् गृह्णाति 
   यज्ञो वै वसतीवरीः । 
   यज्ञम् एवाऽऽरभ्य गृहीत्वोप वसति 
   यस्यागृहीता अभि निम्रोचेद् अनारब्धो ऽस्य यज्ञः स्यात्  

VERSE: 2

   यज्ञं वि छिन्द्यात् । 
   ज्योतिष्या वा गृह्णीयाद् धिरण्यं वावधाय सशुक्राणाम् एव गृह्णाति 
   यो वा ब्राह्मणो बहुयाजी तस्य कुम्भ्यानां गृह्णीयात् 
   स हि गृहीतवसतीवरीकः । 
   वसतीवरीर् गृह्णाति 
   पशवो वै वसतीवरीः 
   पशून् एवारभ्य गृहीत्वोप वसति 
   यद् अन्वीपं तिष्ठन् गृह्णीयान् निर्मार्गुका अस्मात् पशवः स्युः 
   प्रतीपं तिष्ठन् गृह्णाति 
   प्रतिरुध्यैवास्मै पशून् गृह्णाति । 
   इन्द्रः  

VERSE: 3

   वृत्रं अहन् । 
   सो ऽपो ऽभ्य् अम्रियत 
   तासां यन् मेध्यं यज्ञियम्̇ सदेवम् आसीत् तद् अत्य् अमुच्यत 
   ता वहन्तीर् अभवन् 
   वहन्तीनां गृह्णाति 
   या एव मेध्या यज्ञियाः सदेवा आपस् तासाम् एव गृह्णाति 
   नान्तमा वहन्तीर् अतीयात् । 
   यद् अन्तमा वहन्तीर् अतीयाद् यज्ञम् अति मन्येत 
   न स्थावराणां गृह्णीयात् । 
   वरुणगृहीता वै स्थावराः  
   यत् स्थावराणां गृह्णीयात्  

VERSE: 4

   वरुणेनास्य यज्ञं ग्राहयेत् । 
   यद् वै दिवा भवत्य् अपो रात्रिः प्र विशति 
   तस्मात् ताम्रा आपो दिवा ददृश्रे 
   यन् नक्तम् भवत्य् अपो ऽहः प्र विशति 
   तस्माच् चन्द्रा आपो नक्तं ददृश्रे 
   छायायै चातपतश् च संधौ गृह्णाति । 
   अहोरात्रयोर् एवास्मै वर्णं गृह्णाति 
   हविष्मतीर् इमा आप इत्य् आह 
   हविष्कृतानाम् एव गृह्णाति 
   हविष्माम्̇ अस्तु  

VERSE: 5

   सूर्य इत्य् आह 
   सशुक्राणाम् एव गृह्णाति । 
   अनुष्टुभा गृह्णाति 
   वाग् वा  अनुष्टुग्  
   वाचैवैनाः सर्वया गृह्णाति 
   चतुष्पदयर्चा गृह्णाति 
   त्रिः सादयति 
   सप्त सम् पद्यन्ते 
   सप्तपदा शक्वरी 
   पशवः शक्वरी 
  पशून् एवाव रुन्द्धे । 
  अस्मै वै लोकाय गार्हपत्य आ धीयते ऽमुष्मा आहवनीयः । 
 यद् गार्हपत्य उपसादयेद् अस्मिम्̐ लोके पशुमान्त् स्यात् । 
  यद् आहवनीये ऽमुष्मिन्  

VERSE: 6

   लोके पशुमान्त् स्यात् । 
   उभयोर् उप सादयति । 
   उभयोर् एवैनं लोकयोः पशुमन्तं करोति 
   सर्वतः परि हरति 
   रक्षसाम् अपहत्यै । 
   इन्द्राग्नियोर् भागधेयी स्थेत्य् आह 
   यथायजुर् एवैतत् । 
   आग्नीध्र उप वासयति । 
   एतद् वै यज्ञस्यापराजितं यद् आग्नीध्रम् । 
   यद् एव यज्ञस्यापराजितं तद् एवैना उप वासयति 
  यतः खलु वै यज्ञस्य विततस्य न क्रियते तद् अनु यज्ञम्̇ रक्षाम्̇स्य अव चरन्ति 
   यद् वहन्तीनां गृह्णाति क्रियमाणम् एव तद् यज्ञस्य शये 
   रक्षसाम् अनन्ववचाराय 
  न ह्य् एता ईलयन्ति । 
  आ तृतीयसवनात् परि शेरे 
   यज्ञस्य संतत्यै ॥ 

6.4.3 अनुवाक 3 सोमोपावहरणकथनम् VERSE: 1

   ब्रह्मवादिनो वदन्ति 
   स त्वा अध्वर्युः स्याद् यः सोमम् उपावहरन्त् सर्वाभ्यो देवताभ्य उपावहरेद् इति 
   हृदे त्वेत्य् आह मनुष्येभ्य एवैतेन करोति 
   मनसे त्वेत्य् आह पितृभ्य एवैतेन करोति दिवे त्वा सूर्याय त्वेत्य् आह देवेभ्य एवैतेन करोति । 
   एतावतीर् वै देवतास् ताभ्य एवैनम्̇ सर्वाभ्य उपावहरति 
   पुरा वाचः  

VERSE: 2

   प्रवदितोः प्रातरनुवाकम् उपाकरोति यावत्य् एव वाक् ताम् अव रुन्द्धे । 
   अपो ऽग्रे ऽभिव्याहरति यज्ञो वा आपो यज्ञम् एवाभि वाचं वि सृजति 
   सर्वाणि छन्दाम्̇स्य् अन्व् आह पशवो वै छन्दाम्̇सि पशून् एवाव रुन्द्धे 
   गायत्रिया तेजस्कामस्य परि दध्यात् त्रिष्टुभेन्द्रियकामस्य जगत्या पशुकामस्यानुष्टुभा प्रतिष्ठाकामस्य पङ्क्त्या यज्ञकामस्य विराजान्नकामस्य 
   शृणोत्व् अग्निः समिधा हवम्  

VERSE: 3

   म इत्य् आह सवितृप्रसूत एव देवताभ्यो निवेद्यापो ऽच्छैति । 
   अप इष्य होतर् इत्य् आहेषितम्̇ हि कर्म क्रियते 
   मैत्रावरुणस्य चमसाध्वर्यव् आ द्रवेत्य् आह मैत्रावरुणौ वा अपां नेतारौ ताभ्याम् एवैना अच्छैति 
   देवीर् आपो अपां नपाद् इत्य् आहाऽऽहुत्यैवैना निष्क्रीय गृह्णात्य् अथो हविष्कृतानाम् एवाभिघृतानां गृह्णाति । 

VERSE: 4

   कार्षिर् असीत्य् आह शमलम् एवाऽऽसाम् अप प्लावयति 
   समुद्रस्य वोऽक्षित्या उन् नय इत्य् आह तस्माद् अद्यमानाः पीयमाना आपो न क्षीयन्ते 
   योनिर् वै यज्ञस्य चात्वालं यज्ञो वसतीवरीर् होतृचमसं च मैत्रावरुणचमसं च सम्̇स्पर्श्य वसतीवरीर् व्यानयति यज्ञस्य सयोनित्वाय । 
   अथो स्वाद् एवैना योनेः प्र जनयति । 
   अध्वर्यो ऽवेर्  अपा3  
   इत्य् आह । 
   उतेमनंनमुर् उतेमाः पश्य । 
   इति वावैतद् आह 
   यद्य् अग्निष्टोमो जुहोति यद्य् उक्थ्यः परिधौ नि मार्ष्टि यद्य् अतिरात्रो यजुर् वदन् प्र पद्यते यज्ञक्रतूनां व्यावृत्त्यै ॥ 

6.4.4 अनुवाक 4 सोमोन्मानकथनम् VERSE: 1

   देवस्य त्वा सवितुः प्रसव इति ग्रावाणम् आ दत्ते 
   प्रसूत्यै । 
   अश्विनोर् बाहुभ्याम् इत्य् आह । 
   अश्विनौ हि देवानाम् अध्वर्यू आस्ताम् 
   पूष्णो हस्ताभ्याम् इत्य् आह यत्यै 
   पशवो वै सोमो व्यान उपाम्̇शुसवनः । 
   यद् उपाम्̇शुसवनम् अभि मिमीते व्यानम् एव पशुषु दधाति । 
   इन्द्राय त्वेन्द्राय त्वेति मिमीते । 
   इन्द्राय हि सोम आह्रियते 
   पञ्च कृत्वो यजुषा मिमीते । 

VERSE: 2

   पञ्चाक्षरा पङ्क्तिः 
   पाङ्क्तो यज्ञः । 
   यज्ञम् एवाव रुन्द्धे 
   पञ्च कृत्वस् तूष्णीम् । 
   दश सम् पद्यन्ते 
   दशाक्षरा  विराड्  
   अन्नं  विराड्  
   विराजैवान्नाद्यम् अव रुन्द्धे 
   श्वात्रा स्थ वृत्रतुर इत्य् आह । 
   एष वा अपाम्̇ सोमपीथः । 
   य एवं वेद नाप्स्व् आर्तिम् आर्च्छति 
   यत् ते सोम दिवि ज्योतिर् इत्य् आह । 
   एभ्य एवैनम्  

VERSE: 3

   लोकेभ्यः सम् भरति 
   सोमो वै राजा दिशो ऽभ्यध्यायत् 
   स दिशो ऽनु प्राविशत् 
   प्राग् अपाग् उदग् अधराग् इत्य् आह 
   दिग्भ्य एवैनम्̇ सम् भरत्य् अथो दिश एवास्मा अव रुन्द्धे । 
   अम्ब नि ष्वरेत्य् आह 
   कामुका एनम्̇ स्त्रियो भवन्ति य एवं वेद 
   यत् ते सोमादाभ्यं नाम जागृवीति  

VERSE: 4

   आह । 
   एष वै सोमस्य सोमपीथः । 
   य एवं वेद न सौम्याम् आर्तिम् आर्च्छति 
   घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्ति । 
   अम्̇शून् अप गृह्णाति 
   त्रायत एवैनम् 
   प्राणा वा अम्̇शवः पशवः सोमः । 
   अम्̇शून् पुनर् अपि सृजति 
   प्राणान् एव पशुषु दधाति 
   द्वौद्वाव् अपि सृजति 
  तस्माद् द्वौद्वौ प्राणाः ॥ 

6.4.5 अनुवाक 5 उपांशुग्रहकथनम् VERSE: 1

   प्राणो वा एष यद् उपाम्̇शुः । 
   यद् उपाम्̇श्वग्रा ग्रहा गृह्यन्ते प्राणम् एवानु प्र यन्ति । 
   अरुणो ह स्माहौपवेशिः 
   प्रातःसवन एवाहं यज्ञम्̇ सम्̇ स्थापयामि तेन ततः सम्̇स्थितेन चरामीति । 
   अष्टौ कृत्वो ऽग्रे ऽभि षुणोति । 
   अष्टाक्षरा गायत्री 
   गायत्रम् प्रातःसवनम् 
   प्रातःसवनम् एव तेनाप्नोति । 
   एकादश कृत्वो द्वितीयम् 
   एकादशाक्षरा त्रिष्टुभ् । 
   त्रैष्टुभम् माध्यंदिनम्  

VERSE: 2

   सवनम् 
   माध्यंदिनम् एव सवनं तेनाप्नोति 
   द्वादश कृत्वस् तृतीयम् । 
   द्वादशाक्षरा जगती 
   जागतं तृतीयसवनम् । 
   तृतीयसवनम् एव तेनाप्नोति । 
   एताम्̇ ह वाव स यज्ञस्य सम्̇स्थितिम् उवाच । 
   अस्कन्दाय । 
   अस्कन्नम्̇ हि तद् यद् यज्ञस्य सम्̇स्थितस्य स्कन्दति । 
   अथो खल्व् आहुः । 
   गायत्री वाव प्रातःसवने नातिवाद इति । 
   अनतिवादुक एनम् भ्रातृव्यो भवति य एवं वेद 
   तस्माद् अष्टावष्टौ  

VERSE: 3

   कृत्वो ऽभिषुत्यम् 
   ब्रह्मवादिनो वदनति 
   पवित्रवन्तो ऽन्ये ग्रहा गृह्यन्ते किम्पवित्र उपाम्̇शुर् इति 
   वाक्पवित्र इति ब्रूयात् । 
   वाचस् पतये पवस्व वाजिन्न् इत्य् आह 
   वाचैवैनम् पवयति 
   वृष्णो अम्̇शुभ्याम् इत्य् आह 
   वृष्णो ह्य् एताव् अम्̇शू यौ सोमस्य 
   गभस्तिपूत इत्य् आह 
   गभस्तिना ह्य् एनम् पवयति 
   देवो देवानाम् पवित्रम् असीत्य् आह 
   देवो ह्य् एषः  

VERSE: 4

   देवानाम् पवित्रम् । 
   येषाम् भागो ऽसि तेभ्यस् त्वेत्य् आह 
   येषाम्̇ ह्य् एष भागस् तेभ्य एनं गृह्णाति 
   स्वांकृतो ऽसीत्य् आह 
   प्राणम् एव स्वम् अकृत 
   मधुमतीर् न इषस् कृधीत्य् आह 
   सर्वम् एवास्मा इदम्̇ स्वदयति 
   विश्वेभ्यस् त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्य इत्य् आह । 
   उभयेष्व् एव देवमनुष्येषु प्राणान् दधाति 
   मनस् त्वा  

VERSE: 5

   अष्ट्व् इत्य् आह 
   मन एवाश्नुते । 
   उर्व् अन्तरिक्षम् अन्व् इहीत्य् आह । 
   अन्तरिक्षदेवत्यो हि प्राणः 
   स्वाहा त्वा सुभवः सूर्यायेत्य् आह 
   प्राणा वै स्वभवसो देवास् 
   तेष्व् एव परोऽक्षं जुहोति 
   देवेभ्यस् त्वा मरीचिपेभ्य इत्य् आह । 
   आदित्यस्य वै रश्मयो देवा मरीचिपास् 
   तेषां तद् भागधेयम् । 
   तान् एव तेन प्रीणाति 
   यदि कामयेत 
   वर्षुकः पर्जन्यः  

VERSE: 6

   स्याद् इति नीचा हस्तेन नि मृज्यात् । 
   वृष्टिम् एव नि यच्छति 
   यदि कामयेत । 
   अवर्षुकः स्याद् इत्य् उत्तानेन नि मृज्यात् । 
   वृष्टिम् एवोद् यच्छति 
   यद्य् अभिचरेद् अमुं जह्य् अथ त्वा होष्यामीति ब्रूयात् । 
   आहुतिम् एवैनम् प्रेप्सन् हन्ति 
   यदि दूरे स्याद् आ तमितोस् तिष्ठेत् 
   प्राणम् एवास्यानुगत्य हन्ति 
   यद्य् अभिचरेद् अमुष्य  

VERSE: 7

   त्वा प्राणे  सादयामीति सादयेत् । 
   असन्नो वै प्राणः 
   प्राणम् एवास्य सादयति 
   षड्भिर् अम्̇शुभिः पवयति 
   षड् वा ऋतवः । 
   ऋतुभिर् एवैनम् पवयति 
   त्रिः पवयति 
   त्रय इमे लोकाः । 
   एभिर् एवैनं लोकैः पवयति 
   ब्रह्मवादिनो वदन्ति 
   कस्माद् सत्यात् त्रयः पशूनाम्̇ हस्तादाना इति 
   यत् त्रिर् उपाम्̇शुम्̇ हस्तेन विगृह्णाति 
   तस्माद् त्रयः पशूनाम्̇ हस्तादानाः पुरुषो हस्ती मर्कटः ॥ 

6.4.6 अनुवाक 6 अन्तर्यागग्रहकथनम् VERSE: 1

   देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत 
   ते देवा उपाम्̇शौ यज्ञम्̇ सम्̇स्थाप्यम् अपश्यन् 
   तम् उपाम्̇शौ सम् अस्थापयन् 
   ते ऽसुरा वज्रम् उद्यत्य देवान् अभ्य् आयन्त 
   ते देवा बिभ्यत इन्द्रम् उपाधावन् 
   तान् इन्द्रो ऽन्तर्यामेणान्तर् अधत्त 
   तद् अन्तर्यामस्यान्तर्यामत्वम् । 
   यद् अन्तर्यामो गृह्यते भ्रातृव्यान् एव तद् यजमानो ऽन्तर् धत्ते । 
   अन्तस् ते 

VERSE: 2

   दधामि द्यावापृथिवी अन्तर् उर्व् अन्तरिक्षम् इत्य् आह । 
   एभिर् एव लोकैर् यजमानो भ्रातृव्यान् अन्तर् धत्ते 
   ते देवा अमन्यन्त । 
   इन्द्रो वा इदम् अभूद् यद् वयम्̇ स्म इति 
   ते ऽब्रुवन् 
   मघवन्न् अनु न आ भजेति 
   सजोषा देवैर् अवरैः परैश् चेत्य् अब्रवीत् । 
   ये चैव देवाः परे ये चावरे तान् उभयान्  

VERSE: 3

   अन्वाभजत् 
   सजोषा देवैर् अवरैः परैश् चेत्य् आह 
   ये चैव देवाः परे य चावरे तान् उभयान् अन्वाभजति । 
   अन्तर्यामे मघवन् मादयस्वेत्य् आह 
   यज्ञाद् एव यजमानं नान्तर् एति । 
   उपयामगृहीतो ऽसीत्य् आह । 
   अपानस्य धृत्यै 
   यद् उभाव् अपवित्रौ गृह्येयाताम् प्राणम् अपानो ऽनु न्य् ऋच्छेत् 
   प्रमायुकः स्यात् 
   पवित्रवान् अन्तर्यामो गृह्यते ।

VERSE: 4

   प्राणापानयोर् विधृत्यै 
   प्राणापानौ वा एतौ यद् उपाम्̇श्वन्तर्यामौ व्यान उपाम्̇शुसवनः । 
   यं कामयेत 
   प्रमायुकः स्याद् इत्य् असम्̇स्पृष्टौ तस्य सादयेत् । 
   व्यानेनैवास्य प्राणापानौ वि च्छिनत्ति 
   ताजक् प्रमीयते 
   यं कामयेत 
   सर्वम् आयुर् इयाद् इति सम्̇स्पृष्टौ तस्य सादयेत् । 
   व्यानेनैवास्य प्राणापानौ सं तनोति 
   सर्वम् आयुर् एति ॥ 

6.4.7 अनुवाक 7 ऐन्द्रवायवग्रहकथनम् VERSE: 1

   वाग् वा एषा यद् ऐन्द्रवायवः । 
   यद् ऐन्द्रवायवाग्रा ग्रहा गृह्यन्ते वाचम् एवानु प्र यन्ति 
   वायुं देवा अब्रुवन् । 
   सोमम्̇ राजानम्̇ हनामेति 
   सो ऽब्रवीत् । 
   वरं वृणै मदग्रा एव वो ग्रहा गृह्यान्ता इति 
   तस्माद् ऐन्द्रवायवाग्रा ग्रहा गृह्यन्ते 
   तम् अघ्नन् । 
   सो ऽपूयत् 
   तं देवा नोपाधृष्णुवन् 
   ते वायुम् अब्रुवन् । 
   इमं नः स्वदय  

VERSE: 2

   इति 
   सो ऽब्रवीत् । 
   वरं वृणै मद्देवत्यान्य् एव वः पात्राण्य् उच्यान्ता इति 
   तस्मान् नानादेवत्यानि सन्ति वायव्यान्य् उच्यन्ते 
   तम् एभ्यो वायुर् एवास्वदयत् 
   तस्माद् यत् पूयति तत् प्रवाते वि षजन्ति 
   वायुर् हि तस्य पवयिता स्वदयिता 
   तस्य विग्रहणं नाविन्दन् । 
   साऽदितिर् अब्रवीत् । 
   वरं वृणा अथ मया वि गृह्णीध्वम् मद्देवत्या एव वः सोमाः  

VERSE: 3

   सन्ना असन्न् इति । 
   उपयामगृहीतो ऽसीत्य् आहादितिदेवत्यास् तेन 
   यानि हि दारुमयाणि पात्राण्य् अस्यै तानि योनेः सम्भूतानि 
   यानि मृन्मयानि साक्षात् तान्य् अस्यै 
   तस्माद् एवम् आह 
   वाग् वै पराच्य् अव्याकृतावदत् 
   ते देवा इन्द्रम् अब्रुवन् । 
   इमां नो वाचं व्याकुर्व् इति 
   सो ऽब्रवीत् । 
   वरं वृणै मह्यं चैवैष वायवे च सह गृह्याता इति 
   तस्माद् ऐन्द्रवायवः सह गृह्यते 
   ताम् इन्द्रो मध्यतो ऽवक्रम्य व्याकरोत् 
   तस्माद् इयं व्याकृता वाग् उद्यते 
  तस्मात् सकृद् इन्द्राय मध्यतो गृह्यते द्विर् वायवे 
  द्वौ हि स वराव् अवृणीत  

6.4.8 अनुवाक 8 मैत्रावरुणग्रहकथनम् VERSE: 1

   मित्रं देवा अब्रुवन् । 
   सोमम्̇ राजानम्̇ हनामेति 
   सो ऽब्रवीत् । 
   नाहम्̇ सर्वस्य वा अहम् मित्रम् अस्मीति 
   तम् अब्रुवन् 
   हनामैवेति 
   सो ऽब्रवीत् । 
   वरं वृणै पयसैव मे सोमम्̇ श्रीणन्न् इति 
   तस्मान् मैत्रावरुणम् पयसा श्रीणन्ति 
   तस्मात् पशवो ऽपाक्रामन् 
   मित्रः सन् क्रूरम् अकर् इति 
   क्रूरम् इव खलु वा एषः  

VERSE: 2

   करोति यः सोमेन यजते 
   तस्मात् पशवो ऽप क्रामन्ति 
   यन् मैत्रावरुणम् पयसा श्रीणाति पशुभिर् एव तन् मित्रम्̇ समर्धयति पशुभिर् यजमानम् 
   पुरा खलु वावैवम् मित्रो ऽवेत् । 
   अप मत् क्रूरं चक्रुषः पशवः क्रमिष्यन्तीति 
   तस्माद् एवम् अवृणीत 
   वरुणं देवा अब्रुवन् 
   त्वयाम्̇शभुवा सोमम्̇ राजानम्̇ हनामेति 
   सो ऽब्रवीत् । 
   वरं वृणै मह्यं च  

VERSE: 3

   एवैष मित्राय च सह गृह्याता इति 
   तस्मान् मैत्रावरुणः सह गृह्यते 
   तस्माद् राज्ञा राजानम् अम्̇शभुवा घ्नन्ति वैश्येन वैश्यम्̇ शूद्रेण शूद्रम् । 
   न वा इदं दिवा न नक्तम् आसीद् अव्यावृत्तम् । 
   ते देवा मित्रावरुणाव् अब्रुवन् । 
   इदं नो वि वासयतम् इति 
   ताव् अब्रूताम् । 
   वरं वृणावहा एक एवाऽऽवत् पूर्वो ग्रहो गृह्याता इति 
   तस्माद् ऐन्द्रवायवः पूर्वो मैत्रावरुणाद् गृह्यते 
   प्राणापानौ ह्य् एतौ यद् उपाम्̇श्वन्तर्यामौ 
   मित्रो ऽहर् अजनयद् वरुणो रात्रिम् । 
   ततो वा इदं व्यौच्छत् । 
   यन् मैत्रावरुणो गृह्यते व्युष्ट्यै ॥ 

6.4.9 अनुवाक 9 आश्विनग्रहकथनम् VERSE: 1

   यज्ञस्य शिरो ऽछिद्यत 
   ते देवा अश्विनाव् अब्रुवन् 
   भिषजौ वै स्थ इदं यज्ञस्य शिरः प्रति धत्तम् इति 
   ताव् अब्रूताम् । 
   वरं वृणावहै ग्रह एव नाव् अत्रापि गृह्यताम् इति 
   ताभ्याम् एतम् आश्विनम् अगृह्णन् 
   ततो वै तौ यज्ञस्य शिरः प्रत्यधत्ताम् । 
   यद् आश्विनो गृह्यते यज्ञस्य निष्कृत्यै 
   तौ देवा अब्रुवन् । 
   अपूतौ वा इमौ मनुष्यचरु  

VERSE: 2

   भिषजाव् इति 
   तस्माद् ब्राह्मणेन भेषजं न कार्यम् अपूतो ह्य् एषो ऽमेध्यो यो  भिषक् 
   तौ बहिष्पवमानेन पवयित्वा ताभ्याम् एतम् आश्विनम् अगृह्णन् 
   तस्माद् बहिष्पवमाने स्तुत आश्विनो गृह्यते 
   तस्माद् एवं विदुषा बहिष्पवमान उपसद्यः पवित्रं वै बहिष्पवमान आत्मानम् एव पवयते 
   तयोस् त्रेधा भैषज्यं वि न्य् अदधुः । 
   अग्नौ तृतीयम् अप्सु तृतीयम् ब्राह्मणे तृतीयम् । 
   तस्माद् उदपात्रम्  

VERSE: 3

   उपनिधाय ब्राह्मणं दक्षिणतो निषाद्य भेषजं कुर्यात् । 
   यावद् एव भेषजं तेन करोति समर्धुकम् अस्य कृतम् भवति 
   ब्रह्मवादिनो वदन्ति 
   कस्मात् सत्याद् एकपात्रा द्विदेवत्या गृह्यन्ते द्विपात्रा हूयन्त इति 
   यद् एकपात्रा गृह्यन्ते तस्माद् एको ऽन्तरतः प्राणो द्विपात्त्रा हूयन्ते तस्माद् द्वौद्वौ बहिष्टात् प्राणाः 
   प्राणा वा एते यद् द्विदेवत्याः पशव इडा यद् इडाम् पूर्वां द्विदेवत्येभ्य उपह्वयेत । 

VERSE: 4

   पशुभिः प्राणान् अन्तर् दधीत प्रमायुकः स्यात् । 
   द्विदेवत्यान् भक्षयित्वेडाम् उप ह्वयते 
   प्राणान् एवात्मन् धित्वा पशून् उप ह्वयते 
   वाग् वा ऐन्द्र वायवश् चक्षुर् मैत्रावरुणः श्रोत्रम् आश्विनः 
   पुरस्ताद् ऐन्द्रवायवम् भक्षयति तस्मात् पुरस्ताद् वाचा वदति 
   पुरस्तान् मैत्रावरुणं तस्माद् पुरस्ताच् चक्षुषा पश्यति सर्वतः परिहारम् आश्विनं तस्मात् सर्वतः श्रोत्रेण शृणोति 
   प्राणा वा एते यद् द्विदेवत्याः  

VERSE: 5

   अरिक्तानि पात्राणि सादयति 
   तस्माद् अरिक्ता अन्तरतः प्राणा यतः खलु वै यज्ञस्य विततस्य न क्रियते तद् अनु यज्ञम्̇ रक्षाम्̇स्य् अव चरन्ति 
   यद् अरिक्तानि पात्राणि सादयति क्रियमाणम् एव तद् यज्ञस्य शये रक्षसाम् अनन्ववचाराय 
   दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्याम्̇ सादयति वाच्य् एव वाचं दधाति । 
   आ तृतीयसवनात् परि शेरे यज्ञस्य संतत्यै॥ 

6.4.10 अनुवाक 10 शुक्रामन्थिग्रहकथनम् VERSE: 1

   बृहस्पतिर् देवानाम् पुरोहित आसीच् छण्डामर्काव् असुराणाम् 
   ब्रह्मण्वन्तो देवा आसन् ब्रह्मण्वन्तो ऽसुरास् 
   ते ऽन्योऽन्यं नाशक्नुवन्न् अभिभवितुम् । 
   ते देवाः शण्डामर्काव् उपामन्त्रयन्त 
   ताव् अब्रूताम् । 
   वरं वृणावहै ग्रहाव् एव नाव् अत्रापि गृह्येताम् इति 
   ताभ्याम् एतौ शुक्रामन्थिनाव् अगृह्णन् 
   ततो देवा अभवन् परासुराः । 
   यस्यैवं विदुषः शुक्रामन्थिनौ गृह्येते भवत्य् आत्मना परा  

VERSE: 2

   अस्य भ्रातृव्यो भवति 
   तौ देवा अपनुद्यात्मन इन्द्रायाजुहवुः । 
   अपनुत्तौ शण्डामर्कौ सहामुनेति ब्रूयाद् यं द्विष्यात् । 
   यम् एव द्वेष्टि तेनैनौ सहाप नुदते 
   स प्रथमः संकृतिर् विश्वकर्मेत्य् एवैनाव् आत्मन इन्द्रायाजुहवुः । 
   इन्द्रो ह्य् एतानि रूपाणि करिक्रद् अचरत् । 
   असौ वा आदित्यः शुक्रश् चन्द्रमा मन्थी । 
   अपिगृह्य प्राञ्चौ निः  

VERSE: 3

   क्रामतस् 
   तस्मात् प्राञ्चौ यन्तौ न पश्यन्ति 
   प्रत्यञ्चाव् आवृत्य जुहुतस् 
   तस्मात् प्रत्यञ्चौ यन्तौ पश्यन्ति 
   चक्षुषी वा एते यज्ञस्य यच् छुक्रामन्थिनौ नासिकोत्तरवेदिः । 
   अभितः परिक्रम्य जुहुतस् 
   तस्माद् अभितो नासिकां चक्षुषी 
   तस्मान् नासिकया चक्षुषी विधृते 
   सर्वतः परि क्रामतो रक्षसाम् अपहत्यै 
   देवा वै याः प्राचीर् आहुतीर् अजुहवुर् ये पुरस्ताद् असुरा आसन् ताम्̇स् ताभिः प्र  

VERSE: 4

   अनुदन्त 
   याः प्रतीचीर् ये पश्चाद् असुरा आसन् ताम्̇स् ताभिर् अपानुदन्त 
   प्राचीर् अन्या आहुतयो हूयन्ते प्रत्यञ्चौ शुक्रामन्थिनौ 
   पश्चाच् चैव पुरस्ताच् च यजमानो भ्रातृव्यान् प्र णुदते 
   तस्मात् पराचीः प्रजाः प्र वीयन्ते प्रतीचीर् जायन्ते 
   शुक्रामन्थिनौ वा अनु प्रजाः प्र जायन्ते ऽत्त्रीश् चाऽऽद्याश् च 
   सुवीराः प्रजाः प्रजनयन् परीहि शुक्रः शुक्रशोचिषा  

VERSE: 5

   सुप्रजाः प्रजाः प्रजनयन् परीहि मन्थी मन्थिशोचिषेत्य् आह । 
   एता वै सुवीरा या अत्त्रीः । 
   एताः सुप्रजा या आद्याः । 
   य एवं वेदात्त्र्य् अस्य प्रजा जायते नाद्या 
   प्रजापतेर् अक्ष्य् अश्वयत् 
   तत् परापतत् 
   तद् विकङ्कतम् प्राविशत् 
   तद् विकङ्कते नारमत 
   तद् यवम् प्राविशत् 
   तद् यवे ऽरमत 
  तद् यवस्य  

VERSE: 6

   यवत्वम् । 
   यद् वैकङ्कतम् मन्थिपात्रम् भवति सक्तुभिः श्रीणाति प्रजापतेर् एव तच् चक्षुः सम् भरति 
   ब्रह्मवादिनो वदन्ति 
   कस्मात् सत्यान् मन्थिपात्रम्̇ सदो नाश्नुत इति । 
   आर्तपात्रम्̇ हीति ब्रूयात् । 
   यद् अश्नुवीतान्धो ऽध्वर्युः स्याद् आर्तिम् आर्छेत् 
   तस्मान् नाश्नुते ॥ 

6.4.11 अनुवाक 11 आग्रयणग्रहकथनम् VERSE: 1

   देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत 
   ते देवा आग्रयणाग्रान् ग्रहान् अपश्यन् 
   तान् अगृह्णत 
   ततो वै ते ऽग्रम् पर्य् आयन् 
   यस्यैवं विदुष आग्रयणाग्रा ग्रहा गृह्यन्ते ऽग्रम् एव समानानाम् पर्य् एति 
   रुग्णवत्यर्चा भ्रातृव्यवतो गृह्णीयात् । 
   भ्रातृव्यस्यैव रुक्त्वाग्रम्̇ समानानाम् पर्य् एति 
   ये देवा दिव्य् एकादश स्थेत्य् आह  

VERSE: 2

   एतावतीर् वै देवतास् ताभ्य एवैनम्̇ सर्वाभ्यो गृह्णाति । 
   एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्य इति आह 
   वैश्वदेवो ह्य् एष देवतया 
   वाग् वै देवेभ्यो ऽपाक्रामद् यज्ञायातिष्ठमाना ते देवा वाच्य् अपक्रान्तायां तूष्णीं ग्रहान् अगृह्णत साऽमन्यत वाग् अन्तर् यन्ति वै मेति साऽऽग्रयणम् प्रत्य् आऽगच्छत् 
   तद् आग्रयणस्याऽऽग्रयणत्वम्  

VERSE: 3

   तस्माद् आग्रयणे वाग् वि सृज्यते 
   यत् तूष्णीम् पूर्वे ग्रहा गृह्यन्ते यथा त्सारीयति  
    म आख इयति नाप रात्स्यामीत्य् उपावसृजत्य् एवम् एव तद् अध्वर्युर् आग्रयणं गृहीत्वा यज्ञम् आरभ्य वाचं वि सृजते 
   त्रिर् हिं करोत्य् उद्गातॄन् एव तद् वृणीते 
   प्रजापतिर् वा एष यद् आग्रयणो यद् आग्रयणं गृहीत्वा हिंकरोति प्रजापतिर् एव  

VERSE: 4

   तत् प्रजा अभि जिघ्रति 
   तस्माद् वत्सं जातं गौर् अभि जिघ्रति । 
   आत्मा वा एष यज्ञस्य यद् आग्रयणः सवनेसवने ऽभि गृह्णात्य् आत्मन्न् एव यज्ञम्̇ सं तनोति । 
   उपरिष्टाद् आ नयति रेत एव तद् दधाति । 
   अधस्ताद् उप गृह्णाति प्र जनयत्य् एव तत् । 
   ब्रह्मवादिनो वदन्ति 
   कस्मात् सत्याद् गायत्री कनिष्ठा छन्दसाम्̇ सती सर्वाणि सवनानि वहतीति । 
   एष वै गायत्रियै वत्सो यद् आग्रयणस् तम् एव तद् अभिनिवर्तम्̇ सर्वाणि सवनानि वहति 
   तस्माद् वत्सम् अपाकृतं गौर् अभि नि वर्तते ॥ 


6.5 प्रपाठक: 5 6.5.1 अनुवाक 1 उक्थ्यग्रहकथनम् VERSE: 1

   इन्द्रो वृत्राय वज्रम् उद् अयच्छत् 
   स वृत्रो वज्राद् उद्यताद् अबिभेत् 
   सो ऽब्रवीत् । 
   मा मे प्र हार् अस्ति वा इदम् मयि वीर्यं तत् ते प्र दास्यामीति 
   तस्मा उक्थ्यम् प्रायच्छत् 
   तस्मै द्वितीयम् उद् अयच्छत् 
   सो ऽब्रवीत् । 
   मा मे प्र हार् अस्ति वा इदं मयि वीर्यं तत् ते प्र दास्यामीति । 

VERSE: 2

   तस्मा उक्थ्यम् एव प्रायच्छत् 
   तस्मै तृतीयम् उद् अयच्छत् 
   तं विष्णुर् अन्व् अतिष्ठत 
   जहीति 
   सो ऽब्रवीत् । 
   मा मे प्र हार् अस्ति वा इदम् मयि वीर्यं तत् ते प्र दास्यामीति 
   तस्मा उक्थ्यम् एव प्रायच्छत् 
   तं निर्मायम् भूतम् अहन् 
   यज्ञो हि तस्य मायासीत् । 
   यद् उक्थ्यो गृह्यत इन्द्रियम् एव  

VERSE: 3

   तद् वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते । 
   इन्द्राय त्वा बृहद्वते वयस्वत इत्य् आह । 
   इन्द्राय हि स तम् प्रायच्छत् 
   तस्मै त्वा विष्णवे त्वेत्य् आह 
   यद् एव विष्णुर् अन्वतिष्ठत 
   जहीति तस्माद् विष्णुम् अन्वाभजति 
   त्रिर् निर् गृह्णाति 
   त्रिर् हि स तं तस्मै प्रायच्छत् । 
   एष ते योनिः पुनर्हविर् असीत्य् आह 
   पुनःपुनः  

VERSE: 4

   ह्य् अस्मान् निर्गृह्णाति 
   चक्षुर् वा एतद् यज्ञस्य यद् उक्थ्यस् 
   तस्माद् उक्थ्यम्̇ हुतम्̇ सोमा अन्वायन्ति 
   तस्माद् आत्मा चक्षुर् अन्व् एति 
   तस्माद् एकं यन्तम् बहवो ऽनु यन्ति 
   तस्माद् एको बहूनाम् भद्रो भवति 
   तस्माद् एको बह्वीर् जाया विन्दते 
   यदि कामयेताध्वर्युः । 
   आत्मानं यज्ञयशसेनार्पयेयम् इत्य् अन्तराहवनीयं च हविर्धानं च तिष्ठन्न् अव नयेत् । 

VERSE: 5

   आत्मानम् एव यज्ञयशसेनार्पयति 
   यदि कामयेत 
   यजमानं यज्ञयशसेनार्पयेयम् इत्य् अन्तरा सदोहविर्धाने तिष्ठन्न् अव नयेत् । 
   यजमानम् एव यज्ञयशसेनार्पयति 
   यदि कामयेत 
   सदस्यान् यज्ञयशसेनार्पयेयम् इति सद आलभ्याव नयेत् 
   सदस्यान् एव यज्ञयशसेनार्पयति ॥ 

6.5.2 अनुवाक 2 ध्रुवग्रहकथनम् VERSE: 1

   आयुर् वा एतद् यज्ञस्य यद् ध्रुवः । 
   उत्तमो ग्रहाणां गृह्यते तस्माद् आयुः प्राणानाम् उत्तमम् 
   मूर्धानं दिवो अरतिम् पृथिव्या इत्य् आह 
   मूर्धानम् एवैनम्̇ समानानां करोति 
   वैश्वानरम् ऋताय जातम् अग्निम् इत्य् आह 
   वैश्वानरम्̇ हि देवतयाऽऽयुः । 
   उभयतो वैश्वानरो गृह्यते 
   तस्माद् उभयतः प्राणाः । 
   अधस्ताच् चोपरिष्टाच् च । 
  अर्धिनो ऽन्ये ग्रहा गृह्यन्ते ऽर्धी ध्रुवस् 
   तस्माद्  

VERSE: 2

   अर्ध्य् अवाङ् प्राणो ऽन्येषाम् प्राणानाम् 
   उपोप्ते ऽन्ये ग्रहाः साद्यन्ते ऽनुपोप्ते ध्रुवस् 
   तस्माद् अस्थ्नान्याः प्रजाः प्रतितिष्ठन्ति माम्̇सेनान्याः । 
   असुरा वा उत्तरतः पृथिवीम् पर्याचिकीर्षन् 
   तां देवा ध्रुवेणादृम्̇हन् 
   तद् ध्रुवस्य ध्रुवत्वम् । 
   यद् ध्रुव उत्तरतः साद्यते धृत्यै । 
   आयुर् वा एतद् यज्ञस्य यद् ध्रुव आत्मा होता 
   यद् धोतृचमसे ध्रुवम् अवनयत्य् आत्मन्न् एव यज्ञस्य  

VERSE: 3

   आयुर् दधाति 
   पुरस्ताद् उक्थस्यावनीय इत्य् आहुः 
   पुरस्ताद् ध्य् आयुषो भुङ्क्ते 
   मध्यतो ऽवनीय इत्य् आहुः । 
   मध्यमेन ह्य् आयुषो भुङ्क्ते । 
   उत्तरार्धे ऽवनीय इत्य् आहुः । 
   उत्तमेन ह्य् आयुषो भुङ्क्ते 
   वैश्वदेव्याम् ऋचि शस्यमानायाम् अव नयति 
   वैश्वदेव्यो वै प्रजाः 
   प्रजास्व् एवायुर् दधाति ॥ 

6.5.3 अनुवाक 3 ऋतुग्रहकथनम् VERSE: 1

   यज्ञेन वै देवाः सुवर्गं लोकम् आयन् 
   ते ऽमन्यन्त 
   मनुष्या नो ऽन्वाभविष्यन्तीति 
   ते संवत्सरेण योपयित्वा सुवर्गं लोकम् आयन् 
   तम् ऋषय ऋतुग्रहैर् एवानु प्राजानन् 
   यद् ऋतुग्रहा गृह्यन्ते सुवर्गस्य लोकस्य प्रज्ञात्यै 
   द्वादश गृह्यन्ते 
   द्वादश मासाः संवत्सरः 
   संवत्सरस्य प्रज्ञात्यै 
   सह प्रथमौ गृह्येते सहोत्तमौ 
   तस्माद् द्वौद्वाव् ऋतू 
  उभयतोमुखम् ऋतुपात्रम् भवति 
  कः  

VERSE: 2

   हि तद् वेद यत ऋतूनाम् मुखम् 
   ऋतुना प्रेष्येति षट् कृत्व आह 
   षड् वा ऋतवः । 
   ऋतून् एव प्रीणाति । 
   ऋतुभिर् इति चतुः । 
   चतुष्पद एव पशून् प्रीणाति 
   द्विः पुनर् ऋतुनाह 
   द्विपद एव प्रीणाति । 
   ऋतुना प्रेष्येति षट् कृत्व आहर्तुभिर् इति चतुस् 
   तस्माच् चतुष्पादः पशव ऋतून् उप जीवन्ति 
   द्विः  

VERSE: 3

   पुनर् ऋतुनाऽऽह 
   तस्माद् द्विपादश् चतुष्पदः पशून् उप जीवन्ति । 
   ऋतुना प्रेष्येति षट् कृत्व आहर्तुभिर् इति चतुर् द्विः पुनर् ऋतुनाऽऽह । 
   आक्रमणम् एव तत् 
   सेतुं यजमानः कुरुते सुवर्गस्य लोकस्य समष्ट्यै 
   नान्योऽन्यम् अनु प्र पद्येत 
   यद् अन्यो ऽन्यम् अनुप्रपद्येतर्तुर् ऋतुम् अनु प्र पद्येतर्तवो मोहुकाः स्युः । 

VERSE: 4

   प्रसिद्धम् एवाध्वर्युर् दक्षिणेन प्र पद्यते प्रसिद्धम् प्रतिप्रस्थातोत्तरेण 
   तस्माद् आदित्यः षण् मासो दक्षिणेनैति षड् उत्तरेण । 
   उपयामगृहीतो ऽसि सम्̇सर्पो ऽस्य् अम्̇हस्पत्याय त्वेत्य् आह । 
   अस्ति त्रयोदशो मास इत्य् आहुस् 
   तम् एव तत् प्रीणाति ॥ 

6.5.4 अनुवाक 4 ? VERSE: 1

   सुवर्गाय वा एते लोकाय गृह्यन्ते यद् ऋतुग्रहाः । 
   ज्योतिर् इन्द्राग्नी 
   यद् ऐन्द्राग्नम् ऋतुपात्रेण गृह्णाति ज्योतिर् एवास्मा उपरिष्टाद् दधाति 
   सुवर्गस्य लोकस्यानुख्यात्यै । 
   ओजोभृतौ वा एतौ देवानां यद् इन्द्राग्नी 
   यद् ऐन्द्राग्नो गृह्यत ओज एवाव रुन्द्धे 
   वैश्वदेवम्̇ शुक्रपात्रेण गृह्णाति 
   वैश्वदेव्यो वै प्रजाः । 
   असाव् आदित्यः शुक्रः । 
   यद् वैश्वदेवम्̇ शुक्रपात्रेण गृह्णाति तस्माद् असाव् आदित्यः  

VERSE: 2

   सर्वाः प्रजाः प्रत्यङ्ङ् उद् एति 
   तस्मात् सर्व एव मन्यते 
   माम् प्रत्य् उद् अगाद् इति 
   वैश्वदेवम्̇ शुक्रपात्रेण गृह्णाति 
   वैश्वदेव्यो वै प्रजाः । 
   तेजः शुक्रः । 
   यद् वैश्वदेवम्̇ शुक्रपात्रेण गृह्णाति प्रजास्व् एव तेजो दधाति ॥ 

6.5.5 अनुवाक 5 मरुत्वतीयमाहेन्द्रग्रहकथनम् VERSE: 1

   इन्द्रो मरुद्भिः सांविद्येन माध्यंदिने सवने वृत्रम् अहन् 
   यन् माध्यंदिने सवने मरुत्वतीया गृह्यन्ते वार्त्रघ्ना एव ते यजमानस्य गृह्यन्ते 
   तस्य वृत्रं जघ्नुष ऋतवो ऽमुह्यन्त् स ऋतुपात्रेण मरुत्वतीयान् अगृह्णात् 
   ततो वै स ऋतून् प्राजानात् । 
   यद् ऋतुपात्रेण मरुत्वतीया गृह्यन्त ऋतूनाम् प्रज्ञात्यै 
   वज्रं वा एतं यजमानो भ्रातृव्याय प्र हरति यन् मरुत्वतीया उद् एव प्रथमेन  

VERSE: 2

   यच्छति प्र हरति द्वितीयेन स्तृणुते तृतीयेन । 
   आयुधं वा एतद् यजमानः सम्̇स् कुरुते यन् मरुत्वतीया धनुर् एव प्रथमो ज्या द्वितीय इषुस् तृतीयः 
   प्रत्य् एव प्रथमेन धत्ते वि सृजति द्वितीयेन विध्यति तृतीयेन । 
   इन्द्रो वृत्रम्̇ हत्वा पराम् परावतम् अगच्छत् । 
   अपाराधम् इति मन्यमानः 
   स हरितो ऽभवत् 
   स एतान् मरुत्वतीयान् आत्मस्परणान् अपश्यत् 
   तान् अगृह्णीत । 

VERSE: 3

   प्राणम् एव प्रथमेनास्पृणुतापानं द्वितीयेनाऽऽत्मानं तृतीयेनात्मस्परणा वा एते यजमानस्य गृह्यन्ते यन् मरुत्वतीयाः 
   प्राणम् एव प्रथमेन स्पृणुते ऽपानं द्वितीयेनाऽऽत्मानं तृतीयेन । 
   इन्द्रो वृत्रम् अहन् 
   तं देवा अब्रुवन् 
   महान् वा अयम् अभूद् यो वृत्रम् अवधीद् इति 
   तन् महेन्द्रस्य महेन्द्रत्वम् । 
   स एतम् महेन्द्रम् उद्धारम् उद् अहरत वृत्रम्̇ हत्वान्यासु देवतास्व् अधि 
   यन् महेन्द्रो गृह्यत उद्धारम् एव तं यजमान उद् धरते ऽन्यासु प्रजास्व् अधि 
   शुक्रपात्रेण गृह्णाति 
   यजमानदेवत्यो वै महेन्द्रस् तेजः शुक्रो यन् माहेन्द्रम्̇ शुक्रपात्रेण गृह्णाति यजमान एव तेजो दधाति ॥ 

6.5.6 अनुवाक 6 आदित्यग्रहकथनम् VERSE: 1

   अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनम् अपचत् 
   तस्या उच्छेषणम् अददुस् 
   तत् प्राश्नात् 
   सा रेतो ऽधत्त 
   तस्यै चत्वार आदित्या अजायन्त 
   सा द्वितीयम् अपचत् 
   साऽमन्यत । 
   उच्छेषणान् म इमे ऽज्ञत यद् अग्रे प्राशिष्यामीतो मे वसीयाम्̇सो जनिष्यन्त इति 
   साग्रे प्राश्नात् 
   सा रेतो ऽधत्त 
   तस्यै व्यृद्धम् आण्डम् अजायत 
   साऽऽदित्येभ्य एव  

VERSE: 2

   तृतीयम् अपचत् । 
   भोगाय म इदम्̇ श्रान्तम् अस्त्व् इति 
   ते ऽब्रुवन् 
   वरं वृणामहै यो ऽतो जायाता अस्माकम्̇ स एको ऽसद् यो ऽस्य प्रजायाम् ऋध्याता अस्माकम् भोगाय भवाद् इति 
   ततो विवस्वान् आदित्यो ऽजायत 
   तस्य वा इयम् प्रजा यन् मनुष्यस् 
   तास्व् एक एवर्द्धो यो यजते 
   स देवानाम् भोगाय भवति 
   देवा वै यज्ञात् 

VERSE: 3

   रुद्रम् अन्तर् आयन् । 
   स आदित्यान् अन्वाक्रमत 
   ते द्विदेवत्यान् प्रापद्यन्त 
   तान् न प्रति प्रायच्छन् 
   तस्माद् अपि वध्यम् प्रपन्नं न प्रति प्र यच्छन्ति 
   तस्माद् द्विदेवत्येभ्य आदित्यो निर् गृह्यते 
   यद् उच्छेषणाद् अजायन्त तस्माद् उच्छेषणाद् गृह्यते 
   तिसृभिर् ऋग्भिर् गृह्णाति 
   माता पिता पुत्रस् तद् एव तन् मिथुनम् 
   उल्बं गर्भो जरायु तद् एव तत्  

VERSE: 4

   मिथुनम् 
   पशवो वा एते यद् आदित्य ऊर्ग् दधि 
   दध्ना मध्यतः श्रीणात्य् ऊर्जम् एव पशूनाम् मध्यतो दधाति 
   शृतातङ्क्येन 
   मेध्यत्वाय 
   तस्माद् आमा पक्वं दुहे 
   पशवो वा एते यद् आदित्यः 
   परिश्रित्य गृह्णाति 
   प्रतिरुध्यैवास्मै पशून् गृह्णाति 
   पशवो वा एते यद् आदित्य एष रुद्रो यद् अग्निः 
   परिश्रित्य गृह्णाति रुद्राद् एव पशून् अन्तर् दधाति ॥ 

VERSE: 5

   एष वै विवस्वान् आदित्यो यद् उपाम्̇शुसवनः 
   स एतम् एव सोमपीथम् परि शय आ तृतीयसवनात् । 
   विवस्व आदित्यैष ते सोमपीथ इत्य् आह 
   विवस्वन्तम् एवादित्यम्̇ सोमपीथेन सम् अर्धयति 
   या दिव्या वृष्टिस् तया त्वा श्रीणामीति वृष्टिकामस्य श्रीणीयात् । 
   वृष्टिम् एवाव रुन्द्धे 
   यदि ताजक् प्रस्कन्देद् वर्षुकः पर्जन्यः स्यात् । 
   यदि चिरम् अवर्षुकः । 
   न सादयति । 
   असन्नाद् धि प्रजाः प्रजायन्ते 
   नानु वषट् करोति 
   यद् अनुवषट्कुर्याद् रुद्रम् प्रजा अन्ववसृजेत् । 
   न हुत्वान्व् ईक्षेत 
   यद् अन्वीक्षेत चक्षुर् अस्य प्रमायुकम्̇ स्यात् 
   तस्मान् नान्वीक्ष्यः ॥ 

6.5.7 अनुवाक 7 सावित्रवैश्वदेवग्रहकथनम् VERSE: 1

   अन्तर्यामपात्रेण सावित्रम् आग्रयणाद् गृह्णाति 
   प्रजापतिर् वा एष यद् आग्रयणः 
   प्रजानाम् प्रजननाय 
   न सादयति । 
   असन्नाद् धि प्रजाः प्रजायन्ते 
   नानु वषट् करोति 
   यद् अनुवषट्कुर्याद् रुद्रम् प्रजा अन्ववसृजेत् । 
   एष वै गायत्रो देवानां यत् सविता । 
   एष गायत्रियै लोके गृह्यते यद् आग्रयणः । 
  यद् अन्तर्यामपात्रेण सावित्रम् आग्रयणाद् गृह्णाति स्वाद् एवैनं योनेर् निर् गृह्णाति 
   विश्वे 

VERSE: 2

   देवास् तृतीयम्̇ सवनं नोद् अयच्छन् 
   ते सवितारम् प्रातःसवनभागम्̇ सन्तं तृतीयसवनम् अभि पर्यणयन् 
   ततो वै ते तृतीयम्̇ सवनम् उद् अयच्छन् 
   यत् तृतीयसवने सावित्रो गृह्यते तृतीयस्य सवनस्योद्यत्यै 
   सवितृपात्रेण वैश्वदेवं कलशाद् गृह्णाति 
   वैश्वदेव्यो वै प्रजा 
   वैश्वदेवः कलशः 
   सविता प्रसवानाम् ईशे 
   यत् सवितृपात्रेण वैश्वदेवं कलशाद् गृह्णाति सवितृप्रसूत एवास्मै प्रजाः प्र  

VERSE: 3

   जनयति 
   सोमे सोमम् अभि गृह्णाति 
   रेत एव तद् दधाति 
   सुशर्मासि सुप्रतिष्ठान इत्य् आह 
   सोमे हि सोमम् अभिगृह्णाति 
   प्रतिष्ठित्यै । 
   एतस्मिन् वा अपि ग्रहे मनुष्येभ्यो देवेभ्यः पितृभ्यः क्रियते 
   सुशर्मासि सुप्रतिष्ठान इत्य् आह 
   मनुष्येभ्य एवैतेन करोति 
   बृहद् इत्य् आह 
   देवेभ्य एवैतेन करोति 
   नम इत्य् आह 
   पितृभ्य एवैतेन करोति । 
   एतावतीर् वै देवतास् 
   ताभ्य एवैनम्̇ सर्वाभ्यो गृह्णाति । 
   एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्य इत्य् आह 
   वैश्वदेवो ह्य् एषः  

6.5.8 अनुवाक 8 पात्नीवतग्रहकथनम् VERSE: 1

   प्राणो वा एष यद् उपाम्̇शुः । 
   यद् उपाम्̇शुपात्रेण प्रथमश् चोत्तमश् च ग्रहौ गृह्येते प्राणम् एवानु प्रयन्ति प्राणम् अनूद्यन्ति 
   प्रजापतिर् वा एष यद् आग्रयणः प्राण उपाम्̇शुः पत्नीः प्रजाः प्र जनयन्ति 
   यद् उपाम्̇शुपात्रेण पात्नीवतम् आग्रयणाद् गृह्णाति प्रजानाम् प्रजननाय 
   तस्मात् प्राणम् प्रजा अनु प्र जायन्ते 
   देवा वा इतइतः पत्नीः सुवर्गम्  

VERSE: 2

   लोकम् अजिगाम्̇सन् 
   ते सुवर्गं लोकं न प्राजानन् 
   त एतम् पात्नीवतम् अपश्यन् 
   तम् अगृह्णत 
   ततो वै ते सुवर्गं लोकम् प्राजानन् 
   यत् पात्नीवतो गृह्यते सुवर्गस्य लोकस्य प्रज्ञात्यै 
   स सोमो नातिष्ठत स्त्रीभ्यो गृह्यमाणस् 
   तं घृतं वज्रं कृत्वाऽघ्नन् 
   तं निरिन्द्रियम् भूतम् अगृह्णन् 
   तस्मात् स्त्रियो निरिन्द्रिया अदायादीर् अपि पापात् पुम्̇स उपस्तितरम्  

VERSE: 3

   वदन्ति 
   यद् घृतेन पात्नीवतम्̇ श्रीणाति वज्रेणैवैनं वशे कृत्वा गृह्णाति । 
   उपयामगृहीतो ऽसीत्य् आह । 
   इयं वा उपयामस् 
   तस्माद् इमाम् प्रजा अनु प्र जायन्ते 
   बृहस्पतिसुतस्य त इत्य् आह 
   ब्रह्म वै देवानाम् बृहस्पतिः । 
   ब्रह्मणैवास्मै प्रजाः प्र जनयति । 
   इन्दो इत्य् आह 
  रेतो वा इन्दुः । 
   रेत एव तद् दधाति । 
   इन्द्रियाव इति  

VERSE: 4

   आह 
   प्रजा वा इन्द्रियम् 
   प्रजा एवास्मै प्र जनयति । 
   अग्ना3 इत्य् आह । 
   अग्निर् वै रेतोधाः 
   पत्नीव इत्य् आह 
   मिथुनत्वाय 
   सजूर् देवेन त्वष्ट्रा सोमम् पिबेत्य् आह 
   त्वष्टा वै पशूनाम् मिथुनानाम्̇ रूपकृत् । 
   रूपम् एव पशुषु दधाति 
   देवा वै त्वष्टारम् अजिघाम्̇सन् । 
   स पत्नीः प्रापद्यत 
   तं न प्रति प्रायच्छन् 
  तस्माद् अपि  

VERSE: 5

   वध्यम् प्रपन्नं न प्रति प्र यच्छन्ति 
   तस्मात् पात्नीवते त्वष्ट्रे ऽपि गृह्यते 
   न सादयति । 
   असन्नाद् धि प्रजाः प्रजायन्ते 
   नानु वषट् करोति 
   यद् अनुवषट्कुर्याद् रुद्रम् प्रजा अन्ववसृजेत् । 
   यन् नानुवषट्कुर्याद् अशान्तम् अग्नीत् सोमम् भक्षयेत् । 
   उपाम्̇श्व् अनु वषट् करोति 
   न रुद्रम् प्रजा अन्ववसृजति शान्तम् अग्नीत् सोमम् भक्षयति । 
   अग्नीन् नेष्टुर् उपस्थम् आ सीद ॥ 

VERSE: 6

   नेष्टः पत्नीम् उदानयेत्य् आह । 
   अग्नीद् एव नेष्टरि रेतो दधाति नेष्टा पत्नियाम् 
   उद्गात्रा सं ख्यापयति 
   प्रजापतिर् वा एष यद् उद्गाता 
   प्रजानाम् प्रजननाय । 
   अप उप प्र वर्तयति 
   रेत एव तत् सिञ्चति । 
   ऊरुणोप प्र वर्तयति । 
   ऊरुणा हि रेतः सिच्यते 
   नग्नंक्रियोरुम् उप प्र वर्तयति 
   यदा हि नग्न ऊरुर् भवत्य् अथ मिथुनी भवतः । 
   अथ रेतः सिच्यते । 
   अथ प्रजाः प्र जायन्ते ॥ 

6.5.9 अनुवाक 9 हारियोजनग्रहकथनम् VERSE: 1

   इन्द्रो वृत्रम् अहन् 
   तस्य शीर्षकपालम् उद् औब्जत् 
   स द्रोणकलशो ऽभवत् 
   तस्मात् सोमः सम् अस्रवत् 
   स हारियोजनो ऽभवत् 
   तं व्यचिकित्सत् । 
   जुहवानी3 मा हौषा3म् इति 
   सो ऽमन्यत 
   यद् धोष्याम्य् आमम्̇ होष्यामि यन् न होष्यामि यज्ञवेशसं करिष्यामीति 
   तम् अध्रियत होतुम् । 
   सो ऽग्निर् अब्रवीत् । 
  न मय्य् आमम्̇ होष्यसीति 
  तं धानाभिर् अश्रीणात् ॥ 

VERSE: 2

   तम्̇ शृतम् भूतम् अजुहोत् 
   यद् धानाभिर् हारियोजनम्̇ श्रीणाति शृतत्वाय 
   शृतम् एवैनम् भूतं जुहोति 
   बह्वीभिः श्रीणाति । 
   एतावतीर् एवास्यामुष्मिम्̐ लोके कामदुघा भवन्ति । 
   अथो खल्व् आहुः । 
   एता वा इन्द्रस्य पृश्नयः कामदुघा यद् धारियोजनीर् इति 
   तस्माद् बह्वीभिः श्रीणीयात् । 
   ऋक्सामे वा इन्द्रस्य हरी सोमपानौ 
   तयोः परिधय आधानम् । 
   यद् अप्रहृत्य परिधीञ् जुहुयाद् अन्तराधानाभ्याम्  

VERSE: 3

   घासम् प्र यच्छेत् 
   प्रहृत्य परिधीञ् जुहोति निराधानाभ्याम् एव घासम् प्र यच्छति । 
   उन्नेता जुहोति 
   यातयामेव ह्य् एतर्ह्य् अध्वर्युः स्वगाकृतः । 
   यद् अध्वर्युर् जुहुयाद् यथा विमुक्तम् पुनर् युनक्ति तादृग् एव तत् । 
   शीर्षन्न् अधिनिधाय जुहोति 
   शीर्षतो हि स समभवत् । 
   विक्रम्य जुहोति 
   विक्रम्य हीन्द्रो वृत्रम् अहन् । 
   समृद्ध्यै 
   पशवो वै हारियोजनीः । 
   यत् सम्भिन्द्याद् अल्पाः  

VERSE: 4

   एनम् पशवो भुञ्जन्त उप तिष्ठेरन् 
   यन् न सम्भिन्द्याद् बहव एनम् पशवो ऽभुञ्जन्त उप तिष्ठेरन् 
   मनसा सम् बाधते । 
   उभयं करोति 
   बहव एवैनम् पशवो भुञ्जन्त उप तिष्ठन्ते । 
   उन्नेतर्य् उपहवम् इच्छन्ते 
   य एव तत्र सोमपीथस् तम् एवाव रुन्धते । 
   उत्तरवेद्यां नि वपति 
   पशवो वा उत्तरवेदिः 
   पशवो हारियोजनीः 
   पशुष्व् एव पशून् प्रति ष्ठापयन्ति ॥ 

6.5.10 अनुवाक 10 आग्रयणादीनां पुनर्ग्रह कथनम् VERSE: 1

   ग्रहान् वा अनु प्रजाः पशवः प्र जायन्ते । 
   उपाम्̇श्वन्तर्यामाव् अजावयः 
   शुक्रामन्थिनौ पुरुषाः । 
   ऋतुग्रहान् एकशफाः । 
   आदित्यग्रहं गावः । 
   आदित्यग्रहो भूयिष्ठाभिर् ऋग्भिर् गृह्यते 
   तस्माद् गावः पशूनाम् भूयिष्ठाः । 
   यत् त्रिर् उपाम्̇शुम्̇ हस्तेन विगृह्णाति 
   तस्माद् द्वौ त्रीन् अजा जनयत्य् अथावयो भूयसीः 
   पिता वा एष यद् आग्रयणः पुत्रः कलशः । 
   यद् आग्रयण उपदस्येत् कलशाद् गृह्णीयात् । 
   यथा पिता  

VERSE: 2

   पुत्रं क्षित उपधावति तादृग् एव तत् । 
   यत् कलश उपदस्येद् आग्रयणाद् गृह्णीयात् । 
   यथा पुत्रः पितरं क्षित उपधावति तादृग् एव तत् । 
   आत्मा वा एष यज्ञस्य यद् आग्रयणः । 
   यद् ग्रहो वा कलशो वोपदस्येद् आग्रयणाद् गृह्णीयात् । 
   आत्मन एवाधि यज्ञं निष् करोति । 
   अविज्ञातो वा एष गृह्यते यद् आग्रयणः । 
   स्थाल्या गृह्णाति वायव्येन जुहोति तस्मात्  

VERSE: 3

   गर्भैणाविज्ञातेन ब्रह्महा । 
   अवभृथम् अव यन्ति 
   परा स्थालीर् अस्यन्त्य् उद् वायव्यानि हरन्ति 
   तस्मात् स्त्रियं जाताम् परास्यन्त्य् उत् पुमाम्̇सम्̇ हरन्ति 
   यत्पुरोरुचम् आह यथा वस्यस आहरति तादृग् एव तत् । 
   यद् ग्रहं गृह्णाति यथा वस्यस आहृत्य प्राह तादृग् एव तत् । 
   यत् सादयति यथा वस्यस उपनिधायापक्रामति तादृग् एव तत् । 
   यद् वै यज्ञस्य साम्ना यजुषा क्रियते शिथिलं तत् । 
   यद् ऋचा तद् दृढम् 
   पुरस्तादुपयामा यजुषा गृह्यन्त उपरिष्टादुपयामा ऋचा यज्ञस्य धृत्यै ॥ 

6.5.11 अनुवाक 11 सोमपात्रस्तुतिः VERSE: 1

   प्रान्यानि पात्राणि युज्यन्ते नान्यानि 
   यानि पराचीनानि प्रयुज्यन्ते ऽमुम् एव तैर् लोकम् अभि जयति 
   पराङ् इव ह्य् असौ लोकः । 
   यानि पुनः प्रयुज्यन्त इमम् एव तैर् लोकम् अभि जयति 
   पुनःपुनर् इव ह्य् अयं लोकः 
   प्रान्यानि पात्राणि युज्यन्ते नान्यानि 
   यानि पराचीनानि प्रयुज्यन्ते तान्य् अन्व् ओषधयः परा भवन्ति 
   यानि पुनः  

VERSE: 2

   प्रयुज्यन्ते तान्य् अन्व् ओषधयः पुनर् आ भवन्ति 
   प्रान्यानि पात्राणि युज्यन्ते नान्यानि 
   यानि पराचीनानि प्रयुज्यन्ते तान्य् अन्व् आरण्याः पशवो ऽरण्यम् अप यन्ति 
   यानि पुनः प्रयुज्यन्ते तान्य् अन्व् ग्राम्याः पशवो ग्रामम् उपावयन्ति 
   यो वै ग्रहाणां निदानं वेद निदानवान् भवति । 
   आज्यम् इत्य् उक्थं तद् वै ग्रहाणां निदानम् । 
   यद् उपाम्̇शु शम्̇सति तत्  

VERSE: 3

   उपाम्̇श्वन्तर्यामयोः । 
   यद् उच्चैस् तद् इतरेषां ग्रहाणाम् 
   एतद् वै ग्रहाणां निदानम् । 
   य एवं वेद निदानवान् भवति 
   यो वै ग्रहाणाम् मिथुनं वेद प्र प्रजया पशुभिर् मिथुनैर् जायते 
   स्थालीभिर् अन्ये ग्रहा गृह्यन्ते वायव्यैर् अन्ये । 
   एतद् वै ग्रहाणाम् मिथुनम् । 
   य एवं वेद प्र प्रजया पशुभिर् मिथुनैर् जायते । 
   इन्द्रस् त्वष्टुः सोमम् अभीषहाऽपिबत् 
   स विष्वङ्  

VERSE: 4

   व्य् आर्च्छत् 
   स आत्मन्न् आरमणं नाविन्दत् 
   स एतान् अनुसवनम् पुरोडाशान् अपश्यत् 
   तान् निर् अवपत् 
   तैर् वै स आत्मन्न् आरमणम् अकुरुत 
   तस्माद् अनुसवनम् पुरोडाशा निर् उप्यन्ते 
   तस्माद् अनुसवनम् पुरोडाशानाम् प्राश्नीयाद् आत्मन्न् एवारमणं कुरुते नैनम्̇ सोमो ऽति पवते 
   ब्रह्मवादिनो वदन्ति 
   नर्चा न यजुषा पङ्क्तिर् आप्यते ऽथ किं यज्ञस्य पाङ्क्तत्वम् इति 
   धानाः करम्भः परिवापः पुरोडाशः पयस्या 
   तेन पङ्क्तिर् आप्यते 
   तद् यज्ञस्य पाङ्क्तत्वम् ॥ 


6.6 प्रपाठक: 6 6.6.1 अनुवाक 1 दक्षिणाहोमकथनम् VERSE: 1

   सुवर्गाय वा एतानि लोकाय हूयन्ते यद् दाक्षिणानि 
   द्वाभ्यां गार्हपत्ये जुहोति 
   द्विपाद् यजमानः 
   प्रतिष्ठित्यै । 
   आग्नीध्रे जुहोति । 
   अन्तरिक्ष एवाऽऽक्रमते 
   सदो ऽभ्य् ऐति 
   सुवर्गम् एवैनं लोकं गमयति 
   सौरीभ्याम् ऋग्भ्यां गार्हपत्ये जुहोति । 
   अमुम् एवैनं लोकम्̇ समारोहयति 
   नयवत्यर्चाग्नीध्रे जुहोति 
   सुवर्गस्य लोकस्याभिनीत्यै 
  दिवं गच्छ सुवः पतेति हिरण्यम् 

VERSE: 2

   हुत्वोद् गृह्णाति 
   सुवर्गम् एवैनं लोकम् गमयति 
   रूपेण वो रूपम् अभ्य् ऐमीत्य् आह 
   रूपेण ह्य् आसाम्̇ रूपम् अभ्य् ऐति यद् धिरण्येन 
   तुथो वो विश्ववेदा वि भजत्व् इत्य् आह 
   तुथो ह स्म वै विश्ववेदा देवानां दक्षिणा वि भजति 
   तेनैवैना वि भजति । 
   एतत् ते अग्ने राधः  

VERSE: 3

   ऐति सोमच्युतम् इत्य् आह 
   सोमच्युतम्̇ ह्य् अस्य राध ऐति 
   तन् मित्रस्य पथा नयेत्य् आह 
   शान्त्यै । 
   ऋतस्य पथा प्रेत चन्द्रदक्षिणा इत्य् आह 
   सत्यं वा ऋतम् । 
   सत्येनैवैना ऋतेन वि भजति 
   यज्ञस्य पथा सुविता नयन्तीर् इत्य् आह 
   यज्ञस्य ह्य् एताः पथा यन्ति यद् दक्षिणाः । 
  ब्राह्मणम् अद्य राध्यासम्  

VERSE: 4

   ऋषिम् आर्षेयम् इत्य् आह । 
   एष वै ब्राह्मण ऋषिर् आर्षेयो यः शुश्रुवान् 
   तस्माद् एवम् आह 
   वि सुवः पश्य व्यन्तरिक्षम् इत्य् आह 
   सुवर्गम् एवैनं लोकं गमयति 
   यतस्व सदस्यैर् इत्य् आह 
   मित्रत्वाय । 
   अस्मद्दात्रा देवत्रा गच्छत मधुमतीः प्र दातारम् आ विशतेत्य् आह 
   वयम् इह प्रदातारः स्मो ऽस्मान् अमुत्र मधुमतीर् आ विशतेति  

VERSE: 5

   वावैतद् आह 
   हिरण्यं ददाति 
   ज्योतिर् वै हिरण्यम् । 
   ज्योतिर् एव पुरस्ताद् धत्ते 
   सुवर्गस्य लोकस्यानुख्यात्यै । 
   अग्नीधे ददाति । 
   अग्निमुखान् एवर्तून् प्रीणाति 
   ब्रह्मणे ददाति 
   प्रसूत्यै 
   होत्रे ददाति । 
   आत्मा वा एष यज्ञस्य यद् होता । 
   आत्मानम् एव यज्ञस्य दक्षिणाभिः सम् अर्धयति ॥ 

6.6.2 अनुवाक 2 समिष्टयजुर्होमकथनम् VERSE: 1

   समिष्टयजूम्̇षि जुहोति 
   यज्ञस्य समिष्ट्यै 
   यद् वै यज्ञस्य क्रूरं यद् विलिष्टं यद् अत्येति यन् नात्येति यद् अतिकरोति यन् नापि करोति तद् एव तैः प्रीणाति 
   नव जुहोति 
   नव वै पुरुषे प्राणाः 
   पुरुषेण यज्ञः सम्मितः । 
   यावान् एव यज्ञस् तम् प्रीणाति 
   षड् ऋग्मियाणि जुहोति 
   षड् वा ऋतवः । 
   ऋतून् एव प्रीणाति 
   त्रीणि यजूम्̇षि  

VERSE: 2

   त्रय इमे लोकाः । 
   इमान् एव लोकान् प्रीणाति 
   यज्ञ यज्ञं गच्छ यज्ञपतिं गछेत्य् आह 
   यज्ञपतिम् एवैनं गमयति 
   स्वाम् योनिं गच्छेत्य् आह 
   स्वाम् एवैनं योनिं गमयति । 
   एष ते यज्ञो यज्ञपते सहसूक्तवाकः सुवीर इत्य् आह 
   यजमान एव वीर्यं दधाति 
   वासिष्ठो ह सात्यहव्यो देवभागम् पप्रच्छ 
   यत् सृञ्जयान् बहुयाजिनो ऽयीयजो यज्ञे  

VERSE: 3

   यज्ञम् प्रत्य् अतिष्ठिपा3 यज्ञपता3व् इति 
   स होवाच 
   यज्ञपताव् इति 
   सत्याद् वै सृञ्जयाः परा बभूवुर् इति होवाच यज्ञे वाव यज्ञः प्रतिष्ठाप्य आसीद् यजमानस्यापराभावायेति 
   देवा गातुविदो गातुं वित्त्वा गातुम् इतेत्य् आह 
   यज्ञ एव यज्ञम् प्रति ष्ठापयति 
   यजमानस्यापराभावाय ॥ 

6.6.3 अनुवाक 3 अवभृथयजुर्होमकथनम् VERSE: 1

   अवभृथयजूम्̇षि जुहोति 
   यद् एवार्वाचीनम् एकहायनाद् एनः करोति तद् एव तैर् अव यजते । 
   अपो ऽवभृथम् अवैति । 
   अप्सु वै वरुणः 
   साक्षाद् एव वरुणम् अव यजते 
   वर्त्मना वा अन्वित्य यज्ञम्̇ रक्षाम्̇सि जिघाम्̇सन्ति 
   साम्ना प्रस्तोतान्ववैति 
   साम वै रक्षोहा 
   रक्षसाम् अपहत्यै 
   त्रिर् निधनम् उपैति 
   त्रय इमे लोकाः । 
   एभ्य एव लोकेभ्यो रक्षाम्̇सि  

VERSE: 2

   अप हन्ति 
   पुरुषःपुरुषो निधनम् उपैति 
   पुरुषःपुरुषो हि रक्षस्वी 
   रक्षसाम् अपहत्यै । 
   उरुम्̇ हि राजा वरुणश् चकारेत्य् आह 
   प्रतिष्ठित्यै 
   शतं ते राजन् भिषजः सहस्रम् इत्य् आह 
   भेषजम् एवास्मै करोति । 
   अभिष्ठितो वरुणस्य पाश इत्य् आह 
   वरुणपाशम् एवाभि तिष्ठति 
   बर्हिर् अभि जुहोति । 
  आहुतीनाम् प्रतिष्ठित्यै । 
   अथो अग्निवत्य् एव जुहोति । 
   अपबर्हिषः प्रयाजान्  

VERSE: 3

   यजति 
   प्रजा वै बर्हिः 
   प्रजा एव वरुणपाशान् मुञ्चति । 
   आज्यभागौ यजति 
   यज्ञस्यैव चक्षुषी नान्तर् एति 
   वरुणं यजति 
   वरुणपाशाद् एवैनम् मुञ्चति । 
   अग्नीवरुणौ यजति 
   साक्षाद् एवैनं वरुणपाशान् मुञ्चति । 
   अपबर्हिषाव् अनूयाजौ यजति 
   प्रजा वै बर्हिः 
   प्रजा एव वरुणपाशान् मुञ्चति 
  चतुरः प्रयाजान् यजति द्वाव् अनूयाजौ 
   षट् सम् पद्यन्ते 
   षड् वा ऋतवः  

VERSE: 4

   ऋतुष्व् एव प्रति तिष्ठति । 
   अवभृथ निचङ्कुणेत्य् आह 
   यथोदितम् एव वरुणम् अव यजते 
   समुद्रे ते हृदयम् अप्स्व् अन्तर् इत्य् आह 
   समुद्रेह्य् अन्तर् वरुणः 
   सं त्वा विशन्त्व् ओषधीर् उताप इत्य् आह । 
   अद्भिर् एवैनम् ओषधीभिः सम्यञ्चं दधाति 
   देवीर् आप एष वो गर्भ इत्य् आह 
   यथायजुर् एवैतत् 
   पशवो वै  

VERSE: 5

   सोमः । 
   यद् भिन्दूनाम् भक्षयेत् पशुमान्त् स्याद् वरुणस् त्व् एनं गृह्णीयात् । 
   यन् न भक्षयेद् अपशुः स्यान् नैनं वरुणो गृह्णीयात् । 
   उपस्पृश्यम् एव पशुमान् भवति नैनं वरुणो गृह्णाति 
   प्रतियुतो वरुणस्य पाश इत्य् आह 
   वरुणपाशाद् एव निर् मुच्यते । 
   अप्रतीक्षम् आ यन्ति वरुणस्यान्तर्हित्यै । 
   एधो ऽस्य् एधिषीमहीत्य् आह 
   समिधैवाग्निं नमस्यन्त उपायन्ति 
   तेजो ऽसि तेजो मयि धेहीत्य् आह 
  तेज एवात्मन् धत्ते ॥ 

6.6.4 अनुवाक 4 यूपैकादशिनीकथनम् VERSE: 1

   स्फ्येन वेदिम् उद् धन्ति रथाक्षेण वि मिमीते यूपम् मिनोति त्रिवृतम् एव वज्रम्̇ सम्भृत्य भ्रातृव्याय प्र हरति स्तृत्यै 
   यद् अन्तर्वेदि मिनुयाद् देवलोकम् अभि जयेद् यद् बहिर्वेदि मनुष्यलोकं वेद्यन्तस्य संधौ मिनोत्य् उभयोर् लोकयोर् अभिजित्यै । 
   उपरसम्मिताम् मिनुयात् पितृलोककामस्य रशनसम्मिताम् मनुष्यलोककामस्य चषालसम्मिताम् इन्द्रियकामस्य सर्वान्त् समान् प्रतिष्ठाकामस्य ये त्रयो मध्यमास् तान्त् समान् पशुकामस्यैतान् वै  

VERSE: 2

   अनु पशव उप तिष्ठन्ते पशुमान् एव भवति 
   व्यतिषजेद् इतरान् प्रजयैवैनम् पशुभिर् व्यतिषजति 
   यं कामयेत प्रमायुकः स्याद् इति गर्तमितं तस्य मिनुयाद् उत्तरार्ध्यं वर्षिष्ठम् अथ ह्रसीयाम्̇सम् एषा वै गर्तमिद् यस्यैवम् मिनोति ताजक् प्र मीयते 
   दक्षिणार्ध्यं वर्षिष्ठम् मिनुयात् सुवर्गकामस्याथ ह्रसीयाम्̇सम् आक्रमणम् एव तत् सेतुं यजमानः कुरुते सुवर्गस्य लोकस्य समष्ट्यै ॥ 

VERSE: 3

   यद् एकस्मिन् यूपे द्वे रशने परिव्ययति तस्माद् एको द्वे जाये विन्दते यन् नैकाम्̇ रशनां द्वयोर् यूपयोः परिव्ययति तस्मान् नैका द्वौ पती विन्दते 
   यं कामयेत स्त्र्य् अस्य जायेतेत्य् उपान्ते तस्य व्यतिषजेत् स्त्र्य् एवास्य जायते 
   यं कामयेत पुमान् अस्य जायेतेत्य् आन्तं तस्य प्र वेष्टयेत् पुमान् एवास्य  

VERSE: 4

   जायते । 
   असुरा वै देवान् दक्षिणत उपानयन् तान् देवा उपशयेनैवापानुदन्त तद् उपशयस्योपशयत्वं यद् दक्षिणत उपशय उपशये भ्रातृव्यापनुत्त्यै 
   सर्वे वा अन्ये यूपाः पशुमन्तो ऽथोपशय एवापशुस् तस्य यजमानः पशुर् यन् न निर्दिशेद् आर्तिम् आर्छेद् यजमानो ऽसौ ते पशुर् इति निर् दिशेद् यं द्विष्याद् यम् एव  

VERSE: 5

   द्वेष्टि तम् अस्मै पशुं निर् दिशति 
   यदि न द्विष्याद् आखुस् ते पशुर् इति ब्रूयान् न ग्राम्यान् पशून् हिनस्ति नारण्यान् 
   प्रजापतिः प्रजा असृजत सो ऽन्नाद्येन व्य् आर्ध्यत स एताम् एकादशिनीम् अपश्यत् तया वै सो ऽन्नाद्यम् अवारुन्द्ध यद् दश यूपा भवन्ति दशाक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्द्धे । 

VERSE: 6

   य एकादशः स्तन एवास्यै स दुह एवैनां तेन 
   वज्रो वा एषा सम् मीयते यद् एकादशिनी सेश्वरा पुरस्तात् प्रत्यञ्चं यज्ञम्̇ सम्मर्दितोर् यत् पात्नीवतम् मिनोति यज्ञस्य प्रत्य् उत्तब्ध्यै सयत्वाय ॥ 

6.6.5 अनुवाक 5 पश्वेकादशिनीकथनम् VERSE: 1

   प्रजापतिः प्रजा असृजत स रिरिचानो ऽमन्यत स एताम् एकादशिनीम् अपश्यत् तया वै स आयुर् इन्द्रियं वीर्यम् आत्मन्न् अधत्त प्रजा इव खलु वा एष सृजते यो यजते स एतर्हि रिरिचान इव यद् एषैकादशिनी भवत्य् आयुर् एव तयेन्द्रियं वीर्यं यजमान आत्मन् धत्ते 
   प्रैवाग्नेयेन वापयति मिथुनम्̇ सारस्वत्या करोति रेतः  

VERSE: 2

   सौम्येन दधाति प्र जनयति पौष्णेन बार्हस्पत्यो भवति ब्रह्म वै देवानाम् बृहस्पतिर् ब्रह्मणैवास्मै प्रजाः प्र जनयति वैश्वदेवो भवति वैश्वदेव्यो वै प्रजाः प्रजा एवास्मै प्र जनयतीन्द्रियम् एवैन्द्रेणावरुन्द्धे विशम् मारुतेनौजो बलम् ऐन्द्राग्नेन प्रसवाय सावित्रो निर्वरुणत्वाय वारुणः । 
   मध्यत ऐन्द्रम् आ लभते मध्यत एवेन्द्रियं यजमाने दधाति । 

VERSE: 3

   पुरस्ताद् ऐन्द्रस्य वैश्वदेवम् आलभते वैश्वदेवं वा अन्नम् अन्नम् एव पुरस्ताद् धत्ते तस्मात् पुरस्ताद् अन्नम् अद्यत ऐन्द्रम् आलभ्य मारुतम् आ लभते विड् वै मरुतो विशम् एवास्मा अनु बध्नाति 
   यदि कामयेत यो ऽवगतः सो ऽप रुध्यतां यो ऽपरुद्धः सो ऽव गच्छत्व् इत्य् ऐन्द्रस्य लोके वारुणम् आ लभेत वारुणस्य लोक ऐन्द्रम् । 

VERSE: 4

   य एवावगतः सो ऽप रुध्यते यो ऽपरुद्धः सो ऽव गच्छति 
   यदि कामयेत प्रजा मुह्येयुर् इति पशून् व्यतिषजेत् प्रजा एव मोहयति 
   यद् अभिवाहतो ऽपां वारुणम् आलभेत प्रजा वरुणो गृह्णीयाद् दक्षिणत उदञ्चम् आ लभते ऽपवाहतो ऽपाम् प्रजानाम् अवरुणग्राहाय ॥ 

6.6.6 अनुवाक 6 ? VERSE: 1

   इन्द्रः पत्निया मनुम् अयाजयत् ताम् पर्यग्निकृताम् उद् असृजत् तया मनुर् आर्ध्नोद् यत् पर्यग्निकृतम् पात्नीवतम् उत्सृजति याम् एव मनुर् ऋद्धिम् आर्ध्नोत् ताम् एव यजमान ऋध्नोति 
   यज्ञस्य वा अप्रतिष्ठिताद् यज्ञः परा भवति यज्ञम् पराभवन्तं यजमानो ऽनु परा भवति यद् आज्येन पात्नीवतम्̇ सम्̇स्थापयति यज्ञस्य प्रतिष्ठित्यै यज्ञम् प्रतितिष्ठन्तं यजमानो ऽनु प्रति तिष्ठति । 
   इष्टं वपया  

VERSE: 2

   भवति अनिष्टं वशयाथ पात्नीवतेन प्र चरति तीर्थ एव प्र चरत्य् अथो एतर्ह्य् एवास्य यामस् 
   त्वाष्ट्रो भवति त्वष्टा वै रेतसः सिक्तस्य रूपाणि वि करोति तम् एव वृषाणम् पत्नीष्व् अपि सृजति सो ऽस्मै रूपाणि वि करोति ॥ 

6.6.7 अनुवाक 7 सौम्यचरुकथनम् VERSE: 1

   घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्ति 
   यत् सौम्यो भवति यथा मृतायानुस्तरणीं घ्नन्ति तादृग् एव तत् । 
   यद् उत्तरार्धे वा मध्ये वा जुहुयात् देवताभ्यः समदं दध्याद् दक्षिणार्धे जुहोत्य् एषा वै पितृणां दिक् स्वायाम् एव दिशि पितॄन् निरवदयते । 
   उद्गातृभ्यो हरन्ति सामदेवत्यो वै सौम्यो यद् एव साम्नश् छम्बट्कुर्वन्ति तस्यैव स शान्तिः । 
   अव 

VERSE: 2

   ईक्षन्ते पवित्रं वै सौम्य आत्मानम् एव पवयन्ते 
   य आत्मानं न परिपश्येद् इतासुः स्याद् अभिददिं कृत्वाऽवेक्षेत तस्मिन् ह्य् आत्मानम् परिपश्यत्य् अथो आत्मानम् एव पवयते 
   यो गतमनाः स्यात् सो ऽवेक्षेत यन् मे मनः परागतं यद् वा मे अपरागतम् । राज्ञा सोमेन तद् वयम् अस्मासु धारयामसीति मन एवात्मन् दाधार । 

VERSE: 3

   न गतमना भवति । 
   अप वै तृतीयसवने यज्ञः क्रामतीजानाद् अनीजानम् अभ्य् आग्नावैष्णव्यर्चा घृतस्य यजत्य् अग्निः सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं च दाधार । 
   उपाम्̇शु यजति मिथुनत्वाय 
   ब्रह्मवादिनो वदन्ति मित्रो यज्ञस्य स्विष्टं युवते वरुणो दुरिष्टं क्व तर्हि यज्ञः क्व यजमानो भवतीति यन् मैत्रावरुणीं वशाम् आलभते मित्रेणैव  

VERSE: 4

   यज्ञस्य स्विष्टम्̇ शमयति वरुणेन दुरिष्टं नार्तिम् आर्छति यजमानः । 
   यथा वै लाङ्गलेनोर्वराम् प्रभिन्दन्त्य् एवम् ऋक्सामे यज्ञम् प्र भिन्त्तो यन् मैत्रावरुणीं वशाम् आलभते यज्ञायैव प्रभिन्नाय मत्यम् अन्ववास्यति शान्त्यै 
   यातयामानि वा एतस्य छन्दाम्̇सि य ईजानश् छन्दसाम् एष रसो यद् वशा यन् मैत्रावरुणीं वशाम् आलभते छन्दाम्̇स्य् एव पुनर् आ प्रीणात्य् अयातयामत्वायाथो छन्दःस्व् एव रसं दधाति ॥ 

6.6.8 अनुवाक 8 अतिग्राह्यग्रहकथनम् VERSE: 1

   देवा वा इन्द्रियं वीर्यं व्यभजन्त 
   ततो यद् अत्यशिष्यत तद् अतिग्राह्या अभवन् 
   तद् अतिग्राह्याणाम् अतिग्राह्यत्वम् । 
   यद् अतिग्राह्या गृह्यन्त इन्द्रियम् एव तद् वीर्यं यजमान आत्मन् धत्ते 
   तेज आग्नेयेनेन्द्रियम् ऐन्द्रेण ब्रह्मवर्चसम्̇ सौर्येण । 
   उपस्तम्भनं वा एतद् यज्ञस्य यद् अतिग्राह्याश् चक्रे पृष्ठानि 
   यत् पृष्ठ्ये न गृह्णीयात् प्राञ्चं यज्ञम् पृष्ठानि सम्̇ शृणीयुः । 
   यद् उक्थ्ये  

VERSE: 2

   गृह्णीयात् प्रत्यञ्चं यज्ञम् अतिग्राह्याः सम्̇ शृणीयुः । 
   विश्वजिति सर्वपृष्ठे ग्रहीतव्या यज्ञस्य सवीर्यत्वाय 
   प्रजापतिर् देवेभ्यो यज्ञान् व्यादिशत् 
   स प्रियास् तनूर् अप न्य् अधत्त 
   तद् अतिग्राह्या अभवन् 
   वितनुस् तस्य यज्ञ इत्य् आहुर् यस्यातिग्राह्या न गृह्यन्त इति । 
   अप्य् अग्निष्टोमे ग्रहीतव्या यज्ञस्य सतनुत्वाय 
   देवता वै सर्वाः सदृशीर् आसन् 
   ता न व्यावृतम् अगच्छन् 
   ते देवाः  

VERSE: 3

   एत एतान् ग्रहान् अपश्यन् 
   तान् अगृह्णत । 
   आग्नेयम् अग्निर् ऐन्द्रम् इन्द्रः सौर्यम्̇ सूर्यस् 
   ततो वै ते ऽन्याभिर् देवताभिर् व्यावृतम् अगच्छन् 
   यस्यैवं विदुष एते ग्रहा गृह्यन्ते व्यावृतम् एव पाप्मना भ्रातृव्येण गच्छति । 
   इमे लोका ज्योतिष्मन्तः समावद्वीर्याः कार्या इत्य् आहुः । 
   आग्नेयेनास्मिम्̐ लोके ज्योतिर् धत्त ऐन्द्रेणान्तरिक्षे । 
   इन्द्रवायू हि सयुजौ 
   सौर्येणामुष्मिम्̐ लोके  

VERSE: 4

   ज्योतिर् धत्ते 
   ज्योतिष्मन्तो ऽस्मा इमे लोका भवन्ति समावद्वीर्यान् एनान् कुरुते । 
   एतान् वै ग्रहान् बम्बाविश्ववयसाव् अवित्ताम् । 
   ताभ्याम् इमे लोकाः पराञ्चश् चार्वाञ्चश् च प्राभुः । 
   यस्यैवं विदुष एते ग्रहा गृह्यन्ते प्रास्मा इमे लोकाः पराञ्चश् चार्वाञ्चश् च भान्ति ॥ 

6.6.9 अनुवाक 9 अदाभ्यग्रहकथनम् VERSE: 1

   देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत 
   ते देवा अदाभ्ये छन्दाम्̇सि सवनानि सम् अस्थापयन् 
   ततो देवा अभवन् परासुराः । 
   यस्यैवं विदुषो ऽदाभ्यो गृह्यते भवत्य् आत्मना परास्य भ्रातृव्यो भवति 
   यद् वै देवा असुरान् अदाभ्येनादभ्नुवन् तद् अदाभ्यस्यादाभ्यत्वम् । 
   य एवं वेद दभ्नोत्य् एव भ्रातृव्यं नैनम् भ्रातृव्यो दभ्नोति ॥ 

VERSE: 2

   एषा वै प्रजापतेर् अतिमोक्षिणी नाम तनूर् यद् अदाभ्यः । 
   उपनद्धस्य गृह्णात्य् अतिमुक्त्यै । 
   अति पाप्मानम् भ्रातृव्यम् मुच्यते य एवं वेद 
   घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्ति 
   सोमे हन्यमाने यज्ञो हन्यते यज्ञे यजमानः । 
   ब्रह्मवादिनो वदन्ति 
   किं तद् यज्ञे यजमानः कुरुते येन जीवन्त् सुवर्गं लोकम् एतीति 
   जीवग्रहो वा एष यद् अदाभ्यः । 
   अनभिषुतस्य गृह्णाति 
   जीवन्तम् एवैनम्̇ सुवर्गं लोकं गमयति 
   वि वा एतद् यज्ञं छिन्दन्ति यद् अदाभ्ये सम्̇स्थापयन्ति । 
  अम्̇शून् अपि सृजति यज्ञस्य संतत्यै ॥ 

6.6.10 अनुवाक 10 अंशुग्रहकथनम् VERSE: 1

   देवा वै प्रबाहुग् ग्रहान् अगृह्णत 
   स एतम् प्रजापतिर् अम्̇शुम् अपश्यत् 
   तम् अगृह्णीत 
   तेन वै स आर्ध्नोत् । 
   यस्यैवं विदुषो ऽम्̇शुर् गृह्यत ऋध्नोत्य् एव 
   सकृदभिषुतस्य गृह्णाति 
   सकृद् धि स तेनार्ध्नोत् । 
   मनसा गृह्णाति 
   मन इव हि प्रजापतिः 
   प्रजापतेर् आप्त्यै । 
  औदुम्बरेण गृह्णाति । 
   ऊर्ग् वा उदुम्बरः । 
   ऊर्जम् एवाव रुन्द्धे 
   चतुःस्रक्ति भवति 
   दिक्षु  

VERSE: 2

   एव प्रति तिष्ठति 
   यो वा अम्̇शोर् आयतनं वेदायतनवान् भवति 
   वामदेव्यम् इति साम तद् वा अस्यायतनम् मनसा गायमानो गृह्णाति । 
   आयतनवान् एव भवति 
   यद् अध्वर्युर् अम्̇शुं गृह्णन् नार्धयेद् उभाभ्यां नर्ध्येताध्वर्यवे च यजमानाय च 
   यद् अर्धयेद् उभाभ्याम् ऋध्येत । 
   अनवानं गृह्णाति सैवास्यर्द्धिः । 
   हिरण्यम् अभि व्यनिति । 
   अमृतं वै हिरण्यम् आयुः प्राण आयुषैवामृतम् अभि धिनोति 
  शतमानम् भवति 
   शतायुः पुरुषः शतेन्द्रियः । 
   आयुष्य् एवेन्द्रिये प्रति तिष्ठति ॥ 

6.6.11 अनुवाक 11 षोडशिग्रहकथनम् VERSE: 1

   प्रजापतिर् देवेभ्यो यज्ञान् व्यादिशत् 
   स रिरिचानो ऽमन्यत 
   स यज्ञानाम्̇ षोडशधेन्द्रियं वीर्यम् आत्मानम् अभि सम् अक्खिदत् 
   तत् षोडश्य् अभवत् 
   न वै षोडशी नाम यज्ञो ऽस्ति 
   यद् वाव षोडशम्̇ स्तोत्रम्̇ षोडशम्̇ शस्त्रं तेन षोडशी 
   तत् षोडशिनः षोडशित्वम् । 
   यत् षोडशी गृह्यत इन्द्रियम् एव तद् वीर्यं यजमान आत्मन् धत्ते 
   देवेभ्यो वै सुवर्गो लोकः  

VERSE: 2

   न प्राभवत् 
   त एतम्̇ षोडशिनम् अपश्यन् 
   तम् अगृह्णत 
   ततो वै तेभ्यः सुवर्गो लोकः प्राभवत् । 
   यत् षोडशी गृह्यते सुवर्गस्य लोकस्याभिजित्यै । 
   इन्द्रो वै देवानाम् आनुजावर आसीत् 
   स प्रजापतिम् उपाधावत् 
   तस्मा एतम्̇ षोडशिनम् प्रायच्छत् 
   तम् अगृह्णीत 
   ततो वै सो ऽग्रं देवतानाम् पर्य् ऐत् । 
   यस्यैवं विदुषः षोडशी गृह्यते  

VERSE: 3

   अग्रम् एव समानानाम् पर्य् एति 
   प्रातःसवने गृह्णाति 
   वज्रो वै षोडशी 
   वज्रः प्रातःसवनम् । 
   स्वाद् एवैनं योनेर् नि गृह्णाति 
   सवनेसवने ऽभि गृह्णाति 
   सवनात्सवनाद् एवैनम् प्र जनयति 
   तृतीयसवने पशुकामस्य गृह्णीयात् । 
   वज्रो वै षोडशी पशवस् तृतीयसवनम् । 
   वज्रेणैवास्मै तृतीयसवनात् पशून् अव रुन्द्धे 
   नोक्थ्ये गृह्णीयात् 
   प्रजा वै पशव उक्थानि 
   यद् उक्थ्ये  

VERSE: 4

   गृह्णीयात् प्रजाम् पशून् अस्य निर् दहेत् । 
   अतिरात्रे पशुकामस्य गृह्णीयात् । 
   वज्रो वै षोडशी 
   वज्रेणैवास्मै पशून् अवरुध्य रात्रियोपरिष्टाच् छमयति । 
   अप्य् अग्निष्टोमे राजन्यस्य गृह्णीयात् । 
   व्यावृत्कामो हि राजन्यो यजते 
   साह्न एवास्मै वज्रं गृह्णाति 
   स एनं वज्रो भूत्या इन्द्धे निर् वा दहति । 
   एकविम्̇शम्̇ स्तोत्रम् भवति प्रतिष्ठित्यै 
   हरिवच् छस्यते । 
  इन्द्रस्य प्रियं धाम ॥ 

VERSE: 5

   उपाप्नोति 
   कनीयाम्̇सि वै देवेषु छन्दाम्̇स्य् आसञ् ज्यायाम्̇स्य् असुरेषु 
   ते देवाः कनीयसा छन्दसा ज्यायश् छन्दो ऽभि व्यशम्̇सन् 
   ततो वै ते ऽसुराणां लोकम् अवृञ्जत 
   यत् कनीयसा छन्दसा ज्यायश् छन्दो ऽभि विशम्̇सति भ्रातृव्यस्यैव तल् लोकं वृङ्क्ते 
   षड् अक्षराण्य् अति रेचयन्ति 
   षड् वा ऋतवः । 
   ऋतून् एव प्रीणाति 
   चत्वारि पूर्वाण्य् अव कल्पयन्ति ॥ 

VERSE: 6

   चतुष्पद एव पशून् अव रुन्द्धे द्वे उत्तरे द्विपद एवाव रुन्द्धे । 
   अनुष्टुभम् अभि सम् पादयन्ति 
   वाग् वा  अनुष्टुप् 
   तस्मात् प्राणानां वाग् उत्तमा 
   समयाविषिते सूर्ये षोडशिन स्तोत्रम् उपाकरोति । 
   एतस्मिन् वै लोक इन्द्रो वृत्रम् अहन् । 
   साक्षाद् एव वज्रम् भ्रातृव्याय प्र हरति । 
   अरुणपिशंगो ऽश्वो दक्षिणा । 
   तद् वै वज्रस्य रूपम् । 
  समृद्ध्यै ॥ 


तैत्तिरीय संहिता काण्ड 7 7.1 प्रपाठक: 1 7.1.1 अनुवाक 1 ज्योतिष्टोम तदाद्यसंस्था अग्निष्टोमयोर्निरूपणम् VERSE: 1

   प्रजननं ज्योतिर् अग्निर् देवतानां ज्योतिर् विराट् छन्दसां ज्योतिः । 
   विराड् वाचो ऽग्नौ सं तिष्ठते 
   विराजम् अभि सम् पद्यते 
   तस्मात् तज् ज्योतिर् उच्यते 
   द्वौ स्तोमौ प्रातःसवनं वहतो यथा प्राणश् चापानश् च 
   द्वौ माध्यंदिनम्̇ सवनं यथा चक्षुश् च श्रोत्रं च 
   द्वौ तृतीयसवनं यथा वाक् च प्रतिष्ठा च 
   पुरुषसम्मितो वा एष यज्ञो ऽस्थूरिः । 

VERSE: 2

   यं कामं कामयते तम् एतेनाभ्य् अश्नुते 
   सर्वम्̇ ह्य् अस्थुरिणाभ्यश्नुते । 
   अग्निष्टोमेन वै प्रजापतिः प्रजा असृजत 
   ता अग्निष्टोमेनैव पर्य् अगृह्णात् 
   तासाम् परिगृहीतानाम् अश्वतरो ऽत्यप्रवत 
   तस्यानुहाय रेत आदत्त 
   तद् गर्दभे न्यमार्ट् 
   तासाम् परिगृहीतानाम् अश्वतरो ऽत्यप्रवत 
   तस्यानुहाय रेत आदत्त 
  तद् गर्दभे न्यमार्ट् 
   तस्माद् गर्दभो द्विरेताः । 
   अथो आहुः । 
  वडबायां न्य् अमार्ड् इति 
  तस्माद् वडबा द्विरेताः । 
  अथो आहुः । 
  ओषधीषु  

VERSE: 3

   न्य् अमार्ड् इति 
   तस्माद् ओषधयो ऽनभ्यक्ता रेभन्ति । 
   अथो आहुः 
   प्रजासु न्य् अमार्ड् इति 
   तस्माद् यमौ जायेते 
   तस्माद् अश्वतरो न प्र जायत आत्तरेता हि 
   तस्माद् बर्हिष्य् अनवक्लृप्तः 
   सर्ववेदसे वा सहस्रे वावक्लृप्तः । 
   अति ह्य् अप्रवत 
  य एवं विद्वान् अग्निष्टोमेन यजते प्राजाताः प्रजा जनयति परि प्रजाता गृह्णाति 
   तस्माद् आहुः । 
   ज्येष्ठयज्ञ इति ॥ 

VERSE: 4

   प्रजापतिर् वाव ज्येष्ठः 
   स ह्य् एतेनाग्रे ऽयजत 
   प्रजापतिर् अकामयत 
   प्र जायेयेति 
   स मुखतस् त्रिवृतं निर् अमिमीत 
   तम् अग्निर् देवतान्व् असृज्यत गायत्री छन्दो रथंतरम्̇ साम ब्राह्मणो मनुष्याणाम् अजः पशूनाम् । 
   तस्मात् ते मुख्याः । 
   मुखतो ह्य् असृज्यन्त । 
   उरसो बाहुभ्याम् पञ्चदशं निर् अमिमीत 
   तम् इन्द्रो देवतान्व् असृज्यत त्रिष्टुप् छन्दो बृहत्  

VERSE: 5

   साम राजन्यो मनुष्याणाम् अविः पशूनाम् । 
   तस्मात् ते वीर्यावन्तः । 
   वीर्याद् ध्य् असृज्यन्त 
   मध्यतः सप्तदशं निर् अमिमीत 
   तं विश्वे देवा देवता अन्व् असृज्यन्त जगती छन्दो वैरूपम्̇ साम वैश्यो मनुष्याणां गावः पशूनाम् । 
   तस्मात् त आद्याः । 
   अन्नधानाद् ध्य् असृज्यन्त 
   तस्माद् भूयाम्̇सो ऽन्येभ्यः । 
   भूयिष्ठा हि देवता अन्व् असृज्यन्त 
   पत्त एकविम्̇शं निर् अमिमीत 
   तम् अनुष्टुप् छन्दः 

VERSE: 6

   अन्व् असृज्यत वैराजम्̇ साम शूद्रो मनुष्याणाम् 
   अश्वः पशूनाम् । 
   तस्मात् तौ भूतसंक्रामिणाव् अश्वश् च शूद्रश् च 
   तस्माच् छूद्रो यज्ञे ऽनवक्लृप्तः । 
   न हि देवता अन्व् असृज्यत 
   तस्मात् पादाव् उप जीवतः 
   पत्तो ह्य् असृज्येताम् 
   प्राणा वै त्रिवृत् । 
   अर्धमासाः पञ्चदशः 
   प्रजापतिः सप्तदशस् 
   त्रय इमे लोकाः । 
  असाव् आदित्य एकविम्̇शः । 
   एतस्मिन् वा एते श्रिता एतस्मिन् प्रतिष्ठिताः । 
   य एवं वेदैतस्मिन्न् एव श्रयत एतस्मिन् प्रति तिष्ठति ॥ 

7.1.2 अनुवाक 2 स्तोमानां संभूयकारित्वकथनम् VERSE: 1

   प्रातःसवने वै गायत्रेण छन्दसा त्रिवृते स्तोमाय ज्योतिर् दधद् एति 
   त्रिवृता ब्रह्मवर्चसेन पञ्चदशाय ज्योतिर् दधद् एति 
   पञ्चदशेनौजसा वीर्येण सप्तदशाय ज्योतिर् दधद् एति 
   सप्तदशेन प्राजापत्येन प्रजननेनैकविम्̇शाय ज्योतिर् दधद् एति 
   स्तोम एव तत् स्तोमाय ज्योतिर् दधद् एति । 
   अथो स्तोम एव स्तोमम् अभि प्र णयति 
   यावन्तो वै स्तोमास् तावन्तः कामास् 
   तावन्तो लोकास् 
   तावन्ति ज्योतीम्̇षि । 
  एतावत एव स्तोमान् एतावतः कामान् एतावतो लोकान् एतावन्ति ज्योतीम्̇ष्य् अव रुन्द्धे ॥ 

7.1.3 अनुवाक 3 अतिरात्रविध्युन्नयनम् VERSE: 1

   ब्रह्मवादिनो वदन्ति 
   स त्वै यजेत यो ऽग्निष्टोमेन यजमानो ऽथ सर्वस्तोमेन यजेतेति 
   यस्य त्रिवृतम् अन्तर्यन्ति प्राणाम्̇स् तस्यान्तर्यन्ति 
   प्राणेषु मे ऽप्य् असद् इति खलु वै यज्ञेन यजमानो यजते 
   यस्य पञ्चदशम् अन्तर्यन्ति वीर्यं तस्यान्तर् यन्ति 
   वीर्ये मे ऽप्य् असद् इति खलु वै यज्ञेन यजमानो यजते 
   यस्य सप्तदशम् अन्तर्यन्ति  

VERSE: 2

   प्रजां तस्यान्तर् यन्ति 
   प्रजायाम् मे ऽप्य् असद् इति खलु वै यज्ञेन यजमानो यजते 
   यस्यैकविम्̇शम् अन्तर्यन्ति प्रतिष्ठां तस्यान्तर् यन्ति 
   प्रतिष्ठायाम् मे ऽप्य् असद् इति खलु वै यज्ञेन यजमानो यजते 
   यस्य त्रिणवम् अन्तर्यन्त्य् ऋतूम्̇श् च तस्य नक्षत्रियां च विराजम् अन्तर् यन्ति । 
   ऋतुषु मे ऽप्य् असन् नक्षत्रियायां च विराजीति 

VERSE: 3

   खलु वै यज्ञेन यजमानो यजते 
   यस्य त्रयस्त्रिम्̇शम् अन्तर्यन्ति देवतास् तस्यान्तर् यन्ति 
   देवतासु मे ऽप्य् असद् इति खलु वै यज्ञेन यजमानो यजते 
   यो वै स्तोमानाम् अवमम् परमतां गच्छन्तं वेद परमताम् एव गच्छति 
   त्रिवृद् वै स्तोमानाम् अवमस् त्रिवृत् परमस् 
   य एवं वेद परमताम् एव गच्छति ॥ 

7.1.4 अनुवाक 4 आङ्गिरसद्विरात्राहीनविधिकथनम् VERSE: 1

   अङ्गिरसो वै सत्त्रम् आसत 
   ते सुवर्गं लोकम् आयन् 
   तेषाम्̇ हविष्माम्̇श् च हविष्कृच् चाहीयेताम् । 
   ताव् अकामयेताम् । 
   सुवर्गं लोकम् इयावेति 
   ताव् एतं द्विरात्रम् अपश्यताम् । 
   तम् आहरताम् । 
   तेनायजेताम् । 
   ततो वै तौ ऽसुवर्गं लोकम् ऐताम् । 
   य एवं विद्वान् द्विरात्रेण यजते सुवर्गम् एव लोकम् एति 
   ताव् ऐताम् पूर्वेणाह्नागच्छताम् उत्तरेण  

VERSE: 2

   अभिप्लवः पूर्वम् अहर् भवति गतिर् उत्तरम् 
   ज्योतिष्टोमो ऽग्निष्टोमः पूर्वम् अहर् भवति तेजस् तेनाव रुन्द्धे 
   सर्वस्तोमो ऽतिरात्र उत्तरम्̇ सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै 
   गायत्रम् पूर्वेऽहन्त् साम भवति 
   तेजो वै गायत्री 
   गायत्री ब्रह्मवर्चसम् । 
   तेज एव ब्रह्मवर्चसम् आत्मन् धत्ते 
   त्रैष्टुभम् उत्तरे । 
   ओजो वै वीर्यं त्रिष्टुग्  
   ओज एव वीर्यम् आत्मन् धत्ते 
   रथंतरम् पूर्वे  

VERSE: 3

   अहन्त् साम भवति । 
   इयं वै रथंतरम् 
   अस्याम् एव प्रति तिष्ठति 
   बृहद् उत्तरे । 
   असौ वै बृहत् । 
   अमुष्याम् एव प्रति तिष्ठति 
   तद् आहुः 
   क्व जगती चानुष्टुप् चेति 
   वैखानसम् पूर्वे ऽहन्त् साम भवति तेन जगत्यै नैति 
  षोडश्य् उत्तरे तेनानुष्टुभः । 
   अथाहुः । 
  यत् समाने ऽर्धमासे स्याताम् अन्यतरस्याह्नो वीर्यम् अनु पद्येतेति । 
   अमावास्यायाम् पूर्वम् अहर् भवत्य् उत्तरस्मिन्न् उत्तरम् । 
   नानैवार्धमासयोर् भवतः । 
   नानावीर्ये भवतः । 

हविष्मन्निधनम् पूर्वम् अहर् भवति हविष्कृन्निधनम् उत्तरम्

   प्रतिष्ठित्यै ॥ 

7.1.5 अनुवाक 5 गर्गत्रिरात्राभिधानम् VERSE: 1

   आपो वा इदम् अग्रे सलिलम् आसीत् 
   तस्मिन् प्रजापतिर् वायुर् भूत्वाऽचरत् 
   स इमाम् अपश्यत् 
   तां वराहो भूत्वाऽहरत् 
   तां विश्वकर्मा भूत्वा व्य्  अमार्ट् 
   साऽप्रथत 
   सा पृथिव्यभवत् 
   तत् पृथिव्यै पृथिवित्वम् । 
   तस्याम् अश्राम्यत् प्रजापतिः 
   स देवान् असृजत वसून् रुद्रान् आदित्यान् 
   ते देवाः प्रजापतिम् अब्रुवन् 
   प्र जायामहा इति 
  सो ऽब्रवीत्  

VERSE: 2

   यथाहं युष्माम्̇स् तपसासृक्ष्य् एवं तपसि प्रजननम् इच्छध्वम् इति 
   तेभ्यो ऽग्निम् आयतनम् प्रायच्छत् । 
   एतेनायतनेन श्राम्यतेति 
   ते ऽग्निनायतनेनाश्राम्यन् 
   ते संवत्सर एकां गाम् असृजन्त 
   तां वसुभ्यो रुद्रेभ्य आदित्येभ्यः प्रायच्छन् । 
   एताम्̇ रक्षध्वम् इति 
   तां वसवो रुद्रा आदित्या अरक्षन्त 
   सा वसुभ्यो रुद्रेभ्य आदित्येभ्यः प्राजायत त्रीणि च ॥ 

VERSE: 3

   शतानि त्रयस्त्रिम्̇शतं च । 

सहस्रतम्य् अभवत्

   ते देवाः प्रजापतिम् अब्रुवन् । 
   सहस्रेण नो याजयेति 
   सो ऽग्निष्टोमेन वसून् अयाजयत् 
   त इमं लोकम् अजयन् 
   तच् चाददुः 
   स उक्थ्येन रुद्रान् अयाजयत् 
   ते ऽन्तरिक्षम् अजयन् 
   तच् चाददुः 
   सो ऽतिरात्रेणादित्यान् अयाजयत् 
  ते ऽमुं लोकम् अजयन् 
  तच् चाददुस् 
  तद् अन्तरिक्षम्  

VERSE: 4

   व्यवैर्यत 
   तस्माद् रुद्रा घातुकाः । 
   अनायतना हि 
   तस्माद् आहुः 
   शिथिलं वै मध्यमम् अहस् त्रिरात्रस्य वि हि तद् अवैर्यतेति 
   त्रैष्टुभम् मध्यमस्याह्न आज्यम् भवति 
   संयानानि सूक्तानि शम्̇सति 
   षोडशिनम्̇ शम्̇सति । 
   अह्नो धृत्या अशिथिलम्भावाय 
   तस्मात् त्रिरात्रस्याग्निष्टोम एव प्रथमम् अहः स्याद् अथोक्थ्यो ऽथातिरात्रः । 
   एषां लोकानां विधृत्यै 
  त्रीणित्रीणि शतान्य् अनूचीनाहम् अव्यवछिन्नानि ददाति 

VERSE: 5

   एषां लोकानाम् अनु संतत्यै 
   दशतं न वि च्छिन्द्यात् । 
   विराजं नेद् विच्छिनदानीति । 
   अथ या सहस्रतम्य् आसीत् तस्याम् इन्द्रश् च विष्णुश् च व्यायच्छेताम् । 
   स इन्द्रो ऽमन्यत । 
   अनया वा इदं विष्णुः सहस्रं वर्क्ष्यत इति 
   तस्याम् अकल्पेताम् । 
   द्विभाग इन्द्रस् तृतीये विष्णुस् 
   तद् वा एषाभ्यनूच्यते । 
   उभा जिग्यथुर् इति 
   तां वा एताम् अच्छावाकः  

VERSE: 6

   एव शम्̇सति । 
   अथ या सहस्रतमी सा होत्रे देयेति 
   होतारं वा अभ्यतिरिच्यते 
   यद् अतिरिच्यते होताऽनाप्तस्याऽऽपयिता । 
   अथाऽऽहुः । 
   उन्नेत्रे देयेति । 
   अतिरिक्ता वा एषा सहस्रस्य । 
   अतिरिक्त उन्नेतर्त्विजाम् 
   अथाऽऽहुः 
   सर्वेभ्यः सदस्येभ्यो देयेति । 
   अथाहुः । 
   उदाकृत्या सा वशं चरेद् इति । 
   अथाहुः । 
  ब्रह्मणे चाग्नीधे च देयेति ॥ 

VERSE: 7

   द्विभागम् ब्रह्मणे तृतीयम् अग्नीधे । 
   ऐन्द्रो वै ब्रह्मा वैष्णवो ऽग्नीध् । 
   यथैव ताव् अकल्पेताम् इति । 
   अथाहुः । 
   या कल्याणी बहुरूपा सा देयेति । 
   अथाहुः । 
   या द्विरूपोभयतएनी सा देयेति सहस्रस्य परिगृहीत्यै 
   तद् वा एतत् सहस्रस्यायनम् । 
   सहस्रम्̇ स्तोत्रीयाः 
   सहस्रं दक्षिणाः 
   सहस्रसम्मितः सुवर्गो लोकः 
  सुवर्गस्य लोकस्याभिजित्यै ॥ 

7.1.6 अनुवाक 6 सहस्रतम्यभिधानम् VERSE: 1

   सोमो वै सहस्रम् अविन्दत् 
   तम् इन्द्रो ऽन्व् अविन्दत् 
   तौ यमो न्यागच्छत् 
   ताव् अब्रवीत् । 
   अस्तु मे ऽत्रापीति । 
   अस्तु ही3 इत्य् अब्रूताम् । 
   स यम एकस्यां वीर्यम् पर्य् अपश्यत् । 
   इयं वा अस्य सहस्रस्य वीर्यम् बिभर्तीति ताव् अब्रवीद् इयम् ममास्त्व् एतद् युवयोर् इति 
ताव् अब्रूताम् । 

सर्वे वा एतद् एतस्यां वीर्यम्

VERSE: 2

   परि पश्यामो ऽम्̇शम् आ हरामहा इति 
   तस्याम् अम्̇शम् आहरन्त 
   ताम् अप्सु प्रावेशयन् । 
   सोमायोदेहीति 
   सा रोहिणी पिङ्गलैकहायनी रूपं कृत्वा त्रयस्त्रिम्̇शता च त्रिभिश् च शतैः सहोदैत् । 
   तस्माद् रोहिण्या पिङ्गलयैकहायन्या सोमं क्रीणीयात् । 
   य एवं विद्वान् रोहिण्या पिङ्गलयैकहायन्या सोमं क्रीणाति त्रयस्त्रिम्̇शता चैवास्य त्रिभिश् च  

VERSE: 3

   शतैः सोमः क्रीतो भवति 
   सुक्रीतेन यजते 
   ताम् अप्सु प्रावेशयन् । 
   इन्द्रायोदेहीति 
   सा रोहिणी लक्ष्मणा पष्ठौही वार्त्रघ्नी रूपं कृत्वा त्रयस्त्रिम्̇शता च त्रिभिश् च शतैः सहोदैत् 
   तस्माद् रोहिणीं लक्ष्मणाम् पष्ठौहीं वार्त्रघ्नीं दद्यात् । 
   य एवं विद्वान् रोहिणीं लक्ष्मणाम् पष्ठौहीं वार्त्रघ्नीं ददाति त्रयस्त्रिम्̇शच् चैवास्य त्रीणि च शतानि सा दत्ता  

VERSE: 4

   भवति 
   ताम् अप्सु प्रावेशयन् 
   यमायोदेहीति 
   सा जरती मूर्खा तज्जघन्या रूपं कृत्वा त्रयस्त्रिम्̇शता च त्रिभिश् च शतैः सहोदैत् 
   तस्माज् जरतीम् मूर्खां तज्जघन्याम् अनुस्तरणीं कुर्वीत 
   य एवं विद्वाञ् जरतीम् मूर्खां तज्जघन्याम् अनुस्तरणीं कुरुते त्रयस्त्रिम्̇शच् चैवास्य त्रीणि च शतानि सामुष्मिम्̐ लोके भवति 
   वाग् एव सहस्रतमी 
   तस्मात्  

VERSE: 5

   वरो देयः 
   सा हि वरः 
   सहस्रम् अस्य सा दत्ता भवति 
   तस्माद् वरो न प्रतिगृह्यः 
   सा हि वरः 
   सहस्रम् अस्य प्रतिगृहीतम् भवति । 
   इयं वर इति ब्रूयात् । 
   अथान्याम् ब्रूयात् । 
   इयम् ममेति 
   तथास्य तत् सहस्रम् अप्रतिगृहीतम् भवति । 
   उभयतएनी स्यात् 
  तद् आहुः । 
   अन्यतएनी स्यात् सहस्रम् परस्ताद् एतम् इति 
   यैव वरः  

VERSE: 6

   कल्याणी रूपसमृद्धा सा स्यात् 
   सा हि वरः 
   समृद्ध्यै 
   ताम् उत्तरेणाग्नीध्रम् पर्याणीयाहवनीयस्यान्ते द्रोणकलशम् अव घ्रापयेत् । 
   आ जिघ्र कलशम् मह्य् उरुधारा पयस्वत्य् आ त्वा विशन्त्व् इन्दवः समुद्रम् इव सिन्धवः 
   सा मा सहस्र आ भज प्रजया पशुभिः सह पुनर् मा विशताद् रयिर् इति 
   प्रजयैवैनम् पशुभी रय्या सम्  

VERSE: 7

   अर्धयति 
   प्रजावान् पशुमान् रयिमान् भवति य एवं वेद 
   तया सहाग्नीध्रम् परेत्य पुरस्तात् प्रतीच्यां तिष्ठन्त्यां जुहुयात् । 
   उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । 
   इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् इति 
   त्रेधाविभक्तं वै त्रिरात्रे सहस्रम् । 
   साहस्रीम् एवैनां करोति 
   सहस्रस्यैवैनाम् मात्रां  

VERSE: 8

   करोति 
   रूपाणि जुहोति 
   रूपैर् एवैनाम्̇ सम् अर्धयति 
   तस्या उपोत्थाय कर्णम् आ जपेत् । 
   इडे रन्ते ऽदिते सरस्वति प्रिये प्रेयसि महि विश्रुत्य् एतानि ते अघ्निये नामानि 
   सुकृतम् मा देवेषु ब्रूताद् इति 
   देवेभ्य एवैनम् आ वेदयति । 
   अन्व् एनं देवा बुध्यन्ते ॥ 

7.1.7 अनुवाक 7 सहस्रतमिदानविधिः VERSE: 1

   सहस्रतम्या वै यजमानः सुवर्गं लोकम् एति 
   सैनम्̇ सुवर्गं लोकं गमयति 
   सा मा सुवर्गं लोकं गमयेत्य् आह 
   सुवर्गम् एवैनं लोकं गमयति 
   सा मा ज्योतिष्मन्तं लोकं गमयेत्य् आह 
   ज्योतिष्मन्तम् एवैनं लोकं गमयति 
   सा मा सर्वान् पुण्याम्̐ लोकान् गमयेत्य् आह 
   सर्वान् एवैनम् पुण्याम्̐ लोकान् गमयति 
   सा  

VERSE: 2

   मा प्रतिष्ठां गमय प्रजया पशुभिः सह पुनर् मा विशताद् रयिर् इति प्रजयैवैनम् पशुभी रय्याम् प्रति ष्ठापयति 
   प्रजावान् पशुमान् रयिमान् भवति य एवं वेद 
   ताम् अग्नीधे वा ब्रह्मणे वा होत्रे वोद्गात्रे वाध्वर्यवे वा दद्यात् 
   सहस्रम् अस्य सा दत्ता भवति 
   सहस्रम् अस्य प्रतिगृहीतम् भवति यस् ताम् अविद्वान्  

VERSE: 3

   प्रतिगृह्णाति 
   ताम् प्रति गृह्णीयात् । 
   एकासि न सहस्रम् 
   एकां त्वा भूताम् प्रति गृह्णामि न सहस्रम् 
   एका मा भूता विश मा सहस्रम् इति । 
   एकाम् एवैनाम् भूताम् प्रति गृह्णाति न सहस्रं य एवं वेद 
   स्योनासि सुषदा सुशेवा स्योना मा विश सुषदा मा विश सुशेवा मा विश  

VERSE: 4

   इत्य् आह 
   स्योनैवैनम्̇ सुषदा सुशेवा भूत्वा विशति नैनम्̇ हिनस्ति 
   ब्रह्मवादिनो वदन्ति 
   सहस्रम्̇ सहस्रतम्य् अन्व् एती3 सहस्रतमीम्̇ सहस्रा3म् इति 
   यत् प्राचीम् उत्सृजेत् सहस्रम्̇ सहस्रतम्य् अन्व् इयात् 
   तत् सहस्रम् अप्रज्ञात्रम् । 
   सुवर्गं लोकं न प्र जानीयात् 
   प्रतीचीम् उत् सृजति 
   ताम्̇ सहस्रम् अनु पर्यावर्तते 
   सा प्रजानती 
   सुवर्गं लोकम् एति 
   यजमानम् अभ्य् उत् सृजति 
   क्षिप्रे सहस्रम् प्र जायते । 
   उत्तमा नीयते प्रथमा देवान् गच्छति ॥ 

7.1.8 अनुवाक 8 आत्रेयचतूरात्राभिधानम् VERSE: 1

   अत्रिर् अददाद् और्वाय प्रजाम् पुत्रकामाय 
   स रिरिचानो ऽमन्यत निर्वीर्यः शिथिलो यातयामा 
   स एतं चतूरात्रम् अपश्यत् 
   तम् आहरत् 
   तेनायजत 
   ततो वै तस्य चत्वारो वीरा आजायन्त सुहोता सूद्गाता स्वध्वर्युः सुसभेयः । 
   य एवं विद्वाम्̇श् चतूरात्रेण यजत आस्य चत्वारो वीरा जायन्ते सुहोता सूद्गाता स्वध्वर्युः सुसभेयः । 
   ये चतुर्विम्̇शाः पवमाना ब्रह्मवर्चसं तत्  

VERSE: 2

   य उद्यन्त स्तोमाः श्रीः सा । 
   अत्रिम्̇ श्रद्धादेवं यजमानं चत्वारि वीर्याणि नोपानमन् तेज इन्द्रियम् ब्रह्मवर्चसम् अन्नाद्यम् । 
   स एताम्̇श् चतुरश् चतुष्टोमान्त् सोमान् अपश्यत् 
   तान् आहरत् तैर् अयजत 
   तेज एव प्रथमेनावारुन्द्धेन्द्रियं द्वितीयेन ब्रह्मवर्चसं तृतीयेनान्नाद्यं चतुर्थेन 
   य एवं विद्वाम्̇श् चतुरश् चतुष्टोमान्त् सोमान् आहरति तैर् यजते तेज एव प्रथमेनाव रुन्द्ध इन्द्रियं द्वितीयेन ब्रह्मवर्चसं तृतीयेनान्नाद्यं चतुर्थेन 
   याम् एवात्रिर् ऋद्धिम् आर्ध्नोत् ताम् एव यजमाना ऋध्नोति ॥ 

7.1.9 अनुवाक 9 जामदग्न्यचतूरात्राभिधानम् VERSE: 1

   जमदग्निः पुष्टिकामश् चतूरात्रेणायजत 
   स एतान् पोषाम्̇ अपुष्यत् 
   तस्मात् पलितौ जामदग्नियौ न सं जानाते 
   एतान् एव पोषान् पुष्यति य एवं विद्वाम्̇श् चतूरात्रेण यजते 
   पुरोडाशिन्य उपसदो भवन्ति 
   पशवो वै पुरोडाशः 
   पशून् एवाव रुन्द्धे । 
   अन्नं वै पुरोडाशः । 
   अन्नम् एवाव रुन्द्धे । 
   अन्नादः पशुमान् भवति य एवं विद्वाम्̇श् चतूरात्रेण यजते ॥ 

7.1.10 अनुवाक 10 पञ्चरात्राभिधानम् VERSE: 1

   संवत्सरो वा इदम् एक आसीत् 
   सो ऽकामयत । 
   ऋतून्त् सृजेयेति 
   स एतम् पञ्चरात्रम् अपश्यत् 
   तम् आहरत् तेनायजत 
   ततो वै स ऋतून् असृजत 
   य एवं विद्वान् पञ्चरात्रेण यजते प्रैव जायते 
   त ऋतवः सृष्टा न व्यावर्तन्त 
   त एतम् पञ्चरात्रम् अपश्यन् 
   तम् आऽहरन् 
   तेनायजन्त 
  ततो वै ते व्यावर्तन्त  

VERSE: 2

   य एवं विद्वान् पञ्चरात्रेण यजते वि पाप्मना भ्रातृव्येणाऽऽ वर्तते 
   सार्वसेनिः शौचेयो ऽकामयत 
   पशुमान्त् स्याम् इति 
   स एतम् पञ्चरात्रम् आहरत् 
   तेनायजत 
   ततो वै स सहस्रम् पशून् प्राप्नोत् । 
   य एवं विद्वान् पञ्चरात्रेण यजते प्र सहस्रम् पशून् आप्नोति 
   बबरः प्रावाहणिर् अकामयत 
   वाचः प्रवदिता स्याम् इति 
   स एतम् पञ्चरात्रम् आ ॥ 

VERSE: 3

   अहरत् 
   तेनायजत 
   ततो वै स वाचः प्रवदिताऽभवत् । 
   य एवं विद्वान् पञ्चरात्रेण यजते प्रवदितैव वाचो भवति । 
   अथो एनं वाचस् पतिर् इत्य् आहुः । 
   अनाप्तश् चतूरात्रो ऽतिरिक्तः षड्रात्रो ऽथ वा एष सम्प्रति यज्ञो यत् पञ्चरात्रः । 
   य एवं विद्वान् पञ्चरात्रेण यजते सम्प्रत्य् एव यज्ञेन यजते 
   पञ्चरात्रो भवति 
   पञ्च वा ऋतवः संवत्सरः 

VERSE: 4

   ऋतुष्व् एव सम्वत्सरे प्रति तिष्ठति । 
   अथो पञ्चाक्षरा पङ्क्तिः 
   पाङ्क्तो यज्ञः । 
   यज्ञम् एवाव रुन्द्धे 
   त्रिवृद् अग्निष्टोमो भवति 
   तेज एवाव रुन्द्धे 
   पञ्चदशो भवति । 
   इन्द्रियम् एवाव रुन्द्धे 
   सप्तदशो भवति । 
   अन्नाद्यस्यावरुद्ध्यै । 
   अथो प्रैव तेन जायते 
   पञ्चविम्̇शो ऽग्निष्टोमो भवति प्रजापतेर् आप्त्यै 
   महाव्रतवान् अन्नाद्यस्यावरुद्ध्यै 
   विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति 
   सर्वस्याभिजित्यै ॥ 

7.1.11 अनुवाक 11 अश्वमेधमन्त्रकथनम् VERSE: 1 देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् आ ददे । इमाम् अगृभ्णन् रशनाम् ऋतस्य पूर्व आयुषि विदथेषु कव्या । तया देवाः सुतम् आ बभूवुर् ऋतस्य सामन्त् सरम् आरपन्ती ॥ अभिधा असि भुवनम् असि यन्तासि धर्तासि सो ऽग्निं वैश्वानरम्̇ सप्रथसं गच्छ स्वाहाकृतः पृथिव्यां यन्ता राड् यन्ताऽसि यमनो धर्ताऽसि धरुणः कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा पृथिव्यै त्वाऽन्तरिक्षाय त्वा दिवे त्वा सते त्वाऽसते त्वाऽद्भ्यस् त्वौषधीभ्यस् त्वा विश्वेभ्यस् त्वा भूतेभ्यः ॥

7.1.12 अनुवाक 12 अश्वमेधमन्त्रकथनम् VERSE: 1 विभूर् मात्रा प्रभूः पित्राऽश्वो ऽसि हयो ऽस्य् अत्यो ऽसि नरो ऽस्य् अर्वाऽसि सप्तिर् असि वाज्य् असि वृषाऽसि नृमणा असि ययुर् नामास्य् आदित्यानाम् पत्वान्व् इहि । अग्नये स्वाहा स्वाहेन्द्राग्निभ्याम्̇ स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा सर्वाभ्यो देवेताभ्यः । इह धृतिः स्वाहेह विधृतिः स्वाहेह रन्तिः स्वाहेह रमतिः स्वाहा भूर् असि भुवे त्वा भव्याय त्वा भविष्यते त्वा विश्वेभ्यस् त्वा भूतेभ्यः । देवा आशापाला एतं देवेभ्यो ऽश्वम् मेधाय प्रोक्षितं गोपायत ॥

7.1.13 अनुवाक 13 अश्वमेधमन्त्रकथनम् VERSE: 1

   आयनाय स्वाहा 
   प्रायणाय स्वाहा । 
   उद्द्रावाय स्वाहा । 
   उद्द्रुताय स्वाहा 
   शूकाराय स्वाहा 
   शूकृताय स्वाहा 
   पलायिताय स्वाहा । 
   आपलायिताय स्वाहा । 
   आवल्गते स्वाहा 
   परावल्गते स्वाहा । 
   आयते स्वाहा 
   प्रयते स्वाहा 
   सर्वस्मै स्वाहा ॥ 

7.1.14 अनुवाक 14 अश्वमेधमन्त्रकथनम् VERSE: 1

   अग्नये स्वाहा 
   सोमाय स्वाहा 
   वायवे स्वाहा । 
   अपाम् मोदाय स्वाहा 
   सवित्रे स्वाहा 
   सरस्वत्यै स्वाहा । 
   इन्द्राय स्वाहा 
   बृहस्पतये स्वाहा 
   मित्राय स्वाहा 
   वरुणाय स्वाहा 
  सर्वस्मै स्वाहा ॥ 

7.1.15 अनुवाक 15 अश्वमेधमन्त्रकथनम् VERSE: 1

   पृथिव्यै स्वाहा । 
   अन्तरिक्षाय स्वाहा 
   दिवे स्वाहा 
   सूर्याय स्वाहा 
   चन्द्रमसे स्वाहा 
   नक्षत्रेभ्यः स्वाहा 
   प्राच्यै दिशे स्वाहा 
   दक्षिणायै दिशे स्वाहा 
   प्रतीच्यै दिशे स्वाहा । 
   उदीच्यै दिशे स्वाहा । 
  ऊर्ध्वायै दिशे स्वाहा 
   दिग्भ्यः स्वाहा । 
   अवान्तरदिशाभ्यः स्वाहा 
   समाभ्यः स्वाहा 
   शरद्भ्यः स्वाहा । 
  अहोरात्रेभ्यः स्वाहा । 
   अर्धमासेभ्यः स्वाहा 
   मासेभ्यः स्वाहा । 
   ऋतुभ्यः स्वाहा 
   संवत्सराय स्वाहा 
  सर्वस्मै स्वाहा ॥ 

7.1.16 अनुवाक 16 अश्वमेधमन्त्रकथनम् VERSE: 1

   अग्नये स्वाहा 
   सोमाय स्वाहा 
   सवित्रे स्वाहा 
   सरस्वत्यै स्वाहा 
   पूष्णे स्वाहा 
   बृहस्पतये स्वाहा । 
   अपाम् मोदाय स्वाहा 
   वायवे स्वाहा 
   मित्राय स्वाहा 
   वरुणाय स्वाहा 
   सर्वस्मै स्वाहा ॥ 

7.1.17 अनुवाक 17 अश्वमेधमन्त्रकथनम् VERSE: 1

   पृथिव्यै स्वाहा । 
   अन्तरिक्षाय स्वाहा 
   दिवे स्वाहा । 
   अग्नये स्वाहा 
   सोमाय स्वाहा 
   सूर्याय स्वाहा 
   चन्द्रमसे स्वाहा । 
   अह्ने स्वाहा 
   रात्रियै स्वाहा । 
  ऋजवे स्वाहा 
  साधवे स्वाहा 
   सुक्षित्यै स्वाहा 
   क्षुधे स्वाहा । 
   आशितिम्ने स्वाहा 
   रोगाय स्वाहा 
   हिमाय स्वाहा 
  शीताय स्वाहा । 
  आतपाय स्वाहा । 
  अरण्याय स्वाहा 
  सुवर्गाय स्वाहा 
  लोकाय स्वाहा 
  सर्वस्मै स्वाहा ॥ 

7.1.18 अनुवाक 18 अश्वमेधमन्त्रकथनम् VERSE: 1 भुवो देवानां कर्मणाऽपसर्तस्य पथ्याऽसि वसुभिर् देवेभिर् देवतया गायत्रेण त्वा छन्दसा युनज्मि वसन्तेन त्वर्तुना हविषा दीक्षयामि रुद्रेभिर् देवेभिर् देवतया त्रैष्टुभेन त्वा छन्दसा युनज्मि ग्रीष्मेण त्वर्तुना हविषा दीक्षयामि । आदित्येभिर् देवेभिर् देवतया जागतेन त्वा छन्दसा युनज्मि वर्षाभिर् त्वर्तुना हविषा दीक्षयामि विश्वेभिर् देवेभिर् देवतयाऽऽनुष्टुभेन त्वा छन्दसा युनज्मि ॥

VERSE: 2

   शरदा त्वर्तुना हविषा दीक्षयामि । 

अङ्गिरोभिर् देवेभिर् देवतया पाङ्क्तेन त्वा छन्दसा युनज्मि हेमन्तशिशिराभ्यां त्वर्तुना हविषा दीक्षयामि । आऽहं दीक्षाम् अरुहम् ऋतस्य पत्नीं गायत्रेण छन्दसा ब्रह्मणा चर्तम्̇ सत्ये ऽधाम्̇ सत्यम् ऋते ऽधाम् ॥ महीमू षु सुत्रामाणम् इह धृतिः स्वाहा । इह विधृतिः स्वाहा । इह रन्तिः स्वाहा । इह रमतिः स्वाहा ॥

7.1.19 अनुवाक 19 अश्वमेधमन्त्रकथनम् VERSE: 1

   ईंकाराय स्वाहा । 
   ईंकृताय स्वाहा 
   क्रन्दते स्वाहा । 
   अवक्रन्दते स्वाहा 
   प्रोथते स्वाहा 
   प्रप्रोथते स्वाहा 
   गन्धाय स्वाहा 
   घ्राताय स्वाहा 
   प्राणाय स्वाहा 
   व्यानाय स्वाहा । 
   अपानाय स्वाहा 
   संदीयमानाय स्वाहा 
   संदिताय स्वाहा 
   विचृत्यमानाय स्वाहा 
   विचृत्ताय स्वाहा 
   पलायिष्यमाणाय स्वाहा 
   पलायिताय स्वाहा । 
   उपरम्̇स्यते स्वाहा । 
   उपरताय स्वाहा 
   निवेक्ष्यते स्वाहा 
   निविशमानाय स्वाहा 
   निविष्टाय स्वाहा 
   निषत्स्यते स्वाहा 
   निषीदते स्वाहा 
   निषण्णाय स्वाहा  

VERSE: 2

   आसिष्यते स्वाहा । 
   आसीनाय स्वाहा । 
   आसिताय स्वाहा 
   निपत्स्यते स्वाहा 
   निपद्यमानाय स्वाहा 
   निपन्नाय स्वाहा 
   शयिष्यते स्वाहा 
   शयानाय स्वाहा 
   शयिताय स्वाहा 
   सम्मीलिष्यते स्वाहा 

1 सम्मीलते स्वाहा 2 सम्मीलिताय स्वाहा 3 स्वप्स्यते स्वाहा 4 स्वपते स्वाहा 5 सुप्ताय स्वाहा 6 प्रभोत्स्यते स्वाहा 7 प्रबुध्यमानाय स्वाहा 8 प्रबुद्धाय स्वाहा 9 जागरिष्यते स्वाहा 0 जाग्रते स्वाहा 1 जागरिताय स्वाहा 2 शुश्रूषमाणाय स्वाहा 3 शृण्वते स्वाहा 4 श्रुताय स्वाहा 5 वीक्षिष्यते स्वाहा

VERSE: 3

   वीक्षमाणाय स्वाहा 
   वीक्षिताय स्वाहा 
   सम्̇हास्यते स्वाहा 
   स्माजिहानाय स्वाहा । 
   उज्जिहानाय स्वाहा 
   विवर्त्स्यते स्वाहा 
   विवर्तमानाय स्वाहा 
   विवृत्ताय स्वाहा । 
   उत्थास्यते स्वाहा । 
   उत्तिष्ठते स्वाहा । 
   उत्थिताय स्वाहा 
   विधविष्यते स्वाहा 
   विधून्वानाय स्वाहा 
   विधूताय स्वाहा । 
  उत्क्रम्̇स्यते स्वाहा । 
   उत्क्रामते स्वाहा । 
   उत्क्रान्ताय स्वाहा 
   चंक्रमिष्यते स्वाहा 
   चंक्रम्यमाणाय स्वाहा 
   चंक्रमिताय स्वाहा 
   कण्डूयिष्यते स्वाहा 
   कण्डूयमानाय स्वाहा 
   कण्डूयिताय स्वाहा 
   निकषिष्यते स्वाहा 
   निकषमाणाय स्वाहा 
   निकषिताय स्वाहा 
  यद् अत्ति तस्मै स्वाहा 
  यत् पिबति तस्मै स्वाहा 
   यन् मेहति तस्मै स्वाहा 
   यच् छकृत् करोति तस्मै स्वाहा 
   रेतसे स्वाहा 
   प्रजाभ्यः स्वाहा 
   प्रजननाय स्वाहा 
   सर्वस्मै स्वाहा ॥ 

7.1.20 अनुवाक 20 अश्वमेधमन्त्रकथनम् VERSE: 1 अग्नये स्वाहा वायवे स्वाहा सूर्याय स्वाहा । ऋतम् अस्य् ऋतस्यर्तम् असि सत्यम् असि सत्यस्य सत्यम् असि । ऋतस्य पन्था असि देवानां छायामृतस्य नाम तत् सत्यं यत् त्वम् प्रजापतिर् असि । अधि यद् अस्मिन् वाजिनीव शुभः स्पर्धन्ते दिवः सूर्येण विशो ऽपो वृणानः पवते कव्यन् पशुं न गोपा इर्यः परिज्मा ॥


7.2 प्रपाठक: 2 7.2.1 अनुवाक 1 षड्रात्रकथनम् VERSE: 1

   साध्या वै देवाः सुवर्गकामा एतम्̇ षड्रात्रम् अपश्यन् 
   तम् आहरन् 
   तेनायजन्त 
   ततो वै ते सुवर्गं लोकम् आयन् 
   य एवं विद्वाम्̇सः षड्रात्रम् आसते सुवर्गम् एव लोकं यन्ति 
   देवसत्त्रं वै षड्रात्रः 
   प्रत्यक्षम्̇ ह्य् एतानि पृष्ठानि 
   य एवं विद्वाम्̇सः षड्रात्रम् आसते साक्षाद् एव देवता अभ्यारोहन्ति 
   षड्रात्रो भवति 
   षड् वा ऋतवः 
   षट् पृष्ठानि  

VERSE: 2

   पृष्ठैर् एवर्तून् अन्वारोहन्त्य् ऋतुभिः संवत्सरम् । 
   ते संवत्सर एव प्रति तिष्ठन्ति 
   बृहद्रथंतराभ्यां यन्ति । 
   इयं वाव रथंतरम् असौ बृहत् । 
   आभ्याम् एव यन्ति । 
   अथो अनयोर् एव प्रति तिष्ठन्ति । 
   एते वै यज्ञस्याञ्जसायनी स्रुती 
   ताभ्याम् एव सुवर्गं लोकं यन्ति 
   त्रिवृद् अग्निष्टोमो भवति 
   तेज एवाव रुन्धते 
   पञ्चदशो भवति । 
   इन्द्रियम् एवाव रुन्धते 
   सप्तदशः  

VERSE: 3

   भवति । 
   अन्नाद्यस्यावरुद्ध्यै । 
   अथो प्रैव तेन जायन्ते । 
   एकविम्̇शो भवति प्रतिष्ठित्यै । 
   अथो रुचम् एवात्मन् दधते 
   त्रिणवो भवति विजित्यै 
   त्रयस्त्रिम्̇शो भवति 
   प्रतिष्ठित्यै 
   सदोहविर्धानिन एतेन षड्रात्रेण यजेरन् । 
   आश्वत्थी हविर्धानं चाग्नीध्रं च भवतस् 
   तद् धि सुवर्ग्यम् । 
   चक्रीवती भवतः 
  सुवर्गस्य लोकस्य समष्ट्यै । 
   उलूखलबुध्नो यूपो भवति 
  प्रतिष्ठित्यै 
   प्राञ्चो यान्ति 
   प्राङ् इव हि सुवर्गः  

VERSE: 4

   लोकः 
   सरस्वत्या यान्ति । 
   एष वै देवयानः पन्थास् 
   तम् एवान्वारोहन्ति । 
   आक्रोशन्तो यान्ति । 
   अवर्तिम् एवान्यस्मिन् प्रतिषज्य प्रतिष्ठां गच्छन्ति 
   यदा दश शतं कुर्वन्त्य् अथैकम् उत्थानम् । 
   शतायुः पुरुषः शतेन्द्रियः । 
   आयुष्य् एवेन्द्रिये प्रति तिष्ठन्ति 
   यदा शतम्̇ सहस्रं कुर्वन्त्य् अथैकम् उत्थानम् । 
   सहस्रसम्मितो वा असौ लोकः । 
   अमुम् एव लोकम् अभि जयन्ति 
   यदैषाम् प्रमीयेत यदा वा जीयेरन्न् अथैकम् उत्थानम् । 
   तद् धि तीर्थम् ॥ 

7.2.2 अनुवाक 2 सप्तरात्रकथनम् VERSE: 1

   कुसुरुबिन्द औद्दालकिर् अकामयत 
   पशुमान्त् स्याम् इति 
   स एतम्̇ सप्तरात्रम् आहरत् 
   तेनायजत 
   तेन वै स यावन्तो ग्राम्याः पशवस् तान् अवारुन्द्ध 
   य एवं विद्वान्त् सप्तरात्रेण यजते यावन्त एव ग्राम्याः पशवस् तान् एवाव रुन्द्धे 
   सप्तरात्रो भवति 
   सप्त ग्राम्याः पशवः सप्तारण्याः सप्त छन्दाम्̇सि । 
   उभयस्यावरुद्ध्यै 
   त्रिवृद् अग्निष्टोमो भवति 
   तेजः  

VERSE: 2

   एवाव रुन्द्धे 
   पञ्चदशो भवति । 
   इन्द्रियम् एवाव रुन्द्धे 
   सप्तदशो भवति । 
   अन्नाद्यस्यावरुद्ध्यै । 
   अथो प्रैव तेन जायते । 
   एकविम्̇शो भवति 
   प्रतिष्ठित्यै । 
   अथो रुचम् एवात्मन् धत्ते 
   त्रिणवो भवति 
   विजित्यै 
   पञ्चविम्̇शो ऽग्निष्टोमो भवति प्रजापतेर् आप्त्यै 
   महाव्रतवान् अन्नाद्यस्यावरुद्ध्यै 
   विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति 
   सर्वस्याभिजित्यै 
   यत् प्रत्यक्षम् पूर्वेष्व् अहःसु पृष्ठान्य् उपेयुः प्रत्यक्षम्  

VERSE: 3

   विश्वजिति यथा दुग्धाम् उपसीदत्य् एवम् उत्तमम् अहः स्यात् । 
   नैकरात्रश् चन स्यात् । 
   बृहद्रथन्तरे पूर्वेष्व् अहःसूप यन्ति । 
   इयं वाव रथंतरम् असौ बृहत् । 
   आभ्याम् एव न यन्त्य् अथो अनयोर् एव प्रति तिष्ठन्ति 
   यत् प्रत्यक्षं विश्वजिति पृष्ठान्य् उपयन्ति यथा प्रत्तां दुहे तादृग् एव तत् ॥ 

7.2.3 अनुवाक 3 अष्टरात्रकथनम् VERSE: 1

   बृहस्पतिर् अकामयत 
   ब्रह्मवर्चसी स्याम् इति 
   स एतम् अष्टरात्रम् अपश्यत् 
   तम् आहरत् 
   तेनायजत 
   ततो वै स ब्रह्मवर्चस्य् अभवत् । 
   य एवं विद्वान् अष्टरात्रेण यजते ब्रह्मवर्चस्य् एव भवति । 
   अष्टरात्रो भवति । 
   अष्टाक्षरा गायत्री 
   गायत्री ब्रह्मवर्चसम् । 
   गायत्रियैव ब्रह्मवर्चसम् अव रुन्द्धे । 
  अष्टरात्रो भवति 

3 चतस्रो वै दिशः । 4 चतस्रो ऽवान्तरदिशाः । 5 दिग्भ्य एव ब्रह्मवर्चसम् अव रुन्द्धे ॥

VERSE: 2

   त्रिवृद् अग्निष्टोमो भवति 
   तेज एवाव रुन्द्धे 
   पञ्चदशो भवति । 
   इन्द्रियम् एवाव रुन्द्धे 
   सप्तदशो भवत्य् अन्नाद्यस्यावरुद्ध्यै । 
   अथो प्रैव तेन जायते । 
   एकविम्̇शो भवति 
   प्रतिष्ठित्यै । 
   अथो रुचम् एवात्मन् धत्ते 
   त्रिणवो भवति 
   विजित्यै 
   त्रयस्त्रिम्̇शो भवति 
   प्रतिष्ठित्यै 
   पञ्चविम्̇शो ऽग्निष्टोमो भवति प्रजापतेर् आप्त्यै 
   महाव्रतवान् अन्नाद्यस्यावरुद्ध्यै 
   विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति 
   सर्वस्याभिजित्यै ॥ 

7.2.4 अनुवाक 4 नवरात्रकथनम् VERSE: 1

   प्रजापतिः प्रजा असृजत 
   ताः सृष्टाः क्षुधं न्य् आयन् । 
   स एतं नवरात्रम् अपश्यत् 
   तम् आहरत् 
   तेनायजत 
   ततो वै प्रजाभ्यो ऽकल्पत 
   यर्हि प्रजाः क्षुधं निगच्छेयुस् तर्हि नवरात्रेण यजेत । 
   इमे हि वा एतासां लोका अक्लृप्ता अथैताः क्षुधं नि गच्छन्ति । 
   इमान् एवाभ्यो लोकान् कल्पयति 
   तान् कल्पमानान् प्रजाभ्यो ऽनु कल्पते 
   कल्पन्ते  

VERSE: 2

   अस्मा इमे लोका ऊर्जम् प्रजासु दधाति 
   त्रिरात्रेणैवेमं लोकं कल्पयति त्रिरात्त्रेणान्तरिक्षं त्रिरात्रेणामुं लोकम् । 
   यथा गुणे गुणम् अन्वस्यत्य् एवम् एव तल् लोके लोकम् अन्व् अस्यति धृत्या अशिथिलम्भावाय 
   ज्योतिर् गौर् आयुर् इति ज्ञाता स्तोमा भवन्ति । 
   इयं वाव ज्योतिर् अन्तरिक्षं गौर् असाव् आयुः । 
   एष्व् एव लोकेषु प्रति तिष्ठन्ति 
   ज्ञात्रं प्रजानां  

VERSE: 3

   गच्छति 
   नवरात्रो भवति । 
   अभिपूर्वम् एवास्मिन् तेजो दधाति 
   यो ज्योगामयावी स्यात् स नवरात्रेण यजेत 
   प्राणा हि वा एतस्याधृताः । 
   अथैतस्य ज्योग् आमयति प्राणान् एवास्मिन् दाधार । 
   उत यदीतासुर् भवति जीवत्य् एव ॥ 

7.2.5 अनुवाक 5 दशरात्रकथनम् VERSE: 1

   प्रजापतिर् अकामयत 
   प्र जायेयेति 
   स एतं दशहोतारम् अपश्यत् 
   तम् अजुहोत् 
   तेन दशरात्रम् असृजत 
   तेन दशरात्रेण प्राजायत 
   दशरात्राय दीक्षिष्यमाणो दशहोतारं जुहुयात् । 
   दशहोत्रैव दशरात्रम्̇ सृजते 
   तेन दशरात्रेण प्र जायते 
   वैराजो वा एष यज्ञो यद् दशरात्रः । 
   य एवं विद्वान् दशरात्रेण यजते विराजम् एव गच्छति 
   प्राजापत्यो वा एष यज्ञो यद् दशरात्रः ॥ 

VERSE: 2

   य एवं विद्वान् दशरात्रेण यजते प्रैव जायते । 
   इन्द्रो वै सदृङ् देवताभिर् आसीत् 
   स न व्यावृतम् अगच्छत् 
   स प्रजापतिम् उपाधावत् 
   तस्मा एतं दशरात्रम् प्रायच्छत् 
   तम् आहरत् 
   तेनायजत 
   ततो वै सो ऽन्याभिर् देवताभिर् व्यावृतम् अगच्छत् । 
   य एवं विद्वान् दशरात्रेण यजते व्यावृतम् एव पाप्मना भ्रातृव्येण गच्छति 
  त्रिककुद् वै  

VERSE: 3

   एष यज्ञो यद् दशरात्रः 
   ककुत् पञ्चदशः ककुद् एकविम्̇शः ककुत् त्रयस्त्रिम्̇शः । 
   य एवं विद्वान् दशरात्रेण यजते त्रिककुद् एव समानानाम् भवति 
   यजमानः पञ्चदशो यजमान एकविम्̇शो यजमानस् त्रयस्त्रिम्̇शः पुर इतराः  
   अभिचर्यमाणो दशरात्रेण यजेत 
   देवपुरा एव पर्यूहते 
   तस्य न कुतश् चनोपाव्याधो भवति 
   नैनम् अभिचरन्त् स्तृणुते 
   देवासुराः संयत्ता आसन् 
   ते देवा एताः  

VERSE: 4

   देवपुरा अपश्यन् यद् दशरात्रस् 
   ताः पर्य् औहन्त 
   तेषां न कुतश् चनोपाव्याधो ऽभवत् 
   ततो देवा अभवन् पराऽसुराः । 
   यो भ्रातृव्यवान्त् स्यात् स दशरात्रेण यजेत 
   देवपुरा एव पर्यूहते 
   तस्य न कुतश् चनोपाव्याधो भवति 
   भवत्य् आत्मना परास्य भ्रातृव्यो भवति 
   स्तोम स्तोमस्योपस्तिर् भवति 
   भ्रातृव्यम् एवोपस्तिं कुरुते 
   जामि वै  

VERSE: 5

   एतत् कुर्वन्ति यज् ज्यायाम्̇सम्̇ स्तोमम् उपेत्य कनीयाम्̇सम् उपयन्ति 
   यद् अग्निष्टोमसामान्य् अवस्ताच् च परस्ताच् च भवन्त्य् अजामित्वाय 
   त्रिवृद् अग्निष्टोमो ऽग्निष्टुद् आग्नेयीषु भवति 
   तेज एवाव रुन्द्धे 
   पञ्चदश उक्थ्य ऐन्द्रीषु । 
   इन्द्रियम् एवाव रुन्द्धे 
   त्रिवृद् अग्निष्टोमो वैश्वदेवीषु 
   पुष्टिम् एवाव रुन्द्धे 
   सप्तदशो ऽग्निष्टोमः प्राजापत्यासु तीव्रसोमः । 
   अन्नाद्यस्यावरुद्ध्यै । 
   अथो प्रैव तेन जायते ॥ 

VERSE: 6

   एकविम्̇श उक्थ्यः सौरीषु प्रतिष्ठित्यै । 
   अथो रुचम् एवात्मन् धत्ते 
   सप्तदशो ऽग्निष्टोमः प्राजापत्यासूपहव्यः । 
   उपहवम् एव गच्छति 
   त्रिणवाव् अग्निष्टोमाव् अभित ऐन्द्रीषु 
   विजित्यै 
   त्रयस्त्रिम्̇श उक्थ्यो वैश्वदेवीषु 
   प्रतिष्ठित्यै 
   विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति 
   सर्वस्याभिजित्यै ॥ 

7.2.6 अनुवाक 6 एकादशरात्रकथनम् VERSE: 1

   ऋतवो वै प्रजाकामाः प्रजां नाविन्दन्त 
   ते ऽकामयन्त 
   प्रजाम्̇ सृजेमहि प्रजाम् अव रुन्धीमहि प्रजां विन्देमहि प्रजावन्तः स्यामेति 
   त एतम् एकादशरात्रम् अपश्यन् 
   तम् आहरन् 
   तेनायजन्त 
   ततो वै ते प्रजाम् असृजन्त प्रजाम् अवारुन्धत प्रजाम् अविन्दन्त प्रजावन्तो ऽभवन् 
   त ऋतवो ऽभवन् 
   तद् आर्तवानाम् आर्तवत्वम् 
   ऋतूनां वा एते पुत्रास् 
  तस्मात्  

VERSE: 2

   आर्तवा उच्यन्ते 
   य एवं विद्वाम्̇स एकादशरात्रम् आसते प्रजाम् एव सृजन्ते प्रजाम् अव रुन्धते प्रजां विन्दन्ते प्रजावन्तो भवन्ति 
   ज्योतिर् अतिरात्रो भवति 
   ज्योतिर् एव पुरस्ताद् दधते 
   सुवर्गस्य लोकस्यानुख्यात्यै 
   पृष्ठ्यः षडहो भवति 
   षड् वा ऋतवः षट् पृष्ठानि 
   पृष्ठैर् एवर्तून् अन्वारोहन्त्य् ऋतुभिः संवत्सरम् । 
   ते संवत्सर एव प्रति तिष्ठन्ति 
   चतुर्विम्̇शो भवति 
   चतुर्विम्̇शत्यक्षरा गायत्री  

VERSE: 3

   गायत्रम् ब्रह्मवर्चसम् । 
   गायत्रियाम् एव ब्रह्मवर्चसे प्रति तिष्ठन्ति 
   चतुश्चत्वारिम्̇शो भवति 
   चतुष्चत्वारिम्̇शदक्षरा  त्रिष्टुग्  
   इन्द्रियं  त्रिष्टुप्  
   त्रिष्टुभ्य् एवेन्द्रिये प्रति तिष्ठन्ति । 
   अष्टाचत्वारिम्̇शो भवति । 
   अष्टाचत्वारिम्̇शदक्षरा जगती 
   जागताः पशवः । 
   जगत्याम् एव पशुषु प्रति तिष्ठन्ति । 
   एकादशरात्रो भवति 
   पञ्च वा ऋतव आर्तवाः पञ्च । 
   ऋतुष्व् एवाऽऽर्तवेषु संवत्सरे प्रतिष्ठाय प्रजाम् अव रुन्धते । 
   अतिरात्राव् अभितो भवतः 
   प्रजायै परिगृहीत्यै ॥ 

7.2.7 अनुवाक 7 द्वादशरात्रकथनम् VERSE: 1

   ऐन्द्रवायवाग्रान् गृह्णीयाद् यः कामयेत 
   यथापूर्वम् प्रजाः कल्पेरन्न् इति 
   यज्ञस्य वै क्लृप्तिम् अनु प्रजाः कल्पन्ते यज्ञस्याक्लृप्तिम् अनु न कल्पन्ते 
   यथापूर्वम् एव प्रजाः कल्पयति 
   न ज्यायाम्̇सं कनीयान् अति क्रामति । 
   ऐन्द्रवायवाग्रान् गृह्णीयाद् आमयाविनः 
   प्राणेन वा एष व्यृध्यते यस्याऽऽमयति 
   प्राण ऐन्द्रवायवः 
   प्राणेनैवैनम्̇ सम् अर्धयति 
   मैत्रावरुणाग्रान् गृह्णीरन् येषां दीक्षितानाम् प्रमीयेत । 

VERSE: 2

   प्राणापानाभ्यां वा एते व्यृध्यन्ते येषां दीक्षितानाम् प्रमीयते 
   प्राणापानौ मित्रावरुणौ 
   प्राणापानाव् एव मुखतः परि हरन्ते । 
   आश्विनाग्रान् गृह्णीताऽऽनुजावरः । 
   अश्विनौ वै देवानाम् आनुजावरौ पश्चेवाग्रम् पर्य् ऐताम् 
   अश्विनाव् एतस्या देवता य आनुजावरस् 
   ताव् एवैनम् अग्रम् परि णयतः 
   शुक्राग्रान् गृह्णीत गतश्रीः प्रतिष्ठाकामः । 
   असौ वा आदित्यः शुक्र एषो ऽन्तः । 
   अन्तम् मनुष्यः  

VERSE: 3

   श्रियै गत्त्वा नि वर्तते । 
   अन्ताद् एवान्तम् आ रभते 
   न ततः पापीयान् भवति 
   मन्थ्यग्रान् गृह्णीताभिचरन् । 
   आर्तपात्रं वा एतद् यन् मन्थिपात्रम् 
   मृत्युनैवैनं ग्राहयति 
   ताजग् आर्तिम् आर्छति । 
   आग्रयणाग्रान् गृह्णीत यस्य पिता पितामहः पुण्यः स्याद् अथ तन् न प्राप्नुयात् । 
   वाचा वा एष इन्द्रियेण व्यृध्यते यस्य पिता पितामहः पुण्यः  

VERSE: 4

   भवत्य् अथ तन् न प्राप्नोति । 
   उर इवैतद् यज्ञस्य वाग् इव यद् आग्रयणः । 
   वाचैवैनम् इन्द्रियेण सम् अर्धयति 
   न ततः पापीयान् भवति । 
   उक्थ्याग्रान् गृह्णीताभिचर्यमाणः 
   सर्वेषां वा एतत् पात्राणाम् इन्द्रियं यद् उक्थ्यपात्रम् । 
   सर्वेणैवैनम् इन्द्रियेणाति प्र युङ्क्ते 
   सरस्वत्य् अभि नो नेषि वस्य इति पुरोरुचं कुर्यात् । 
   वाग् वै  

VERSE: 5

   सरस्वती वाचैवैनम् अति प्र युङ्क्ते 
   मा त्वत् क्षेत्राण्य् अरणानि गन्मेत्य् आह 
   मृत्योर् वै क्षेत्राण्य् अरणानि 
   तेनैव मृत्योः क्षेत्राणि न गच्छति 
   पूर्णान् ग्रहान् गृह्णीयाद् आमयाविनः 
   प्राणान् वा एतस्य शुग् ऋच्छति यस्यामयति 
   प्राणा ग्रहाः 
   प्राणान् एवास्य शुचो मुञ्चति । 
   उत यदीतासुर् भवति जीवत्य् एव 
   पूर्णान् ग्रहान् गृह्णीयाद् यर्हि पर्जन्यो न वर्षेत् 
   प्राणान् वा एतर्हि प्रजानाम्̇ शुग् ऋच्छति यर्हि पर्जन्यो न वर्षति
   प्राणा ग्रहाः 
   प्राणान् एव प्रजानाम्̇ शुचो मुञ्चति 
   ताजक् प्र वर्षति ॥ 

7.2.8 अनुवाक 8 द्वादशरात्रकथनम् VERSE: 1

   गायत्रो वा ऐन्द्रवायवः । 
   गायत्रम् प्रायणीयम् अहर् । 
   तस्मात् प्रायणीये ऽहन्न् ऐन्द्रवायवो गृह्यते 
   स्व एवैनम् आयतने गृह्णाति 
   त्रैष्टुभो वै शुक्रस् 
   त्रैष्टुभम् द्वितीयम् अहर् । 
   तस्माद् द्वितीये ऽहञ् छुक्रो गृह्यते 
   स्व एवैनम् आयतने गृह्णाति 
   जागतो वा आग्रयणः । 
   जागतं तृतीयम् अहर् । 
   तस्मात् तृतीये ऽहन्न् आग्रयणो गृह्यते 
  स्व एवैनम् आयतने गृह्णाति । 
   एतद् वै  

VERSE: 2

   यज्ञम् आपद् यच् छन्दाम्̇स्य् आप्नोति 
   यद् आग्रयणः श्वो गृह्यते यत्रैव यज्ञम् अदृशन् तत एवैनम् पुनः प्र युङ्क्ते 
   जगन्मुखो वै द्वितीयस् त्रिरात्रः । 
   जागत आग्रयणः । 
   यच् चतुर्थे ऽहन्न् आग्रयणो गृह्यते स्व एवैनम् आयतने गृह्णाति । 
   अथो स्वम् एव छन्दो ऽनु पर्यावर्तन्ते 
   राथंतरो वा ऐन्द्रवायवः । 
   राथंतरम् पञ्चमम् अहर् । 
   तस्मात् पञ्चमे ऽहन्  

VERSE: 3

   ऐन्द्रवायवो गृह्यते 
   स्व एवैनम् आयतने गृह्णाति 
   बार्हतो वै शुक्रः । 
   बार्हतम्̇ षष्ठम् अहर् । 
   तस्मात् षष्ठे ऽहञ् छुक्रो गृह्यते 
   स्व एवैनम् आयतने गृह्णाति । 
   एतद् वै द्वितीयं यज्ञम् आपद् यच् छन्दाम्̇स्य् आप्नोति 
   यच् छुक्रः श्वो गृह्यते यत्रैव यज्ञम् अदृशन् तत एवैनम् पुनः प्र युङ्क्ते 
   त्रिष्टुङ्मुखो वै तृतीयस् त्रिरात्रस् 
   त्रैष्टुभः  

VERSE: 4

   शुक्रः । 
   यत् सप्तमे ऽहञ् छुक्रो गृह्यते स्व एवैनम् आयतने गृह्णाति । 
   अथो स्वम् एव छन्दो ऽनु पर्यावर्तन्ते 
   वाग् वा आग्रयणः । 
   वाग् अष्टमम् अहर् । 
   तस्माद् अष्टमे ऽहन्न् आग्रयणो गृह्यते 
   स्व एवैनम् आयतने गृह्णाति 
   प्राणो वा ऐन्द्रवायवः 
   प्राणो नवमम् अहर् । 
   तस्मान् नवमे ऽहन्न् ऐन्द्रवायवो गृह्यते 
   स्व एवैनम् आयतने गृह्णाति । 
   एतत्  

VERSE: 5

   वै तृतीयं यज्ञम् आपद् यच् छन्दाम्̇स्य् आप्नोति 
   यद् ऐन्द्रवायवः श्वो गृह्यते यत्रैव यज्ञम् अदृशन् तत एवैनम् पुनः प्र युङ्क्ते । 
   अथो स्वम् एव छन्दो ऽनु पर्यावर्तन्ते 
   पथो वा एते ऽध्य् अपथेन यन्ति ये ऽन्येनैन्द्रवायवात् प्रतिपद्यन्ते । 
   अन्तः खलु वा एष यज्ञस्य यद् दशमम् अहर् 
   दशमे ऽहन्न् ऐन्द्रवायवो गृह्यते 
   यज्ञस्य  

VERSE: 6

   एवान्तं गत्वा पथात् पन्थाम् अपि यन्ति । 
   अथो यथा वहीयसा प्रतिसारं वहन्ति तादृग् एव तत् । 
   छन्दाम्̇स्य् अन्योऽन्यस्य लोकम् अभ्यध्यायन् 
   तान्य् एतेनैव देवा व्यवाहयन् । 
   ऐन्द्रवायवस्य वा एतद् आयतनं यच् चतुर्थम् अहर् । 
   तस्मिन्न् आग्रयणो गृह्यते 
   तस्माद् आग्रयणस्यायतने नवमे ऽहन्न् ऐन्द्रवायवो गृह्यते 
   शुक्रस्य वा एतद् आयतनं यत् पञ्चमम्  

VERSE: 7

   अहर् । 
   तस्मिन्न् ऐन्द्रवायवो गृह्यते 
   तस्माद् ऐन्द्रवायवस्याऽऽयतने सप्तमे ऽहञ् छुक्रो गृह्यते । 
   आग्रयणस्य वा एतद् आयतनं यत् षष्ठम् अहर् । 
   तस्मिञ् छुक्रो गृह्यते 
   तस्माच् छुक्रस्यायतने ऽष्टमे ऽहन्न् आग्रयणो गृह्यते 
   छन्दाम्̇स्य् एव तद् वि वाहयति 
   प्र वस्यसो विवाहम् आप्नोति य एवं वेद । 
   अथो देवताभ्य एव यज्ञे संविदं दधाति 
   तस्माद् इदम् अन्योऽन्यस्मै दधाति ॥ 

7.2.9 अनुवाक 9 द्वादशरात्रकथनम् VERSE: 1

   प्रजापतिर् अकामयत 
   प्र जायेयेति 
   स एतं द्वादशरात्रम् अपश्यत् 
   तम् आहरत् 
   तेनायजत 
   ततो वै स प्राजायत 
   यः कामयेत 
   प्र जायेयेति 
   स द्वादशरात्रेण यजेत 
   प्रैव जायते 
  ब्रह्मवादिनो वदन्ति । 
   अग्निष्टोमप्रायणा यज्ञा अथ कस्माद् अतिरात्रः पूर्वः प्र युज्यत इति 
   चक्षुषी वा एते यज्ञस्य यद् अतिरात्रौ कनीनिके अग्निष्टोमौ 
   यत्  

VERSE: 2

   अग्निष्टोमं पूर्वम् प्रयुञ्जीरन् बहिर्धा कनीनिके दध्युस् 
   तस्माद् अतिरात्रः पूर्वः प्र युज्यते 
   चक्षुषी एव यज्ञे धित्वा मध्यतः कनीनिके प्रति दधति 
   यो वै गायत्रीं ज्योतिःपक्षां वेद ज्योतिषा भासा सुवर्गं लोकम् एति 
   याव् अग्निष्टोमौ तौ पक्षौ 
   ये ऽन्तरे ऽष्टाव् उक्थ्याः स आत्मा । 
   एषा वै गायत्री ज्योतिःपक्षा 
   य एवं वेद ज्योतिषा भासा सुवर्गं लोकम्  

VERSE: 3

   एति 
   प्रजापतिर् वा एष द्वादशधा विहितो यद् द्वादशरात्रः । 
   याव् अतिरात्रौ तौ पक्षौ 
   ये ऽन्तरे ऽष्टाव् उक्थ्याः स आत्मा 
   प्रजापतिर् वावैष सन्त् सद् ध वै सत्त्रेण स्पृणोति 
   प्राणा वै सत् 
   प्राणान् एव स्पृणोति 
   सर्वासां वा एते प्रजानाम् प्राणैर् आसते ये सत्त्रम् आसते 
   तस्मात् पृच्छन्ति 
   किम् एते सत्त्रिण इति 
  प्रियः प्रजानाम् उत्थितो भवति य एवं वेद ॥ 

7.2.10 अनुवाक 10 द्वादशरात्रकथनम् VERSE: 1

   न वा एषो ऽन्यतोवैश्वानरः सुवर्गाय लोकाय प्राभवत् । 
   ऊर्ध्वो ह वा एष आतत आसीत् 
   ते देवा एतं वैश्वानरम् पर्य् औहन्त् सुवर्गस्य लोकस्य प्रभूत्यै । 
   ऋतवो वा एतेन प्रजापतिम् अयाजयन् 
   तेष्व् आर्ध्नोद् अधि तत्  
   ऋध्नोति ह वा ऋत्विक्षु य एवं विद्वान् द्वादशाहेन यजते 
   ते ऽस्मिन्न् ऐच्छन्त 
   स रसम् अह वसन्ताय प्रायच्छत्  

VERSE: 2

   यवं ग्रीष्मायौषधीर् वर्षाभ्यो व्रीहीञ् छरदे माषतिलौ हेमन्तशिशिराभ्याम् । 
   तेनेन्द्रम् प्रजापतिर् अयाजयत् 
   ततो वा इन्द्र इन्द्रो ऽभवत् 
   तस्माद् आहुः । 
   आनुजावरस्य यज्ञ इति 
   स ह्य् एतेनाग्रे ऽयजत । 
   एष ह वै कुणपम् अत्ति यः सत्त्रे प्रतिगृह्णाति पुरुषकुणपम् अश्वकुणपम् । 
   गौर् वा अन्नम् । 
   येन पात्रेणान्नम् बिभ्रति यत् तन् न निर्णेनिजति ततो ऽधि  

VERSE: 3

   मलं जायते । 
   एक एव यजेत । 
   एको हि प्रजापतिर् आर्ध्नोत् । 
   द्वादश रात्रीर् दीक्षितः स्यात् । 
   द्वादश मासाः संवत्सरः 
   संवत्सरः प्रजापतिः 
   प्रजापतिर्  वावैष  
   एष ह त्वै जायते यस् तपसो ऽधि जायते 
   चतुर्धा वा एतास् तिस्रस्तिस्रो रात्रयो यद् द्वादशोपसदः । 
   याः प्रथमा यज्ञं ताभिः सम् भरति 
   या द्वितीया यज्ञं ताभिर् आ रभते  

VERSE: 4

   यास् तृतीयाः पात्राणि ताभिर् निर्णेनिक्ते 
   याश् चतुर्थीर् अपि ताभिर् आत्मानम् अन्तरतः शुन्धते 
   यो वा अस्य पशुम् अत्ति माम्̇सम्̇ सो ऽत्ति 
   यः पुरोडाशम् मस्तिष्कम्̇  स
   यः परिवापम् पुरीषम्̇  स  
   य आज्यम् मज्जानम्̇  स 
   यः सोमम्̇ स्वेदम्̇ सः । 
   अपि ह वा अस्य शीर्षण्या निष्पदः प्रति गृह्णाति यो द्वादशाहे प्रतिगृह्णाति 
   तस्माद् द्वादशाहेन न याज्यम् पाप्मनो व्यावृत्त्यै ॥ 

7.2.11 अनुवाक 11 अश्वमेधमन्त्रकथनम् VERSE: 1

   एकस्मै स्वाहा 
   द्वाभ्याम्̇ स्वाहा 
   त्रिभ्यः स्वाहा 
   चतुर्भ्यः स्वाहा 
   पञ्चभ्यः स्वाहा 
   षड्भ्यः स्वाहा 
   सप्तभ्यः स्वाहा । 
   अष्टाभ्यः स्वाहा 
   नवभ्यः स्वाहा 
   दशभ्यः स्वाहा । 
   एकादशभ्यः स्वाहा 
  द्वादशभ्यः स्वाहा 
   त्रयोदशभ्यः स्वाहा 
  चतुर्दशभ्यः स्वाहा 
  पञ्चदशभ्यः स्वाहा 
   षोडशभ्यः स्वाहा 
  सप्तदशभ्यः स्वाहा । 
   अष्टादशभ्यः स्वाहा । 
  एकान्न विम्̇शत्यै स्वाहा 
   नवविम्̇शत्यै स्वाहा । 
  एकान्न चत्वारिम्̇शते स्वाहा 
   नवचत्वारिम्̇शते स्वाहा । 
   एकान्न षष्ट्यै स्वाहा 
   नवषष्ट्यै स्वाहा । 
   एकान्नाशीत्यै स्वाहा 
   नवाशीत्यै स्वाहा । 
   एकान्न शताय स्वाहा 
   शताय स्वाहा 
  द्वाभ्याम्̇ शताभ्याम्̇ स्वाहा 
   सर्वस्मै स्वाहा ॥ 

7.2.12 अनुवाक 12 अश्वमेधगतमन्त्रकथनम् VERSE: 1

   एकस्मै स्वाहा 
   त्रिभ्यः स्वाहा 
   पञ्चभ्यः स्वाहा 
   सप्तभ्यः स्वाहा 
   नवभ्यः स्वाहा । 
   एकादशभ्यः स्वाहा 
   त्रयोदशभ्यः स्वाहा 
   पञ्चदशभ्यः स्वाहा 
   सप्तदशभ्यः स्वाहा । 
   एकान्न विम्̇शत्यै स्वाहा 
   नवविम्̇शत्यै स्वाहा । 
   एकान्न चत्वारिम्̇शते स्वाहा 
   नवचत्वारिम्̇शते स्वाहा । 
   एकान्न षष्ट्यै स्वाहा 
   नवषष्ट्यै स्वाहा । 
   एकान्नाशीत्यै स्वाहा 
   नवाशीत्यै स्वाहा । 
   एकान्न शताय स्वाहा 
   शताय स्वाहा 
  सर्वस्मै स्वाहा ॥ 

7.2.13 अनुवाक 13 अश्वमेधगतमन्त्रकथनम् VERSE: 1

   द्वाभ्याम्̇ स्वाहा 
   चतुर्भ्यः स्वाहा 
   षड्भ्यः स्वाहा । 
   अष्टाभ्यः स्वाहा 
   दशभ्यः स्वाहा 
   द्वादशभ्यः स्वाहा 
   चतुर्दशभ्यः स्वाहा 
   षोडशभ्यः स्वाहा । 
   अष्टादशभ्यः स्वाहा 
   विम्̇शत्यै स्वाहा । 
  अष्टानवत्यै स्वाहा 
  शताय स्वाहा 
  सर्वस्मै स्वाहा ॥ 

7.2.14 अनुवाक 14 अश्वमेधगतमन्त्रकथनम् VERSE: 1

   त्रिभ्यः स्वाहा 
   पञ्चभ्यः स्वाहा 
   सप्तभ्यः स्वाहा 
   नवभ्यः स्वाहा । 
   एकादशभ्यः स्वाहा 
   त्रयोदशभ्यः स्वाहा 
   पञ्चदशभ्यः स्वाहा 
   सप्तदशभ्यः स्वाहा । 
   एकान्न विम्̇शत्यै स्वाहा 
   नवविम्̇शत्यै स्वाहा । 
   एकान्न चत्वारिम्̇शते स्वाहा 
   नवचत्वारिम्̇शते स्वाहा । 
   एकान्न षष्ट्यै स्वाहा 
  नवषष्ट्यै स्वाहा । 
   एकान्नाशीत्यै स्वाहा 
   नवाशीत्यै स्वाहा । 
   एकान्न शताय स्वाहा 
   शताय स्वाहा 
   सर्वस्मै स्वाहा ॥ 

7.2.15 अनुवाक 15 अश्वमेधगतमन्त्रकथनम् VERSE: 1

   चतुर्भ्यः स्वाहा । 
   अष्टाभ्यः स्वाहा 
   द्वादशभ्यः स्वाहा 
   षोडशभ्यः स्वाहा 
   विम्̇शत्यै स्वाहा 
   षण्णवत्यै स्वाहा 
   शताय स्वाहा 
   सर्वस्मै स्वाहा ॥ 

7.2.16 अनुवाक 16 अश्वमेधगतमन्त्रकथनम् VERSE: 1

   पञ्चभ्यः स्वाहा 
   दशभ्यः स्वाहा 
   पञ्चदशभ्यः स्वाहा 
   विम्̇शत्यै स्वाहा 
   पञ्चनवत्यै स्वाहा 
   शताय स्वाहा 
   सर्वस्मै स्वाहा ॥ 

7.2.17 अनुवाक 17 अश्वमेधगतमन्त्रकथनम् VERSE: 1

   दशभ्यः स्वाहा 
   विम्̇शत्यै स्वाहा 
   त्रिम्̇शते स्वाहा 
   चत्वारिम्̇शते स्वाहा 
   पञ्चाशते स्वाहा 
   षष्ट्यै स्वाहा 
   सप्तत्यै स्वाहा । 
   अशीत्यै स्वाहा 
   नवत्यै स्वाहा 
   शताय स्वाहा 
   सर्वस्मै स्वाहा ॥ 

7.2.18 अनुवाक 18 अश्वमेधगतमन्त्रकथनम् VERSE: 1

   विम्̇शत्यै स्वाहा 
   चत्वारिम्̇शते स्वाहा 
   षष्ट्यै स्वाहा । 
   अशीत्यै स्वाहा 
   शताय स्वाहा 
   सर्वस्मै स्वाहा ॥ 

7.2.19अनुवाक 19 अश्वमेधगतमन्त्रकथनम् VERSE: 1

   पञ्चाशते स्वाहा 
   शताय स्वाहा 
   द्वाभ्याम्̇ शताभ्याम्̇ स्वाहा 
   त्रिभ्यः शतेभ्यः स्वाहा 
   चतुर्भ्यः शतेभ्यः स्वाहा 
   पञ्चभ्यः शतेभ्यः स्वाहा 
   षड्भ्यः शतेभ्यः स्वाहा 
   सप्तभ्यः शतेभ्यः स्वाहा । 
   अष्टाभ्यः शतेभ्यः स्वाहा 
   नवभ्यः शतेभ्यः स्वाहा 
   सहस्राय स्वाहा 
   सर्वस्मै स्वाहा ॥ 

7.2.20 अनुवाक 20 अश्वमेधगतमन्त्रकथनम् VERSE: 1

   शताय स्वाहा 
   सहस्राय स्वाहा । 
   अयुताय स्वाहा 
   नियुताय स्वाहा 
   प्रयुताय स्वाहा । 
   अर्बुदाय स्वाहा 
   न्यर्बुदाय स्वाहा 
   समुद्राय स्वाहा 
   मध्याय स्वाहा । 
   अन्ताय स्वाहा 
   परार्धाय स्वाहा । 
  उषसे स्वाहा 
  व्युष्ट्यै स्वाहा । 
   उदेष्यते स्वाहा । 
   उद्यते स्वाहा । 
  उदिताय स्वाहा 
  सुवर्गाय स्वाहा 
  लोकाय स्वाहा 
   सर्वस्मै स्वाहा ॥ 


7.3 प्रपाठक: 3 7.3.1 अनुवाक 1 पूर्वोक्तद्वादशाहशेष विशेषकथनम् VERSE: 1

   प्रजवं वा एतेन यन्ति यद् दशमम् अहर् । 
   पापावहीयं वा एतेन भवन्ति यद् दशमम् अहर् 
   यो वै प्रजवं यताम् अपथेन प्रतिपद्यते य स्थाणुम्̇ हन्ति यो भ्रेषं न्येति स हीयते 
   स यो वै दशमे ऽहन्न् अविवाक्य उपहन्यते स हीयते 
   तस्मै य उपहताय व्याह तम् एवान्वारभ्य सम् अश्नुते । 
   अथ यो व्याह सः  

VERSE: 2

   हीयते 
   तस्माद् दशमे ऽहन्न् अविवाक्य उपहताय न व्युच्यम् 
   अथो खल्व् आहुर् 
   यज्ञस्य वै समृद्धेन देवाः सुवर्गं लोकम् आयन् यज्ञस्य व्यृद्धेनासुरान् पराऽभावयन्न् इति 
   यत् खलु वै यज्ञस्य समृद्धं तद् यजमानस्य यद् व्यृद्धं तद् भ्रातृव्यस्य 
   स यो वै दशमे ऽहन्न् अविवाक्य उपहन्यते स एवाति रेचयति 
   ते ये बाह्या दृशीकवः  

VERSE: 3

   स्युस् ते वि ब्रूयुः । 
   यदि तत्र न विन्देयुर् अन्तःसदसाद् व्युच्यम् । 
   तद् व्युच्यम् एव । 
   अथ वा एतत् सर्पराज्ञिया ऋग्भिः स्तुवन्ति । 
   इयं वै सर्पतो राज्ञी 
   यद् वा अस्यां किं चार्चन्ति यद् आनृचुस् तेनेयम्̇ सर्पराज्ञी
   ते यद् एव किं च वाचाऽऽनृचुर् यद् अतो ऽध्य् अर्चितारः  

VERSE: 4

   तद् उभयम् आप्त्वाऽवरुध्योत् तिष्ठामेति 
   ताभिर् मनसा स्तुवते 
   न वा इमाम् अश्वरथो नाश्वतरीरथः सद्यः पर्याप्तुम् अर्हति 
   मनो वा इमाम्̇ सद्यः पर्याप्तुम् अर्हति मनः परिभवितुम् 
   अथ ब्रह्म वदन्ति 
   परिमिता वा ऋचः परिमितानि सामानि परिमितानि यजूम्̇ष्य् अथैतस्यैवान्तो नास्ति यद् ब्रह्म 
   तत् प्रतिगृणत आ चक्षीत 
   स प्रतिगरः ॥ 

अनुवाक 2 अहीनद्वादशाहकथनम् VERSE: 1

   ब्रह्मवादिनो वदन्ति 
   किं द्वादशाहस्य प्रथमेनाह्नर्त्विजां यजमानो वृङ्क्त इति 
   तेज इन्द्रियम् इति 
   किं द्वितीयेनेति 
   प्राणान् अन्नाद्यम् इति 
   किं तृतीयेनेति 
   त्रीन् इमाँल्लोकान् इति 
   किं चतुर्थेनेति 
   चतुष्पदः पशून् इति 
   किम् पञ्चमेनेति 
   पञ्चाक्षराम् पङ्क्तिम् इति 
  किम्̇ षष्ठेनेति 
  षड् ऋतून् इति 
  किम्̇ सप्तमेनेति 
  सप्तपदाम्̇ शक्वरीम् इति 

VERSE: 2

   किम् अष्टमेनेति । 
   अष्टाक्षरां गायत्रीम् इति 
   किं नवमेनेति 
   त्रिवृतम्̇ स्तोमम् इति 
   किं दशमेनेति 
   दशाक्षरां विराजम् इति 
   किम् एकादशेनेति । 
   एकादशाक्षरां त्रिष्टुभम् इति 
   किं द्वादशेनेति 
   द्वादशाक्षरां जगतीम् इति । 
  एतावद् वा अस्ति यावद् एतत् । 
   यावद् एवास्ति तद् एषां वृङ्क्ते ॥ 

7.3.3 अनुवाक 3 त्रयोदशरात्रकथनम् VERSE: 1

   एष वा आप्तो द्वादशाहो यत् त्रयोदशरात्रः 
   समानम्̇ ह्य् एतद् अहर् यत् प्रायणीयश् चोदयनीयश् च 
   त्र्यतिरात्रो भवति 
   त्रय इमे लोकाः । 
   एषां लोकानाम् आप्त्यै 
   प्राणो वै प्रथमो ऽतिरात्रो व्यानो द्वितीयो ऽपानस् तृतीयः 
   प्राणापानोदानेष्व् एवान्नाद्ये प्रति तिष्ठन्ति सर्वम् आयुर् यन्ति य एवं विद्वाम्̇सस् त्रयोदशरात्रम् आसते 
   तद् आहुः । 
   वाग् वा एषा वितता  

VERSE: 2

   यद् द्वादशाहस् 
   तां वि छिन्द्युर् यन् मध्ये ऽतिरात्रं कुर्युर् उपदासुका गृहपतेर् वाक् स्यात् । 
   उपरिष्टाच् छन्दोमानाम् महाव्रतं कुर्वन्ति संतताम् एव वाचम् अव रुन्द्धे ऽनुपदासुका गृहपतेर् वाग् भवति 
   पशवो वै छन्दोमा अन्नम् महाव्रतम् । 
   यद् उपरिष्टाच् छन्दोमानाम् महाव्रतं कुर्वन्ति पशुषु चैवान्नाद्ये च प्रति तिष्ठन्ति ॥ 

7.3.4 अनुवाक 4 चतुर्दशरात्रकथनम् VERSE: 1

   आदित्या अकामयन्त । 
   उभयोर् लोकयोर् ऋध्नुयामेति 
   त एतं चतुर्दशरात्रम् अपश्यन् 
   तम् आहरन् 
   तेनायजन्त 
   ततो वै त उभयोर् लोकयोर् आर्ध्नुवन्न् अस्मिम्̇श् चामुष्मिम्̇श् च 
   य एवं विद्वाम्̇सश् चतुर्दशरात्रम् आसत उभयोर् एव लोकयोर् ऋध्नुवन्त्य् अस्मिम्̇श् चामुष्मिम्̇श् च 
   चतुर्दशरात्रो भवति 
   सप्त ग्राम्या ओषधयः सप्तारण्या उभयीषाम् अवरुद्ध्यै 
   यत् पराचीनानि पृष्ठानि  

VERSE: 2

   भवन्त्य् अमुम् एव तैर् लोकम् अभि जयन्ति 
   यत् प्रतीचीनानि पृष्ठानि भवन्तीमम् एव तैर् लोकम् अभि जयन्ति 
   त्रयस्त्रिम्̇शौ मध्यत स्तोमौ भवतः साम्राज्यम् एव गच्छन्ति । 
   अधिराजौ भवतो ऽधिराजा एव समानानाम् भवन्ति । 
   अतिरात्रावभितो भवतः 
   परिगृहीत्यै ॥ 

7.3.5 अनुवाक 5 अन्यच्चतुर्दशरात्रकथनम् VERSE: 1

   प्रजापतिः सुवर्गं लोकम् ऐत् 
   तं देवा अन्व् आयन् 
   तान् आदित्याश् च पशवश् चान्वायन् 
   ते देवा अब्रुवन् 
   यान् पशून् उपाजीविष्म त इमे ऽन्वाग्मन्न् इति 
   तेभ्य एतं चतुर्दशरात्रम् प्रत्य् औहन् 
   त आदित्याः पृष्ठैः सुवर्गं लोकम् आरोहन् त्र्यहाभ्याम् अस्मिम्̐ लोके पशून् प्रत्य् औहन् 
   पृष्ठैर् आदित्या अमुष्मिम्̐ लोक आर्ध्नुवन् त्र्यहाभ्याम् अस्मिन्  

VERSE: 2

   लोके पशवः । 
   य एवं विद्वाम्̇सश् चतुर्दशरात्रम् आसत उभयोर् एव लोकयोर् ऋध्नुवन्त्य् अस्मिम्̇श् चामुष्मिम्̇श् च 
   पृष्ठैर् एवामुष्मिम्̐ लोक ऋध्नुवन्ति त्र्यहाभ्याम् अस्मिम्̐ लोके 
   ज्योतिर् गौर् आयुर् इति त्र्यहो भवति । 
   इयं वाव ज्योतिर् अन्तरिक्षं गौर् असाव् आयुः । 
   इमान् एव लोकान् अभ्यारोहन्ति 
   यद् अन्यतः पृष्ठानि स्युर् विविवधम्̇ स्यात् । 
   मध्ये पृष्ठानि भवन्ति सविवधत्वाय ॥ 

VERSE: 3

   ओजो वै वीर्यम् पृष्ठानि । 
   ओज एव वीर्यम् मध्यतो दधते 
   बृहद्रथंतराभ्यां यन्ति । 
   इयं वाव रथंतरम् असौ बृहत् । 
   आभ्याम् एव यन्ति । 
   अथो अनयोर् एव प्रति तिष्ठन्ति । 
   एते वै यज्ञस्याञ्जसायनी स्रुती 
   ताभ्याम् एव सुवर्गं लोकं यन्ति 
   पराञ्चो वा एते सुवर्गं लोकम् अभ्यारोहन्ति ये पराचीनानि पृष्ठान्य् उपयन्ति 
   प्रत्यञ् त्र्यहो भवति प्रत्यवरूढ्या अथो प्रतिष्ठित्यै । 
   उभयोर् लोकयोर् ऋद्ध्वोत् तिष्ठन्ति 
   चतुर्दशैताः । 
   तासां या दश दशाक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्धते 
   याश् चतस्रश् चतस्रो दिशो दिक्ष्व् एव प्रति तिष्ठन्ति । 
   अतिरात्राव् अभितो भवतः परिगृहीत्यै ॥ 

7.3.6 अनुवाक 6 पञ्चदशरात्रकथनम् VERSE: 1

   इन्द्रो वै सदृङ् देवताभिर् आसीत् 
   स न व्यावृतम् अगच्छत् 
   स प्रजापतिम् उपाधावत् 
   तस्मा एतम् पञ्चदशरात्रम् प्रायच्छत् 
   तम् आहरत् 
   तेनायजत 
   ततो वै सो ऽन्याभिर् देवताभिर् व्यावृतम् अगच्छत् । 
   य एवं विद्वाम्̇सः पञ्चदशरात्रम् आसते व्यावृतम् एव पाप्मना भ्रातृव्येण गच्छन्ति 
   ज्योतिर् गौर् आयुर् इति त्र्यहो भवति । 
   इयं वाव ज्योतिर् अन्तरिक्षम्  

VERSE: 2

   गौर् असाव् आयुः । 
   एष्व् एव लोकेषु प्रति तिष्ठन्ति । 
   असत्त्रं वा एतद् यद् अच्छन्दोमम् । 
   यच् छन्दोमा भवन्ति तेन सत्त्रम् । 
   देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः । 
   ओजस्य् एव वीर्ये पशुषु प्रति तिष्ठन्ति 
   पञ्चदशरात्रो भवति 
   पञ्चदशो वज्रः । 
   वज्रम् एव भ्रातृव्येभ्यः प्र हरन्ति । 
   अतिरात्राव् अभितो भवतः । 
   इन्द्रियस्य परिगृहीत्यै ॥ 

7.3.7 अनुवाक 7 द्वितीयपञ्चदशरात्रकथनम् VERSE: 1

   इन्द्रो वै शिथिल इवाप्रतिष्ठित आसीत् 
   सो ऽसुरेभ्यो ऽबिभेत् 
   स प्रजापतिम् उपाधावत् 
   तस्मा एतम् पञ्चदशरात्रं वज्रम् प्रायच्छत् 
   तेनासुरान् पराभाव्य विजित्य श्रियम् अगच्छत् । 
   अग्निष्टुता पाप्मानं निर् अदहत पञ्चदशरात्रेणौजो बलम् इन्द्रियं वीर्यम् आत्मन्न् अधत्त 
   य एवं विद्वाम्̇सः पञ्चदशरात्रम् आसते भ्रातृव्यान् एव पराभाव्य विजित्य श्रियं गच्छन्ति । 
   अग्निष्टुता पाप्मानं निः  

VERSE: 2

   दहन्ते पञ्चदशरात्रेणौजो बलम् इन्द्रियं वीर्यम् आत्मन् दधते । 
   एता एव पशव्याः 
   पञ्चदश वा अर्धमासस्य रात्रयः । 
   अर्धमासशः संवत्सर आप्यते 
   संवत्सरम् पशवो ऽनु प्र जायन्ते 
   तस्मात् पशव्याः । 
   एता एव सुवर्ग्याः 
   पञ्चदश वा अर्धमासस्य रात्रयः । 
   अर्धमासशः संवत्सर आप्यते 
   संवत्सरः सुवर्गो लोकस् 
   तस्माद् सुवर्ग्याः । 
  ज्योतिर् गौर् आयुर् इति त्र्यहो भवति । 
   इयं वाव ज्योतिर् अन्तरिक्षम्  

VERSE: 3

   गौर् असाव् आयुः । 
   इमान् एव लोकान् अभ्यारोहन्ति 
   यद् अन्यतः पृष्ठानि स्युर् विविवधम्̇ स्यात् । 
   मध्ये पृष्ठानि भवन्ति सविवधत्वाय । 
   ओजो वै वीर्यम् पृष्ठानि । 
   ओज एव वीर्यम् मध्यतो दधते 
   बृहद्रथंतराभ्यां यन्ति । 
   इयं वाव रथंतरम् असौ बृहत् । 
   आभ्याम् एव यन्ति । 
   अथो अनयोर् एव प्रति तिष्ठन्ति । 
   एते वै यज्ञस्याञ्जसायनी स्रुती 
   ताभ्याम् एव सुवर्गं लोकम्  

VERSE: 4

   यन्ति 
   पराञ्चो वा एते सुवर्गं लोकम् अभ्यारोहन्ति ये पराचीनानि पृष्ठान्य् उपयन्ति 
   प्रत्यञ् त्र्यहो भवति प्रत्यवरूढ्या अथो प्रतिष्ठित्यै । 
   उभयोर् लोकयोर् ऋद्ध्वोत् तिष्ठन्ति 
   पञ्चदशैतास् 
   तासां या दश दशाक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्धते 
   याः पञ्च पञ्च दिशः दिक्ष्व् एव प्रति तिष्ठन्ति । 
   अतिरात्राव् अभितो भवतः । 
   इन्द्रियस्य वीर्यस्य प्रजायै पशूनाम् परिगृहीत्यै ॥ 

7.3.8 अनुवाक 8 सप्तदशरात्रकथनम् VERSE: 1

   प्रजापतिर् अकामयत । 
   अन्नादः स्याम् इति 
   स एतम्̇ सप्तदशरात्रम् अपश्यत् 
   तम् आहरत् 
   तेनायजत 
   ततो वै सो ऽन्नादो ऽभवत् । 
   य एवं विद्वाम्̇सः सप्तदशरात्रम् आसते ऽन्नादा एव भवन्ति 
   पञ्चाहो भवति 
   पञ्च वा ऋतवः संवत्सरः । 
  ऋतुष्व् एव संवत्सरे प्रति तिष्ठन्ति । 
  अथो पञ्चाक्षरा पङ्क्तिः 
   पाङ्क्तो यज्ञः । 
  यज्ञम् एवाव रुन्धते । 
   असत्त्रं वा एतत्  

VERSE: 2

   यद् अच्छन्दोमम् । 
   यच् छन्दोमा भवन्ति तेन सत्त्रम् । 
   देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः । 
   ओजस्य् एव वीर्ये पशुषु प्रति तिष्ठन्ति 
   सप्तदशरात्रो भवति 
   सप्तदशः प्रजापतिः 
   प्रजापतेर् आप्त्यै । 
   अतिरात्राव् अभितो भवतः । 
   अन्नाद्यस्य परिगृहीत्यै ॥ 

7.3.9 अनुवाक 9 विंशतिरात्रकथनम् VERSE: 1

   सा विराड् विक्रम्यातिष्ठद् ब्रह्मणा देवेष्व् अन्नेनासुरेषु 
   ते देवा अकामयन्त । 
   उभयम्̇ सं वृञ्जीमहि ब्रह्म चान्नं चेति 
   त एता विम्̇शतिम्̇ रात्रीर् अपश्यन् 
   ततो वै त उभयम्̇ सम् अवृञ्जत ब्रह्म चान्नं च ब्रह्मवर्चसिनो ऽन्नादा अभवन् 
   य एवं विद्वाम्̇स एता आसत उभयम् एव सं वृञ्जते ब्रह्म चान्नं च । 

VERSE: 2

   ब्रह्मवर्चसिनो ऽन्नादा भवन्ति 
   द्वे वा एते विराजौ 
   तयोर् एव नाना प्रति तिष्ठन्ति 
   विम्̇शो वै पुरुषो दश हस्त्या अङ्गुलयो दश पद्याः । 
   यावान् एव पुरुषस् तम् आप्त्वोत् तिष्ठन्ति 
   ज्योतिर् गौर् आयुर् इति त्र्यहा भवन्ति । 
   इयं वाव ज्योतिर् अन्तरिक्षं गौर् असाव् आयुः । 
   इमान् एव लोकान् अभ्यारोहन्ति । 
   अभिपूर्वं त्र्यहा भवन्ति । 
   अभिपूर्वम् एव सुवर्गम्  

VERSE: 3

   लोकम् अभ्यारोहन्ति 
   यद् अन्यतः पृष्ठानि 
   मध्ये पृष्ठानि भवन्ति सविवधत्वाय ॥ 
   ओजो वै वीर्यम् पृष्ठानि । 
   ओज एव वीर्यम् मध्यतो दधते 
   बृहद्रथंतराभ्यां यन्ति । 
   इयं वाव रथंतरम् असौ बृहत् । 
   आभ्याम् एव यन्ति । 
   अथो अनयोर् एव प्रति तिष्ठन्ति । 
   एते वै यज्ञस्याञ्जसायनी स्रुती 
   ताभ्याम् एव सुवर्गं लोकं यन्ति 
  पराञ्चो वा एते सुवर्गं लोकम् अभ्यारोहन्ति ये पराचीनानि पृष्ठान्य् उपयन्ति 
   प्रत्यञ् त्र्यहो भवति प्रत्यवरूढ्या अथो प्रतिष्ठित्यै । 
   उभयोर् लोकयोर् ऋद्ध्वोत् तिष्ठन्ति । 
   अतिरात्राव् अभितो भवतः । 
  ब्रह्मवर्चसस्यान्नाद्यस्य परि गृहीत्यै ॥ 

7.3.10 अनुवाक 10 एकविंशतिरात्रकथनम् VERSE: 1

   असाव आदित्यो ऽस्मिम्̐ लोक आसीत् 
   तं देवाः पृष्ठैः परिगृह्य सुवर्गं लोकम् अगमयन् 
   परैर् अवस्तात् पर्य् अगृह्णन् दिवाकीर्त्येन सुवर्गे लोके प्रत्य् अस्थापयन् 
   परैः परस्तात् पर्य् अगृह्णन् पृष्ठैर् उपावारोहन् । 
   स वा असाव् आदित्यो ऽमुष्मिम्̐ लोके परैर् उभयतः परिगृहीतः । 
   यत् पृष्ठानि भवन्ति सुवर्गम् एव तैर् लोकं यजमाना यन्ति 
   परैर् अवस्तात् परि गृह्णन्ति दिवाकीर्त्येन 

VERSE: 2

   सुवर्गे लोके प्रति तिष्ठन्ति 
   परैः परस्तात् परि गृह्णन्ति पृष्ठैर् उपावरोहन्ति 
   यत् परे परस्तान् न स्युः पराञ्चः सुवर्गाल् लोकान् निष्पद्येरन् 
   यद् अवस्तान् न स्युः प्रजा निर् दहेयुः । 
   अभितो दिवाकीर्त्यम् परःसामानो भवन्ति 
   सुवर्ग एवैनाम्̐ लोक उभयतः परि गृह्णन्ति 
   यजमाना वै दिवाकीर्त्यम् । 
   संवत्सरः परःसामानः । 
   अभितो दिवाकीर्त्यम् परःसामानो भवन्ति 
   संवत्सर एवोभयतः  

VERSE: 3

   प्रति तिष्ठन्ति 
   पृष्ठं वै दिवाकीर्त्यम् पार्श्वे परःसामानः । 
   अभितो दिवाकीर्त्यम् परःसामानो भवन्ति 
   तस्मादभितः पृष्ठम् पार्श्वे 
   भूयिष्ठा ग्रहा गृह्यन्ते 
   भूयिष्ठम्̇ शस्यते 
   यज्ञस्यैव तन् मध्यतो ग्रन्थिं ग्रथ्नन्त्य् अविस्रम्̇साय 
   सप्त गृह्यन्ते 
   सप्त वै शीर्षण्याः प्राणाः 
   प्राणान् एव यजमानेषु दधति 
   यत् पराचीनानि पृष्ठानि भवन्त्य् अमुम् एव तैर् लोकम् अभ्यारोहन्ति 
   यद् इमं लोकं न  

VERSE: 4

   प्रत्यवरोहेयुर् उद् वा माद्येयुर् यजमानाः प्र वा मीयेरन् 
   यत् प्रतीचीनानि पृष्ठानि भवन्ति । 
   इमम् एव तैर् लोकम् प्रत्यवरोहन्ति । 
   अथो अस्मिन्न् एव लोके प्रति तिष्ठन्त्य् अनुन्मादाय । 
   इन्द्रो वा अप्रतिष्ठित आसीत् 
   स प्रजापतिम् उपाधावत् 
   तस्मा एतम् एकविम्̇शतिरात्रम् प्रायच्छत् 
   तम् आहरत् 
   तेनायजत 
   ततो वै स प्रत्य् अतिष्ठत् । 
   ये बहुयाजिनो ऽप्रतिष्ठिताः  

VERSE: 5

   स्युस् त एकविम्̇शतिरात्रम् आसीरन् 
   द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्य एकविम्̇शः । 
   एतावन्तो वै देवलोकास् 
   तेष्व् एव यथापूर्वम् प्रति तिष्ठन्ति । 
   असाव् आदित्यो न व्यरोचत 
   स प्रजापतिम् उपाधावत् 
   तस्मा एतम् एकविम्̇शति रात्रम् प्रायच्छत् 
   तम् आहरत् 
   तेनायजत 
  ततो वै सो ऽरोचत 
   य एवं विद्वाम्̇स एकविम्̇शतिरात्रम् आसते रोचन्त एव । 
   एकविम्̇शतिरात्रो भवति 
   रुग् वा एकविम्̇शः । 
  रुचम् एव गच्छन्त्य् अथो प्रतिष्ठाम् एव 
   प्रतिष्ठा ह्य् एकविम्̇शः । 
   अतिरात्राव् अभितो भवतो ब्रह्मवर्चसस्य परिगृहीत्यै ॥ 

7.3.11 अनुवाक 11 अश्वमेधगतमन्त्रकथनम् VERSE: 1 अर्वाङ् यज्ञः सं क्रामत्व् अमुष्माद् अधि माम् अभि । ऋषीणां यः पुरोहितः । निर्देवं निर्वीरं कृत्वा विष्कन्धं तस्मिन् हीयतां यो ऽस्मान् द्वेष्टि शरीरं यज्ञशमलं कुसीदं तस्मिन्त् सीदतु यो ऽस्मान् द्वेष्टि । यज्ञ यज्ञस्य यत् तेजस् तेन सं क्राममाम् अभि । ब्राह्मणान् ऋत्विजो देवान् यज्ञस्य तपसा ते सवाहम् आ हुवे । इष्टेन पक्व प

VERSE: 2

   ते हुवे सवाहम् । सं ते वृञ्जे सुकृतम्̇ सम् प्रजाम् पशून् । 

प्रैषान्त् सामिधेनीर् आघाराव् आज्यभागाव् आश्रुतम् प्रत्याश्रुतम् आ शृणामि ते । प्रयाजानूयाजान्त् स्विष्टकृतम् इडाम् आशिष आ वृञ्जे सुवः । अग्निनेन्द्रेण सोमेन सरस्वत्या विष्णुना देवताभिः । याज्यानुवाक्याभ्याम् उप ते हुवे सवाहं यज्ञम् आ ददे ते वषट्कृतम् । स्तुतम्̇ शस्त्रम् प्रतिगरं ग्रहम् इडाम् आशिषः ।

VERSE: 3

   आ वृञ्जे सुवः । पत्नीसंयाजान् उप ते हुवे सवाहम्̇ समिष्टयजुर् आ ददे तव ॥ 

पशून्त् सुतम् पुरोडाशान्त् सवनान्य् ओत यज्ञम् । देवान्त् सेन्द्रान् उप ते हुवे सवाहम् अग्निमुखान्त् सोमवतो ये च विश्वे ॥

7.3.12 अनुवाक 12 अश्वमेधगतमन्त्रकथनम् VERSE: 1

   भूतम् भव्यम् भविष्यद् वषट् स्वाहा नमः । 
   ऋक् साम यजुर् वषट् स्वाहा नमः । 
   गायत्री त्रिष्टुब् जगती वषट् स्वाहा नमः 
   पृथिव्यन्तरिक्षं द्यौर् वषट् स्वाहा नमः । 
   अग्निर् वायुः सूर्यो वषट् स्वाहा नमः 
   प्राणो व्यानो ऽपानो वषट् स्वाहा नमः । 
   अन्नं कृषिर् वृष्टिर् वषट् स्वाहा नमः 
   पिता पुत्रः पौत्रो वषट् स्वाहा नमः । 
   भूर् भुवः सुवर् वषट् स्वाहा नमः ॥ 

7.3.13 अनुवाक 13 अश्वमेधगतमन्त्रकथनम् VERSE: 1 आ मे गृहा भवन्त्व् आ प्रजा म आ मा यज्ञो विशतु वीर्यावान् । आपो देवीर् यज्ञिया मा विशन्तु सहस्रस्य मा भूमा मा प्र हासीत् । आ मे ग्रहो भवत्व् आ पुरोरुक् स्तुतशस्त्रे मा विशताम्̇ समीची । आदित्या रुद्रा वसवो मे सदस्याः सहस्रस्य मा भूमा मा प्र हासीत् । आ माग्निष्टोमो विशतूक्थ्यश् चातिरात्रो मा विशत्व् आपिशर्वरः । तिरोअह्निया मा सुहुता आ विशन्तु सहस्रस्य मा भूमा मा प्र हासीत् ॥

7.3.14 अनुवाक 14 अश्वमेधगतमन्त्रकथनम् VERSE: 1

   अग्निना तपो ऽन्व् अभवत् । 
   वाचा ब्रह्म 
   मणिना रूपाणि । 
   इन्द्रेण देवान् 
   वातेन प्राणान् । 
   सूर्येण द्याम् । 
   चन्द्रमसा नक्षत्राणि 
   यमेन पितॄन् 
   राज्ञा मनुष्यान् 
   फलेन नादेयान् 
   अजगरेण सर्पान् 
   व्याघ्रेणाऽऽरण्यान् पशून् । 
   श्येनेन पतत्रिणः । 
   वृष्णाऽश्वान् 
   ऋषभेण गाः । 
   बस्तेनाजाः । 
  वृष्णिनाऽवीः । 
   व्रीहिणाऽन्नानि 
  यवेनौषधीः । 
  न्यग्रोधेन वनस्पतीन् 
   उदुम्बरेणोर्जम् । 
   गायत्रिया छन्दाम्̇सि 
   त्रिवृता स्तोमान् 
   ब्राह्मणेन वाचम् ॥ 

7.3.15 अनुवाक 15 अश्वमेधगतमन्त्रकथनम् VERSE: 1

   स्वाहाऽऽधिम् आधीताय स्वाहा स्वाहाऽऽधीतम् 
   मनसे स्वाहा स्वाहा मनः 
   प्रजापतये स्वाहा 
   काय स्वाहा 
   कस्मै स्वाहा 
   कतमस्मै स्वाहा । 
   अदित्यै स्वाहा । 
   अदित्यै मह्यै स्वाहा । 
   अदित्यै सुमृडीकायै स्वाहा 
  सरस्वत्यै स्वाहा 
   सरस्वत्यै बृहत्यै स्वाहा 
   सरस्वत्यै पावकायै स्वाहा 
   पूष्णे स्वाहा 
   पूष्णे प्रपथ्याय स्वाहा 
  पूष्णे नरंधिषाय स्वाहा 
   त्वष्ट्रे स्वाहा 
   त्वष्ट्रे तुरीपाय स्वाहा 
   त्वष्ट्रे पुरुरूपाय स्वाहा 
   विष्णवे स्वाहा 
   विष्णवे निखुर्यपाय स्वाहा 
  विष्णवे निभूयपाय स्वाहा ॥ 

7.3.16 अनुवाक 16 अश्वमेधगतमन्त्रकथनम् VERSE: 1

   दद्भ्यः स्वाहा 
   हनूभ्याम्̇  स्वाहा  
   ओष्ठाभ्याम्̇ स्वाहा 
   मुखाय स्वाहा 
   नासिकाभ्याम्̇ स्वाहा । 
   अक्षीभ्याम्̇ स्वाहा 
   कर्णाभ्याम्̇ स्वाहा 
   पार इक्षवो ऽवार्येभ्यः पक्ष्मभ्यः स्वाहा । 
   अवार इक्षवः पार्येभ्यः पक्ष्मभ्यः स्वाहा 
   शीर्ष्णे स्वाहा 
   भ्रूभ्याम्̇ स्वाहा 
  ललाटाय स्वाहा 
  मूर्ध्ने स्वाहा 
  मस्तिष्काय स्वाहा 
   केशेभ्यः स्वाहा 
  वहाय स्वाहा 
  ग्रीवाभ्यः स्वाहा 
   स्कन्धेभ्यः स्वाहा 
  कीकसाभ्यः स्वाहा 
  पृष्टीभ्यः स्वाहा 
  पाजस्याय स्वाहा 
   पार्श्वाभ्याम्̇ स्वाहा  

VERSE: 2

   अम्̇साभ्याम्̇ स्वाहा 
   दोषभ्याम्̇ स्वाहा 
   बाहुभ्याम्̇ स्वाहा 
   जङ्घाभ्याम्̇ स्वाहा 
   श्रोणीभ्याम्̇ स्वाहा  
   ऊरुभ्याम्̇ स्वाहा  
   अष्ठीवद्भ्याम्̇ स्वाहा 
   जङ्घाभ्याम्̇ स्वाहा 
   भसदे स्वाहा 
  शिखण्डेभ्यः स्वाहा 
  वालधानाय स्वाहा । 
  आण्डाभ्याम्̇ स्वाहा 
  शेपाय स्वाहा 
  रेतसे स्वाहा 
   प्रजाभ्यः स्वाहा 
  प्रजननाय स्वाहा 
  पद्भ्यः स्वाहा 
  शफेभ्यः स्वाहा 
  लोमभ्यः स्वाहा 
  त्वचे स्वाहा 
  लोहिताय स्वाहा 
  माम्̇साय स्वाहा 
  स्नावभ्यः स्वाहा । 
  अस्थभ्यः स्वाहा 
  मज्जभ्यः स्वाहा । 
  अङ्गेभ्यः स्वाहा । 
  आत्मने स्वाहा 
  सर्वस्मै स्वाहा ॥ 

7.3.17 अनुवाक 17 अश्वमेधगतमन्त्रकथनम् VERSE: 1

   अञ्ज्येताय स्वाहा । 
   अञ्जिसक्थाय स्वाहा 
   शितिपदे स्वाहा 
   शितिककुदे स्वाहा 
   शितिरन्ध्राय स्वाहा 
   शितिपृष्ठाय स्वाहा 
   शित्यम्̇साय स्वाहा 
   पुष्पकर्णाय स्वाहा 
   शित्योष्ठाय स्वाहा 
   शितिभ्रवे स्वाहा 
  शितिभसदे स्वाहा 
   श्वेतानूकाशाय स्वाहा । 
  अञ्जये स्वाहा 
  ललामाय स्वाहा । 
  असितज्ञवे स्वाहा 
   कृष्णैताय स्वाहा 
  रोहितैताय स्वाहा । 
  अरुणैताय स्वाहा । 
  ईदृशाय स्वाहा 
   कीदृशाय स्वाहा 
 तादृशाय स्वाहा 
   सदृशाय स्वाहा 
   विसदृशाय स्वाहा 
   सुसदृशाय स्वाहा 
  रूपाय स्वाहा 
  सर्वस्मै स्वाहा ॥ 

7.3.18 अनुवाक 18 अश्वमेधगतमन्त्रकथनम् VERSE: 1

   कृष्णाय स्वाहा 
   श्वेताय स्वाहा 
   पिशंगाय स्वाहा 
   सारंगाय स्वाहा । 
   अरुणाय स्वाहा 
   गौराय स्वाहा 
   बभ्रवे स्वाहा 
   नकुलाय स्वाहा 
   रोहिताय स्वाहा 
  शोणाय स्वाहा 
  श्यावाय स्वाहा 
  श्यामाय स्वाहा 
  पाकलाय स्वाहा 
  सुरूपाय स्वाहा । 
  अनुरूपाय स्वाहा 
  विरूपाय स्वाहा 
  सरूपाय स्वाहा 
  प्रतिरूपाय स्वाहा 
  शबलाय स्वाहा 
  कमलाय स्वाहा 
  पृश्नये स्वाहा 
  पृश्निसक्थाय स्वाहा 
  सर्वस्मै स्वाहा ॥ 

7.3.19 अनुवाक 19 अश्वमेधगतमन्त्रकथनम् VERSE: 1

   ओषधीभ्यः स्वाहा 
   मूलेभ्यः स्वाहा 
   तूलेभ्यः स्वाहा 
   काण्डेभ्यः स्वाहा 
   वल्शेभ्यः स्वाहा 
   पुष्पेभ्यः स्वाहा 
   फलेभ्यः स्वाहा 
   गृहीतेभ्यः स्वाहा । 
   अगृहीतेभ्यः स्वाहा । 
  अवपन्नेभ्यः स्वाहा 
  शयानेभ्यः स्वाहा 
  सर्वस्मै स्वाहा ॥ 

7.3.20 अनुवाक 20 अश्वमेधगतमन्त्रकथनम् VERSE: 1

   वनस्पतिभ्यः स्वाहा 
   मूलेभ्यः स्वाहा 
   तूलेभ्यः स्वाहा 
   स्कन्धोभ्यः स्वाहा 
   शाखाभ्यः स्वाहा 
   पर्णेभ्यः स्वाहा 
   पुष्पेभ्यः स्वाहा 
   फलेभ्यः स्वाहा 
   गृहीतेभ्यः स्वाहा । 
  अगृहीतेभ्यः स्वाहा । 
 अवपन्नेभ्यः स्वाहा 
  शयानेभ्यः स्वाहा 
  शिष्टाय स्वाहा । 
  अतिशिष्टाय स्वाहा 
  परिशिष्टाय स्वाहा 
  सम्̇शिष्टाय स्वाहा । 
  उच्छिष्टाय स्वाहा 
  रिक्ताय स्वाहा । 
  अरिक्ताय स्वाहा 
  प्ररिक्ताय स्वाहा 
 सम्̇रिक्ताय स्वाहा । 
  उद्रिक्ताय स्वाहा 
  सर्वस्मै स्वाहा ॥ 


7.4 प्रपाठक: 4 7.4.1 अनुवाक 1 प्रथमचतुर्विंशरात्रकथनम् VERSE: 1

   बृहस्पतिर् अकामयत 
   श्रन् मे देवा दधीरन् गच्छेयम् पुरोधाम् इति 
   स एतं चतुर्विम्̇शतिरात्रम् अपश्यत् 
   तम् आहरत् 
   तेनायजत 
   ततो वै तस्मै श्रद् देवा अदधतागच्छत् पुरोधाम् । 
   य एवं विद्वाम्̇सश् चतुर्विम्̇शतिरात्रम् आसते श्रद् एभ्यो मनुष्या दधते गच्छन्ति पुरोधाम् । 
   ज्योतिर् गौर् आयुर् इति त्र्यहा भवन्ति । 
   इयं वाव ज्योतिर् अन्तरिक्षं गौर् असाव् आयुः । 

VERSE: 2

   इमान् एव लोकान् अभ्यारोहन्ति । 
   अभिपूर्वं त्र्यहा भवन्ति । 
   अभिपूर्वम् एव सुवर्गं लोकम् अभ्यारोहन्ति । 
   असत्त्रं वा एतद् यद् अच्छन्दोमम् । 
   यच् छन्दोमा भवन्ति तेन सत्त्रम् । 
   देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः । 
   ओजो वै वीर्यं पृष्ठानि पशवश् छन्दोमाः । 
   ओजस्य् एव वीर्ये पशुषु प्रति तिष्ठन्ति 
   बृहद्रथंतराभ्यां यन्ति । 
   इयं वाव रथंतरम् असौ बृहत् । 
  आभ्याम् एव  

VERSE: 3

   यन्ति 
   अथो अनयोर् एव प्रति तिष्ठन्ति । 
   एते वै यज्ञस्याञ्जसायनी स्रुती 
   ताभ्याम् एव सुवर्गं लोकं यन्ति 
   चतुर्विम्̇शतिरात्रो भवति 
   चतुर्विम्̇शतिर् अर्धमासाः संवत्सरः 
   संवत्सरः सुवर्गो लोकः 
   संवत्सर एव सुवर्गे लोके प्रति तिष्ठन्ति । 
   अथो चतुर्विम्̇शत्यक्षरा गायत्री 
   गायत्री ब्रह्मवर्चसम् । 
  गायत्रियैव ब्रह्मवर्चसम् अव रुन्धते । 
  अतिरात्राव् अभितो भवतः । 
  ब्रह्मवर्चसस्य परिगृहीत्यै ॥ 

7.4.2 अनुवाक 2 द्वितीय चतुर्विंशरात्रकथनम् VERSE: 1

   यथा वै मनुष्या एवं देवा अग्र आसन् 
   ते ऽकामयन्त । 
   अवर्तिम् पाप्मानम् मृत्युम् अपहत्य दैवीम्̇ सम्̇सदं गच्छेमेति 
   त एतं चतुर्विम्̇शतिरात्रम् अपश्यन् 
   तम् आहरन् 
   तेनायजन्त 
   ततो वै ते ऽवर्तिम् पाप्मानम् मृत्युम् अपहत्य दैवीम्̇ सम्̇सदम् अगच्छन् 
   य एवं विद्वाम्̇सश् चतुर्विम्̇शतिरात्रम् आसते ऽवर्तिम् एव पाप्मानम् अपहत्य श्रियं गच्छन्ति 
  श्रीर् हि मनुष्यस्य  

VERSE: 2

   दैवी सम्̇सद् । 
   ज्योतिर् अतिरात्रो भवति 
   सुवर्गस्य लोकस्यानुख्यात्यै 
   पृष्ठ्यः षडहो भवति 
   षड् वा ऋतवः संवत्सरस् 
   तम् मासा अर्धमासा ऋतवः प्रविश्य दैवीम्̇ सम्̇सदम् अगच्छन् 
   य एवं विद्वाम्̇सश् चतुर्विम्̇शतिरात्रम् आसते संवत्सरम् एव प्रविश्य वस्यसीम्̇ सम्̇सदं गच्छन्ति 
   त्रयस् त्रयस्त्रिम्̇शा अवस्ताद् भवन्ति त्रयस् त्रयस्त्रिम्̇शाः परस्तात् 
   त्रयस्त्रिम्̇शैर् एवोभवयतो ऽवर्तिम् पाप्मानम् अपहत्य दैवीम्̇ सम्̇सदम् मध्यतः  

VERSE: 3

   गच्छन्ति 
   पृष्ठानि हि दैवी सम्̇सद् । 
   जामि वा एतत् कुर्वन्ति यत् त्रयस् त्रयस्त्रिम्̇शा अन्वञ्चः । 
   मध्ये ऽनिरुक्तो भवति तेनाजामि । 
   ऊर्ध्वानि पृष्ठानि भवन्त्य् ऊर्ध्वाश् छन्दोमाः । 
   उभाभ्याम्̇ रूपाभ्याम्̇ सुवर्गं लोकं यन्ति । 
   असत्त्रं वा एतद् यद् अच्छन्दोमम् । 
   यच् छन्दोमा भवन्ति तेन सत्त्रम् । 
   देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः । 
  ओजो वै वीर्यम् पृष्ठानि पशवः  

VERSE: 4

   छन्दोमाः । 
   ओजस्य् एव वीर्ये पशुषु प्रति तिष्ठन्ति 
   त्रयस् त्रयस्त्रिम्̇शा अवस्ताद् भवन्ति त्रयस् त्रयस्त्रिम्̇शाः परस्तान् मध्ये पृष्ठानि । 
   उरो वै त्रयस्त्रिम्̇शा आत्मा पृष्ठानि । 
   आत्मन एव तद् यजमानाः शर्म नह्यन्ते ऽनार्त्यै 
   बृहद्रथंतराभ्यां यन्ति । 
   इयं वाव रथंतरम् असौ बृहत् । 
   आभ्याम् एव यन्ति । 
   अथो अनयोर् एव प्रति तिष्ठन्ति । 
   एते वै यज्ञस्याञ्जसायनी स्रुती 
  ताभ्याम् एव  

VERSE: 5

   सुवर्गं लोकं यन्ति 
   पराञ्चो वा एते सुवर्गं लोकम् अभ्यारोहन्ति ये पराचीनानि पृष्ठान्य् उपयन्ति 
   प्रत्यङ् षडहो भवति प्रत्यवरूढ्या अथो प्रतिष्ठित्यै । 
   उभयोर् लोकयोर् ऋद्ध्वोत् तिष्ठन्ति 
   त्रिवृतो ऽधि त्रिवृतम् उप यन्ति स्तोमानाम्̇ सम्पत्त्यै प्रभवाय 
   ज्योतिर् अग्निष्टोमो भवति । 
   अयं वाव स क्षयः । 
   अस्माद् एव तेन क्षयान् न यन्ति 
   चतुर्विम्̇शतिरात्रो भवति 
   चतुर्विम्̇शतिर् अर्धमासाः संवत्सरः 
   संवत्सरः सुवर्गो लोकः 
   संवत्सर एव सुवर्गे लोके प्रति तिष्ठन्ति । 
   अथो चतुर्विम्̇शत्यक्षरा गायत्री 
   गायत्री ब्रह्मवर्चसम् । 
   गायत्रियैव ब्रह्मवर्चसम् अव रुन्धते । 
   अतिरात्राव् अभितो भवतः । 
   ब्रह्मवर्चसस्य परिगृहीत्यै ॥ 

7.4.3 अनुवाक 3 त्रिंशद्रात्रकथनम् VERSE: 1

   ऋक्षा वा इयम् अलोमकाऽऽसीत् 
   साकामयत । 
   ओषधीभिर् वनस्पतिभिः प्र जायेयेति 
   सैतास् त्रिम्̇शतम्̇ रात्रीर् अपश्यत् 
   ततो वा इयम् ओषधीभिर् वनस्पतिभिः प्राजायत 
   ये प्रजाकामाः पशुकामाः स्युस् त एता आसीरन् 
   प्रैव जायन्ते प्रजया पशुभिः । 
   इयं वा अक्षुध्यत् 
   सैतां विराजम् अपश्यत् 
   ताम् आत्मन् धित्वान्नाद्यम् अवारुन्द्धौषधीः  

VERSE: 2

   वनस्पतीन् प्रजाम् पशून् 
   तेनावर्धत 
   स जेमानम् महिमानम् अगच्छत् । 
   य एवं विद्वाम्̇स एता आसते विराजम् एवात्मन् धित्वान्नाद्यम् अव रुन्धते 
   वर्धन्ते प्रजया पशुभिः । 
   जेमानम् महिमानं गच्छन्ति 
   ज्योतिर् अतिरात्रो भवति सुवर्गस्य लोकस्यानुख्यात्यै 
   पृष्ठ्यः षडहो भवति 
   षड् वा ऋतवः षट् पृष्ठानि 
   पृष्ठैर् एवर्तून् अन्वारोहन्त्य् ऋतुभिः संवत्सरम् । 
  ते संवत्सर एव  

VERSE: 3

   प्रति तिष्ठन्ति 
   त्रयस्त्रिम्̇शात् त्रयस्त्रिम्̇शम् उप यन्ति यज्ञस्य संतत्यै । 
   अथो प्रजापतिर् वै त्रयस्त्रिम्̇शः प्रजापतिम् एवा रभन्ते प्रतिष्ठित्यै 
   त्रिणवो भवति विजित्यै । 
   एकविम्̇शो भवति प्रतिष्ठित्यै । 
   अथो रुचम् एवात्मन् दधते 
   त्रिवृद् अग्निष्टुद् भवति 
   पाप्मानम् एव तेन निर् दहन्ते ऽथो तेजो वै त्रिवृत् तेज एवात्मन् दधते 
   पञ्चदश इन्द्रस्तोमो भवति । 
  इन्द्रियम् एवाव  

VERSE: 4

   रुन्धते 
   सप्तदशो भवति । 
   अन्नाद्यस्यावरुद्ध्यै । 
   अथो प्रैव तेन जायन्ते । 
   एकविम्̇शो भवति 
   प्रतिष्ठित्यै । 
   अथो रुचम् एवात्मन् दधते 
   चतुर्विम्̇शो भवति 
   चतुर्विम्̇शतिर् अर्धमासाः संवत्सरः 
  संवत्सरः सुवर्गो लोकः 
 संवत्सर एव सुवर्गे लोके प्रति तिष्ठन्ति । 
  अथो एष वै विषूवान् 
  विषूवन्तो भवन्ति य एवं विद्वाम्̇स एता आसते 
  चतुर्विम्̇शात् पृष्ठान्य् उप यन्ति 
  संवत्सर एव प्रतिष्ठाय ॥ 

VERSE: 5

   देवता अभ्यारोहन्ति 
   त्रयस्त्रिम्̇शात् त्रयस्त्रिम्̇शम् उप यन्ति 
   त्रयस्त्रिम्̇शद् वै देवताः । 
   देवतास्व् एव प्रति तिष्ठन्ति 
   त्रिणवो भवति । 
   इमे वै लोकास् त्रिणवः । 
   एष्व् एव लोकेषु प्रति तिष्ठन्ति 
   द्वाव् एकविम्̇शौ भवतः 
   प्रतिष्ठित्यै । 
   अथो रुचम् एवात्मन् दधते 
  बहवः षोडशिनो भवन्ति 
   तस्माद् बहवः प्रजासु वृषाणः । 
   यद् एते स्तोमा व्यतिषक्ता भवन्ति 
  तस्माद् इयम् ओषधीभिर् वनस्पतिभिर् व्यतिषक्ता ।

VERSE: 6

   व्यतिषज्यन्ते प्रजया पशुभिर् य एवं विद्वाम्̇स एता आसते । 
   अक्लृप्ता वा एते सुवर्गं लोकं यन्ति । 
   उच्चावचान् हि स्तोमान् उपयन्ति 
   यद् एत ऊर्ध्वाः क्लृप्ता स्तोमा भवन्ति क्लृप्ता एव सुवर्गं लोकं यन्त्य् उभयोर् एभ्यो लोकयोः कल्पते 
   त्रिम्̇शद् एतास् 
   त्रिम्̇शदक्षरा  विराड्  
   अन्नं  विराड्  
   विराजैवान्नाद्यम् अव रुन्धते । 
   अतिरात्राव् अभितो भवतः । 
   अन्नाद्यस्य परिगृहीत्यै ॥ 

7.4.4 अनुवाक 4 द्वात्रिंशद्रात्राभिधानम् VERSE: 1

   प्रजापतिः सुवर्गं लोकम् ऐत् 
   तं देवा येनयेन छन्दसाऽनु प्रायुञ्जत तेन नाऽऽप्नुवन् 
   त एता द्वात्रिम्̇शतम्̇ रात्रीर् अपश्यन् 
    द्वात्रिम्̇शदक्षरानुष्टुग् 
   आनुष्टुभः प्रजापतिः 
   स्वेनैव छन्दसा प्रजापतिम् आप्त्वाभ्यारुह्य सुवर्गं लोकम् आयन् 
   य एवं विद्वाम्̇स एता आसते द्वात्रिम्̇शद् एताः । 
    द्वात्रिम्̇शदक्षरानुष्टुग् 
   आनुष्टुभः प्रजापतिः 
   स्वेनैव छन्दसा प्रजापतिम् आप्त्वा श्रियं गच्छन्ति । 

VERSE: 2

   श्रीर् हि मनुष्यस्य सुवर्गो लोकः । 
   द्वात्रिम्̇शद् एताः । 
    द्वात्रिम्̇शदक्षरानुष्टुग् 
   वाग्  अनुष्टुप् 
   सर्वाम् एव वाचम् आप्नुवन्ति 
   सर्वे वाचो वदितारो भवन्ति 
   सर्वे हि श्रियं गच्छन्ति 
   ज्योतिर् गौर् आयुर् इति त्र्यहा भवन्ति । 
   इयं वाव ज्योतिर् अन्तरिक्षं गौर् असाव् आयुर् इमान् एव लोकान् अभ्यारोहन्ति । 
   अभिपूर्वं त्र्यहा भवन्ति । 
   अभिपूर्वम् एव सुवर्गं लोकम् अभ्यारोहन्ति 
   बृहद्रथंतराभ्यां यन्ति । 

VERSE: 3

   इयं वाव रथंतरम् असौ बृहत् । 
   आभ्याम् एव यन्ति । 
   अथो अनयोर् एव प्रति तिष्ठन्ति । 
   एते वै यज्ञस्याञ्जसायनी स्रुती 
   ताभ्याम् एव सुवर्गं लोकं यन्ति 
   पराञ्चो वा एते सुवर्गं लोकम् अभ्यारोहन्ति ये पराचस् त्र्यहान् उपयन्ति 
   प्रत्यङ् त्र्यहो भवति प्रत्यवरूढ्या अथो प्रतिष्ठित्यै । 
   उभयोर् लोकयोर् ऋद्ध्वोत् तिष्ठन्ति 
   द्वात्रिम्̇शद् एतास् 
  तासां यास् त्रिम्̇शत् त्रिम्̇शदक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्धते 
   ये द्वे अहोरात्रे एव ते उभाभ्याम्̇ रूपाभ्याम्̇ सुवर्गं लोकं यन्ति । 
   अतिरात्राव् अभितो भवतः परिगृहीत्यै ॥ 

7.4.5 अनुवाक 5 त्रयस्त्रिंशद्रात्रकथनम् VERSE: 1

   द्वे वाव देवसत्त्रे द्वादशाहश् च त्रयस्त्रिम्̇शदहश् च 
   य एवं विद्वाम्̇सस् त्रयस्त्रिम्̇शदहम् आसते साक्षाद् एव देवता अभ्यारोहन्ति 
   यथा खलु वै श्रेयान् अभ्यारूढः कामयते तथा करोति 
   यद्य् अवविध्यति पापीयान् भवति 
   यदि नावविध्यति सदृङ् 
   य एवं विद्वाम्̇सस् त्रयस्त्रिम्̇शदहम् आसते वि पाप्मना भ्रातृव्येणा वर्तन्ते ऽहर्भाजो वा एता देवा अग्र आऽहरन् । 

VERSE: 2

   अहर् एको ऽभजताहर् एकस् 
   ताभिर् वै ते प्रबाहुग् आर्ध्नुवन् 
   य एवं विद्वाम्̇सस् त्रयस्त्रिम्̇शदहम् आसते सर्व एव प्रबाहुग् ऋध्नुवन्ति 
   सर्वे ग्रामणीयम् प्राप्नुवन्ति 
   पञ्चाहा भवन्ति 
   पञ्च वा ऋतवः संवत्सरः । 
   ऋतुष्व् एव संवत्सरे प्रति तिष्ठन्ति । 
   अथो पञ्चाक्षरा पङ्क्तिः 
   पाङ्क्तो यज्ञः । 
   यज्ञम् एवाव रुन्धते 
  त्रीण्य् आश्विनानि भवन्ति 
  त्रय इमे लोकाः । 
   एषु  

VERSE: 3

   एव लोकेषु प्रति तिष्ठन्ति । 
   अथो त्रीणि वै यज्ञस्येन्द्रियाणि 
   तान्य् एवाव रुन्धते 
   विश्वजिद् भवत्य् अन्नाद्यस्यावरुद्ध्यै 
   सर्वपृष्ठो भवति 
   सर्वस्याभिजित्यै 
   वाग् वै द्वादशाहः । 
   यत् पुरस्ताद् द्वादशाहम् उपेयुर् अनाप्तां वाचम् उपेयुर् उपदासुकैषां वाक् स्यात् । 
   उपरिष्टाद् द्वादशाहम् उप यन्त्य् आप्ताम् एव वाचम् उप यन्ति तस्माद् उपरिष्टाद् वाचा वदामः । 
   अवान्तरम्  

VERSE: 4

   वै दशरात्रेण प्रजापतिः प्रजा असृजत 
   यद् दशरात्रो भवति प्रजा एव तद् यजमानाः सृजन्ते । 
   एताम्̇ ह वा उदङ्कः शौल्बायनः सत्त्रस्यद्धिम् उवाच यद् दशरात्रः । 
   यद् दशरात्रो भवति सत्त्रस्यद्ध्यै । 
   अथो यद् एव पूर्वेष्व् अहःसु विलोम क्रियते तस्यैवैषा शान्तिः । 
   द्व्यनीका वा एता रात्रयो यजमाना विश्वजित् 
   सहातिरात्रेण पूर्वाः षोडश सहातिरात्रेणोत्तराः षोडश 
   य एवं विद्वाम्̇सस् त्रयस्त्रिम्̇शदहम् आसत ऐषां द्व्यनीका प्रजा जायते । 
   अतिरात्राव् अभितो भवतः 
  परिगृहीत्यै ॥ 

7.4.6 अनुवाक 6 षट्त्रिंशद्रात्रकथनम् VERSE: 1

   आदित्या अकामयन्त 
   सुवर्गं लोकम् इयामेति 
   ते सुवर्गं लोकं न प्राजानन् न सुवर्गं लोकम् आयन् 
   त एतम्̇ षट्त्रिम्̇शद्रात्रम् अपश्यन् 
   तम् आहरन् 
   तेनायजन्त 
   ततो वै ते सुवर्गं लोकम् प्राजानन्त् सुवर्गं लोकम् आयन् 
   य एवं विद्वाम्̇सः षट्त्रिम्̇शद्रात्रम् आसते सुवर्गम् एव लोकम् प्र जानन्ति सुवर्गं लोकं यन्ति 
   ज्योतिर् अतिरात्रः  

VERSE: 2

   भवति 
   ज्योतिर् एव पुरस्ताद् दधते 
   सुवर्गस्य लोकस्यानुख्यात्यै 
   षडहा भवन्ति 
   षड् वा ऋतवः । 
   ऋतुष्व् एव प्रति तिष्ठन्ति 
   चत्वारो भवन्ति 
   चतस्रो दिशः । 
   दिक्ष्व् एव प्रति तिष्ठन्ति । 
   असत्त्रं वा एतद् यद् अच्छन्दोमम् । 
   यच् छन्दोमा भवन्ति तेन सत्त्रम् । 
   देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः । 
   ओजो वै वीर्यम् पृष्ठानि पशवश् छन्दोमाः । 
  ओजस्य् एव  

VERSE: 3

   वीर्ये प्रति तिष्ठन्ति 
   षट्त्रिम्̇शद्रात्रो भवति 
   षट्त्रिम्̇शदक्षरा बृहती 
   बार्हताः पशवः । 
   बृहत्यैव पशून् अव रुन्धते 
   बृहती छन्दसाम्̇ स्वाराज्यम् आश्नुत । 
   अश्नुवते स्वाराज्यं य एवं विद्वाम्̇सः षट्त्रिम्̇शद्रात्रम् आसते सुवर्गम् एव लोकं यन्ति । 
   अतिरात्राव् अभितो भवतः सुवर्गस्य लोकस्य परिगृहीत्यै ॥ 

7.4.7 अनुवाक 7 एकोनपञ्चाशद्रात्रकथनम् VERSE: 1

   वसिष्ठो हतपुत्रो ऽकामयत 
   विन्देय प्रजाम् अभि सौदासान् भवेयम् इति 
   स एतम् एकस्मान्नपञ्चाशम् अपश्यत् 
   तम् आहरत् 
   तेनायजत 
   ततो वै सो ऽविन्दत प्रजाम् अभि सौदासान् अभवत् । 
   य एवं विद्वाम्̇स एकस्मान्नपञ्चाशम् आसते विन्दन्ते प्रजाम् अभि भ्रातृव्यान् भवन्ति 
   त्रयस् त्रिवृतो ऽग्निष्टोमा भवन्ति 
   वज्रस्यैव मुखम्̇ सम्̇ श्यन्ति 
   दश पञ्चदशा भवन्ति 
  पञ्चदशो वज्रः ॥ 

VERSE: 2

   वज्रम् एव भ्रातृव्येभ्यः प्र हरन्ति 
   षोडशिमद् दशमम् अहर् भवति 
   वज्र एव वीर्यं दधति 
   द्वादश सप्तदशा भवन्ति । 
   अन्नाद्यस्यावरुद्ध्यै । 
   अथो प्रैव तैर् जायन्ते 
   पृष्ठ्यः षडहो भवति 
   षड् वा ऋतवः 
   षट् पृष्ठानि 
   पृष्ठैर् एवर्तून् अन्वारोहन्त्य् ऋतुभिः संवत्सरम् । 
   ते संवत्सर एव प्रति तिष्ठन्ति 
  द्वादशैकविम्̇शा भवन्ति 
   प्रतिष्ठित्यै । 
  अथो रुचम् एवात्मन् 

VERSE: 3

   दधते 
   बहवः षोडशिनो भवन्ति 
   विजित्यै 
   षड् आश्विनानि भवन्ति 
   षड् वा ऋतवः । 
   ऋतुष्व् एव प्रति तिष्ठन्ति । 
   ऊनातिरिक्ता वा एता रात्रयः । 
   ऊनास् तद् यद् एकस्यै न पञ्चाशद् अतिरिक्तास् तद् यद् भूयसीर् अष्टाचत्वारिम्̇शतः । 
   ऊनाच् च खलु वा अतिरिक्ताच् च प्रजापतिः प्राजायत । 
  ये प्रजाकामाः पशुकामाः स्युस् त एता आसीरन् 
  प्रैव जायन्ते प्रजया पशुभिः । 
   वैराजो वा एष यज्ञो यद् एकस्मान्नपञ्चाशः । 
   य एवं विद्वाम्̇स एकस्मान्नपञ्चाशम् आसते विराजम् एव गच्छन्त्य् अन्नादा भवन्ति । 
   अतिरात्राव् अभितो भवतः । 
  अन्नाद्यस्य परिगृहीत्यै ॥ 

7.4.8 अनुवाक 8 संवत्सरसत्रदीक्षाकालः VERSE: 1

   संवत्सराय दीक्षिष्यमाणा एकाष्टकायां दीक्षेरन् । 
   एषा वै संवत्सरस्य पत्नी यद् एकाष्टका । 
   एतस्यां वा एष एताम्̇ रात्रिं वसति 
   साक्षाद् एव संवत्सरम् आरभ्य दीक्षन्ते । 
   आर्तं वा एते संवत्सरस्याभि दीक्षन्ते य एकाष्टकायां दीक्षन्ते ऽन्तनामानाव् ऋतू भवतः । 
   व्यस्तं वा एते संवत्सरस्याभि दीक्षन्ते य एकाष्टकायां दीक्षन्ते ऽन्तनामानाव् ऋतू भवतः 
   फल्गुनीपूर्णमासे दीक्षेरन् 
   मुखं वा एतत्  

VERSE: 2

   संवत्सरस्य यत् फल्गुनीपूर्णमासः । 
   मुखत एव संवत्सरम् आरभ्य दीक्षन्ते 
   तस्यैकैव निर्या यत् साम्मेध्ये विषूवान्त् सम्पद्यते 
   चित्रापूर्णमासे दीक्षेरन् 
   मुखं वा एतत् संवत्सरस्य यच् चित्रापूर्णमासः । 
   मुखत एव संवत्सरम् आरभ्य दीक्षन्ते 
   तस्य न का चन निर्या भवति 
   चतुरहे पुरस्तात् पौर्णमास्यै दीक्षेरन् 
   तेषाम् एकाष्टकायां क्रयः सम् पद्यते 
   तेनैकाष्टकां न छम्बट् कुर्वन्ति 
   तेषाम्  

VERSE: 3

   पूर्वपक्षे सुत्या सम् पद्यते 
   पूर्वपक्षम् मासा अभि सम् पद्यन्ते 
   ते पूर्वपक्ष उत् तिष्ठन्ति 
   तान् उत्तिष्ठत ओषधयो वनस्पतयो ऽनूत् तिष्ठन्ति 
   तान् कल्याणी कीर्तिर् अनूत् तिष्ठति । 
   अरात्सुर् इमे यजमाना इति 
   तद् अनु सर्वे राध्नुवन्ति ॥ 

7.4.9 अनुवाक 9 दीक्षोपसत्कथनम् VERSE: 1

   सुवर्गं वा एते लोकं यन्ति ये सत्त्रम् उपयन्ति । 
   अभीन्धत एव दीक्षाभिर् आत्मानम्̇ श्रपयन्त उपसद्भिः । 
   द्वाभ्यां लोमावद्यन्ति द्वाभ्यां त्वचम् । 
   द्वाभ्याम् असृत् । 
   द्वाभ्याम् माम्̇सम् । 
   द्वाभ्याम् अस्थि 
   द्वाभ्याम् मज्जानम् 
   आत्मदक्षिणं वै सत्त्रम् 
   आत्मानम् एव दक्षिणां नीत्वा सुवर्गं लोकं यन्ति 
  शिखाम् अनु प्र वपन्ते । 
   ऋद्ध्यै । 
  अथो रघीयाम्̇सः सुवर्गं लोकम् अयामेति ॥ 

7.4.10 अनुवाक 10 प्रायणीयाख्यप्रथमाहाभिधानम् VERSE: 1

   ब्रह्मवादिनो वदन्ति । 
   अतिरात्रः परमो यज्ञक्रतूनां कस्मात् तम् प्रथमम् उप यन्तीति । 
   एतद् वा अग्निष्टोमम् प्रथमम् उप यन्त्य् अथोक्थ्यम् अथ षोडशिनम् अथातिरात्रम् 
   अनुपूर्वम् एवैतद् यज्ञक्रतून् उपेत्य तान् आलभ्य परिगृह्य सोमम् एवैतत् पिबन्त आसते 
   ज्योतिष्टोमम् प्रथमम् उप यन्ति 
   ज्योतिष्टोमो वै स्तोमानाम् मुखम् 
   मुखत एव स्तोमान् प्र युञ्जते 
   ते  

VERSE: 2

   सम्̇स्तुता विराजम् अभि सम् पद्यन्ते 
   द्वे चर्चाव् अति रिच्येते 
   एकया गौर् अतिरिक्त एकयायुर् ऊनः 
   सुवर्गो वै लोको ज्योतिर् ऊर्ग् विराट् सुवर्गम् एव तेन लोकं यन्ति 
   रथंतरं दिवा भवति रथंतरं नक्तम् इत्य् आहुर् ब्रह्मवादिनः केन तद् अजामीति 
   सौभरं तृतीयसवने ब्रह्मसामम् बृहत् 
   तन् मध्यतो दधति विधृत्यै 
   तेनाजामि ॥ 

7.4.11 अनुवाक 11 मासगताहकथनम् VERSE: 1

   ज्योतिष्टोमम् प्रथमम् उप यन्ति । 
   अस्मिन्न् एव तेन लोके प्रति तिष्ठन्ति 
   गोष्टोमं द्वितीयम् उप यन्ति । 
   अन्तरिक्ष एव तेन प्रति तिष्ठन्ति । 
   आयुष्टोमं तृतीयम् उप यन्ति । 
   अमुष्मिन्न् एव तेन लोके प्रति तिष्ठन्ति । 
   इयं वाव ज्योतिर् अन्तरिक्षं गौः । 
   असाव् आयुः । 
   यद् एतान्त् स्तोमान् उपयन्त्य् एष्व् एव तल् लोकेषु सत्त्रिणः प्रतितिष्ठन्तो यन्ति 
   ते सम्̇स्तुता विराजम्  

VERSE: 2

   अभि सम् पद्यन्ते 
   द्वे चर्चाव् अति रिच्येते 
   एकया गौर् अतिरिक्त एकयायुर् ऊनः 
   सुवर्गो वै लोको ज्योतिर् ऊर्ग् विराड् ऊर्जम् एवाव रुन्धते 
   ते न क्षुधार्तिम् आर्छन्ति । 
   अक्षोधुका भवन्ति 
   क्षुत्सम्बाधा इव हि सत्त्रिणः । 
   अग्निष्टोमाव् अभितः प्रधी तौ  
   उक्थ्या मध्ये नभ्यं तत् 
   तद् एतत् परियद् देवचक्रम् । 
   यद् एतेन  

VERSE: 3

   षडहेन यन्ति देवचक्रम् एव समारोहन्त्य् अरिष्ट्यै 
   ते स्वस्ति सम् अश्नुवते 
   षडहेन यन्ति 
   षड् वा ऋतवः । 
   ऋतुष्व् एव प्रति तिष्ठन्ति । 
   उभयतोज्योतिषा यन्ति । 
   उभयत एव सुवर्गे लोके प्रतितिष्ठन्तो यन्ति 
   द्वौ षडहौ भवतस् 
   तानि द्वादशाहानि सम् पद्यन्ते 
   द्वादशो वै पुरुषो द्वे सक्थ्यौ द्वौ बाहू आत्मा च शिरश् च चत्वार्य् अङ्गानि स्तनौ द्वादशौ । 

VERSE: 4

   तत् पुरुषम् अनु पर्यावर्तन्ते 
   त्रयः षडहा भवन्ति 
   तान्य् अष्टादशाहानि सम् पद्यन्ते 
   नवान्यानि नवान्यानि 
   नव वै पुरुषे प्राणास् 
   तत् प्राणान् अनु पर्यावर्तन्ते 
   चत्वारः षडहा भवन्ति 
   तानि चतुर्विम्̇शतिर् अहानि सम् पद्यन्ते 
   चतुर्विम्̇शतिर् अर्धमासाः संवत्सरस् 
   तत् संवत्सरम् अनु पर्यावर्तन्ते । 
  अप्रतिष्ठितः संवत्सर इति खलु वा आहुर् वर्षीयान् प्रतिष्ठाया इति । 
  एतावद् वै संवत्सरस्य ब्राह्मणं यावन् मासः । 
  मासिमास्य् एव प्रतितिष्ठन्तो यन्ति ॥ 

7.4.12 अनुवाक 12 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1 मेषस् त्वा पचतैर् अवतु लोहितग्रीवश् छागैः शल्मलिर् वृद्ध्या पर्णो ब्रह्मणा प्लक्षो मेधेन न्यग्रोधश् चमसैर् उदुम्बर ऊर्जा गायत्री छन्दोभिस् त्रिवृत् स्तोमैः । अवन्ती स्थावन्तीस् त्वाऽवन्तु प्रियं त्वा प्रियाणां वर्षिष्ठम् आप्यानां निधीनां त्वा निधिपतिम्̇ हवामहे वसो मम ॥

7.4.13 अनुवाक 13 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1

   कूप्याभ्यः स्वाहा 
   कूल्याभ्यः स्वाहा 
   विकर्याभ्यः स्वाहा । 
   अवट्याभ्यः स्वाहा 
   खन्याभ्यः स्वाहा 
   ह्रद्याभ्यः स्वाहा 
   सूद्याभ्यः स्वाहा 
   सरस्याभ्यः स्वाहा 
   वैशन्तीभ्यः स्वाहा 
   पल्वल्याभ्यः स्वाहा 
  वर्ष्याभ्यः स्वाहा । 
   अवर्ष्याभ्यः स्वाहा 
  ह्रादुनीभ्यः स्वाहा 
  पृष्वाभ्यः स्वाहा 
   स्यन्दमानाभ्यः स्वाहा 
  स्थावराभ्यः स्वाहा 
   नादेयीभ्यः स्वाहा 
  सैन्धवीभ्यः स्वाहा 
   समुद्रियाभ्यः स्वाहा 
   सर्वाभ्यः स्वाहा ॥ 

7.4.14 अनुवाक 14 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1

   अद्भ्यः स्वाहा 
   वहन्तीभ्यः स्वाहा 
   परिवहन्तीभ्यः स्वाहा 
   समन्तं वहन्तीभ्यः स्वाहा 
   शीघ्रं वहन्तीभ्यः स्वाहा 
   शीभं वहन्तीभ्यः स्वाहा । 
   उग्रं वहन्तीभ्यः स्वाहा 
   भीमं वहन्तीभ्यः स्वाहा । 
   अम्भोभ्यः स्वाहा 
   नभोभ्यः स्वाहा 
  महोभ्यः स्वाहा 
  सर्वस्मै स्वाहा ॥ 

7.4.15 अनुवाक 15 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1 यो अर्वन्तं जिघाम्̇सति तम् अभ्यमीति वरुणः । परो मर्तः परः श्वा ॥ अहं च त्वं च वृत्रहन्त् सम् बभूव सनिभ्य आ । अरातीवा चिद् अद्रिवो ऽनु नौ शूर मम्̇सतै भद्रा इन्द्रस्य रातयः ॥ अभि क्रत्वेन्द्र भूर् अध ज्मन् न ते विव्यङ् महिमानम्̇ रजाम्̇सि । स्वेना हि वृत्रम्̇ शवसा जघन्थ न शत्रुर् अन्तं विविदद् युधा ते ॥

7.4.16 अनुवाक 16 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1

   नमो राज्ञे 
   नमो वरुणाय 
   नमो ऽश्वाय 
   नमः प्रजापतये 
   नमो ऽधिपतये । 
   अधिपतिर् अस्य् अधिपतिम् मा कुर्व् अधिपतिर् अहम् प्रजानाम् भूयासम् 
   मां धेहि 
   मयि धेहि । 
   उपाकृताय स्वाहा । 
   आलब्धाय स्वाहा 
   हुताय स्वाहा ॥ 

7.4.17 अनुवाक 17 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1 मयोभूर् वातो अभि वातूस्रा ऊर्जस्वतीर् ओषधीर् आ रिशन्ताम् । पीवस्वतीर् जीवधन्याः पिबन्त्व् अवसाय पद्वते रुद्र मृड । याः सरूपा विरूपा एकरूपा यासाम् अग्निर् इष्ट्या नामानि वेद । या अङ्गिरसस् तपसेह चक्रुस् ताभ्यः पर्जन्य महि शर्म यच्छ । या देवेषु तनुवम् ऐरयन्त यासाम्̇ सोमो विश्वा रूपाणि वेद । ता अस्मभ्यम् पयसा पिन्वमानाः प्रजावतीर् इन्द्र

VERSE: 2

   गोष्ठे रिरीहि । 

प्रजापतिर् मह्यम् एता रराणो विश्वैर् देवैः पितृभिः संविदानः । शिवाः सतीर् उप नो गोष्ठम् आकस् तासां वयम् प्रजया सम्̇ सदेम । इह धृतिः स्वाहा । इह विधृतिः स्वाहा । इह रन्तिः स्वाहा । इह रमतिः स्वाहा महीमू षु सुत्रामाणम् ॥

7.4.18 अनुवाक 18 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1 किम्̇ स्विद् आसीत् पूर्वचित्तिः किम्̇ स्विद् आसीद् बृहद् वयः । किम्̇ स्विद् आसीत् पिशंगिला किम्̇ स्विद् आसीत् पिलिप्पिला । द्यौर् आसीत् पूर्वचित्तिर् अश्व आसीद् बृहद् वयः । रात्रिर् आसीत् पिशंगिलाविर् आसीत् पिलिप्पिला । कः स्विद् एकाकी चरति क उ स्विज् जायते पुनः । किम्̇ स्विद् धिमस्य भेषजं किम्̇ स्विद् आवपनम् महत् । सूर्य एकाकी चरति

VERSE: 2

   चन्द्रमा जायते पुनः । अग्निर् हिमस्य भेषजम् भूमिर् आवपनम् महत् । 

पृच्छामि त्वा परम् अन्तम् पृथिव्याः पृच्छामि त्वा भुवनस्य नाभिम् । पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥ वेदिम् आहुः परम् अन्तम् पृथिव्या यज्ञम् आहुर् भुवनस्य नाभिम् । सोमम् आहुर् वृष्णो अश्वस्य रेतो ब्रह्मैव वाचः परमं व्योम ॥

7.4.19 अनुवाक 19 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1 अम्बे अम्बाल्य् अम्बिके न मा नयति कश् चन । ससस्त्य् अश्वकः । सुभगे काम्पीलवासिनि सुवर्गे लोके सम् प्रोर्ण्वाथाम् । आहम् अजानि गर्भधम् आ त्वम् अजासि गर्भधम् । तौ सह चतुरः पदः सम् प्र सारयावहै । वृषा वाम्̇ रेतोधा रेतो दधातु । उत् सक्थ्योर् गृदं धेह्य् अञ्जिम् उदञ्जिम्म् अन्व् अज । य स्त्रीणां जीवभोजनो य आसाम्

VERSE: 2

   बिलधावनः । प्रिय स्त्रीणाम् अपीच्यः । य आसां कृष्णे लक्ष्मणि सर्दिगृदिम् परावधीत् । 

अम्बे अम्बाल्य् अम्बिके न मा यभति कश् चन । ससस्त्य् अश्वकः । ऊर्ध्वाम् एनाम् उच् छ्रयताद् वेणुभारं गिराव् इव । अथास्या मध्यम् एधताम्̇ शीते वाते पुनन्न् इव । अम्बे अम्बाल्य् अम्बिके न मा यभति कश् चन । ससस्त्य् अश्वकः । यद् धरिणी यवम् अत्ति न

VERSE: 3

   पुष्टम् पशु मन्यते । शूद्रा यद् अर्यजारा न पोषाय धनायति । 

अम्बे अम्बाल्य् अम्बिके न मा यभति कश् चन । ससस्त्य् अश्वकः । इयं यका शकुन्तिकाऽऽहलम् इति सर्पति । आहतं गभे पसो नि जल्गुलीति धाणिका । अम्बे अम्बाल्य् अम्बिके न मा यभति कश् चन । ससस्त्य् अश्वकः । माता च ते पिता च ते ऽग्रं वृक्षस्य रोहतः ।

VERSE: 4

   प्र सुलामीति ते पिता गभे मुष्टिम् अतम्̇सयत् । 
दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र ण आयूम्̇षि तारिषत् । 

आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वः शिवतमो रसस् तस्य भाजयतेह नः । उशतीर् इव मातरः ॥ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥

7.4.20 अनुवाक 20 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1 भूर् भुवः सुवर् वसवस् त्वाञ्जन्तु गायत्रेण छन्दसा रुद्रास् त्वाञ्जन्तु त्रैष्टुभेन छन्दसादित्यास् त्वाञ्जन्तु जागतेन छन्दसा यद् वातो अपो अगमद् इन्द्रस्य तनुवम् प्रियाम् । एतम्̇ स्तोतर् एतेन पथा पुनर् अश्वम् आ वर्तयासि नः । लाजी3ञ् छाची3न् यशो ममा3म् । यव्यायै गव्याया एतद् देवा अन्नम् अत्तैतद् अन्नम् अद्धि प्रजापते युञ्जन्ति ब्रध्नम् अरुषं चरन्तम् परि तस्थुषः । रोचन्ते रोचना दिवि । युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे । शोणा धृष्णू नृवाहसा । केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे । सम् उषद्भिर् अजायथाः ।

7.4.21 अनुवाक 21 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1

   प्राणाय स्वाहा 
   व्यानाय स्वाहा । 
   अपानाय स्वाहा 
   स्नावभ्यः स्वाहा 
   संतानेभ्यः स्वाहा 
   परिसंतानेभ्यः स्वाहा 
   पर्वभ्यः स्वाहा 
   संधानेभ्यः स्वाहा 
   शरीरेभ्यः स्वाहा 
   यज्ञाय स्वाहा 
   दक्षिणाभ्यः स्वाहा 
   सुवर्गाय स्वाहा 
   लोकाय स्वाहा 
  सर्वस्मै स्वाहा ॥ 

7.4.22 अनुवाक 22 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1

   सिताय स्वाहा । 
   असिताय स्वाहा । 
   अभिहिताय स्वाहा । 
   अनभिहिताय स्वाहा 
   युक्ताय स्वाहा । 
   अयुक्ताय स्वाहा 
   सुयुक्ताय स्वाहा । 
   उद्युक्ताय स्वाहा 
   विमुक्ताय स्वाहा 
   प्रमुक्ताय स्वाहा 
   वञ्चते स्वाहा 
  परिवञ्चते स्वाहा 
   संवञ्चते स्वाहा । 
   अनुवञ्चते स्वाहा । 
   उद्वञ्चते स्वाहा । 
   यते स्वाहा 
   धावते स्वाहा 
  तिष्ठते स्वाहा 
  सर्वस्मै स्वाहा ॥ 


7.5 प्रपाठक: 5 7.5.1 अनुवाक 1 संवत्सरसत्रकथनम् VERSE: 1

   गावो वा एतत् सत्त्रम् आसताशृङ्गाः सतीः 
   शृङ्गाणि नो जायन्ता इति कामेन 
   तासां दश मासा निषण्णा आसन्न् अथ शृङ्गाण्य् अजायन्त 
   ता उद् अतिष्ठन् । 
   अरात्स्मेति । 
   अथ यासां नाजायन्त ताः संवत्सरम् आप्त्वोद् अतिष्ठन् । 
   अरात्स्मेति 
   यासां चाजायन्त यासां च न ता उभयीर् उद् अतिष्ठन् । 
   अरात्स्मेति 
   गोसत्त्रं वै  

VERSE: 2

   संवत्सरः । 
   य एवं विद्वाम्̇सः संवत्सरम् उपयन्त्य् ऋध्नुवन्त्य् एव 
   तस्मात् तूपरा वार्षिकौ मासौ पर्त्वा चरति 
   सत्त्राभिजितम्̇ ह्य् अस्यै 
   तस्मात् संवत्सरसदो यत् किं च गृहे क्रियते तद् आप्तम् अवरुद्धम् अभिजितं क्रियते 
   समुद्रं वा एते प्र प्लवन्ते ये संवत्सरम् उपयन्ति 
   यो वै समुद्रस्य पारं न पश्यति न वै स तत उदेति 
   संवत्सरः  

VERSE: 3

   वै समुद्रस् 
   तस्यैतत् पारं यद् अतिरात्रौ 
   य एवं विद्वाम्̇सः संवत्सरम् उपयन्त्य् अनार्ता एवोदृचम् गच्छन्ति । 
   इयं वै पूर्वो ऽतिरात्रो ऽसाव् उत्तरः । 
   मनः पूर्वो वाग् उत्तरः 
   प्राणः पूर्वो ऽपान उत्तरः 
   प्ररोधनम् पूर्व उदयनम् उत्तरः । 
   ज्योतिष्टोमो वैश्वानरो ऽतिरात्रो भवति 
   ज्योतिर् एव पुरस्ताद् दधते 
   सुवर्गस्य लोकस्यानुख्यात्यै 
   चतुर्विम्̇शः प्रायणीयो भवति 
  चतुर्विम्̇शतिर् अर्धमासाः  

VERSE: 4

   संवत्सरः 
   प्रयन्त एव संवत्सरे प्रति तिष्ठन्ति 
   तस्य त्रीणि च शतानि षष्टिश् च स्तोत्रीयस् 
   तावतीः संवत्सरस्य रात्रयः । 
   उभे एव संवत्सरस्य रूपे आप्नुवन्ति 
   ते सम्̇स्थित्या अरिष्ट्या उत्तरैर् अहोभिश् चरन्ति 
   षडहा भवन्ति 
   षड् वा ऋतवः संवत्सरः । 
   ऋतुष्व् एव संवत्सरे प्रति तिष्ठन्ति 
  गौश् चायुश् च मध्यत स्तोमौ भवतः 
   संवत्सरस्यैव तन् मिथुनम् मध्यतः  

VERSE: 5

   दधति 
   प्रजननाय 
   ज्योतिर् अभितो भवति 
   विमोचनम् एव तत् । 
   छन्दाम्̇स्य् एव तद् विमोकं यन्ति । 
   अथो उभयतोज्योतिषैव षडहेन सुवर्गं लोकं यन्ति 
   ब्रह्मवदिनो वदन्ति । 
   आसते केन यन्तीति 
   देवयानेन पथेति ब्रूयात् । 
  छन्दाम्̇सि वै देवयानः पन्था गायत्री त्रिष्टुब् जगती 
   ज्योतिर् वै गायत्री गौस् त्रिष्टुग् आयुर् जगती 
   यद् एते स्तोमा भवन्ति 
   देवयानेनैव  

VERSE: 6

   तत् पथा यन्ति 
   समानम्̇ साम भवति 
   देवलोको वै साम 
   देवलोकाद् एव न यन्ति । 
   अन्याअन्या ऋचो भवन्ति 
   मनुष्यलोको वा ऋचः । 
   मनुष्यलोकाद् एवान्यमन्यं देवलोकम् अभ्यारोहन्तो यन्ति । 
   अभिवर्तो ब्रह्मसामम् भवति 
   सुवर्गस्य लोकस्याभिवृत्त्यै । 
   अभिजिद् भवति 
   सुवर्गस्य लोकस्याभिजित्यै 
   विश्वजिद् भवति विश्वस्य जित्यै 
   मासिमासि पृष्ठान्य् उप यन्ति 
   मासिमास्य् अतिग्राह्या गृह्यन्ते 
   मासिमास्य् एव वीर्यं दधति 
   मासाम् प्रतिष्ठित्यै । 
   उपरिष्टान् मासाम् पृष्ठान्य् उप यन्ति 
   तस्माद् उपरिष्टाद् ओषधयः फलं गृह्णन्ति ॥ 

7.5.2 अनुवाक 2 संवत्सरसत्रस्य दशमाससाध्यप्रयोगेण सह विकल्पकथनम् VERSE: 1

   गावो वा एतत् सत्त्रम् आसताशृङ्गाः सतीः शृङ्गाणि सिषासन्तीस् 
   तासां दश मासा निषण्णा आसन् । 
   अथ शृङ्गाण्य् अजायन्त 
   ता अब्रुवन् । 
   अरात्स्मोत् तिष्ठामाव तं कामम् अरुत्स्महि येन कामेन न्यषदामेति 
   तासाम् उ त्वा अब्रुवन्न् अर्धा वा यावतीर् वा । 
   आसमहा एवेमौ द्वादशौ मासौ संवत्सरम्̇ सम्पाद्योत् तिष्ठामेति 
   तासाम्  

VERSE: 2

   द्वादशे मासि शृङ्गाणि प्रावर्तन्त श्रद्धया वाऽश्रद्धया वा 
   ता इमा यास् तूपराः । 
   उभय्यो वाव ता आर्ध्नुवन् याश् च शृङ्गाण्य् असन्वन् याश् चोर्जम् अवारुन्धत । 
   ऋध्नोति दशसु मासूत्तिष्ठन्न् ऋध्नोति द्वादशसु य एवं वेद 
   पदेन खलु वा एते यन्ति विन्दति खलु वै पदेन यन् 
   तद् वा एतद् ऋद्धम् अयनम् । 
   तस्माद् एतद् गोसनि ॥ 

7.5.3 अनुवाक 3 पृष्ठ्यषडहविकल्पाभिधानम् VERSE: 1

   प्रथमे मासि पृष्ठान्य् उप यन्ति मध्यम उप यन्त्य् उत्तम उप यन्ति 
   तद् आहुः । 
   यां वै त्रिर् एकस्याह्न उपसीदन्ति दह्रं वै साऽपराभ्यां दोहाभ्यां दुहे ऽथ कुतः सा धोक्ष्यते यां द्वादश कृत्व उपसीदन्तीति 
   संवत्सरम्̇ सम्पाद्योत्तमे मासि सकृत् पृष्ठान्य् उपेयुस् 
   तद् यजमाना यज्ञम् पशून् अव रुन्धते 
   समुद्रं वै  

VERSE: 2

   एते ऽनवारम् अपारम् प्र प्लवन्ते ये संवत्सरम् उपयन्ति 
   यद् बृहद्रथंतरे अन्वर्जेयुर् यथा मध्ये समुद्रस्य प्लवम् अन्वर्जेयुस् तादृक् तत् । 
   अनुत्सर्गम् बृहद्रथंतराभ्याम् इत्वा प्रतिष्ठां गच्छन्ति 
   सर्वेभ्यो वै कामेभ्यः संधिर् दुहे 
   तद् यजमानाः सर्वान् कामान् अव रुन्धते ॥ 

7.5.4 अनुवाक 4 उत्तरपक्षप्रकारविशेषाभिधानम् VERSE: 1

   समान्य ऋचो भवन्ति 
   मनुष्यलोको वा ऋचः । 
   मनुष्यलोकाद् एव न यन्ति । 
   अन्यदन्यत् साम भवति 
   देवलोको वै साम 
   देवलोकाद् एवान्यमन्यम् मनुष्यलोकम् प्रत्यवरोहन्तो यन्ति 
   जगतीम् अग्रे उप यन्ति 
   जगतीं वै छन्दाम्̇सि प्रत्यवरोहन्त्य् आग्रयणं ग्रहा बृहत् पृष्ठानि त्रयस्त्रिम्̇शम्̇ स्तोमास् 
   तस्माज् ज्यायाम्̇सं कनीयान् प्रत्यवरोहति 
   वैश्वकर्मणो गृह्यते 
   विश्वान्य् एव तेन कर्माणि यजमाना अव रुन्धते । 
   आदित्यः  

VERSE: 2

   गृह्यते । 
   इयं वा अदितिः । 
   अस्याम् एव प्रति तिष्ठन्ति । 
   अन्योऽन्यो गृह्येते मिथुनत्वाय प्रजात्यै । 
   अवान्तरं वै दशरात्रेण प्रजापतिः प्रजा असृजत 
   यद् दशरात्रो भवति प्रजा एव तद् यजमानाः सृजन्ते । 
   एताम्̇ ह वा उदङ्कः शौल्बायनः सत्त्रस्यद्धिम् उवाच यद् दशरात्रः । 
   यद् दशरात्रो भवति सत्त्रस्यद्ध्यै । 
   अथो यद् एव पूर्वेष्व् अहःसु विलोम क्रियते तस्यैवैषा शान्तिः ॥ 

7.5.5 अनुवाक 5 मात्सर्यप्रवृत्तगवामयनद्वय विशेषाभिधानम् VERSE: 1

   यदि सोमौ सम्̇सुतौ स्याताम् महति रात्रियै प्रातरनुवाकम् उपाकुर्यात् 
   पूर्वो वाचम् पूर्वो देवताः पूर्वश् छन्दाम्̇सि वृङ्क्ते वृषण्वतीम् प्रतिपदं कुर्यात् 
   प्रातःसवनाद् एवैषाम् इन्द्रं वृङ्क्ते । 
   अथो खल्व् आहुः 
   सवनमुखेसवनमुखे कार्येति 
   सवनमुखात्सवनमुखाद् एवैषाम् इन्द्रं वृङ्क्ते 
   संवेशायोपवेशाय गायत्रियास् त्रिष्टुभो जगत्या अनुष्टुभः पङ्क्त्या अभिभूत्यै स्वाहा 
   छन्दाम्̇सि वै संवेश उपवेशः । 
   छन्दोभिर् एवैषां  

VERSE: 2

   छन्दाम्̇सि वृङ्क्ते 
   सजनीयम्̇ शस्यम् । 
   विहव्यम्̇ शस्यम् 
   अगस्त्यस्य कयाशुभीयम्̇ शस्यम् 
   एतावद् वा अस्ति यावद् एतत् । 
   यावद् एवास्ति तद् एषां वृङ्क्ते 
   यदि प्रातःसवने कलशो दीर्येत वैष्णवीषु शिपिविष्टवतीषु स्तुवीरन् 
   यद् वै यज्ञस्यातिरिच्यते विष्णुं तच् छिपिविष्टम् अभ्य् अति रिच्यते 
   तद् विष्णुः शिपिविष्टो ऽतिरिक्त एवातिरिक्तं दधाति । 
   अथो अतिरिक्तेनैवातिरिक्तम् आप्त्वाव रुन्धते 
   यदि मध्यंदिने दीर्येत वषट्कारनिधनम्̇ साम कुर्युः । 
   वषट्कारो वै यज्ञस्य प्रतिष्ठा 
  प्रतिष्ठाम् एवैनद् गमयन्ति 
  यदि तृतीयसवन एतद् एव ॥ 

अनुवाक 6 गवामयनगुणविकाररूपोत्सर्गाभिधानम् VERSE: 1

   षडहैर् मासान्त् सम्पाद्याहर् उत् सृजन्ति 
   षडहैर् हि मासान्त् सम्पश्यन्ति । 
   अर्धमासैर् मासान्त् सम्पाद्याहर् उत् सृजन्ति । 
   अर्धमासैर् हि मासान्त् सम्पश्यन्ति । 
   अमावास्यया मासान्त् सम्पाद्याहर् उत् सृजन्ति । 
   अमावास्यया हि मासान्त् सम्पश्यन्ति 
   पौर्णमास्या मासान्त् सम्पाद्याहर् उत् सृजन्ति 
   पौर्णमास्या हि मासान्त् सम्पश्यन्ति 
   यो वै पूर्ण आसिञ्चति परा स सिञ्चति 
   यः पूर्णाद् उदचति  

VERSE: 2

   प्राणम् अस्मिन्त् स दधाति 
   यत् पौर्णमास्या मासान्त् सम्पाद्याहर् उत्सृजन्ति संवत्सरायैव तत् प्राणं दधति 
   तद् अनु सत्त्रिणः प्राणन्ति 
   यद् अहर् नोत्सृजेयुर् यथा दृतिर् उपनद्धो विपतत्य् एवम्̇ संवत्सरो वि पतेत् । 
   आर्तिम् आर्छेयुः । 
   यत् पौर्णमास्या मासान्त् सम्पाद्याहर् उत्सृजन्ति संवत्सरायैव तद् उदानं दधति 
   तद् अनु सत्त्रिण उत् 

VERSE: 3

   अनन्ति 
   नार्तिम् आर्छन्ति 
   पूर्णमासे वै देवानाम्̇ सुतः । 
   यत् पौर्णमास्या मासान्त् सम्पाद्याहर् उत्सृजन्ति देवानाम् एव तद् यज्ञेन यज्ञम् प्रत्यवरोहन्ति 
   वि वा एतद् यज्ञं छिन्दन्ति यत् षडहसंततम्̇ सन्तम् अथाहर् उत्सृजन्ति 
   प्राजापत्यम् पशुम् आलभन्ते 
   प्रजापतिः सर्वा देवताः । 
   देवताभिर् एव यज्ञम्̇ सं तन्वन्ति 
   यन्ति वा एते सवनाद् ये ऽहः  

VERSE: 4

   उत्सृजन्ति 
   तुरीयं खलु वा एतत् सवनं यत् सांनाय्यम् । 
   यत् सांनाय्यम् भवति तेनैव सवनान् न यन्ति 
   समुपहूय भक्षयन्ति । 
   एतत्सोमपीथा ह्य् एतर्हि 
   यथायतनं वा एतेषाम्̇ सवनभाजो देवता गच्छन्ति ये ऽहर् उत्सृजन्ति । 
   अनुसवनम् पुरोडाशान् निर् वपन्ति 
   यथायतनाद् एव सवनभाजो देवता अव रुन्धते । 
   ऽष्टाकपालान् प्रातःसवन एकादशकपालान् माध्यंदिने सवने द्वादशकपालाम्̇स् तृतीयसवने 
   छन्दाम्̇स्य् एवाप्त्वाव रुन्धते 
   वैश्वदेवं चरुं तृतीयसवने निर् वपन्ति 
   वैश्वदेवं वै तृतीयसवनम् । 
  तेनैव तृतीयसवनान् न यन्ति ॥ 

7.5.7 अनुवाक 7 अहरुत्सर्गविशेषाभिधानम् VERSE: 1

   उत्सृज्या3ं नोत्सृज्या3म् इति मीमाम्̇सन्ते ब्रह्मवादिनस् 
   तद् व् आहुः । 
   उत्सृज्यम् एवेति । 
   अमावास्यायां च पौर्णमास्यां चोत्सृज्यम् इत्य् आहुः । 
   एते हि यज्ञं वहत इति 
   ते त्वाव नोत्सृज्ये इत्य् आहुर् ये अवान्तरं यज्ञम् भेजाते इति 
   या प्रथमा व्यष्टका तस्याम् उत्सृज्यम् इत्य् आहुः । 
   एष वै मासो विशर इति 
   नाऽऽदिष्टम् ॥ 

VERSE: 2

   उत् सृजेयुः । 
   यद् आदिष्टम् उत्सृजेयुर् यादृशे पुनः पर्याप्लावे मध्ये षडहस्य सम्पद्येत षडहैर् मासान्त् सम्पाद्य यत् सप्तमम् अहस् तस्मिन्न् उत् सृज्येयुस् 
   तद् अग्नये वसुमते पुरोडाशम् अष्टाकपालं निर् वपेयुर् ऐन्द्रं दधीन्द्राय मरुत्वते पुरोडाशम् एकादशकपालं वैश्वदेवं द्वादशकपालम् 
   अग्नेर् वै वसुमतः प्रातःसवनम् । 
   यद् अग्नये वसुमते पुरोडाशम् अष्टाकपालं निर्वपति देवताम् एव तद् भागिनीं कुर्वन्ति । 

VERSE: 3

   सवनम् अष्टाभिर् उप यन्ति 
   यद् ऐन्द्रं दधि भवतीन्द्रम् एव तद् भागधेयान् न च्यावयन्ति । 
   इन्द्रस्य वै मरुत्वतो माध्यंदिनम्̇ सवनम् । 
   यद् इन्द्राय मरुत्वते पुरोडाशम् एकादशकपालं निर्वपन्ति देवताम् एव तद् भागिनीं कुर्वन्ति सवनम् एकादशभिर् उप यन्ति 
   विश्वेषां वै देवानाम् ऋभुमतां तृतीयसवनम् । 
   यद् वैश्वदेवं द्वादशकपालं निर्वपन्ति देवता एव तद् भागिनीः कुर्वन्ति सवनं द्वादशभिः  

VERSE: 4

   उप यन्ति 
   प्राजापत्यम् पशुम् आ लभन्ते 
   यज्ञो वै प्रजापतिर् यज्ञस्याननुसर्गाय । 
   अभिवर्त इतः षण् मासो ब्रह्मसामम् भवति 
   ब्रह्म वा अभिवर्तः । 
   ब्रह्मणैव तत् सुवर्गं लोकम् अभिवर्तयन्तो यन्ति 
   प्रतिकूलम् इव हीतः सुवर्गो लोकः । 
   इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । 
   शिक्षा नो अस्मिन् पुरुहूत यामनि जीवा ज्योतिर् अशीमहीत्य् अमुत आयताम्̇ षण् मासो ब्रह्मसामम् भवति । 
   अयं वै लोको ज्योतिः प्रजा ज्योतिः । 
  इमम् एव तल् लोकम् पश्यन्तो ऽभिवदन्त आ यन्ति ॥ 

7.5.8 अनुवाक 8 सामविशेषकथनम् VERSE: 1

   देवानां वा अन्तं जग्मुषाम् इन्द्रियं वीर्यम् अपाक्रामत् 
   तत् क्रोशेनावारुन्धत 
   तत् क्रोशस्य क्रोशत्वम् । 
   यत् क्रोशेन चात्वालस्यान्ते स्तुवन्ति यज्ञस्यैवान्तं गत्वेन्द्रियं वीर्यम् अव रुन्धते 
   सत्त्रस्यर्द्ध्याऽऽहवनीयस्यान्ते स्तुवन्ति । 
   अग्निम् एवोपद्रष्टारं कृत्वर्द्धिम् उप यन्ति 
   प्रजापतेर्हृदयेन हविर्धाने ऽन्तः स्तुवन्ति 
   प्रेमाणम् एवास्य गच्छन्ति 
   श्लोकेन पुरस्तात् सदसः  

VERSE: 2

   स्तुवन्त्य् अनुश्लोकेन पश्चात् । 
   यज्ञस्यैवान्तं गत्वा श्लोकभाजो भवन्ति 
   नवभिर् अध्वर्युर् उद् गायति 
   नव वै पुरुषे प्राणाः 
   प्राणान् एव यजमानेषु दधाति 
   सर्वा ऐन्द्रियो भवन्ति 
   प्राणेष्व् एवेन्द्रियं दधति । 
   अप्रतिहृताभिर् उद् गायति 
   तस्मात् पुरुषः सर्वाण्य् अन्यानि शीर्ष्णो ऽङ्गानि प्रत्य् अचति 
   शिर एव न 
  पञ्चदशम्̇ रथंतरम् भवतीन्द्रियम् एवाव रुन्धते 
  सप्तदशम्  

VERSE: 3

   बृहद् अन्नाद्यस्यावरुद्ध्यै । 
   अथो प्रैव तेन जायन्ते । 
   एकविम्̇शम् भद्रं द्विपदासु प्रतिष्ठित्यै 
   पत्नय उप गायन्ति 
   मिथुनत्वाय प्रजात्यै 
   प्रजापतिः प्रजा असृजत 
   सो ऽकामयत । 
   आसाम् अहम्̇ राज्यम् परीयाम् इति 
   तासाम्̇ राजनेनैव राज्यम् पर्य् ऐत् 
   तद् राजनस्य राजनत्वम् । 
   यद् राजनम् भवति प्रजानाम् एव तद् यजमाना राज्यम् परि यन्ति 
  पञ्चविम्̇शम् भवति प्रजापतेः  

VERSE: 4

   आप्त्यै 
   पञ्चभिस् तिष्ठन्त स्तुवन्ति देवलोकम् एवाभि जयन्ति 
   पञ्चभिर् आसीना मनुष्यलोकम् एवाभि जयन्ति 
   दश सम् पद्यन्ते दशाक्षरा  विराड्  
   अन्नं  विराड्  
   विराजैवान्नाद्यम् अव रुन्धते 
   पञ्चधा विनिषद्य स्तुवन्ति 
   पञ्च दिशः । 
   दिक्ष्वेव प्रति तिष्ठन्ति । 
   एकैकयाऽस्तुतया समायन्ति दिग्भ्य एवान्नाद्यम्̇ सम् भरन्ति 
   ताभिर् उद्गातोद् गायति 
  दिग्भ्य एवान्नाद्यम्  

VERSE: 5

   सम्भृत्य तेज आत्मन् दधते 
   तस्माद् एकः प्राणः सर्वाण्य् अङ्गान्य् अवति । 
   अथो यथा सुपर्ण उत्पतिष्यञ् छिर उत्तमं कुरुत एवम् एव तद् यजमानाः प्रजानाम् उत्तमा भवन्ति । 
   आसन्दीम् उद्गाता रोहति साम्राज्यम् एव गच्छन्ति 
   प्लेङ्खम्̇ होता नाकस्यैव पृष्ठम्̇ रोहन्ति 
   कूर्चाव् अध्वर्युर् ब्रध्नस्यैव विष्टपं गच्छन्ति । 
   एतावन्तो वै देवलोकास् तेष्व् एव यथापूर्वम् प्रति तिष्ठन्ति । 
   अथो आक्रमणम् एव तत् सेतुं यजमानाः कुर्वते सुवर्गस्य लोकस्य समष्ट्यै ॥ 

7.5.9 अनुवाक 9 शततन्तुवीणादिकथनम् VERSE: 1

   अर्क्येण वै सहस्रशः प्रजापतिः प्रजा असृजत 
   ताभ्य इलांदेनेरां लूताम् अवारुन्द्ध 
   यद् अर्क्यम् भवति प्रजा एव तद् यजमानाः सृजन्ते । 
   इलांदम् भवति प्रजाभ्य एव सृष्टाभ्य इरां लूताम् अव रुन्धते 
   तस्माद् याम्̇ समाम्̇ सत्त्रम्̇ समृद्धं क्षोधुकास् ताम्̇ समाम् प्रजा इषम्̇ ह्य् आसामूर्जम् आददते 
   याम्̇ समां व्यृद्धम् अक्षोधुकास् ताम्̇ समाम् प्रजाः  

VERSE: 2

   न ह्य् आसाम् इषमूर्जम् आददते । 
   उत्क्रोदं कुर्वते 
   यथा बन्धान् मुमुचाना उत्क्रोदं कुर्वत एवम् एव तद् यजमाना देवबन्धान् मुमुचाना उत्क्रोदं कुर्वत इषमूर्जं आत्मन् दधानाः । 
   वाणः शततन्तुर् भवति 
   शतायुः पुरुषः शतेन्द्रियः । 
   आयुष्य् एवेन्द्रिये प्रति तिष्ठन्ति । 
   आजिं धावन्त्य् अनभिजितस्याभिजित्यै 
   दुन्दुभीन्त् समाघ्नन्ति 
   परमा वा एषा वाग् या दुन्दुभौ 
   परमाम् एव  

VERSE: 3

   वाचम् अव रुन्धते 
   भूमिदुन्दुभिम् आ घ्नन्ति 
   यैवेमां वाक् प्रविष्टा ताम् एवाव रुन्धते । 
   अथो इमाम् एव जयन्ति 
   सर्वा वाचो वदन्ति 
   सर्वासां वाचाम् अवरुद्ध्यै । 
   आर्द्रे चर्मन् व्यायच्छेते 
   इन्द्रियस्यावरुद्ध्यै । 
   आन्यः क्रोशति प्रान्यः शम्̇सति 
  य आक्रोशति पुनात्य् एवैनान्त्  स  
   यः प्रशम्̇सति पूतेष्व् एवान्नाद्यं दधाति । 

2़ ऋषिकृतं च

VERSE: 4

   वा एते देवकृतं च पूर्वैर् मासैर् अव रुन्धते 
   यद् भूतेच्छदाम्̇ सामानि भवन्त्य् उभयस्यावरुद्ध्यै 
   यन्ति वा एते मिथुनाद् ये संवत्सरम् उपयन्ति । 
   अन्तर्वेदि मिथुनौ सम् भवतस् 
   तेनैव मिथुनान् न यन्ति ॥ 

7.5.10 अनुवाक 10 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1

   चर्माव भिन्दन्ति 
   पाप्मानम् एवैषाम् अव भिन्दन्ति 
   माऽप रात्सीर् माऽति व्यात्सीर् इत्य् आह 
   सम्प्रत्य् एवैषाम् पाप्मानम् अव भिन्दन्ति । 
   उदकुम्भान् अधिनिधाय दास्यो मार्जालीयम् परि नृत्यन्ति पदो निघ्नतीर् इदम्मधुं गायन्त्यः । 
   मधु वै देवानाम् परमम् अन्नाद्यम् 
   परमम् एवान्नाद्यम् अव रुन्धते 
   पदो नि घ्नन्ति 
   महीयाम् एवैषु दधति ॥ 

7.5.11 अनुवाक 11 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1

   पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा 
   सम्प्लोष्यते स्वाहा सम्प्लवमानाय स्वाहा सम्प्लुताय स्वाहा 
   मेघायिष्यते स्वाहा मेघायते स्वाहा मेघिताय स्वाहा मेघाय स्वाहा 
   नीहाराय स्वाहा निहाकायै स्वाहा 
   प्रासचाय स्वाहा प्रचलाकायै स्वाहा 
   विद्योतिष्यते स्वाहा विद्योतमानाय स्वाहा संविद्योतमानाय स्वाहा 
   स्तनयिष्यते स्वाहा स्तनयते स्वाहोग्रम्̇ स्तनयते स्वाहा 
   वर्षिष्यते स्वाहा वर्षते स्वाहाभिवर्षते स्वाहा परिवर्षते स्वाहा संवर्षते  

VERSE: 2

   स्वाहानुवर्षते स्वाहा 
   शीकायिष्यते स्वाहा शीकायते स्वाहा शीकिताय स्वाहा 
   प्रोषिष्यते स्वाहा प्रुष्णते स्वाहा परिप्रुष्णते स्वाहा । 
   उद्ग्रहीष्यते स्वाहोद्ग्रृह्णते स्वाहोद्ग्रृहीताय स्वाहा 
   विप्लोष्यते स्वाहा विप्लवमानाय स्वाहा विप्लुताय स्वाहा । 
   आतप्स्यते स्वाहाऽऽतपते स्वाहोग्रम् आतपते स्वाहा । 
   ऋग्भ्यः स्वाहा यजुर्भ्यः स्वाहा सामभ्यः स्वाहाङ्गिरोभ्यः स्वाहा 
   वेदेभ्यः स्वाहा गाथाभ्यः स्वाहा नाराशम्̇सीभ्यः स्वाहा रैभीभ्यः स्वाहा 
   सर्वस्मै स्वाहा ॥ 

7.5.12 अनुवाक 12 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1

   दत्वते स्वाहाऽदन्तकाय स्वाहा 
   प्राणिने स्वाहाऽप्राणाय स्वाहा 
   मुखवते स्वाहाऽमुखाय स्वाहा 
   नासिकवते स्वाहाऽनासिकाय स्वाहा । 
   अक्षण्वते स्वाहाऽनक्षिकाय स्वाहा 
   कर्णिने स्वाहाऽकर्णकाय स्वाहा 
   शीर्षण्वते स्वाहाऽशीर्षकाय स्वाहा 
   पद्वते स्वाहाऽपादकाय स्वाहा 
   प्राणते स्वाहाऽप्राणते स्वाहा 
   वदते स्वाहाऽवदते स्वाहा 
   पश्यते स्वाहाऽपश्यते स्वाहा 
  शृण्वते स्वाहाऽशृण्वते स्वाहा 
   मनस्विने स्वाहा  

VERSE: 2

   अमनसे स्वाहा 
   रेतस्विने स्वाहाऽरेतस्काय स्वाहा 
   प्रजाभ्यः स्वाहा प्रजननाय स्वाहा 
   लोमवते स्वाहाऽलोमकाय स्वाहा 
   त्वचे स्वाहाऽत्वक्काय स्वाहा 
   चर्मण्वते स्वाहाऽचर्मकाय स्वाहा 
   लोहितवते स्वाहाऽलोहिताय स्वाहा 
   माम्̇सन्वते स्वाहाऽमाम्̇सकाय स्वाहा 
   स्नावभ्यः स्वाहाऽस्नावकाय स्वाहा । 
   अस्थन्वते स्वाहाऽनस्थिकाय स्वाहा 
   मज्जन्वते स्वाहाऽमज्जकाय स्वाहा । 
   अङ्गिने स्वाहाऽनङ्गाय स्वाहा । 
   आत्मने स्वाहाऽनात्मने स्वाहा 
  सर्वस्मै स्वाहा ॥ 

7.5.13 अनुवाक 13 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1

   कस् त्वा युनक्ति स त्वा युनक्तु 
   विष्णुस् त्वा युनक्तु । 
   अस्य यज्ञस्यर्द्ध्यै मह्यम्̇ संनत्यै । 
   अमुष्मै कामाय । 
   आयुषे त्वा प्राणाय त्वाऽपानाय त्वा व्यानाय त्वा 
   व्युष्ट्यै त्वा 
   रय्यै त्वा राधसे त्वा 
   घोषाय त्वा पोषाय त्वाऽऽराद्घोषाय त्वा 
   प्रच्युत्यै त्वा ॥ 

7.5.14 अनुवाक 14 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1

   अग्नये गायत्राय त्रिवृते राथंतराय वासन्तायाष्टाकपालः । 
   इन्द्राय त्रैष्टुभाय पञ्चदशाय बार्हताय ग्रीष्मायैकादशकपालः । 
   विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो वार्षिकेभ्यो द्वादशकपालः । 
   मित्रावरुणाभ्याम् आनुष्टुभाभ्याम् एकविम्̇शाभ्यां वैराजाभ्याम्̇ शारदाभ्याम् पयस्या 
   बृहस्पतये पाङ्क्ताय त्रिणवाय शाक्वराय हैमन्तिकाय चरुः 
   सवित्र आतिच्छन्दसाय त्रयस्त्रिम्̇शाय रैवताय शैशिराय द्वादशकपालः । 
   अदित्यै विष्णुपत्न्यै चरुः । 
   अग्नये वैश्वानराय द्वादशकपालः । 
   अनुमत्यै चरुः 
  काय एककपालः ॥ 

7.5.15 अनुवाक 15 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1

   यो वा अग्नाव् अग्निः प्रह्रियते यश् च सोमो राजा तयोर् एष आतिथ्यं यद् अग्नीषोमीयः । 
   अथैष रुद्रो यश् चीयते 
   यत् संचिते ऽग्नाव् एतानि हवीम्̇षि न निर्वपेत् । 
   एष एव रुद्रो ऽशान्त उपोत्थाय प्रजाम् पशून् यजमानस्याभि मन्येत 
   यत् संचिते ऽग्नाव् एतानि हवीम्̇षि निर्वपति भागधेयेनैवैनम्̇ शमयति नास्य रुद्रो ऽशान्तः  

VERSE: 2

   उपोत्थाय प्रजाम् पशून् अभि मन्यते 
   दश हवीम्̇षि भवन्ति 
   नव वै पुरुषे प्राणा नाभिर् दशमी 
   प्राणान् एव यजमाने दधाति । 
   अथो दशाक्षरा  विराड्  
   अन्नं  विराड्  
   विराज्य् एवान्नाद्ये प्रति तिष्ठति । 
   ऋतुभिर् वा एष छन्दोभिः स्तोमैः पृष्ठैश् चेतव्य इत्य् आहुः । 
   यद् एतानि हवीम्̇षि निर्वपत्य् ऋतुभिर् एवैनं छन्दोभिः स्तोमैः पृष्ठैश् चिनुते 
   दिशः सुषुवाणेन 

VERSE: 3

   अभिजित्या इत्य् आहुः । 
   यद् एतानि हवीम्̇षि निर्वपति दिशाम् अभिजित्यै । 
   एतया वा इन्द्रं देवा अयाजयन् तस्माद् इन्द्रसवः । 
   एतया मनुम् मनुष्यास् तस्मान् मनुसवः । 
   यथेन्द्रो देवानां यथा मनुर् मनुष्याणाम् एवम् भवति य एवं विद्वान् एतयेष्ट्या यजते 
   दिग्वतीः पुरोऽनुवाक्या भवन्ति 
   सर्वासां दिशाम् अभिजित्यै ॥ 

7.5.16 अनुवाक 16 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1 यः प्राणतो निमिषतो महित्वैक इद् राजा जगतो बभूव । य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥ उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि तस्य ते द्यौर् महिमा नक्षत्राणि रूपम् आदित्यस् ते तेजस् तस्मै त्वा महिम्ने प्रजापतये स्वाहा ॥

7.5.17 अनुवाक 17 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1 य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायाऽमृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥ उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि तस्य ते पृथिवी महिमौषधयो वनस्पतयो रूपम् अग्निस् ते तेजस् तस्मै त्वा महिम्ने प्रजापतये स्वाहा ॥

7.5.18 अनुवाक 18 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1

   आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम् 
   आऽस्मिन् राष्ट्रे राजन्य इषव्यः शूरो महारथो जायताम् । 
   दोग्ध्री धेनुः । 
   वोढाऽनड्वान् 
   आशुः सप्तिः 
   पुरंधिर् योषा 
   जिष्णू रथेष्ठाः 
   सभेयो युवा । 
   आऽस्य यजमानस्य वीरो जायताम् । 
   निकामेनिकामे नः पर्जन्यो वर्षतु 
   फलिन्यो न ओषधयः पच्यन्ताम् । 
   योगक्षेमो नः कल्पताम् ॥ 

7.5.19 अनुवाक 19 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1 आऽक्रान् वाजी पृथिवीम् अग्निं युजम् अकृत वाज्य् अर्वाऽक्रान् वाज्य् अन्तरिक्षं वायुं युजम् अकृत वाज्य् अर्वा द्यां वाज्य् आऽक्रम्̇स्त सूर्यं युजम् अकृत वाज्य् अर्वा । अग्निस् ते वाजिन् युङ्ङ् अनु त्वा रभे स्वस्ति मा सम् पारय वायुस् ते वाजिन् युङ्ङ् अनु त्वाऽऽ रभे स्वस्ति मा सम्

VERSE: 2

   पारयाऽऽदित्यस् ते वाजिन् युङ्ङ् अनु त्वा रभे स्वस्ति मा सम् पारय प्राणधृग् असि प्राणम् मे दृम्̇ह व्यानधृग् असि व्यानम् मे दृम्̇हापानधृग् अस्य् अपानम् मे दृम्̇ह चक्षुर् असि चक्षुर् मयि धेहि श्रोत्रम् असि श्रोत्रम् मयि धेह्य् आयुर् अस्य् आयुर् मयि धेहि ॥  

7.5.20 अनुवाक 20 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1

   जज्ञि बीजम् । 
   वर्ष्टा पर्जन्यः 
   पक्ता सस्यम् । 
   सुपिप्पला ओषधयः 
   स्वधिचरणेयम् । 
   सूपसदनो ऽग्निः 
   स्वध्यक्षम् अन्तरिक्षम् । 
   सुपावः पवमानः 
   सूपस्थाना द्यौः 
   शिवम् असौ तपन् 
  यथापूर्वम् अहोरात्रे 
   पञ्चदशिनो ऽर्धमासास् 
   त्रिम्̇शिनो मासाः 
   क्लृप्ता ऋतवः 
   शान्तः संवत्सरः ॥ 

7.5.21 अनुवाक 21 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1

   आग्नेयो ऽष्टाकपालः 
   सौम्यश् चरुः 
   सावित्रो ऽष्टाकपालः 
   पौष्णश् चरुः । 
   रौद्रश् चरुः । 
   अग्नये वैश्वानराय द्वादशकपालो मृगाखरे यदि नाऽऽगच्छेत् । 
   अग्नये ऽम्̇होमुचे ऽष्टाकपालः 
   सौर्यम् पयः । 
   वायव्य आज्यभागः ॥ 

7.5.22 अनुवाक 22 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1

   अग्नये ऽम्̇होमुचे ऽष्टाकपालः । 
   इन्द्रायाम्̇होमुच एकादशकपालः । 
   मित्रावरुणाभ्याम् आगोमुग्भ्याम् पयस्या 
   वायोसावित्र आगोमुग्भ्यां चरुः । 
   अश्विभ्याम् आगोमुग्भ्यां धानाः । 
   मरुद्भ्य एनोमुग्भ्यः सप्तकपालः । 
   विश्वेभ्यो देवेभ्य एनोमुग्भ्यो द्वादशकपालः । 
   अनुमत्यै चरुः । 
   अग्नये वैश्वानराय द्वादशकपालः । 
   द्यावापृथिवीभ्याम् अम्̇होमुग्भ्यां द्विकपालः ॥ 

7.5.23 अनुवाक 23 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1

   अग्नये समनमत् पृथिव्यै समनमत् । 
   यथाग्निः पृथिव्या समनमद् एवम् मह्यम् भद्राः संनतयः सं नमन्तु 
   वायवे समनमद् अन्तरिक्षाय समनमत् । 
   यथा वायुर् अन्तरिक्षेण 
   सूर्याय समनमद् दिवे समनमत् । 
   यथा सूर्यो दिवा 
   चन्द्रमसे समनमन् नक्षत्रेभ्यः समनमत् । 
   यथा चन्द्रमा नक्षत्रैः  
   वरुणाय समनमद् अद्भ्यः समनमत् । 
   यथा  

VERSE: 2

   वरुणो ऽद्भिः 
   साम्ने समनमद् ऋचे समनमत् । 
   यथा सामर्चा 
   ब्रह्मणे समनमत् क्षत्राय समनमत् । 
   यथा ब्रह्म क्षत्रेण 
   राज्ञे समनमद् विशे समनमत् । 
   यथा राजा विशा 
   रथाय समनमद् अश्वेभ्यः समनमत् । 
   यथा रथो ऽश्वैः 
  प्रजापतये समनमद् भूतेभ्यः समनमत् । 
  यथा प्रजापतिर् भूतैः समनमद् एवम् मह्यम् भद्राः संनतयः सं नमन्तु ॥ 

7.5.24 अनुवाक 24 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1 ये ते पन्थानः सवितः पूर्व्यासो ऽरेणवो वितता अन्तरिक्षे । तेभिर् नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च देव ब्रूहि ॥ नमो ऽग्नये पृथिविक्षिते लोकस्पृते लोकम् अस्मै यजमानाय देहि नमो वायवे ऽन्तरिक्षक्षिते लोकस्पृते लोकम् अस्मै यजमानाय देहि नमः सूर्याय दिविक्षिते लोकस्पृते लोकम् अस्मै यजमानाय देहि ॥

7.5.25 अनुवाक 25 अश्वमेधाङ्गमन्त्रकथनम् VERSE: 1

   यो वा अश्वस्य मेध्यस्य शिरो वेद शीर्षण्वान् मेध्यो भवति । 
   उषा वा अश्वस्य मेध्यस्य शिरः 
   सूर्यश् चक्षुः । 
   वातः प्राणः । 
   चन्द्रमाः श्रोत्रम् । 
   दिशः पादौ । 
   अवान्तरदिशाः पर्शवः । 
   अहोरात्रे निमेषः । 
   अर्धमासाः पर्वाणि 
   मासाः संधानानि । 
   ऋतवो ऽङ्गानि 
  संवत्सर आत्मा 
  रश्मयः केशाः । 
   नक्षत्राणि रूपम् । 
   तारका अस्थानि 
  नभो माम्̇सानि । 
   ओषधयो लोमानि 
   वनस्पतयो वालाः । 
   अग्निर् मुखम् । 
   वैश्वानरो व्यात्तम् । 

VERSE: 2

   समुद्र उदरम् 
   अन्तरिक्षम् पायुः । 
   द्यावापृथिवी आण्डौ 
   ग्रावा शेपः 
   सोमो रेतः । 
   यज् जञ्जभ्यते तद् वि द्योतते 
   यद् विधूनुते तत् स्तनयति 
   यन् मेहति तद् वर्षति 
   वाग् एवास्य  वाग्  
   अहर् वा अश्वस्य जायमानस्य महिमा पुरस्ताज् जायते रात्रिर् एनम् महिमा पश्चाद् अनु जायते । 
   एतौ वै महिमानाव् अश्वम् अभितः सम् बभूवतुः । 
  हयो देवान् अवहद् अर्वाऽसुरान् वाजी गन्धर्वान् अश्वो मनुष्यान् । 
   समुद्रो वा अश्वस्य योनिः समुद्रो बन्धुः ॥ 



म्̇ 2350, 2381, 775 म्̐ 2350, 2381, 784 This file has been copied from the following webpage, with fonts changed and necessary corrections made :

Taittiriya Samhitaa

This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita. Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.

उपरोक्त रोमन लिपि संस्करण के देवनागरी रूपान्तर के सम्पादन हेतु दो संस्करणों का उपयोग किया गया है – 1. तैत्तिरीय संहिता, सम्पादकः – धर्माधिकारी नारायणसूनुः त्रिविक्रमशर्मा (वैदिक संशोधन मण्डल, पुणे) 2. कृष्णयजुर्वेदीय तैत्तिरीय संहिता, सम्पादकः – वे.शा.रा.रा. काशीनाथशास्त्री आगाशे (आनन्दाश्रम संस्था, पुणे) रोमन लिपि के संस्करण में तैत्तिरीय संहिता के मूल पाठ का व्यापक रूप से संधिविच्छेद किया गया है और वर्तमान देवनागरी संस्करण में भी उसे यथावत् रहने दिया गया है क्योंकि मूल पाठ का पुनः प्रतिस्थापन करना बहुत श्रमसाध्य होता। संहिता के मूल पाठ में यह पता लगाना प्रथम दृष्टि में कठिन होता है कि वाक्य का आरम्भ कहां से हुआ है और कहां वाक्य पूरा हो रहा है। रोमन लिपि संस्करण में इस कमी को दूर करने की चेष्टा की गई है और वाक्य के समाप्त होने पर नई पंक्ति का आरम्भ कर दिया गया है। वर्तमान संस्करण में निम्नलिखित महत्त्वपूर्ण संशोधन किए गए हैं – 1. रोमन लिपि के संस्करण में अवग्रहों की प्रायः उपेक्षा की गई है जिसे देवनागरी संस्करण में सुधारने का प्रयत्न किया गया है। 2. विभिन्न अनुवाकों के शीर्षकों को तैत्तिरीय संहिता के अन्य संस्करणों के आधार पर दिया गया है। 3. रोमन लिपि के संस्करण में जो टंकण की अशुद्धियां हैं, उन्हें दूर कर दिया गया है। - विपिन कुमार 7-5-2014ई.( वैशाख शुक्ल अष्टमी, विक्रम संवत् 2071)