कृष्णामृतमहार्णवः

विकिस्रोतः तः
Jump to navigation Jump to search
कृष्णामृतमहार्णवः
विष्णुस्तोत्राणि
[[लेखकः :|]]

ॐ.

अर्चितः संस्मृतो ध्यातः कीर्तितः कथितः श्रुतः
यो ददात्यमृतत्वं हि स मां रक्षतु केशवः. ।। १ ।।

तापत्रयेण संतप्तं यदेतदखिलं जगत्
वक्ष्यामि शान्तये ह्यस्य कृष्णामृतमहार्णवम्. ।। २ ।।

ते नराः पशवो लोके किं तेषां जीवने फलम्
यैर्न लब्धा हरेर्दीक्षा नार्चितो वा जनार्दनः. ।। ३ ।।

संसारेऽस्मिन्महाघोरे जन्मरोगभयाकुले
अयं एको महाभागः पूज्यते यदधोक्षजः. ।। ४ ।।

स नाम सुकृती लोके कुलं तेन ह्यलंकृतम्
आधारः सर्वभूतानां येन विष्णुः प्रसादितः. ।। ५ ।।

यज्ञानां तपसां चैव शुभानां चैव कर्मणां
तद्विशिष्टफलं नृणां सदैवाराधनं हरेः. ।। ६ ।।

कलौ कलिमलध्वंसिसर्वपापहरं हरिम्
येऽर्चयन्ति नरा नित्यं तेऽपि वन्द्या यथा हरिः. ।। ७ ।।

नास्ति श्रेयस्करं नृणां विष्णोराराधनान्मुने
युगेऽस्मिंस्तामसे लोके सततं पूज्यते नृभिः. ।। ८ ।।

अर्चिते सर्वदेवेशे शङ्कचक्रगदाधरे
अर्चिताः सर्वदेवाः स्युर्यतः सर्वगतो हरिः. ।। ९ ।।

स्वर्चिते सर्वलोकेशे सुरासुरनमस्कृते
केशवे कंसकेशिघ्ने न याति नरकं नरः. ।। १० ।।

सकृदभ्यर्च्य गोविन्दं बिल्वपत्रेण मानवः
मुक्तिभागी निरातङ्की विष्णुलोके चिरं वसेत्. ।। ११ ।।

सकृदभ्यर्चितो येन हेळयाऽपि नमस्कृतः
स याति परमं स्थानं यत्सुरैरपि दुर्लभम्. ।। १२ ।।

णारदःः
समस्तलोकनाथस्य देवदेवस्य शार्ङ्गिणः
साक्षाद्भगवतो विष्णोः पूजनं जन्मनः फलम्. ।। १३ ।।

Pउलस्त्यःः
भक्त्या दूर्वाङ्कुरैः पुम्भिः पूजितः पुरुषोत्तमः
हरिर्ददाति हि फलं सर्वयज्ञैश्च दुर्लभम्. ।। १४ ।।

विधिना देवदेवेशः शङ्खचक्रधरो हरिः
फलं ददाति सुलभं सलिलेनापि पूजितः. ।। १५ ।।

नरके पच्यमानस्तु यमेन परिभाषितः
किं त्वया नार्चितो देवः केशवः क्लेशनाशनः. ।। १६ ।।

धर्मःः
नरसिंहो हृषीकेशः पुण्डरीकनिभेक्षणः
स्मरणान्मुक्तिदो नृणां स त्वया किं न पूजितः. ।। १७ ।।

द्रव्याणां अप्यभावे तु सलिलेनापि पूजितः
यो ददाति स्वकं स्थानं स त्वया किं न पूजितः. ।। १८ ।।

गर्भस्थितामृता वाऽपि मुषितास्ते सुदूषिताः
न प्राप्ता यैर्हरेर्दीक्षा सर्वदुःखविमोचनी. ।। १९ ।।

ंआर्कण्डेयःः
सकृदभ्यर्चितो येन देवदेवो जनार्दनः
यत्कृतं तत्कृतं तेन सम्प्राप्तं परमं पदम्. ।। २० ।।

धर्मार्थकाममोक्षाणां नान्योपायस्तु विद्यते
सत्यं ब्रवीमि देवेश हृषीकेशार्चनाहते. ।। २१ ।।

तस्य यज्ञवराहस्य विष्णोरमिततेजसः
प्रणामं येऽपि कुर्वन्ति तेषां अपि नमो नमः. ।। २२ ।।

ंअरीचिःः
अनाराधितगोविन्दैर्नरैः स्थानं नृपात्मज
न हि सम्प्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम्. ।। २३ ।।

आत्रिःः
परः पराणां पुरुषस्तुष्टो यस्य जनार्दनः
स चाऽप्नोत्यक्षयं स्थानं एतत्सत्यं मयोदितम्. ।। २४ ।।

आङ्गिराःः
यस्यान्तः सर्वं एवेदं अच्युतस्याख्ययात्मनः
तं आराधय गोविन्दं स्थानं अग्र्यं यदीच्छसि. ।। २५ ।।

Pउलहःः
परं ब्रह्म परं धाम योऽसौ ब्रह्म सनातनम्
तं आराध्य हरिं याति मुक्तिं अप्यतिदुर्लभाम्. ।। २६ ।।

ऐन्द्रं इन्द्रः परं स्थानं यं आराध्य जगत्पतिम्
प्राप यज्ञपतिं विष्णुं तं आराधय सुव्रत. ।। २७ ।।

प्राप्नोत्याराधिते विष्णौ मनसा यद्यदिच्छति
त्रैलोक्यान्तर्गतं स्थानं किमु लोकोत्तरोत्तरान्. ।। २८ ।।

ये स्मरन्ति सदा विष्णुं शङ्खचक्रगदाधरम्
सर्वपापविनिर्मुक्ताः परं ब्रह्म विशन्ति ते. ।। २९ ।।

ततोऽनिरुद्धं देवेशं प्रद्युम्नं च ततः परम्
ततः संकर्षणं देवं वासुदेवं परात्परम्. ।। ३० ।।

वासुदेवात्परं नास्ति इति वेदान्तनिश्चयः
वासुदेवं प्रविष्टानां पुनरावर्तनं कुतः. ।। ३१ ।।

âत्रेयःः
यो यानिच्छेन्नरः कामान्नारी वा वरवर्णिनी
तान्समाप्नोति विपुलान्समाराध्य जनार्धनम्. ।। ३२ ।।

Pउलह सग्तेः

B्रह्माः
बाहुभ्यां सागरं तर्तुं क इच्छेत पुमान्भुवि
वासुदेवं अनाराध्य को मोक्षं गन्तुं इच्छति. ।। ३३ ।।

ऋअंकरःः
कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते
प्रायश्चित्तं तु तस्योक्तं हरिसंस्मरणं परम्. ।। ३४ ।।

न ह्यपुण्यवतां लोके मूढानां कुटिलात्मनां
भक्तिर्भवति गोविन्दे स्मरणं कीर्तनं तथा. ।। ३५ ।।

तदैव पुरुषो मुक्तो जन्मदुःखजरादिभिः
जितेन्द्रियो विशुद्धात्मा यदैव स्मरते हरिम्. ।। ३६ ।।

प्राप्ते कलियुगे घोरे धर्मज्ञानविवर्जिते
न कश्चित्स्मरते देवं कृष्णं कलिमलापहम्. ।। ३७ ।।

न कलौ देवदेवस्य जन्मदुःखापहारिणः
करोति मर्त्यो मूढात्मा स्मरणं कीर्तनं हरेः. ।। ३८ ।।

ये स्मरन्ति सदा विष्णुं विशुद्धेनान्तरात्मना
ते प्रयान्ति भवं त्यक्त्वा विष्णुलोकं अनामयम्. ।। ३९ ।।

गर्भजन्मजरारोगदुःख संसारबन्धनैः
न बाध्यते नरो नित्यं वासुदेवं अनुस्मरन्. ।। ४० ।।

यममार्गां महाघोरं नरकाणि यमं तथा
स्वप्नेऽपि च न पश्येत यः स्मरेद्गरुडध्वजम्. ।। ४१ ।।

हृदि रूपं मुखे नाम नैवेद्यं उदरे हरेः
पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतः. ।। ४२ ।।

गोविन्दस्मरणं पुंसां पापराशिमहाचलम्
असंशयं दहत्याशु तूलराशिं इवानलः. ।। ४३ ।।

आगस्त्यःः
स्मरणादेव कृष्णस्य पापसङ्घातपञ्जरम्
शतधा भेदं आयाति गिरिर्वज्रहतो तथा. ।। ४४ ।।

कृष्णे रताः कृष्णं अनुस्मरन्तः तद्भावितास्तद्गतमानसाश्च.
ते भिन्नदेहाः प्रविशन्ति विष्णुं हविर्यथा मन्त्रहुतं हुताशे. ।। ४५ ।।

सा हानिस्तन्महत्छिद्रं सा चान्धजडमूकता
यन्मुहूर्तं क्षणं वाऽपि वासुदेवो न चिन्त्यते. ।। ४६ ।।

नारायणो नाम नरो नराणां प्रसंह्य चोरः कथितः पृथिव्याम्
अनेकजन्मार्जितपापसञ्चयं दहत्यशेषं स्मृतमात्रयैव. ।। ४७ ।।

यस्य संस्मरणादेव वासुदेवस्य शार्ङ्गिणः
कोटिजन्मार्जितं पापं तक्षणादेव नश्यति. ।। ४८ ।।

किं तस्य बहुभिस्तीर्थैः किं तपोभिः किं अध्वरैः
यो नित्यं ध्यायते देवं नारायणं अनन्यधीः. ।। ४९ ।।

ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति
ध्यानेन तेन हतकिल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति. ।। ५० ।।

हे चित्त चिन्तय स्वेह वासुदेवं अहर्निशम्
नूनं यश्चिन्तितः पुंसां हन्ति संसारबन्धनम्. ।। ५१ ।।

आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः
इदं एकं सुनिष्पन्नं ध्येयो नारायणः सदा. ।। ५२ ।।

स्मृते सकलकल्याणभाजनं यत्र जायते
पुरुषस्तं अजं नित्यं व्रजामि शरणं हरिम्. ।। ५३ ।।

वेदेषु यज्ञेषु तपसु चैव दानेषु तीर्थेषु व्रतेषु चैव
इष्टेषु पूर्तेषु च यत्प्रदिष्टं पुण्यं स्मृते तत्खलु वासुदेवे. ।। ५४ ।।

आउर्वःः
आराधयैव नरो विष्णुं मनसो यद्यदिच्छति
फलं प्राप्नोत्यविकलं भूरि स्वल्पं अथापि वा. ।। ५५ ।।

यन्नामकीर्तनं भक्त्या विलायनं अनुत्तमम्
मैत्रेयाशेषपापानां धातूनां इव पावकः. ।। ५६ ।।

कलिकल्मषं अत्युग्रं नरकार्तिप्रदं नृणाम्
प्रयाति विलयं सद्यः सकृत्संकीर्तितेऽच्युते. ।। ५७ ।।

अनायासेन चाऽयान्ति मुक्तिं केशवं आस्रिताः
तद्विघाताय जायन्ते शक्राद्याः परिपन्थिनः. ।। ५८ ।।

चतुस्सागरं आसाद्य जम्बूद्वीपोत्तमे क्वचित्
न पुमान्केशवादन्यः सर्वपापचिकित्सकः. ।। ५९ ।।

यदभ्यर्च्य हरिं भक्त्या कृते वर्षशतैरपि
फलं प्राप्नोत्यविकलं कलौ संकीर्त्य केशवम्. ।। ६० ।।

क्षीयते तु यदा धर्मः प्राप्ते घोरे कलौ युगे
तदा न कीर्तयेत्कश्चिन्मुक्तिदं देवं अच्युतम्. ।। ६१ ।।

अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः
पुमान्विमुच्यते सद्यः सिंहत्रस्तमृगैरिव. ।। ६२ ।।

नारायणेति मन्त्रोऽस्ति वागस्ति वशवर्तिनी
तथाऽपि नरके घोरे मज्जन्तीत्येतदद्भुतम्. ।। ६३ ।।

आर्ता विषण्णाः शिथिलाश्च भीता घोरेषु च व्याधिषु वर्तमानाः
संकीर्त्य नारायङशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति. ।। ६४ ।।

Kऔशिकःः
सकृदुच्चारितं यैस्तु कृष्णेति न विशन्ति ते
गर्भागारं गृहं मातुर्यमलोकं च दुस्सहम्. ।। ६५ ।।

क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम्
क्व जपो वासुदेवेति मुक्तिबीजं अनुत्तमम्. ।। ६६ ।।

बुद्ध्या बुद्ध्वा वदस्वैनं हरिरित्यक्षरद्वयम्
स्मरणादेव कृष्णस्य न पुनर्जायते क्वचित्. ।। ६७ ।।

हे जिह्वे मम निस्नेहे हरिं किं नुन भाषसे
हरिं वदस्व कल्याणि संसारोदधिनौर्हरिः. ।। ६८ ।।

असारे खलु संसारे सारात्सारतरो हरिः
पुण्यहीना न विन्दन्ति सारङ्गाश्च यथा जलम्. ।। ६९ ।।

कुरुक्षेत्रेण किं तस्य किं काश्या पुष्करेण वा
जिह्वाग्रे वर्तते तस्य हरिरित्यक्षरद्वयम्. ।। ७० ।।

B्रह्मोवाचः
असारे खलु संसारे सारं एकं निरूपितम्
समस्तलोकनाथस्य सारं आराधनं हरेः. ।। ७१ ।।

सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पणम्
तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ. ।। ७२ ।।

यस्तु विष्णुपरो नित्यं दृढभक्तिर्जितेन्द्रियः
स्वगृहेऽपि वसन्याति तद्विष्णोः परमं पदम्. ।। ७३ ।।

ऋअङ्करःः
साधु साधु महाभाग साधु दानवनाशन्
यन्मां पृच्छसि धर्मज्ञ केशवाराधनं प्रति. ।। ७४ ।।

निमिषं निमिषार्धं वा मुहूर्तं अपि भार्गव
नादग्धाशेषपापानां भक्ति भवति केशवे. ।। ७५ ।।

किं तेन मनसा कार्यं यन्न तिष्ठति केशवे
मनो मुक्तिफलावाप्त्यौ कारणं सप्रयोजनम्. ।। ७६ ।।

रोगो नाम न सा जिह्वा यया न स्तूयते हरिः
गर्तौ नाम न तौ कर्णौ याभ्यां तत्कर्म न श्रुतम्. ।। ७७ ।।
नूनं तत्कण्ठशालूकं अथवाऽप्युपजिह्विका
रोगो नाम न सा जिह्वा या न वक्ति हरेर्गुणान्. ।। ७८ ।।

भारभूतैः कार्यं एभिः किं तस्य नृपशोर्द्विज
चरणौ तौ तु सफलौ केशवालयगामिनौ
ते च नेत्रे महाभाग याभ्यां सन्दृश्यते हरिः. ।। ७९ ।।

किं तस्य चरणैः कार्यं वृथासञ्चरणैर्द्विज
यैर्हि न व्रजते जन्तुः केशवालयदर्शने. ।। ८० ।।

वेदवेदाङ्गविदुषां मुनीनां भावितात्मनाम्
ऋषित्वं अपि धर्मज्ञ विज्ञेयं तत्प्रसादजम्. ।। ८१ ।।

विचित्ररत्नपर्यङ्के महाभोगेन भोगिनः
रमन्ते नाकनारीभिः केशवस्मरणात्फलम्. ।। ८२ ।।

अश्वमेधसहस्राणां यः सहस्रं समाचरेत्
नासौ तत्फलं आप्नोति तद्भक्तैर्यदवाप्यते. ।। ८३ ।।

रे रे मनुष्याः पुरुषोत्तमस्य करौ न कस्मान्मुकुलीकुरुध्वे
क्रियाजुषां को भवतां प्रयासः फलं हि यत्पदं अच्युतस्य. ।। ८४ ।।

विष्णोर्विमानं यः कुर्यात्सकृद्भक्त्या प्रदक्षिणम्
अश्वमेधसहस्रस्य फलं आप्नोति मानवः. ।। ८५ ।।

प्रदक्षिणं तु यः कुर्याद्हरिभक्त्या समन्वितः
हंसयुक्तिविमानेन विष्णुलोकं स गच्छति. ।। ८६ ।।

तीर्थकोटिसहस्राणि व्रतकोटिशतानि च
नारायणप्रणामस्य कलां नार्हन्ति षोडशीम्. ।। ८७ ।।

उरसा शिरसा दृष्ट्या मनसा वचसा तथा
पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग ईरितः. ।। ८८ ।।

शाठ्येनापि नमस्कारं कुर्वतः शार्ङ्गपाणये
शातजन्मार्जितं पापं नश्यत्येव न संशयः. ।। ८९ ।।

संसारार्णवं अग्रानां नराणां पापकर्मणाम्
नान्यो धर्त्ता जगन्नाथं मुक्त्वा नारायणं परम्. ।। ९० ।।

रेणुकुण्ठिगात्रस्य कणा यावन्ति भारत
तावद्वर्षसहस्राणि विष्णुलोके महीयते. ।। ९१ ।।

पावनं विष्णुनैवेद्यं सुभोज्यं ऋषिभिः स्मृतम्
अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणं चरेत्. ।। ९२ ।।

कोट्यैन्दवसहस्रैस्तु मासोपोषणकोटिभिः
यत्फलं लभ्यते पुम्भिर्विष्णोर्नैवेद्य भक्षणात्. ।। ९३ ।।

त्रिरात्रफलदा नद्यो याः काश्चिदसमुद्रगाः
समुद्रगास्तु पक्षस्य मासस्य सरितां पतिः. ।। ९४ ।।

षण्मासफलदा गोदा वत्सरस्य तु जाह्नवी
विष्णुपादोदकस्यैते कलां नार्हन्ति षोडसीम्. ।। ९५ ।।

गण्गाप्रयागगयपुष्करनैमिशानि संसेवितानि बहुशः कुरुजाङ्गलानि
कालेन तीर्थसलिलानि पुनन्ति पापं पादोदकं भगवतः प्रपुनाति सद्यः. ।। ९६ ।।

यानि कानि च तीर्थानि ब्रह्माण्डान्तर्गतानि वै
विष्णुपादोदकस्यैते कलां नार्हन्ति षोडशीम्. ।। ९७ ।।

स्नानं पादोदकं विष्णोः पिबन्शिरसि धारयन्
सर्व पापविनिर्मुक्तो वैष्णवीं सिद्धिं आप्नुयात्. ।। ९८ ।।

यथा पादोदकं पुण्यं निर्माल्यं चानुलेपनम्
नैवेद्यं धूपशेषं च आरार्त्तिश्च तथा हरेः. ।। ९९ ।।

तुलस्यास्तु रजोजुष्टं नैवेद्यस्य च भक्षणम्
निर्माल्यं शिरसा धार्यं महापातकनाशनम्. ।। १०० ।।

भक्त्या वा यदि वाऽभक्त्या चक्राङ्कितशिलां प्रति
दर्शनं स्पर्शनं वाऽपि सर्वपापप्रणाशनम्. ।। १०१ ।।

साळग्रामोद्भवो देवो देवो द्वारवतीभवः
उभयोः स्नानतोयेन ब्रह्महत्यां व्यपोहति. ।। १०२ ।।

म्लेच्छदेशेऽशुचौ वाऽपि चक्राङ्को यत्र तिष्ठति
योजनानि तथा त्रीणि मम क्षेत्रं वसुन्धरे. ।। १०३ ।।

शालग्रामोद्भवो देवो शैलं चक्राङ्कमण्डितम्
यत्रापि नीयते तत्र वारणस्या शताधिकम्. ।। १०४ ।।

साळग्रामोद्भवो देवो देवो द्वारवतीभवः
उभयोः संगमो यत्र तत्र मुक्तिर्न संशयः. ।। १०५ ।।

हरिणा मुक्तिदानीह मुक्तिस्थानानि सर्वशः
स यस्य सर्वभावेषु तस्य तैः किं प्रयोजनम्. ।। १०६ ।।

हरिर्याति हरिर्याति दस्युव्याजेन यो वदेत्
सोऽपि सद्गतिं आप्नोति गतिं सुकृतिनो यथा. ।। १०७ ।।

वासुदेवं परित्यज्य योऽन्यं देवं उपासते
त्यक्त्वाऽमृतं स मूढात्मा भुङ्क्ते हालाहलं विषम्. ।। १०८ ।।

त्यक्त्वामृतं यथा कश्चिदन्यपानं पिबेन्नरः
तथा हरिं परित्यज्य चान्यं देवं उपासते. ।। १०९ ।।

स्वधर्मं तु परित्यज्य परधर्मं यथा चरेत्
तथा हरिं परित्यज्य चान्यं देवं उपासते. ।। ११० ।।

गां च त्यक्त्वा विमूढात्मा गर्दभीं वन्दते यथा
तथा हरिं परित्यज्य चान्यं देवं उपासते. ।। १११ ।।

वासुदेवं परित्यज्य योऽन्यं देवं उपासते
तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः. ।। ११२ ।।

यथा गङ्गोदकं त्यक्त्वा पिबेत्कूपोदकं नरः
तथा हरिं परित्यज्य योऽन्यं देवं उपासते. ।। ११३ ।।

स्वमातरं परित्यज्य श्वपाकीं वन्दते तथा
तथा हरिं परित्यज्य योऽन्यं देवं उपासते. ।। ११४ ।।

यावत्स्वस्थं इदं पिण्डं निरुजं करणान्वितम्
तावत्कुरुष्वाऽत्महितं पश्चात्तापेन तप्यसे. ।। ११५ ।।

यावत्स्वास्थ्यं शरीरेषु करणेषु च पाटवम्
तावदर्चय गोविन्दं आयुश्यं सार्थकं कुरु. ।। ११६ ।।

स्मर्यतां तु हृषीकेशो हृषीकेषु दृढेषु च
अदृढेषु हृषीकेषु हृषीकेशं स्मरन्ति के. ।। ११७ ।।

यावच्चिन्तयते जन्तुर्विषयान्विषसन्निभान्
तावच्चेत्स्मरते विष्णुं को न मुच्येत बन्धनात्. ।। ११८ ।।

यावत्प्रलपते जन्तुर्विषयान्विषसन्निभान्
तावच्चेत्स्मरते विष्णुं को न मुच्येत बन्धनात्. ।। ११९ ।।

Sऊत उवाचः
ज्ञात्वा विप्रास्तिथिं सम्यग्दैवज्ञैः समुदीरिताम्
कर्तव्य उपवासश्च अन्यथा नरकं व्रजेत्. ।। १२० ।।

क्षये वाऽप्यथवा वृद्धौ सम्प्राप्ते वा दिनक्षये
उपोष्या द्वादशी पुण्या पूर्वविद्धां परित्यजेत्. ।। १२१ ।।

पूर्वविद्धां प्रकुर्वाणो नरो धर्मान्निकृन्तति
संततेस्तु विनाशाय सम्पदो हरणाय च. ।। १२२ ।।

कलावेधे तु विप्रेन्द्रा दशम्यैकादशीं त्यजेत्
सुराया बिन्दुना स्पृष्टं गङ्गाम्भ इव सन्त्यजेत्. ।। १२३ ।।

श्वदृतौ पञ्चगव्यं च दशम्या दूषितां त्यजेत्
एकादशीं द्विजश्रेष्ठाः पक्षयोरुभयोरपि. ।। १२४ ।।

तस्माद्विप्रा न विद्धा हि कर्तव्यैकादसी क्वचित्
विद्धा हन्ति पुरापुण्यं श्राद्धं च वृषलीपतिः. ।। १२५ ।।

जप्तं दत्तं हुतं स्नातं तथा पूजा कृता हरेः
तत्सर्वं विलयं याति तमः सूर्योदये यथा. ।। १२६ ।।

एकादश्यां यदा ब्रह्मन्दिनक्षयतिथिर्भवेत्
उपोष्या द्वादशी तत्र त्रयोदश्यां तु पारणम्. ।। १२७ ।।

प्रतिपत्प्रभृतयः सर्वा उदयादुदयाद्रवेः
सम्पूर्णा इति विज्ञेया हरिवासरवर्जिताः. ।। १२८ ।।

अरुणोदयकाले तु दशमी यदि दृश्यते
पापमूलं तदा ज्ञेयं एकादश्युपवासनम्. ।। १२९ ।।

अरुणोदयकाले तु दशमी यदि दृश्यते
न तत्रैकादशी कार्या धर्मकामार्थनाशिनी. ।। १३० ।।

चतस्त्रो घटिकाः प्रातररुणोदय उच्यते
यतीनां स्नानकालोऽयं गङ्गाम्भःसदृशः स्मृतः. ।। १३१ ।।

उदयात्प्राग्यदा विप्रा मुहूर्तद्वयसंयुता
सम्पूर्णैकादशी नाम तत्रैवोपवसेद्व्रती. ।। १३२ ।।

उदयात्प्राक्त्रिघटिका व्यापिन्येकादशी यदा
सन्दिग्धैकादशी नाम वर्ज्या धर्मार्थनाशिनी. ।। १३३ ।।

पुत्रपौत्रविवृद्ध्यर्थं द्वादश्यां उपवासयेत्
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणं. ।। १३४ ।।

उदयात्प्राग्द्विघटिकाव्यापिन्येकादशी यदा
सङ्कीर्णैकादशी नाम वर्ज्या धर्मार्थकाङ्क्षिभिः. ।। १३५ ।।

पुत्रराज्यविवृद्ध्यर्थं द्वादश्यां उपवासनम्
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम्. ।। १३६ ।।

दशमीशेषसंयुक्ता गान्धार्या समुपोषिता
तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयेत्. ।। १३७ ।।

बह्वागमविरोधेषु ब्राह्मणेषु विवादिषु
उपोष्या द्वादशी पुण्या त्रयोदश्यां तु पारङम्. ।। १३८ ।।

एकादश्यां तु विद्धायां सम्प्राप्ते श्रवणे तथा
उपोष्या द्वादशी पुण्या पक्षयोरुभयोरपि. ।। १३९ ।।

उपरागसहस्राणि व्यतीपातायुतानि च
अमालक्षं तु द्वादश्याः कलां नार्हन्ति षोडशीम्. ।। १४० ।।

शुद्धापि द्वादशी ग्राह्या परतो द्वादशी यदि
विषं तु दशमी ज्ञेयाऽमृतं चैकादशी तिथिः.
विषप्रधाना वर्ज्या साऽमृता ग्राह्या प्रधानतः. ।। १४१ ।।

द्वादश्यां भोजनं चैव विद्धायां हर्युपोषणम्
यः कुर्यान्मन्दबुद्धित्वान्निरयं सोऽधिगच्छति. ।। १४२ ।।

यानि कानि च वाक्यानि विद्धोपास्यापराणि तु
धनदार्चापराणि स्युर्वैष्णवी न दशायुता. ।। १४३ ।।

अथवा मोहनार्थाय मोहिन्या भगवान्हरिः
अर्थितः कारयां आस व्यासरूपी जनार्दनः. ।। १४४ ।।

धनदार्चाविवृद्ध्यर्थं महावित्तलयस्य च
असुराणां मोहनार्थं पाषण्डानां विवृद्धये
आत्मस्वरूपाविज्ञप्त्यै स्वरूपाप्राप्तये तथा. ।। १४५ ।।

एवं विद्धां परित्यज्य द्वादश्यां उपवासने
कोटिजन्मार्जितं पापं एकयैव विनश्यति
ततः कोटिगुणं वाऽपि निषिद्धस्येतरैर्जनैः. ।। १४६ ।।

यदनादिकृतं पापं तदूर्ध्वं यत्करिष्यति
तत्सर्वं विलयं याति परेषां उपवासनात्
न च तस्मात्प्रियतमः केशवस्य ममापि वा. ।। १४७ ।।

एकादश्या ह्यवेधे तु द्वादशीं न परित्यजेत्
पारणे मरणे चैव तिथिस्तात्कालिकी स्मृता. ।। १४८ ।।

ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तथा
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो भर्तृमती तथा. ।। १४९ ।।

अभर्तृका तथाऽन्ये वा सूतवैदेहिकादयः
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि. ।। १५० ।।

एकादश्यां तु यो भुङ्क्ते मोहेनाऽवृतचेतनः
शुक्लायां अथ कृष्णायां निरयं याति स ध्रुवम्. ।। १५१ ।।

विवेचयति यो मोहाच्छुक्ला कृष्णेति पापकृत्
एकादशीं स वै याति निरयं नात्र संशयः. ।। १५२ ।।

यथा गौर्नैव हन्तव्या शुक्ला कृष्णेति भामिनि
एकदाश्यां न भुञ्जीत पक्षयोरुभयोरपि. ।। १५३ ।।

यानि कानि च वाक्यानि कृष्णैकादशिवर्जने
भरण्यादिनिषेधेऽपि तानि काम्यफलार्थिनाम्. ।। १५४ ।।

कामिनोऽपि हि नित्यार्थं कुर्युरेवोपवासनम्
प्रीणनार्थं हरेर्नित्यं न तु कामव्यपेक्षया. ।। १५५ ।।

तस्माच्छुक्लां अथो कृष्णां भरण्यादियुतां अपि
प्रत्यवायनिषेधार्थं उपवासीत नित्यशः
प्रीणनार्थं हरेश्वापि विष्णुलोकस्य चाऽप्तये. ।। १५६ ।।

कला वा घटिका वाऽपि अपरे द्वादशी यदि
द्वादशद्वादशीर्हन्ति पूर्वेद्युः पारणे कृते. ।। १५७ ।।

अतिरिक्ता द्वादशी चेत्स तां नोपोषयेद्यदि
द्वादशद्वादशीर्हन्ति द्वादशी चातिलङ्घिता. ।। १५८ ।।

द्वादश्यां अतिरिक्तायां यो भुङ्क्ते पूर्ववासरे
द्वादशद्वादशीर्हन्ति द्वादशीं न परित्यजेत्. ।। १५९ ।।

द्वादशीं श्रवणोपेतां यो नोपोष्यात्सुमन्दधीः
पञ्चसंवत्सरकृतं पुण्यं तस्य विनश्यति. ।। १६० ।।

एकादशीं उपोष्याथ द्वादशीं अप्युपोषयेत्
न तत्र विधिलोपः स्यादुभयोर्देवता हरिः. ।। १६१ ।।

पारयित्वोदकेनापि भुञ्जानो नैव दुष्यति
अशितानशिता यस्मादापो विद्वद्भिरीरिताः
अम्भसा केवलेनाथ करिष्ये व्रतपारणम्. ।। १६२ ।।

न काशी न गया गङ्गा न रेव न च गौतमी
न चापि कौरवं क्षेत्रं समा भूप हरेर्दिनात्. ।। १६३ ।।

अश्वमेधसहस्राणि वाजपेयायुतानि च
एकादश्युपवासस्य कलां नार्हन्ति षोडशीम्. ।। १६४ ।।

एकादशीसमुत्थेन वह्निना पातकेन्धनम्
भस्मीभवति राजेन्द्र अपि जन्मशतोद्भवम्. ।। १६५ ।।

नेदृशं पावनं किञ्चिन्नराणां भुवि विद्यते
यादृशं पद्मनाभस्य दिनं पातकहानिदम्. ।। १६६ ।।

तावत्पापानि देहेऽस्मिंस्तिष्ठन्ति मनुजाधिप
यावन्नोपोषयेज्जन्तुः पद्मनाभदिनं शिवम्. ।। १६७ ।।

एकादशेन्द्रियैः पापं यत्कृतं भवति प्रभो
एकादश्युपवासेन तत्सर्वं विलयं नयेत्. ।। १६८ ।।

एकादशीसमं किञ्चित्पापत्राणं न विद्यते
व्याजेनापि कृता राजन्न दर्शयति भास्करिम्. ।। १६९ ।।

ऋरी Vएदव्यास उवाचः
स ब्रह्महा स गोघ्नश्च स्तेनः स गुरुतल्पगः
एकादश्यां तु भुञ्जानः पक्षयोरुभयोरपि. ।। १७० ।।

वरं स्वमातृगमनं वरं गोमांसभक्षणम्
वरं हत्या सुरापानं एकादश्यां तु भोजनात्. ।। १७१ ।।

एकादशीदिने पुण्ये भुञ्जते ये नराधमाः
अवलोक्य मुखं तेषां आदित्यं अवलोकयेत्. ।। १७२ ।।

पृथिव्यां यानि पापानि ब्रह्महत्यादिकानि च
अन्नं आश्रित्य तिष्ठन्ति सम्प्राप्ते हरिवासरे. ।। १७३ ।।

ऱुग्माङ्गदःः
अष्टवर्षाधिको यस्तु अशीतिर्न हि पूर्यते
यो भुङ्क्ते मानवः पापो विष्णोरहनि चागते. ।। १७४ ।।

पिता वा यदि वा पुत्रो भार्या वाऽपि सुहृज्जनः
पद्मनाभदिने भुङ्क्ते निग्राह्यो दस्युवद्भवेत्. ।। १७५ ।।

धर्मविभूषणःः
प्रातर्हरिदिने लोकास्तिष्ठध्वं चैकभोजनाः
अक्षारलवणाः सर्वे हविष्यान्निषेविणः. ।। १७६ ।।

अवनीतपशयनाः प्रियासंगविवर्जिताः
स्मरध्वं देवदेवेशं पुराणपुरुषोत्तमम्. ।। १७७ ।।

सकृद्भोजनसंयुक्ता ह्युपवासे भविष्यथ
अकृतश्राद्धनिचया जलपिण्डोदकक्रियाः. ।। १७८ ।।

B्रह्माः
उपोष्य द्वादशीं पुण्यां सर्वपापक्षयप्रदाम्
न पश्यति यमं वाऽपि नरकान्न च यातनाम्. ।। १७९ ।।

रटन्तीह पुराणानि भूयो भूयो वरानने
न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे. ।। १८० ।।

द्वादशी न प्रमोक्तव्या यावदायुः प्रवर्तते
अर्चनीयो हृषीकेशो विशुद्धेनान्तरात्मना. ।। १८१ ।।

भक्त्या ग्राह्यो हृषीकेशो न धनैर्धरणीसुराः
भक्त्या सम्पूजितो विष्णुः फलं दत्ते समीहितम्. ।। १८२ ।।

जलेनापि जगन्नाथः पूजितः क्लेशनाशनः
परितोषं प्रयात्याशु तृषार्तास्तु यथा जलैः. ।। १८३ ।।

आसीनस्य शयानस्य तिष्ठतो व्रजतोऽपि वा
रमस्व पुण्डरीकाक्ष हृदये मम सर्वदा. ।। १८४ ।।

सर्वगश्चैव सर्वात्मा सर्वावस्थासु चाच्युत
रमस्व पुण्डरीकाक्ष नृसिंह हृदये मम. ।। १८५ ।।

करावलम्बनं देहि श्री कृष्ण कमलेक्षण
भवपङ्कार्णवे घोरे मज्जतो मम सर्वदा. ।। १८६ ।।

त्राहि त्राहि जगन्नाथ वासुदेवाच्युताव्यय
मां समुद्धर गोविन्द दुःखसंसारसागरात्. ।। १८७ ।।

एतत्पुण्यं परं गुह्यं पवित्रं पापनाशनम्
आयुष्यं च यशस्यं च कलिदुःस्वप्ननाशनम्. ।। १८८ ।।

कलौ पापं कियन्मात्रं हत्यास्तेयादिसम्भवम्
स्मृते मनसि गोविन्दे दह्यते तूलराशिवत्. ।। १८९ ।।

कलौ केशवभक्तानां न भयं विद्यते क्वचित्
स्मृते संकीर्तिते ध्याते संक्षयं याति पातकम्. ।। १९० ।।

अध्येतव्यं इदं शास्त्रं श्रोतव्यं अनसूयया
भक्तेभ्यश्च प्रदातव्यं धार्मिकेभ्यः पुनः पुनः. ।। १९१ ।।

अधीयान इदं शास्त्रं विष्णोर्माहात्म्यं उत्तमम्
सर्वपापविनिर्मुक्तः प्राप्नोति परमं पदम्. ।। १९२ ।।

श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम्
श्रुत्वा ज्ञानं अवाप्नोति श्रुत्वा मोक्षं च गच्छति. ।। १९३ ।।

तस्मादिदं समाश्राव्यं श्रोतव्यं च सदैव हि
कुतर्कदावदग्धेभ्यो न दातव्यं कथञ्चन. ।। १९४ ।।

संसारविषपानेन ये मृताः प्राणिनो भुवि
अमृताय स्मृतस्तेषां कृष्णामृतमहर्णवः. ।। १९५ ।।

क्लिन्नं पादोदकेनैव यस्य नित्यं कळेबरम्
तीर्थकोटिसहस्रैस्तु स्नातो भवति प्रत्यहम्. ।। १९६ ।।

तीर्थकोटिसहस्रैस्तु सेवितैः किं प्रयोजनम्
तोयं यदि पिबेन्नित्यं साळग्रामशिलाच्युतम्. ।। १९७ ।।

साळग्रामशिलास्पर्शं ये कुर्वन्ति दिने दिने
वाञ्छन्ति करसंस्पर्शं तेषां देवाः सवासवाः. ।। १९८ ।।

दुःसहो नारको वह्निर्दुःसहा यमकिङ्कराः
विषमश्वान्तकपथः प्रेतत्वं चातिदारुणम्. ।। १९९ ।।

विचिन्त्य मनसाऽप्येवं पातकाद्विनिवर्त्तयेत्
स्मरणं कीर्तनं विष्णोः सदैव न परित्यजेत्. ।। २०० ।।

ऋरी Vएदव्यासःः
अच्युतानन्तगोविन्दनामोच्चारणभीषिताः
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम्. ।। २०१ ।।

सकृदुच्चारितं येन हरिरित्यक्षरद्वयम्
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति. ।। २०२ ।।

एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः
कीर्तयन्ति सुरश्रेष्ठं देवं नारायणं प्रभुम्. ।। २०३ ।।

किं तस्य दानैः किं तीर्थैः किं तपोभिः किं अध्वरैः
यो नित्यं ध्यायते देवं नारायणं अनन्यधीः. ।। २०४ ।।

नित्योत्सवो नित्यता च नित्यश्रीर्नित्यशो जयः
येषां हृदिस्थो भगवान्मङ्गलायतनो हरिः. ।। २०५ ।।

जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु
स्त्री वाऽप्यनूनदशकं देहं मानुषं आर्जते. ।। २०६ ।।

चतुर्दशोर्ध्वजीवीनि संसारश्चादिवर्जितः
अतोऽवित्त्वा परं देवं मोक्षाशा का महामुने. ।। २०७ ।।

आचतुर्दशमाद्वर्षात्कर्माणि नियमेन तु
दशावराणां देहानां कारणानि करोत्ययम्
अतः कर्मक्षयान्मुक्तिः कुत एव भविष्यति. ।। २०८ ।।

समानां विषमा पूजा विषमाणां समा तथा
क्रियते येन देवोऽपि स्वपदाद्भ्रश्यते हि सः. ।। २०९ ।।

वित्तं बन्धुर्वयः कर्म विद्या चैव तु पञ्चमी
एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम्. ।। २१० ।।

गुणानुसारिणीं पूजां समां दृष्टिं च यो नरः
सर्वभूतेषु कुरुते तस्य विष्णुः प्रसीदति. ।। २११ ।।

यथा सुहृत्सु कर्तव्यं पितृशत्रुसुतेषु च
तथा करोति पूजादि समबुद्धिः स उच्यते. ।। २१२ ।।

तिर्यक्पुण्ड्रं न कुर्वीत सम्प्राप्ते मरणेऽपि च
न चान्यन्नाम विब्रूयात्परं नारायणादृते. ।। २१३ ।।

नैवेद्यशेषं देवस्य यो भुनक्ति दिने दिने
सिक्थे सिक्थे भवेत्पुण्यं चान्द्रायणशताधिकम्. ।। २१४ ।।

ऊर्ध्वपुण्ड्रं ऋजुं स्ॐयं ललाटे दृश्यते
स चण्डालोऽपि शुद्धात्मा पूज्य एव न संशयः. ।। २१५ ।।

अशुचिर्वाऽप्यनाचारो मनसा पापं आचरन्
शुचिरेव भवेन्नित्यं ऊर्ध्वपुण्ड्रान्कितो नरः. ।। २१६ ।।

ऊर्ध्वपुण्ड्रविहीनस्य श्मशानसदृशं मुखम्
अवलोक्य मुखं तेषां आदित्यं अवलोकयेत्. ।। २१७ ।।

यज्ञो दानं तपश्चैव स्वाध्यायः पितृतर्पणम्
व्यर्थं भवति तत्सर्वं ऊर्ध्वपुण्ड्रं विना कृतम्. ।। २१८ ।।

गोपीचन्दनलिप्ताङ्गो यं यं पश्यति चक्षुषा
तं तं शुद्धं विजानीयान्नात्र कार्या विचारणा. ।। २१९ ।।

आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः
वैष्णवोऽस्मत्कुले जातः स नः सन्तारयिष्यति. ।। २२० ।।

जीवितं विष्णुभक्तस्य वरं पञ्चदिनान्यपि
न तु कल्पसहस्रैस्तु भक्तिहीनस्य केशवे. ।। २२१ ।।

किं तेन जातमात्रेण भूभारेणान्नशत्रुणा
यो जातो नार्चयेद्विष्णुं न स्मरेन्नापि कीर्तयेत्. ।। २२२ ।।

यो ददाति द्विजातिभ्यश्चन्दनं गोपिमर्दितम्
अपि सर्षपमात्रेण पुनात्यासप्तमं कुलम्. ।। २२३ ।।

ज्ञानी च कर्माणि सदोऽदितानि
कुर्यादकामः सततं भवेत्. ।। २२४ ।।

अतीतानागतज्ञानी त्रैलोक्योद्वरणक्षमः
एतादृशोऽपि नाऽचारं श्रौतं स्मार्तं परित्यजेत्. ।। २२५ ।।

यदेव विद्यया करोति श्रद्धयोपनिषदा
सदेव वीर्यवत्तरं भवति. ।। २२६ ।।

कुर्वनेवेह कर्माणि जिजीविषेच्छतं समाः
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे. ।। २२७ ।।

आचारश्चैव साधूनां आत्मनस्तुष्टिरेव च
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः. ।। २२८ ।।

निष्कामं ज्ञानपूर्वं तु निवृत्तं इह चोच्यते
निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्. ।। २२९ ।।

इति कृष्णामृतमहार्णवः समाप्तः

"https://sa.wikisource.org/w/index.php?title=कृष्णामृतमहार्णवः&oldid=91937" इत्यस्माद् प्रतिप्राप्तम्