सामग्री पर जाएँ

कुवलयानन्दः सोदाहरणम्

विकिस्रोतः तः

श्रीगणेशाय नमः

अमरीकबरीभारभ्रमरीमुखरीकृतम्‌।
दूरीकरोतु दुरितं गौरीचरणपङ्कजम्‌॥१॥
परस्परतपःसम्पत्फलायितपरस्परौ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः॥२॥
उद्धाटुअ योगकलया हृदयाब्जकोशं धन्यैशइरादपि यथारुचि गृह्यमाणः।
यः प्रस्फुरित्यविरतं परिपूर्णरुपः श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः॥३॥
अलङ्कारेषु बालानामवगाहनसिद्धये।
ललितः क्रियते तेषां लक्ष्यलक्षणसंग्रहः॥४॥
येषां चन्द्रालिके दृश्यन्ते लक्ष्यलक्षणश्लोकाः।
प्रायस्त एव तेषामितरेषां त्वभिनवा विरच्यन्ते॥५॥

१. उपमालङ्कारः

उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः। हंसीव कृष्ण! ते कीर्तिः स्वर्गङ्गामवगाहते॥६॥ यत्रोपमानोपमेययोः सहृदयहृदयाह्लादकत्वेन चारुसादृश्यमुउद्भूततयोल्लसति व्यङ्ग्यमर्यादा विना स्पष्टं प्रकाशत तत्रोपमालङ्कारः।हंसीवेत्युदाहरणम्‌। इयं च पूर्णोपमेत्युच्यते। हंसी कीर्तिः स्वर्गङ्गावगाहनमिवशब्दश्चेत्येतेषामुपमानोपमेयसाधारणधर्मोपमावाचकानां चतुर्णामप्युपादानात्‌। ‘गुणदोषौ बुधो गृह्णन्निन्दुक्ष्वेडाविवेश्वरः। शिरसा श्लाघ्यते पूर्वं परं कण्ठे नियच्छति॥’

अत्र यद्यप्युपमानोपमेययोर्नैकः साधारणो धर्मः उपमाने ईश्वरे चन्द्रगरलयोर्ग्रहणमुपादानं तयोर्मध्ये पूर्वस्य चन्द्रस्य शिरसा श्लाघनं 
शिरःकम्पनेनाभिनन्दनमुत्तरस्य दोषस्य कण्ठे नियमनं कण्ठादुपरि वाचानुद्धाटनमिति भेदात्‌।
तथापि चन्द्रगरलयोश्च बिब्मप्रतिबिम्बभावेनाभेदादुपादानज्ञानादीनां गृह्यन्नित्येकशब्दोपादानेनाभेदावसायाच्च साधारणधर्मतेति पूर्वस्माद्विशेषः 
वस्तुतो भिन्नयोरुपमानोपमेयधर्मयोः परस्परसादृश्यादभिन्नयोः पृथगुपादानं बिम्बप्रतिबिम्बभाव इत्यालङ्कारिकसमयः॥६॥
वर्ण्योपमानधर्माणामुपमावाचकस्य च।
एकद्वित्र्यनुपादानैर्भिन्ना लुप्तोपमाष्टधा॥७॥
तडिद्गौरीन्दुतुल्यास्या कर्पूरन्ती दृशोर्मम।
कान्त्या स्मरवधूयन्ती दृष्टा तन्वी रहो मया॥८॥
यत्तया मेलनं तत्र लाभो मे यश्च तद्रतेः।
तदेतत्काकतालीअमवितर्कितसंभवम्‌॥९॥
उपमेयादीनां चतुर्णां मध्ये एकस्य द्वयोस्त्रयाणां वा प्रतिपादकशब्दाभावेन लुप्तोपमेत्युच्यते।
सा चाष्टधा।
यथा – वाचकलुप्ता १, धर्मलुप्ता २, धर्मवाचकलुप्ता ३, वाचलोपमेयलुप्ता ४, उपमानलुप्ता ५, वाचकोपमानलुप्ता ६, धर्मोपमानलुप्ता ७, धर्मोपमानवाचकलुप्ता च ८ इति।
तत्रोपमानलोपरहिताश्चत्वारो भेदाः ‘तडिद्गौरी’ – इत्यादिश्लोकेन प्रदर्शिताः।
तद्वन्तो भेदा उत्तरश्लोकेन दर्शिताः।
तत्र ‘तडिद्गौरी’ इत्यत्र वाचकलोपस्तडिदिव गौरीत्यर्थे ‘उपमानामि सामान्यवचनैः (पा. २।१।५५) इति समासविधायकशास्त्रकृतः।
‘इन्दुतुल्यास्या’ इत्यत्र धर्मलोपः, स त्वैच्छिको न शास्त्रकृतः, कान्त्या इन्दुतुप्यास्येत्यपि वक्तुं शक्यत्वात्‌।
‘कर्पूरन्ती’ इत्यत्र धर्मवाचकलोपः कर्पूरमिवाचरन्तीत्यर्थे विहितस्य कर्पूरवदानन्दात्मकाचारार्थकस्य किप्‌ इवशब्देन सह लोपात्‌।
अत्र धर्मलोप; ऐ्च्छिकः, ननयोरानन्दात्मकतया कर्पूरन्तीति तदुपादानस्यापि संभावादिति।
‘कान्त्या स्मरवधूयन्ती’ इत्यत्र वाचकोपमेयलोपः अत्र कान्त्येति विशेषणसामर्थ्यात्स्वात्मानं कामवधूमिवाचरन्तीत्यर्थस्य गम्यमानतया स्वात्मन उपमेयस्य सहोपमावाचकेनानुपादानात्स त्वैच्छिकः; स्वात्मानं स्मरवधूयन्तीत्युपमेयोपादानस्यापि संभवात्‌।
‘काकतालीय’ इत्यत्र काकतालशब्दौ वृत्तिविषये काकतालसमवेतक्रियावर्तिनौ, तेन काकागमनमिव तालपतनमिव काकतालमितीवार्थे ‘समासाच्च तद्विषयात्‌’ (पा. ५।३।१०६) इति ज्ञापकात्समासः।
उभयत्रोपमेयं स्वस्य क्वचिद्गमनं तत्रैव रहसि तन्व्या अवस्थानं च।
तेन स्वस्य तस्याश्च समागमः काकतालसमागमसदृश इति फलति।
ततः ‘ काकतालमिव काकतालीय‌म्‌’ इति द्वितीयस्मिन्निवार्थे ‘समासाच्च तद्विषयात्‌’ (पा. ५।३।१०६) इति सूत्रेण ‘इवे प्रतिकृतौ’ (पा. ५।३।९६) इत्यधिकारस्थेन छप्रत्ययः।
तथा च पतनदलितं तालफलं यथा काकेनोपभुक्तम्‌, एवं रहोदर्शनक्षुभितहृदया तन्वी तालफलोपभोगरुपस्य हओपमानस्यानुपादानात्प्रत्ययार्थोपमायामुपमानलोपः, समासार्थोपमायां वाचकपमानलोपः।
सर्वोऽप्ययं लोपश्छप्रत्ययविधायकशास्त्रकृतः, अवितर्कितसंभवमिति साधारणधर्मस्यानुपादाने प्रत्ययार्थोपमायां धर्मोपमानलोपः।
समासार्थोपमायां धरोमपमानवाचकलोप इति सूक्ष्मया दृष्ट्यावधारितम्‌।
एतेषामुदाहरणान्तराणि विस्तरभयान्न लिख्यन्ते॥७-९॥
२ अनन्वयालङ्कारः।
उपमानोपमेयत्वं यदेकस्यैव वस्तुनः।
इन्दुरिन्दुरिव श्रीमानित्यादौ तदनन्वयः॥१०॥
एकस्यैव वस्तुनः उपमानोपमेयत्ववर्णनमनन्वयः।
वर्ण्यमानमपि स्वस्य स्वेन साधर्म्यं नान्वेतीति व्युत्पत्तेः।
अनन्वयिनोऽप्यर्थस्याभिधानं सदृशान्तरव्यवच्छेदेनानुपमत्वद्योतनाय।
‘इन्दुरिन्दुरिव श्रीमान्‌’ इत्युक्ते श्रीमत्त्वेन चन्द्रस्य नान्यः सदृशोऽस्तीति सदृशान्तरव्यवच्छेदो लक्ष्यते।
ततश्च स्वस्य स्वेनापि सादृश्यासंभवादनुपमेयत्वे पर्यवसानम्‌॥
यथा वा - गगनं गगनाकारः सागरः सागरोपमः।
रामरावणयोर्युद्धं रामरावणयोरिव॥
पूर्वोदाहरणे श्रीमत्त्वस्य धर्मस्योपादानमस्ति।
इह तु गगनादिषु वैपुल्यादेर्धर्मस्य तन्नास्तीति विशेषः॥१०॥
३ उपमेयोपमालङ्कारः पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता।
धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि॥११॥
द्वयोः पर्यायेणोपमानोपमेयत्वकल्पनं तृतीयसदृशव्यवच्छेदार्थम्‌।
धर्मार्थयोर्हि कस्यचित्केनचित्सादृश्ये वर्णिते तस्याप्यन्येन सादृश्यमर्थसिद्धमपि मुखतो वर्ण्यमानं तृतीयसदृशव्यवच्छेदं फलति॥
यथा वा - खमिव जलं जलमिव खं हंस इव चन्द्रश्चन्द्र इव हंस”।
कुमुदाकारास्तारास्ताराकाराणि कुमुदानि॥
पूर्वत्र पूर्णश्रीइति धर्म उपात्तः।
इह निर्मलत्वादिधर्मो नोपात्त इति भेदः।
उदाहरणद्वयेऽपि प्रकृतयोरेवोपमानोपमेयत्वकल्पनम्‌।
राज्ञिधर्मार्थसमृद्धेः शरदि गगनसलिलादिर्नैर्मल्यस्य च वर्णनीयत्वात्‌ प्रकृताप्रकृतयोरप्येषा संभवति॥
यथा वा- गिरिरिव गजराजोऽयं गजराज इवोच्चकैर्विभाति गिरिः।
निर्झर इव मदधारा मदधारेवास्य निर्झरः स्रवति॥११॥
४ प्रतीपालङ्कारः प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम्‌।
त्वल्लोचनसमं पद्म त्वद्वक्त्रसदृशो विधुः॥१२॥
प्रसिद्धोपमानोपमेयभावः प्रातिलोम्यात्प्रतीपम्‌।
यथा वा – 
यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं
मेघैरन्तरितः प्रिये! तव मुखच्छायानुकारी शशी।
येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता-
स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते॥१२॥
अन्योपमेयलाभेन वर्ण्यस्यानादरश्च तत्‌।
अलं गर्वेण ते वक्त्र! कान्त्या चन्द्रोऽपि तादृशः॥१३॥
अत्युत्कृष्टगुणतया वर्ण्यमानस्यान्यत्र स्वसादृश्यमसहमानस्योपमेयं किंचित्प्रदर्श्य 
तावता तस्य तिरस्कारो द्वितीयं प्रतीपं पूर्वस्मादपि विच्छित्तिविशेषशालि।
यथा वा (रुद्रटालं०) गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि भद्रे! ।
सन्तीदृशानि दिशि दिशि सर;सु ननु नीलनलिनानि॥१२॥
वर्ण्योपमेयलाभेन तथान्यस्याप्यनादरः ।
कः क्रौर्यदर्पस्ते मृत्यो! त्वत्तुल्याः सन्ति हि स्त्रियः॥१४॥
अत्युत्कृष्टगुणतया द्वचिदप्युपप्मानभावमसहमानस्यावर्ण्यस्य वर्ण्योपमेयं परिकल्प्य
तावता तस्य तिरस्कारः पूर्वप्रतीपवैपरीत्येन तृतीयं प्रतीपम्‌।
यथा वा- अहमेव गुरुः सुदारुणानामिति हालाहल! तात ! मा स्म दृप्यः।
ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम्‌॥१४॥
वर्ण्येनान्यस्योपमाया अनिष्पत्तिवचश्च तत्‌।
मुधापवादो मुग्धाक्षि! त्वन्मुखाभं किलाम्बुजम्‌॥१५॥
अवर्ण्ये वर्ण्योपमित्यनिष्पत्तिवचनं पूर्वेभ्य उत्कर्षशालि चतुर्थं प्रतीपम्‌।
उदाहरणे मुदापवादत्वोक्त्योपमित्यनिष्पत्तिरुद्धाटिता।
यथा वा- आकर्णय सरोजाक्षी वचनीयमिदं भुवि।
शशाङ्कस्त्वव वक्त्रेण पामरैरुपमीयते॥१५॥
प्रतीपमुपमानस्य कैमर्थ्यमपि मन्वते।
दृष्टम चेद्वदनं तस्याः किं पद्मेन किमिन्दुना॥१६॥
उपमेयस्यैवोपमानप्रयोजनधूर्वहत्वेनोपमानकैमर्थ्यमुपमानप्रातिलोम्यात्‌ पञ्चमं प्रतीपम्‌।
यथा वा –
(नै० १-१४) तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा।
तनोति भानोः परिवेषकैतवा- त्तदा विधिः कुण्डलनाम विधोरपि॥
केचिदनन्वयोपमेयोपमाप्रतीपानामुपमाविशेषत्वेन तदन्तर्भावं मन्यते।
अन्ये तु पञ्चमं प्रतीपमुपमानाक्षेपरुपत्वादाक्षेपालङ्कारमाहुः॥१६॥
५ रुपकालङ्कारः विषय्यभेदताद्रूप्यञ्जनं विषयस्य यत्‌।
रुपकं तत्त्रिधाधिक्यन्यूनत्वानुभयोक्तिभिः॥१७॥
अयं हि धूर्जटिः साक्षाद्येन दग्धाः पुरःक्षणात्‌।
अयमास्ते विना शम्भुस्तार्तीयीकं विलोचनम्‌॥१८॥
शम्भुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम्‌।
अस्या मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना॥१९॥
साध्वीयमपरा लक्ष्मीरसुधासागरोदिता।
अयम कलङ्किनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते॥२०॥
विषय्युपमानभूतं पद्मादि, विषयस्तदुपमेयभूतं वर्णनीयं मुखादि।
विषयिणो रुपेण विषयस्य रञ्जनं रुपकम्‌, अन्यरुपेण रुपवत्त्वकरणात्‌।
तच्च क्वचित्प्रसिद्धविषय्यभेदे पर्यवसितं, क्वचिद्भेदे प्रतीयमान एव तदीयधर्मारोपमात्रे पर्यवसितम्‌।
ततश्च रुपकं तावद्विधम्‌ – अभेदरुपकं ताद्रूप्यरुपकं चेति।
द्विविधमपि प्रत्येकं त्रिविधम्‌।
प्रसिद्धविषय्याधिक्यवर्णनेन तन्न्यूनत्ववर्णनेनानुभयोक्त्या चैवम रुपकं षड्विधम्‌।
‘अयं हि’ इत्यादिसार्धश्लोकेनाभ्दसुपकाणि,
‘अस्या मुखेन्दुना इत्यादिसार्धश्लोकेन ताद्रूप्यरुपकाणि,
आधिक्यन्युनत्वानिभयोक्त्युद्देशक्रमपातिलोम्येनोदाहृतानि।
‘येन दग्धा’ इति विशेषणेन वर्णनीये राज्ञि प्रसिद्धशिवाभेदानुरञ्जनाच्छिवस्य पूर्वावास्थातो
वर्णनीयराजभावावस्थायां न्यूनत्वाधिक्ययोरवर्णनाच्चानुभयाभेदरुपकमाद्यम्‌।
तृतीयलोचनप्रहाणोक्त्या पूर्वावस्थातो न्यूनताप्रदर्शनान्न्यूनाभेदरुपकं द्वितीयम्‌।
न्यूनत्ववर्णनमप्यभ्ददार्ढ्यापादकत्वाच्चमत्कारि।
विषमदृष्टित्वपरित्यागेन जगद्रक्षकत्वोक्त्या शिवस्य पूर्वावस्थातो वर्णनीयराहभावावस्थायामुत्कर्षविभावनादधिकाभ्दरुपकं तृतीयम्‌।
एवमुत्तरेषु ताद्रूप्यरुपकोदाहरणेष्वपि क्रमेणानुभयन्यूनाधिकभावा उन्नेयाः।
अनेनैव क्रमेणोदाहरणान्तराणि – चन्द्रज्योत्स्नाविशदपुलिने सैकतेऽस्मिञ्छरय्वा वादद्यूतं चिरतरमभूत्सिद्धयूनोः कयोश्चित्‌।
एको वक्ति प्रथमनिहतं कैटभं कंसमन्य- स्तत्त्वं स त्वं कथय भगवन्‌! को हत्स्तत्र पूर्वम्‌॥
अत्र ‘स त्वम्‌’ इत्यन्बेन यः कंसकैटभयोर्हन्ता पौर्वापर्यप्रश्नव्याजेन तत्तादात्म्यदार्ढ्यकरणात्पूर्वावस्थात उत्कर्षापकर्षयोरविभावनाच्चानुभयाभेदरुपकम्‌।
वेधा द्वेधा भ्रमम चक्रे कान्तासु कनकेषु च।
तासु तेष्वप्यनासक्तः साक्षाद्भर्गो नराकृतिः\।
अत्र साक्षादिति विशेषणेन विरक्तर्य प्रसिद्धशिवतादात्म्यमुपदर्श्य नराकृतिरिति दिव्यमूर्तिवैकल्यप्रतिपादनान्न्यूनाभेदरुपकम्‌।
त्वय्यागते किमिति वेपत एष सिन्धुस्त्वं सेतुमन्थकृदत; किमसौ बिभेति।
द्वीपान्तरेऽपि न हि तेऽस्त्यवशंवदोऽद्य त्वां राजपुङ्गव! निषेवत एव लक्ष्मीः॥
अत्र ‘त्वम सेतुमन्थकृत्‌’ इति सेतोर्मन्थनस्य च कर्त्रा पुरुषोत्तमेन सह वर्णनीयस्य तादात्म्यमुक्त्वा तथापि त्वदागमनं सेतुबन्धनाय वा मन्थनाय वेति समुद्रेण न भेतव्यम्‌।
द्वीपान्तराणामपि त्वद्वशंवदत्वएन पूर्ववद्द्वीपान्तरे जेतव्याभावात्‌ प्राप्तलक्ष्मीकत्वेन मन्थनप्रसक्त्यभावाच्चेति पूर्वावस्थात उत्कर्षविभावनादधिकाभेदरुपकम्‌।
किं पद्मस्य रुधिं न हन्ति नयनानन्दं विधत्ते न किं वृद्धि वा झषकेतनस्य कुरुते नालोकमात्रेण किम्‌।
वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरुज्जृम्भते दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे॥
अत्र ‘अपरः शीतांशुः’ इत्यनेन वक्त्रेन्दोः प्रसिद्धचन्द्राद्भेदमाविष्कृत्य तस्य च प्रसिद्धचन्द्रकार्यकारित्वमात्रप्रतिपादनेनोत्कर्षापकर्षयोरप्रदर्थनाद्दनुभयताद्रूप्यरुपकम्‌।
अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः।
अभाललोचनः शम्भुर्भगवान्बादरायणः॥
अत्रहर्यादौ ‘अपर’ इति विशेषणात्त्रिष्वपि ताद्रूप्यमात्रविवक्षा विभाविता, चतुर्वदनत्वादिवैकल्यं चोक्तमिति न्यूनताद्रूप्यरुपकम्‌।
इदं विशेषोक्त्युदाहरणमिति वामनमतम्‌।
यदाह (काव्या० सू० ४।३।२३) – ‘एकगुनहानिकल्पनायां गुणसाम्यदार्ढ्यं विशेषोक्तिः’ इति।
किमसुभिर्ग्लपितैर्जड! मन्यसे मयि निमज्जतु भीमसुतामनः।
मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः॥
(नै० ४।५२) अत्र दमयन्तीकृतचन्द्रोपालम्भे प्रसिद्धचन्द्रो न निर्याणकालिकमनः प्रव्शश्रुतितात्पर्यविषयः, किंतु नलमुखचन्द्र एवेति ततोऽस्याधिक्यप्रतिपादनादधिकताद्रुप्यरुपकम्‌।
रुपकस्य सावयवत्वनिरवयत्वादिभेदप्रपञ्चनं तु चित्रमीमांसायां द्रष्टव्यम्‌॥१७-२०॥
६ परिणामालङ्कारः परिणामः क्रियार्थश्चेद्विषयी विषयात्मना।
प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा॥२१॥
यत्रारोप्यमाणो विषयी किंचित्कार्योपयोगित्वेन निबध्यमानः स्वतस्तस्य तदुपयोगित्वासंभवात्प्रकृतात्मना परिणतिमपेक्षते तत्र परिणामालङ्कारः।
अत्रोदाहरणम्‌ – प्रसन्नेति।
अत्र हि अब्जस्य वीक्षणोपयोगित्वं निबध्यते, न तु दृशः।मयूरव्यंसकादिसमासेनोत्तरपदार्थप्राधान्यात्‌।
न चोपमितसमासाश्रयेण दृगब्जमिवेति पूर्वपदार्थप्राधान्यमस्तीति वाच्यम्‌ ।
प्रसन्नेति सामान्यधर्मप्रयोगात्‌।
‘उपमितं व्याघ्रादिभिः सामान्याप्रयोगे’ (पा० २।१।५६) इति तदप्रयोग एवोपमितसमासानुशासनात्‌।
अब्जस्य वीक्षणोपयोगित्वं न स्वात्मना संभवति।
अतस्तस्य प्रकृतदृगात्मना परिणत्यपेक्षणात्‌ परिनामालङ्कारः।
यथा वा – तीर्त्वा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय - स्तम्बहि सौमित्रिमैत्रीमयमुपकृतवानातरं नाविकाय।
व्यामग्राह्यस्तनीबिः शबरयुवतिभिः कौतुकोदञ्चदक्षं कृच्छ्रादन्वीयमानः क्षणमचलमथो चित्रकूटं प्रतस्थे॥
अत्रारोप्यमाण आतरः सौमित्रिमैत्रीरुपतापत्त्या गुहोपकारलक्षणकार्योपयोगी न स्वात्मना, गुहस्य रघुनाथप्रसादैकार्थित्वेन वेतनार्थित्वाभावात्‌॥२१॥
७ उल्लेखालङ्कारः बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते।
स्त्रीभिः कामोऽर्थिभिः स्वर्द्रुः कालः शत्रुभिरैक्षि सः॥२२॥
यत्र नानाविधधर्मयोग्येकं वस्तु तत्तद्धर्मयोगरुपनिमित्तभेदेनानेकेन ग्रहीत्रानेकधोल्लिख्यते तत्रोल्लेखः।
अनेकधोल्लेखने रुच्यर्थित्वभयादिकं यथार्हं प्रयोजकम्‌।
रुचिरबिह्रतिः अर्थित्वं लिप्सा।
‘स्त्रीभिः’ इत्याद्युदाहरणम्‌ अतैक एव राजा सौन्दर्यवितरणपराक्रमशालीति कृत्वा स्त्रीभिरर्थिभिः प्रत्यर्थिभिश्च रुच्यर्थित्वभयैः कामकल्पतरुकालरुपो दृष्टः।
यथा वा – गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवतैः।
यथास्थितश्च बालाभिर्दृष्टः शौरिः सकौतुकम्‌॥
अत्र यस्तथा भीतं भक्तं गजं त्वरया त्रायते स्म सोऽयमादिपुरुषोत्तम इति ‘वृद्धाभिः संसारभीत्या तदभयार्थिनीभिः कृष्णोऽयं मथुरापुरं प्रविशन्‌ दृष्टः।
यस्तथा चञ्चलत्वेन प्रसिद्धायाः श्रियोऽपि कामोपचारवैदग्ध्येन नित्यं वल्लभः सोऽयं दिव्ययुवेति युवतिसमूहैः सोत्कण्ठैर्दृष्टः।
बालाभिस्तु तद्बाह्यगतरुपवेषालङ्कारदर्शनमात्रलालसाभिर्यथास्थितवेषादियुक्तो दृष्ट इति बहुधोल्लेखः।
पूर्वः कामत्वाद्यारोपरुपकसंकीर्णः।
अयं तु शुद्ध इति भेदः॥२२॥
एकेन बहुधोल्लेखेऽप्यसौ विषयभेदतः।
गुरुर्वचस्यर्जुनो कीर्तौ भीष्मः शरासने॥२३॥
ग्रहीतृभेदाभावेऽपि विषयभेदाद्बहुधोल्लेखनादसावुल्लेखः।
उदाहरणं श्लेषसंकीर्णम्‌।वचोविषये महान्पटुरित्यादिवद्बृहस्पतिरित्याद्यर्थान्तरस्यापि क्रोडीकरणात्‌।
शुद्धो यथा- अकृशं कुचयोः कृशं विलग्ने विपुलं चक्षुषि विस्तृतं नितम्बे।
अधरेऽरुणमाविरस्तु चित्ते करुणाशालि कपालिभागधेयम्‌॥२३॥
८-१० स्मृति-भ्रान्ति- संदेहालङ्काराः स्यात्स्मृतिभ्रान्तिसंदेहैस्तदङ्कालङ्कृतित्रयम्‌।
पङ्कजं पश्यतः कान्तामुखं मे गाहते मनः॥२४॥
अयं प्रमत्तमधुपस्त्वन्मुखं वेत्ति पङ्कजम्‌।
पङ्कजं वा सुधांशुर्वेत्यस्माकं तु न निर्णयः॥२५॥
स्मृतिभ्रान्तिसंदेहैः सादृश्यान्निबध्यमानैः स्मृतिभ्रान्तिमान्संदेह इति स्मृत्यादिपदाङ्कितमलङ्कारत्रयं भवति।
तच्च क्रमेणोदाहृतम्‌।
यथा वा (माघ० ८।६४) - दिव्यानामपि कृतविस्मयां पुरस्ताद- म्बह्स्तः स्फुरदरविन्दचारुहस्ताम्‌।
उद्वीक्ष्य श्रियमिव काञ्चिदुत्तरन्ती- मस्मार्षीज्जनिधिमन्थनस्य शौरिः॥
पूर्वत्र स्मृतिमदुदाहरणे सदृशस्यैव स्मृतिरत्र सदृशलक्ष्मीस्मृतिपूर्वकं तत्सम्बन्धिनो जलनिधिमन्थनस्यापि स्मृतिरिति भेदः।
पलाशामुकुलभ्रान्त्या शुकतुण्डे पतत्यलिः।
सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति॥
अत्रान्योन्यविषयभ्रान्तिनिबन्धनः पूर्वोदाहरणाद्विशेषः।
जीवनग्रहणे नम्रा गृहीत्वाअ पुनरुन्नताः।
किमु ज्येष्ठा घटीयन्त्रस्य दुर्जनाः॥
पूर्वोदाहृतसंदेहः प्रसिद्धकोटिकः, अयंतु कल्पितकोटिक इति भेदः॥२४-२५॥
११ अपह्नुत्यलङ्कारः शुद्धापह्नुतिरन्यस्यारोपार्थो धर्मनिह्नवः।
नायं सुधांशुः किं तर्हि? व्योमगङ्गासरोरुहम्‌॥२६॥
वर्णनीये वस्तुनि तत्सदृशधर्मारोपफलकस्तदीयधर्मनिह्नवः कविमतिविकासोत्प्रेक्षितधर्मान्तरस्यापि निह्नवः शुद्धापह्नुतिः।
यथा चन्द्रे वियन्नदीपुण्डरीकत्वारोपफलकस्तदीयधर्मस्य चन्द्रत्वस्यापह्नवः।
यथा वा - अङ्कं केऽपि शशङ्किरे, जलनिधेः पङ्कं परे मेनिरे, सारंगं कतिचिच्च संजगदिरे, भूच्छायमैच्छन्‌ परे।
इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते तत्सान्द्रं निशि पीतमन्धतमां कुक्षिस्थमाचक्ष्महे॥
अत्रौत्प्रेक्षिकधर्माणामप्यपह्नवःपरपक्षत्वोपन्यासादर्थसिद्धः॥२६॥
स एव युक्तिपूर्वश्चेदुच्यते हेत्वपह्नुतिः।
नेन्दुस्तीव्रो न निश्यर्कः सिन्धोरौर्वोऽयमुत्थितः॥२७॥
अत्र चन्द्र एव तीव्रत्वनैशत्वयुक्तिभ्यां चन्द्रत्वसूर्यत्वापह्नवो वडवानलत्वारोपार्थः।
यथा वा - मन्थानभूमिधरमूलशिलासहस्र- संघट्टनव्रणकिणः स्फुरतीन्दुमध्ये।
छायामृगः शशक इत्यतिपामरोक्ति- स्तेषां कथंचिदपि तत्र हि न प्रसक्तिः॥
अत्र चन्द्रमध्ये मन्थनकालिकमन्दरशिलासंघट्टनव्रणकिणस्यैव छायादीनां सम्भवो नास्तीति छायात्वाद्यपह्नवः पामरवचनत्वोपन्यासेनाविष्कृतः॥२७॥
अन्यत्र त्स्यारोपार्थः पर्यस्तापह्नुतिस्तु सः‌॥२८॥
यत्र क्वचिद्वस्तुनि तदीयधर्मनिह्नवः अन्यत्र वर्णनीये वस्तुनि तस्य धर्मस्यारोपार्थः स पर्यस्तापह्नुतिः।
यथा चन्द्रे चन्द्रत्वनिह्नवो वणनीये मुखे तदारोपार्थः।
यथा वा- हालाहलो नैव विषं, विषं रमा, जनाः परं व्यत्ययमत्र मन्वते।
निपीय जागर्ति सुखेन तं शिवः, पृशन्निमां मुह्यति निद्रया हरिः॥
पूर्वोदाहरणे हेतूक्तिर्नास्ति, अत्र तु सास्तीति विशेषः।
ततश्च पूर्वापह्नुतिवदत्रापि द्वैविध्यमपि द्रष्टवयम्‌ ॥२८॥
भ्रान्तापह्नुतिरन्यस्य शङ्कायां भ्रान्तिवारणे।
तापं करोति सोत्कम्पं, ज्वर किं? न, सखि! स्मरः॥१९॥
अत्र तापं करोतीति स्मरवृत्तान्ते कथिते तस्य ज्वरसाधारण्यादृजुबुद्ध्या सख्या ‘ज्वरः किम्‌’ इति पृष्टे, ‘न सखि! स्मरः” इति तत्त्वोक्त्या भ्रान्तिवारणं कृतम्‌।
यथा वा - नागरिक! समधिकोन्नतिरिह महिषः कोऽयमुभयतः पुच्छः।
नहि नहि करिकलभोऽयं शुण्डादण्डोऽयमस्य न तु पुच्छम्‌॥
इदं सम्भवद्‌ भ्रान्तिपूर्विकायां भ्रान्तापह्नुतावुदाहरणम्‌।
कल्पित भ्रान्तिपूर्वा यथा- जटा नेयं वेणीकृतकचकलापो न गरलं गले कस्तूरीयं शिरसि शशिलेखा न कुसुमम्‌।
इयं भूतिर्नाङ्गे प्रियविरहजन्मा धवलिमा पुरारातिभ्रान्त्या कुसुमशर! किं मां प्रहरसि॥
अत्र कल्पितभ्रान्तिः ‘जटा नेयम्‌’ इत्यादिनिषेधमात्रोन्नेया, पूर्ववत्प्रश्नाभावात्‌।
दण्डी त्वत्र तत्त्वाख्यानोपमेत्युपमाभेदं मेने।
यदाह - ‘न पद्मं मुखमेवेदम, न भृङ्गो चक्षुषी इमे।
इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमैव सा’॥२६॥
इति छेकापह्नुतिरन्यस्य शङ्कातस्तथ्यनिह्नवे।
प्रजल्पनमत्पदे लगनः कान्तः किं? नहि नूपुरः॥३०॥
कस्यचित्कञ्चित्प्रति रहस्योक्तावन्येन श्रुतायां स्वोक्तेस्तात्पर्यान्तरवर्णनेन तथ्य निह्नवे छेकापह्नुतिः।
यथा नायिकाया नर्मसखीं प्रति ‘प्रजल्पनमत्पदे लग्नः इति स्वनायकवृत्तान्ते निगद्यमाने तदाकर्ण्य ‘कान्तः किम्‌’ इति शङ्कितवतीमन्यां प्रति ‘नहि, नूपुरः’ इति निह्नवः।
सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम्‌।
नागरिकः किं मिलितो? नहि नहि, सखि! हैमनः पवनः॥
इदमर्थयोजनया तथ्यनिह्नवे उदाहरणम्‌।
शब्दयोजनया यथा – पद्मे! त्वन्नयने स्मरामि सततं भावो भवत्कुन्तले नीले मुह्यति किं करोमि महितं क्रीतोऽस्मि ते विभ्रमैः।
इत्युस्वप्नवचो निशम्य सरुषा निर्भर्त्सितो राधया कृष्णस्तत्परमेव तद्व्यपदिह्सन्‌ क्रीडाविटः पातु वः॥
सर्वमिदं विषयान्तरयोजने उदाहरणम्‌।
विषयैक्येऽप्यवस्थाभेदेन योजने यथा - वदन्ती जारवृत्तान्तं पत्यौ धूर्ता सखीधिया।
पतिं बुद्ध्वा, ‘सखि! ततः प्रबुद्धास्मी’त्यपूरयत्‌॥३०॥
कैतवापह्नुतिर्व्यक्तौ व्याजाद्यैर्निह्नुतेः पदैः।
निर्यान्ति स्मरनाराचाः कान्तादृक्पातकैतवात्‌॥३१॥
अत्रासत्यत्वाभिधायिना, ‘कैतव’ पदेन ;नेमे कान्ताकटाक्षाः, किन्तु स्मरनाराचाः’ इत्यपह्नवः प्रतीयते।
यथा वा – रिक्तेषु वारिकथया विपिनोदरेषु मध्याह्नजृम्भितमहातपतापतप्ताः।
स्कन्धान्तरोत्थितदवागिन्शिखाच्छलेन जिह्वाम प्रसार्य तरवो जलमर्थयन्ते ॥३१॥
१२ उत्प्रेक्षालङ्कारः संभावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना।
उक्तानुक्तास्पदाद्यात्र सिद्धाऽसिद्धास्पदे परे॥३२॥
धूमस्तोयं तमः शङ्क्व कोकीविरहशुष्मणाम्‌।
लिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभः॥३३॥
रक्तौ तवाङ्घ्री मृदुलौ भुवि विक्षेपणाद्ध्रुवम्‌।
त्वन्मुखाभेच्छया नूनं पद्मैर्वेरायते शशी॥३४॥
मध्यः किं कुच्योर्धृत्यै बद्धः कनकदामभिः।
प्रायोऽब्जं त्वत्पदेनैक्यं प्राप्तुं तोये तपस्यति॥३५॥
अन्यधर्मसंबन्धनिमित्तेनान्यस्यान्यतादात्म्यसंभावनमुत्प्रेक्षा।
सा च वस्तु-हेतु-फलात्मतागोचरत्वेन त्रिविधा।
अत्र वस्तुनः कस्यचिद्वस्त्वन्तरतादात्म्यसंभावना प्रथमा स्वरूपोत्प्रेक्षेत्युच्यते।
अहेतोर्हेतुभावेनाफलस्य फलत्वेनोत्प्रेक्षा हेतूत्प्रेक्षा फलोत्प्रेक्षेत्युच्यते।
अत्र आद्या स्वरूपोत्प्रेक्शा उक्तविषयाऽनुक्तविषया चेति द्विविधा।
परे हेतूफलोत्प्रेक्षेसिद्धविषयाऽसिद्धविषया चेति प्रत्येकं द्विविधे।
एवं षण्णामुत्प्रेक्षाणां धूमस्तोममित्यादीनि क्रमेणोदहरणानि।
रजनीमुखे सर्वत्र विसृत्वरस्य तमसो नैल्यदृष्टिप्रतिरोधकत्वादिधर्मसंबन्धेन गम्यमानेन निमित्तेन सद्यःप्रियविधटितसर्वदेशस्थितकोकाङ्गानाहृदुपगतप्रज्वलिष्यद्विरहानलधूमस्तोमतादात्म्यसंभावनास्वरुपोत्प्रेक्षा तमसो विषयस्योपादानादुक्तविषया।
तमोव्यापनस्य नभःप्रभृतिभूपर्यन्तसकलवस्तुसान्द्रमलिनीकरणेन निमित्तेन तमःकर्तृकलेपनतादात्म्योत्प्रेक्षा, नभःकर्तृकाञ्जनवषणतादात्म्योत्प्रेक्षा चनुक्तविषया स्वरुपोत्प्रेक्षा, उभयत्राअपि विषयभूततमोव्यापनस्यानुपादानात्‌।
नन्वत्र तमसो व्यापनेन निमित्तेन लेपनकर्तृतादात्म्योत्प्रेक्षा नभसो भूपर्यन्तं गाढनीलिमव्याप्तत्वेन निमित्तेनाञ्जनवर्षणकर्तृतादात्म्योत्प्रेक्षा, चेत्युत्प्रेक्षाद्वयमुक्तविषयमेवास्तु।
मैवम्‌; लिम्पति – वर्षतीत्याख्यातयोः कर्तृवाचकत्वेऽपि ‘भावप्रधानमाख्याय‌म्’ इति स्मृतेर्धात्वर्थक्रियाया एव प्राधान्येन तदुपसर्जनत्वेनान्वितस्य कर्तुरुप्रेक्षणीयतया अन्यत्रान्वयासंभवात्‌।
अत एव।
[आख्यातार्थस्य कर्तुः क्रियोपसर्जनत्वेनान्यत्रान्वयासंभवादेव] अस्योपमायामुपमानतयान्वयोऽपि दण्डिना निराकृतः - ‘कर्ता यद्युपमानं स्यान्न्यग्भूतोऽसौ क्रियापदे।
स्वक्रियासाधनव्यग्रो नालमन्यद्व्यपिक्षितुम्‌॥
(काव्यादर्शे २।२३०) इति।
केचित्तु – तमोनभसोर्विषययोस्तत्कर्तृकलेपनवर्षणस्वरुपधर्मोत्प्रेक्षेत्याहुः।
तन्मते स्वरुपोत्प्रेक्षायां धर्म्युत्प्रेक्षा चेत्येव म्द्वैविध्यं द्रष्टव्यम्‌।
चरणयोः स्वतः सिद्धे रक्तिमनि वस्तुतो विक्षेपणं न हेतुरित्यहेतोस्तस्य हेतुत्वेन सम्भावना हेतूत्प्रेक्षा विक्षेपणस्य विषयस्य सत्त्वात्सिद्धविषया।
चन्द्रपद्मविरोधे स्वाभाविके नायिकावदनकान्तिप्रेप्सा न हेतुरिति तत्र तद्धेतुत्वसंभावना हेतूत्प्रेक्षा वस्तुतस्तदिच्छाया अभावादसिद्धविषया।
मध्द्यः स्वयमेव कुचौ धरति न तु कनकदामबन्धत्वेनाध्यवसिताया वलित्रयशालिताया बलादिति मध्यकर्तृककुचधृतेस्तत्फलत्वेनोत्प्रेक्षा सिद्धविषया फलोत्प्रेक्षा।
जलजस्य जलावस्थितेरुदवासतपस्त्वेनाध्यवसितायाः कामिनीचरणसायुज्यप्राप्तिर्न फलमिति तस्या गगनकुसुमायमानायास्तपःफलत्वेनोत्प्रेक्षणादसिद्धविषया फलोत्प्रेक्षा\ अनेनैव क्रमेणोदाहरणान्तराणि – बालेन्दुवक्रान्यविकासभावाद्बभुः पलाशान्यतिलोहितानि।
सद्यो वसन्तेनसमागतानां नखक्षतानीव वनस्थलीनाम्‌॥
अत्रपलाशकुसुमानां वक्रत्वलोहितत्वेन संबन्धेन निमित्तेन सद्यःकृतनखक्षततादात्म्यसंभावनादुक्तविषया स्वरुपोत्प्रेक्षा।
पूरोव्दाहरणे निमित्तभूतधर्मसंबन्धो गम्यः, इह तूपात इति भेदः।
नन्विवशब्दस्य सादृश्यपरत्वेन प्रसिद्धरतत्वादुपमैवास्तु।
‘लिम्पती’ इत्युदाहरणे लेपान्कर्तुरुपमानत्वार्हस्य क्रियोपसर्जनत्ववदिह नखक्षतानामन्योपसर्जनत्वस्योपमाबधाकस्याभावादिति चेत्‌, उच्यते – उपमाया यत्र क्वाचित्स्थिरैरपि नखक्षतेइः सह वक्तुं शक्यतया वसन्तनायकसमागतवनस्थलसंबन्घित्वस्य विशेषणस्यानपेक्षितत्वादिह तदुपादानं नखक्षततादात्म्यसंभावनायामिवशब्दमवस्थपयति।
तथात्व एव तद्विशिषणसाफल्यात्‌।
अस्ति च संभावनायां ‘इव’शब्दो ‘दूरे तिष्ठान्देवदत्त इवाभाति’ इति।
पिनष्टीव तरङ्गाग्रै” समुद्रः फेनचन्दन‌म्‌।
तदादाय करैरिन्दुर्लिम्पतीव दिवङ्गनाः॥
अत्र तरङ्गाग्रैः फेनचन्दनस्य प्रेरणं पेषणतयोत्प्रेक्ष्यते।
समुद्रादुत्थितस्य चन्द्रस्य प्रथमं समुद्रपूरे प्रसृतानां कराणां दिक्षु व्यापनं च समुद्रोपान्तफेनचन्दनकृतलेपनत्वेनोत्प्रेक्ष्यते।
उभयत्र क्रमेण समुद्रप्रान्तगतफेनचन्दनपुञ्जीभवनं दिशां धवलीकरणं च निमित्तमिति फेनचन्दनप्रेरणव्यापनयोर्विषययोरनुपादानादनुक्तविषये स्वरुपोत्प्रेक्षे।
येषं तूपात्तयोः समुद्रचन्द्रयोरेव-तत्कर्तृकपेषण-लेपनरुपधर्मोत्प्रेक्षेति मतं, तेषां मते पूर्वोदाहरणे धर्मिणि धर्म्यन्तरतादात्म्योत्प्रेक्षा।
इह तु धर्मिणि धर्मसंसर्गोत्प्रेक्शेति भेदोऽवगन्तव्यः।
रात्रौ रवेर्दिवा चेन्दोरभावादिव सप्रभुः।
भूमौ प्रतापयशसी सृष्टवान्‌ सततोदिते॥
रात्री रवेर्दिवा चन्द्रस्याभावः सन्नपि प्रतापयशसोः सर्गेन हेतुरिति तस्य तद्धेतुत्वसंभावना सिद्धविषया हेतूत्प्रेक्षा।
विवस्वताऽनायिषतेव मिश्राः स्वगोसहस्रेण समं जनानाम्‌।
गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः॥
गावोऽपि विवस्वता कृतं स्वकिरणैः सह जनलोचनानां नयनमसदेव रात्रावान्ध्यं प्रति हेतुत्वेनोत्प्रेक्ष्यत इत्यसिद्धविषया हेतूत्प्रेक्षा।
पूरं विधुर्वर्धयितुं पयोधेः शङ्केऽयमेणाङ्कमणिं कियन्ति।
पयांसि दोग्धि प्रियविप्रयोगे सशोककोकीनयने कियन्ति॥
अत्र चन्द्रेण कृतं समुद्रस्य बृंहणं सदेव ताअ तेन कृतस्य चन्द्रकान्तद्रावणस्य कोकाङ्गानाबाष्पस्रावणस्य च फलत्वेनोत्प्रेक्ष्यत इति सिद्धविषया फलोत्प्रेक्षा।
रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम्‌।
उत्पत्तिभूमौ तुरगोत्तमानाअं दिशि प्रतस्थी रविरुत्तरस्याम्‌॥
अत्रोत्तरायणस्याश्वपरिवर्तनमसदेव फलत्वेनोत्प्रेक्ष्यत इत्यदिद्धविषया फलोत्प्रेक्षा।
एता एवोत्प्रेक्षाः।
‘मन्ये-शङ्के-ध्रुवं-प्रायो-नूनमित्येवमादिभिः।
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः’॥
इत्युत्प्रेक्षाव्यञ्जकत्वेन परिगणितानां शब्दानां प्रयोगे वाच्याः।
तेषामप्रयोगे गम्योत्प्रेक्षा।
यथा – त्वत्कीर्तिर्भ्रमनश्रान्ता विवेश स्वर्गनिम्नगाम्‌॥३३-३५ १३ अतिशयोक्त्यलङ्कारः रुपकातिशयोक्तिः स्यानिनिगीर्याध्यवसानतः।
पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति शिताः शराः॥३६॥
विषयस्य स्वशब्देनोल्लेखनं विनापि विषयिवाचकेनैव शब्देन ग्रहणं विषयनिगरणं तत्पूर्वकं विषयस्य विषयिरुपतयाऽध्यवसानमाहार्यनिश्चयस्तस्मिन्सति रुपकातिशयोक्तिः।
यतह नीलोत्पलशरशब्दाभ्यां लोचनयोः कटाक्षाणां च ग्रहणपूर्वकं तद्रूपताध्यवसानम्‌।
यथा वा – वापी कापि स्फुरति गगने तत्परं सूक्ष्मपद्या सोपानालीमधिगतवती काञ्चनीमैन्द्रनीली।
अग्रे शैलौ सुकृतिसुगमौ चन्दनच्छन्नदेशौ तत्रत्यानां सुलभममृतं संनिधानात्सुधांशोः॥
अत्र वाप्यादिशब्दैर्नाभिप्रभृतयो निगीर्णाः।
अत्रातिशयोक्तौ रुपकविशेषणं रुपके दर्शितानां विधानामिहापि संभवोऽस्तीत्यतिदेशेन प्रदर्शनार्थम्‌।
तेनात्राप्यभेदातिशयोक्तिस्ताद्रूप्यातिशयोक्तिरिति द्वैविध्यं द्रष्टव्यम्‌।
तत्राप्याधिक्यन्यूनताविभागश्चेति सर्वमनुसंधेयम्‌।
यथा वा (विद्भ. भं) – सुधाबद्धग्रासैरुपवचनचकोरैरनुसृतां किरञ्ज्योत्स्नामच्छां लवलिफलपाकप्रणयिनीम्‌।
उपमाप्राकाराग्रं प्रहिणु नयने तर्कय मना- जनाकाशे कोऽयं गलितहरिणः शीतकिरणः॥
इत्यत्र ‘कोऽयं गलितहरिणः शीतकिरण’ इत्युक्त्या प्रसिद्धचन्द्राद्भेदस्तत उत्कर्षश्च गर्भितः।
एवमन्यत्राप्यूहनीयम्‌॥३६॥
यद्यपह्नतिगर्भत्वं सैव सपह्नवा मता।
त्वत्सूक्तिषु सुधा राजभ्रान्त्या पश्यन्ति तां विधौ॥३७॥
अत्र ‘त्वत्सूक्तिमाधुर्यमेवामृतम्‌’ इत्यतिशयोक्तिश्चन्द्रमण्डलस्तह्ममृतं न भवतीत्यपह्नुतिगर्भा।
यथा वा - मुक्ताविद्रुममन्तरा मधुरसः पुष्पं परं धूर्वहं प्रालेयद्युतिमण्डले खलु तयोरेकासिका नार्णवे।
त्चोदञ्चति शङ्खमूर्ध्नि न पुनः पूर्वाचलाभ्यन्तरे तानीमानि विकल्पयन्ति त इमे येषां न सा दृक्पथे॥
अत्राधररस एव मधुरस इत्याद्यतिशयोक्तिः पुष्परसो मधुरसो न भवतीत्यपह्नुतिगर्भा ।
अलङ्कारसर्वस्वकृता तु स्वरूपोत्प्रेक्षायां सपह्नवत्वमुदाहृतम्‌ - गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु।
यत्रोल्लस्त्फेनततिच्छलेन मुक्ताट्टहासेव विभाति शिप्रा॥
इति ।
ततस्त्वियानत्र भेदः।
एतत्तु शुद्धापह्नुतिगर्भम्‌।
यत्र फेनततित्वमपह्नुतं तत्रैवाट्टहासत्वोत्प्रेक्षणात्‌, इह तु पर्यस्तापह्नुतिगर्भत्वमिन्दुमण्डलादावपह्नुतस्यामृतादेः सूक्त्यादिषु निवेशनात्‍।
इदं ह पर्यस्तापह्नुतिगर्भत्वमुत्प्रेक्षायामपि संभवति।
तत्र स्वरुपोत्प्रेक्षायां यथा (नै ० ७।३९) - जानेऽतिरागादिदमेव बिम्बं बिम्बस्य च व्यक्तमितोऽधरत्वम्‌।
द्वयोर्विशेषावगमाक्षमाणां नाम्नि भ्रमोऽभूदनयोर्जनानाम्‌॥
अत्र प्रसिद्धबिम्बफले बिम्बतामपह्नुत्यातिरागेण निमित्तेन दमयन्त्यधरे तदुत्प्रेक्षा पर्यस्तापह्नुतिगर्भा।
हेतूत्प्रेक्षायाम तद्गर्भत्वं प्राग्लिखिते हेतूत्प्रेक्षोदाहरण एव दृश्यते।
तत्र चान्धकारेष्वान्ध्यहेतुत्वमपह्नुत्यान्यत्र तन्निवेशितम्‌।
फलोत्प्रेक्षायां यथा - रवितप्तो गजः पद्मांस्तद्गृह्यान्बाधितुं ध्रुवम्‌।
सरो विशति न स्नातुं गजस्नानं हिन निष्फलम्‌॥
अत्र गजस्य सरःप्रवेशं प्रति फले स्नाने फलत्वमपह्नुत्य पद्मबाधने तन्निवेशितम्‌।
अलमनया प्रसक्तानुप्रसक्त्या, प्रकृतमनुसरामः॥३७॥
भेदकातिशयोक्तिस्तु तस्यैवान्यत्ववर्णनम्‌।
अन्यदेवास्य गाम्भीर्यमन्यद्धैर्यं महीपतेः॥३८॥
अत्र लोकप्रसिद्धगाम्भीर्याद्यभेदेऽपि भेदो वर्णितः।
यथा वा - अन्येयं रुपसंपत्तिरन्या वैदग्ध्यधोरणी।
नैषा नलिनपत्राक्षी सृष्टिः सादारणी विधेः॥३८॥
सम्बन्दातिशयोक्तिः स्यादयोगे योगकल्पनम्‌।
सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम्‌॥३९॥
यथा वा - कतिपयदिवसैः क्षयं प्रयायात्‌ कनकगिरिः कृतवासरावसानः।
इति मुदमुपयाति चक्रवाकी वितरणशालिनि वीररुद्रदेवे॥
अत्र चक्रवाक्याः सूर्यास्तमयकारकमहामेरुक्षयसम्भावनाप्रयुक्तसम्तोषासंबन्धेऽपि तत्संबन्धो वर्णितः॥३९॥
योगेऽप्ययोगोऽसंबन्धातिशयोक्तिरितीर्यते।
त्वयि दातरि राजेन्द्र! स्वर्द्रुमान्नाद्रियामहे॥४०॥
अत्र स्वर्द्रुमेषादरसंबन्धेऽपि तद्संबन्धो वर्णित इत्यसंबन्धातिशयोक्तिः।
यथा वा - अनयोरनवद्याङ्गि! स्तनयोर्जृम्भमाणयोः।
अवकाशो न पर्याप्तस्तव बाहुलान्तरे॥४०॥
अक्रमातिशयोक्तिः स्यात् सहते हेतुकार्ययोः।
आलिङ्गन्ति समं देव! ज्यां शराश्च पराश्च ते॥४१॥
अत्र मौर्व्या यदा शरसंधानं कृतं तदानीमेव शत्रवः क्ष्तौ पतन्तीति हेतुकार्ययोः सहत्वं वर्णितम्‌।
यथा वा - मुञ्चति मुञ्चति कोशं भजति च भजति प्रकम्पमरिवर्गः।
हम्मीरवीरखड्गे त्यजति त्यजति क्षमामाशु॥
अत्र खड्गस्य कोशत्यागादिकाल एव रिपूणां धनगृहत्यागादि वर्णितम्‌॥४१॥
चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे।
यास्यामीत्युदिते तन्व्या वलयोऽभवदूर्मिका॥४२॥
अत्र नायकप्रवासप्रसक्तिमात्रेण योषितोऽतिकार्श्यं कार्यमुखेन दर्शितम्‌।
यथा वा - आदातुं सकृदीक्षितेऽपि कुसुमे हस्ताग्रमालोहितं लाक्षारञ्जनवार्तयापि सहसा रक्तं तलं पादयोः।
अङ्गानामनुलेपनस्मरणमप्यत्यन्तखेदावहं हन्ताऽधीरदृशः किमन्यदलकामोदोऽपि भारायते॥
यथा वा – यामि न यामीति धवे वदति पुरस्तात्क्षणेन तन्वङ्ग्याः।
गलितानि पुरो वलयान्यपराणि तथैव दलितानि॥४२॥
अत्यन्तातिशयोक्तिस्तु पौर्वापर्यव्यतिक्रमे।
अग्रे मानो गतः पश्चादनुनीता प्रियेण सा॥४३॥
(अत्यन्तातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे।
यास्यामीत्युदीते तन्व्या वलयोऽभवदूर्मिका॥) यथा वा - कवीन्द्रानाणामासन्‌ प्रथमतरमेवाङ्गणभुव- श्चलद्भृङ्गासङ्गाकुलकरिमदामोदमधुराः।
अमी पश्चात्तेषामुपरि पतिता रुद्रनृपतेः कटाक्षाः क्षीरोदप्रसरदुरुवीचीसहचराः॥
एतास्तिस्रोऽप्यतिशयोक्तयः कार्यशैघ्र्यप्रत्यायनार्थाः॥४३॥
१४ तुल्ययोगितालङ्कारः वर्ण्यानामितरेषां वा धर्मैक्यं तुल्ययोगिता।
संकुचन्ति सरोजानि स्वैरिणीवदनानि च॥४४॥
त्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते।
मालतीशसभृल्लेखाकदलीनां कठोरता ॥४५॥
प्रस्तुतानामप्रस्तुतानां वा गुणक्रियारुपैकधर्मान्वयस्तुल्ययोगिता।
संकुचन्तीति प्रस्तुततुल्ययोगिताया उदाहरणम्‌।
तत्र प्रस्तुतचन्द्रोदयकार्यतया वर्णनीयानां सरोजानां प्रकाशभीरुस्वैरिणीवदनानां च संकोचरुपैकक्रियान्वयो दर्शितः।
उत्तरश्लोके नायिकासौकुमार्यवर्णने प्रस्तुतेऽप्रतस्तुतानां मालत्यादीनां कठोरतरुपैकगुणान्वयः।
यथा वा - संजातपत्रप्रकरान्वितानि समुद्वहन्ति स्फुटपाटलत्वम्‌।
विकस्वराण्यर्ककराभिमर्शाद्दिनानि पद्मानि च वृद्धिमीयुः॥
नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्‌ कदलीविशेषाः ।
लब्ध्वापि लोके परिणाहि रुपं हातास्तदूर्वोरुपमानबाह्याः॥
अत्र ग्रीष्मवर्णने तदीयत्वेन प्रस्तुतानां दिनानां पद्मानां चैकक्रियान्वयः।उरुवर्णनेऽप्रस्तुतानां करिकराणां कदलीविशेषाणां चैकगुणान्वयः॥४४-४५॥
हिताहिते वृत्तितौल्यमपरा तुल्ययोगिता।
प्रदीयते पराभूतिर्मित्रशात्रवयोस्त्वया॥४६॥
अत्र हिताऽहितयोर्मित्रं – शात्रवयोरुत्कृष्टभूतिदानस्य पराभवदानस्य च श्लेषेणाभेदाध्यवसायाद्‌ वृत्तितौल्यम्‌।
यथा वा- यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा।
यश्चैनं गन्धमाल्याख्याद्यैः सर्वस्य कटुरेव सः॥
अत्र वृश्चति-सिञ्चति-अर्चति इत्यध्याहारेण वाक्यानि पूरणीयानि।पूर्वोदाहरणं स्तुतिपर्यवसायि, इदं तु निन्दापर्यवसयीति भेदः।
इयम सरस्वतीकण्ठाभरणोक्ता तुल्ययोगिता॥४६॥
गुणोत्कृष्टे समीकृत्य वचोऽन्या तुल्ययोगिता।
लोकपालो यमः पाशी श्रीदः शक्रो भवानपि॥४७॥
अत्र वर्णनीयो राजा शक्रादिभिर्लोकपालत्वेन समीकृतः।
यथा वा - संगतानि मृगाक्षीणां तडिद्विलसितान्यपि।
क्षणद्वयं न तिष्ठन्ति धनारब्धान्यपि स्वयम्‌॥
पुर्वत्र स्तुतिः इह तु निन्दा।
इयं काव्यादर्शे दर्शिता।
इमां तुल्ययोगितां सिद्धिरिति केचिद्व्यजह्नुः।
यदाह जयदेवः - सिद्धिः ख्यातेषु चेन्नाम कीर्त्यते तुल्योक्तये।
युवामेवेह विख्यातौ त्वं बलैजलधिर्जलैः॥
इति।
मतन्तरेष्वत्र वक्ष्यमाणं दीपकमेव॥४७॥
१५ दीपकालङ्कारः वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधाः।
मदेन भाति कलभः प्रतापेन महीपतिः॥४८॥
प्रस्तुताप्रस्तुतानामेकधर्मान्वयो दीपकम्‌।
यथा कलभमहीपालयोः प्रस्तुताप्रस्तुतयोर्भानक्रियान्वयः।
यथा वा - मणिः शाणोल्लीढः समरविजयी हेतिदलितो मदक्षीणो नागः शरदि सरितः श्यानपुलिनां।
कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नृपाः॥
अत्र प्रस्तुतानां नृपाणामप्रस्तुतानां मण्यादीनाम च शोभैकधर्मान्वयः।
प्रस्तुतैकनिष्ठः समानो धर्मः प्रसङ्गादन्यत्रोपकरोति प्रासादार्थमारोपितो दीप इव रथ्यायामिति दीपसाम्याद्दीपकम्‌।
‘संज्ञायां च (वा० २४५८) इति दिवार्थे कन्‌ प्रत्ययः यद्यपि - सुवर्णपुष्पां पृथिवी चिन्वन्ति पुरुषास्त्रयः।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्‌॥
इत्यत्र प्रस्तुतानामप्रस्तुतानां युगपद्धर्मान्वयः प्रतिभाति।
‘मदेन भाति कलभ’ इत्यत्राप्रस्तुतस्यैव प्रथमं धर्मान्वयः तथापि प्रासङ्गिकत्वं न हीयते वस्तुगत्या प्रस्तुतूद्देशेन प्रवृत्तस्यिव वर्णनस्याग्रप्रस्तुतेऽन्वयात्‌।
नहि दीपस्य रथ्याप्रासादयोर्युगपदुपकारित्वेन जामात्रर्थं श्रपितस्य सूपस्यातिथिभ्यः प्रथमपरिवेषणेन च प्रासण्गिकत्वं हियते।
तुल्ययोगितायां त्वेकं प्रस्तुतम्‌ अन्यदप्रस्तुतमिति विशेषाग्रहणात्‌ सर्वोद्देशेनैव धर्मान्वय इति विशेषः।
अयम चानयोरपरो विशेषः – उभयोरनयोरुपमालङ्कारस्य गम्यत्वाविशेषेऽप्यत्राप्रस्तुतमुपमानं प्रस्तुतमुपमेयमिति व्यवस्थित उपमानोपमेयभावः तत्र तु विशेषाग्रहणादैच्छिकः स इति॥४८॥
१६ आवृत्तिदीपकालङ्कारः त्रिविधम दीपकावृत्त्तौ भवेदावृत्तिदीपकम्‌।
वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी॥४९॥
उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोद्गमाः।
माद्यन्ति चातकास्तृप्ता माद्यन्ति च शिखावलाः॥५०॥
दीपकस्यानेकोपकारार्थतया दीपस्थानीयस्य पदस्यार्थस्योभयोर्वाऽऽवृत्तौ त्रिविधमावृत्तिदीपकम्‌।
क्रमेणार्धत्रयेनोदाहरणानि दर्शितानि।
यथा वा - उत्कण्ठयतिए मेघानां माला वर्गं कलापिनम्‌।
यूनाम चोत्कण्ठययद्य मानसं मकरध्वजः॥
शमयति जलधरधारा चतकयूनां तृषं चिरोतनताम्‌।
क्षपयति च वधूलिचनजलधारा कामिनां प्रवाअसरुचिम्‌॥
वदनेन निर्जितं तव निलीयते चन्द्रबिम्बमम्बुधरे।
अरविन्दमपि च सुन्दरि! निलीयते पाथसां पूरे॥
एवं चावृत्तीनां प्रस्तुताप्रस्तुतोभयविषयत्वाभावेऽपि दीपकच्छायापत्तिमात्रेण दीपकव्यपदेशः॥४९-५०॥
१७ प्रतिवस्तुपमालङ्कारः वाक्ययोरेकसमान्ये प्रतिवस्तूपमा मता।
तापेन भ्राजते सूरः शूरश्चापेन राजते॥५१॥
यत्रोपमानोपमेयपरवाक्ययोरेकः समनो धर्मः पृथङ्निर्दिश्यते सा प्रतिवस्तूपमा।
प्रतिवस्तु प्रतिवाक्यार्थमुपमासमानधर्मोऽस्यामिति व्युत्पत्तेः।
यथाऽत्रैव भ्राजते राजत इत्येक एव धर्म उपमानोपमेयवाक्ययोः पृथग्भिन्नपदाभ्यां निर्दिष्टः।
यथा वा - स्थिरा शैली गुणवतां खलबुद्ध्या न बाध्यते।
रत्नदीपस्य हि शिखा वात्ययापि न नाश्यते॥
यथा वा – तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति।
स्थितेऽरविन्दे मकरन्दनिर्भरे मधुवतो नेक्षुरसं समीक्षते॥
अत्र यद्यपि उपमेयवाक्ये अनिच्छा उपमानवाक्ये अवीक्षेति धर्मभेदः प्रतिभाति तथापि बीक्षणमात्रस्यावजनीयस्य प्रतिषेधानर्हत्वादिच्छापूर्वकवीक्षाप्रतिषेधोऽयमनिच्छापर्यवसित एवेति धर्मैक्यमनुसंधेयम्‌।
अर्थावृत्तिदीपकं प्रस्तुतानामप्रस्तुतानां वा प्रतिवस्तूपमा तु प्रस्तुताप्रस्तुतानामिति विशेषः।
अयं चापरो विशेषः – आवृत्तिदीपकं वैधर्म्येण न संभवति प्रतिवस्तूपमा तु वैधर्म्येणापि दृश्यते।
यथा - विद्वानेव हि जानाति विद्वज्जनपरिश्रमम्‌।
न हि वन्ध्या विजानाति गुर्वीं प्रसववेदनाम्‌॥
यदि सन्ति गुणाः पुंसां विकसन्त्येव ते स्वयम्‌।
न हि कस्तूरिकामोदः शपथेन विभाव्यते॥५१॥
१८ दृष्टान्तालङ्कारः च्द्बिम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलंकृतिः।
त्वमेव कीर्तिमान्‌ राजन्‌! विधुरेव हि कान्तिमान्‌॥५२॥
यत्रोपमनोपमेयवाक्ययोर्भिन्नावेव धर्मौ बिम्बप्रतिबिम्बभावेन निर्दिष्टौ तत्र दृष्टान्तः।
‘त्वमेव कीर्तिमान्‌’ इत्यत्र कीर्तिकान्त्योर्बिम्बप्रतिबिम्बबहवः।
यथा वा (रघु० ६।२२) – कामं नृपाः सन्ति सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम्‌।
नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः॥
यथा वा - देवीं वाचमुपासते हि बहवः सारं तु सारसतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः।
अब्धिर्लङ्घित एव वान्ररभटैः किं त्वस्य गम्भीरता- मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः॥
नन्वत्रोपमानोपमेयवाक्ययोर्ज्ञानमेक एव धर्म इति प्रतिवस्तूपमा युक्ता।
मैवम्‌, अचेतने मन्थाचले ज्ञानस्य बाधितत्वेन तत्र जानातीत्यनेन सागराघस्तलावधिसंस्पर्शमात्रस्य विवक्षितत्वात्‌।
अत्रोदाहरणे पदावृत्तिदीपकाद्विशेषः पूर्ववत्प्रस्तुताप्रस्तुतविषयकृतो द्रष्टव्यः।
वैधर्म्येणाप्ययं दृश्यते - कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नो द्विषः।
तमांसि तिष्ठन्ति हि तावदंशुमान्न यादवायात्युदयाद्रिमौलिताम्‌॥५२॥
१९ निदर्शनालङ्कारः वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना।
यद्दातुः सौम्यता सेयं पूर्णेन्दोरकलङ्कता॥५३॥
अत्र दातृपुरुषसौम्यत्वस्योपमेयवाक्यार्थस्य पुर्णेन्दोरकलङ्कत्वस्योपमानवाक्यार्थस्य यत्तद्द्भ्यामैक्यारोपः।
यथा वा- अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम्‌।
श्वपुच्छमवनामितं बधिरकर्णजापः कृतो धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः॥
अत्राबुधजनसेवया अरण्यरोदनादीनां च यत्तद्द्भ्यामैक्यारोपः॥५३॥
पदार्थवृत्तिमप्येके वदन्त्यां निदर्शनाम्‌।
तन्नेत्रयुगलं धत्ते नीलाम्बुजन्मनोः॥५४॥
अत्र नेत्रयुगले नीलाम्बुजगतलॉलापदार्थारोपो निदर्शना।
यथा वा – वियोगे गौडनारीनां यो गण्डतलपाण्डिमा अदृश्यत स खर्जूरीमञ्जरीगर्भरेणूषु॥
पूर्वस्त्मिन्नुदाहरने उपमेये उपमानधर्मारोपः, इह तूपमाने उपमेयधर्माओप इति भेदः।
उभयत्राप्यन्यधर्मस्यान्यत्रासंभवेन तत्सदृशधर्माक्षेपादौपम्ये पर्यवसानं तुल्यम्‌।
इयं पदार्थवृत्तिनिदर्शना ललितोपमेति जयदेवेन व्याहृता।
यद्यपि ‘वियोगे गौडनारीणाम्‌’ इति श्लोकः प्राचीनैर्वाक्यार्थवृत्तिनिदर्शनायामुदाहृतः, तथापि विशिष्तयोर्धर्मयोरैक्यारोपो वाक्यार्थवृत्तिनिदर्शना।
उपमानोपमेययोरन्यतरस्मिन्नन्यतरधर्मारोपः पदार्थवृत्तिनिदर्शनेतिव्यवस्थामाश्रित्यास्माभिरिहोदाहृतः।
एवं च - ‘त्वयि सति शिव! दातर्यस्मदभ्यर्थितामा- मितरमनुसरन्तो दर्शयन्तोऽर्थ्मुद्राम्‌।
चरमचरणपातैर्दुर्ग्रहः दोग्धुकामाः करभमनुसरामः कामधेनौ स्थितायाम्‌॥’ ‘दिर्भ्यामब्धिं तितीर्षन्तस्तुष्टुवुस्ते गुणार्णवम्‌॥’ इत्यादिषु वाक्यभेदाभावेऽपिवाक्यवृत्तिरेव निदर्शना, विशिष्ट्योरैक्यारोपसद्भावात्‌।
‘ वाक्यार्थयोःसदृशयोः’ इति लक्षणवाक्ये वाक्यार्थशब्देन बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टास्वरुपयोः प्रस्तुताप्रस्त्तुतधर्मयोर्विवक्षितत्वादिति।
एवं च - ‘राजसेवा मनुष्याणामसिधारावलेहनम्‌।
पञ्चाननपरिष्वङ्गो व्यालीवदनचुम्बनम्‌॥’ इत्यत्र प्रस्तुताप्रस्तुतवृत्तान्तयोरेकैकपदोपात्तत्वेऽपि वाक्यार्थवृत्तिनिदर्श्नाया न क्षतिः।
तयोर्बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टव्यवहाररुपत्वात्‌।
अत एव निदर्शनाया रुपकाद्भेदः।
रुपके ह्यविशिष्टयोर्रेव मुखचन्द्रादिकयोरैक्यारोपः।
‘अङ्घ्रिदण्डो हरेरुर्ध्वमुत्क्षिप्तो बलिनिग्रहे।
विधिविष्टरपद्मस्य नालदण्डो मुदेऽस्तु वः॥’ इति विशिष्टत्वरुपकोदाहरणेऽपि न बिम्बप्रतिबिम्बभावापनावस्तुविशिष्टरुपता; विधिविष्टारकमलदण्डविशिष्टात्वरुपसाधारणधर्मवत्तासंपादनार्थमेव तद्विशेषणोपादानात्‌।
‘यद्दातुः सौम्यता’ इत्यादिनिदर्शनोदाहरणेषु दातृपूर्णेन्द्वादीनामानन्दकरत्वादिनेवात्र विशेषणयोर्बिम्बभावात्‌।
यत्र तु विषयविषयिविशेषणानां परस्परसादृश्येन बिम्बप्रतिबिम्बभावोऽस्ति।
‘ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी- न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम्‌।
द्वीपाद्द्वीपं भ्रमति दधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन॥’ इति सवयवरुपकोदाहरणे।
तत्रापि विषयविषयिणोस्तद्विशेषणानां च प्रत्येकमेवैक्यारोपः, न तु ज्योत्स्नादिविशिषिष्टरात्रिरुपविषयस्य भस्मादिविशिष्टाकापालिकीरुपविषयिणश्च विशिष्टरुपेणैक्यारोप्पोऽस्तीति।
तस्मात्‌ ‘राजसेवा मनुष्याणाम्‌’ इत्यादावपि वाक्यार्थवृत्तिनिदर्शनैव युक्ता।
मतान्तरे त्विह पदार्थवृत्त्यैव निदर्शनया भाव्यमिति॥५४॥
अपरां बोधनं प्राहुः क्रिययाऽसत्सदर्थयोः।
नश्येद्राजविरोधीति क्षीणं चन्द्रोदये तमः॥५५॥
उदयन्नेव सविता दमेष्वर्पयति श्रियम्।
विभावयन् समृद्धीनां फलं सुहृदनुग्रहः॥५६॥
कस्यचित्किंचित्क्रियाविशिष्टस्य स्वक्रियया परान्प्रति असतः सतो वाऽर्थ्स्य बोधनं यन्निबध्यते तदपरां निदर्शनामाहुः।
असदर्थबोधने उत्तरार्धमुदाहरणम्‌।
तत्र नश्येदिति बोधयदिति वक्तव्ये बोधयदित्यस्य गम्यमनत्वादप्रयोगः तत्श्च राज्ञा चन्द्रेण सह विरुध स्वयं नाशक्रियाविशिष्टं तमः स्वकीयनाशक्रियया दृष्टान्तभूतया अन्योऽप्येवं राजविरुद्धश्चेन्नश्येदित्यनिष्टपर्यवसायिनमर्थं बोधयदेव नष्टमित्यर्थनिबन्धनादसदर्थनिदर्शना।
तथा उत्त्रश्लोके सविता स्वोदयसमय एव पद्मषु लक्ष्मीमादधानः स्वया पद्मलक्ष्म्याधानक्रियया परान्प्रति समृद्धीनां फलं सुहृदनुग्रह एवेति श्रेयस्करमर्थं बोधयन्निबद्ध इत सदर्थनिदर्शना।
यथा वा उन्नतं पदमवाओय यो लघुर्हेलयैव स पतेदिति व्रुवन्।
सहिलशेखरगतः पृषद्गणश्चारुमारुतधुतः पतत्यधः॥
अत्र गिरिशेखरगतः वृष्टिबिन्दुगणो मन्दमारुतमात्रेणापि कम्पितः पतन् लघोरुन्नतपदप्राप्तिः पतनहेतुरित्यसदर्थं बोधयन्निबद्ध इत्यसदर्थनिदर्शना।
चूडामणिपदे धत्ते यो देवं रविमागतम्।
सतां कार्याऽऽतिथेयीति बोधयन् गृहमेधिनः}} अत्र समागतं रविं शिरसा संभावयन्नुदयाअह्लः स्वनिष्ठ्या रविधारणक्रियया समागतानां सतामेवं गृहमेधिभिरातिथ्यं कार्यमिति सदर्तहं बोधयन्निबद्ध इति सदर्थनिदर्शना।
अत्र केचित् वाक्यार्थवृत्ति-पदार्थवृत्तिनिदर्शनाद्वयमसंभवद्वस्तुसंबन्धनिवन्धनमिति, तृतीया तु संभवद्वस्तुसंबन्धनिवन्धनेति अह व्यवहरन्ति।
तथा हि – आद्यनिदर्शनायां वाक्यार्थयोरैक्यमसंभवत्तयोः साम्ये पर्यवसस्यति।
तृतीयनिदर्शनायां तु स्वक्रियया परान्प्रति सदसदर्थबोधनं संभवदेव समतां गर्भीकरोति।
‘बोधयन् गृहमेधिनः’ इत्यादौ हि ‘कारीषोऽग्निः शीतापनयनेन बटूनध्ययनसमर्थान्करोति एवं वर्ण्यमानः पर्वतः स्वयमुपमानभावेन गृहमेधिन उक्तबोधनसमर्थान्कर्तुं क्षमते।
यथाऽयं पर्वतः समागतं रविं शिरसा संभावयति, एवं गृहमेधी समागतं सन्तमुचितपूजया संभावयेदिति।
अतः संभवति बोधनसंबन्ध इति॥५५-५६॥

सहोक्त्यलङ्कारः २१ सहोक्तिः सहभावश्चेद्भासते जनरञ्जनः । दिगन्तमगमत्तस्य कीर्तिः प्रत्यर्थिभिः सह ॥ ५८ ॥ यथा वा - छाया संश्रयते तलं विटपिनां श्रान्तेव पान्थैः समं मूलं याति सरोजलस्य जडता ग्लानेव मीनैः सह । आचामत्यहिमांशुदीधितिरपस्तप्तेव लोकैः समं निद्रा गर्भगृहं सह प्रविशति क्लान्तेव कान्ताजनैः ॥ जनरञ्जन इत्युक्तेरनेन सार्धं विहराम्बुराशेरित्यादौ न सहोक्तिरलङ्कारः ॥५७॥

२२ विनोक्त्यलङ्कारः विनोक्तिश्चेद्विना किंचित्प्रस्तुतं हीनमुच्यते । विद्या हृद्यापि सावद्या विना विनयसंपदम् ॥ ५९ ॥ यथा वा - यश्च रामं न पश्येत्तु यं च रामो न पश्यति । निन्दितः स भवेल्लोके स्वात्माऽप्येनं विगर्हते ॥

  अत्र च रामदर्शनेन विना हीनत्वं विनाशब्दमन्तरेणैव दर्शितम् ॥ ५९ ॥

तच्चेत् किञ्चिद्विना रम्यं विनोक्तिः साऽपि कथ्यते । विना खलैर्विभात्येषा राजेन्द्र! भवतः सभा ॥ ६० ॥ यथा वा - आविर्भूते शशिनि तमसा मुच्यमानेव रात्रि- र्नैशस्यार्चिर्हुतभुज इव च्छिन्नभूयिष्ठधूमा । मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्पा गङ्गा रोधःपतनकलुषा गृह्णतीव प्रसादम्॥ अत्र तमःप्रभृतीन्विना निशादीनां रम्यत्वं विनाशब्दमन्तरेण दर्शितम् ॥६०॥ २३ समासोक्त्यलङ्कारः समासोक्तिः परिस्कूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् । अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः ॥ ६१ ॥

  यत्र प्रस्तुतवृत्तान्ते वर्ण्यमाने विशेषणसाम्यबलादप्रस्तुतवृत्तान्तस्यापि परिस्फूर्तिस्तत्र समासोक्तिरलङ्कारः । समासेन संक्षेपेण प्रस्तुताप्रस्तुतवृत्तान्तयोर्वचनात् । उदाहरणमयमैन्द्रीति ॥ अत्रहि चन्द्रस्य प्राचीप्रारम्भलक्षणमुखसम्बन्धलक्षणे उदये वर्ण्यमाने मुखशब्दस्य प्रारम्भवदनसाधारण्याद्रक्तशब्दस्यारुणकामुकसाधारण्याच्चुम्बतीत्यस्य प्रस्तुतार्थसम्बन्धमात्रपरस्य शक्यार्थान्तरसाधारण्याच्च चन्द्रमःशब्दगतपुंलिङ्गेन ऐन्द्रीशब्दगतस्त्रीलिङ्गेन तत्प्रतिपाद्येन्द्रसम्बन्धित्वेन चोपस्कृतादप्रस्तुतपरवनितासक्तपुरुषवृत्तान्तः प्रतीयते । 

यथा वा - व्यावल्गत्कुचभारमाकुलकचं व्यालोलहारावलि प्रेङ्खत्कुण्डलशोभिगण्डयुगलं प्रस्वेदि वक्त्राम्बुजम् । शश्वद्दत्तकरप्रहारमधिकश्वासं रसादेतया यस्मात्कन्दुक! सादरं सुभगया संसेव्यसे तत्कृती ॥ अत्र कन्दुकवृत्तान्ते वर्ण्यमाने व्यावल्गत्कुचभारमित्यादिक्रियाविशेषणसाम्याद्विपरीतरतासक्तनायिकावृत्तान्तः प्रतीयते । पूर्वत्र विशेषणानि श्लिष्टानि इह साधारणानीति भेदः । सारूप्यादपि समासोक्तिर्दृश्यते । यथावा पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम् । बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥

  अत्र वनवर्णने प्रस्तुते तत्सारूप्यात्कुटुम्बिषु धनसन्तानादिसमृद्ध्यसमृद्धिविपर्यासं प्राप्तस्य तत्समाश्रयस्य ग्रामनगरादेर्वृत्तान्तः प्रतीयते । अत्र च प्रस्तुताप्रस्तुतसाधारणविशेषणबलात्सारूप्यबलाद्वाऽप्रस्तुतवृत्तान्तस्य प्रत्यायनं तत्प्रस्तुते विशेष्ये तत्समारोपार्थं सर्वथैव प्रस्तुतानन्वयिनः कविसंरम्भागोचरत्वायोगात् । ततश्च समासोक्तावप्रस्तुतव्यवहारसमारोपश्चारुताहेतुः । नतु रूपक इव प्रस्तुतेऽप्रस्तुतरूपसमारोपोऽस्ति । मुखं चन्द्र इव इत्यत्र मुखे चन्द्रत्वारोपहेतुचन्द्रपदसमभिव्याहारवद्रक्तश्चुम्बति चन्द्रमा इत्यादिसमासोक्त्युदाहरणे चन्द्रादौ जारत्वाद्यारोपहेतोस्तद्वाचकपदसमभिव्याहारस्याभावात् । 

‘निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः । धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्यार्ततरं ररासे ॥

  इत्येकदेशविवर्तिरूपकोदाहरण इव प्रस्तुतेऽप्रस्तुतरूपसमारोपगमकस्याप्यभावात् । तत्रहि विद्युन्नयनैरित्यत्र निरीक्षणानुगुण्यादुत्तरपदार्थप्रधानरूपमयूरव्यंसकादिसमासव्यवस्थितादुत्तरपदार्थभूतनयनान्वयानुरोधात् पयोदेऽनुक्तमपि द्रष्टृपुरुषत्वरूपणं गम्यमुपगम्यते । नचेह तथानिरीक्षणवत् ‘त्वय्यागते किमिति वेपत एष सिन्धु’रिति श्लोके सेतुकृत्त्वादिवच्चाप्रस्तुतासाधारणवृत्तान्त उपात्तोऽस्ति । नापि श्लिष्टसाधारणादिविशेषणसमर्पितयोः प्रस्तुताप्रस्तुतवृत्तान्तयोरप्रस्तुतवृत्तान्तस्य विद्युन्नयनवत्प्राधान्यमस्ति । येन तदनुरोधात्त्वं सेतुमन्थकृदित्यत्रेव प्रस्तुतेऽनुक्तमप्यप्रस्तुतरूपसमारोपमभ्युपगच्छेम । तस्माद्विशेषणसमर्पिताप्रस्तुतव्यवहारसमारोपमात्रमिह चारुताहेतुः । यद्यपि प्रस्तुताप्रस्तुतवृत्तान्तयोरिह श्लिष्टसाधारणविशेषणसमर्पितयोर्भिन्नपदोपात्तविशेषणयोरिव विशेष्येणैव साक्षादन्वयादस्ति समप्राधान्यम्, तथाप्यप्रस्तुतवृत्तान्तान्वयानुरोधान्न प्रस्तुतेऽप्रस्तुतरूपसमारोपोऽङ्गीकार्यः । तथाहि यथा प्रस्तुतविशेष्येऽप्रस्तुतवृत्तान्तस्यान्वययोग्यता तथैव वाऽप्रस्तुतेऽपि जारादौ नास्ति प्रस्तुतवृत्तान्तस्यान्वययोग्यता । एवंच समप्रधानयोः प्रस्तुताप्रस्तुतवृत्तान्तयोरन्यतरस्यावश्यमारोपेऽभ्युपगन्तव्ये श्रुत एव प्रस्तुतेऽप्रस्तुतस्यारोपश्चारुताहेतुरिति युक्तम् । नन्वेवं सति विशेषणसाम्यादप्रस्तुतस्य गम्यत्वं समासोक्तिः ।

‘विशेषणानां साम्येन यत्र प्रस्तुतवर्तिनाम् । अप्रस्तुतस्य गम्यत्वं सा समासोक्तिरिष्यते ॥'

  इत्यादीनि प्राचीनानां समासोक्तिलक्षणानि न सङ्गच्छेरन् । प्रस्तुते श्लिष्टसाधारणादिविशेषणसमर्पितानुरागपूर्वकवदनचुम्बनाद्यप्रस्तुतवृत्तान्तसमारोपमात्रस्य चारुताहेतुत्वाभ्युपगमेन विशेषणसाम्यकृतकामुकाद्यप्रस्तुतधर्मिव्यञ्जनानपेक्षणादिति चेदुच्यते । स्वरूपतोऽप्रस्तुतवृत्तान्तस्यारोपो न चारुताहेतुः । किंत्वप्रस्तुतकामुकादिसम्बन्धित्वेनावगम्यमानस्य तस्यारोपः । तथाभूतस्यैव रसानुगुणत्वात् । नच तावदवगमने विशेषणपदानां सामर्थ्यमस्ति । अतः श्लेषादिमहिम्ना विशेषणपदैः स्वरूपतः समर्पितेन वदनचुम्बनादिना तत्सम्बन्धिनि कामुकादावभिव्यक्ते पुनस्तदीयत्वानुसन्धानं तत्र भवति । यथा स्वरूपतो दृष्टेन राजाश्वादिना तत्सम्बन्धिनि राजादौ स्मारिते पुनरश्वादौ तदीयत्वानुसन्धानमिति विशेषणसाम्येन वाच्योपस्कारकस्याप्रस्तुतव्यञ्जनस्यास्त्यपेक्षा । अत एव श्लिष्टविशेषणायामिव साधारणविशेषणायामप्यप्रस्तुतव्यवहारसमारोप इत्येव प्राचीनानां प्रवादः । कन्दुके व्यावल्गत्कुचभारत्वादिविशिष्टवनितासेव्यत्वस्य कामुकसम्बन्धित्वेनैव समारोपणीयत्वात् । स्वरूपतः कन्दकेऽपि तस्य सत्त्वेनासमारोपणीयत्वात् । किंच सारूप्यनिबन्धनत्वेनोदाहृतायां समासोक्तावप्रस्तुतवृत्तान्तस्याशब्दार्थस्याप्रस्तुतवृत्तान्तरूपेणैव गम्यतया तेन रूपेण तत्र समारोपसिद्धेरन्यत्रापि तथैव युक्तमिति युक्तमेव प्राचीनानां लक्षणमिति विभावनीयम् ॥ ६१ ॥

२४ परिकरालङ्कारः अलङ्कारः परिकरः साभिप्राये विशेषणे । सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः ॥ ६२ ॥

  अत्र सुधांशुकलितोत्तंस इति विशेषणं तापहरणसामर्थ्याभिप्रायगर्भम् । यथा वा -

तव प्रसादात्कुसुमायुधोऽपि सहायमेवं मधुमेव लब्ध्वा । कुर्यां हरस्यापि पिनाकपाणेर्धैर्यच्युतिं के मम धन्विनोऽन्ये ॥

  अत्र पिनाकपाणेरिति हरविशेषणं कुसुमायुध इत्यर्थलभ्याहमर्थविशेषणं च सारासारायुधत्वाभिप्रायगर्भम् । यथा वा -

सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥

  अत्र शरीरविशेषणानि तस्य हेयत्वेनासंरक्षणीयत्वाभिप्रायगर्भाणि ।

व्यास्थं नैकतया स्थितं श्रुतिगणं जन्मी न वल्मीकतो नाभौ नाभवमच्युतस्य सुमहद्भाष्यं च नाभाषिषम् । चित्रार्थां न बृहत्कथामचकथं सुत्राम्णि नासं गुरु- र्देव त्वद्गुणवृन्दवर्णनमहं कर्तुं कथं शक्नुयाम् ॥

  अत्र श्रुतिगणं न व्यास्थमित्यादीनि विशेषणानि स्वस्मिन् व्यासाद्यसाधारणकार्यकर्तृत्वनिषेधमुखेन नाहं व्यास इत्याद्यभिप्रायगर्भाणि । तत्राद्ययोरुदाहरणयोरेकैकं विशेषणं, समनन्तरयोः प्रत्येकं बहूनि विशेषणानि । तत्रापि

प्रथमोदाहरणे सर्वाणि विशेषणान्येकाभिप्रायगर्भाणि पदार्थरूपाणि च, द्वितीयोदाहरणे भिन्नाभिप्रायगर्भाणि वाक्यार्थरूपाणि चेति भेदः । एतेषु व्यङ्ग्यार्थसद्भावेऽपि न ध्वनिव्यपदेशः । शिवस्य तापहरणे, मन्मथस्य कैमुतिकन्यायेन सर्वधन्विधैर्यभञ्जकत्वे, शरीरसंरक्षणार्थं पापमाचरतां मूढत्वे, स्वस्य वर्णनीयराजगुणकथनाशक्तत्वे च वाच्य एवोपस्कारकत्वात् । अत एव व्यङ्ग्यस्य वाच्यपरिकरत्वात्परिकर इति नामास्यालङ्कारस्य ।

  केचित्तु निष्प्रयोजनविशेषणोपादानेऽपुष्टार्थत्वदोषस्योक्तत्वात्सप्रयोजनत्वं विशेषणस्य दोषाभावमात्रं न कश्चिदलङ्कारः । एकनिष्ठतादृशानेकविशेषणोपन्यासे परं वैचि-

त्र्यविशेषात्परिकर इत्यलङ्कारमध्ये परिगणित इत्याहुः । वस्तुतस्त्वनेकविशेषणोपन्यास एव परिकर इति न नियमः । श्लेषयमकादिष्वपुष्टार्थदोषाभावेन तत्रैकस्यापि विशेषणस्य साभिप्रायस्य विन्यासे विच्छित्तिविशेषसद्भावात्परिकरोपपत्तेः । यथा- अतियजेत निजां यदि देवतामुभयतश्च्यवते जुषतेऽप्यघम् । क्षितिभृतैव सदैवतका वयं वनवताऽनवता किमहिद्रुहा ॥

  अत्र हि पुरुहूतपूजोद्युक्तान्नन्दादीन् प्रति भगवतः कृष्णस्य वाक्ये गोवर्धनगिरिरेव चास्माकं रक्षकत्वेन दैवतमिति स एव पूजनीयो न त्वरक्षकः पुरुहूत इत्येवम्परं वनवतेति गोवर्धनगिरेर्विशेषणं काननवत्त्वान्निर्ज्ञरादिमत्त्वाच्च पुष्पमूलफलतृणादिभिरारण्यकानामस्माकमस्मद्धनानां गवां चायमेव रक्षक इत्यभिप्रायगर्भम् । एवमत्र साभिप्रायैकविशेषणविन्यासस्यापि विच्छित्तिविशेषवशादस्य साभिप्रायस्यालङ्कारत्वसिद्धावन्यत्रापि सुधांशुकलितोत्तंस इत्यादौ तस्यात्मलाभो न निवार्यते । अपिच एकपदार्थहेतुकं काव्यलिङ्गमलङ्कार इति सर्वसंमतम् । तद्वदेकस्यापि विशेषणस्य साभिप्रायस्यालङ्कारत्वं युक्तमेव ॥ ६२ ॥

परिकराङ्कुरालङ्कारः २५ साभिप्राये विशेष्ये तु भवेत्परिकराङ्कुरः । चतुर्णां पुरुषार्थानां दाता देवश्चतुर्भुजः ॥ ६३ ॥

  अत्र चतुर्भुज इति विशेष्यं पुरुषार्थचतुष्टयदानसामर्थ्याभिप्रायगर्भम् । यथा वा -

फणीन्द्रस्ते गुणान्वक्तुं लिखितुं हैहयाधिपः । द्रष्टुमाखण्डलः शक्तः क्वाहमेष क्व ते गुणाः ॥

  फणीन्द्र इत्यादिविशेष्यपदानि सहस्रवदनाद्यभिप्रायगर्भाणि ॥ ६३ ॥ 

श्लेषालङ्कारः २६ नानार्थसंश्रयः श्लेषो वर्ण्यावर्ण्योभयाश्रितः । सर्वदो माधवः पायात्स योऽगं गामदीधरत् ॥ ६४ ॥ अब्देन त्वन्मुखं तुल्यं हरिणाहितसक्तिना । उच्चरद्भूरिकीलालः शुशुभे वाहिनीपतिः ॥ ६५ ॥

  अनेकार्थशब्दविन्यासः श्लेषः । स च त्रिविधः । प्रकृतानेकविषयः अप्रकृतानेकविषयः प्रकृताप्रकृतानेकविषयश्च । सर्वदेत्यादिक्रमेणोदाहरणानि । तत्र सर्वदो माधव इति स्तोतव्यत्वेन प्रकृतयोर्हरिहरयोः कीर्तनं प्रकृतश्लेषः । अब्जं कमलमब्जश्चन्द्रस्तयोरुपमानमात्रत्वेनाप्रकृतयोः कीर्तनमित्यप्रकृतश्लेषः। वाहिनीपतिः सेनापतिः समुद्रश्च । तत्र समितौ शस्त्रप्रहारोत्पतद्रुधिरस्य सेनापतेरेव वर्णनं प्रकृतमिति प्रकृताप्रकृतः श्लेषः । यथा वा -

त्रातः काकोदरो येन द्रोग्धापि करुणात्मना । पूतनामारणख्यातः स मेऽस्तु शरणं प्रभुः ॥ नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः । सदृशे वनवृद्धानां कमलानां त्वदीक्षणे ॥ असावुदयमारूढः कान्तिमान् रक्तमण्डलः । राजा हरति लोकस्य हृदयं मृदुलैः करैः ॥ इति ।

  तत्राद्ये स्तोतव्यत्वेन प्रकृतयो रामकृष्णयोः श्लेषः । द्वितीये उपमानत्वेनाप्रकृतयोः पद्महरिणयोः श्लेषः । तृतीये राजा हरति लोकस्येति चन्द्रवर्णनप्रस्तावे प्रकृतस्य प्रत्यग्रोदितचन्द्रस्याप्रकृतस्य नवाभिषिक्तस्य नृपतेः श्लेषः । यदत्र प्रकृताप्रकृतश्लेषोदाहरणे शब्दशक्तिमूलध्वनिमिच्छन्ति प्राञ्चः तत्प्रकृताप्रकृताभिधानमूलकस्योपमादेरलङ्कारस्य व्यङ्य्शत्वाभिप्रायं नत्वप्रकृतार्थस्यैव व्यङ्य्ात्वाभिप्रायम् । अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यस्याभिधेयत्वावश्यम्भावेन व्यक्त्यनपेक्षणात् । यद्यपि प्रकृतार्थे प्रकरणबलाज्झटिति बुद्धिस्थे सत्येव पश्चान्नृपतितद्ग्राह्यधनादिवाचिनां राजकरादिपदानामन्योन्यसन्निधानबलात्तत्तद्विषयशक्त्यन्तरोन्मेषपूर्वकमप्रस्तुतार्थः स्फुरेत् । नचैतावता तस्य व्यङ्ग्यत्वम् । शक्त्या प्रतिपाद्यमाने सर्वथैव व्यक्त्यनपेक्षणात्पर्यवसिते प्रकृतार्थाभिधाने पश्चात्स्फुरति चेत् कामं गूढश्लेषो भवतु । अस्ति चान्यत्रापि गूढः श्लेषः । 

अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः । सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥ मन्दमग्निमधुरर्यमोपदा दर्शितश्वयथु चाभवत्तमः। दृष्टयस्तिमिरजं सिषेविरे दोषमोषधिपतेरसन्निधौ॥

  अत्र हि समासोक्त्युदाहरणयोः प्राकरणिकेऽर्थे प्रकरणवशाज्झटिति बुद्धिस्थे विशेषणसाम्यादप्रकृतोऽपि वृद्धवेश्यावृत्तान्तादिः प्रतीयते । तत्र समासोक्तिरभङ्गश्लेष इति सर्वेषामभिमतमेव। एवमन्यत्रापि गूढश्लेषे ध्वनिबुद्धिर्न कार्या । यथा वा -

रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः । यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥

  अत्र द्वितीयन्तविशेषणसमर्पितार्थान्तराणां न शब्दसामर्थ्येन वधूभिरन्वयः । विभक्तिभेदात् । न च विभक्तिभेदेऽपि तदन्वयाक्षेपकं साधर्म्यमिह निबद्धमस्ति । यतः 

‘एतस्मिन्नधिकपयश्श्रियं वहन्त्यः सङ्क्षोभं पवनभुवा जवेन नीताः । वाल्मीकेररहितरामलक्ष्मणानां साधर्म्यं दधति गिरां महासरस्यः ॥'

  इत्यत्रेवाक्षिप्तश्लेषो भवेत् । सममित्येतत्तु क्रियाविशेषणं सहार्थत्वेनाप्युपपन्नम् । वधूषु श्लिष्टविशेषणार्थान्वयात्प्राक् द्रागप्रतीतं साम्यं नालम्बते । तस्मादर्थसौन्दर्यबलादेव तदन्वयानुसन्धानमिति गूडश्लेषः । तदनु तद्बलादेव समशब्दस्य साधर्म्यार्थकल्पनमिति वाच्यस्यैवोपमालङ्कारस्याङ्गमयं श्लेष इत्यलं प्रपञ्चेन । तस्मात्सिद्धं श्लेषत्रैविध्यम् । 

एवंच श्लेषः प्रकारान्तरेणापि द्विविधः सम्पन्नः । उदाहरणेषु अब्जकीलालवाहिनीपत्यादिशब्देषु परस्परविलक्षणं क्रोडीकारादभङ्गः । ‘सर्वदो माधवः’ ‘यो गङ्गां’ ‘हरिणाहितसक्तिनी’त्यादिशब्देषु परस्परविलक्षणं पदभङ्गमपेक्ष्य नानार्थक्रोडीकारात्सभङ्गश्लेष इति । तत्र सभङ्गश्लेषश्शब्दालङ्कारः । अभङ्गश्लेषस्त्वर्थालङ्कार इति केचित् । उभयमपि शब्दालङ्कार इत्यन्ये । उभयमप्यर्थालङ्कार इति स्वाभिप्रायः । एतद्विवेचनं तु चित्रमीमांसायां द्रष्टव्यम् ॥ ६४ ॥ ६५ ॥ अप्रस्तुतप्रशंसालङ्कारः २७ अप्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुताश्रया । एकः कृती शकुन्तेषु योऽन्यं शक्रान्न याचते ॥ ६६ ॥

  यत्राप्रस्तुतवृत्तान्तवर्णनं प्रस्तुतवृत्तान्तावगतिपर्यवसायि तत्राप्रस्तुतप्रशंसालङ्कारः । अप्रस्तुतवृत्तान्तवर्णनेन प्रस्तुतावगतिश्च प्रस्तुताप्रस्तुतयोः सम्बन्धे सति भवति । सम्बन्धश्च सारूप्यं सामान्यविशेषभावः कार्यकारणभावो वा सम्भवति । तत्र सामान्यविशेषभावे सामान्याद्विशेषस्य विशेषाद्वा सामान्यस्यावगतौ द्वैविध्यम् । कार्यकारणभावेऽपि कार्यात्कारणस्य कारणाद्वा कार्यस्यावगतौ द्वैविध्यम् । सारूप्यात्तु एको भेद इत्यस्याः पञ्च प्रकाराः । यदाहुः -

'कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति । तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ॥' इति । तत्र सारूप्यनिबन्धनाप्रस्तुतप्रशंसोदाहरणम् एकः कृतीति । अत्राप्रस्तुतचातकस्य प्रशंसा प्रशंसनीयत्वेन प्रस्तुते तत्सरूपे क्षुद्रेभ्यो याचनान्निवृत्ते मानिनि पर्यवस्यति । यथा वा - आबद्धकृत्रिमसटाजटिलांसभित्तिरारोपितो मृगपतेः पदवीं यदि श्वा । मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य ॥

  अत्र शुनकस्य निन्द। निन्दनीयत्वेन प्रस्तुते तत्सरूपे कृत्रिमवेषव्यवहारादिमात्रेण विद्वत्ताभिनयवति वैधेये पर्यवस्यति । यथा वा -

अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः । कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः ॥

  अत्र कमलनालवृत्तान्तकीर्तनं तत्सरूपे बहिः खलेषु जाग्रत्सु भ्रातृपुत्रादिभिरन्तः कलहं कुर्वाणे पुरुषे पर्यवस्यति । एवंच लक्ष्यलक्षणयोः प्रशंसाशब्दः स्तुतिनिन्दास्वरूपाख्यानसाधारणकीर्तनमात्रपरो द्रष्टव्यः । सामान्यनिबन्धना यथा -

विधाय वैरं सामर्षे नरोऽरौ य उदासते । प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽभिमारुतम् ॥

  अत्र प्रागेव सामर्षे शिशुपाले रुक्मिणीहरणाद्वैरं दृढीकृतवता कृष्णेन तस्मिन्नुदासितुमयुक्तमिति वक्तव्येऽर्थे प्रस्तुते तत्प्रत्यायनार्थं सामान्यमभिहितम् । यथा वा -

सौहार्दस्वर्णरेखाणामुच्चावचभिदाजुषाम् । परोक्षमिति कोऽप्यस्ति परीक्षानिकषोपलः ॥

  अत्र यदि त्वं प्रत्यक्षमिव परोक्षेऽपि मम हितमाचरसि तदा त्वमुत्तमः सुहृदिति विशेषे वक्तव्यत्वेन प्रस्तुते सामान्यमभिहितम् ॥ विशेषनिबन्धना यथा -

अङ्कोधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः । केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः ॥

  अत्र कृष्णं प्रति बलभद्रवाक्ये मार्दवदूषणपरे पूर्वप्रस्तावानुसारेण क्रूर एव ख्यातिभाग्भवति नतु मृदुरिति सामान्ये वक्तव्ये तत्प्रत्यायनार्थमप्रस्तुतो विशेषोऽभिहितः । एवं बृहत्कथादिषु सामान्यतः कञ्चिदर्थं प्रस्तुत्य तद्विवरणार्थमप्रस्तुतकथाविशेषोदाहरणेष्वियमेवाप्रस्तुतप्रशंसा द्रष्टव्या ॥ कारणनिबन्धना यथा -

हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा । कृतमध्यबिलं विलोक्यते धृतगम्भीरखनीखनीलिम ॥

  अत्राप्राकरणिकेन्दुमण्डलगततयोत्प्रेक्ष्यमाणेन दमयन्तीवदननिर्माणार्थं सारांशहरणेन तत्कार्यरूपं वर्णनीयतया प्रस्तुतं दमयन्तीवदनगतलोकोत्तरं सौन्दर्यं प्रतीयते । यथा वा मदीये वरदराजस्तवे-

आश्रित्य नूनममृतद्युतयः पदं ते देहक्षयोपनतदिव्यपदाभिमुख्याः । लावण्यपुण्यनिचयं सुहृदि त्वदास्ये विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः ॥

  अत्राप्राकरणिकचन्द्रकर्तृकतयोत्प्रेक्ष्यमाणेन लावण्यपुण्यनिचयविन्यासेन कारणेन यत्कार्यमनन्तकोटिचन्द्रलावण्यशालित्वमनन्यमुखसाधारणं भगवन्मुखे वर्णनीयतया प्रस्तुतं प्रतीयते । तथाहि चन्द्रास्तावन्मन्त्रलिङ्गाद्वृद्धिक्षयाभ्यामभेदेऽपि भेदाध्यवसायाद्वा प्रतिमासं भिन्नत्वेन वर्णिताः । तेनातीताश्चन्द्रा अनन्तकोटय इति लब्धम् । कालस्यानादित्वात्सर्वेषां च तेषामाकाशसमाश्रयणं श्लेषमहिम्ना भगवच्चरणसमाश्रयत्वेनाध्यवसितम् । भगवच्चरणं प्रपन्नानां च देहक्षयोपस्थितौ परमपदप्रास्याभिमुख्यं तदानीमेव स्वसुहृद्वर्गे स्वकीयसुकृतस्तोमनिवेशनं ततः सूर्यमण्डलप्राप्तिश्चेत्येतत्सर्वं श्रुतिसिद्धमिति तदनुरोधेन तेषां देहक्षयकालस्यामावास्यारूपस्योपस्थितौ सूर्यमण्डलप्राप्तेः प्राक्प्रत्यक्षसिद्धं पुण्यत्वेन निरूपितस्य लावण्यस्य प्रहाणं निमित्तीकृत्य तस्य चन्द्रसादृश्यस्वरूपोपचरिततत्सौहार्दवति भगवन्मुखे न्यसनमुत्प्रेक्षितम्। यद्यपि सुहृद्वहुत्वे तावदल्पपुण्यसंक्रमो भवति तथापि अत्र सुहृदित्येकवचनेन भगवन्मुखमेव चन्द्रस्य सुहृद्भूतं न मुखान्तराणि चन्द्रसादृश्यगन्धस्यास्पदानीति भगवन्मुखस्येतरमुखेभ्यो व्यतिरेकोऽपि व्यञ्जितः । ततश्च तस्मिन्नेव सर्वेषां स्वस्वयावल्लावण्यविन्यसनोत्प्रेक्षणेन प्राग्वर्णितः प्रस्तुतोऽर्थः स्पष्टमेव प्रतीयते। यद्यपि श्रुतौ सूर्यमण्डलप्राप्त्यनन्तरभाविविरजानदीक्रमणानन्तरमेव सुहृत्सुकृतसंक्रमणं श्रूयते । तथापि शारीरकशास्त्रे तस्यार्थवशात्प्राग्भावः स्थापित इति तदनुसारेण विन्यस्य मिहिरं प्रति यान्तीत्युक्तम् । कार्यनिबघना यथा -

नाथ त्वदङ्घ्रिनखधावनतोयलग्ना- स्तत्कान्तिलेशकणिका जलधिं प्रविष्टाः । ता एव तस्य मथनेन घनीभवन्त्यो नूनं समुद्रनवनीतपदं प्रपन्नाः ॥

  अत्र भगवत्पादाम्बुजक्षालनरूपायां दिव्यसरित्यलक्तकरसादिवल्लग्नानां तया सह समुद्रं प्रविष्टानां तन्नखकान्तिलेशकणिकानां परिणामतया सम्भाव्यमाने समुद्रनवनीतपदवाच्येन चन्द्रेण कार्येण तन्नखकान्त्युत्कर्षः प्रतीयते । यथा वा -

अस्याश्चेद्गतिसौकुमार्यमधुना हंसस्य गर्वैरलं संलापो यदि धार्यतां परभृतैर्वाचंयमत्वव्रतम् । अङ्गानामकठोरता यदि दृषत्प्रायैव सा मालती । कान्तिश्चेत्कमला किमत्र बहुना काषायमालम्बताम् ॥

  अत्र नायिकागत्यादिषु वर्णनीयत्वेन प्रस्तुतेषु हंसादिगतगर्वशान्त्यादिरूपाण्यौचित्येन सम्भाव्यमानानि कार्याण्यभिहितनि । एतानि च पूर्वोदाहरण इव न वस्तुकार्याणि किन्तु तन्निरीक्षणकार्याणि ।

'लज्जा तिरश्चां यदि चेतसि स्यादसंशयं पर्वतराजपुत्र्याः । तं केशपाशं प्रसमीक्ष्य कुर्युर्बालप्रियत्वं शिथिलं चमर्यः ॥ '

  इत्युदाहरणान्तरे तथैव स्पष्टम् । अङ्गानामकठोरतेति तृतीयपादे तु वर्णनीयाङ्गसौकुमार्यातिशयनिरीक्षणकार्यत्वमपि नार्थाक्षेप्यमालतीकठोरत्वे विवक्षितं प्रतियोगिविशेषापेक्षकठोरत्वस्य तदकार्यत्वात्किन्तु तद्बुद्धेरेव । इदमपि त्वदङ्गमार्दवे दृष्ट इत्याद्युदाहरणान्तरे तथैव स्पष्टम् । अर्थस्य कार्यत्व इव बुद्धेः कार्यत्वेऽपि कार्यनिबन्धनत्वं न हीयत इति । एतादृशान्यपि कार्यनिबन्धनाप्रस्तुतप्रशंसायामुदाहृतानि प्राचीनैः । वस्तुतस्तु तदतिरेकेऽपि न दोषः । नह्यप्रस्तुतप्रशंसायां प्रस्तुताप्रस्तुतयोः पञ्चविध एव सम्बन्ध हति नियन्तुं शक्यते । सम्बन्धान्तरेष्वपि दर्शनात् । यथा-

तापत्रयौषधवरस्य तव स्मितस्य निःश्वासमन्दमरुता निबुसीकृतस्य । एते कडङ्गरचया इव विप्रकीर्णा जैवातृकस्य किरणा जगति भ्रमन्ति ॥

  अत्र ह्यप्रस्तुतानां चन्द्रकिरणानां भगवन्मन्दस्मितरूपदिव्यौषधधान्यविशेषकडङ्गरचयस्योत्प्रेक्षणेन भगवन्मन्दस्मितस्य तत्सारतारूपः कोऽप्युत्कर्षः प्रतीयते । नच धान्यकडङ्गरचययोः कार्यकारणभावादिसम्बन्धोऽस्ति । अतः सहोत्पत्त्यादिकमपि सम्बन्धान्तरमाश्रयणीयमेव । एवमुपमानोपमेयावाश्रित्य तत्र कविकल्पितकार्यकारणभावनिबन्धने अप्रस्तुतप्रशंसे दर्शिते। 
  ततोऽन्यत्रापि दृश्यते । यथा -

कालिन्दि!, ब्रूहि कुम्भोद्भव!, जलधिरहं नाम गृह्णासि कस्मा-' च्छत्रोर्मे, नर्मदाहं त्वमपि वदसि मे नाम कस्मात्सपत्न्याः । मालिन्यं तर्हि कस्मादनुभवसि? मिलत्कज्जलैर्मालवीनां नेत्राम्भोभिः, किमासां समजनि? कुपितः कुन्तलक्षोणिपालः ॥

  अत्र किमासां समजनीति मालवीनां तथा रोदनस्य निमित्ते पृष्टे तत्प्रियमरणरूपनिमित्तमनाख्याय कुपितः कुन्तलक्षोणिपाल इति तत्कारणमभिहितमिति कारणनिबन्धना । मालवान्प्रति प्रस्थितेन कुन्तलेश्वरेण किं ते नाशिता इति पृष्टे तद्वधानन्तरभावि जलधिनर्मदाप्रश्नोत्तररूपं कार्यमभिहितमित्यत्रैव कार्यनिबन्धनापि । पूर्वस्यां प्रश्नः शाब्दोऽस्यामार्थ इति भेदः ६६

प्रस्तुताङ्कुरालङ्कारः २८ प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुताङ्कुरः । किं भृङ्ग सत्यां मालत्यां केतक्या कण्टकेद्धया ॥ ६७ ॥

  यत्र प्रस्तुते वर्ण्यमानेनाभिमतमन्यत्प्रस्तुतं द्योत्यते तत्र प्रस्तुताङ्कुरालङ्कारः । उत्तरार्धमुदाहरणम् । इह प्रियतमेन साकमुद्याने विहरन्ती काचिद्भृङ्गं प्रत्येवाहेति वाच्यार्थस्य प्रस्तुतत्वम् । नचानामन्त्रणीयामन्त्रणेन वाच्यासम्भवादप्रस्तुतमेव वाच्यमिह स्वरूपप्रस्तुतावगतये निर्दिष्टमिति वाच्यम् । मौग्ध्यादिना भृङ्गादावप्यामन्त्रणस्य लोके दर्शनात् । यथा -

कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते । वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरिणी मार्गस्थितस्यापि मे ॥

  इत्यत्र चेतनाचेतनप्रश्नोत्तरवत् तिर्यगामन्त्रणस्यात्यन्तमसम्भावितत्वाभावात् । एवं प्रस्तुतेन वाच्यार्थेन भृङ्गोपालम्भरूपेण वक्त्र्याः कुलवध्वाः सौन्दर्याभिमानशालिन्याः क्रूरजनपरिवृत्तिदुष्प्रधर्षायां परवनितायां विटसर्वस्वापहरणसंकल्पदुरासदायां वेश्यायां वा कण्टकसंकुलकेतकीकल्पायां प्रवर्तमानं प्रियतमं प्रत्युपालम्भो द्योत्यते । यथा वा -

अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु । बालामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं नवमल्लिकायाः ॥

  अत्राप्युद्यानमध्ये चरन्तं भृङ्गं प्रत्युपालम्भ इति वाच्यार्थस्यापि प्रस्तुतत्वम् । इदंच प्रौढाङ्गनासु सतीषु बालिकां रतये क्लेशयति कामिनि शण्वति कस्याश्चिद्विदग्धाया वचनमिति तं प्रत्युपालम्भो द्योत्यते । यथा वा -

कोशद्वन्द्वमियं दधाति नलिनी कादम्बचञ्चुक्षतं धत्ते चूतलता नवं किसलयं पुंस्कोकिलास्वादितम् । इत्याकर्ण्य मिथः सखीजनवचः सा दीर्घिकायास्तटे चैलान्तेन तिरोदधे स्तनतटं बिम्बाधरं पाणिना ॥

  अत्रेयमिति नलिनीव्यक्तिविशेषनिर्देशेन दीर्घिकायास्तट इत्यनेन च वाच्यार्थस्य प्रस्तुतत्वं स्पष्टम् । प्रस्तुतान्तरद्योतनं चोत्तरार्धे स्वयमेव कविनाविष्कृतम् । अत्राद्योदाहरणयोरन्यापदेशध्वनिमाह लोचनकारः - अप्रस्तुतप्रशंसायां वाच्यार्थोऽप्रस्तुतत्वादवर्णनीय इति । तत्रामिधायामपर्यवसितायां तेन प्रस्तुतार्थव्यक्तिरलङ्कारः । इह तु वाच्यस्य प्रस्तुतत्वेन तत्राभिधायां पर्यवसितायामर्थसौन्दर्यबलेनाभिमतार्थव्यक्तिर्ध्वनिरेवेति । 
  वस्तुतस्त्वयमप्यलङ्कार एव ध्वनिरिति व्यवस्थापितं चित्रमीमांसायाम् । तृतीयो-

दाहरणस्य त्वलङ्कारत्वे कस्यापि न विवादः । उक्तं हि ध्वनिकृता- ‘शब्दार्थशक्त्याऽऽक्षिप्तोऽपि व्यक्तोऽर्थः कविना पुनः । यत्राविष्क्रियते स्वोक्त्या सान्यैवालंकृतिर्ध्वनेः ॥' इति ।

  एतान्यपि सारूप्यनिबन्धनान्युदाहरणानि सम्बन्धान्तरनिबन्धनान्यपि

कथंचिद्वाच्यव्यङ्ग्ययोः प्रस्तुतत्वलम्भनेनोदाहरणीयानि । दिङ्मात्रमुदाह्रियते- रात्रिः शिवा काचन सन्निधत्ते विलोचने जाग्रतमप्रमत्ते । समानधर्मा युवयोः सकाशे सखा भविष्यत्यचिरेण कश्चित् ॥

  अत्र शिवसारूप्यमिव तदेकदेशतया तद्वाच्यं ललाटलोचनमपि शिवरात्रिमाहात्म्यप्रयुक्तत्वेन वर्णनीयमिति तन्मुखेन कृत्स्नं शिवसारूप्यं गम्यम् । यथा वा -

वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर- त्विषां वृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम् । तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी- परीवादस्रोतःसरणिरिव सीमन्त्रसरणिः ॥

  अत्र वर्णनीयत्वेन प्रस्तुतायाः सीमन्तसरणेर्वदनसौन्दर्यपरीवाहत्वोत्प्रेक्षणेन परिपूर्णतटाकवत्परीवाहकारणीभूता स्वस्थाने अमान्ती वदनसौन्दर्यसमृद्धिः प्रतीयते । सापि वर्णनीयत्वेन प्रस्तुतैव ॥ यथा वा -

अङ्गासङ्गिमृणालकाण्डमयते भृङ्गावलीनां रुचं नासामौक्तिकमिन्द्रनीलसरणिं श्वासानिलाद्गाहते । दत्तेयं हिमवालुकापि कुचयोर्धत्ते क्षणं दीपतां तप्तायःपतिताम्बुवत्करतले धाराम्बु संलीयते ॥ ८

  अत्र नायिकाया विरहासहत्वातिशयप्रकटनाय संतापवत्कार्याणि मृणालमालिन्यादीन्यपि वर्णनीयत्वेन विवक्षितानीति तन्मुखेन संतापोऽवगम्यः । यत्र कार्यमुखेन कारणस्यावगतिरपि श्लोके निबद्धा न तत्रायमलङ्कारः किंत्वनुमानमेव । यथा-

परिम्लानं पीनस्तनजघनसङ्गादुभयत- स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् । इदं व्यस्तन्यासं प्रशिथिलभुजाक्षेपवलनैः कृशाङ्ग्याः संतापं वदति नलिनीपत्रशयनम् ॥ ६७ ॥ पर्यायोक्तालङ्कारः २९ पर्यायोक्तं तु गम्यस्य वचो भङ्ग्यन्तराश्रयम् । नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ ॥ ६८ ॥

  यदेव गम्यं विवक्षितं तस्यैव, भङ्ग्यन्तरेण विवक्षितरूपादपि चारुतरेण केनचिद्रूपान्तरेणाभिधानं पर्यायोक्तम् । उत्तरार्धमुदाहरणम् । अत्र भगवान्वासुदेवः स्वासाधारणरूपेण गम्यः राहुवधूकुचवैयर्थ्यकारकत्वेन रूपान्तरेण स एवाभिहितः ।

लोकं पश्यति यस्याङ्घ्रिः स यस्याङ्घ्रिं न पश्यति । ताभ्यामप्यपरिच्छेद्या विद्या विश्वगुरोस्तव ॥ अत्र गौतमः पतञ्जलिश्च स्वासाधारणरूपाभ्यां गम्यौ रूपान्तराभ्यामभिहितौ । यथा वा - निवेद्यतां हन्त समापयन्तौ शिरीषकोशम्रदिमाभिमानम् । पादौ कियद्दूरमिमौ प्रयासे निधित्सते तुच्छदयं मनस्ते ॥

  अत्र कियद्दूरं जिगमिषेति गम्य एवार्थो रूपान्तरेणाभिहितः । यथा वा -

देवं वन्दे जलधिशरधिं देवतासार्वभौमं व्यासप्रष्ठा भुवनविदिता यस्य वाहाधिवाहाः । भूषापेटी भुवनमधरं पुष्करं पुष्पवाटी शाटीपालाः शतमखमुखाश्चन्दनद्रुर्मनोभूः ॥

  अत्र यस्य वेदा वाहा भुजङ्गमा भूषणानीत्यादि तद्वाक्यार्थव्यवस्थितौ वेदत्वाद्याकारेणावगम्या एव वेदादयो व्यासप्रमुखविनेयत्वाद्याकारेणाभिहिताः परंतु देवतासार्वभौमत्वस्फुटीकरणाय विशेषणविशेष्यभावव्यत्यासेन प्रतिपादिताः । अत्रालङ्कारसर्वस्वकृतापि पर्यायोक्तस्य सम्प्रदायागतमिदमेव लक्षणमङ्गीकृतं गम्यस्यापि भक्त्यन्तरेणाभिधानं पर्यायोक्तमिति ।

'चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य । आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम् ॥

  इति प्राचीनं तदुदाहरणं त्वन्यथा योजितं - राहुवधूगतेन विशिष्टेन रतोत्सवेन राहुशिरश्छेदः कारणरूपो गम्यत इति । एवंच गम्यस्यैवाभिधानमिति लक्षणस्यानुपपत्तिमाशङ्क्याह यद्गम्यं तस्यैवाभिधानं लक्षणे विवक्षितमिति । लक्षणं क्लिष्टगत्या योजितं लोचनकृता 'पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते' इति । इदमेव लक्षणमङ्गीकृत्य तदुदाहरणे च कार्येण शब्दाभिहितेन कारणं व्यङ्ग्यं प्रदर्श्य तत्र लक्षणं लक्ष्यं नाम च क्लिष्टगत्या योजितम् । वाच्यादन्येन प्रकारेण व्यक्तेनोपलक्षितं सद्यदभिधीयते तत्पर्यायेण प्रकारान्तरेण व्यक्त्येनोपलक्षितमुक्तमिति सर्वोऽयं क्लेशः किमर्थं इति न विद्मः । प्रदर्शितानि हि गम्यस्यैव रूपान्तरेणाभिधाने बहून्युदाहरणानि । चक्राभिघातप्रसभाज्ञयैवेति प्राचीनोदाहरणमपि स्वरूपेण गम्यं भगवतो रूपान्तरेणाभिधानसत्त्वात्सुयोजमेव । यत्तु तत्र राहुशिरश्छेदावगमनं तत्र प्रागुक्तरीत्या प्रस्तुताङ्कुर एव । प्रस्तुतेन च राहोः शिरोमात्रावशेषेणालिङ्गनवन्ध्यत्वाद्यापादनरूपे वाच्ये भगवतो रूपान्तरे उपपादिते तेन भगवतः स्वरूपेणावगमनं पर्यायोक्तस्य विषयः ॥ ६८ ॥

पर्यायोक्तं तदप्याहुर्यद्व्याजेनेष्टसाधनम् । यामि चूतलतां द्रष्टुं युवाभ्यामास्यतामिह ॥ ६९ ॥

  अत्र नायिकां नायकेन सङ्गमय्य चूतलतादर्शनव्याजेन निर्गच्छन्त्या सख्या

तत्स्वाच्छन्द्यसंपादनरूपेष्टसाधनं पर्यायोक्तम् । यथा वा - देहि मत्कन्दुकं राधे परिधाननिगूहितम् । इति विस्त्रंसयन्नीवीं तस्याः कृष्णो मुदेऽस्तु नः ॥

  पूर्वत्र परेष्टसाधनमत्र कन्दुकशोधनार्थं नीवीविस्रंसनव्याजेन स्वेष्टसाधनमिति भेदः ॥ ६९ ॥

व्याजस्तुत्यलङ्कारः ३० उक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयोः । कः स्वर्धुनि! विवेकस्ते पापिनो नयसे दिवम् ॥ ७० ॥ साधु दूति! पुनः साधु कर्तव्यं किमतः परम् । यन्मदर्थे विलूनाऽसि दन्तैरपि नखैरपि' ॥ ७१ ॥

  निन्दया स्तुतेः स्तुत्या निन्दाया वा अवगमनं व्याजस्तुतिः । कः स्वर्धुनीत्युदाहरणे विवेको नास्तीति निन्दाव्याजेन गङ्गा सुकृतिवदेव महापातकादिकृतवतोऽपि स्वर्गं नयतीति व्याजरूपया निन्दया तत्प्रभावातिशयस्तुतिः । 
  साधु दूतीत्युदाहरणे मदर्थे महान्तं क्लेशमनुभूतवत्यसीति व्याजरूपया स्तुत्या, मदर्थं न गतासि किन्तु रन्तुमेव गतासि धिक्त्वां दूतिकाधर्मविरुद्धकारिणीमिति निन्दावगम्यते । यथा वा -

कस्ते शौर्यमदो योद्धुं त्वय्येकं सप्तिमास्थिते । सप्तसप्तिसमारूढा भवन्ति परिपन्थिनः ॥ अर्धं दानववैरिणा गिरिजयाऽप्यर्धं शिवस्याहृतं देवेत्थं जगतीतले स्वरहराभावे समुन्मीलति । गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं सर्वज्ञत्वमधीश्वरत्वमगमत्त्वां मां च भिक्षाटनम् ॥

  अत्राद्योदाहरणे सप्तसप्तिपदगतश्लेषमूलनिन्दाव्याजेन स्तुतिर्व्यज्यते । द्वितीयोदाहरणे सर्वज्ञः सर्वेश्वरोऽसीति राज्ञः स्तुत्या व्याजरूपया मदीयवैदुष्यादि दारिद्व्यादि सर्वं जानन्नपि बहुप्रदानेन रक्षितुं शक्तोऽपि मह्यं किमपि न ददासीति निन्दा व्यज्यते । सर्वमिदं निन्दास्तुत्योरेकविषयत्वे उदाहरणम् । भिन्नविषयत्वे निन्दया स्तुत्यभिव्यक्तिर्यथा -

कस्त्वं वानर!, रामराजभवने लेखार्थसंवाहको, यातः कुत्र पुरागतः स हनुमान्निर्दग्धलङ्कापुरः? । बद्धो राक्षससूनुनेति कपिभिः सन्ताडितो भर्त्सितः स ब्रीडात्तपराभवो वनमृगः कुत्रेति न ज्ञायते ॥

  अत्र हनुमन्निन्दया इतरवानरस्तुत्यभिव्यक्तिः ॥

स्तुत्या निन्दाभिव्यक्तिर्यथा- यद्वक्त्रं मुहुरीक्षसे न धनिनां, ब्रूषे न चाटून्मृषा, नैषां गर्ववचः शृणोषि, न च तान्प्रत्याशया धावसि । काले बालतृणानि खादसि, परं निद्रासि निद्रागमे तन्मे ब्रूहि कुरङ्ग! कुत्र भवता किं नाम तप्तं तपः ॥

  अत्र हरिणस्तुत्या राजसेवानिर्विण्णस्यात्मनो निन्दाभिव्यज्यते । अयमप्रस्तुतप्रशंसाविषय इत्यलङ्कारसर्वस्वकारः । तेनहि सारूप्यनिबन्धनाप्रस्तुतप्रशंसोदाहरणान्तरं वैधर्म्येणापि दृश्यते । यथा-

धन्याः खलु वने वाताः काह्नाराः सुखशीतलाः । राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः ॥

  अत्र वाता धन्या इत्यप्रस्तुतार्थादहमधन्य इति वैधर्म्येण प्रस्तुतोऽर्थः प्रतीयत इति व्युत्पादितम् । इयमेवाप्रस्तुतप्रशंसा न कार्यकारणनिबन्धनेति दण्डी । यदाह-

`अप्रस्तुतप्रशंसा स्यादप्रकाण्डे तु या स्तुतिः । सुखं जीवन्ति हरिणा वनेष्वपरसेविनः ॥ अर्थैरयत्नसुलभैर्जलदर्भाङ्कुरादिभिः । सेयमप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते ॥ राजानुवर्तनक्लेशनिर्विण्णेन मनस्विना ॥' इति ।

  वस्तुतस्त्वत्र व्याजस्तुतिरित्येव युक्तं, स्तुत्या निन्दाभिव्यक्तिरित्यप्रस्तुतप्रशंसातो वैचित्र्यविशेषसद्भावात् । अन्यथा प्रसिद्धव्याजस्तुत्युदाहरणेष्वन्यप्रस्तुताभ्यां निन्दास्तुतिभ्यां प्रस्तुते स्तुतिनिन्दे गम्येते इत्येतावता व्याजस्तुतिमात्रमप्रस्तुतप्रशंसा स्यात् । एवंचानया प्रक्रियया यत्रान्यगतस्तुतिविवक्षयान्यस्तुतिः क्रियते तत्रापि व्याजस्तुतिरेव । अन्यस्तुतिव्याजेन तदन्यस्तुतिरित्यर्थानुगमसद्भावात् । यथा-

शिखरिणि क्वनु नाम कियच्चिरं किमभिधानमसावकरोत्तपः । तरुणि! येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥

  अत्र शुकशावकस्तुत्या नायिकाधरसौभाग्यातिशयस्तुतिर्व्यज्यते ॥ ७१ ॥

व्याजनिन्दालङ्कारः ३१ निन्दाया निन्दया व्यक्तिर्व्याजनिन्देति गीयते ॥ विधे! स निन्द्यो यस्ते प्रागेकमेवाहरच्छिरः ॥ ७२ ॥

  अत्र हरनिन्दया विषमविपाकं संसारं प्रवर्तयतो विधेरभिव्यङ्ग्या निन्दा

ज्याजनिन्दा । यथा वा - विधिरेव विशेषगर्हणीयः करट! त्वं रट कस्तवापराधः । सहकारतरौ चकार यस्ते सहवासं सरलेन कोकिलेन ॥

  अन्यस्तुत्याऽन्यस्तुत्यभिव्यक्तिरिति पञ्चमप्रकारव्याजस्तुतिप्रतिबन्दीभूतेयं

व्याजनिन्दा । ननु यत्रान्यस्तुत्याऽन्यस्तुतेरन्यनिन्दयाऽन्यनिन्दायाश्च प्रतीतिस्तत्र व्याजस्तुतिव्याजनिन्दालङ्कारयोरभ्युपगमे स्तुतिनिन्दारूपा प्रस्तुतप्रशंसोदाहरणेष्वप्रस्तुतप्रशंसा न वक्तव्या । तेषामपि व्याजस्तुतिव्याजनिन्दाभ्यां क्रोडीकारसम्भवादिति चेदुच्यते । यत्राप्रस्तुतवृत्तान्तात्स्तुतिनिन्दारूपात्तत्सरूपः प्रस्तुतवृत्तान्तः प्रतीयते ‘अन्तश्छिद्राणि भूयांसी’त्यादौ, तत्र लब्धावकाशा सारूप्यनिबन्धनाऽप्रस्तुतप्रशंसा, अत्रापि वर्तमाना न निवारयितुं शक्या । अन्यस्तुत्याऽन्यस्तुतिरन्यनिन्दयाऽन्यनिन्देत्येवं व्याजस्तुतिव्याजनिन्दे अपि सम्भवतश्चेत्कामं ते अपि सम्भवेताम् । न त्वस्याः परित्यागः । यद्यपि ‘विधिरेव विशेषगर्हणीय’ इति श्लोके विधिनिन्दा तन्मूलकाकनिन्दया चाविशेषस्य प्रभोस्तेन च विद्वत्समतया स्थापितस्य मूर्खस्य च निन्दा प्रतीयत इति तत्र सारूप्यनिबन्धनाप्रस्तुतप्रशंसाप्यस्ति, तथापि .सैव व्याजनिन्दामूलेति प्रथमोपस्थिता सापि तत्र दुर्वारा, एवं व्याजनिन्दामूलकव्याजनिन्दारूपेयमप्रस्तुतप्रशंसेति चमत्कारातिशयः । एवमेव व्याजस्तुतिमूलकव्याजस्तुतिरूपाप्यप्रस्तुतप्रशंसा दृश्यते । यथा वा - लावण्यद्रविणव्ययो न गणितः क्लेशो महानर्जितः स्वच्छन्दं चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः । एषाऽपि स्वगुणानुरूपरमणाभावाद्वराकी हता कोऽर्थश्चेतसि वेधसा विनिहितस्तन्वीमिमां तन्वता ॥

  अत्राप्रस्तुतायास्तरुण्याः सृष्टिनिन्दाव्याजेन तन्निन्दाव्याजेन च तत्सौन्दर्यप्रशंसा प्रशंसनीयत्वेन, कविविवक्षितायाःस्वकवितायाः सृष्टिनिन्दाव्याजेन तन्निन्दाव्याजेन च शब्दार्थचमत्कारातिशयप्रशंसायां पर्यवस्यति । अस्य श्लोकस्य वाच्यार्थविषये यद्यपि नात्यन्तसामञ्जस्यं, नहीमे विकल्पा वीतरागस्येति कल्पयितुं शक्यम् । रसाननुगुणत्वाद्वीतरागहृदयस्याप्येवंविधविषयेष्वप्रवृत्तेश्च । नापि रागिण इति युज्यते । तदीयविकल्पेषु वराकीति कृपणतालिङ्गितस्य हतेत्यमङ्गलोपहितस्य च वचसोऽनुचितत्वात्तुल्यरमणाभावादित्यस्यात्यन्तमनुचितत्वाच्च स्वात्मनि तदनुरूपतासम्भावनायामपि रागित्वे पशुप्रायता स्यात् । तथापि विवक्षितप्रस्तुतार्थतायां न किञ्चिदसामञ्जस्यम् । अत एवास्य श्लोकस्याप्रस्तुतप्रशंसापरत्वमुक्तं प्राचीनैः वाच्यासम्भवेऽप्यप्रस्तुतप्रशंसोपपत्तेरिति ॥ ७२ ॥

आक्षेपालङ्कारः ३२ आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात् । चन्द्र संदर्शयात्मानमथवास्ति प्रियामुखम् ॥ ७३ ॥

  अत्र प्रार्थितस्य चन्द्रदर्शनस्य प्रियामुखसत्त्वेनाऽनर्थक्यं विचार्याथवेत्यादिसूचितः प्रतिषेध आक्षेपः । यथा वा -

साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः! । यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचोराः प्रगुणीभवन्ति ॥ गृह्णन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः क्वापि कवीश्वराणाम् । रत्नेषु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः ॥

  अत्र प्रथमश्लोकेन प्रार्थितस्य काव्यार्थचोरेभ्यो रक्षणस्य स्वोल्लिखितवैचित्र्याणां समुद्रगतरत्नजालवदक्षयत्वं विचिन्त्य प्रतिषेध आक्षेपः ॥ ७३ ॥

निषेधाभासमाक्षेपं बुधाः केचन मन्वते । नाहं दूती तनोस्तापस्तस्याः कालानलोपमः ॥। ७४ ॥

  केचिदलङ्कारसर्वस्वकारादय इत्थमाहुः । न निषेधमात्रमाक्षेपः किन्तु यो निषेधो बाधितः सन्नर्थान्तरपर्यवसितः किंचिद्विशेषमाक्षिपति स आक्षेपः । यथा दूत्या उक्तौ नायं दूतीति निषेधो बाधितत्वादाभासरूपः संघटनकालोचितकैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन्निदानीमेवागत्य नीयिकोज्जीवनीयेति विशेषमाक्षिपति । यथा वा -

नरेन्द्रमौले न वयं राजसंदेशहारिणः । जगत्कुटुम्बिनस्तेऽद्य न शत्रुः कश्चिदीक्ष्येत ॥

  अत्र संदेशहारिणामुक्तौ न वयं संदेशहारिण इति निषेधोऽनुपपन्नः । संधिकालोचितकैतववचनपरिहारेण ह्यर्थवादित्वे पर्यवस्यन्सर्वजगतीपालकस्य तव न कश्चिदपि शत्रुभावेनावलोकनीयः किन्तु सर्वेऽपि राजानो भृत्यभावेन संरक्षणीया इति विशेषमाक्षिपति ॥ ७४ ॥

आक्षेपोऽन्यो विधौ व्यक्ते निषेधे च तिरोहिते । गच्छ गच्छसि चेत्कान्त! तत्रैव स्याञ्जनिर्मम ॥ ७५ ॥

  अत्र गच्छेति विधिर्व्यक्तः । मा गा इति निषेधस्तिरोहितः कान्तोद्देश्यदेशे निजजन्मप्रार्थनयाऽत्ममरणसंसूचनेन गर्भितः । यथा वा -

न चिरं मम तापाय तव यात्रा भविष्यति । यदि यास्यसि यातव्यमलमाशङ्कयाऽपि ते ॥

  अत्रापि न चिरं मम तापायेति स्वमरणसंसूचनेन गमननिषेधो गर्भीकृतः ॥ ७५ ॥

विरोधाभासालङ्कारः ३३ आभासत्वे विरोधस्य विरोधाभास इष्यते । विनापि तन्वि! हारेण वक्षोजौ तव हारिणौ ॥ ७६ ॥

  अत्र हाररहितावपि हारिणौ हृद्याविति श्लेषमूलको विरोधाभासः । यथा वा –

प्रतीपभूपैरिव किं ततो भिया विरुद्धधर्मैरपि भेत्तृतोज्झिता । अमित्रजिन्मित्रजिदोजसा स यद्विचारदृक् चारदृगप्यवर्तत ॥

  अत्र विरोधसमाधानोत्प्रेक्षाशिरस्को विरोधाभास इति पूर्वस्माद्भेदः ॥७६॥

विभावनालङ्कारः ३४ विभावना विनाऽपि स्यात्कारणं कार्यजन्म चेत् । अप्यलाक्षारसासिक्तं रक्तं तच्चरणद्वयम् ॥ ७७ ॥

  अत्र लाक्षारसासेकरूपकारणाभावेऽपि रक्तिमा कथितः । स्वाभाविकत्वेन विरोधपरिहारः । यथा वा -

अपीतक्षीतकादम्बमसंमृष्टामलाम्बरम् । अप्रसादितसूक्ष्माम्बु जगदासीन्मनोरमम् ॥

  अत्र पानादिप्रसिद्धहेत्वभावेऽपि क्षीबत्वादिनिबद्धम् । विभाव्यमानशरत्समयहेतुकत्वेन विरोधपरिहारः । यथा वा -

वरतनुकबरीविधायिना सुरभिनखेन नरेन्द्रपाणिना । अवचितकुसुमाऽपि वल्लरी समजनि वृन्तनिलीनषट्पदा ॥

  अत्र वल्लर्यां पुष्पाभावेऽपि भृङ्गालिङ्गनं निबद्धं तत्र वरतनुकबरीसंक्रान्तसौरभनरपतिनखसंसर्गरूपं हेत्वन्तरं विशेषणमुखेन दर्शितमिति विरोधपरिहारः ॥ ७७ ॥

हेतूनामसमग्रत्वे कार्योत्पत्तिश्च सा मता । अस्त्रैरतीक्ष्णकठिनैर्जगञ्जयति मन्मथः ॥ ७८ ॥

  अत्र जगज्जये साध्ये हेतूनामस्त्राणामसमग्रत्वतीक्ष्णत्वादिगुणवैकल्यम् । यथा वा -

उद्यानमारुतोद्धूताश्चूतचम्पकरेणवः । उदस्रयन्ति पान्थानामस्पृशन्तो विलोचने ॥

  अत्र बाष्पोद्गमनहेतूनामसमग्रत्वं स्पर्शनक्रियावैकल्यम् । इमां विशेषोक्तिरिति दण्डी व्याजहार । यतस्तत्र प्रथमोदाहरणे मन्मथस्य महिमातिशयरूपो द्वितीयोहरणे चम्पकरेणूनामुद्दीपकतातिशयरूपश्च विशेषः ख्याप्यत इति । अस्माभिस्तु तीक्ष्णत्वादिवैकल्यमपि कारणविशेषाभावरूपमिति विभावना प्रदर्शिता ॥ ७८ ॥

कार्योत्पत्तिस्तृतीया स्यात्सत्यपि प्रतिबन्धके । नरन्द्रानेव ते राजन्दशत्यसिभुजङ्गमः ॥ ७९ ॥

  अत्र नरेन्द्रा विषवैद्याः सर्पदंशप्रतिबन्धकमन्त्रौषधिशालिनः श्लेषेण गृहीता इति सत्येव प्रतिबन्धके कार्योत्पत्तिः ॥ यथा वा -

चित्रं तपति राजेन्द्र प्रतापतपनस्तव । अनातपत्रमुत्सृज्य सातपत्रं द्विषद्गणम् ॥ ७९ ॥ अकारणात्कायजन्म चतुर्थी स्याद्विभावना । शङ्खाद्वीणानिनादोऽयमुदेति महदद्भुतम् ॥ ८० ॥

  अत्र शङ्खशब्देन कमनीयः कामिनीकण्ठस्तन्त्रीनिनादत्वेन तद्गीतं चाध्यवसीयत इत्यकारणात्कार्यज्रन्म । यथा वा -

तिलक्षपात्समायाति वायुश्चन्दनसौरभः । इन्दीवरयुगाच्चित्रं निःसरन्ति शिलीमुखाः ॥ ८० ॥ विरुद्धात्कार्यसंपत्तिर्दृष्टा काचिद्विभावना । शीतांशुकिरणास्तन्वीं हन्त संतापयन्ति ताम् ॥ ८१ ॥

  अत्र तापनिवारकतया तापविरुद्धैरिन्दुकिरणैस्तापजनिरुक्ता । यथा वा –

उदिते कुमारसूर्ये, कुवलयमुल्लसति, भाति नक्षत्रम् । मुकुलीभवन्ति चित्रं परराजकुमारपाणिपद्मानि ॥ यथा वा - अविवेकि कुचद्वन्द्वं हन्तु नाम जगत्त्रयम् । श्रुतिप्रणयिनोरक्ष्णोरयुक्तं जनमारणम् ॥

  पूर्वोदाहरणयोः कारणस्य कार्यविरोधित्वं स्वाभाविकम्। इहतु श्रुतिप्रणयित्वरूपागन्तुकगुणप्रयुक्तमिति भेदः ॥ ८१ ॥

कार्यात्कारणजन्मापि दृष्टा काचिद्विभावना । यशःपयोराशिरभूत्करकल्पतरोस्तव ॥ ८२ ॥ यथा वा - जाता लता हि शैले, जातु लतायां न जायते शैलः । सम्प्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम् ॥ ८२ ॥ विशेषोक्त्यलङ्कारः ३ल्५ कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे । हृदि स्नेहक्षयो नाभूत्स्मरदीपे ज्वलत्यपि ॥ ८३ ॥ यथा वा - अनुरागवती सन्ध्या दिवसस्तत्पुरःसरः । अहो दैवगतिश्चित्रा तथापि न समागमः ॥ ८३ ॥ असम्भवालङ्कारः ३६ असम्भवोऽर्थनिष्पत्तेरसम्भाव्यत्ववर्णनम् । को वेद गोपशिशुकः शैलमुत्पाटयेदिति ॥ ८४ ॥ यथा वा - अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः । क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥ ८४ ॥ असङ्गत्यलङ्कारः ३७ विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः । विषं जलधरैः पीतं मूर्च्छिता पथिकाङ्गनाः ॥ ८५ ॥

  ययोः कार्यहेत्वोर्भिन्नदेशत्वं विरुद्धं तयोस्तन्निबध्यमानमसंगत्यलङ्कारः । यथात्र विषपानमूर्च्छयोर्भिन्नत्वम् ।

यथा वा - अहो खलभुजङ्गस्य विचित्रोऽयं वधक्रमः । अन्यस्य दशति श्रोत्रमन्यः प्राणैर्वियुज्यते ॥ क्वचिदसांगत्यसमाधाननिबन्धनेन चारुतातिशयः । यथा वा - अजस्रमारोहसि दूरदीर्घां संकल्पसोपानततिं तदीयाम् । श्वासान्स वर्षत्यधिकं पुनर्यद्ध्यानात्तव त्वन्मयतामवाप्य ॥

  विरुद्धमिति विशेषणाद्यत्र कार्यहेत्वोर्भिन्नदेशत्वं न विरुद्धं तत्र नासंगतिः । यथा-

भ्रूचापवल्लीं सुमुखी यावन्नयति वक्रताम् । तावत्कटाक्षविशिखैर्भिद्यते हृदयं मम ॥ ८५ ॥ अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च सा । अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥ ८६ ॥ अपारिजातां वसुधां चिकीर्षन्द्यां तथाकृथाः । गोत्रोद्धारप्रवृत्तोऽपि गोत्रोद्भेदं पुराऽकरोः ॥ ८७ ॥

  अत्र कृष्णं प्रति शक्रस्य सोपालम्भवचने भुवि चिकीर्षिततया तत्र करणीयमपारिजातत्वं दिवि कृतमित्येकाऽसंगतिः । पुरा गोत्राया उद्धारे प्रवृत्तेन वराहरूपिणा तद्विरुद्धं गोत्राणां दलनं खुरकुट्टनैः कृतमिति द्विविधाऽपि श्लेषोत्थापिता । यथा वा -

त्वत्सङ्गखण्डितसपत्नविलासिनीनां भूषा भवन्त्यभिनवा भुवनैकवीर । नेत्रेषु कङ्कणमथोरुषु पत्रवल्ली चोलेन्द्रसिंह! तिलकं करपल्लवेषु ॥ मोहं जगत्त्रयभुवामपनेतुमेत- दादाय रूपमखिलेश्वर देहभाजाम् । निःसीमकान्तिरसनीरधिनामुनैव मोहं प्रवर्धयसि मुग्धविलासिनीनाम् ॥

  अत्राऽद्योदाहरणे कङ्कणादीनामन्यत्र कर्तव्यत्वं प्रसिद्धमिति नोपन्यस्तम् । भवतिना भावनारूपा अन्यत्र कृतिराक्षिप्यत इति लक्षणानुगतिः ॥ ८६ ॥ ८७ ॥ 

विषमालङ्कारः ३८ विषमं वर्ण्यते यत्र घटनाऽननुरूपयोः । क्वेयं शिरीषमृद्वङ्गी क्व तावन्मदनज्वरः ॥ ८८ ॥

  अत्रापि मृदुत्वेनातिदुःसहत्वेन चाननुरूपयोरङ्गनामदनज्वरयोर्घटना । यथा वा -

अभिलषसि यदीन्दो वक्त्रलक्ष्मीं मृगाक्ष्याः पुनरपि सकृदब्धौ मज्ज सङ्क्षालयाङ्कम् । सुविमलमथ बिम्बं पारिजातप्रसूनैः सुरभय वद नो चेत्त्वं क्व तस्या मुखं क्व ॥

  पूर्वत्र वस्तुसती घटना । अत्रच चन्द्रवदनलक्ष्म्योस्तर्किता घटनेति भेदः ८८  ॥

विरूपकार्यस्योत्पत्तिरपरं विषमं मतम् । कीर्तिं प्रसूते धवलां श्यामा तव कृपाणिका ॥ ८९ ॥

  अत्र कारणगुणप्रक्रमेण विरुद्धाच्छ्यामाद्धवलोत्पत्तिः । कार्यकारणयोर्निवर्त्यनिर्वर्तकत्वे पञ्चमी विभावना । विलक्षणगुणशालित्वे त्वयं विषम इति भेदः ॥ ८९ ॥

अनिष्टस्याप्यवाप्तिश्च तदिष्टार्थसमुद्यमात् । भक्ष्याशयाहिमञ्जम्बषां दष्ट्वाखुस्तेन भक्षितः ॥ ९० ॥

  इष्टार्थमुद्दिश्य किंचित्कर्मारब्धवतो न केवलमिष्टस्यानवाप्तिः किन्तु ततोऽनिष्टस्यापि प्रतिलम्भश्चेत्तदपि विषमम् । यथा भक्ष्यप्रेप्सया सर्पपेटिकां दष्ट्वा प्रविष्टस्य मूषकस्य न केवलं भक्ष्यालाभः किन्तु स्वरूपहानिरपीति । यथा वा –

गोपाल इति कृष्ण त्वं प्रचुरक्षीरवाञ्छया । श्रितो मातृस्तनक्षीरमप्यलभ्यं त्वया कृतम् ॥

  इदमर्थावाप्तिरूपेष्टार्थसमुद्यमादिष्टानवाप्तावनिष्टप्रतिलम्भे चोदाहरणम् । अनर्थपरिहारार्थरूपेष्टार्थसमुद्यमात् । तदुभयं यथा-

दिवि श्रितवतश्चन्द्रं सैंहिकेयभयाद्भुवि । शशस्य पश्य तन्वङ्गि साश्रयस्य ततो भयम् ॥

  अत्र न केवलं शशस्य स्वानर्थपरिहारानवाप्तिः किन्तु साश्रयस्याप्यनर्थावाप्तिरिति दर्शितम् । परानिष्टप्रापणरूपेष्टार्थसमुद्यमात् । तदुभयं यथा - 

दिधक्षन्मारुतेर्बालं तमादीप्यद्दशाननः । आत्मीयस्य पुरस्यैव सद्यो दहनमन्वभूत् ॥

  पुरस्यैवेत्येवकारेण परानिष्टप्रापणाभावो दर्शितः । अनिष्टस्याप्यवाप्तिश्चेति श्लोकेऽनिष्टावाप्तेरपिशब्दसंगृहीताया इष्टानवाप्तेश्च प्रत्येकमपि विषमपदेनान्वयः । ततश्च केवलानिष्टप्रतिलम्भः केवलेष्टानवाप्तिश्चेत्यन्यदपि विषमद्वयं लक्षितं भवति ।

तत्र केवलानिष्टप्रतिलम्भो यथा- पद्मातपत्ररसिके सरसीरुहस्य किं बीजमर्पयितुमिच्छसि वापिकायाम् । कालः कलिर्जगदिदं न कृतज्ञमज्ञे स्थित्वा हरिष्यति मुखस्य तवैव लक्ष्मीम् ॥

  अत्र पद्मातपत्रलिप्सया पद्मबीजावापं कृतवत्यास्तल्लाभोऽस्त्येव किन्तु मुखशोभाहरणरूपोत्कटानिष्टप्रतिलम्भः । केवलेष्टानवाप्तिर्यथा-

खिन्नोऽसि मुञ्च शैलं बिभृमो वयमिति वदत्सु शिथिलभुजः । भरभुग्नविततबाहुषु गोपेषु हसन्हरिर्जयति ॥

  अत्र यद्यपि शैलस्योपरिपतनरूपानिष्टावाप्तिः प्रसक्ता तथापि भगवत्कराम्बुजसंसर्गमहिम्ना सा न जातेति शैलधारणरूपेष्टानवाप्तिमात्रम् । यथा वा -

लोके कलङ्कमपहातुमयं मृगाङ्को जातो मुखं तव पुनस्तिलकच्छलेन । तत्रापि कल्पयसि तन्वि कलङ्करेखां नार्यः समाश्रितजनं हि कलङ्कयन्ति ॥

    अत्रानिष्टपरिहाररूपेष्टानवासिः । यथा वा -

शापोऽप्यदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितोऽयम्। कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो बीजप्ररोहजननीं दहनः करोति ॥

  अत्र परानिष्टप्रापणरूपेष्टानवाप्तिः । स्वतोऽनिष्टस्यापि मुनिशापस्य महापुरुषार्थपुत्रलाभावश्यंभावगर्भतया दशरथेष्टत्वेन समर्थितत्वात् । यत्र केनचित्स्वेष्टसिद्ध्यर्थं नियुक्तेनान्येन नियोक्तुरिष्टमुपेक्ष्य स्वस्यैवेष्टं साध्यते तत्रापीष्टानवाप्तिरूपमेव विषमम् । यथा-

यं प्रति प्रेषिता दूती तस्मिन्नेव लयं गता । सख्यः पश्यत मौढ्यं मे विपाकं वा विधेरमुम् ॥

  तस्मिन्नेव लयं गतेति नायके दूत्या स्वाच्छन्द्यं दर्शितम् । यथा वा –

नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः । तत्तु तत्रैव रमते हताः पाणिनिना वयम् ॥

  एतानि सर्वथैवेष्टानवाप्तेरुदाहरणप्ति । कदाचिदिष्टावाप्तिपूर्वकं तदनवाप्तिर्यथा मदीये वरदराज्जस्तवे-

भानुर्निशासु भवदङ्घ्रिमयूखशोभा- लोभात्प्रताप्य किरणोत्करमाप्रभातम् । तत्रोद्धते हुतवहात्क्षणलुप्तरागे तापं भजत्यनुदिनं स हि मन्दतापः ॥ यथा वा - त्वद्वक्रसाम्यमयमम्बुजकोशमुद्रा- भङ्गात्ततत्सुषममित्रकरोपक्लृप्त्या । लब्ध्वापि पर्वणि विधुः क्रमहीयमानः शंसत्यनीत्युपचितां श्रियमाशुनाशाम् ॥

  अत्राद्यश्लोके सूर्यकिरणानां रात्रिष्वग्निप्रवेशनमागमसिद्धम् । सूर्यस्य निजकिरणेषु भगवच्चरणारुणिमप्रेप्सया तत्कृतं तेषामग्नौ प्रतापनं परिकल्प्य तेषामुदयकालदृश्यमरुणिमानं च तप्तोद्धृतनाराचानामिवाग्निसंतापनप्रयुक्तारुणिमानुवृत्तिं परिकल्प्य सूर्यस्य महतापि प्रयत्नेन तात्कालिकेष्टावाप्तिरेव जायते न सार्वकालिकेष्टावाप्तिरिति दर्शितम् । द्वितीयश्लोके चन्द्रस्य भगवत्सुखलक्ष्मीं लिप्समानस्य सुहृत्त्वेन मित्रशब्दश्लेषवशात्सूर्यं परिकल्प्य तत्किरणस्य कमलमुकुलविकासनं चन्द्रानुप्रवेशनं च सुहृत्पाणेर्भगवन्मुखलक्ष्मीनिधानकोशगृहमुद्रामोचनपूर्वकं ततो गृहीतभगवन्मुखलक्ष्मीकस्य तया भगवन्मुखलक्ष्म्या चन्द्रप्रसाधनार्थं चन्द्रस्पर्शरूपं च परिकल्प्यैतावतापि प्रयत्नेन पौर्णमास्यामेव भगवन्मुखसाम्यरूपेष्टप्राप्तिर्जायते न सार्वकालिकेति दर्शितम् । 
  क्वचिदिष्टानवाप्तावपि तदवाप्तिभ्रमनिबन्धनविच्छित्तिविशेषः । यथा वा -

बल्लालक्षोणिपाल! त्वदहितनगरे सञ्चरन्ती किराती रत्नान्यादाय कीर्णान्युरुतरखदिराङ्गारशङ्काकुलाङ्गी । क्षिप्त्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती श्वासामोदप्रसक्तैर्मधुकरपटलैर्धूमशङ्कां करोति ॥

  अत्र प्रभूताग्निसंपादनोद्योगात्तत्संपादनालाभेऽपि तल्लाभो भ्रमोपन्यासमुखेन निबद्धः ॥

समालङ्कारः ३९ समं स्याद्वर्णनं यत्र द्वयोरप्यनुरूपयोः । स्वानुरूपं कृतं सद्म हारेण कुचमण्डलम् ॥ ९१ ॥

  प्रथमविषमप्रतिद्वन्द्वीदं समम् । यथा वा -

कौमुदीव तुहिनांशुमण्डलं जाह्नवीव शशिखण्डमण्डनम् । पश्य कीर्तिरनुरूपमाश्रिता त्वां विभाति नरसिंह भूपते ॥ चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं जातो दैवादुचितघटनासंविधाता विधाता । यन्निम्बानां परिणतफलस्फीतिरास्वादनीया यच्चैतस्याः कवलनकलाकोविदः काकलोकः ॥

  पूर्वं स्तुतिपर्यवसायीदं निन्दापर्यवसायीति भेदः ॥ ९१ ॥

सारूप्यमपि कार्यस्य कारणेन समं विदुः। नीचप्रवणता लक्ष्मि! जलजायास्तवोचिता ॥ ९२ ॥

  इदं द्वितीयं विषमप्रतिद्वन्द्वि समम् । यथा वा -

दवदहनादुत्पन्नो धूमो घनतामवाप्य वर्षैस्तम् । यच्छमयति तद्युक्तं सोऽपि च दवमेव निर्दहति ॥ यथा वा - आदौ हालाहलहुतभुजा दत्तहस्तावलम्बो बाल्ये शम्भोर्निटिलमहसा बद्धमैत्रीनिरूढः । प्रौढो राहोरपि मुखविषेणान्तरङ्गीकृतो यः सोऽयं चन्द्रस्तपति किरणैर्मामिति प्राप्तमेतत् ॥

  पूर्वत्र कारणस्वभावानुरूप्यं कार्यस्यात्रागन्तुकतदीयदुष्टसंसर्गानुरूप्यमिति भेदः ॥ ९२ ॥

विनानिष्टं च तत्सिद्धिर्यमर्थं कर्तुमुद्यतः । युक्तो वारणलाभोऽयं स्यान्न ते वारणार्थिनः ॥ ९३ ॥

  इदं सममनिष्टस्याप्यवाप्तिश्चेत्यपिसंगृहीतस्य त्रिविधस्यापि विषमस्य प्रतिद्वन्द्वि । इष्टावाप्तेरनिष्टस्याप्रसङ्गाच्च । अत्र गजार्थितया राजानमुपसर्पन्तं तद्दौवारिकैर्वार्यमाणं प्रति नर्मवचनमुदाहरणम् । नचात्र निवारणमनिष्टमापन्नमित्युदाहरणत्वं शङ्कनीयम् । राजद्वारि क्षणनिवारणं सम्भावितमिति तदङ्गीकृत्य प्रवृत्तस्य विषमालङ्कारोदाहणेष्विवातर्कितोत्कटानिष्टापत्त्यभावात् । किंच यत्रातर्कितोत्कटानिष्टसत्त्वे श्लेषमहिम्ना इष्टार्थत्वप्रतीतिस्तत्रापि समालङ्कारोऽप्रतिहत एव ।

उच्चैर्गजैरटनमर्थयमान एव त्वामाश्रयन्निह चिरादुषितोऽस्मि राजन् । उच्चाटनं त्वमपि लम्भयसे तदेव मामद्य नैव विफला महतां हि सेवा ॥

  अत्र यद्यपि व्याजस्तुतौ स्तुत्या निन्दाभिव्यक्तिविवक्षायां विषमालङ्कारस्तथापि प्राथमिकस्तुतिरूपवाच्यविवक्षायां समालङ्कारो न निवार्यते । एवं यत्रेष्टार्थावाप्तिसत्त्वेऽपि श्लेषवशादसतोऽनिष्टार्थस्य प्रतीतिस्तत्रापि समालंकारस्य न क्षतिः । यथा-

शस्त्रं नखलु कर्तव्यमिति पित्रा नियोजितः । तदेव शस्त्रं कृतवान्पितुराज्ञा न लङ्घिता ॥

  अत्र पितुराज्ञा लङ्घितेत्यनेन विरोधालङ्काराभिव्यक्त्यर्थ नखल्वित्यत्र पदद्वयविभागात्मकरूपान्तरस्यापि विवक्षायाः सत्त्वेऽपि नखं लुनातीति नखल्वित्येकपदत्वेन वस्तुसदर्थान्तरपररूपान्तरमादाय समालङ्कारोऽप्यस्त्येव। श्लेषलब्धासदिष्टावाप्तिप्रतीतिमात्रेणापि गतमुदाहरणम् । यथा-

सत्यं तपः सुगत्यै यत्तप्त्वाम्बुषु रविप्रतीक्षं सत् । अनुभवति सुगतिमब्जं त्वत्पदजन्मनि समस्तकमनीयम् ॥ ९३ ॥ विचित्रालङ्कारः ४० विचित्रं तत्प्रयत्नश्रेद्विपरीतः फलेच्छया । नमन्ति सन्तस्त्रैलोक्यादपि लब्धुं समुन्नतिम् ॥ ९४ ॥

  यथा वा -

मलिनयितुं खलवदनं विमलयति जगन्ति देव! कीर्तिस्ते । मित्राह्लादं कर्तुं मित्राय द्रुह्यति प्रतापोऽपि ॥ ९४ ॥ अधिकालङ्कारः ४१ अधिकं पृथुलाधारादाधेयाधिक्यवर्णनम् । ब्रह्माण्डानि जले यत्र तत्र मान्ति न ते गुणाः ॥९५॥

  अत्र यत्र महाजलौघेऽनन्तानि ब्रह्माण्डानि बुद्बुदकल्पानीत्याधारस्यातिविशालत्वं प्रदर्श्य तत्र न मान्तीत्याधेयानां गुणानामाधिक्यं वर्णितम् । यथा वा -

युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत । तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः ॥ ९५ ॥ पृथ्वाधेयाद्यदाधाराधिक्यं तदपि तन्मतम् । कियद्वाग्ब्रह्म यत्रैते विश्राम्यन्ति गुणास्तव ॥ ९६ ॥

  अत्रैत इति प्रत्यक्षदृष्टमहावैभवत्वेनोक्तानां गुणानां विश्राम्यन्तीत्यसंबाधावस्थानोक्त्याधारस्य वाग्ब्रह्मण आधिक्यं वर्णितम् । यथा वा -

अहो विशालं भूपाल भुवनत्रितयोदरम् । माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ॥

  अत्र यद्यप्युदाहरणद्वयेऽपि कियद्वाग्ब्रह्मेति अहो विशालमिति चाधारयोः प्रशंसा क्रियते तथापि तनुवेन सिद्धवत्कृतयोः शब्दब्रह्मभुवनोदरयोर्गुणयशोराश्यधिकरणत्वेनाधिकत्वं प्रकल्प्यैव प्रशंसा क्रियतइति तत्प्रशंसा प्रस्तुतगुणयशोराशिप्रशंसायामेव पर्यवस्यति ॥ ९६ ॥

अल्पालङ्कारः ४२ अल्पं तु सूक्ष्मादाधेयाद्यदाधारस्य सूक्ष्मता । मणिमालोर्मिका तेऽद्यकरे जपवटीयते ॥ ९७ ॥

  अत्र मणिमालामयोर्मिका तावदङ्गुलिमात्रपरिमितत्वात्सूक्ष्मा सापि विरहिण्याः करे कङ्कणवत्प्रवेशिता तस्मिन् जपमालावल्लम्बत इत्युक्तया ततोऽपि

करस्य विरहकार्श्यादतिसूक्ष्मता दर्शिता । यथा वा - यन्मध्यदेशादपि ते सूक्ष्मं लोलाक्षि दृश्यते । मृणालसूत्रमपि ते न संमाति स्तनान्तरे ॥ ९७ ॥ अन्योन्यालङ्कारः ४३ अन्योन्यं नाम यत्र स्यादुपकारः परस्परम् । त्रियामा शशिन। भाति शशी भाति त्रियामया ॥ ९८ ॥

 यथा वा –

यथोर्ध्वाक्षः पिबत्यम्बु पथिको विरलाङ्गुलिः । तथा प्रपापालिकापि धारां वितनुते तनुम् ॥

     अत्र प्रपापालिकायाः पथिकेन स्वासक्त्या पानीयदानव्याजेन बहुकालं

स्वमुखावलोकनमभिलषन्त्या विरलाङ्गुलिकरणतश्चिरं पानीयदानानुवृत्तिसं- पादनेनोपकारः कृतः । तथा प्रपापालिकयापि पानीयपानव्याजेन चिरं स्वमुखावलोकनमभिलषतः पथिकस्य धारातनूकरणतश्चिरं पानीयपानानुवृत्तिसंपादनेनोपकारः कृतः । अत्रोभयोर्व्यापाराभ्यां स्वस्वोपकारसद्भावेऽपि परस्परोपकारोऽपि न निवार्यते ॥ ९८ ॥ विशेषालङ्कारः ४४ विशेषः ख्यातमाधारं विनाप्याधेयवर्णनम् । गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः ॥ ९९ ॥

  यथा वा -

कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥

  अत्राद्ये सूर्यस्य प्रसिद्धाधारस्याभावेऽपि तत्कराणामन्यत्रावस्थितिरुक्ता । द्वितीये त्वम्भसः प्रसिद्धाधारस्य भावेऽपि कमलकुवलययोरन्यत्रावस्थितिरुक्ता । क्वचित्प्रसिद्धाधाररहितानामाधारान्तरनिर्देशं विनैवाप्रलयमवस्थितेर्वर्णनं दृश्यते । यथा वा -

दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः' ॥

  अत्र कवीनामभावेऽपि तद्गिरामाधारान्तरनिर्देशं विनैवाप्रलयमवस्थितिर्वर्णिता ॥  ॥

विशेषः सोऽपि यद्येकं वस्त्वनेकत्र वर्ण्यते । अन्तर्बहिः पुरः पश्चात्सर्वदिक्ष्वपि सैव मे ॥ १०० ॥

  यथा वा -

हृदयान्नापयातोऽसि दिक्षु सर्वासु दृश्यसे। वत्स राम गतोऽसीति संतापेनानुमीयसे ॥ किंचिदारम्भतोऽशक्यवस्त्वन्तरकृतिश्च सः । त्वां पश्यता मया लब्धं कल्पवृक्षनिरीक्षणम् ॥ १०१ ॥ यथा वा - स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम् । विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ॥

  अत्राद्ये राजदर्शनारम्भेण कल्पवृक्षदर्शनरूपाशक्यवस्त्वन्तरकृतिः । द्वितीये राजसृष्ट्यारम्भेण मनोभ्वादिसृष्टिरूपा शक्यवस्त्वन्तरकृतिः ॥ १०१ ॥ 

व्याघातालङ्कारः ४५ स्याद्व्याघातोऽन्यथाकारि तथाकारि क्रियेत चेत् । यैर्जगत्प्रीयते हन्ति तैरेव कुसुमायुधः ॥ १०२ ॥

  यद्यत्साधनत्वेन लोकेऽवगतं तत्केनचित्तद्विरुद्धसाधनं क्रियेत चेत्स व्याघातः । यद्वा । यत्साधनतया केनचिदुपात्तं तदन्येन तत्प्रतिद्वन्द्विना तद्विरुद्धसाधनं क्रियेत चेत्सोऽपि व्याघातः । तत्राद्य उदाहृतः ।

द्वितीयो यथा-

   दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
   विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥ १०२ ॥

सौकर्येण निबद्धापि क्रिया कार्यविरोधिनी । दया चेद्बाल इति मय्यपरित्याज्य एव ते ॥ १०३ ॥

  कार्यविशेषनिष्पादकतया केनचित्सम्भाव्यमानादर्थादन्येन कार्यविरोधिक्रियासौकर्येण समर्थ्यते चेत् सोऽपि व्याघातः । कार्यविरुद्धक्रियायां सौकर्यं कारणस्य सुतरां तदानुगुण्यम् । यथा जैत्रयात्रोन्मुखेन राज्ञा युवराजस्य राज्य एव स्थापने यत्कारणत्वेन सम्भावितं बाल्यं तत्प्रत्युत तद्विरुद्धस्य सहनयनस्यैव कारणतया युवराजेन परित्यागस्यायुक्तत्वं दर्शयता समर्थ्यते ।

यथा वा - लुब्धो न विसृजत्यर्थं नरो दारिद्र्यशङ्कया । दातापि विसृजत्यर्थं तयैव ननु शङ्कया ॥

  अत्र पूर्वोत्तरार्धे पक्षप्रतिपक्षरूपे कयोश्चिद्वचने इति लक्षणानुगतिः ॥१०३॥ कारणमालालङ्कारः ४६

गुम्फः कारणमाला स्याद्यथाप्राक्प्रान्तकारणैः । नयेन श्रीः श्रिया त्यागस्त्यागेन विपुलं यशः ॥१०४॥

  उत्तरोत्तरकारणभूतपूर्वपूर्वैः पूर्वपूर्वकारणभूतोत्तरोत्तरैर्वा वस्तुभिः कृतो गुम्फः कारणमाला । आद्योदाहृता । द्वितीया यथा-

भवन्ति नरकाः पापात्पापं दारिद्र्यसम्भवम् । दारिद्र्यमप्रदानेन तस्याद्दानपरो भवेत् ॥ १०४ ॥ एकावल्यलङ्कारः ४७ गृहीतमुक्तरीत्या‍ऽर्थश्रेणिरेकावलिर्मता । ने कर्णान्तविधान्ते कर्णौ दोःस्तम्भदोलितौ ॥१ ०५।

  	दोस्तम्भौ जानुपर्यन्तौ प्रलम्वनमनोहरो ।

जानुनी रत्नमुकुराकारे तस्य हि भूभुजः ॥ १०५ ॥

  उत्तरोत्तरस्य पूर्वपूर्वविशेषणभावः पूर्वपूर्वस्योत्तरोत्तरविशेषणभावो वा गृहीतमुक्तरीतिः । तत्राद्यः प्रकार उदाहृतः । द्वितीयो यथा-

दिक्कालात्मसमैव यस्य विभुता यस्तत्र विद्योतते यत्रामुष्य सुधीभवन्ति किरणा राशेः स यासामभूत् । यस्तत्पित्तमुषःसु योऽस्य हविषे यस्तस्य जीवातवे वोढा यद्गुणमेष मन्मथरिपोस्ताः पान्तु वो मूर्तयः ॥१०५॥१०६॥ मालादीपकालङ्कारः ४८ दीपकैकावलीयोगान्मालादीपकमिष्यते । स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः ॥ १०७ ॥

  अत्र स्थितिरिति पदमेकं स्मरेण तस्या हृदये स्थितिः कृता हृदयेन त्वयि स्थितिः कृतेत्येवं वाक्यद्वयान्वयि । अतो दीपकम् । गृहीतमुक्तरीतिसद्भावादेकावली चेति दीपकैकावलीयोगः । यथा वा -

सङ्ग्रामाङ्गणमागतेन भवता चापे समारोपिते। देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥

  अत्र येन येन सहसा यद्यत्समासादितमिति संक्षेपवाक्यस्थितमेकं समासादितपदं कोदण्डेन शरा इत्यादिषु षट्स्वपि विवरणवाक्येषु तत्तदुचितलिङ्गवचनविपरिणामेनान्वेतीति दीपकम् । शरादीनामुत्तरोत्तरविशेषणाभावादेकावली चेति दीपकैकावलीयोगः ॥ १०७ ॥

सारालङ्कारः ४९ उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते । मधुरं मधु तस्माच्च सुधा तस्याः कवेर्वचः ॥ १०८ ॥ यथा वा - अन्तर्विष्णोस्त्रिलोकी निवसति फणिनामीश्वरे सोऽपि शेते सिन्धोः सोऽप्येकदेशे तमपि चुलकयां कुम्भयोनिश्चकार। धत्ते खद्योतलीलामयमपि नभसि श्रीनृसिंह! क्षितीन्द्र! त्वत्कीर्तेः कर्णनीलोत्पलमिदमपि च प्रेक्षणीयं विभाति ॥

  अयं श्लाष्यगुणोत्कर्षः । अश्लाघ्यगुणोत्कर्षो यथा--

तृणाल्लघुतरस्तूलस्तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति ॥ उभयरूपो यथा- गिरिर्महान्गिरिरेरब्धिर्महानब्धेर्नभो महत् । नभसोऽपि महद्ब्रह्म ततोऽप्याशा गरीयसी ॥

  अत्र ब्रह्मपर्यन्तेषु महत्त्वं श्लाध्यगुणः । प्रकृतार्थाशायामश्लाध्यगुणः ॥ १०८ ॥

यथासङ्ख्यालङ्कारः ५० यथासङ्ख्यं क्रमेणैव क्रमिकाणां समन्वयः । शत्रुं मित्रं विपत्तिं च जय रञ्जय भञ्जय ॥ १०९ ॥ यथा वा - शरणं किं प्रपन्नानि विषवन्मारयन्ति वा । न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत् ॥

  अमुं क्रमालङ्कार इति केचिद्व्याजह्रुः ॥ १०९ ॥

पर्यायालङ्कारः ५१ पर्यायो यदि पर्यायेणैकस्यानेकसंश्रयः । पद्मं मुक्त्वा गता चन्द्रं कामिनीवदनोपमा ॥ ११० ॥

  अत्रैकस्य कामिनीवदनसादृश्यस्य क्रमेण पद्मचन्द्ररूपानेकाधारसंश्रयणं पर्यायः । यद्यपि पद्मसंश्रयणं कण्ठतो नोक्तं तथापि पद्मं मुक्त्वेति तत्परित्यागोक्त्या प्राक् तत्संश्रयाक्षेपेण पर्यायनिर्वाहः । अत एव -

श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः पद्भ्यां मुक्तास्तरलगतयः संश्रिता लोचनाभ्याम् । धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्त्रं त्वद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥

  इत्यत्र पर्यायं काव्यप्रकाशकृदुदाजहार । सर्वत्र शाब्दः पर्यायो यथा-

नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥

  सर्वोऽप्ययं शुद्धपर्यायः । संकोचपर्यायो यथा-

प्रायश्चरित्वा वसुधामशेषां छायासु विश्रम्य ततस्तरूणाम् । प्रौढिं गते सम्प्रति तिग्मभानौ शैत्यं शनैरन्तरपामयासीत् ॥

  अत्र शैत्यस्योत्तरोत्तरमाधारसंकोचासंकोचपर्यायः । विकासपर्यायो यथा-

बिम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृश्यत । अधुना हृदयेऽप्येष मृगशावाक्षि दृश्यते ॥

  अत्र रागस्य पूर्वाधारपरित्यागेनाधारान्तरसंक्रमणमिति विकासपर्यायः ॥ ११० ॥

एकस्मिन्यद्यनेकं वा पर्यायः सोऽपि संमतः । अधुना पुलिनं तत्र यत्र स्रोतः पुराजनि ॥ १११ ॥ यथा वा - पुराभूदस्माकं प्रथममविभिन्ना तनुरियं ततो नु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः । इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं हतानां प्राणानां कुलिशकठिनानां फलमिदम् ॥

  अत्र दम्पत्योः प्रथममभेदस्ततः प्रेयसीप्रियतमभावस्ततो भार्यापतिभाव इत्याधेयपर्यायः ॥ १११ ॥

परिवृत्त्यलङ्कारः ५२ परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथः । जग्राहैकं शरं मुक्त्वा कटाक्षात्स रिपुश्रियम् ॥ ११२ ॥ यथा वा - तस्य च प्रवयसो जटायुषः स्वर्गिणः किमिव शोच्यतेऽधुना । येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्ज्वलं यशः ॥ ११२ ॥ परिसङ्ख्यालङ्कारः ५३ परिसंख्या निषिध्यैकमेकस्मिन्वस्तुयन्त्रणम् । स्नेहक्षयः प्रदीपेषु न स्वान्तेषु नतभ्रुवाम् ॥ ११३ ॥ यथा वा -- विलङ्घयन्ति श्रुतिवर्त्म यस्यां लीलावतीनां नयनोत्पलानि । बिभर्ति यस्यामपि वक्रिमाणमेको महाकालजटार्धचन्द्रः ॥

  आद्योदाहरणे निषेधः शाब्दो द्वितीये त्वार्थः ॥ ११३ ॥

विकल्पालङ्कारः ५४ विरोधे तुल्यबलयोर्विकल्पालङ्कृतिर्मता । सद्यः शिरांसि चापान्वा नमयन्तु महीभुजः ॥ ११६॥

  अत्र संधिविग्रहप्रमाणप्राप्तयोः शिरश्चापनमनयोर्युगपदुपस्थितयोर्युगपत्कर्तुमशक्ययोर्विकल्पपः । यथा वा -

पतत्यविरतं वारि नृत्यन्ति च कलापिनः । अद्य कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति ॥

   प्रियसमागमश्चेन्न मरणमाशंसनीयं मरणे तु न प्रियसमागमसम्भव इति तयोराशंसायां विकल्पः ॥ ११४ ॥

समुच्चयालङ्कारः ५५ बहूनां युगपद्भावभाजां गुम्फः समुच्चयः । नश्यन्ति पश्चात्पश्यन्ति त्रस्यन्ति च भवद्द्विषः ॥१ १५॥

  अविरोधेन सम्भावितयौगपद्यानां नाशादीनां गुम्फनं समुच्चयः । यथा वा –

बिभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं शल्यं यद्विदधाति सा विधुरिता साधो! तदाकर्ण्यताम् । शेते शुष्यति ताम्यति प्रलपति प्रम्लायति प्रेङ्खति भ्राम्यत्युल्लठति प्रणश्यति गलत्युन्मूर्च्छति त्रुट्यति ॥

  अत्र कासांचित्क्रियाणां किंचित्कालभेदसम्भवेऽपि शतपत्रपत्रशतभेदन्यायेन यौगपद्यं विरहातिशयद्योतनाय विवक्षितमिति लक्षणानुगतिः ॥ ११५ ॥

अहंप्रथमिकाभाजामेककार्यान्वयेऽपि सः । कुलं रूपं वयो विद्या धनं च मदयन्त्यमुम् ॥ ११६ ॥

  यत्रैकः कार्यसिद्धिहेतुत्वेन प्रक्रान्तस्तत्रान्येऽपि यद्यहमहमिकया खलेकपोतन्यायेन तत्सिद्धिं कुर्वन्ति सोऽपि समुच्चयः । यथा मदे आभिजात्यमेकं समग्रं कारणं तादृगेव रूपादिकमपि तत्साधनत्वेनावतरतीति ।

यथा वा - प्रदानं प्रच्छन्नं, गृहमुपगते संभ्रमविधि-, र्निरुत्सेको लक्ष्म्या,मनभिभवगन्धाः परकथाः । प्रियं कृत्वा मौनं, सदसि कथनं चाप्युपकृतेः, श्रुतेऽत्यन्तासक्तिः पुरुषमभिजातं कथयति ॥ ११६ ॥ कारकदीपकालङ्कारः ५६ क्रमिकैकगतानां तु गुम्फः कारकदीपकम् । गच्छत्यागच्छति पुनः पान्थः पश्यति पृच्छति ॥११७॥ यथा वा -- निद्राति स्नाति भुङ्क्ते चलति कचभरं शोषयत्यन्तरास्ते दीव्यत्यक्षैर्न चायं गदितुमवसरो भूय आयाहि याहि । इत्युद्दण्डैः प्रभूणामसकृदधिकृतैर्वारितान्द्वारि दीना- नस्मान्पश्याब्धिकन्ये! सरसिरुहरुचामन्तरङ्गैरपाङ्गैः ॥

  आद्योदाहरणे श्रुतस्य पान्थस्य कर्तृकारकस्यैकस्य गमनादिष्वन्वयः, द्वितीये त्वध्याहृतस्य प्रभुकर्तृकारकस्य निद्रादिष्वन्वय इत्येकस्यानेकवाक्यान्वयेन दीपकच्छायापत्त्या कारकदीपकं प्रथमसमुच्चयप्रतिद्वन्द्वीदम् ॥ ११७ ॥

समाध्यलङ्कारः ५७ समाधिः कार्यसौकर्यं कारणान्तरसन्निधेः । उत्कण्ठिता च तरुणी जगामास्तं च भानुमान् ॥११८॥ यथा वा- मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः । उपकाराय दिष्ट्यैतदुदीर्णं घनगर्जितम् ॥

  केनचिदारिप्सितस्य कार्यस्य कारणान्तरसन्निधानाद्यत्सौकर्यं तत्सम्यगाधानात्समाधिः । द्वितीयसमुच्चयप्रतिद्वन्द्वी अयं समाधिः । तत्र बहूनां प्रत्येकं समर्थानां खलेकपोतकन्यायेन युगपत्कार्यसाधनत्वेनावतारः । अत्र त्वेकेन कार्ये समारिप्सितेऽन्यस्य काकतालीयन्यायेनापतितस्य तत्सौकर्याधायकत्वमात्रम् । अत्रोदाहरणमुत्कण्ठितेति । उत्कण्ठैव प्रियाभिसरणे पुष्कलं कारणं नान्धकारागममपेक्षते अत्यारूढो हि नारीणामकालज्ञो मनोभवः' इति न्यायात् दैवादापतता त्वन्धकारेण तत्सौकर्यमात्रं कृतमिति । एवं द्वितीयोदाहरणेऽपि योज्यम् ॥ ११८ ॥

प्रत्यनीकालङ्कारः ५८ प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः । जैत्रनेत्रानुगौ कर्णावुत्पलाभ्यामधःकृतौ ॥ ११९ ॥ यथा वा - मम रूपकीर्तिमहरद्भुवि यस्तदनु प्रविष्टहृदयेयमिति । त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ॥

  एवं बलवति प्रतिपक्षे प्रतिकर्तुमशक्तस्य तदीयबाधनं प्रत्यनीकमिति स्थिते साक्षात्प्रतिपक्षे पराक्रमः प्रत्यनीकमिति कैमुतिकन्यायेन फलति । यथा – 

मधुव्रतौघः कुपितः स्वकीयमधुप्रपापद्मनिमीलनेच । बिम्बं समाक्रम्य बलात्सुधांशोः कलङ्कमङ्के ध्रुवमातनोति ॥ ११९ ॥ अर्थापत्त्यलङ्कारः ५९ कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते । स जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहाम् ॥१२०॥

  अत्र स इत्यनेन पद्मानि येन जितानि इति विवक्षितं, तथाच सोऽपि येन जितस्तेन पद्मानि जितानीति किमु वक्तव्यमिति दण्डापूपिकान्यायेन पद्मरूपस्वार्थस्य संसिद्धिः काव्यार्थापत्तिः । तान्त्रिकाभिमतार्थापत्तिव्यावर्तनाय काव्येति विशेषणम् । यथा वा –

अधरोऽयमधीराक्ष्या बन्धुजीवप्रभाहरः । अन्यजीवप्रभां हन्त हरतीति किमद्भुतम् ॥ स्वकीयं हृदयं भित्त्वा निर्गतौ यौ पयोधरौ । हृदयस्यान्यदीयस्य भेदने का कृपा तयोः ॥ १२० ॥ काव्यलिङ्गालङ्कारः ६० समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम् । जितोऽसि मन्द! कन्दर्प! मच्चित्तेऽस्ति त्रिलोचनः ॥ १२१ ॥

  अत्र कन्दर्पजयोपन्यासो दुष्करविषयत्वात्समर्थनसापेक्षः । तस्य मच्चित्तेऽस्ति  त्रिलोचन इति स्वान्तःकरणे शिवसन्निधानप्रदर्शनेन समर्थनं काव्यलिङ्गम् । व्याप्तिधर्मतासापेक्षनैयायिकलिङ्गव्यावर्तनाय काव्यविशेषणम् । इदं

वाक्यार्थहेतुकं काव्यलिङ्गम् । पदार्थहेतुकं यथा- भस्मोद्धूलन! भद्रमस्तु भवते, रुद्राक्षमाले! शुभं, हा सोपानपरम्परे! गिरिसुताकान्तालयालंकृते । अद्याराधनतोषितेन विभुना युष्मत्सपर्यासुखा- लोकोच्छेदिनि मोक्षनामनि महामोहे निलीयामहे ॥

  अत्र मोक्षस्य महामोहत्वमप्रसिद्धमिति तत्समर्थने सुखालोकोच्छेदिनीति पदार्थो हेतुः । क्वचित्पदार्थवाक्यार्थौ परस्परसापेक्षौ हेतुभावं भजतः । यथा वा -

चिकुरप्रकरा जयन्ति ते विदुषी मूर्धनि यान्विभर्ति सा । पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः ॥

  अत्र चामरस्य दमयन्तीकुन्तलभारसाम्याभावे विदुषी मूर्धनि यान्बिभर्ति सेति वाक्यार्थः, पशुनाप्यपुरस्कृतेनेति पदार्थश्चेत्युभयं मिलितं हेतुः । क्वचित्समर्थनीयार्थसमर्थनार्थे वाक्यार्थे पदार्थो हेतुः ॥

वपुः प्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे न क्वापि क्वचिदपि भवन्तं प्रणतवान् । नमन्मुक्तः सम्प्रत्यहमतनुरग्रेऽप्यनतिमा- नितीश! क्षन्तव्यं तदिदमपराधद्वयमपि ॥

  अत्र तावदपराधद्वयं समर्थनीयम् । अस्पष्टार्थत्वात् । तत्समर्थनं च पूर्वापरजन्मनोरनमनाभ्यां वाक्यार्थभूताभ्यां क्रियते ॥ अत्र द्वितीयवाक्यार्थेऽतनुत्वमेकपदार्थो हेतुः । अत्रापि सम्प्रति नमन्मुक्त इति वाक्यार्थोऽनेकपदार्थो वा हेतुः । क्वचित्परस्परविरुद्धयोः समर्थनीययोरुभयोः क्रमादुभौ हेतुभावं भजतः ॥

असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विस्रम्भेष्वथ च रसिकः शैलदुहितुः । प्रमोदं वो दिश्यात्कपटवटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥

  अत्र शिवस्य युगपत्कृत्रिमब्रह्मचर्यापनयनत्वरातदनुवर्तनेच्छयोर्विरुद्धयोः क्रमाद्गिरिजातीव्रतपसोऽसहिष्णुत्वं तत्सल्लापकौतुकं चेत्युभावर्थौ हेतुत्वेन निबद्धौ । क्वचित्परस्परविरुद्धयोरुभयोः समर्थनीययोरेक एव हेतुः । यथा-

जीयादम्बुधितनयाधररसमास्वादयन्मुरारिरयम् । अम्बुधिमथनक्लेशं कलयन्विफलं च सफलं च ॥

  अत्र विफलत्वसफलत्वकलनयोरुभयोर्विरुद्धयोरेक एवाम्बुधितनयाधररसास्वादो हेतुः । इदं काव्यलिङ्गं हेत्वलङ्कार इति केचिद्व्याजद्रुः ॥

हे गोदावरिदेवि! तावकतटोद्देशे कलिङ्गः कवि- र्वाग्देवीं बहुदेशदर्शनसखीं त्यक्त्वा विरक्तिं गतः । एनामर्णवमध्यसुप्तमुरभिन्नाभीसरोजासनं ब्रह्माणं गमय क्षितौ कथमसावेकाकिनी स्थास्यति ॥

  इत्यत्र ब्रह्मणः प्रापणं कथं गोदावर्या कर्तव्यमित्यसम्भावनीयार्थोपपादकस्यार्णवमध्येत्यादितद्विशेषणस्य न्यसनं श्लेषाख्यो गुण इति ‘श्लेषोऽविधटमानार्थघटकार्थस्य वर्णनम्' इति श्लेषलक्षणमिति च जयदेवेनोक्तम् । वस्तुतस्त्वत्रापि पदार्थहेतुकं काव्यलिङ्गमेव तद्भेदकाभावात् । 

ननु साभिप्रायपदार्थवाक्यार्थविन्यसनरूपात्परिकरात्काव्यलिङ्गस्य किं भेदकम् । उच्यते । परिकरे पदार्थवाक्यार्थबलात्प्रतीयमानार्थौ वाच्योपस्कारकतां भजतः । काव्यलिङ्गे तु पदार्थवाक्यार्थावेव हेतुभावं भजतः । ननु यद्यपि सुखालोकोच्छेदिनीत्यादिपदार्कहेतुककाव्यलिङ्गोदाहरणे ‘अग्रेऽप्यनतिमान्' इत्यादिवाक्यार्थहेतुकाव्यलिङ्गोदाहरणे च पदार्थवाक्यार्थावेव हेतुभावं भजतस्तथापि ‘पशुनाप्यपुरस्कृतेने’ति पदार्थहेतुकोदाहरणे ‘मच्चित्तेऽस्ति त्रिलोचन’ इति वाक्यार्थहेतुकोदाहरणे च प्रतीयमानार्थस्यापि हेतुकोट्यनुप्रवेशो दृश्यते पशुनेति ह्यविवेकित्वाभिप्रायगर्भम् । विदुषीत्यस्य प्रतिनिर्देश्यत्वात्त्रिलोचन इति च कन्दर्पदाहकतृतीयलोचनत्वाभिप्रायगर्भम् । कन्दर्पजयोपयोगित्वात्तस्य । सत्यम् । तथापि न तयोः परिकर एव किन्तु तदुत्थापितं काव्यलिइङ्गमपि ॥ प्रतीयमानाविवेकविशिष्टेन पशुनाप्यपुरस्कृतत्वस्यानेकपदार्थस्य प्रतीयमानकन्दर्पदाहकतृतीयलोचनविशिष्टस्य शिवस्य चित्ते सन्निधानस्य च वाक्यार्थस्य वाच्यस्यैव हेतुभावात् । नहि तयोर्वाच्ययोर्हेतुभावे ताभ्यां प्रतीयमानं मध्ये किंचिद्द्वारमस्ति । यथा सर्वाशुचिनिधानस्येत्यादिपदार्थपरिकरोदाहरणे सर्वाशुचिनिधानस्येत्यादिनानेकपदार्थेन प्रतीयमानं शरीरस्यासंरक्षणीयत्वम् । तथाच वाक्यार्थपरिकरोदाहरणे पर्यायोक्तविधया तत्तद्वाक्यार्थेन प्रतीयमानं नाहं व्यास इत्यादि । तस्मात्पशुनेत्यत्र त्रिलोचन इत्यत्र च प्रतीयमानं वाच्यस्यैव पदार्थस्य वाक्यार्थस्य च हेतुभावोपपादकतया काव्यलिङ्गस्याङ्गमेव । यथा – ‘यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरम्’ इत्यनेकवाक्यार्थहेतुककाव्यलिङ्गोदाहरणे त्वन्नेत्रसमानकान्तीत्यादिकानि इन्दीवरशशिहंसविशेषणणि तेषां वाक्यार्थानां हेतुभावोपपादकानीति । तत्र वाक्यार्थहेतुककाव्यलिङ्गे पदार्थहेतुककाव्यलिङ्गमङ्गमिति न तयोः काव्यलिङ्गोदाहरणत्वे काचिदनुपपत्तिः ॥ १२१ ॥ अथोपगूडे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा । कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥ दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसामतीव ॥'

  इत्याद्यर्थान्तरन्यासोदाहरणेषु प्रस्तुतस्य समर्थनार्थित्वमस्तीति । वस्तुतस्तु प्रायोवादोऽयम् । अर्थान्तरन्यासेऽपि हि विशेषस्य सामान्येन समर्थनानपेक्षत्वेऽपि सामान्यं विशेषेण समर्थनमपेक्षत एव 'निर्विशेषं न सामान्य'मिति न्यायेन ‘बहूनामप्यसाराणां संयोगः कार्यसाधकः' इत्यादि सामान्यस्य ‘तृणैरारभ्यते रज्जुस्तया नागोऽपि बध्यते' इत्यादि सम्प्रतिपन्नविशेषावतरणं विना बुद्धौ प्रतिष्ठितत्वासम्भवात् ॥

नच तत्र सामान्यस्य 'कासां न सौभाग्यगुणोऽङ्गनाना’मित्यादिविशेषसमर्थनार्थसामान्यस्येव लोकसम्प्रतिपन्नतया विशेषावतरणं विनैव बुद्धौ प्रतिष्ठितत्वं सम्भवतीति श्लोके तन्न्यसनं नापेक्षितमस्तीति वाच्यम् । सामान्यस्य सर्वत्र लोकसम्प्रतिपन्नत्वनियमाभावात् । नहि यो यो धूमवान् स सोऽग्निमानिति व्याप्तिरूपसामान्यस्य लोकसम्प्रतिपन्नतया यथा महानस इति तद्विशेषरूपदृष्टान्तानुपादानसम्भवमात्रेणाप्रसिद्धव्याप्तिरूपसामान्योपन्यासेऽपि तद्विशेषरूपदृष्टान्तोपन्यासनैरपेक्ष्यं सम्भवति । न चैवं सामान्येन विशेषसमर्थनस्थलेऽपि क्वचित्तस्य सामान्यस्य लोकप्रसिद्धत्वाभावेन तस्य बुद्धावारोहाय पुनर्विशेषान्तरस्य न्यासप्रसङ्ग इति वाच्यम् । इष्टापत्तेः । अत्रैव विषये विकस्वरालङ्कारस्यानुपदमेव दर्शयिष्यमाणत्वात् । किंच काव्यलिङ्गेऽपि न सर्वत्र समर्थनसापेक्षत्वनियमः । ‘चिकुरप्रकरा जयन्ति ते' इत्यत्र तदभावादुपमानवस्तुषु वर्णनीयसाम्याभावेन निन्दायाः कविकुलक्षुण्णत्वेनात्र समर्थनापेक्षाविरहात् । नहि ‘तदास्यदास्येऽपि गतोऽधिकारितां न शारदः पार्वणशर्वरीश्वरः’ इत्यादिषु समर्थनं दृश्यते । 'न विषेण न शस्त्रेण नाग्निना नच मृत्युना । अप्रतीकारपारुष्याः स्त्रीभिरेव स्त्रियः कृताः ॥'

  इत्यादिकाव्यलिङ्गविषयेषु समर्थनापेक्षाविरहेऽप्यप्रतीकारपारुष्या इत्यादिना समर्थनदर्शनाच्च । नहि तत्र स्त्रीणां विषादिनिर्मितत्वाभावप्रतिपादनं समर्थनसापेक्षं प्रसिद्धत्वात् । तस्मादुभयतो व्यभिचारात्समर्थनापेक्षसमर्थने काव्यलिङ्गं तन्निरपेक्षसमर्थनेऽर्थान्तरन्यास इति न विभागः, किन्तु सामर्थ्यसमर्थकयोः सामान्यविशेषसम्बन्धेऽर्थान्तरन्यासस्तदितरसम्बन्धे काव्यलिङ्गमित्येव व्यवस्थावधारणीया । प्रपञ्चश्चित्रमीमांसायां द्रष्टव्यः ।
  एवमप्रकृतेन प्रकृतसमर्थनमुदाहृतम् । प्रकृतेनाप्रकृतसमर्थनं यथा-

यदुच्यते पार्वति! पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः । तथाहि ते शीलमुदारदर्शने तपस्विनामप्युपदेशतां गतम् ॥ यथा वा - दानं ददत्यपि जलैः सहसाधिरूढे को विद्यमानगतिरासितुमुत्सहेत । यद्दन्तिनः कटकटाहतटान्मिमङ्क्षो- र्मङ्क्षूदपाति परितः पटलैरलीनाम् ॥ १२२ ॥ १२३ ॥ विकस्वरालङ्कारः ६२ यस्मिन्विशेषसामान्यविशेषाः स विकस्वरः । स न जिग्ये; महान्तो हि दुर्धर्षाः सागरा इव ॥ १२४॥

  यत्र कस्यचिद्विशेषस्य समर्थनार्थं सामान्यं विन्यस्य तत्प्रसिद्धावप्यपरितुप्यता कविना तत्समर्थनाय पुनर्विशेषान्तरमुपमानरीत्यार्थान्तरन्यासविधया वा विन्यस्यते तत्र विकस्त्वरालङ्कारः । उत्तरार्धं यथाकथंचिदुदाहरणम् । इदं तु व्यक्तमुदाहरणम् ।

अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्। एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥ इदमुपमानरीत्या विशेषान्तरस्य न्यसने उदाहरणम् । अर्थान्तरन्यासविधया यथा - कर्णारुन्तुदमन्तरेण रणितं गाहस्व काक! स्वयं माकन्दं मकरन्दशालिनमिह त्वां मन्महे कोकिलम् । धन्यानि स्थलवैभवेन कतिचिद्वस्तूनि; कस्तूरिकां नेपालक्षितिपालभालपतिते पङ्के न शङ्केत कः ॥ मालिन्यमब्जशशिनोर्मधुलिट्कलङ्कौ धत्तो मुखे तु तव दृक्तिलकाञ्जनाभाम् । दोषावितः क्वचन मेलनतो गुणत्वं; वक्तुर्गुणौ हि वचसि भ्रमविप्रलम्भौ ॥ १२४ ॥ प्रौढोक्त्यलङ्कारः ६३ प्रौढोक्तिरुत्कर्षाहेतौ तद्धेतुत्वप्रकल्पनम् । कचाः कलिन्दजातीरतमालस्तोममेचकाः ॥ १२५ ॥

 कार्यातिशयाहेतौ तद्धेतुत्वप्रकल्पनं प्रौढोक्तिः । यथा तमालगतनैल्यातिशयाहेतौ यमुनातटरोहणे तद्धेतुत्वप्रकल्पनम् । यथा वा -

कल्पतरु-कामदोग्ध्री-चिन्तामणि-धनद-शङ्खानाम् । रचितो रजोभर-पयस्तेजः-श्वासान्तराम्बरैरेषः ॥

  अत्र कल्पवृक्षाद्येकैकवितरणातिशायिवर्णनीयराजवितरणातिशयाहेतौ कल्पवृक्षपरागादिरूपपञ्चभूतनिर्मितत्वेन तद्धेतुत्वप्रकल्पनं प्रौढोक्तिः ॥ १२५ ॥ सम्भावनालङ्कारः ६४

सम्भावना यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये । यदि शेषो भवेद्वक्ता कथिताः स्युर्गुणास्तव ॥ १२६ ॥ यथा वा - कस्तूरिकामृगाणामण्डाद्गन्धगुणमखिलमादाय । यदि पुनरहं विधिः स्वां खलजिह्वायां निवेशयिष्यामि ॥

  यद्यर्थोक्तौ च कल्पनमतिशयोक्तिभेद इति काव्यप्रकाशकारः ॥ १२६ ॥

मिथ्याध्यवसित्यलङ्कारः ६५ किंचिन्मिथ्यात्वसिद्ध्यर्थं मिथ्यार्थान्तरकल्पनम् । मिथ्याध्यवसितिर्वेश्यां वशयेत्खस्रजं वहन् ॥ १२७ ॥

  अत्र वेश्यावशीकरणस्यात्यन्तासम्भावितत्वसिद्धये गगनकुसुममालिकाधारणरूपार्थान्तरकल्पनं मिथ्याध्यवसितिः । यथा वा -

अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः सङ्ख्यया प्रज्ञाचक्षुरवेक्ष्यमाणबधिरश्राव्याः किलाकीर्तयः । गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरा- न्मूकानां प्रकरेण कूर्मरमणीदुग्धोदधे रोधसि ॥

  अत्राद्योदाहरणं निदर्शनागर्भं । द्वितीयं तु शुद्धम् । असम्बन्धे सम्बन्धरूपातिशयोक्तितो मिथ्याध्यवसितेः किंचिन्मिथ्यात्वसिध्यर्थं मिथ्यार्थान्तरकल्पनात्मना विच्छित्तिविशेषेण भेदः ॥ १२७ ॥

ललितालङ्कारः ६६ वर्ण्ये स्याद्वर्णवृत्तान्तप्रतिविम्वस्य वर्णनम् । ललितं निर्गते नीरे सेतुमेषा चिकीर्षति ॥ १२८ ॥

  प्रस्तुते धर्मिणि यो वर्णनीयो वृत्तान्तस्तमवर्णयित्वा तत्रैव तत्प्रतिबिम्बरूपस्य कस्यचिदप्रस्तुतवृत्तान्तस्य वर्णनं ललितम् । यथाकथञ्चिद्दाक्षिण्यसमागत-तत्कालोपेक्षित-प्रतिनिवृत्त-नायिकान्तरासक्त-नायकानयनार्थं सखीं प्रेषयितुकामां नायिकामुद्दिश्य सख्या वचनेन तद्व्यापारप्रतिबिम्बभूत-गलजलसेतुबन्धनवर्णनम् । 

नेयमप्रस्तुतप्रशंसा, प्रस्तुतधर्मिकत्वात्, नापि समासोक्तिः प्रस्तुतवृत्तान्ते वर्ण्यमाने विशेषणसाधारण्येन सारूप्येण वाऽप्रस्तववृत्तान्तस्फूर्त्यभावात्, अप्रस्तुतवृत्तान्तादेव सरूपादिह प्रस्तुतवृत्तान्तस्य गम्यत्वात् । नापि निदर्शना, प्रस्तुताप्रस्तुतवृत्तान्तयोः शब्दोपात्तयोरैक्यसमारोप एव तस्याः समुन्मेषात् । यदि विषयविषयिणोः शब्दोपात्तयोः प्रवर्तमान एवालङ्कारो विषयिमात्रोपादानेऽपि स्यात्तदा रूपकमेव भेदेऽप्यभेदरूपाया अतिशयोक्तेरपि विषयमाक्रामेत । ननु तर्ह्यत्र प्रस्तुतनायकादिनिगरणेन तत्र शब्दोपात्ताप्रस्तुतनीराद्यभेदाध्यवसाय इति भेदे अभेदरूपातिशयोक्तिरस्तु । एवं तर्हि सारूप्यनिबन्धना अप्रस्तुतप्रशंसाविषयेऽपि सैवातिशयोक्तिः स्यात् । अप्रस्तुतधर्मिकत्वान्न भवतीति चेत्, तत्राप्यप्रस्तुतधर्मिवाचकपदस्यापि प्रसिद्धातिशयोक्त्युदाहरणेष्विव प्रस्तुतधर्मिलक्षकत्वसम्भवात् । नन्वप्रस्तुतप्रशंसायां सरूपादप्रस्तुतवाक्यार्तात्प्रस्तुतवाक्यार्थोऽवगम्यते नत्वतिशयोक्ताविव विषयवाचकैस्तत्तत्पदैर्विषया लक्ष्यन्त इति भेद इति चेत्तर्हि इहापि प्रस्तुतगतादप्रस्तुतवृत्तान्तरूपाद्वाक्यार्थात्तद्गतप्रस्तुतवृत्तान्तरूपो वाक्यार्थोऽवग्म्यत इत्येवातिशयोक्तितो भेदोऽस्तु । वस्तुतस्तु- सोऽपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं दृष्टिः सा मदविस्मृतस्वपरदिक्किं भूयसोक्तेन वा । पूर्वं निश्चितवानसि भ्रमर! हे यद्वारणोऽद्याप्यसा- वन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः ॥'

  इत्याद्यप्रस्तुतप्रशंसोदाहरणे प्रथमप्रतीतादप्रस्तुतवाक्यार्थात्प्रस्तुतवाक्यार्थोऽवगम्यत इत्येतन्न घटते । अप्रस्तुते वारणस्य भ्रमरासेव्यत्वे कर्णचापलमात्रस्य भ्रमरनिराकरणहेतुत्वसम्भवेऽपि रसनाविपर्ययान्तःशून्यकरत्वयोर्हेतुत्वासम्भवेन मदस्य प्रत्युत तत्सेव्यत्व एव हेतुत्वेन च रसनाविपर्ययादीनां तत्र हेतुत्वान्वयार्थं वारणपदस्य दुष्प्रभुरूपविषयक्रोडीकारेणैव प्रवृत्तेर्वक्तव्यत्वात् । एवं सत्यपि यद्यप्रस्तुतसम्बोधनादिविच्छित्तिविशेषात्तत्राप्रस्तुतप्रशंसाया अतिशयोक्तितो भेदो घटते तदाऽत्रापि प्रस्तुतं धर्मिणं स्वपदेन निर्दिश्य तत्राप्रस्तुतवर्णनारूपस्य विच्छित्तिविशेषस्य सद्भावात्ततो भेदः सुतरां घटते । 'पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति' 'वापी कापि स्फुरति गगने तत्परं सूक्ष्मपद्या' इत्यादिषु तु प्रस्तुतस्य कस्यचिद्धर्मिणः स्ववाचकेनानिर्दिष्टत्वादतिशयोक्तिरेव । एतेन गतजलसेतुबन्धवर्णनादिष्वसम्बन्धे सम्बन्धातिशयोक्तिरस्त्विति शङ्कापि निरस्ता । तथा सति कस्त्वं भोः! कथयामीत्यादावपि तत्प्रसङ्गात्सारूप्यनिबन्धनप्रस्तुतवाक्यार्थावगतिरूपविच्छित्तिविशेषादलङ्कारान्तरकल्पनंत्विहापि तुल्यम् । तस्मात्सर्वालङ्कारविलक्षणमिदं ललितम् । यथा वा -

क्व सूर्यप्रभवो वंशः, क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥

  अत्रापि निदर्शनाभ्रान्तिर्न कार्या । अल्पविषयया मत्या सूर्यवंशं वर्णयितुमिच्छुरहमिति प्रस्तुतवृत्तान्तानुपन्यासात्तत्प्रतिबिम्बभूतस्य उडुपेन सागरं तितीर्षुरस्मीत्यप्रस्तुतवृत्तान्तस्य वर्णनेनादौ विषमालङ्कारविन्यसनेन च केवलं तत्र तात्पर्यस्य गम्यमानत्वात् । यथा वा -

अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य । त्वदाप्तसङ्केततया कृतार्था श्राव्यापि नानेन जनेन संज्ञा ॥

  अत्र कतमो देशस्त्वया परित्यक्तः इति प्रस्तुतार्थमनुपन्यस्य वसन्तमुक्तस्य वानस्य दशामनायीति तत्प्रतिबिम्बभूतार्थमात्रोपन्यासाल्ललितालङ्कारः ॥ १२८॥

प्रहर्षणालङ्कारः ६७ उत्कण्ठितार्थसंसिद्धिर्विना यत्नं प्रहर्षणम् । तामेव ध्यायते तस्मै निसृष्टा सैव दूतिका ॥ १२९ ॥

  उत्कण्ठा इच्छाविशेषः ।

`सर्वेन्द्रियसुखास्वादो यत्रास्तीत्यभिमन्यते । तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः ॥'

  इत्युक्तलक्षणात्तद्विषयस्यार्थस्य तदुपायसम्पादनयत्नं विना सिद्धिः प्रहर्षणम्। उदाहरणं स्पष्टम् । यथा वा -

मेधैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै- र्नक्तं भीरुरयं त्वमेव तदिमं राधे! गृहं प्रापय । इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥

  अत्र राधामाधवयोः परस्परमुत्कण्ठितत्वं प्रसिद्धतरमग्रे च ग्रन्थकारेण 

निबद्धमित्यत्रोदाहरणे लक्षणानुगतिः ॥ १२९ ॥ वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम् । दीपमुद्योजयेद्यावत्तावदभ्युदितो रविः ॥ १३० ॥ स्पष्टम् । यथा वा - चातकस्त्रिचतुरान्पयःकणान्याचते जलधरं पिपासया । सोऽपि पूरयति विश्वमम्भसा हन्त! हन्त महतामुदारता ॥ १३० ॥ यत्नादुपायसिद्ध्यर्थात्साक्षाल्लाभः फलस्य च । निध्यञ्जनौषधीमूलं खनता साधितो निधिः ॥ १३१ ॥

  फलोपायसिद्ध्यर्थाद्यत्नान्मध्ये उपायसिद्धिमनपेक्ष्य साक्षात्फलस्यैव लाभोऽपि प्रहर्षणम् । यथा निध्यञ्जनसिध्यर्थं मूलिकां खनतस्तत्रैव निधेर्लाभः ।

यथा वा - उच्चित्य प्रथममधःस्थितं मृगाक्षी पुष्पौघं श्रितविटपं ग्रहीतुकामा । आरोढुं पदमदधादशोकयष्टावामूलं पुनरपि तेन पुष्पिताऽभूत् ॥

  अत्र पुष्पग्रहणोपायभूतारोहणसिद्ध्यर्थात्पदनिधानात्तत्रैव पुष्पग्रहणलाभः ॥ १३१ ॥

विषादनालङ्कारः ६८ इष्यमाणविरुद्धार्थसम्प्राप्तिस्तु विषादनम् । दीपमुद्योजयेद्यावन्निर्वाणस्तावदेव सः ॥ १३२ ॥ यथा वा - रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त! हन्त नलिनीं गज उज्जहार ॥ १३२ ॥ उल्लासालङ्कारः ६९ एकस्य गुणदोषाभ्यामुल्लासोऽन्यस्य तौ यदि । अपि मां पावयेत्साध्वी स्नात्वेतीच्छति जाह्नवी ॥१३३॥ काठिन्यं कुचयोः स्रष्टुं वाञ्छन्त्यः पादपद्मयोः । निन्दन्ति च विधातारं त्वद्धाटीष्वरियोषितः ॥ १३४ ॥ तदभाग्यं धनस्यैव यन्नाश्रयति सञ्जनम् । लाभोऽयमेव भूपालसेवकानां न चेद्वधः ॥ १३५ ॥

  यत्र कस्यचिद्रुणेनान्यस्य गुणो, दोषेण दोषो, गुणेन दोषो, दोषेण गुणो वा वर्ण्यते स उल्लासः । द्वितीयार्धमाद्यस्योदाहरणम् । तत्र पतिव्रतामहिमगुणेन तदीयस्नानतो गङ्गायाः पावनत्वगुणो वर्णितः । द्वितीयश्लोके द्वितीयस्योदाहरणम् । तत्र राज्ञो धाटीषु वने पलायमानानामरातियोषितां पादयोर्धावनपरिपन्थिमार्दवदोषेण तयोः काठिन्यमसृष्ट्वा व्यर्थं कुचयोस्तत्सृष्टवतो धातुर्निन्द्यत्वदोषो वर्णितः । तृतीयश्लोकस्तृतीयचतुर्थयोरुदाहरणम् । तत्र सज्जनमहिमगुणेन धनस्य तदनाश्रयणं दोषत्वेन, राज्ञः क्रौर्यदोषेण तत्सेवकानां वधं विना विनिर्गमनं गुणत्वेन वर्णितम् ॥ अनेनैव क्रमेणोदाहरणान्तराणि ।

यदयं रथसंक्षोभादंसेनांसो निपीडितः । एकः कृती तदङ्गेषु शेषमङ्गं भुवो भरः ॥

  अत्र नायिकासौन्दर्यगुणेन तदंसपीडितस्य स्वांसस्य कृतित्वगुणो वर्णितः ॥

लोकानन्दन चन्दनद्रुम सखे नास्मिन् वने स्थीयतां दुर्वंशैः परुषैरसारहृदयैराक्रान्तमेतद्वनम् । ते ह्यन्योन्यनिघर्षजातदहनज्वालावलीसंकुला न स्वान्येव कुलानि केवलमहो सर्वं दहेयुर्वनम् ॥

  अत्र वेणूनां परस्परसङ्घर्षणसञ्जातदहनसङ्कुलत्वदोषेण वननाशरूपदोषो वर्णितः ।

दानार्थिनो मधुकरा यदि कर्णतालै- र्दूरीकृताः करिवरेण मदान्धबुद्ध्या । तस्यैव गण्डयुगमण्डनहानिरेषा भृङ्गाः पुनर्विकचपद्मवने चरन्ति ॥

  अत्र भ्रमराणामलङ्करणत्वगुणेन गजस्य तत्प्रतिक्षेपो दोषत्वेन वर्णितः ।

आघ्रातं परिचुम्बितं परिमुहुर्लीढं पुनश्चर्वितं त्यक्तं वा भुवि नीरसेन मनसा तत्र व्यथां मा कृथाः । हे! सद्रत्न! तवैतदेव कुशलं यद्वानरेणादरा- दन्तःसारविलोकनव्यसनिना चूर्णीकृतं नाश्मना ॥

  अत्र वानरस्य चापलदोषेण रत्नस्य चूर्णनाभावो गुणत्वेन वर्णितः । अत्र प्रथमचतुर्थयोरुल्लासोऽन्वर्थः । मध्यमयोश्छत्रिन्यायेन लाक्षणिकः ॥१३३-१३५॥

अवज्ञालङ्कारः ७० ताभ्यां तौ यदि न स्यातामवज्ञालङ्कृतिस्तु सा । स्वल्पमेवाम्बु लभते प्रस्थं प्राप्यापि सागरम् ॥ मीलन्ति यदि पद्मानि का हानिरमृतद्युतेः ॥ १३६ ॥

  ताभ्यां गुणदोषाभ्यां । तौ गुणदोषौ । अत्र कस्यचिद्गुणेनान्यस्य गुणालाभे द्वितीयार्धमुदाहरणम् । दोषेण दोषस्याप्राप्तौ तृतीयार्धम् । यथा-

मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः किमस्या नाम स्यादलसपुरुषानादरभरैः । यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्तःकरणहरणं नैव कुरुते ॥ त्वं चेत्संचरसे वृषेण लघुता का नाम दिग्दन्तिनां व्यालैः कङ्कणभूषणानि कुरुषे हानिर्न हेम्नामपि । मूर्धन्यं कुरुषे जलांशुमयशः किंनाम लोकत्रयी- दीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे ॥

  अत्राद्ये कवितारमणीयगुणाभ्यामरसबालकयोर्हृदयोल्लासरूपगुणाभावो वर्णितः । द्वितीये परमेश्वरानङ्गीकरणदोषेण दिग्गजादीनां लघुतादिदोषाभावो वर्णितः ॥ १३६ ॥

अनुज्ञालङ्कारः ७१ दोषस्याभ्यर्थनाऽनुज्ञा तत्रैव गुणदर्शनात् । विपदः सन्तु नः शश्वद्यासु संकीर्त्यते हरिः ॥ १३७ ॥ यथा वा - मय्येव जीर्णतां यातु यत्त्वयोपकृतं हरे! । नरः प्रत्युपकारार्थी विपत्तिमभिकाङ्क्षति ॥

  इयं हनुमन्तं प्रति राघवस्योक्तिः । अत्र प्रत्युपकाराभावो दोषस्तदभ्युपगमे हेतुर्गुणो विपत्त्याकाङ्क्षाया अप्रसक्तिः । सा च व्यतिरेकमुखप्रवृत्तेन सामान्येन विशेषसमर्थनरूपेणार्थान्तरन्यासेन दर्शिता । यथा वा -

व्रजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसम्पदः प्रमथनाथ! नाथामहे । भवद्भवनदेहलीविकटतुण्डदण्डाहति- त्रुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते ॥ १३७ ॥ लेशालङ्कारः ७२ लेशः स्याद्दोषगुणयोर्गुणदोषत्वकल्पनम् । अखिलेषु विहङ्गेषु हन्त! स्वच्छन्दचारिषु ॥ शुक! पञ्जरबन्धस्ते मधुराणां गिरां फलम् ॥ १३८ ॥

  दोषस्य गुणत्वकल्पनं गुणस्य दोषत्वकल्पनं च लेशः । उदाहरणं राज्ञोऽभिमते विदुषि पुत्रे चिरं राजधान्यां प्रवसति तद्दर्शनोत्कण्ठितस्य गृहे स्थितस्य पितुर्वचनमप्रस्तुतप्रशंसारूपम् । तत्र प्रथमार्धे इतरविहगानामवक्तृत्वदोषस्य स्वच्छन्दचरणानुकूलतया गुणत्वं कल्पितम् । द्वितीयार्धे मधुरभाषित्वस्य गुणस्य पञ्जरबन्धहेतुतया दोषत्वं कल्पितम् । न चात्र व्याजस्तुतिराशङ्कनीया । नह्यत्र विहगान्तराणां स्तुतिव्याजेन निन्दायां शुकस्य निन्दाव्याजेन स्तुतौ च तात्पर्यम् । किन्तु पुत्रदर्शनोत्कण्ठितस्य दोषगुणयोर्गुणदोषत्वाभिमान एवात्र श्लोके निबद्धः । यथा वा -

सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा । अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥ दण्डी त्वत्रोदाजहार- युवैष गुणवान् राजा योग्यस्ते पतिरूर्जितः । रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि ॥ चपलो निर्दयश्चासौ जनः किं तेन मे सखि! । आगःप्रमार्जनायैव चाटवो येन शिक्षिताः ॥'

  अत्राद्यश्लोके राज्ञो वीर्योत्कर्षस्तुतिः । कन्याया निरन्तरसम्भोगनिविवर्तिषया दोषत्वेन प्रतिभासतामित्यभिप्रेत्य विदग्धया सख्या राजप्रकोपपरिजिहीर्षया स एव दोषो गुणत्वेन वर्णितः । उत्तरश्लोके सखीभिरुपदिष्टं मानं कर्तुमशक्तयापि तदग्रतो मानपरिग्रहानुगुण्यं प्रतिज्ञाय तदनिर्वाहमाशङ्कमानया सखीनामुपहासं परिजिहीर्षन्त्या नायिकया नायकस्य चाटुकारितागुण एव दोषत्वेन वर्णितः । नचाद्यश्लोके स्तुतिर्निन्दापर्यवसायिनी द्वितीयश्लोके निन्दा स्तुतिपर्यवसायिनीति व्याजस्तुतिराशङ्कनीया । राजप्रकोपादिपरिहारार्थमिह निन्दास्तुत्योरन्याविदिततया लेशत एवोद्घाटनेन ततो विशेषादिति । वस्तुतस्त्विह व्याजस्तुतिसद्भावेऽपि न दोषः । नह्येतावता लेशमात्रस्य व्याजस्तुत्यन्तर्भावः प्रसज्यते । तदसङ्कीर्णयोरपि लेशोदाहरणयोर्दर्शितत्वात् । नापि व्याजस्तुतिमात्रस्य लेशान्तर्भावः प्रसज्यते । भिन्नविषयव्याजस्तुत्युदाहरणेषु 'कस्त्वं वानर! रार्मराजभवने लेखार्थसंवाहको’ ‘यद्वक्त्रं मुहुरीक्षसे न धनिनां ब्रूषे न चाटून्मृषा' इत्यादिषु दोषगुणीकरणस्य गुणदोषीकरणस्य चाभावात् । तत्रान्यगुणदोषाभ्यामन्यत्र गुणदोषयोः प्रतीतेः ॥ विषयैक्येऽपि 

इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारि- दिङ्नागानां मदजलमषीभाञ्जि गण्डस्थलानि । अद्याप्युर्वीवलयतिलकश्यामलिम्नाऽनुलिप्ता- न्याभासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ॥' इत्याद्युदाहरणेषु लेशास्पर्शनात् । तत्र हीन्दुलक्ष्मादीनां धवलीकरणाभावदोष एव गुणत्वेन न पर्यवस्यति किन्तु परिसङ्ख्यारूपेण ततोऽन्यत्सर्वं धवलितमित्यन्यो गुणः प्रतीयते । क्वचिद्व्याजस्तुत्युदाहरणे गुणदोषीकरणसत्त्वेऽपि स्तुतेर्विषयान्तरमपि दृश्यते । यथा- सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे बुधैः । नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥

  अत्रहि वाच्यया निन्दया परिसङ्ख्यारूपेण ततोऽन्यत्सर्वमर्थिनामभिमतं दीनारादि दीयते इति स्तुत्यन्तरमपि प्रतीयते । एवंच येषूदाहरणेषु 'कस्ते शौर्यमदो योद्धु’मित्यादिषु गुणदोषादिषु गुणदोषीकरणादिकमेव व्याजस्तुतिरूपतयाऽवतिष्ठते, तत्र लेशव्याजस्तुत्योः सङ्करोऽस्तु । इत्थमेव हि व्याजस्तुत्यप्रस्तुतप्रशंसयोरपि प्राक्सङ्करो वर्णितः ॥ १३८ ॥

मुद्रालङ्कारः ७३ सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः । नितम्बगुर्वी तरुणी दृग्युग्मविपुला च सा ॥ १३९ ।

  अत्र नायिकावर्णनपरेण युग्मविपुलापदेनास्यानुष्टुभो युग्मविपुलानामत्वरूपसूच्यार्थसूचनं मुद्रा । यद्यप्यत्र ग्रन्थे वृत्तनाम्नो नास्ति सूचनीयत्वं तथाप्यस्योत्तरार्धस्य लक्ष्यलक्षणयुक्तच्छन्दःशास्त्रमध्यपातित्वेन तस्य सूचनीयत्वमस्तीति तदभिप्रायेण लक्षणं योज्यम् । एवं नवरत्नमालायां तत्तद्रत्ननामनिवेशेन तत्तन्नामकजातिसूचनम् । नक्षत्रमालायामग्न्यादिदेवतानामभिर्नक्षत्रसूचनमित्यादावयमेवालङ्कारः । एवं नाटकेषु वक्ष्यमाणार्थसूचनेष्वपि॥१३९॥

रत्नावल्यलङ्कारः ७४ क्रमिकं प्रकृतार्थानां न्यासं रत्नावलीं विदुः । चतुरास्यः पतिर्लक्ष्म्याः सर्वज्ञस्त्वं महीपते! ॥ १४० ॥

  अत्र चतुरास्यादिपदैर्वर्णनीयस्य ब्रह्मविष्णुरुद्रात्मता प्रतीयत इति प्रसिद्धसहपाठानां क्रमेण निवेशनं रत्नावली । यथा वा -

रत्याप्तप्रियलाञ्छने कठिनतावासे रसालिङ्गिते प्रह्लादैकरसे क्रमादुपचिते भूभृद्गुरुत्वापहे । कोकस्पर्धिनि भोगभाजि जनितानङ्गे खलीनोन्मुखे भाति श्रीरमणावतारदशकं बाले भवत्याः स्तने ॥ यथा वा - लीलाब्जानां नयनयुगलद्राधिमा दत्तपत्रः कुम्भावेतौ कुचपरिकरः पूर्वपक्षीचकार । भ्रूविभ्रान्तिर्मदनधनुषो विभ्रमानन्ववदी- द्वक्त्रज्योत्सा शशधररुचं दूषयामास यस्याः

  अत्र पत्रदान-पूर्वपक्षोपन्यासानुवाद-दूषणोद्भावनानि बुधजनप्रसिद्धक्रमेण न्यस्तानि । प्रसिद्धसहपाठानां प्रसिद्धक्रमाननुसरणेऽप्ययमेवालङ्कारः । यथा वा –

‘यस्य वह्निमयो हृदयेषु जलमयो लोचनपुटेषु मारुतमयः श्वसितेषु क्षमामयोऽङ्गेष्वाकाशमयः स्वान्तेषु पञ्चमहाभूतमयो मूर्त इवादृश्यत निहतप्रतिसामन्तान्तःपुरेषु प्रतापः ।' एवमष्टलोकपाल-नवग्रहादीनां प्रसिद्धसहपाठानां यथाकथञ्चित्प्रकृतोपमानोपरञ्जकतादिप्रकारेण निवेशने रत्नावल्यङ्कारः । प्रकृतान्वयं विना क्रमिकतत्तन्नाम्ना श्लेषभक्त्या निवेशने क्रमप्रसिद्धरहितानां??? प्रसिद्धसहपाठानां नवरत्नादीनां निवेशनेऽप्ययमेवालंकरः ॥१४०॥ तद्गुणालङ्कारः ७५ तद्गुणः स्वगुणत्यागादन्यदीयगुणग्रहः । पद्मरागायते नासामौक्तिकं तेऽधरत्विषा ॥ १४१ ॥ यथा वा - वीर! त्वद्रिपुरमणी परिधातुं पल्लवानि संस्पृश्य । न हरति वनभुवि निजकररुहखचितानि पाण्डुपत्रधिया ॥ १४१ ॥ पूर्वरूपालङ्कारः ७६ पुनः स्वगुणसंप्राप्तिः पूर्वरूपमुदाहृतम् । हरकण्ठांशुलिप्तोऽपि शेषस्त्वद्यशसा सितः ॥ १४२ ॥ यथावा - विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या । रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥

  अयमेव तद्गुण इति केचिद्व्यवजह्रुः ॥ १४२ ॥

पूर्वावस्थानुवृत्तिश्च विकृते सति वस्तुनि । दीपे निर्वापितेऽप्यासीत्काञ्चीरत्नैर्महन्महः ॥ १४३ ॥

  लक्षणे चकारात्पूर्वरूपमिति लक्ष्यवाचकपदानुवृत्तिः । यथा वा -

द्वारं खङ्गिभिरावृतं बहिरपि प्रस्विन्नगण्डैर्गजै- रन्तः कञ्चुकिभिः स्फुरन्मणिधरैरध्यासिता भूमयः । आक्रान्तं महिषीभिरेव शयनं त्वद्विद्विषां मन्दिरे राजन्यैव चिरन्तनप्रणयिनी शून्येऽपि राज्यस्थितिः ॥ १४३ ॥ अतद्गुणालङ्कारः ७७ सङ्गतान्यगुणानङ्गीकारमाहुरतद्गुणम् । चिरं रागिणि मच्चित्ते निहितोऽपि न रञ्जसि ॥ १४४॥ यथा वा - गण्डाभोगे विहरसि मदैः पिच्छिले दिग्गजानां वैरिस्त्रीणां नयनकमलेष्वञ्जनानि प्रमार्ष्टि । यद्यप्येषा हिमकरकराद्वैतसौवस्तिकी ते कीर्तिर्दिक्षु स्फुरति तदपि श्रीनृसिहक्षितीन्द्र! ॥

  ननु चान्यगुणेनान्यत्र गुणोदयानुदयरूपाभ्यामुल्लासावज्ञालङ्काराभ्यां तदुणातद्गुणयोः को भेदः । उच्यते । उल्लासावज्ञालक्षणयोर्गुणशब्दो दोषप्रतिपक्षवाची । अन्यगुणेनान्यत्र गुणोदयतदनुदयौ च न तस्यैव गुणस्य सङ्क्रमणासङ्क्रमणे किन्तु सद्गुरूपदेशेन सदसच्छिष्ययोर्ज्ञानोत्पत्त्यनुत्पत्तिवत्तद्गुणजन्यत्वेन सम्भावितयोर्गुणान्तरयोरुत्पत्त्यनुत्पत्ती । तद्गुणातद्गुणयोः पुनर्गुणशब्दो रूपरसगन्धादिगुणवाची । तत्रान्यदीयगुणग्रहणाग्रहणे च रक्तस्फटिकवस्त्रमालिन्यन्यायेनान्यदीयगुणेनैवानुरञ्जनाननुरञ्जने विवक्षिते । तथैव चोदाहरणानि दर्शितानि । यद्यष्यवज्ञालङ्कृतिरतद्गुणश्च विशेषोक्तिविशेषावेव । 'कार्या न निर्विशेषोक्तिः सति पुष्कलकारणे' इति तत्सामान्यलक्षणाक्रान्तत्वात् । तथाप्युल्लासतद्गुणप्रतिद्वन्द्विना विशेषालङ्कारेणालङ्कारान्तरतया परिगणिताविति ध्येयम् ॥ १४४ ॥

अनुगुणालङ्कारः ७८ प्राक्सिद्धस्वगुणोत्कर्षोऽनुगुणः परसन्निधेः । नीलोत्पलानि दधते कटाक्षैरतिनीलताम् ॥ १४५ ॥ कपिरपि च कापिशायनमदमत्तो वृश्चिकेन सन्दष्टः । अपि च पिशाचग्रस्तः किं ब्रूमो वैकृतं तस्य ॥

  अत्र कपित्वजात्या स्वतःसिद्धस्य वैकृतस्य मद्यादिभिरुत्कर्षः ॥ १४५ ॥ 

मीलितालङ्कारः ७९ मीलितं यदि सादृश्याद्भेद एव न लक्ष्यते । रसो नालक्षि लाक्षायाश्चरणे सहजारुणे ॥ १४६ ॥ यथा वा - मल्लिकामाल्यभारिण्यः सर्वाङ्गीणार्द्रचन्दनाः । क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥ अत्राद्ये चरणालक्तकरसयोररुणिमगुणसाम्याद्भेदानध्यवसायः । द्वितीयोदाहरणे चन्द्रिकाभिसारिकाणां धवलिमगुणसाम्याद्भेदानध्यवसायः ॥१४६ सामान्यालङ्कारः ८० सामान्यं यदि सादृश्याद्विशेषो नोपलक्ष्यते । पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम् ॥ १४७ ॥ यथा वा - रत्नस्तम्भेषु संक्रान्तैः प्रतिबिम्बशतैर्वृतः । लङ्केश्वरः सभामध्ये न ज्ञातो वालिसूनुना ॥

  मीलितालङ्कारे एकेनापरस्य भिन्नस्वरूपानवभासरूपं मीलनं कियते । सामान्यालङ्कारे तु भिन्नस्वरूपावभासेऽपि व्यावर्तकविशेषो नोपलक्ष्यत हति भेदः । मीलितोदाहरणे हि चरणादेर्वस्त्वन्तरत्वेनागन्तुकं यावकादि च भासते । सामान्योदाहरणे तु पद्मानां मुखानां च व्यक्त्यन्तरतया भानमस्त्येव । यथा रावणदेहस्य तत्प्रतिबिम्बानां च, किंत्विदं पद्ममिदं मुखमयं बिम्बोऽयं प्रतिबिम्ब इति विशेषः परं नोपलक्ष्यते । अत एव भेदतिरोधानान्मीलितं तदतिरोधानेऽपि साम्येन व्यावर्तकानवभासे सामान्यमित्युभयोरप्यन्वर्थता । 

केचित्तु वस्तुद्वयस्य लक्षणसाम्यात्तयोः केनचिद्बलीयसा तदन्यस्य स्वरूपतिरोधाने मीलितं स्वरूपप्रतीतावपि गुणसाम्याद्भेदतिरोधाने सामान्यम् । एवंच- अपाङ्गतरले दृशौ तरलवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया तदत्र न महोदयः कृतपदोऽपि संलक्ष्यते ॥

  इत्यत्र मीलितालङ्कारः । अत्र हि दृक्तारल्यादीनां नारीवपुषः सहजधर्मत्वान्मदोदयकार्यत्वाच्च तदुभयसाधारण्यादुत्कृष्टतारल्यादियोगिना वपुषा मदोदयस्य स्वरूपमेव तिरोधीयते । लिङ्गसाधारण्येन तज्ज्ञानोपायाभावात् ।

मल्लिकामालभारिण्य इत्यादिषु तु सामन्यालङ्कार इत्याहुः । तन्मते पद्माकरप्रविष्टानामित्यादौ भेदाध्यवसायेऽपि व्यावर्तकास्फुरणेनालङ्कारान्तरेण भाव्यम् । सामान्यालङ्कारान्तरभेदेन वा पूर्वस्मिन्मते स्वरूपतिरोधानेऽलङ्कारान्तरेण भाव्यं मीलितावान्तरभेदेन वा ॥ १४७ ॥ उन्मीलित-विशेषालङ्कारौ ८१-८२ भेदवैशिष्ट्ययोः स्फूर्तावुन्मीलितविशेषकौ । हिमाद्रिं त्वद्यशोमग्नं सुराः शीतेन जानते ॥ लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च ॥ १४८ ॥

  मीलितन्यायेन भेदानध्यवसाये प्राप्ते कुतोऽपि हेतोर्भेदस्फूर्तौ मीलितप्रतिद्वन्द्व्युन्मीलितम् । तथा सामान्यरीत्या विशेषास्फुरणे प्राप्ते कुतश्चित्कारणाद्विशेषस्कूर्तौ तत्प्रतिद्वन्द्वी विशेषकः । क्रमेणोदाहरणद्वयम् । तद्गुणरीत्यापि भेदानध्यवसायप्राप्तावुन्मीलितं दृश्यते । यथा-

नृत्यद्भर्गाट्टहासप्रसरसहचरैस्तावकीनैर्यशोभि- धावल्यं नीयमाने त्रिजगति परितः श्रीनृसिंहक्षितीन्द्र! । नेदृग्यद्येष नाभीकमलपरिमलप्रौढिमासादयिष्य- द्देवानां नाभविष्यत्कथमपि कमलाकामुकस्यावबोधः ॥ काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः । वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥

  इदं विशेषकस्योदाहरणम् । अत्र द्वितीयकाकपिकशब्दौ काकत्वेन ज्ञातः पिकत्वेन ज्ञात इत्यर्थान्तरसङ्क्रमितवाच्यौ ॥ यथा वा -

वाराणसीवासवतां जनानां साधारणे शङ्करलाञ्छनेऽपि । पार्थप्रहारव्रणमुत्तमाङ्गं प्राचीनमीशं प्रकटीकरोति ॥ १४८ ॥ उत्तरालङ्कारः ८३ किंचिदाकूतसहितं स्याद्गूढोत्तरमुत्तरम् । यत्रासौ वेतसी पान्थ! तत्रेयं सुतरा सरित् ॥ १४९ ॥

  सरित्तरणमार्गं पृच्छन्तं प्रति तं कामयमानाया उत्तरमिदम् । वेतसीकुञ्जे स्वाच्छन्द्यमित्याकूतगर्भम् । यथा वा -

ग्रामेऽस्मिन्प्रस्तरप्राये न किञ्चित्पान्थ! विद्यते । पयोधरोन्नतिं दृष्ट्वा वस्तुमिच्छसि चेद्वस ॥

  आस्तरणादिकमर्थयमानं पान्थं प्रत्युक्तिरियम् । स्तनोन्नतिं दृष्ट्वा रन्तुमिच्छसि चेद्वस । अविदग्धजनप्रायेऽस्मिन्ग्रामे कश्चिदवगमिष्यतीत्येतादृशं प्रतिबन्धकं किञ्चिदपि नास्तीति हृदयम् । इदमुन्नेयप्रश्नोदाहरणम् । निबद्धप्रश्नोत्तरं यथा-

कुशलं तस्या? जीवति, कुशलं पृच्छामि, जीवतीत्युक्तम् । पुनरपि तदेव कथयसि, मृतां नु कथयामि या श्वसिति ॥

 ईर्ष्यामानानन्तरमनुतप्ताया नायिकायाः सखीमागतां प्रति तस्याः कुशलमिति नायकस्य प्रश्नः । जीवतीति सख्या उत्तरम् । जीवत्याः कुतः कुशलमिति तदभिप्रायः । अन्यत्पृष्टमन्यदुत्तरमिति नायकस्य पुनः कुशलं पृच्छामीति प्रश्नः । पृष्टस्योत्तरमुक्तमित्यभिप्रायेण जीवतीत्युक्तमिति सख्या वचनम् । सखीवचनस्याभिप्रायोद्धाटनार्थं पुनरपि तदेव कथयसीति नायकस्याक्षेपः । मृतां नु कथयामि या श्वसितीति स्वाभिप्रायोद्वाटनार्थम् । सति मरणे खलु तस्याः कुशलं भवति मदागमनसमयेऽपि श्वासेषु सञ्चरत्सु कथं मृतां कथयेयमित्यभिग्रायः ॥ १४९ ॥

प्रश्नोत्तरान्तराभिन्नमुत्तरं चित्रमुच्यते । के दारपोषणरताः? के खेटाः? किं चलं ? वयः ॥ १५० ॥ अत्र केदारपोषणरता इति प्रश्नाभिन्नमुत्तरं के स्वेटाः किं चलमिति प्रश्रद्वयस्य वय इत्येकमुत्तरम्। उदाहरणान्तराणि विदग्धमुखमण्डने द्रष्टव्यानि ॥१५० ॥ सूक्ष्मालङ्कारः ८४ सूक्ष्मं पराशयाभिज्ञेतरसाकूतचेष्टितम् । मयि पश्यति सा केशैः सीमन्तमणिमावृणोत् ॥ १५१ ॥

  कामुकस्यावलोकनेन सङ्केतकालप्रश्नभावं ज्ञातवत्याश्चेष्टेयम् । अस्तंगते सूर्ये सङ्केतकाल इत्याकूतम् । यथा वा -

सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया । आसीन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् १। १५१ ॥ पिहितालङ्कारः ८५ पिहितं परवृत्तान्ताज्ञातुः साकूतचेष्टितम् । प्रिये गृहागते प्रातः कान्ता तल्पमकल्पयत् ॥ १५२ ॥ रात्रौ सपत्नीगृहे जागरणेन श्रान्तोऽसीति तल्पकल्पनाकूतम् । यथा वा - वक्त्रस्यन्दिस्वेदबिन्दुप्रबधैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे । पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख ॥

  अत्र स्वेदानुमितं पुरुषायितं पुरुषोचितखङ्गलेखनेन प्रकाशितम् ॥ १५२ ॥

व्याजोक्त्यलङ्कारः ८६ व्याजोक्तिरन्यहेतूक्त्या यदाकारस्य गोपनम् । सखि! पश्य गृहारामपरागैरस्मि धूसरा ॥ १५३ ॥

  अत्र चौर्यरतकृतसङ्केतभूपृष्ठलुण्ठनलग्नधूलिजालस्य गोपनम् । यथा वा –

कस्य वा न भवेद्रोषः प्रियायाः सव्रणेऽधरे । सभृङ्गं पद्ममाघ्रासीर्वारितापि मयाऽधुना ॥

  उपपतिना खण्डिताधराया नायिकायाः सकाशमागच्छन्तं प्रियमपश्यन्त्येव सख्या नायिकां प्रति हितोपदेशव्याजेन तं प्रति नायिकापराधगोपनम् । छेकापह्नुतेरस्याश्चायं विशेषः । तस्यां वचनस्यान्यथानयनेनापह्नवः । अस्यामाकारस्य हेत्वन्तरवर्णनेन गोपनमिति । लक्षणे लक्ष्यनाम्नि चोक्तिग्रहणमाकारस्य गोपनार्थं हेत्वन्तरप्रत्यायकव्यापारमात्रोपलक्षणम् ।

ततश्च आयान्तमालोक्य हरिं प्रतोल्यामाल्याः पुरस्तादनुरागमेका । रोमाञ्चकम्पादिभिरुच्यमानं भामा जुगूह प्रणमन्त्यथैनम् ॥

  इत्यत्रापि व्याजोक्तिरेव । तत्र ह्यनुरागकृतस्य रोमाञ्चाद्याकारस्य भक्तिरूपहेत्वन्तरप्रत्यायकेन प्रणामेन गोपनं कृतम् । सूक्ष्मपिहितालङ्कारयोरपि चेष्टितग्रहणमुक्तिसाधारणव्यापारमात्रोपलक्षणम् । ततश्च 

नलिनीदले बलाका मरकतपात्र इव दृश्यते शुक्तिः । इति मम सङ्केतभुवि ज्ञात्वा भावं तदाऽब्रवीदालीम् ॥

  इत्यादिष्वपि सूक्ष्मालङ्कारः प्रसरति । अत्र श्लोके तावत्किमावयोः सङ्केतस्थानं भविष्यतीति प्रश्नाशयं सूचयति कामुके तदभिज्ञया विदग्धया तदा सखीं प्रति साकूतमुक्तमिति सूक्ष्मालङ्कारो भवति । यतोऽत्र बलाकाया मरकतपात्रप्रतिष्ठितशुक्त्युपमया तस्या निश्चलत्वेनाश्वस्तत्वं तेन तस्य प्रदेशस्य निर्जनत्वं तेन तदेवावयोः सङ्केतस्थानमिति कामुकं प्रति सूचनं लक्ष्यते । नचात्र ध्वनिराशङ्कनीयः । दूरे व्यज्यमानस्यापि सङ्केतस्थानप्रश्नोत्तरस्य स्वोक्त्यैवाविष्कृतत्वात् । एवं पिहितालङ्कारेऽप्युदाहार्यम् । इदं चान्यदत्रावधेयम् । यत्रासौ वेतसी पान्थेत्यादिषु गूढोत्तरसूक्ष्मपिहितव्याजोक्त्युदाहरणेषु भावो न स्वोक्त्याऽऽविष्कृतः, किन्तु वस्तुसौन्दर्यबलाद्वक्तृबोद्धव्यविशेषविशेषिताद्गम्यः । तत्रैव वस्तुतो नालङ्कारत्वं, ध्वनिभावास्पदत्वात् । प्राचीनैः स्वोक्त्याऽऽविष्करणे सत्यलङ्कारास्पदताऽस्तीत्युदाहृतत्वादस्माभिरप्युदाहृतानि । शक्यं हि 'यत्रासौ वेतसी पान्थ! तत्रेयं सुतरा सरित् । इति पृच्छन्तमध्वानं कामिन्याह ससूचनम् ॥' इत्याद्यर्थान्तरकल्पनया भावाविष्करणमित्यतः प्राक् लिखितोदाहरणेषु सङ्केतकालमनसं पुंस्त्वं तन्व्या व्यञ्जयन्ती भामा जुगूहेति भावाविष्करणमस्ति तेष्वेव तत्तदलङ्कार इति ॥ १५३ ॥

गूढोक्त्यलङ्कारः ८७ गूढोक्तिरन्योद्देश्यं चेद्यदन्यं प्रति कथ्यते । वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः ॥ १५४ ॥

  यं प्रति किञ्चिद्वक्तव्यं तत्तटस्थैर्मा ज्ञायीति तदेव तदन्यं कञ्चित्प्रति श्लेषेणोच्यते चेत्सा गूढोक्तिः । वृषेत्याद्युदाहरणम् । परकलत्रं भुञ्जानं कामुकं प्रति वक्तव्यं परक्षेत्रे सस्यानि भक्षयन्तं कञ्चिदुक्षाणं समीपे चरन्तं निर्दिश्य कथ्यते । नेयमप्रस्तुतप्रशंसा । कार्यकारणादिव्यङ्ग्यत्वाभावात् । नापि श्लेषमात्रम् । अप्रकृतार्थस्य प्रकृतार्थान्वयित्वेनाविवक्षितत्वात् । तस्य केवलमितरवञ्चनार्थं निर्दिष्टतया विच्छित्तिविशेषसद्भावात् । यथा वा --

नाथो मे विपणिं गतो न गणयत्येषा सपत्नी च मां त्यक्त्वा मामिह पुष्पिणीति गुरवः प्राप्ता गृहाभ्यन्तरम् । शय्यामात्रसहायिनीं परिजनः श्रान्तो न मां सेवते स्वामिन्नागमलालनीय! रजनीं लक्ष्मीपते रक्ष माम् ॥

  अत्र लक्ष्मीपतिनाम्नो जारस्यागमनं प्रार्थयमानायास्तटस्थवञ्चनाय भगवन्तं

प्रत्याक्रोशस्य प्रत्यायनम् ॥ १५४ ॥ विवृतोक्त्यलङ्कारः ८८ विवृतोक्तिः श्लिष्टगुप्तं कविनाऽविष्कृतं यदि । वृषापेहि परक्षेत्रादिति वक्ति ससूचनम् ॥ १५५ ॥

  श्लिष्टगुप्तं वस्तु यथाकथञ्चित्कविनाऽविष्कृतं चेद्विवृतोक्तिः । वृषापेहीत्युदाहरणे पूर्ववद्गुप्तं वस्तु ससूचनमिति कविनाऽविष्कृतम् । यथा वा -

वत्से! मा गा विषादं श्वसनमुरुजवं सन्त्यजोर्ध्वप्रवृत्तं कम्पः को वा गुरुस्ते किमिह बलभिदा जृम्भितेनात्र याहि । प्रत्याख्यानं सुराणामिति भयशमनच्छद्मना कारयित्वा यस्मै लक्ष्मीमदाद्वः स दहतु दुरितं मन्थमुग्धः पयोधिः ॥

  इदं परवञ्चनाय गुप्ताविष्करणम् । त्रपागुप्ताविष्करणं यथा-

दृष्ट्या केशव! गोपरागहृतया किञ्चिन्न दृष्टं मया तेनेह स्खलितास्मि नाथ! पतितां किं नाम नालम्बसे । एकस्त्वं विषमेषुखिन्नमनसां सर्वाबलानां गति- र्गोप्येवं गदितः सलेशमवताद्गोष्ठे हरिर्वश्चिरम् ॥

  अत्र कृष्णस्य पुरतो विषमे परिस्खलनमभिहितवत्यास्तं कामयमानाया गोपिकाया वचने विषमपथि स्खलनपतनत्राणसम्प्रार्थनरूपेण झटिति प्रतीयमानेनार्थेन गुप्तं विवक्षितमर्थान्तरं सलेशं ससूचनमित्यनेनाविष्कृतम् । एवं नैषधादिषु 'चेतो नलं कामयते मदीयम्' इति दमयन्तीवाक्यादिकमप्युदाहरणम् । इदं शब्दशक्तिक्रोडीकृतगुप्ताविष्करणम् । अर्थशक्तिमूलगुप्तार्थाविष्करणं यथा-

गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते किञ्चैवं विजनस्थयोर्हतजनः सम्भावयत्यन्यथा । इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसा- माश्लिष्यन्पुलकोत्कराञ्चिततनुर्गोपीं हरिः पातु वः ॥

  अत्र गच्छाम्यच्युतेत्यामन्त्रणेन त्वया रन्तुं कामेच्छया स्थितं तन्न लब्धमित्यर्थशक्तिलभ्यं वस्तु तृतीयपादेनाविष्कृतम् । सर्वमेतत्कविनिबद्धवक्तृगुप्ताविष्करणोदाहरणम् ।

कविगुप्ताविष्करणं यथा- सुभ्रु! त्वं कुपितेत्यपास्तमशनं त्यक्ताः कथा योषितां दूरादेव विवर्जिताः सुरभयः स्रग्गन्धधूपादयः । कोपं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदाधुना सत्यं तद्विरहाद्भवन्ति दयिते सर्वा ममान्धा दिशः ॥

  अत्र तावदीर्ष्यामानकलुषितदयिताप्रसादनव्यापारविधिः प्रतीयते । दृष्टिरोगार्तस्य दृष्टिं प्रत्याक्रोशो विवक्षितार्थः । स च दृष्टे इत्यस्य पदस्य लुप्तोच्चारणेन संबुद्धिरूपतामवगमय्याऽविष्कृतः । कविनिबद्धवक्तृगुप्तं परवञ्चनार्थं कविगुप्तं स्वप्रौढिकथनार्थमिति भेदः ॥ १५५ ॥

युक्त्यलङ्कारः ८९ युक्तिः परातिसन्धानं क्रियया मर्मगुप्तये । त्वामालिखन्ती दृष्ट्वान्यं धनुः पौष्पं करेऽलिखत् १५६

  अत्र पुष्पचापलेखनक्रियया मन्मथो मया लिखित इति भ्रान्त्युत्पादनेन स्वानुरागरूपमर्मगोपनाय परवञ्चनं विवक्षितम् । यथा वा -

दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वच- स्तत्प्रातर्गुरुसन्निधौ निगदतस्तस्यातिमात्रं वधूः । कर्णालम्बितपद्मरागशकलं विन्यस्य चञ्चूपुटे व्रीडार्ता विदधाति दाडिमफलव्याजेन वाग्बन्धनम् ॥

  अत्र शुकवाङ्मुद्रणया तन्मुखेन स्वकीयरहस्यवचनशुश्रूषुजनवञ्चनं कृतम् । व्याजोक्तावाकारगोपनं युक्तौ तदन्यगोपनमिति भेदः । यद्वा व्याजोक्तावुक्त्या गोपनमिह तु क्रियया गोपनमिति भेदः । एवंच ‘आयान्तमालोक्य हरिं प्रतोल्याम्' इति श्लोकेऽपि युक्तिरेव ॥ १५६ ॥

लोकोक्त्यलङ्कारः ९० लोकप्रदानुकृतिर्लोकोक्तिरिति भण्यते । सहस्व कतिचिन्मासान्मीलयित्वा विलोचने ॥१५७ ॥

अत्र लोचने मीलयित्वेति लोकवादानुकृतिः । यथा वा मदीये वरदराजस्तवे -

नामैव ते वरद वाञ्छितदातृभावं व्याख्यात्यतो न वहसे वरदानमुद्राम् । विश्वप्रसिद्धतरविप्रकुलप्रसूते- र्यज्ञोपवीतवहनं हि न खल्वपेक्ष्यम् ॥ अत्रोत्तरार्धं लोकवादानुकारः ॥ १५७ ॥ छेकोक्त्यलङ्कारः ९१ छेकोक्तिर्यदि लोकोक्तेः स्थादर्थान्तरगर्भिता । भुजङ्ग एव जानीते भुजङ्गचरणं सखे! ॥ १५८ ॥

  केनचित्कस्यचिद्वृत्तान्तं पृष्टस्य समीपस्थमन्यं निर्दिश्यायमेव तस्य वृत्तान्तं जानातीत्युक्तवतोऽयमहेः पादानहिरेव जानातीति लोकवादानुकारः । अत्र स चायं च लोकविदिते धनार्जनादिव्यापारे सहचारिणाविति विदितलोकोक्त्यनुवादस्य प्रयोजने स्थिते रहस्येऽप्यनङ्गव्यापारे तस्यायं सहचर इति मर्मोद्घाटनमपि तेन गर्भीकृतम् । यथा वा -

मलयमरुतां व्राता याता विकासितमल्लिका- परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि । घन घटय तं त्वं निःस्नेहं य एव निवर्तने प्रभवति गवां किं नश्छिन्नं स एव धनञ्जयः ॥

  अत्र धनलिप्सया प्रोषिताङ्गनासखीवचने य एव गवां निवर्तने प्रभवति स एव धनञ्जय इत्यान्ध्रजातिप्रसिद्धलोकवादानुकारः । अत्रातिसौन्दर्यशालिनीमिमामपहाय धनलिप्सया प्रस्थतो रसानभिज्ञत्वाद्गोप्राय एव । तस्य निवर्तकस्तु धनस्य जेता धनेनाकृष्टस्य तद्विमुखीकरणेन प्रत्याक्षेपकत्वादित्यर्थान्तरमपि गर्भितम् ॥ १५८ ॥

वक्रोक्त्यलङ्कारः ९२ वक्रोक्तिः श्लेषकाकुभ्यामपरार्थप्रकल्पनम् । मुञ्च मानं दिनं (मा नन्दिनं) प्राप्तं नेह नन्दी हरान्तिके ॥ १५९ ॥

  अत्र मानं मुञ्च प्रयाता रात्रिरित्याशयेनोक्तायां वाचि नन्दिनं प्राप्तं मा मुञ्चेत्यर्थान्तरं श्लेषेण परिकल्पितम् । यथा वा -

अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता । त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ॥

  इदमविकृतश्लेषोक्तेरुदाहरणम् । विकृतश्लेषवक्रोक्तेर्यथा--

भवित्री रम्भोरु! त्रिदशवदनग्लानिरधुना स ते रामः स्थाता न युधि पुरतो लक्ष्मणसखः । इयं यास्यत्युच्चैर्विपदमधुना वानरचमू- र्लघिष्ठेदं षष्ठाक्षरपरविलोपात्पठ पुनः ॥

  सर्वमिदं शब्दश्लेषमूलाया वक्रोक्तेरुदाहरणम् । अर्थश्लेषमूलाया वक्रोक्तेर्यथा-

भिक्षार्थी स क्व यातः?, सुतनु! बलिमखे, ताण्डवं क्वाद्य भद्रे!? मन्ये वृन्दावनान्ते, क्व नु स मृगशिशु?,र्नैव जाने वराहम् । बाले! कच्चिन्न दृष्टो जरठवृषपति?,र्गोप एवास्य वेत्ता लीलासल्लाप इत्थं जलनिधिहिमवत्कन्ययोस्त्रायतां नः ॥ काक्वा यथा - असमालोच्य कोपस्ते नोचितोऽयमितीरिता । नैवोचितोऽयमिति तं ताडयामास मालया ॥ अत्र नैवोचित इति काकुस्वरविकारेणोचित एवेत्यर्थान्तरकल्पनम्॥ १५९ ॥ स्वभावोक्त्यलङ्कारः ९३ स्वभावोक्तिः स्वभावस्य जात्यादिस्थस्य वर्णनम् । कुरङ्गैरुत्तरङ्गाक्षै स्तब्धकर्णैरुदीक्ष्यते ॥ १६० ॥ यथा वा - तौ संमुखप्रचलितौ सविधे गुरूणां मार्गप्रदानरभसस्सलितावधानौ । पार्श्वोपसर्पणमुभावपि भिन्नदिक्कं कृत्वा मुहुर्मुहुरुपासरतां सलज्जम् ॥ १६० ॥ भाविकालङ्कारः ९४ भाविकं भूतभाव्यर्थसाक्षात्कारस्य वर्णनम् । अहं विलोकयेऽद्यापि युध्यन्तेऽत्र सुरासुराः ॥ १६१ ॥

  स्थानभीषणोद्भावनपरमिदम् । यथा वा –

अद्यापि तिष्ठति दृशोरिदमुत्तरीयं धर्तुं पुरः स्तनतटात्पतितं प्रवृत्ते । वाचं निशम्य नयनं नयनं ममेति किञ्चित्तदा यदकरोत्स्मितमायताक्षी ॥ १६१ ॥ उदात्तालङ्कारः ९५ उदात्तमृद्धेश्चरितं श्लाघ्यं चान्योपलक्षणम् । सानौ यस्याभवद्युद्धं तद्धूर्जटिकिरीटिनोः ॥ १६२ ॥

  इदं श्लाध्यचरितस्यान्याङ्गत्वे उदाहरणम् । ऋद्ध्युदाहरणं यथा-

रत्नस्तम्भेषु सङ्क्रान्तैः प्रतिबिम्बशतैर्वृतः । ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ॥ १६२ ॥ अत्युक्त्यलङ्कारः ९६ अत्युक्तिरद्भुतातथ्यशौर्यौदार्यादिवर्णनम् । त्वयि दातरि राजेन्द्र! याचकाः कल्पशाखिनः ॥१६३॥

  इयमौदार्यात्युक्तिः । शौर्यात्युक्तिर्यथा-

राजन्सप्ताप्यकूपारास्त्वत्प्रतापाग्निशोषिताः । पुनस्त्वद्वैरिवनिताबाष्पपूरेण पूरिताः ॥

  सम्पदत्युक्तावुदात्तालङ्कारः । शौर्यात्युक्तावत्युक्त्यलङ्कार इति भेदमाहुः । 

अनयोरनवद्याङ्गि! स्तनयोर्जृम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ अल्पं निर्मितमाकाशमनालोच्येव वेधसा । इदमेवंविधं भावि भवत्याः स्तनमण्डलम् ॥

  इत्यसदसदुक्तितारतम्येनातिशयात्युक्त्योर्भेदः ॥ १६३ ॥

निरुक्त्यलङ्कारः ९७ निरुक्तिर्योगतो नाम्नामन्यार्थत्वप्रकल्पनम् । ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान् ॥ १६४ ॥ यथा वा - पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाऽधिष्ठितकालिदासा । अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ॥ १६४ ॥ । प्रतिषेधालङ्कारः ९८ प्रतिषेधः प्रसिद्धस्य निषेधस्यानुकीर्तनम् । न सूतमेतत्कितव! क्रीडनं निशितैः शरैः ॥ १६५ ॥

  निर्ज्ञातो निषेधः स्वतोऽनुपयुक्तत्वादर्थान्तरं गर्भीकरोति । तेन चारुतान्वितोऽयं प्रतिषेधनामाऽलङ्कारः । उदाहरणं युद्धरङ्गे प्रत्यवतिष्ठमानं शाकुनिकं प्रति विदग्धवचनम् । अत्र युद्धस्याक्षद्यूतत्वाभावो निर्ज्ञात एव कीर्त्यमानस्तत्रैव तव प्रागल्भ्यं न युद्धे व्युत्पत्तिग्रहोऽस्तीत्युपहासं गर्भीकरोति । तच्च कितवेनाविष्कृतम् । यथा वा -

न विषेण न शस्त्रेण नाग्निना न च मृत्युना । अप्रतीकारपारुष्याः स्त्रीभिरेव स्त्रियः कृताः ॥

  अत्र स्त्रीणां विषादिनिमित्तत्वाभावः प्रसिद्ध एव कीर्त्यमानस्तासां विषाद्यतिशायि क्रौर्यमित्यमुमर्थं व्यक्तीकरोति । स चाप्रतीकारपारुष्या इति प्रतीकारवद्भ्यो विषादिभ्यस्तासां विशेषं दर्शयता विशेषणेनाविष्कृतः ॥ १६५ ॥ 

विध्यलङ्कारः ९९ सिद्धस्यैव विधानं यत्तदाहुर्विध्यलङ्कृतिम् । पञ्चमोदञ्चने काले कोकिलः कोकिलोऽभवत् ॥ १६६ ॥

  निर्ज्ञातविधानमनुपयुक्तिबाधितं सदर्थान्तरगर्भीकरणेन चारुतरमिति तं विधिनामानमलङ्कारमाहुः । उदाहरणे कोकिलस्य कोकिलत्वविधानमनुपयुक्तं सदतिमधुरपञ्चमध्वनिशालितया सकलजनहृद्यत्वं गर्भीकरोति । तच्च पञ्चमोदञ्चने इति कालविशेषणेनाविष्कृतम् । यथा वा -

हे! हस्त! दक्षिण! मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् । रामस्य गात्रमसि निर्भरगर्भखिन्नसीताप्रवासनपटोः करुणा कुतस्ते ॥

  अत्र रामस्य स्वहस्तं प्रति रामस्य गात्रमसीति वचनमनुपयुक्तं सद्रामस्येत्यनेन स्वस्यात्यन्तन्तनिष्करुणत्वं गर्भीकरोति । तच्च निर्भरेत्यादिविशेषणेनाविष्कृतम् । 

यद्यप्यनयोर्विधिनिषेधयोरुदाहरणेषु व्यङ्ग्यान्यर्थान्तरसङ्क्रमितवाच्यरूपाणि, तथापि न ध्वनिभावास्पदानि । स्वोक्त्यैव व्यङ्ग्यविशेषाविष्करणात् । व्यङ्ग्याविष्करणे चालङ्कारत्वमेवेति प्राक्प्रस्तुताङ्कुरप्रकरणे व्यवस्थितत्वात् । पूर्वं बाधितौ प्रतिषेधौ आक्षेपभेदत्वेनोक्तौ । इह तु प्रसिद्धौ विधिप्रतिषेधौ तत्प्रतिद्वन्द्विनाऽवज्ञालङ्कारत्वेन वर्णिताविति भेदः ॥ १६६ ॥ हेत्वलङ्कारः १०० हेतोर्हेतुमता सार्धं वर्णनं हेतुरुच्यते । असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम् ॥ १६७ ॥ यथा वा - एष ते विद्रुमच्छायो मरुमार्ग इवाधरः । कस्य नो तनुते तन्वि! पिपासाकुलितं मनः ॥ माने नेच्छति वारयत्युपशमे क्ष्मामालिखन्त्यां ह्रियो स्वातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्ये गते । तृष्णे! त्वामनुबध्नता फलमियत्प्राप्तं जनेनामुना यत्स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न संमन्यते ॥ - इत्युदाहरणम् ॥ १६७ ॥ हेतुहेतुमतोरैक्यं हेतुं केचित्प्रचक्षते । लक्ष्मीविलासा विदुषां कटाक्षा वेङ्कटप्रभोः ॥ १६८ ॥

  अत्र च कार्यावश्यम्भावतच्छैघ्र्यादिप्रत्यायनार्थः कार्यकारणभेदव्यपदेशः ।  यथा वा -

आयुर्दानमहोत्सवस्य विनतक्षोणीभृतां मूर्तिमा- न्विश्वासो नयनोत्सवो मृगदृशां कीर्तेः प्रकाशः परः । आनन्दः कलिताकृतिः सुमनसां वीरश्रियो जीवितं धर्मस्यैष निकेतनं विजयते वीरः कलिङ्गेश्वरः ॥ अत्र दानमहोत्सवायुष्करत्वादिनाऽध्यवसिते राज्ञि तदायुष्ट्वादिव्यपदेशः १६८ इत्थं शतमलङ्कारा लक्षयित्वा निदर्शिताः । प्राचामाधुनिकानां च मतान्यालोच्य सर्वतः ॥ १६९ ॥


रसवदलङ्कारः १०१ रस-भाव-तदाभास-भावशान्ति-निबन्धनाः । चत्वारो रसवत्प्रेय ऊर्जस्वि च समाहितम् ॥ १७० ॥ भावस्य चोदयः सन्धिः शबलत्वमिति त्रयः । अष्टौ प्रमाणालङ्काराः प्रत्यक्षप्रमुखाः क्रमात् ॥ एवं पञ्चदशान्यानप्यलङ्कारान्विदुर्बुधाः ॥ १७१ ॥ ।

  तत्र विभावानुभावव्यभिचारिभिर्व्यञ्जितो रति-हास-शोकादिश्चित्तवृत्तिविशेषो रसः । स यत्र परस्याङ्गं भवति तत्र रसवदलङ्कारः । विभावानुभावाभ्यामभिव्यञ्जितो निर्वेदादिस्त्रयस्त्रिंशद्भेदो देवतागुरुशिष्यद्विजपुत्रादावभिव्यज्यमाना रतिश्च भावः । स यत्रापरस्याङ्गं स प्रेयोऽलङ्कारः । अनौचित्येन प्रवृत्तो रसो भावश्च रसाभासो भावाभासश्चेत्युच्यते । स यत्रापरस्याङ्गं तदूर्जस्वि । भावस्य प्रशाम्यदवस्था भावशान्तिः । तस्याः पराङ्गत्वे समाहितम् । भावस्योद्गमावस्था भावोदयः । द्वयोर्विरुद्धयोर्भावयोः परस्परस्पर्धा भावसन्धिः । बहूनां भावानां पूर्वपूर्वोपमर्देनोत्पत्तिर्भावशबलता । एतेषामितराङ्गत्वे भावोदयादयस्त्रयोऽलङ्काराः । तत्र रसवदुदाहरणम्-

मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः । येनैकचुलके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ ॥

  अत्र मुनिविषयरतिरूपस्य भावस्याद्भुतरसोऽङ्गम् । यथा वा –

अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥ अत्र करुणस्य शृङ्गारोऽङ्गम् ॥ प्रेयोलङ्कारः अथवा भावालङ्कारः १०२ प्रेयोलङ्कार एव भावालङ्कार उच्यते । स यथा - कदा वाराणस्याममरतटिनीरोधसि वस- न्वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् । अये! गौरीनाथ त्रिपुरहर! शम्भो! त्रिनयन! प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥

  अत्र शान्तिरसस्य कदेति पदसूचितचिन्ताख्यो व्यभिचारिभावोऽङ्गम् । यथा वा - 

अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न श्रान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव- स्तावद्बिभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥

  अत्र प्रभुविषयरतिभावस्य वसुमतीविषयरतिभावोऽङ्गम् ॥

ऊर्जस्व्यलङ्कारः १०३

यथा -

त्वत्प्रत्यर्थिवसुन्धरेशतरुणीः सन्त्रासतः सत्वरं यान्तीर्वीर! विलुण्ठितुं सरभसं याताः किराता वने । तिष्ठन्ति स्तिमिताः प्ररूढपुलकास्तेवि स्मृतोपक्रमा- स्तासामुत्तरलैः स्तनैरतितरां लोलैरपाङ्गैरपि ॥

  अत्र प्रभुविषयरतिभावस्य शृङ्गाररसाभासोऽङ्गम्। यथा वा -

त्वयि लोचनगोचरं गते सफलं जन्म नृसिंह! भूपते! । अजनिष्ट ममेति सादरं युधि विज्ञापयति द्विषां गणः ॥

  अत्र कवेः प्रभुविषयस्य रतिभावस्य तद्विषयद्विषद्गणरतिरूपो भावाभासोऽङ्गम् ।

समाहितालङ्कारः १०४ समाहितं यथा- पश्यामः किमियं प्रपद्यत इति स्थैर्यं मयालम्बितं किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः । श्यन्योन्यविलक्ष्यदृष्टिचतुरे तस्मिन्नवस्थान्तरे सव्याजं हसितं मया धृतिहरो मुक्तस्तु बाष्पस्तया ॥ अत्र शृङ्गारस्य कोपशान्तिरङ्गम् ॥ भावोदयालङ्कारः १०५ भावोदयो यथा- तदद्य विश्रम्य दयालुरेधि मे दिनं निनीषामि भवद्विलोकिनी । अदर्शि पादेन विलिख्य पत्रिणा तवैव रूपेण समः स मत्प्रियः ॥

  अत्र नलं प्रति दमयन्त्या औत्सुक्यरूपभावस्योदयः शृङ्गाररसस्याङ्गम् । 

भावसन्ध्यलङ्कारः १०६ भावसन्धिर्यथा - एकाऽभूत्कुसुमायुधेषुधिरिव प्रव्यक्तपुङ्खावली जेतुर्मङ्गलपालिकेव पुलकैरन्या कपोलस्थली । लोलाक्षी क्षणमात्रभाविविरहक्लेशासहां पश्यतो द्रागाकर्णयतश्च वीर! भवतः प्रौढाहवाडम्बरम् ॥

  अत्र रमणीप्रेम-रणौत्सुक्ययोः सन्धिः प्रभुविषयभावस्याङ्गम् । 

भावशबलालङ्कारः १०७ भावशबलं यथा - क्वाकार्यं शशलक्ष्मणः क्व च कुलं, भूयोऽपि दृश्येत सा दोषाणां प्रशमाय नः श्रुतमहो!, कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः, स्वप्नेऽपि सा दुर्लभा चेतः! स्वास्थ्यमुपैहि, कः खलु युवा धन्योऽधरं धास्यति ॥

  अत्र वितर्कौत्सुक्य-मति-स्मरण-शङ्का-दैन्य-धृति-चिन्तानां शबलता विप्रलम्भशृङ्गारस्याङ्गम् । 

प्रत्यक्षालङ्कारः १०८ प्रमाणालङ्कारे प्रत्यक्षं यथा - क्रान्तकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ । स्वादुनि प्रणदितालिनि शीते निर्विवार मधुनीन्द्रियवर्गः ॥ यथा वा – किं तावत्सरसि सरोजमेतदारादाहोस्विन्मुखमवभासते युवत्याः । संशय्य क्षणमिति निश्चिकाय कश्चिद्बिब्बोकैर्बकसहवासिनां परोक्षैः ॥

  पूर्वत्र प्रत्यक्षमात्रमत्र तु विशेषदर्शनजन्यसंशयोत्तरप्रत्यक्षमिति भेदः ।

अनुमानालङ्कारः १०९ अनुमानं यथा - यथा रन्ध्रव्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा विद्युज्ज्वालोल्लसितपरिपिङ्गाश्च ककुभ- स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ॥ यथा वा - यत्रैता लहरीचलाचलदृशो व्यापारयन्ति भ्रवौ यत्तत्रैव पतन्ति सन्ततममी मर्मस्पृशो मार्गणाः । तच्चक्रीकृतचापपुङ्खितशरप्रेङ्खत्करः क्रोधनो धावत्यग्रत एव शासनधरः सत्यं तदासां स्मरः ॥

  पूर्वं रूपकसङ्कीर्णमिदमतिशयोक्तिसङ्कीर्णमिति भेदः । शुद्धानुमानं यथा-

विलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः । विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः ॥ यथा वा - सौमित्रे! ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति । वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ्गं यतः क्वासि प्रेयसि! हा! कुरङ्गनयने! चन्द्रानने! जानकि! ॥ उपमानालङ्कारः ११० उपमानं यथा- तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले । यस्तन्वि तारकान्यासः शकटाकारमाश्रितः ॥ अत्र मन्मथमिवातिसुन्दरं दानवारिमिव दिव्यतेजसम् । शैलराजमिव धैर्यशालिनं वेद्मि वेङ्कटपतिं महीपतिम् ॥ पूर्वोदाहरणे उपमानभूतमतिदेशवाक्यं दर्शितम् । अत्रातिदेशवाक्यार्थसादृश्यप्रत्यक्षरूपमुपमानं फलेन सह दर्शितमिति विशेषः ॥ शब्दप्रमाणालङ्कारः १११ शब्दप्रमाणं यथा- विवृण्वता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् । यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ॥

  अत्र शिवः परमेष्ठिनोऽपि कारणमित्यत्र श्रुतिरूपं शब्दप्रमाणमुपन्यस्तम् । एवं श्रुतिपुराणागमलौकिकवाक्यरूपाण्यपि शब्दप्रमाणान्युदाहरणीयानि ॥  

स्मृत्यलङ्कारः ११२ तत्र स्मृतिर्यथा- बलात्कुरुत पापानि सन्तु तान्यकृतानि वः । सर्वान्बलकृतानर्थानकृतान्मनुरब्रवीत् ॥

  पूर्वं श्रुतिरभिमतार्थे प्रमाणत्वेनोपन्यस्ता । इह तु स्मृतिरनभिमतार्थे तद्दूषणपरेण प्रमाणतया नीतेति भेदः । आचारात्मतुष्ट्योरपि मीमांसकोक्तधर्मप्रमाणयोर्वेदशब्दानुमापकतया शब्दप्रमाण एवान्तर्भावः ।' तत्राचारप्रमाणं यथा-

महाजनाचारपरम्परेदृशी स्वनाम नामाददते न साधवः । अतोऽभिधातुं न तदुत्सहे पुनर्जनः किलाचारमुचं विगायति ॥ आत्मतुष्टिप्रमाणालङ्कारः ११३ आत्मतुष्टिप्रमाणं यथा- असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणस्य वृत्तयः ॥

  अत्र दुष्यन्तेनात्मतुट्या शकुन्तलापरिग्रहस्य धर्म्यत्वं श्रुत्यनुमतमनुमीयते । 

एवं श्रुतिलिङ्गादिकमपि मीमांसोक्तं प्रमाणं सम्भवदिहोदाहर्तव्यम् । तत्र श्रुतिर्यथा- त्वं हि नाम्नैव वरदो नाधत्से वरमुद्रिकाम् । नहि श्रुतिप्रसिद्धार्थे लिङ्गमाद्रियते बुधैः ॥

  अत्र करिगिरीश्वरस्य वरद इत्यभिधानश्रुत्या सर्वाभिलषितदातृत्वं सम'र्थितम् । लिङ्गं यथा-

विदितं वो यथा स्वार्था न मे काश्चित्प्रवृत्तयः । ननु मूर्तिभिरष्टाभिरित्थम्भूतोऽस्मि सूचितः ॥

  अत्र शिवस्य श्रुतिप्रसिद्धसर्वोपकारकपृथिव्याद्यष्टमूर्तिपरिग्रहलिङ्गेन तत्प्रवृत्तीनां लोकानुग्रहैकप्रयोजनत्वं समर्थितम् । लिङ्गस्य मूलभूतवेदानुमापकतया वैदिकशब्दप्रमाण एवान्तर्भावः । एवं लौकिकलिङ्गानामपि लौकिकशब्दोन्नायकतया लौकिकशब्दप्रमाण एवान्तर्भावः । अतः 

लोलद्भ्रूलतया विपक्षदिगुपन्यासे विधूतं शिर- स्तद्वृत्तान्तपरीक्षणे कृतनमस्कारो विलक्ष्यस्थितः । ईषत्ताम्रकपोलकान्तिनि मुखे दृष्ट्या नतः पादयो- रुत्सृष्टो गुरुसन्निधावपि विधिर्द्वाभ्यां न कालोचितः ॥

  इत्यादि चेष्टारूपं प्रमाणान्तरं नाशङ्कनीयम् । क्वचिच्छब्दप्रमाणकल्पनया चमत्कारो यथा -

किमसुभिर्ग्लपितैर्जड! मन्यसे मयि निमज्जतु भीमसुतामनः । मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधस्मरः ॥

  अत्र म्रियमाणानां मनश्चन्द्रं प्रविशतीत्येतदर्थिकायाः श्रुतेर्नलमुखचन्द्रविषयत्वे कल्पिते तथा व्याख्यातृस्मरवाक्यं प्रमाणतयोपन्यस्तम् ।

अर्थापत्त्यलङ्कारः ११५ अर्थापत्तिर्यथा- निर्णेतुं शक्यमस्तीति मध्यं तव निलम्बिनि । अन्यथा नोपपद्येत पयोधरभरस्थितिः ॥ यथा वा – व्यक्तं बलीयान्यदि हेतुरागमादपूरयत्सा जलधिं न जाह्नवी । गङ्गौघनिर्भर्त्सितशम्भुकन्धरासुवर्णमर्णः कथमन्यथा स्यात् ॥ अनुपलब्ध्यलङ्कारः ११६ अनुपलब्धिर्यथा-- स्फुटमसदवलग्नं तन्वि! निश्चिन्वते ते तदनुपलभमानास्तर्कयन्तोऽपि लोकाः । कुचगिरिवरयुग्मं यद्विनाधारमास्ते तदिह मकरकेतोरिन्द्रजालं प्रतीमः ॥ सम्भवालङ्कारः११७ सम्भवो यथा - अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं हि दुःखम् । किन्तु त्वदग्रे शरणागतानां पराभवो नाथ! न तेऽनुरूपः ॥ यथा वा - ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान्प्रति नैष यत्नः । उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥ यथा वा - भ्रातः! पान्थ! कुतो भवान्नगरतो वार्ता न वा वर्तते बाढं ब्रूहि युवा पयोदसमये त्यक्त्वा प्रियां जीवति । सत्यं जीवति जीवतीति कथिता वार्ता मयापि श्रुता विस्तीर्णा पृथिवी जनोऽपि विविधः किं किं न सम्भाव्यते ॥

  अत्राद्योदाहरणे अभूतपूर्वं मम भावि किं वेति सम्भवप्रमाणसिद्धार्थो दर्शितः । द्वितीयोदाहरणे सम्भवोपपादकं कालानन्त्यादिकमपि दर्शितम् । तृतीयोदाहरणे तु सम्भवोऽपि कण्ठोक्त इति भेदः ॥

ऐतिह्यालङ्कारः ११८ यथा- कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे । एति जीवन्तमानन्दो नरं वर्षशतादपि ॥

  अत्र लौकिकी गाथेयमित्यनिर्दिष्टप्रवक्तृकप्रवादपारम्पर्यरूपता दर्शिता ।

अथैतेषामलङ्काराणां यथासम्भवं क्वचिन्मेलने लौकिकालङ्काराणां मेलन इव चारुत्वातिशयोपलम्भान्नरसिंहन्यायेन पृथगलङ्कारावस्थितौ तन्निर्णयः क्रियते । तत्र तिलतण्डुलन्यायेन स्फुटावगस्यभेदालङ्कारमेलने संसृष्टिः । नीरक्षीरन्यायेनास्फुटभेदालङ्कारमेलने सङ्करः । स चाङ्गाङ्गिभावेन समप्राधान्येन सन्देहेन एकवाचकानुप्रवेशेन चतुर्विधः । एवं नृसिंहाकाराः पञ्चालङ्काराः । अलङ्कारसंसृष्टिः ११९ तत्रालङ्कारसंसृष्टिर्यथा- कुसुमसौरभलोभपरिभ्रमद्भ्रमरसम्भ्रमसंभृतशोभया । चलितया विदधे कलमेखलाकलकलोलकलोलदृशाऽन्यया ॥ अत्र शब्दालङ्कारानुप्रासयमकयोः संसृष्टिः । लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता त।

  अत्रोत्प्रेक्षयोरुपमायाश्चेत्यर्थालङ्काराणां संसृष्टिः ।

आनन्दमन्थरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु मे विजयाय मञ्जु- मञ्जीरसिञ्जितमनोहरमम्बिकायाः ॥

  अत्र शब्दार्थालङ्कारयोरनुप्रासोपमयोः संसृष्टिः ।

अङ्गाङ्गिभावसङ्करालङ्कारः १२० अङ्गाङ्गिभावसङ्करो यथा - तलेष्ववेपन्त महीरुहाणां छायास्तदा मारुतकम्पितानाम्। शशाङ्कसिंहेन तमोगजानां लूनाकृतीनामिव गात्रखण्डाः ॥

  अत्र शशाङ्कसिंहेनेति तमोगजानामिति च रूपकम् । यद्यप्यत्र शशाङ्क एव सिंहस्तमांस्येव गजा इति मयूरव्यसकादिसमासाश्रयणेन रूपकवच्छशाङ्कः सिंह इव तमांसि गजा इवेत्युपमितसमासाश्रयणेनोपमापि वक्तुं शक्या तथापि लूनाकृतीनामिति विशेषणानुगुण्याद्रूपकसिद्धिः । तस्य हि विशेषणस्य प्रधानेन सहान्वयेन भाव्यं नतु गुणेन 'गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात्’ इति न्यायादुपमितसमासाश्रयणे तस्य पूर्वपदार्थप्रधानत्वाच्छशाङ्कस्य तमसां च प्राधान्यं भवेत् । तत्र न विशेषेण मुख्यार्थान्वयस्वारस्यमस्ति । स्वरूपनाशरूपोपचरिताकृतिलवनकर्तृत्वकर्मत्वान्वयसम्भवेऽपि मुख्यार्थान्वयस्वारस्यमेवादरणीयम् ।

स्वरूपनाशक्रोडीकरणप्रवृत्तया लक्षणामूलातिशयोक्त्या रूपकसिद्धिः । तच्च रूपकमुत्प्रेक्षाया अङ्गं तदुत्थापकत्वात् । रूपकाभावे हि छायालूनगात्रस्त्रण्डा इवावेपन्तेत्येतावदुक्तावुपमैव सिध्येत् । वेपनादिसाधर्म्यान्न छायानां सद्यःकृत्तगात्रखण्डतादाक्त्यसम्भावनारूपोत्प्रेक्षा । ननु शशाङ्केन लूनाकृतीनां तमसां गात्रखण्डा इवावेपन्तेत्येतावदुक्तावपि सिद्ध्यत्युत्प्रेक्षा । तादाश्रयसम्भावनोपयुक्तलूनाकृतित्वरूपाधिकविशेषणोपादानात् । सत्यम् । तथोक्तावाकृतिलवनादिधर्मरूपकार्यसमारोपनिर्मिता शशाङ्कतमसोर्हन्तृहन्तव्यचेतनवृत्तान्तसमारोपरूपा समासोक्तिरपेक्षणीया । एवमुक्तौ रूपकमिति विशेषः । एवमत्रातिशयोक्तिरूपकोत्प्रेक्षाणामङ्गाङ्गिभावेन सङ्करः ॥ समप्राधान्यसङ्करालङ्कारः १२१ समप्राधान्यसङ्करो यथा- अवतु नः सवितुस्तुरगावली समतिलङ्घिततुङ्गपयोधरा । स्फुरितमध्यगतारुणनायका मरकतैकलतेव नभःश्रियः ॥

  अत्र पयोधरादिशब्दश्लेषमूलातिशयोक्त्याऽङ्गभूतयोत्थाप्यमानैव सवितृतुरगावल्यां मरकतैकावलीतादात्म्योत्प्रेक्षा । नभोलक्ष्म्यां नायिकाव्यवहारसमारोपरूपसमासोक्तिगर्भैवोत्थाप्यते । पयोधरश्लेषस्योभयोपकारकत्वात् तत उत्प्रेक्षासमासोक्त्योरेकः कालः परस्परापेक्षया चारुत्वसमुन्मेषश्चोभयोस्तुल्य इति विनिगमनाविरहात्समप्राधान्यम् । यथा वा -

अङ्गुलीभिरिव केशसञ्चयं सन्निकृष्य तिमिरं मरीचिभिः । कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ अत्राङ्गुलीभिरिति वाक्योक्तोपमया तत्प्रायपाठान्मुख्यकुड्मलीकरणलिङ्गानुगुण्याच्चोपमितसमासाश्रयणेन लब्धया सरोजलोचनमिति समासोक्तोपमयाऽङ्गभूतयोत्थाप्यमानैव शशिकर्तृकनिशामुखचुम्बनोत्प्रेक्षा निशाशशिनोर्दाम्पत्यव्यवहारसमारोपरूपसमासोक्तिगर्भैवोत्थाप्यते । उपमयोरुभयत्रोत्थापक्त्वाविशेषात्समासोक्तिगर्भतां विना चुम्बनोत्प्रेक्षाया निरालम्बनत्वाच्च । ततश्चात्राप्युत्प्रेक्षासमासोक्त्योरेककालयोः समप्राधान्यम् ॥ यद्यप्यत्रोमाभ्यां शशिनिशागतावेव धर्मौ समर्थ्येते नतु शशिनायकयोः निशानायकयोश्च साधारणधर्मौ । साधारणधर्मसमर्पणं चोत्प्रेक्षासमासोक्त्योरपेक्षितम् । उत्प्रेक्षायाः प्रकृताप्रक्लतसाधारणगुणक्रियानिमित्तसापेक्षत्वात्समासोक्तेर्विशेषणसाम्यमूलकत्वाच्च । तथापि वाक्योक्तोपमायामिवकारस्य मरीचिभिरिवेत्यन्वयान्तरमभ्युपगम्यान्वयभेदलब्धप्रकृताप्रकृतयोरेकैकविषयस्यार्थद्वयस्य समासोक्तोपमायां सरोजसदृशं लोचनमिति समासान्तरमभ्युपगम्य समासभेदलब्धार्थद्वयस्य चाभेदाध्यवसायेन साधारण्यं सम्पाद्य तयोरुत्प्रेक्षासमासोक्त्योरङ्गता निर्वाह्या ॥ यद्वा इह प्रकृतकोटिगतानां मरीचितिमिरसरोजानामप्रकृतकोटिगतानां चाङ्गुलीकेशसञ्चयलोचनानां च तनुदीर्घावरणत्वनीलनीरन्ध्रत्वकान्तिमत्त्वादिना सदृशानां प्रातिस्विकरूपेण भेदवदनुगतसादृश्यप्रयोजकरूपेणाभेदोऽप्यस्ति स चात्र विवक्षित एव । भेदाभेदोभयप्रधानोपमेत्यालङ्कारिकसिद्धान्तात् । तत्रच प्रयोजकांशनिष्कर्षन्यायेनाभेदगर्भतांशोपजीवनेन साधारण्यं सम्पाद्य प्रधानभूतोत्प्रेक्षा समासोक्त्यङ्गता निर्वाह्या । नहि प्रकाशशीतापनयनशक्तिमतः सौरतेजसः शीतापनयनशक्तिमात्रेण शीतालूपयोगिता न दृष्टा ॥ एवमनभ्युपगमे च- पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन । आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥ '

  इत्याद्युपमाऽपि न निर्वहेत् । न ह्यत्राद्रिराजपाण्ड्ययोरुपमानोपमेययोरनुगतः साधारणधर्मो निर्दिष्टः । एकत्र बालातपनिर्झरावन्यत्र हरिचन्दनहाराविति धर्मभेदात् । तस्मात्तत्रातपहरिचन्दनयोर्निर्ज्ञरहारयोश्च सदृशयोरभेदांशोपजीवनमेव गतिः ।

'पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम् । तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ॥ '

  इत्यत्रोत्प्रेक्षयोः कालभेदेऽपि समप्राधान्यम् । अन्योन्यनिरपेक्षवाक्यद्वयोपात्तत्वात् । तदादायेति फेनचन्दनरूपकमात्रोपजीवनेन पूर्वोत्प्रेक्षानपेक्षणात् । नचैवं लिम्पतीव तमोऽङ्गानीतिवदुत्प्रेक्षाद्वयस्य संसृष्टिरेवेवमिति वाच्यम् । लौकिकसिद्धपेषणलेपनपौर्वापर्यच्छायानुकारिणोत्प्रेक्षाद्वयप्और्वापर्येण चारुतातिशयसमुन्मेषतः संसृष्टिवैषम्यात् । तस्माद्दर्शादिवदेकफलसाधनतया समप्रधानमिदमुत्प्रेक्षाद्वयम् । एवं समप्रधानसङ्करोऽपि व्याख्यातः ॥

सन्देहसङ्करालङ्कारः १२२ सन्देहसङ्करो यथा शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जह्नुकन्याऽवतीर्णा । इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विवव्रुः ॥

  अत्र इयमिति सर्वनाम्ना यद्यत्र वृतवतीऽऽन्दुमती विशिष्टरूपेण निर्दिश्यते तदा बिम्बप्रतिबिम्बभावापन्नधर्मविशिष्टयोः सदृशयोरैक्यारोपरूपा निदर्शना । यदि तेन सा स्वरूपेणैव निर्दिश्यते, बिम्बभूतो धर्मस्तु पूर्वप्रस्तावात्समगुणयोगप्रीतय इति पौरविशेषणाच्चावगम्यते, तत्र प्रस्तुते धर्मिणि तद्वृत्तान्तप्रतिबिम्बभूताप्रस्तुतवृत्तान्तारोपरूपं ललितमित्यनध्यवसायात्सन्देहः ॥

विलीयेन्दुः साक्षादमृतरसवापी यदि भवे- त्कलङ्कस्तत्रत्यो यदि च विकचेन्दीवरवनम् । ततः स्नानक्रीडाजनितजडभावैरवयवैः कदाचिन्मुञ्चेयं मदनशिखिपीडापरिभवम् ॥

  अत्र यद्येतावत्साधनं सम्पद्येत तदा तापः शाम्यतीत्यर्थे कविसंरम्भश्चेत्तदैतदुपात्तसिद्ध्यर्थमूह इति सम्भावनालङ्कारः । एतावत्साधनं कदापि न सम्भवत्येवातस्तापशान्तिरपि गगनकुसुमकल्पेत्यर्थे कविसंरम्भश्चेदुपात्तमिथ्यात्वसिद्ध्यर्थं मिथ्यार्थान्तरकल्पनारूपा मिथ्याध्यवसितिरित्युभयतासम्भवात्सन्देहः । एवम् -

'सिक्तं स्फटिककुम्भान्तःस्थितिश्वेतीकृतैर्जलैः । मौक्तिकं चेल्लतां सूते तत्पुष्पैस्ते समं यशः ॥'

  इत्यादिष्वपि सम्भावनामिथ्याध्यवसितिसन्देहसङ्करो द्रष्टव्यः ॥

एकवचनानुप्रवेशसंकरः १२३ मुखेन गरलं मुञ्चन्मूले वसति चेत्फणी । फलसन्दोहगुरुणा तरुणा किं प्रयोजनम् ॥

  अत्र महोरगवृत्तान्ते वर्ण्यमाने राजद्वाररूढखलवृत्तान्तोऽपि प्रतीयते । तत्र किं वस्तुतस्तथाभूतोरगवृत्तान्त एव प्रस्तुतेऽप्रस्तुतः खलवृत्तान्तस्ततः प्रतीयत इति समासोक्तिः । यद्वा प्रस्तुतखलवृत्तान्तप्रत्यायनायाप्रस्तुतमहोरगवृत्तान्तकीर्तनमप्रस्तुतप्रशंसा । यद्वा वर्ण्यमानमहोरगवृत्तान्तकीर्तनेन समीपस्थितखलमर्मोद्धाटनं क्रियत इति उभयस्यापि प्रस्तुतत्वात्प्रस्तुताङ्कुर इति संदेहः । एकवाचकानुप्रवेशसङ्करस्तु शब्दार्थालङ्कारयोरेवेति लक्षयित्वा काव्यप्रकाशकार उदाजहार -

स्पष्टोच्छ्वसत्किरणकेसरसूर्यबिम्बविस्तीर्णकर्णिकमथो दिवसारविन्दम् । श्लिष्टाष्टदिग्दलकलापखावतारबद्धान्धकारमधुपावलि सञ्चुकोच ॥

  अत्रैकपदानुप्रविष्टौ रूपकानुप्रासौ यत्रैकस्मिन् श्लोके पदभेदेन शब्दार्थालङ्कारयोः स्थितिस्तत्र तयोः संसृष्टिरिह तु सङ्कर इति । 

अलङ्कारसर्वस्त्रकारस्तु एकस्मिन्वाचकेऽनुप्रवेशो वाच्ययोरेवालङ्कारयोः स्वारसिको वाच्यप्रतियोगि कत्वाद्वाचकस्येति मत्वार्थालङ्कारयोरप्येकवाचकानुप्रवेशसङ्करमुदाजहार । सत्पुष्करद्योतितरङ्गशोभिन्यमन्दमारब्धमृदङ्गवाद्ये । उद्यानवापीपयसीव यस्यामेणीदृशो नाट्यगृहे रमन्ते ॥

  अत्र नाट्यगृहवापीपयसोः सत्पुष्करेत्यादिविशेषणं शब्दसाम्यं श्लेषः, अमन्दमारब्धेत्यादिविशेषणेऽर्थसाम्यमुपमा, तदुभयमेकस्मिन्निवशब्देऽनुप्रविष्टमिति तदपि न मन्यामहे । सत्पुष्करेत्यादिविशेषणेऽपि श्लेषभित्तिकाभेदाध्यवसायरूपातिशयोक्तिलभ्यस्य धर्मसाम्यस्यैव तत्रेवशब्दप्रतिपाद्यतया शब्दसाम्यस्य तदप्रतिपाद्यत्वात्। श्लेषभित्तिकाभेदाध्यवसायेन धर्मसाम्यमतानङ्गीकारे 'अहो रागवती सन्ध्या जहाति स्वयमम्बरम्' इत्यादिश्लिष्टविशेषणसमासोक्त्युदाहरणे विशेषणसाम्याभावेन समासोक्त्यभावप्रसङ्गात् । शब्दसाम्यस्येवशब्दप्रतिपाद्यत्वेऽपि तस्योपमावाचकत्वस्यैव प्राप्त्या श्लेषवाचकत्वाभावाच्च । शब्दतोऽर्थतो वा कविसम्मतसाम्यप्रतिपादने सर्वविधेऽप्युपमालङ्कारस्वीकारात् । अन्यथा-

'यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा । तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥'

  इत्यत्राप्युपमा न स्यात् । नह्यत्रान्वर्थनामरूपशब्दसाम्यं विना किञ्चिदर्थसाम्यं कविविवक्षितमस्ति । तस्माद्यत्रैकस्मिन्नर्थे प्रतिपाद्यमाने अलङ्कारद्वयप्रतीतिस्तत्र तयोरलङ्कारयोरेकवाचकानुप्रवेशः ॥

विधुकरपरिरम्भादात्तनिष्यन्दपूर्णैः शशिदृषदुपक्लृप्तैरालवालैस्तरूणाम् । विफलितजलसेकप्रक्रियागौरवेण व्यरचि स हृतचित्तस्तत्र भैमीवनेन ॥

  अत्र हि प्रतिपाद्यमानोऽर्थः समृद्धिमद्वस्तुवर्णनमुदात्तमिति लक्षणानुसारादुदात्तालङ्काररूपः असम्बन्धे सम्बन्धकथनमतिशयोक्तिरिति लक्षणादतिशययोक्तिश्च । नच सर्वत्रोदात्तस्यासम्बन्धे सम्बन्धवाचनरूपत्वं निर्णीतमिति न विविक्तालङ्कारद्वयलक्षणसमावेशोऽस्तीति वाच्यम् । दिव्यलोकगतसम्पत्समृद्धिवर्णनादिष्वतिशयास्पृष्टस्योदात्तस्य शौर्यौदार्यदारिद्र्यादिविषयवर्णनेषूदात्तास्पृष्टाया अतिशयोक्तेश्च परस्परविविक्ततया विश्रान्तेः । तयोश्चेहार्थवशसम्पन्नसमावेशयोर्नाङ्गाङ्गिभावः । एकेनापरस्यानित्थापनात्स्वातन्त्र्यपारतन्त्र्यविशेषादर्शनाच्च । नापि समप्राधान्यम् । यैः शब्दैरिह सम्बन्धि वस्तु प्रतिपाद्यते तैरेव तस्यैव वस्तुनोऽसम्बन्धे सम्बन्धरूपस्य प्रतिपाद्यमानतया भिन्नप्रतिपादकशब्दव्यवस्थितार्थभेदाभावात् । नापि सन्देहसङ्करः । एकालङ्कारकोट्यां तदन्यालङ्कारकोटिप्रतिक्षेपाभावात् । तस्मादिहोदात्तातिशयोक्त्योरेकवाचकानुप्रवेशलक्षणः सङ्करः ।

सङ्करसङ्करालङ्कारः १२४ क्वचित्सङ्कराणामपि सङ्करो दृश्यते । यथा- मुक्ता केलिविसूत्रहारगलिताः सम्मार्जनीभिर्हृताः प्रातः प्राङ्गणसीम्नि मन्थरचलद्बालाङ्घ्रिलाक्षारुणाः । दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम् ॥

   अत्र तावद्विदुषां सम्पत्समृद्धिवर्णनमुदात्तालङ्कारस्तन्मूलको बालाङ्घ्रिलाक्षारुणा इत्यत्र तद्गुणालङ्कारस्तत्रैव वक्ष्यमाणभ्रान्त्युपपादकः पदार्थहेतुककाव्यलिङ्गालङ्कारश्चेति तयोरेकवाचकानुप्रवेशसङ्करस्तन्मूलः शङ्कितधिय इत्यत्र भ्रान्तिमदलङ्कारस्ताभ्यां चोदात्तालङ्कारश्चारुतां नीत इति तयोश्च तस्य चाङ्गाङ्गिभावसङ्करः । एवं विद्वद्गेहवैभवस्य हेतुमतो राज्ञो वितरणविलासस्य हेतोश्चाभेदकथनं हेत्वलङ्कारः । स च राज्ञो वितरणविलासस्य निरतिशयोत्कर्षाभिव्यक्तिपर्यवसायी । एतावन्मात्रे कविसंरम्भश्चेदुक्तरूपोदात्तालङ्कारपरिष्कृते हेत्वलङ्कारे विश्रान्तिः । कीदृशी सम्पदिति प्रश्नोत्तरतया निरतिशयैश्वर्यवितरणरूपा प्रस्तुतकार्यमुखेन तदीयसम्पदुत्कर्षप्रशंसने कविसंरम्भश्चेत्कार्यनिबन्धनाप्रस्तुतप्रशंसालङ्कारे विश्रान्तिः । कार्यस्यापि वर्णनीयत्वेन प्रस्तुतत्वाभिप्राये तु प्रस्तुताङ्कुरे विश्रान्तिः । अत्र विशेषानध्यवसायात्सन्देहसङ्करः । किञ्च बिद्वद्गृहवैभववर्णनस्यासम्बन्धे सम्बन्धकथनरूपतयाऽतिशयोक्तेरुदात्तालङ्कारेण सहैकवाचकानुप्रवेशसङ्करः । निरतिशयवितरणोत्कर्षपर्यवसायिनो हेत्वलङ्कारस्यात्यद्भुतातथ्यौदार्यवर्णनात्मिकयाऽत्युक्त्या सहैकवाचकानुप्रवेशसङ्करः । तन्मूलकस्याप्रस्तुतप्रशंसालङ्कारस्य प्रस्तुताङ्कुरस्य वा राजसम्पत्समृद्धिवर्णनात्मकोदात्तालङ्कारेण सहैकवाचकानुप्रवेशसङ्करः । वाचकशब्दस्य प्रतिपादकमात्रपरतया व्यञ्जकसाधारण्यादेषां च त्रयाणामेकवाचकानुप्रवेशसङ्कराणां समप्राधान्यसङ्करः । न ह्येतेषां परस्परमन्यत्राङ्गत्वमस्ति ॥

उदात्तादिमात्रस्यैव हेत्वलङ्कारादिचारुतापादकत्वेनातिशयोक्तिसङ्करस्याङ्गतयाऽनपेक्षणात् । एवमत्र श्लोके चतुर्णामपि सङ्कराणां यथायोग्यं सङ्करः । एवमन्यत्राप्युदाहरणान्तराण्यूह्यानि ॥ उपसंहारः अमुं कुवलयानन्दमकरोदप्पदीक्षितः । नियोगाद्वेङ्कटपतेर्निरुपाधिकृपानिधेः ॥ १७१ ॥ चन्द्रालोको विजयतां शरदागमसम्भवः । हृद्यः कुवलयानन्दो यत्प्रसादादभूदयम् ॥ १७२ ॥ इति श्रीमदद्वैतविद्याचार्यश्रीमद्द्विजकुलजलधिकौस्तुभश्रीरङ्गराजाध्वरीन्द्रवरदसूनोरप्पदीक्षितस्य कृतिः कुवलयानन्दः समाप्तः ॥