कुवलयानन्दः

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीमदप्पयदीक्षितविरचितः कुवलयानन्दः

॥श्री गणेशाय नमः॥

अमरीकबरीभारभ्रमरीमुखरीकृतम।
दूरीकरोतु दुरितं गौरीचरणपङ्कजम्॥१॥


परस्परतपःसम्पत्फलायितपरस्परौ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः॥२॥


उद्घाट्य योगकलया हृदयाब्जकोशं धन्यैश्चिरादपि यथारुचि गृह्यमाणः।
यः प्रस्फुरत्यविरतं परिपूर्णरूपः श्रेयः समे दिशतु शाश्वतिकं मुकुन्दः॥३॥


अलङ्कारेषु बालानामवगाहनसिद्धये।
ललितः क्रियते तेषां लक्ष्यलक्षणसंग्रहः॥४॥


येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः।
प्रायस्त एव तेषामितरेषां त्वभिनवा विरच्यन्ते॥५॥


१. उपमालङ्कारः

उपमा यत्रा सादृश्यलक्ष्मीरुल्लसति द्वयोः।
हंसीव कृष्ण ! ते कीर्तिः स्वर्गङ्गामवगाहते॥६॥

यत्रोपमानोपमेययोः सहृदयाह्लादकत्वेन चारु, सादृश्यमुद्भूततयोल्लसति व्यङ्ग्यमर्यादा विना स्पष्टं प्रकाशते तत्रोपमामालङ्कारः । हंसीवेत्युदाहरणम् । इयं च पूर्णोपमेत्युच्यते । हंसी कीर्तिः स्वर्गङ्गावगाहनम् इवशब्दश्चेति एषामुपामानोपमेयसाधारणधर्मोपमावाचाकानां चतुर्णामप्युपादानात्‌ । यथा वा -
" गुणदोषौ बुधो गृह्णन्निन्दुक्ष्वेडाविवेश्वरः ।
शिरसा श्लाघते पूर्वं परं कण्ठे नियच्छति ॥" अत्र यद्युप्युपमानोपमेययोर्नैकः साधारणो धर्मः ।

उपमाने ईश्वरे चन्द्रगरलयोर्ग्रहणमुपादानं, तयोर्मध्ये पूर्वस्य चन्द्रस्य श्लाघनं वहनम्, उत्तरस्य गरलस्य कण्ठे नियमनं संस्थापनम् ।

उपमेये बुधे गुणदोषयोर्ग्रहणं ज्ञानं, तयोर्मध्ये पूर्वस्य शिरसा श्लाघानं शिरःकम्पेन अभिनन्दनम्, उत्तरस्य दोषस्य कण्ठे नियमनं काण्ठादुपरि वाचादनुद्घाटनम् इति भेदात् ।


तथापि चन्द्रगरलयोर्गुणदोषयोश्च बिम्बप्रतिबिम्बभावेनाभेदात्, उपादानज्ञानादीनां गृह्णन्निति एकशब्दोपादानेन अभेदाध्यवसायाच्च साधारणधर्मतेति पूर्ववद् निशेषः । वस्तुतो भिन्नयोरपि उपमानोपमेयधर्मयोः परस्परसादृश्याद् अभिन्नयोः पृथगुपादानं बिम्बप्रतिबिम्बभावः इति आलङ्कारिकसमयः ।


वर्ण्योपमानधर्माणामुपमावाचकस्य च।
एकद्वित्रयनुपादानैर्भिन्ना लुप्तोपमाष्टधा॥७॥


तडिद्गौरीन्दुतुल्यास्या कर्पूरन्ती दृशोर्मप।
कान्त्या स्मरवधूयन्ती दृष्टा तन्वी रहो मया॥८॥


यत्तया मेलनं तत्रा लाभो मे यश्च तद्रतेः।
तदेतत्काकतालीयमवितर्कितसंभवम्॥९॥


२. अनन्वयालङ्कारः

उपमानोपमेयत्वं यदेकस्यैव वस्तुनः।
इन्दुरिन्दुरिव श्रीमानित्यादौ तदनन्वयः॥१०॥


३. उपमेयोपमालङ्कारः

पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता।
धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि॥११॥


४. प्रतीपालङ्कारः

प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम्।
त्वल्लोचनसमं पद्मं त्वद्वक्त्रासदृशो विधुः॥१२॥


अन्योपमेयलाभेन वर्ण्यस्यानादरश्च तत्।
अलं गर्वेण ते वक्त्रा ! कान्त्या चन्द्रोऽपि तादृशः॥१३॥


वर्ण्योपमेयलाभेन तथान्यस्याप्यनादरः।
कः क्रौर्यदर्पस्ते मृत्यो ! त्वत्तुल्याः सन्ति हि स्त्रियः॥१४॥


वर्ण्येनान्यस्योपमाया अनिष्पत्तिवचश्च तत्।
मुधापवादो मुग्धाक्षि ! त्वन्मुखाभं किलाम्बुजम्॥१५॥


प्रतीपमुपमानस्य कैमर्थ्यमपि मन्वते।
दृष्टं चेद्वदनं तस्याः किं पद्मेन किमिन्दुना॥१६॥


५ रूपकालङ्कारः

विषय्यभेदताद्रूप्यरञ्जनं विषयस्य तत्।
रूपकं तत्त्रिाधाधिक्यन्यूनत्वानुभयोक्तिभिः॥१७॥


अयं हि धूर्जटिः साक्षाद्येन दग्धाः पुरः क्षणात्।
अयमास्ते विना शम्भुस्तार्तीयीकं विलोचनम्॥१८॥


शम्भुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम्।
अस्या मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना॥१९॥


साध्वीयमपरा लक्ष्मीरसुधासागरोदिता।
अयं कलङ्किनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते॥२०॥


६. परिणामालङ्कारः

परिणामः क्रियार्थश्चेद्विषयी विषयात्मना।
प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा॥२१॥


७. उल्लेखालङ्कारः

बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते।
स्त्राीभिः कामोऽर्थिभिः स्वर्द्रुः कालः शत्रुभिरैक्षि सः॥२२॥


एकेन बहुधोल्लेखेऽप्यसौ विषयभेदतः।
गुरुर्वचस्यर्जुनोऽयं कीर्तौ भीष्मः शरासने॥२३॥


८-१० स्मृति-भ्रान्ति-संदेहालङ्काराः

स्यात्स्मृतिभ्रान्तिसंदेहैस्तदङ्कालङ्कृतित्रायम्।
पङ्कजं पश्यतः कान्तामुखं मे गाहते मनः॥२४॥


अयं प्रमत्तमधुपस्त्वन्मुखं वेत्ति पङ्कजम्।
पङ्कजं वा सुधांशुर्वेत्यस्माकं तु न निर्णयः॥२५॥


११. अपह्नुत्यलङ्कारः

शुद्धापह्नुतिरन्यस्यारोपार्थो धर्मनिह्नवः।
नायं सुधांशुः, किं तर्हि? व्योमगङ्गासरोरुहम्॥२६॥


स एव युक्तिपूर्वश्चेदुच्यते हेत्वपह्नुतिः।
नेन्दुस्तीव्रो न निश्यर्कः, सिन्धोरौर्वोऽयमुत्थितः॥२७॥


अन्यत्रा तस्यारोपार्थः पर्यस्तापह्नुतिस्तु सः।
नायं सुधांशुः, किं तर्हि? सुधांशुः प्रेयसीमुखम्॥२८॥


भ्रान्तापह्नुतिरन्यस्य शङ्कायां भ्रान्तिवारणे।
तापं करोति सोत्कम्पं, ज्वरः किं? न, सखि ! स्मरः॥२९॥


छेकापह्नुतिरन्यस्य शङ्कातस्तथ्यनिह्नवे।
प्रजल्पन्मत्पदे लग्नः कान्तः किं? नहि, नूपुरः॥३०॥


कैतवापह्नुतिर्व्यक्तौ व्याजाद्यैर्निह्नुतेः पदैः।
निर्यान्ति स्मरनाराचाः कान्तादृक्पातकैतवात्॥३१॥


१२. उत्प्रेक्षालङ्कारः

संभावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना।
उक्तानुक्तास्पदाद्यात्रा सिद्धाऽसिद्धास्पदे परे॥३२॥


धूमस्तोमं तमः शङ्के कोकीविरहशुष्मणाम्।
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः॥३३॥


रक्तौ तवाङ्घ्री मृदुलौ भुवि विक्षेपणाद्धु्रवम्।
त्वन्मुखाभेच्छया नूनं पद्मैर्वैरायते शशी॥३४॥


मध्यः किं कुचयोर्धृत्यैः बद्धः कनकदामभिः।
प्रायोऽब्जं त्वत्पदेनैक्यं प्राप्तुं तोये तपस्यति॥३५॥


१३. अतिशयोक्त्यलङ्कारः

रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः।
पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति शिताः शराः॥३६॥


यद्यपह्नुतिगर्भत्वं सैव सापह्नवा मता।
त्वत्सूक्तिषु सुधा राजन्भ्रान्ताः पश्यन्ति तां विधौ॥३७॥


भेदकातिशयोक्तिस्तु तस्यैवान्यत्ववर्णनम्।
अन्यदेवास्य गाम्भीर्यमन्यद्धैर्यं महीपतेः॥३८॥


संबन्धातिशयोक्तिः स्यादयोगे योगकल्पनम्।
सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम्॥३९॥


योगेऽप्ययोगोऽसंबन्धातिशयोक्तिरितीर्यते।
त्वयि दातरि राजेन्द्र ! स्वर्द्रुमान्नाद्रियामहे॥४०॥


अक्रमातिशयोक्तिः स्यात् सहत्वे हेतुकार्ययोः।
आलिङ्गन्ति समं देव ! ज्यां शराश्च पराश्च ते॥४१॥


चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे।
यास्यामीत्युदिते तन्व्या वलयोऽभवदूर्मिका॥४२॥


अत्यन्तातिशयोक्तिस्तु पौर्वापर्यव्यतिक्रमे।
अग्रे मानो गतः पश्चादनुनीता प्रियेण सा॥४३॥


१४. तुल्ययोगितालङ्कारः

वर्ण्यानामितरेषां वा धर्मैक्यं तुल्ययोगिता।
संकुचन्ति सरोजानि स्वैरिणीवदनानि च॥४४॥


त्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते।
मालतीशशभृल्लेखाकदलीनां कठोरता॥४५॥


हिताहिते वृत्तितौल्यमपरा तुल्ययोगिता।
प्रदीयते पराभूतिर्मित्राशत्रावयोस्त्वया॥४६॥


गुणोत्कृष्टैः समीकृत्य वचोऽन्या तुल्ययोगिता।
लोकपालो यमः पाशी श्रीदः शक्रो भवानपि॥४७॥


१५. दीपकालङ्कारः

वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधाः।
मदेन भाति कलभः प्रतापेन महीपतिः॥४८॥


१६. आवृत्तिदीपकालङ्कारः

त्रिविधं दीपकावृत्तौ भवेदावृत्तिदीपकम्।
वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्बरी।४९॥


उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोद्गमाः।
माद्यन्ति चातकास्तृप्ता माद्यन्ति च शिखावलाः॥५०॥


१७. प्रतिवस्तूपमालङ्कारः

वाक्ययोरेकसामान्ये प्रतिवस्तूपमा मता।
तापेन भ्राजते सूरः शूरश्चापेन राजते॥५१॥


१८. दृष्टान्तालङ्कारः

चेद्बिम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलंकृतिः।
त्वमेव कीर्तिमान् राजन् ! विधुरेव हि कान्तिमान्॥५२॥


१९. निदर्शनालङ्कारः

वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना।
यद्दातुः सौम्यता सेयं पूर्णेन्दोरकलङ्कता॥५३॥


पदार्थवृत्तिमप्येके वदन्त्यन्यां निदर्शनाम्।
त्वन्नेत्रायुगलं धत्ते लीलां नीलाम्बुजन्मनोः॥५४॥


अपरां बोधनं प्राहुः क्रिययाऽसत्सदर्थयोः।
नश्येद्राजविरोधीति क्षीणं चन्द्रोदये तमः॥५५॥


उदयन्नेव सविता पद्मेष्वर्पयति श्रियम्।
विभावयन् समृद्धीनां फलं सुहृदनुग्रहः॥५६॥


२०. व्यतिरेकालङ्कारः

व्यतिरेको विशेषश्चेदुपमानोपमेययोः।
शैला इवोन्नताः सन्तः किन्तु प्रकृतिकोमलाः॥५७॥


२१. सहोक्त्यलङ्कारः

सहोक्तिः सहभावश्चेद्भासते जनरञ्जनः।
दिगन्तमगमत्तस्य कीर्तिः प्रत्यर्थिभिः सह॥५८॥


२२. विनोक्त्यलङ्कारः

विनोक्तिश्चेद्विना किंचित्प्रस्तुतं हीनमुच्यते।
विद्या हृद्यापि साऽवद्या विना विनयसंपदम्॥५९॥


तच्चेत्किंचिद्विना रम्यं विनोक्तिः सापि कथ्यते।
विना खलैर्विभात्येषा राजेन्द्र ! भवतः सभा॥६०॥


२३. समासोक्त्यलङ्कारः

समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत्।
अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः॥६१॥


२४. परिकरालङ्कारः

अलङ्कारः परिकरः साभिप्राये विशेषणे।
सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः॥६२॥


२५. परिकराङ्कुरालङ्कारः

साभिप्राये विशेष्ये तु भवेत् परिकराङ्कुरः।
चतुर्णां पुरुषार्थानां दाता देवश्चतुर्भुजः॥६३॥


२६. श्लेषालङ्कारः

नानार्थसंश्रयः श्लेषो वर्ण्यावर्ण्योभयाश्रितः।
सर्वदो माधवः पायात् स योऽगं गामदीधरत्॥६४॥


अब्जेन त्वन्मुखं तुल्यं हरिणाहितसक्तिना।
उच्चरद्भूरिकीलालः शुशुभे वाहिनीपतिः॥६५॥


२७. अप्रस्तुतप्रशंसालङ्कारः

अप्रस्तुतप्रशंसा स्यात् सा यत्रा प्रस्तुताश्रया।
एकः कृती शकुन्तेषु योऽन्यं शक्रान्न याचते॥६६॥


२८. प्रस्तुताङ्कुरालङ्कारः

प्रस्तुतेन प्रस्तुतस्य द्योतेने प्रस्तुताङ्कुरः।
किं भृङ्ग ! सत्यां मालत्यां केतक्या कण्टकेद्धया?॥६७॥


२९. पर्यायोक्तालङ्कारः

पर्यायोक्तं तु गम्यस्य वचो भङ्गîन्तराश्रयम्।
नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ॥६८॥


पर्यायोक्तं तदप्याहुर्यद्वîाजेनेष्टसाधनम्।
यामि चूतलतां द्रष्टुं युवाभ्यामास्यतामिह॥६९॥


३०. व्याजस्तुत्यलङ्कारः

उक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयोः।
कः स्वर्धुनि विवेकस्ते पापिनो नयसे दिवम्॥७०॥


साधु दूति ! पुनः साधु कर्तव्यं किमतः परम्।
यन्मदर्थे विलूनासि दन्तैरपि नखैरपि॥७१॥


३१. व्याजनिन्दालङ्कारः

निन्दाया निन्दया व्यक्तिर्व्याजनिन्देति गीयते।
विधे ! स निन्द्यो यस्ते प्रागेकमेवाहरच्छिरः॥७२॥


३२. आक्षेपालङ्कारः

आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात्।
चन्द्र ! संदर्शयात्मानमथवास्ति प्रियामुखम्॥७३॥


निषेधाभासमाक्षेपं बुधाः केचन मन्वते।
नाहं दूती तनोस्तापस्तस्याः कालानलोपमः॥७४॥


आक्षेपोऽन्यो विधौ व्यक्ते निषेधे च तिरोहिते।
गच्छ गच्छसि चेत्कान्त ! तत्रौव स्याज्जनिर्मम॥७५॥


३३. विरोधाभासालङ्कारः

अभासत्वे विरोधस्य विरोधाभास इष्यते।
विनापि तन्वि ! हारेण वक्षोजौ तव हारिणौ॥७६॥


३४. विभावनालङ्कारः

विभावना विनापि स्यात् कारणं कार्यजन्म चेत्।
अप्यलाक्षारसासिक्तं रक्तं तच्चरणद्वयम्॥७७॥


हेतूनामसमग्रत्वे कार्याेत्पत्तिश्च सा मता।
अस्त्रैरतीक्ष्णकठिनैर्जगज्जयति मन्मथः॥७८॥


कार्योत्पत्तिस्तृतीया स्यात् सत्यपि प्रतिबन्धके।
नरेन्द्रानेव ते राजन् ! दशत्यसिभुजङ्गमः॥७९॥


अकारणात् कार्यजन्म चतुर्थी स्याद्विभावना।
शङ्खाद्वीणानिनादोऽयमुदेति महदद्भुतम्॥८०॥


विरुद्धात् कार्यसंपत्तिर्दृष्टा काचिद्विभावना।
सितांशुकिरणास्तन्वीं हन्त संतापयन्ति ताम्॥८१॥


कार्यात् कारणजन्मापि दृष्टा काचिद्विभावना।
यशः पयोराशिरभूत् करकल्पतरोस्तव॥८२॥


३५. विशेषोक्त्यलङ्कारः

कार्यजनिर्विशेषोक्तिः सति पुष्कलकारणे।
हृदि स्नेहक्षयो नाभूत् स्मरदीपे ज्वलत्यपि॥८३॥


३६. असम्भवालङ्कारः

असम्भवोऽर्थनिष्पत्तेरसम्भाव्यत्ववर्णनम्।
को वेद गोपशिशुकः शैलमुत्पाटयेदिति॥८४॥


३७. असङ्गत्यलङ्कारः

विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसङ्गतिः।
विषं जलधरैः पीतं, मूखच्छताः पथिकाङ्गनाः॥८५॥


अन्यत्रा करणीयस्य ततोऽन्यत्रा कृतिश्च सा।
अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तथा॥८६॥


अपारिजातां वसुधां चिकीर्षन् द्यां तथाऽकृथाः।
गोत्रोद्धारप्रवृत्तोऽपि गोत्रोद्भेदं पुराऽकरोः॥८७॥


३८. विषमालङ्कारः

विषमं वर्ण्यते यत्रा घटनाऽननुरूपयोः।
क्वेयं शिरीषमृद्वङ्गी, क्व तावन्मदनज्वरः॥८८॥


विरूपकार्यस्योत्पत्तिरपरं विषमं मतम्।
कीर्तिं प्रसूते धवलां श्यामा तव कृपाणिका॥८९॥


अनिष्टस्याप्यवाप्तिश्च तदिष्टार्थसमुद्यमात्।
भक्ष्याशयाऽहिमञ्जूषां दृष्ट्वाखुस्तेन भक्षितः॥९०॥


३९. समालङ्कारः

समं स्याद्वर्णनं यत्रा द्वयोरप्यनुरूपयोः।
स्वानुरूपं कृतं सद्म हारेण कुचमण्डलम्॥९१॥


सारूप्यमपि कार्यस्य कारणेन समं विदुः।
नीचप्रवणता लक्ष्मि ! जलजायास्तवोचिता॥९२॥


विनाऽनिष्टं च तत्सिद्धिर्यमर्थं कर्तुमुद्यतः।
युक्तो वारणलाभोऽयं स्यान्न ते वारणार्थिनः॥९३॥


४०. विचित्रालङ्कारः

विचित्रां तत्प्रयत्नश्चेद्विपरीतः फलेच्छया।
नमन्ति सन्तस्त्रौलोक्यादपि लब्धुं समुन्नतिम्॥९४॥


४१. अधिकालङ्कारः

अधिकं पृथुलाधारादाधेयाधिक्यवर्णनम्।
ब्रह्माण्डानि जले यत्रा तत्रा मान्ति न ते गुणाः॥९५॥


पृथ्वाधेयाद्यदाधाराधिक्यं तदपि तन्मतम्।
कियद्वाग्ब्रह्म यत्रौते विश्राम्यन्ति गुणास्तव॥९६॥


४२. अल्पालङ्कारः

अल्पं तु सूक्ष्मादाधेयाद्यदाधारास्य सूक्ष्मता।
मणिमालोर्मिकां तेऽद्य करे जपवटीयते॥९७॥


४३. अन्योन्यालङ्कारः

अन्योन्यं नाम यत्रा स्यादुपकारः परस्परम्।
त्रियामा शशिना भाति शशी भाति त्रियामया॥९८॥


४४. विशेषालङ्कारः

विशेषः ख्यातमाधारं विनाप्याधेयवर्णनम्।
गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः॥९९॥


विशेषः सोऽपि यद्येकं वस्त्वनेकत्रा वर्ण्यते।
अन्तर्बहिः पुरः पश्चात् सर्वदिक्ष्वपि सैव मे॥१००॥


किंचिदारम्भतोऽशक्यवस्त्वन्तरकृतिश्च सः।
त्वां पश्यता मया लब्धं कल्पवृक्षनिरीक्षणम्॥१०१॥


४५. व्याघातालङ्कारः

स्याद्व्याघातोऽन्थाऽकारि तथाकारि क्रियेत चेत्।
यैर्जगत्प्रीयते, हन्ति तैरेव कुसुमायुधः॥१०२॥


सौकर्येण निबद्धापि क्रिया कार्यविरोधिनी।
दया चेद् बाल इति मय्यपरित्याज्य एव ते॥१०३॥


४६. कारणमालालङ्कारः

गुम्फः कारणमाला स्याद्यथाप्राक्प्रान्तकारणैः।
नयेन श्रीः श्रिया त्यागस्त्यागेन विपुलं यशः॥१०४॥


४७. एकावल्यलङ्कारः

गृहीतमुक्तरीत्यार्थश्रेणिरेकावलिर्मता।
नेत्रो कर्णान्तविश्रान्ते कर्णौ दोःस्तम्भदोलितौ॥१०५॥


दोःस्तम्भौ जानुपर्यन्तप्रलम्बनमनोहरौ।
जानुनो रत्नमुकुराकारे तस्य हि भूभुजः॥१०६॥


४८. मालादीपकालङ्कारः

दीपकैकावलीयोगान्मालादीपकमिष्यते।
स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः॥१०७॥


४९. सारालङ्कारः

उत्तरोत्तरमुत्कपः सार इत्यभिधीयते।
मधु मधुरं तस्माच्च सुधा तस्याः कवेर्वचः॥१०८॥


५०. यथासंख्यालङ्कारः

यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः।
शत्राुं मित्रां विपत्तिं च जय रञ्जय भञ्जय॥१०९॥


५१. पर्यायालङ्कारः

पर्यायो यदि पर्यायेणैकस्यानेकसंश्रयः।
पद्मं मुक्त्वा गता चन्द्रं कामिनीवदनोपमा॥११०॥


एकस्मिन् यद्यनेकं वा पर्यायः सोऽपि संमतः।
अधुना पुलिनं तत्रा यत्रा स्त्रोतः पुराऽजनि॥१११॥


५२. परिवृत्त्यलङ्कारः

परिवृत्तिर्विनिमया न्यूनाभ्यधिकयोर्मिथः।
जग्राहैकं शरं मुक्त्वा कटाक्षात्स रिपुश्रियम्॥११२॥


५३. परिसंख्यालङ्कारः

परिसंख्या निषिध्यैकमेकस्मिन् वस्तुयंत्राणम्।
स्नेहक्षयः प्रदीपेषु न स्वान्तेषु नतभ्रुवाम्॥११३॥


५४. विकल्पालङ्कारः

विरोधे तुल्यबलयोर्विकल्पालंकृतिर्मता।
सद्यः शिरांसि चापान्वा नमयन्तु महीभुजः॥११४॥


५५. समुच्चयालङ्कारः

बहूनां युगपद्भावभाजां गुम्फः समुच्चयः।
नश्यन्ति पश्चात्पश्यन्ति त्रास्यन्ति च भवद्द्विषः॥११५॥


अहं प्राथमिकाभाजामेककार्यान्वयेऽपि सः।
कुलं रूपं वयो विद्या धनं च मदयन्त्यमुम्॥११६॥


५६. कारकदीपकालङ्कारः

क्रमिकैकगतानां तु गुम्फः कारकदीपकम्।
गच्छत्यागच्छति पुनः पान्थः पश्यति पृच्छति॥११७॥


५७. समाध्यलङ्कारः

समाधिः कार्यसौकर्यं कारणान्तरसंनिधेः।
उत्कण्ठिता च तरुणी जगामास्तं च भानुमान्॥११८॥


५८. प्रत्यनीकालङ्कारः

प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः।
जैत्रानेत्रानुगौ कर्णावुत्पलाभ्यामधःकृतौ॥११९॥


५९. अर्थापत्त्यलङ्कारः

कैमुत्येनार्थसंसिद्धिः काव्यार्थापतिरिष्यते।
स जितस्त्वन्मुखेनेन्दुः, का वार्ता सरसीरुहाम?॥१२०॥


६०. काव्यलिङ्गालङ्कारः

समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम्।
जितोऽसि मन्द ! कन्दर्प ! मञ्िचत्तेऽस्ति त्रिलोचनः॥१२१॥


६१. अर्थान्तरन्यासालङ्कारः

उक्तिरर्थान्तरन्यासः स्यात् सामान्यविशेषयोः।
हनूमानब्धिमतरद् दुष्करं किं महात्मनाम्॥१२२॥


गुणवद्वस्तुसंसर्गाद्याति स्वल्पोऽपि गौरवम्।
पुष्पमालानुषङ्गेण सूत्रां शिरसि धार्यते॥१२३॥


६२.विकस्वरालङ्कारः

यस्मिन्विशेषसामान्यविशेषाः स विकस्वरः।
स न जिग्ये महान्तो हि दुर्धर्षाः सागरा इव॥१२४॥


६३. प्रौढोक्त्यलङ्कारः

प्रौढोक्तिरुत्कर्षाहेतौ तद्धेतुत्वप्रकल्पनम्।
कचाः कलिन्दजातीरतमालस्तोममेचकाः॥१२५॥


६४. सम्भावनालङ्कारः

सम्भावना यदीत्थं स्याद्वित्यूहोऽन्यस्य सिद्धये।
यदि शेषो भवेद्वक्ता कथिताः स्युर्गुणास्तव॥१२६॥


६५. मिथ्याध्यवसित्यलङ्कारः

किंचिन्मिथ्यात्वसिद्धîर्थं मिथ्यार्थान्तरकल्पनम्।
मिथ्याध्यवसितिर्वेश्यां वशयेत्खस्त्रजं वहन्॥१२७॥


६६. ललितालङ्कारः

वर्ण्ये स्याद्वर्ण्यवृत्तान्तप्रतिबिम्बस्य वर्णनम्।
ललितं निर्गते नीरे सेतुमेषा चिकीर्षति॥१२८॥


६७. प्रहर्षणालङ्कारः

उत्कण्ठितार्थसंसिद्धिर्विना यत्नं प्रहर्षणम्।
तामेव ध्यायते तस्मै निसृष्टा सैव दूतिका॥१२९॥


वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम्।
दीपमुद्योजयेद्यावत्तावदभ्युदितो रविः॥१३०॥


यत्नादुपायसिद्धîर्थात् साक्षाल्लाभः फलस्य च।
निघ्यञ्जनौषधीमूलं खनता साधितो निधिः॥१३१॥


६८. विषादनालङ्कारः

इष्यमाणविरुद्धार्थसंप्राप्तिस्तु विषादनम्।
दीपमुद्योजयेद्यावन्निर्वाणस्तावदेव सः॥१३२॥


६९. उल्लासालङ्कारः

एकस्य गुणदोषाभ्यामुल्लासोऽन्यस्य तौ यदि।
अपि मां पावयेत् साध्वी स्नात्वेतीच्छति जाङ्गली॥१३३॥


काठिन्यं कुचयोः स्त्रष्टुं वाञ्छन्त्यः पादपद्मयोः।
निन्दन्ति च विधातारं त्वद्धाटीष्वरियोषितः॥१३४॥


तद्भाग्यं धनस्यैव यन्नाश्रयति सज्जनम्।
लाभोऽयमेव भूपालसेवकानां न चेद्वधः॥१३५॥


७०. अवज्ञालङ्कारः

ताभ्यां तौ यदि न स्यातामवज्ञालंकृतिस्तु सा।
स्वल्पमेवाम्बु लभते प्रस्थं प्राप्यापि सागरम्॥ मीलन्ति यदि पद्मानि का हानिरमृतद्युतेः॥१३६॥


७१. अनुज्ञालङ्कारः

दोषस्याभ्यर्थनानुज्ञा तत्रौव गुणदर्शनात्।
विपदः सन्तुः नः शश्वद्यासु संकीर्त्यते हरिः॥१३७॥


७२. लेशालङ्कारः

लेशः स्याद्दोषगुणयोर्गुणदोषत्वकल्पनम्।
अखिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु॥ शुक ! पञ्जरबन्धस्ते मधुराणां गिरां फलम्॥१३८॥


७३. मुद्रालङ्कारः

सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः।
नितम्बगुर्वी तरुणी दृग्युग्मविपुला च सा॥१३९॥


७४. रत्नावल्यलङ्कारः

क्रमिकं प्रकृतार्थानां न्यासं रत्नावलीं विदुः।
चतुरास्यः पतिर्लक्ष्म्याः सर्वज्ञस्त्वं महीपते !॥१४०॥


७५. तद्गुणालङ्कारः

तद्गुणः स्वगुणत्यागादन्यदीयगुणग्र्रहः।
पद्मरागायते नासामौक्तिकं तेऽधरत्विषा॥१४१॥


७६. पूर्वरूपालङ्कारः

पुनः स्वगुणसंप्राप्तिः पूर्वरूपमुदाहृतम्।
हरकण्ठांशुलिप्तोऽपि शेषत्वद्यशसा सितः॥१४२॥


पूर्वावस्थानुवृत्तिश्च विकृते सति वस्तुनि।
दीपे निर्वापितेऽप्यासीत् काञ्चीरत्नैर्महन्महः॥१४३॥


७७. अतद्गुणालङ्कारः

संगतान्यगुणानङ्गीकारमाहुरतद्गुणम्।
चिरं रागिणि मञ्िचत्ते निहितोऽपि न रञ्जसि॥१४४॥


७८. अनुगुणालङ्कारः

प्राक्सिद्धस्वगुणोत्कर्षोऽनुगुणाः परसंनिधेः।
नीलोत्पलानि दधते कटाक्षैरतिनीलताम्॥१४५॥


७९. मीलितालङ्कारः

मीलितं यदि सादृश्याद्भेद एव न लक्ष्यते।
रसो नालक्षि लाक्षायाश्चरणे सहजारुणे॥१४६॥


८०. सामान्यालङ्कारः

सामान्यं यदि सादृश्याद्विशेषो नोपलक्ष्यते।
पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम्॥१४७॥


८१-८२ उन्मीलित-विशेषालङ्कारौ

भेदवैशिष्ट्ययोः स्फूर्तावुन्मीलितविशेषकौ।
हिमाद्रिं त्वद्यशोमग्नं सुरा शीतेन जानते॥ लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च॥१४८॥


८३. उत्तरालङ्कारः

किंचिदाकूतसहितं स्याद्गूढोत्तरमुत्तरम्।
यत्रासौ वेतसी पान्थ ! तत्रोयं सुतरा सरित्॥१४९॥


प्रश्नोत्तरान्तराभिन्नमुत्तरं चित्रामुच्यते।
के-दारपोषणरताः, के खेटाः, किं चलं वयः॥१५०॥


८४. सूक्ष्मालङ्कारः

सूक्ष्मं पराशयाभिज्ञेतरसाकूतचेष्टितम्।
मयि पश्यति सा केशैः सीमन्तमणिमावृणोत्॥१५१॥


८५. पिहितालङ्कारः

पिहितं परवृत्तान्तज्ञातुः साकूतचेष्टितम्।
प्रिये गृहागते प्रातः कान्ता तल्पमकल्पयत्॥१५२॥


८६. व्याजोक्त्यलङ्कारः

व्याजोक्तिरन्यहेतूक्त्या यदाकारस्य गोपनम्।
सखि ! पश्य गृहारामपरागैरस्मि धूसरा॥१५३॥


८७. गूढोक्त्यलङ्कारः

गूढोक्तिरन्योद्देश्यं चेद्यदन्यं प्रति कथ्यते।
वृषापेहि परक्षेत्रादाîाति क्षेत्रारक्षकः॥१५४॥


८८. विवृतोक्त्यलङ्कारः

विवृतोक्तिः श्लिष्टगुप्तं कविनाविष्कृतं यदि।
वृषापेहि परक्षेत्रादिति वक्ति ससूचनम्॥१५५॥


८९. युक्त्यलङ्कारः

युक्तिः परातिसन्धानं क्रियया मर्मगुप्तये।
त्वामालिखन्ती दृष्ट्वाऽन्यं धनुः पौष्पं करेऽलिखत्॥१५६॥


९०. लोकोक्त्यलङ्कारः

लोकप्रवादानुकृतिर्लोकोक्तिरिति भण्यते।
सहस्व कतिचिन्मासान् मीलयित्वा विलोचने॥१५७॥


९१. छेकोक्त्यलङ्कारः

छेकोक्तिर्यत्रा लोकोक्तेः स्यादर्थान्तरगर्भिता।
भुजङ्ग एव जानीते भुजङ्गचरणं सखे !॥१५८॥


९२. वक्रोक्त्यलङ्कारः

वक्रोक्तिः श्लेषकाकुभ्यामपरार्थप्रकल्पनम्।
मुञ्च मानं दिनं प्राप्तं नेह नन्दी हरान्तिके॥१५९॥


९३. स्वभावोक्त्यलङ्कारः

स्वभावोक्तिः स्वभावस्य जात्यादिस्थस्य वर्णनम्।
कुरङ्गैरुत्तरङ्गाक्षैः स्तब्धकर्णैरुदीक्ष्यते॥१६०॥


९४. भाविकालङ्कारः

भाविकं भूतभाव्यर्थसाक्षात्कारस्य वर्णनम्।
अहं विलोकयेऽद्यापि युध्यन्तेऽत्रा सुरासुराः॥१६१॥


९५. उदात्तालङ्कारः

उदात्तमृद्धेचरितं श्लाघ्यं चान्योपलक्षणम्।
सानौ यस्याभवद्युद्धं तद्धूर्जटिकिरीटिनोः॥१६२॥


९६. अत्युक्त्यलङ्कारः

अत्युक्तिरद्भूतातथ्यशौर्योदार्यादिवर्णनम्।
त्वयि दातरि राजेन्द्र ! याचकाः कल्पशाखिनः॥१६३॥


९७. निरुक्त्यलङ्कारः

निरूक्तिर्योगतो नाम्नामन्यार्थत्वप्रकल्पनम्।
ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान्॥१६४॥


९८. प्रतिषेधालङ्कारः

प्रतिषेधः प्रसिद्धस्य निषेधस्यानुकीर्तनम्।
न द्यूतमेतत्कितव ! क्रीडनं निशितैः शरैः॥१६५॥


९९. विध्यलङ्कारः

सिद्धस्यैव विधानं यत्तमाहुर्विध्यलंकृतिम्।
पञ्चमोदञ्चने काले कोकिलः कोकिलोऽभवत्॥१६६॥


१००. हेत्वलङ्कारः

हेतोर्हेतुमता सार्धं वर्णनं हेतुरुच्यते।
असावुदेति शीतांशुर्मानच्छेदाय सुभु्रवाम्॥१६७॥


हेतुहेतुमतोरैक्यं हेतुं केचित् प्रचक्षते।
लक्ष्मीविलासा विदुषां कटाक्षा वेङ्कटप्रभोः॥१६८॥


इत्थं शतमलङ्कारा लक्षयित्वा निदर्शिताः।
प्रचामाधुनिकानां च मतान्यालोच्य सर्वतः॥१६९॥


अथ रसवदाद्यलङ्काराः

रसभावतदाभासभावशान्तिनिबन्धनाः।
चत्वारो रसवत्प्रेय ऊर्जस्वि च समाहितम्॥१७०॥


भावस्य चोदयः सन्धिः शबलत्वमिति त्रायः।
अष्टौ प्रमाणालङ्काराः प्रत्यक्षप्रमुखाः क्रमात्॥ एवं पञ्चदशान्यानप्यलङ्कारान् विदुर्बुधाः॥१७१॥


१०१ तत्रा रसवदलङ्कारः

तत्रा रसवदुदाहरणम्- मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः।
येनैकचुलके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ॥

१०२ प्रेयोलङ्कारः

प्रेयोलङ्कार एव भावालङ्कार उच्यते। स यथा (गं.लं.)- कदा वाराणस्याममरतटिनीरोधसि वसन् वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम्।
अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन् ! प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान्॥

१०३ ऊर्जस्व्यलङ्कारः

ऊर्जस्वि यथा,- त्वत्प्रत्यर्थिवसुन्धरेशतरुणीः सन्त्रासतः सत्वरं यान्तीर्वीर ! विलुण्ठितंु सरभसं याताः किराता वने।
तिष्ठन्ति स्तिमिताः प्ररूढपुलकास्ते विस्मृतोपक्रमा- स्तासामुत्तरलैः स्तनैरतितरां लोलैरपाङ्गैरपि॥

१०४ समाहितालङ्कारः

समाहितं यथा- पश्यामः किमियं प्रपद्यत इति स्थैर्यं मयालम्बितं किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः।
इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे सव्याजं हसितं मया धृतिहरो मुक्तस्तु बाष्पस्तया॥ अत्रा शृङ्गारस्य कोपशान्तिरङ्गम्॥

१०५ भावोदयालङ्कारः

भावोदयो यथा (नैषध. ९/६६)- तदद्य विश्रम्य दयालुरेधि मे दिनं निनीषामी भवद्विलोकिनी।
अदर्शि पादेन विलिख्य पत्रिणा तवैव रूपेण समः स मत्प्रियः॥ अत्रा नलं प्रति दमयन्त्या औत्सुक्यरूपभावस्योदयः शृङ्गाररसस्याङ्गम्॥

१०६ भावसन्ध्यलङ्कारः

भावसन्धिर्यथा- एकाभूत् कुसुमायुधेषुधिरिव प्रव्यक्तपुङ्खावली जेतुर्मङ्गलपालिकेव पुलकैरन्या कपोलस्थली।
लोलाक्षीं क्षणमात्राभाविविरहक्लेशासहां पश्यतो द्रागाकर्णयतश्च वीर ! भवतः प्रौढाहवाडम्बरम्॥ अत्रा रमणीप्रेम रणौत्सुक्ययोः सन्धिः प्रभुविषयभावस्याङ्गम्॥

१०७ भावशबलालङ्कारः

भावशबलं यथा- क्वाकार्यं शशलक्ष्मणः क्व च कुलं?, भूयोऽपि दृश्येत सा, दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम्।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः, स्वप्नेऽपि सा दुर्लभा, चेतः ! स्वास्थ्यमुपैहि, कः खलु युवा धन्योऽधरं धास्यति?॥

१०८ प्रत्यक्षालङ्कारः

प्रमाणालङ्कारे प्रत्यक्षं यथा- क्रान्तकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ।
स्वादुनि प्रणदितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः॥

१०९. अनुमानालङ्कारः

अनुमानं यथा- यथा रन्ध्रं व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः।
यथा विद्युज्ज्वालोल्लसितपरिपिङ्गाश्च ककुभ- स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः॥

११०. उपमानालङ्कारः

उपमानं यथा- तां रोहिणीं विजानीहि ज्योतिषामत्रा मण्डले।
यस्तन्वि ! तारकान्यासः शकटाकारमाश्रितः॥

१११ शब्दप्रमाणालङ्कारः

शब्दप्रमाणं यथा (कुमार. ५/८१) विवृण्वता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम्।
यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति?॥

११२ स्मृत्यलङ्कारः

तत्रा स्मृतिर्यथा- बलात्कुरुत पापानि सन्तु तान्यकृतानि वः।
सर्वान् बलकृतानर्थानकृतान् मनुरब्रवीत््॥

११३ श्रुत्यलङ्कारः

तत्रा श्रुतिर्यथा- त्वं हि नाम्नैव वरदो नाधत्से वरमुद्रिकाम्।
न हि श्रुतिप्रसिद्धार्थे लिङ्गमाद्रियते बुधैः॥

११४ अर्थापत्त्यलङ्कारः
अर्थापत्तिर्यथा-

निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि !।
अन्यथा नोपपद्येत पयोधरभरस्थितिः॥

११५ अनुपलब्ध्यलङ्कारः

अनुपलब्धिर्यथा- स्फुटमसदवलग्नं तन्वि ! निश्चिन्वते ते तदनुपलभमानास्तर्कयन्तोऽपि लोकाः।
कुचगिरिवरयुग्मं यद्विनाधारमास्ते तदिह मकरकेतोरिन्द्रजालं प्रतीमः॥

११६ सम्भवालङ्कारः

संभवो यथा- अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं हि दुःखम्।
किंतु त्वदग्रे शरणागतानां पराभवो नाथ ! न तेऽनुरूपः॥

११७ ऐतिह्यालङ्कारः

ऐतिह्यं यथा-

कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे।
एति जीवन्तमानन्दो नरं वर्षशतादपि॥

(अथ संसृष्टिसङ्करौ-)

अथैतेषामलङ्काराणां यथासम्भवं क्वचिन्मेलने लौकिकालङ्काराणां मेलन इव चारुत्वातिशयोपलम्भान्नरसिंहन्यायेन पृथगलङ्कारावस्थितौ तन्निर्णयः क्रियते। तत्रा तिलतण्डुलन्यायेन स्फुटावगम्यभेदालङ्कारमेलने संसृष्टिः। नीरक्षीरन्यायेनास्फुटभेदालङ्कारमेलने संकरः। स चाङ्गाङ्गिभावेन समप्राधान्येन सन्देहेन एकवाचकानुप्रवेशेन च चतुर्विधः। एवं नृसिंहाकाराः पञ्चालङ्काराः।

११८ अलङ्कारसंसृष्टिः

तत्रालङ्कारसंसृष्टिर्यथा- (माघ. ६/१४), कुसुमसौरभलोभपरिभ्रमद्भ्रमरसम्भ्रमसंभृतशोभया।
चलितया विदधे कलमेखलाकलकलोऽलकलोलदृशान्यया॥

११९ अङ्गाङ्गिभावसङ्करालङ्कारः

अङ्गाङ्गिभावसङ्करो यथा- तलेष्ववेपन्त महीरुहाणां छायास्तदा मारुतकम्पितानाम्।
शशाङ्कसिंहेन तमोगजानां लूनाकृतीनामिव गात्राखण्डाः॥

१२० समप्राधान्यसङ्करालङ्कारः

समप्राधान्यसंकरो यथा- अवतु नः सवितुस्तुरगावली समतिलङ्घिततुङ्गपयोधरा।
स्फुरितमध्यगतारुणनायका मरकतैकलतेव नभःश्रियः॥

१२१ सन्देहसङ्करालङ्कारः

सन्देहसंकरो यथा- (रघु. ६/८५) शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जह्नुकन्यावतीर्णा।
इति समगुणयोगप्रीतयस्तत्रा पौराः श्रवणकटु नृपाणामेकवाक्यं विवव्रुः॥

१२२ एकवचनानुप्रवेशसङ्करः

एकवाचकानुप्रवेशसंकरस्तु शब्दार्थालङ्कारयोरेवेति लक्षयित्वा काव्यप्रकाशकार उदाजहार- स्पष्टोच्छ््वसत्किरणकेसरसूर्यबिम्ब- विस्तीर्णकर्णिकमथो दिवसारविन्दम्।
श्लिष्टाष्टदिग्दलकलापमुखावतार- बद्धान्धकारमधुपावलि संचुकोच॥

१२३ सङ्करसङ्करालङ्कारः

क्वचित्सङ्कराणामपि सङ्करो दृश्यते। यथा- मुक्ताः केलिविसूत्राहारगलिताः संमार्जनीभिर्हृताः प्रातः प्राङ्गणसीम्नि मन्थरचलद्वालाङ्घ्रिलाक्षारुणाः।
दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम्॥ उपसंहारः अमुं कुवलयानन्दमकरोदप्पदीक्षितः।
नियोगाद्वेङ्कटपतेर्निरुपाधिकृपानिधेः॥१७१॥


चन्द्रालोको विजयतां शरदागमसंभवः।
हृद्यः कुवलयानन्दो यत्प्रसादादभूदयम्॥१७२॥


इति श्रीमदद्वैतविद्याचार्यश्रीमद्भरद्वाजकुलजलधिकौस्तुभ श्रीरङ्गराजाध्वरीन्द्रवरसूनोः श्रीमदप्पयदीक्षितस्य कृतिः कुवलयानन्दः समाप्तः॥

"https://sa.wikisource.org/w/index.php?title=कुवलयानन्दः&oldid=143461" इत्यस्माद् पुनः प्राप्तिः