कुमारसम्भवम् - मल्लिनाथः/प्रथमः सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
कुमारसम्भवम् - मल्लिनाथः
प्रथमः सर्गः
कालिदासः
द्वितीयः सर्गः →

।। श्रीः ।।

कुमारसम्भवम्

प्रथमः सर्गः

मातापितृभ्यां जगतो नमो वामार्धजानये ।
सद्यो दक्षिणदृक्पातसंकुचद्वामदृष्टये ॥

अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् ।
तन्नरं वपुषि, कुञ्जरं मुखे, मन्महे किमपि तुन्दिलं महः ॥
शरणं करवाणि शर्मदं ते चरणं वाणि! चराचरोपजीव्यम् ।
करुणामसृणैः कटाक्षपातैः कुरु मामम्ब! कृतार्थसार्थवाहम् ॥

इहान्वयमुखेनैव सर्वं व्याख्यायते मया ।
नामूलं लिख्यते किञ्चिन्नानपेक्षितमुच्यते ॥
भारती कालिदासस्य दुर्व्याख्याविषमूर्च्छिता ।
एषा सञ्जीविनी व्याख्या तामद्योज्जीवयिष्यति ॥



तत्रभवान्कालिदासः कुमारसम्भवं काव्यं चिकीर्षुः `आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' इति शास्त्रात्काव्यादौ वक्ष्यमाणार्थानुगुणं वस्तु निर्दिशति—

अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
पुर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥ १.१ ॥

  अन्वयः-- उत्तरस्यां दिशि देवतात्मा हिमालयः नाम नगाधिराजः पूर्वापरौ तोयनिधी वगाह्य पृथिव्याः मानदण्डः इव स्थितः अस्ति ।
  मल्लिo-अस्तीति । उत्तरस्यां दिशि । अनेनास्य देवभूमित्वं सूच्यते । देवतात्माधिष्ठाता यस्य सः । एतेनास्य वक्ष्यमाणमेनकापरिणयपार्वतीजननादिचेतनव्यवहारयोग्यत्वसिद्धिः। हिमस्यालयः स्थानमिति हिमालयो नाम हिमालय इति प्रसिद्धः । अधिको राजाधिराजः । `राजाहःसखिभ्यष्टच्' । न गच्छन्तीति नगा अचलास्तेषामधिराजो नगाधिराजोऽस्ति । कथंभूतः । पुर्वापरौ प्राच्यपश्चिमौ तोयनिधी समुद्रौ वगाह्य प्रविश्य । अतएव पृथिव्या भूमेर्मानं हस्तादिना परिच्छेदः । भावे ल्युट् । तस्य दण्डः । यद्वा मीयतेऽनेनेति मानम् । करणे ल्युट् । स चासौ दण्डश्च स इव स्थितः । आयामपरिच्छेदकदण्ड इव स्थित इत्यर्थः । पूर्वापरसागरावगाहित्वं चास्य हिमालयस्यास्त्येव । उक्तं च ब्रह्माण्डपुराणे - `कैलासो हिमवांश्चैव दक्षिणे वर्षवर्वतौ । पूर्वपश्चिमगावेतवर्णवान्तरुपस्थितौ ॥ अत्र हिमाचलस्योभयाब्धिव्याप्तसाम्यान्मानदण्डत्वेनोत्प्रेक्षणादुत्प्रेक्षाऽलंकारः । `प्रकृतेऽप्रकृतगुणक्रियादिसम्बन्धादप्रकृतत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा' इत्यलंकारसर्वस्वकारः । अस्मिन्सर्गे प्रायेण वृत्तमुपजातिः। क्वचिदिन्द्रवज्रोपेन्द्रवज्रे च । तल्लक्षणं तु - `स्यादिन्द्रवज्रा यदि तौ जगौ गः'। `उपेन्द्रवज्राजतजास्ततो गौ'। अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ॥ इति ।। १. १ ।।

इतः परं षोडशभिः श्लोकैर्हिमाद्रिं वर्णयति । तत्र नगाधिराजत्वं निर्वोढुमाह-

यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दौग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महाैषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ।। १. २ ।।

     अन्वयः- सर्वशैला यं वत्सं परिकल्प्य दोहदक्षे मेरौ दोग्धरि स्थिते (सति)भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां धरित्रीं दुदुहुः ।
     मल्लिo-यमिति ।। सर्वे च ते शैलाश्च सर्वशैलाः । `पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन' इति समासः । यं हिमालयं वत्सं परिकल्प्य विधाय दोहदक्षे दोहनसमर्थे मेरौ दोग्धरि स्थिते सति । `यस्य च भावेन भावलक्षणम्' इति सप्तमी । पृथूपदिष्टां पृथुना वैन्येनोपदिष्टामीदृक्तया प्रदर्शितां धरित्रीम् । गोरुपधरामिति शेषः ।`गौर्भूत्वा तु वसुन्धरा' इति विष्णुपुराणात् । `अकथितं च' इति कर्मत्वम् । भास्वन्ति च भास्वत्त्यश्च भास्वन्ति द्युतिमन्ति । ओषधिविशेषणं चैतत् । `नपुंसकमनपुंसकेन-' इत्यादिना नपुंसकैकशेषः । रत्नानि मणीञ्जातिश्रेष्ठवस्तूनि च । `रत्नं श्रेष्ठे मणावपि' इति विश्वः । `जातौ जातौ यदुत्कृष्टं तद्रत्नमिति कथ्यते' इति यादवः । महौषधीश्च संजीवनीप्रभृतीश्च क्षीरत्वेन परिणता इति शेषः । `ताः क्षीरपरिणामिनीः' इति विष्णुपुराणात् । दुदुहुः । `दुहियाच् -' इत्यादिना द्विकर्मकत्वम् । अत्र प्रयोजकत्वेऽपि शैलानां `पञ्चभिर्हलैः कर्षति ग्रामं ग्रामणीः' इतिवत्तत्समर्थाचरणात्कर्तृत्वेन व्यपदेशः । दुहेः स्वरितेत्त्वेऽप्यकर्त्रभिप्रायविवक्षायां परस्मैपदम् । अत्रार्थे प्रमाणम्- गौर्भूमिरचलाः सर्वे कर्तारोऽत्र पयांसि च । ओषध्यश्चैव भास्वन्ति रत्नानि विविधानि च ।। वत्सश्च हिमवानासीद्दोग्धा मेरुर्महागिरिः ।। ' इति । एतेन वत्सस्य मातुः प्रेमास्पदत्वादस्य सारग्राहित्वं गम्यते । तथा चास्य नगस्य रत्नबिशेषभोक्तृत्वान्नगाधिराजत्वं युक्तमिति भावः । अत्र हिमवद्वर्णनस्य प्रकृतत्वात्तद्गतौषधिरत्नानां द्वयानामपि प्रकृतत्त्वात्तेषां दोहनक्रियारूपसमानधर्मसंबन्धादौपम्यस्य गम्यत्वात्केवलप्राकरणिकविषयस्तुल्ययोगिता नामालंकारः । तदुक्तम् - `प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ।। ' न चात्र रूपकपरिणामाद्यलंकारशङ्का कार्या तेषामारोपहेतुत्वात् । हिमहेमाचलादिषु वत्सत्वदोग्धृत्वादीनामागमसिद्धत्वेनानारोप्यमाणत्वादिति ।। १. २ ।।

ननु हिमदोषदूषितस्य तस्यात्यन्तमनभिगम्यत्वाच्छिवत्रिण इव सर्वमपि सौभाग्यं विफलमित्याशङ्क्याह -

अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्।
एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ।। १. ३ ।।

     अन्वयः- अनन्तरत्नप्रभवस्य यस्य हिमं सौभाग्यविलोपि न जातम् । हि एको दोषो गुणसन्निपाते इन्दोः किरणेषु अङ्क इव निमज्जति ।
     मल्लिo -अनन्तेति ।। प्रभवत्यस्मादिति प्रभवः कारणम् । अनन्तानामपरिमितानां रत्नानां श्रेष्ठवस्तूनां प्रभवस्य यस्य हिमाद्रेर्हिमम् । कर्तृ । सुभगस्य भावः सौभाग्यम् । `हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ' इत्युभयपदवृध्दिः । तद्विलुम्पतीति सौभाग्यविलोपि सौन्दर्यविघातकं न जातं नाभूत् । तथाहि । एको दोषो गुणसंनिपात इन्दोः किरणेष्वङ्क इव निमज्जति । अन्तर्लीयत इत्यर्थः । नहि स्वल्पो दोषोऽमितगुणाभिभावक एव किंतु कश्चिदिन्दुकलङ्कादिवद्गुणैरभिभूयते । अन्यथा सर्वरम्यवस्तुहानिप्रसङ्गादिति भावः । अत्रोपमानुप्राणितोऽर्थान्तरन्यासालंकारः । तल्लक्षणं तु-`ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किंचन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः ।। ' इति दण्डी ।। १. ३ ।।

यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शीखरैबिभर्ति ।
बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुमत्ताम् ।। १.४ ।।

     अन्वयः- च यः अप्सरोविभ्रममण्डनानां संपादयित्रीं बलाहकच्छेदविभक्तरागां धातुमत्ताम् अकालसन्ध्याम् इव शिशरैः बिभर्ति ।
     मल्लिo- यश्चेति । किंचेति चकारार्थः । यो हिमाद्रिरप्सरसां विभ्रममण्डनानि विलासालंकरणानि । अथवा "विभ्रमो विपरीतन्यासः । विभ्रमस्त्वरयाकाले भूषास्थानविपर्यये' इति दशरुपकात् । तेन मण्डनानि तेषां संपादयित्रीम् । एतध्दातुरागदर्शिन्योऽप्सरसः संध्याभ्रमेण प्रसाधनाय त्वरयन्त इति भावः । तथात्वे भ्रान्तिमदलंकारो व्यज्यते । `कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी । वारीणां वाहका बलाहकाः पृषोदरादित्वात्साधुः । तेषां छेदेषु खण्डेषु विभक्तः संक्रमितो रागो यया ताम् । एतेनाद्रेरभ्रंकषत्वं गम्यते । इदं विशेषणद्वयं संध्यायामपि योज्यम् । धातवः सिन्दूरगैरिकादयोऽस्य सन्तीति धातुमान् । नित्ययोगे मतुप् । तस्य भावो धातुमत्ता ताम् । धातुयोगित्वमिति संबन्धोऽपि वाच्यार्थः । `समासकृत्तध्दितेषु संबन्धाभिधानं भावप्रत्ययेन ' इति वचनात् । लक्षणया नित्यानुषङ्गिकधातुमित्यर्थः । अकालसंध्यामिवानियतकालप्राप्तसन्ध्यामिव शिखरैर्बिभर्ति धत्ते । अत्र संध्याशब्दस्य जातिवाचित्वाज्जात्युत्प्रेक्षा ।। १.४ ।।

आमेखलं सञ्चरतां घनानां छायामधः सानुगतां निषेव्य ।
उद्वेजिता वृष्टिभिराश्रयन्ते श्रृङ्गाणि यस्यातपवन्ति सिध्दाः ।। १. ५ ।।

     अन्वयः- सिध्दा आमेखलं सञ्चरतां घनानाम् अधः सानुगतां छायां निषेव्य वृष्टिभिः उद्वेजिताः (सन्तः)यस्य आतपवन्ति श्रृङ्गाणि आश्रयन्ते ।
     मल्लिo- आमेखलमिति ।। सिद्धा अणिमादिसिद्धा देवयोनिविशेषाश्च । `पिशाचो गुह्यकः सिध्दो भूतोऽमी देवयोनयः'। इत्यमरः । आमेखलाभ्य आमेखलं नितम्बपर्यन्तम् । `मेखला खण्डबन्धे स्यात्काञ्चीशैलनितम्बयोः' इति विश्वः । `आङ्मर्यादाभिविध्योः' इत्यव्ययीभावः । संचरतां घनानां मेधानामधः सानूनि मेधमण्डलादधस्तटानि गतां प्रात्पाम् । `द्वितीया श्रितातोतपतितगतात्यस्तप्राप्तापन्नैः' इति समासः । छायामनातपम् । `छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः'। इत्यमरः । निषेव्यवृष्टिभिरुद्वेजिताः = क्लेशिताः सन्तः । `उद्वेगस्तिमिते क्लेशे भये मन्थरगामिनि' इति शर्ब्दाणवः । यस्य हिमाद्रेरातपवन्ति सातपानि श्रृङ्गाण्याश्रयन्ते । आश्रित्य स्थिता इत्यर्थः । अतिमेघमण्डलमस्यौन्नत्यमिति भावः ।। १. ५ ।।

पदं तुषारस्त्रुतिधौतरक्तं यस्मिन्नदृष्ट्वापि हतद्विपानाम् ।
विदन्ति मार्गं नखरन्ध्रमुक्तैर्मुक्ताफलैः केसरिणां किराताः ।। १. ६ ।।

     अन्वयः- यस्मिन् किराताः तुषारस्त्रुतिधौतरक्तं हतद्विपानां केसरिणां पदम् अदृष्ट्वा अपि नखरन्ध्रमुक्तैः मुक्ताफलैः मार्गं विदन्ति ।
     मल्लिo- पदमिति ।। यस्मिन्नद्रौ किरातास्तुषारस्त्रुतिभिर्हिमनिस्यन्दैर्धौतं क्षालितं रक्तं शोणितं यस्य तत्तथोक्तम् अतो दुर्ग्रहमिति भावः । हता द्विपा गजा यैस्तेषां हतद्विपानां केसरिणां सिंहानां पदं पादप्रक्षेपस्थानमदृष्ट्वापि नखरन्ध्रैर्नखद्रोणिभिर्मुक्तैर्मुक्ताफलैर्मार्गं विदन्ति जानान्ति । अत्र व्याधाः सिंहघातिनो गजेन्द्राश्च मुक्ताकरा इति भावः । `करीन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि'।। १. ६ ।।

न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः ।
व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम् ।। १. ७ ।।

     अन्वयः- यत्र धातुरसेन न्यस्ताऽक्षराः कुञ्जरबिन्दुशोणाः भूर्जत्वचः विद्याधरसुन्दरीणाम् अनङ्गलेखक्रियया उपयोगं व्रजन्ति ।
     मल्लिo- न्यस्ताक्षरा इति ।। यत्र हिमाद्रौ धातुरसेन सिन्दूरादिद्रवेण `श्रृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः' इत्यमरः । न्यस्ताक्षरा लिखितवर्णा अत एव कुञ्जरस्य ये बिन्दवः काये वयोविशेषभाविनः पद्मकाख्याः । पद्मकं बिन्दुजालकम्' इत्यमरः । त इव शोणा रक्तवर्णाः । लिखितभागेष्विति शेषः । भूर्जत्वचो भूर्जपत्रवल्कलानि । `भूर्जपपत्रो भुजो भूर्जो मृदुत्वक्चार्मिका अपि' इति यादवः । विद्याधरसुन्दरीणाम् । लिख्यन्ते येषु ते लेखाः पत्रिकाः । अनङ्गस्य लेखास्तेषां क्रियया । कामव्यञ्जकलेखकरणेनेत्यर्थः । उपयोगमुपकारं व्रजन्ति । दिव्याङ्गनाविहारयोग्योऽयं शैल इति भावः ।। १. ७ ।।

यः पूरयन्कीचकरन्ध्रभागान्दरीमुखोत्थेन समीरणेन।
उद्गास्यतामिच्छति किंनराणां तानप्रदायित्वमिवोपगन्तुम् ।। १. ८ ।।

     अन्वयः- यो दरीमुखोत्थेन समीरणेन कीचकरन्ध्रभागान् पूरयन् उद्गास्यतां किन्नराणां तानप्रदायित्वम् उपगन्तुम् इच्छति इव ।
     मल्लिo- य इति ।। यो हिमाद्रिः दरी गुहा सैव मुखं तस्मादुत्थेनोत्‌पन्नेन । `आतश्चोपसर्गे' इति कप्रत्ययः । समीरणेन वायुना कीचका वेणुविशेषाः । `वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः' इत्यमरः । तेषां रन्ध्रभागाञ्छिद्रप्रदेशान्पूरयन्धमयन् । वांशिकोऽपि वंशारन्ध्राणि मुखमारुतेन पूरयतीति प्रसिध्दिः । उद्गास्यतां देवयोनित्वादुच्चैर्गान्धारग्रामेण गानं करिष्यताम् । उक्तं च नारदेन- `षङ्जमध्यमनामानौ ग्रामौ गायन्ति मानवाः । न तु गान्धारनामानं स लभ्यो देवयोनिभिः ।' इति किंन्नराणां देवगायकानां तानप्रदायित्वम् । तानो नाम स्वरान्तरप्रवर्तको रागस्थितिप्रवृत्त्यादिहेतुरंशापरनामा वंशवाद्यसाध्यः प्रधानभूतः स्वरविशेषः `तानस्त्वंशस्वरो मतः'इत्यभिनवगुत्पः । `गाता यं यं स्वरे गच्छेत्तं तं वंशेन तानयेत्' इति भरतः । तत्प्रदानशीलत्वं तानप्रदायित्वं वांशिकत्वमुपगन्तुमिच्छतीवेत्युप्रेक्षा । सा च दरीमुखोत्थेनेत्येकदेशविवर्तिरुपकोज्जीविता । मुखसाध्यत्वात्तानप्रदायित्वस्य । यत्रावयवरुपणादवयविरुपणं गम्यते तदेकदेशविवर्ति रुपकम् । गम्यते चात्रावयविनः पुंसो रुपणं यच्छब्दनिर्दिष्टे हिमाद्रावित्यलं बहुना ।। १. ८ ।।

कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् ।
यत्र स्नुतक्षीरतया प्रसूतः सानुनि गन्धः सुरभीकरोति ।। १. ९ ।।

     अन्वयः- यत्र करिभिः कपोलकण्डूः विनेतुं विघट्टितानां सरलद्रुमाणां स्नुतक्षीरतया प्रसूतो गन्धः सानूनि सुरभीकरोति ।
     मल्लिo- कपोलेति ।। यत्र हिमाद्रौ करिभिर्गजैः । कपोलकण्डूर्गण्डस्थलकण्डूर्विनेतुमपनेतुं विघट्टितानां घर्षितानां सरलद्रुमाणां संबन्धिस्नुतानि करिकपोलघर्षणात्क्षरितानि क्षीराणि येषां तेषां भावस्तत्ता तया हेतुना प्रसूत उत्पन्नो गन्धः सानूनि सुरभीकरोति । एतेनास्य गजाकरत्वं गम्यते, तथा च गजायुर्वेदे - हिमवद्विन्ध्यमलया गजानां प्रभवा नगाः । इति ।। १. ९ ।।

वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः ।
भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ।। १. १० ।।

     अन्वयः- यत्र रजन्यां दरीगृहोत्सङ्गनिषक्तभास ओषधयः वनितासखानां वनेचराणाम् अतैलपूराः सुरतप्रदीपा भवन्ति ।
     मल्लिo- वनेचराणामिति ।। यत्र हिमाद्रौ रजन्यां दर्यः कन्दरा एव गृहास्तेषामुत्सङ्गेष्वभ्यन्तरेषु निषक्ताः संक्रान्ता भासो यासां ता ओषधयस्तृणज्योतींषि । `अग्नावोषधीषु च तेजो निधाय रविरस्तं याति' इत्यागमः । वनितानां सखायो वनितासखाः । `राजाहःसखिभ्यष्टच्' । तेषाम् । रममाणानामित्यर्थः । वने चरन्तीति वनेचराः किराताः । `चरेष्टः' इति टप्रत्ययः । `तत्पुरुषे कृति बहुलम्' इत्यलुक् । तेषां वनेचराणाम् । अतैलपूरः । अनपेक्षिततैलसेका इत्यर्थः । सुरतकर्मणि प्रदीपा भवन्ति । अत्रौषधीष्वारोप्यमाणस्य प्रदीपत्वस्य प्रकृतोपयोगित्वात्परिणामालंकारः । तदुक्तम्- `आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति । तथा प्रदीपकारणतैलपूरणनिषेधादकारणकार्येत्पत्तिर्लक्षणा विभावना चेत्युभयोः संसृष्टिः ।। १. १० ।।

उद्वेजयत्यङ्गुलिपार्ष्णिभागान्मार्गे शिलीभूतहिमेऽपि यत्र ।
न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिमश्वमुख्यः ।। १. ११ ।।

     अन्वयः- यत्र शिलीभूतहिमे अङ्गुलिपार्ष्णिभागान् उद्वेजयति मार्गे अपि श्रोणिपयोधरार्ताः अश्वमुख्यः मन्दां गतिं न भिन्दन्ति ।
     मल्लिo- उव्देजयतीति ।। यत्र हिमाद्रौ । शिलीभूतं घनीभूतं हिमं यत्र तस्मिन् । अत एवाङ्गुलीनां पार्ष्णीनां च भागान्प्रदेशानुद्वेजयत्यतिक्लेशयत्यपि मार्गे ।श्रोणयश्च पयोधराश्च श्रोणिपयोधरम् । दुर्वहेण दुर्धंरेण श्रोणिपयोधरेणार्ताः पीडिताः । आङ्पूर्वकद्दिच्छतेः क्तः । `उपसर्गादृति धातौ' इति वृध्दिः । अश्वानां मुखानीव मुखानि यासां ता अश्वमुख्यः किंनरस्त्रियः । उष्ट्रमुखवत्समासः । `स्यात्किंनरः किंपुरुषस्तुरंगवदनो मयुः'।। इत्यमरः । मन्दां मन्थरां गतिं न भिन्दन्ति । न त्यजन्तीत्यर्थः । पादपीडाकरेऽप्यतिभारभङ्गुरशरीरतया न शीघ्रं गन्तुं शक्यत इति भावः ।। १. ११ ।।

दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् ।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसां सतीव ।। १. १२ ।।

     अन्वयः- यो दिवाभीतम् इव गुहासु लीनम् अन्धकारं दिवाकरात् रक्षति । उच्चैःशिरसां शरणं प्रपन्ने क्षुद्रेऽपि सति इव नूनं ममत्त्वम् ।
     मल्लिo- दिवाकरादिति ।। यो हिमाद्रिर्दिवा दिवसे भीतं भयाविष्टमिव । उलूकमिवेति च ध्वनिः । गुहासु लीनमन्धकारं ध्वान्तम् । दिवा दिनं करोतीति दिवाकरस्तस्माद्दिवाकरात् । `दिवाविभानिशाप्रभाभास्करे-' त्यादिना टप्रत्ययः । `भीत्रार्थानां भयहेतुः' इत्यपादानत्वात्पञ्चमी । रक्षति त्रायते । ननु क्षुद्रसंरक्षणमनर्हमित्याशङ्क्याह- क्षुद्र इति । उच्चै:- शिरसामुन्नतानां शरणं प्रपन्ने शरणागते क्षुद्रे नीचेऽपि सति सज्जन इव नूनं ममत्वं ममायमित्यभिमानः । अस्तीति शेषः । ममशब्दात्त्वप्रत्ययः । अर्थान्तरन्यासोऽलङ्कारः ।। १. १२ ।।

लाङ्गूलविक्षेपविसर्पिशोभैरितस्ततश्चन्द्र मरीचिगौरैः ।
यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति वालव्यजनैश्चमर्यः ।। १. १३ ।।

     अन्वयः- चमर्यः इतस्ततः लाङ्गूलविक्षेपविसर्पिशोभैः चन्द्रमरीचिगौरैः वालव्यजनैः यस्य गिरिराजशब्दम् अर्थयुक्तं कुर्वन्ति ।
     मल्लिo- लाङ्गूलेति ।। चमर्यो मृगीविशेषा इतस्ततो लाङ्गूलानि वालधयः । `पुच्छोऽस्त्री लोमलाङ्गूले वालहस्तश्च वालधिः' इत्यमरः । तेषां विक्षेपैर्विधूननैर्विसर्पिंण्यो विसृमराः शोभाः कान्तयो येषां तैश्चन्द्रमरीचिभिरिव गौरैः शुभ्रैः । `गौरः करीरे सिद्धार्थे शुक्ले पीतेऽरुणेऽपि च' इति यादवः । `उपमानानि सामान्यवचनैः'इति समासः । वालव्यजनैश्चामरैर्यंस्य हिमाद्रेर्गिरिराजशब्दं गिरिराज इति संज्ञामर्थंयुक्तमभिधेयवन्तं कुर्वन्ति । राजानो हि छत्रचामरादिचिह्निता इति भावः ।। १. १३ ।।

यत्रांशुकाक्षेपविलज्जितानां यदृच्छया किंपुरुषाङ्गनानाम् ।
दरीगृहद्वार विलम्बिम्बिम्बास्तिरस्करिण्यो जलदा भवन्ति ।। १. १४ ।।

     अन्वयः- यत्र अंशुकाक्षेपविलज्जितानां किम्पुरुषाऽङ्गनानां यदृच्छया दरीगृहद्वारविलम्बिम्बिम्बा जलदाः तिरस्करिण्यो भवन्ति
     मल्लिo- यत्रेति ।। यत्र हिमाद्रौ । अंशुकाक्षेपेण वस्त्रापहरणेन विलज्जितानां किंपुरुषाङ्गनानां किंनरस्त्रीणां यदृच्छया दैवगत्या दरीगृहद्वारेषु विलम्बिम्बिम्बा लम्बमानमण्डला जलदास्तिरस्करिण्यो जवनिका भवन्ति । `प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा' । इत्यमरः । `तिरसोऽन्यतरस्याम्' इति सत्वम् । अत्र जलदेष्वारोप्यमाणस्य तिरस्करिणीत्वस्य प्रकृतोपयोगित्वात्परिणामालङ्कारः ।। १. १४ ।।

भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः ।
यद्वायुरन्विष्टमृगैः किरातैरासेव्यते भिन्नशिशण्डिबर्हः ।। १. १५ ।।

     अन्वयः- भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः भिन्नशिखण्डिबर्हः यद्वायुः अन्विष्टमृगैः किरातैः आसेव्यते ।
     मल्लिo-- भागीरथीति । भागीरथीनिर्झरसीकराणां गङ्गाप्रवाहपाथ:- कणानाम् । कर्मणि षष्ठी । वोढा प्रापकः । वहेस्तृच् । मुहुः पुनः पुनः सद्यो वा । `पौनः पुन्ये भृशार्थे च सद्यो वा स्यान्मुहुः पदम्' इति वैजयन्ती । कम्पिता देवदारवो येन स तथोक्तः । भिन्नानि विश्लेषितानि शिखण्डिनां बर्हाणि गतिलाघवार्थं किरातकटिबद्धानि येन स तथोक्तः । क्रमाद्विशेषणत्रयेण शैत्यसौरभ्यमान्द्यान्युक्तानि । यस्य हिमाद्रेर्वायुः । अन्विष्टमृगैर्मार्गितमृगैः । श्रान्तैरिति भावः । `अन्विष्टं मार्गितम्' इत्यमरः । किरातैरासेव्यते ।। १. १५ ।।

सत्पर्षिहस्तावचिता वशेषाण्यधो विवस्वान्परिवर्तमानः ।
पद्मानि यस्याग्रसरोरुहाणि प्रबौधयत्यूर्ध्वमुखैर्मयूखैः ।। १. १६ ।।

     अन्वयः- सत्पर्षिहस्ताऽवचिताऽवशेषाणि यस्य अग्रसरोरुहाणि पद्मानि अधः परिवर्तमानः विवस्वान् ऊर्ध्वमुखैः मयूखैः प्रबोधयति ।
     मल्लिo- सप्तर्षोति ।। सप्त च ते ऋषयश्च सप्तर्षयः । `दिक्संख्ये संज्ञायाम्' इति समासः । तेषां हस्तैरवचितेभ्यो लूनेभ्योऽवशेषाण्यवशिष्टानि । `शेषाऽप्रधानसंतापे त्रिष्वन्यत्रोपयुज्यते' इति केशवः । कर्मण्यण्प्रत्ययः । अनेन पद्मानां साफल्यं सूचितम् । यस्य हिमाद्रेः रोहन्तीति रुहाणि । `इगुपधज्ञाप्रीकिरः कः' इति कप्रत्ययः । अग्र उपरि यानि सरांसि तेषु रुहाणि पद्मान्यधः परिवर्तमानो भ्रमन्विवस्वान्सूर्यं ऊर्ध्वमुखैर्मंयूखैः प्रबोधयति विकासयति। न कदाचिदधोमुखैः । अतिमार्तण्डमण्डलत्वादग्रभूमेरिति भावः । सप्तर्षिमण्डलं ध्रुवादप्यूर्ध्वमिति ज्यौतिषिकाः । अतस्तेषामग्रसरोरुहभागित्वं युक्तम् ।। १. १६ ।।

यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च ।
प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं स्वयमन्वतिष्ठत् ।। १. १७ ।।

     अन्वयः- यस्य यज्ञाऽङ्गयोनित्वं धरित्रीधरणक्षमं सारं च अवेक्ष्य प्रजापतिः स्वयं कल्पितयज्ञभागं शैलाधिपत्यम् अन्वतिष्ठत् ।
     मल्लिo- यज्ञाङ्गेति ।। यस्य हिमाद्रेर्यज्ञाङ्गानां यज्ञसाधनानां सोमलतादीनां योनिः प्रभवस्तस्य भावस्तत्त्वम् । `यज्ञाङ्गार्थं मया सृष्टो हिमवानचलेश्वरः' इति विष्णुपुराणात् । धरित्रीधरणक्षमं भूभारधरणयोग्यं सारं बलं च । `सारो बले स्थिरांशे च' इत्यमरः । अवेक्ष्य ज्ञात्वा प्रजापतिः स्वयमेव कल्पितो यज्ञभागो यस्मिंस्तत्तथोक्तम् । `सोमस्य राज्ञः कुरङ्ग इन्दोः श्रृङ्गी समुद्रस्य शिशुमारो हिमवतो हस्ती' इति श्रुतेरिति भावः । शैलानामाधिपत्यमधिपतित्वम् । `पत्यन्तपुरोहितादिभ्यो यक्' इति यक्प्रत्ययः । अन्वतिष्ठत् । ददाति स्मेत्यर्थः । उक्तं च ब्रह्माण्डपुराणे-`शैलानां हिमवन्तं च नदीनां चैव सागरम् । गन्धर्वाणामधिपतिं चक्रे चित्ररथं विधिः' इति ।। १. १७ ।।

संप्रति कथां प्रस्तौति--

स मानसीं मेरुसखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः ।
मेनां मुनीनामपि माननीयामात्मानुरुपां विधिनोपयेमे ।। १. १८ ।।

     अन्वयः- मेरुसखः स्थितिज्ञः स पितॄणां मानसीं कन्यां मुनीनाम् अपि माननीयाम् आत्माऽनुरुपां मेनां कुलस्य स्थितये विधिना उपयेमे ।
     मल्लिo- स इति ।। मेरोः सखा मेरुसखः । बन्धुसंपन्न इति भावः । स्थितिज्ञो मर्यादाभिज्ञः । अनेन श्रुतसंपत्तिः सूच्यते । स हिमवान्पितॄणां मानसीं मनःसंकल्पजन्यां मुनीनामपि माननीयाम् । योगिब्रह्मवादिभ्यां पूज्यामित्यर्थः । उक्तं च विष्णुपुराणे-- तेभ्यः शुभास्पदं जज्ञे मेनका हरिणी तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज ।।' इति । आत्मानुरुपां कुलशीलसौन्दर्यादिभिः सदृशीं मेनां मेनकादेवीति नामवतीं कन्यां कुलस्य स्थितये प्रतिष्ठायै विधिना यथाशास्त्रेणोपयेमे परिणीतवान् । `उपाद्यमः स्वकरणे' इत्यात्मनेपदम् । `तेषां तु मानसी कन्या मेना नाम महागिरेः । पत्नी हिमवतो यस्याः पुत्रो मैनाक उच्यते ।।' इति ब्रह्माण्डपुराणात् ।। १. १८ ।।

कालक्रमेणाथ तयोः प्रवृत्ते स्वरुपयोग्ये सुरतप्रसङ्गे ।
मनोरमं यौवनमुद्वहन्त्या गर्भोऽभवद्भूधरराजपत्न्याः ।। १. १९ ।।

     अन्वयः- अथ कालक्रमेण तयोः स्वरुपयाग्ये सुरतप्रसङ्गे मनोहरं यौवनम् उद्वहन्त्याः भूधरराजपत्न्याः गर्भः अभवत् ।
     मल्लिo- कालक्रमेणेति ।। अथ कालक्रमेण । गच्छता कालेनेत्यर्थः । तयोर्मेनकाहिमवतोः स्वरुपयोग्ये सौन्दर्यानुगुणे । यद्वा रुप्यते निश्चीयतेऽनेनेति रुपं ज्ञानं तद्योग्ये । शास्त्रानुसारिणीत्यर्थः । सुरतप्रसङ्गे सुरतकर्मणि प्रवृत्ते सति मनोरमं यौवनमुद्वहन्त्या भूधरराजपत्न्या मेनकाया गर्भोऽभवत् ।। १. १९ ।।

असूत सा नागवधूपभोग्यं मैनाकमम्भोनिधिबद्धसख्यम् ।
क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्राववेदनाज्ञं कुलिशक्षतानाम् ।। १. २० ।।

     अन्वयः- सा नागवधूपभोग्यम् अम्भोनिधिबद्धसख्यं पक्षच्छिदि वृत्रशत्रौ क्रुद्धे अपि कुलिशक्षतानाम् अवेदनाज्ञं मैनाकम् असूत ।
     मल्लिo- असूतेति । सा मेना नागवधूपभोग्यम् । नगकन्यापरिणेतारमित्यर्थः । अम्भोनिधिना बद्धसख्यं समुद्रकृतमैत्रीकम् । सख्यमूलं सूचयति- पक्षच्छिदि पक्षच्छेत्तरि । `सत्सूद्विषे-' त्यादिना क्विप्प्रत्ययः । वृत्रशत्रौ क्रृद्धे कुपिते सत्यपि कुलिशक्षतानां वज्रप्रहाराणाम्। संबन्धसामान्ये षष्ठी । जानातीति ज्ञः । `इगुपधज्ञा-' इति कप्रत्ययः । वेदनानां ज्ञः । अथवा वेदनां जानातीति वेदनाज्ञः । `आतोऽनुपसर्गे कः' इति कप्रत्ययः । `उपपदमतिङ्' इति समासः । स न भवतीत्यवेदनाज्ञस्तम् । कुलिशक्षतवेदनानभिज्ञमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । पक्षच्छेदोद्यतशक्रात्त्राणाय शरणागमनमनयोः सख्यमूलमिति भावः । मैनाकं पुत्रमसूत । सर्वपर्वंतपक्षच्छेदेऽप्ययमच्छिन्नपक्ष एवेति मैनाकस्योत्कर्षः । तादृक्पुत्रवत्त्वं हिमाद्रेरिति सार्थकं मैनाकस्य वर्णनम् । `पिता न ज्ञायते यस्या भ्राता यदि न विद्यते । नोपयच्छेत्तु तां कन्यां धर्मलोपभयात्सुधीः ।' इत्यभ्रातृकन्यापरिणयनिषेधात्प्रकृते पार्वती भ्रातृमत्येवेति सूचनार्थं मैनाकपर्वतमिति तात्पर्यार्थः ।। १. २० ।।

अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी ।
सती सती योगविसृष्टदेहा तां जन्मने शैलवधूं प्रपेदे ।। १. २१ ।।

     अन्वयः- अथ दक्षस्य कन्या भवपूर्वपत्नी सती सती पितुः अवमानेन प्रयुक्ताः योगविसृष्टदेहा (सती) जन्मने तां शैलवधूं प्रपेदे ।
     मल्लिo- अथेति ।। अथ मैनाकजननानन्तरं दक्षस्य प्रजापतेः कन्या भवस्य महादेवस्य पूर्वपत्नी पूर्वभार्या सती पतिव्रता । `सती साध्वी पतिव्रता' इत्यमरः । सती नाम देवी । पितुर्दक्षस्य । कर्तरि षष्ठी । अवमानेन स्वभर्त्रवज्ञया प्रयुक्ता प्रेरिता योगेन योगमार्गेण विसृष्टदेहा त्यक्तदेहा सती । जन्मने पुनरुद्भवाय तां शैलवधूं मेनकां प्रपेदे । अतःपुरा किल सती देवी दक्षाध्वरे तत्कृतां स्वभर्त्रवज्ञामसहमाना पितरं प्रसूं चोपेक्ष्य मत्कर्तव्यकार्यं त्वज्जामातैव करिष्यतीति निर्धार्य देवकार्याणि साधयितुं च योगाग्निना स्वशरीरं ददाहेति पुरावृत्तकथानुसंधेया ।। १. २१ ।।

सा भूधराणामधिपेन तस्यां समाधिमत्यामुदपादि भव्या ।
सम्यक्प्रयोगादपरिक्षतायां नीताविवोत्साहगुणेन संपत् ।। १. २२ ।।

     अन्वयः- भव्या सा भूधराणाम् अधिपेन समाधिमत्यां तस्यां सम्यक् प्रयोगात् अपरिक्षतायां नीतौ उत्साहगुणेन सम्पत् इव उदपादि ।
     मल्लिo- सेति ।। भव्या कल्याणी सा सती भूधराणामधिपेन हिमवता समाधिमत्यां नियमवत्यां तस्यां मेनकायां सम्यक्प्रयोगात्साध्वाचरणाद्धेतोरपरिक्षतायामभ्रष्टायां नीतावुत्साहगुणेनोत्साहशक्त्या । कर्त्रा । संपदिवोदपाद्युत्पादिता । उत्पद्यतेर्ण्यन्तात्कर्मणि लुङ् । `चिण्भावकर्मणोः' इति चिण्प्रत्ययः । `चिणो लुक्' इति तस्य लुक् ।। १. २२ ।।

प्रसन्नदिक्पांसुविविक्तवातं शङ्खस्वनानन्तरपुष्पवृष्टि ।
शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव ।। १. २३ ।।

     अन्वयः- प्रसन्नदिक् पांसुविविक्तवातं शङ्खस्वनाऽनन्तरपुष्पवृष्टि तज्जन्मदिनं स्थवरजङ्गमानां शरीरिणां सुखाय बभूव ।
     मल्लिo- प्रसन्नेति ।। प्रसन्ना निर्मला दिशो यस्मिंस्तत्प्रसन्नदिक् । पांसुविविक्ता रजोरहिता वाता यस्मिंस्तत्तथोक्तम् । शङ्खस्य स्वनात्स्वनस्य वानन्तरं पुष्पवृष्टिर्यस्मिंस्तत्तथोक्तं तस्याः पार्वत्या जन्मदिनम् । स्थितिशीलाः स्थावराः शैलवृक्षादयः । `स्थेशभासपिसकसो वरच्' इति वरच्प्रत्ययः । जङ्गम्यन्ते भृशं गच्छन्तीति जङ्गमा देवतिर्थङ्मनुष्यादयः । स्थावराश्च जङ्गमाश्च तेषां द्वयानामपि शरीरिणां सुखायानन्दाय बभूव ।। १. २३ ।।

तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकासे ।
विदूरभूमिर्नवमेघशब्दा दुद्भिन्नया रत्नशलाकयैव ।। १. २४ ।।

     अन्वयः- स्फुरत्प्रभामण्डलया तया दुहित्रा सवित्री विदूरभूमिः नवमेघशब्दात् उद्भिन्नया रत्नशलाकया इव सुतरां चकासे ।
     मल्लिo- तयेति ।। स्फुरत्प्रभामण्डलया तया दुहित्रा सवित्री जनयित्री । `स्वरतिसूतिसूयतिधूञूदितो वा' इतीडागमः । विदूरस्याद्रेः प्रान्तभूमिर्विदूरभूमिः । `अवदूरं विदूरस्य गिरेरुत्तुङ्गरोधसः । काकतालीयसीमान्ते मणीनामाकरो भवेत् ।।' इति बुद्धः । नवमेघशब्दादुद्भिन्नया रत्नशलाकया रत्नाङ्कुरेव सुतरां चकासे रराज ।। १. २४ ।।

दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा ।
पुपोष लावण्यमयान्विशेषाञ्ज्योत्स्नान्तराणीव कलान्तराणि ।। १. २५ ।।

     अन्वयः- लब्धोदया दिने दिने परिवर्धमाना सा चान्द्रमसी लेख इव लावण्यमयान् विशेषान् ज्योत्स्नान्तराणि कलान्तराणि इव पुपोष ।
     मल्लिo- दिन इति ।। लब्ध उदयो यया सा लब्धोदया । उत्पन्नेत्यर्थः । अभ्युदितेत्यन्यत्र दिने दिने प्रतिदिनम् । `नित्यवीप्सयोः' इति वीप्सायां द्विरुक्तिः । परिवर्धमाना । उभयत्र समानमेतत् । सा बाला । चन्द्रमस इयं चान्द्रमसी लेखेव लावण्यमयान्कान्तिविशेषप्रचुरान् । `मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ।।' इति भूपालः । विशेषानवयवान् । `विशेषोऽवयवे व्यक्तौ' इत्युत्पलमालायाम् । ज्योत्स्नायामन्तरमन्तर्धानं येषां तानि ज्योत्स्नान्तराणि ज्योत्स्नायान्तर्हितानि । तन्मयानीति यावत् । अन्याः कलाः कलान्तराणीव सुप्सुपेति समासः । `स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्धिषु चान्तरम्' इति शाश्वतः । पुपोषोपचितवती । इयं वाक्योपमेत्याह दण्डी । तल्लक्षणं तु- `वाक्यार्थेनैव वाक्यार्थः काऽपि यद्युपमीयते । एकानेकेव शब्दत्वात् सा तु वाक्योपमा द्विधा ।।' इति ।। १. २५ ।।

तां पार्वतीत्याभिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव ।
उमेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुखी जगाम ।। १. २६ ।।

     अन्वयः- बन्धुप्रियां तां बन्धुजनः आभिजनेन नाम्ना `पार्वती' इति जुहाव । पश्चात् मात्रा `उमा' इति तपसो निषिद्धा (सती) उमाऽऽख्यां जगाम ।
     मल्लिo- तामिति ।। बन्धुप्रियां तां बालां बन्धुजनः पित्रादिः । अभिजनादागतेनाभिजनेन । पित्रादिपूर्वसंबन्धोपाधिकेनेत्यर्थः । `अभिजनाः पुर्वबान्धवाः' इति काशिका । नाम्ना । पर्वतस्यापत्यं स्त्री पार्वती । `तस्यापत्यम्' इत्यणप्रत्ययः । इति जुहावाहूतवान् । ह्वयतेर्लिटि रुपम् । पर्वतजन्यत्वोपाधिना पार्वतीति नाम्ना प्रसिद्धिरिति भावः । पश्चादभिजनानामप्रवृत्त्यनन्तरं मात्रा जनन्या । उ इति संबोधने । `उ इति वितर्कसंबोधनपादपूरणेषु' इति गणव्याख्याने । माशब्दो निषेधे । उ हे वत्से, मामा कुर्वित्येवंरुपेण । तपसस्तपश्चर्यायाः । `वारणार्थानामीप्सितः' इत्यपादानत्वात्पञ्चमी । निषिद्धा निवारिता सती सुमुखी सा बालोमेत्याख्यां नामधैयमुमाख्यां जगाम ।। १. २६ ।।

महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् ।
अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा ।। १.२७ ।।

     अन्वयः- पुत्रवतोऽपि महीभृतो दृष्टिः तस्मिन् अपत्ये तृप्तिं न जगाम । हि अनन्तपुष्पस्य मधोः द्विरेफमाला चूते सविशेषसङ्गा ।
     मल्लिo- महीभृत इति । पुत्राश्च दुहितरश्च पुत्राः । `भ्रातृपुत्रौ स्वसृदुहितृभ्याम्' इत्येकशेषः । तेऽस्य सन्तीति पुत्रवान् । भूमार्थे मतुप् । तस्य पुत्रवतोऽपि । बह्वपत्यस्यापीत्यर्थः । महीभृतो हिमाद्रेर्दृष्टिश्चक्षुस्तस्मिन्नपत्ये तोके `अपत्यं तोकं तयोः समे' इत्यमरः । तस्यां पार्वत्यामित्यर्थः । तृप्तिं न जगाम । तथा हि अनन्तपुष्यस्य नानाविधकुसुमस्यापि मधोर्वसन्तस्य संबन्धिनी द्विरेफमाला भृङ्गपङ्क्तिश्चूतस्य विकारे चूते चूतकुसुमे । `अवयवे च प्राण्योषधिवृक्षेभ्यः' इति विकारार्थोत्पन्नस्याण्प्रत्ययस्य लुक्प्रकरणे `पुष्पमूलेषु बहुलम्' इति पठनाल्लुक् । सविशेषः सातिशयः सङ्गो यस्याः सा तथोक्ता । अत्यन्तासक्तेत्यर्थः ।। १. २७ ।।

प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः ।
संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ।। १. २८ ।।

     अन्वयः- प्रभामहत्या शिखया दीप इव, त्रिमार्गया त्रिदिवस्य मार्ग इव, संस्कारवत्या गिरा मनीषी इव, तया स पूतो विभूषितश्च ।
     मल्लिo- प्रभेति । प्रभामहत्या प्रकाशाधिकया शिखया ज्वालया दीप इव । शिखादीपयोरवयवावयविभावाद्भेदेन व्यपदेशः । त्रयो मार्गा यस्यास्तया त्रिमार्गया मन्दाकिन्या । तृतीया द्यौर्लेक इति त्रिदिवः स्वर्गः । वृत्तिविषये त्रिशब्दस्य त्रिभागवत्पूरणार्थत्वम् पृषोदरादित्वाद्दिवशब्दादकारागमः । पुंस्त्वं लोकात् । दीव्यतेर्घञर्थे कविधानम् । दीव्यन्त्यत्र जना इति क्षीरस्वामी । तस्य मार्ग इव । संस्कारो व्याकरणजन्या शुद्धिस्तद्वत्या गिरा वाचा । `भद्रैषां लक्ष्मीर्निहिताधि वाचि' इति श्रुतेरिति भावः । मनस ईषा मनीषा सास्यास्तीति मनीषी विद्वानिव । शकन्ध्वादित्वात्साधुः । तया पार्वत्या स हिमवान्पूतः शोधितश्च विभूषितश्च । अत्र शिखागिरोरविशिष्टयोरुपमानानर्हत्वान्न विशेषणाधिक्यदोषः । इयं मालोपमा ।। १. २८ ।।

मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च ।
रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ।। १. २९ ।।

     अन्वयः- सा बाल्ये क्रीडारसं निर्विशती इव सखीनां मध्यगता (सती) मन्दाकिनीसैकतवेदिकाभिः कृत्रिमपुत्रकैश्च मुहुः रेमे ।
     मल्लिo-मन्दाकिनीति ।। सा पार्वती बाल्ये वयसि क्रीडानां रसः स्वादः । रुचिरिति यावत् तं क्रीडारसम् । `रसो गन्धे रसः स्वादे' इति विश्वः । निर्विशतीव भुञ्जानेव । `निर्वेशो भृतिभोगयोः' इति विश्वः । `आच्छीनद्योर्नुम्' इति विकल्पान्नुमभावः । सखीनां मध्यगता सती मन्दाकिन्याः सैकतेषु पुलिनेषु वेदिकाभिः कन्दुकैः । क्रियया निर्वृत्तैः कृत्रिमैः । `ङ्वितः क्त्रिः' इति क्त्रिप्रत्ययः । `क्त्रेर्मम्नित्यम्' इति ममागमश्च । पुत्रकैः पाञ्चालिकाभिः । `पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता' इत्यमरः । `संज्ञायां कन्' इति कन्प्रत्ययः । मुहुः पुनः पुना रेमे ।। १. २९ ।।

तां हंसमालाः शरदीव गङ्गां महौषधिं नक्तमिवात्मभासः ।
स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः ।। १. ३० ।।

     अन्वयः- स्थिरोपदेशां ताम् उपदेशकाले प्राक्तनजन्मविद्याः शरदि गङ्गां हंसमाला इव नक्तं महौषधिम् आत्ममास इव प्रपेदिरे ।
     मल्लिo- तामिति ।। स्थिरः स्थेयानुपदेशः प्राग्भवीयो यस्यास्तादृशीम् । मेधाविनीमित्यर्थः । तां पार्वतीमुपदेशकाले प्राक्तनजन्मविद्याः । पूर्वजन्माभ्यस्तविद्या इत्यर्थः । शरदि गङ्गां हंसमाला इव नक्तं रात्रौ महौषधिं तृणविशेषमात्मभासः स्वदीप्तय इव प्रपेदिरे । उपमानसामर्थ्यादुपदेशमन्तरेणैवेति गम्यते ।। १. ३० ।।

असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ।। १. ३१ ।।

     अन्वयः- अथ सा अङ्गयष्टेः असंभृतं मण्डनम्,अनासवाख्यं मदस्य करणं, कामस्य पुष्पव्यतिरिक्तम् अस्त्रं बाल्यात् परं वयः प्रपेदे ।
     मल्लिo- असंभृतमिति । अथ सा पार्वती । अङ्गयष्टेरसंभृतमयत्नसिद्धं मण्डनं प्रसाधनमनासवाख्यमासवाख्यारहितं मदस्य करणं साधनं कामस्य पुष्पव्यतिरिक्तमस्त्रमस्त्रभूतं बाल्याच्छैशव त्परमनन्तरभावि वयो यौवनं प्रपेदे प्राप । यौवनेनैव हि युवतयः प्रमाध्यन्ते माद्यन्ते काम्यन्ते चेति भावः । अत्र द्वितीयपाद आसवरुपकारणाभावेऽपि तत्कार्यमदोक्तेर्विभावनालंकारः । तदुक्तम्- `कारणाभावे कार्योत्पतिर्विभावना' इति । प्रथमतृतीययोस्त्वारोप्यमाणयोर्मण्डनमदनास्त्रत्वयोः प्रकृतोपयोगात्परिणामालंकारः । तल्लक्षणं तूक्तम् `स्यादङ्गयष्टिरित्येवविधमाभासरुपकम् ।' ।। १. ३१ ।।

उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम् ।
बभूव तस्यश्चतुरस्त्रशोभि वपुर्विभक्तं नवयौवनेन ।। १. ३२ ।।

     अन्वयः- नवयौवनेन विभक्तं तस्या वपुः तूलीकया उन्मीलितं चित्रम् इव, सूर्यांऽशुभिः भिन्नम् अरविन्दम् इव चतुरस्त्रशोभि बभूव ।। १. ३२ ।।
     मल्लिo- उन्मीलितमिति ।। नवयौवनेन प्रथमयौवनेन विभक्तमभिव्यञ्जितम् । पीनजघनादिसंस्थानमित्यर्थः । तस्याः पार्वत्या वपुस्तूलिकया कूर्चिकया । शलाकयेत्यर्थः। `तूलिका कथिता लेख्यकूर्चिका तूलशय्ययोः' इति विश्वः । उन्मीलितं रञ्जनद्रव्येणोद्भासितं समुत्कीर्णम् । रुपमिति यावत् । चित्रमालेख्यमिव । सूर्यांशूभिर्भिन्नं विकसितमरविन्दं पद्ममिव चतस्त्रोऽस्त्रयो यस्य तच्चतुरस्त्रमन्यूनातिरिक्तं यथा तथा शोभत इति चतुरस्त्रशोभि । ताच्छील्ये णिनिः । बभूव । चित्रारविन्दयोस्तूलिकातरणिकिरणसंबन्ध इव स्वयं सिद्धस्यैवाङ्गसौष्ठवस्य यौवनप्रादुर्भावोऽभिव्यञ्जको बभूवेत्यर्थः ।। १. ३२ ।।

अभ्युन्नताङ्गुष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्गिरन्तौ ।
आजह्रतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम् ।। १. ३३ ।।

     अन्वयः- अभ्युन्नताङ्गुष्ठनखप्रभाभिः निक्षेपणात् रागम् उद्गिरन्तौ इव तच्चरणौ पृथिव्याम् अव्यवस्यां स्थलाऽरविन्दश्रियम् आजह्रतुः ।
     मल्लिo- अभ्युन्नतेति ।। अभ्युन्नतयोरङ्गुष्ठनखयोः प्रभाभिर्निमित्तेन निक्षेपणान्निर्भरन्यासाद्धेतोः रागमन्तर्गतं लौहित्यम् । `रागः क्लेशादिके रक्ते मात्सर्ये लोहितादिषु' इति शाश्वतः । उद्गिरन्तौ वमन्तौ । बहिर्निस्सारयन्ताविव स्थितावित्यर्थः । अत्रोद्गिरतेर्गौणार्थत्वान्न ग्राम्यतादोषः प्रत्युत गुण एव । यथाह दण्डी- `निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ।।' इति । तस्याश्चरणौ तच्चरणौ । पृथिव्यामव्यवस्थां व्यवस्थारहिताम् । संचारिणीमित्यर्थः । स्थला विन्दश्रियमाजह्रतुः । स्थलविशेषणान्नियतलौहित्यलाभः । अत्र सामुद्रिकाः - `यस्या रक्ततलौ पादावुन्नताग्रौ तलस्पृशौ । निमूढगुल्फौ निहतौ सा स्यान्नृपतिसंमता ।।' इति ।अत्रोपमानधर्मस्यारविन्दश्रियश्चरणयोरुपमेययोरसंभवादरविन्दश्रियमिव श्रियमिति प्रतिबिम्बीकरणाक्षेपान्निदर्शनालङ्कारः । सा च सम्बन्धेऽसम्बन्धलक्षणातिशयोक्त्यनुप्राणिताव्यवस्थामित्यनेन स्थलारविन्दस्य स्थैर्यसम्बन्धेऽप्यसम्बन्धाभिधानात्। निदर्शनालक्षणं तु- `असंभवद्धर्मयोगादुपमानोपमेययोः । प्रतिबिम्बक्रिया गम्या यत्र सा स्यान्निदर्शना ।।' इति ।। १. ३३ ।।

सा राजहंसैरिव संनताङ्गी गतेषु लीलाञ्चितविक्रमेषु ।
व्यनीयत प्रत्युपदेशलुब्धै रादित्सुभिर्नूपुरसिञ्जितानि ।। १. ३४ ।।

     अन्वयः- प्रत्युपदेशलुब्धैः नूपुरसिञ्जितानि आदित्सुभिः राजहंसैः संनताङ्गी सा लीलाञ्चितविक्रमेषु गतेषु व्यनीयत इव ।
     मल्लिo- सेति ।। प्रत्युपदेशलुब्धैः । `गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या चतुर्थी नोपपद्यते ।' इति न्यायादिति भावः । तदेव व्यनक्ति-नूपुरसिञ्जितान्यादित्सुभिरादातुमिच्छुभिः । मञ्जीरसिञ्जितमञ्जुकूजितोपदेशमिच्छद्भिरित्यर्थः । राजहंसैः संनताङ्गी । कुचभारादिति भावः । सा पार्वती लीलाभिर्विलासैरञ्चिताः पूजिता विक्रमाः पादन्यासा येषु तेषु । `अञ्चेः पूजायाम्' इतीडागमः । लीला विलासक्रिययोः `इत्यमरः' । गतेषु विषयेषु व्यवीयतेव विनीता किमु । अन्यथा कथमस्या हंसगमनमित्युत्प्रेक्षा ।। १. ३४ ।।

वृत्तानुपूर्वे च न चातिदीर्धे जङ्घे शुभे सृष्टवतस्तदीये ।
शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्नः ।। १. ३५ ।।

     अन्वयः- वृत्ताऽनुपूर्वे न च अति दीर्धे शुभे तदीये जङ्घे सृष्टवतः विधातुः शेषाङ्गनिर्माणविधौ उत्पाद्ये लावण्ये यत्न आस इव ।
     मल्लिo- वृत्तेति । वृत्ते वर्तुले पूर्वमनुगतेऽनुपूर्वे । गोपुच्छाकार इत्यर्थः । वृत्ते च ते अनुपूर्वे च वृत्तानुपूर्वे नातिदीर्धे च । महाविभाषया न समासः । नञो विशेषणत्वं चशब्दप्रयोगादेव ज्ञेयम् । शुभे मङ्गले । तस्या इमे तदीये जङ्घे प्रसृते । `जङ्घा तु प्रसृता' इत्यमरः । सृष्टवतो निर्मितवतो विधातुः स्त्रष्टुः शेषाङ्गनिर्माणविधौ । जङ्घाव्यतिरिक्तावयवनिर्माणार्थमित्यर्थः । उत्पाद्ये पुनः संपाद्ये लावण्ये कान्तिविशेषविषये । लावण्यलक्षणं तूक्तम् (२५) श्लेक टीo। यत्न आसेव बभूवेवेत्युत्प्रेक्षा । उपादानमन्तरेण कार्यस्य दुष्करत्वात्तदङ्गानां न लावण्योपादानकत्वात्पूर्वसंपादितस्य च जङ्घार्थमेव कार्त्स्त्येन विनियोगात्पुनर्लावण्यसंपादने यत्नः स्यादेवेत्येतादृक्सौन्दर्ये दज्जङ्गे इति भावः । आसेति बभूवार्थे `तिङन्तप्रतिरुपकमव्ययम्' इत्याह शाकटायनः । वल्लभस्तु- `न तिङन्तप्रतिरुपकमव्ययम्' `अस्तेर्भूः' इति भ्वादेशनियमात्तादृक्तिङन्तस्यैवाभावात् । किंतु कवीनामयं प्रामादिकः प्रयेगः' इत्याह । वामनस्तु- `अस गतिदोप्त्यादानेष्वितिः धातोर्लिटि रुपमिदम्' इत्याह । अस इत्यनुदात्तेद्दीप्त्यर्थे आस दिदीपे । प्रवृत्त इत्यर्थः ।। १. ३५ ।।

नाग्रेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः ।
लब्ध्वापि लोके परिणाहि रुपं जातास्तदूर्वोरुपमानबाह्याः ।। १. ३६ ।।

     अन्वयः- नागेन्द्रहस्ताः त्वचि कर्कशत्वात्, कदलीविशेषाः एकान्तशैत्यात् लोके परिणाहि रुपं लब्ध्वा अपि तदूर्वोः उपमानबाह्याः जाताः ।
     मल्लिo- नागेन्द्रेति । नागेन्द्राणामैरावतादीनां हस्ताः करास्त्वचि चर्मणि कर्कशत्वात्कदलीविशेषा रामरम्भादय एकान्तशैत्यान्नियतशैत्याद्धेतोः लोके परिणाहि वैपुल्ययुक्तम् । `परिणाहो विशालता' इत्यमरः । रुपं लब्ध्वापि । अपिशब्दात्करिकदलीमात्रस्य तादृक्परिणाहो नास्तीति भावः । तस्या ऊर्वोस्तदूर्वोरुपमानबाह्या जाता उपमानक्रियानर्हा बभृवुः । तदूर्वोर्न कार्कश्यं नाप्येकान्तशैत्यमिति भावः ।। १. ३६ ।।

एतावता नन्वनुमेयशोभि काञ्चीगुणस्थानमनिन्दितायाः ।
आरोपितं यद् गिरिशेन पश्चादनन्यनारीकमनीयमङ्कम् ।। १. ३७ ।।

     अन्वयः- यत् पश्चात् गिरिशेन अनन्यनारीकमनीयम् अङ्कम् आरोपितम्, अनिन्दितायाः काञ्चीगुणस्थानम् एतावता अनुमेयशोभि ननु ।
     मल्लिo- एतावतेति । अनिन्दिताया अनवद्यायाः पार्वत्याः काञ्चीगुणस्थानं नितम्बबिम्बमेतावता नन्वेतावतैव ।। `प्रश्नावधारणानुज्ञानुनया मन्त्रणे ननु' इत्यमरः । शोभत इति शोभि । आवश्यके णिनिः, ततस्तप्रत्ययः । अनुमेयं शोभित्वं शोभा यस्य तदनुमेयशोभि । `त्वप्रत्ययस्तु गतार्थत्वान्न प्रयुक्तः' इत्याह वामनः । पश्चादादौ नौःस्पृह्येऽपि पश्चात् । तपश्चर्यानन्तरमित्यर्थः । गिरौ शेत इति गिरिशः शिवः । `गिरौ डश्छन्दसि' इति डप्रत्ययः । भाषायामपि क्वचिदिष्यते। अथवा गिरिः कैलासोऽस्यास्तीति गिरिशः । लोमादित्वाच्छप्रत्ययः । तेन गिरिशेन । अन्यासां नारीणां कमनीयः कामयितुं शक्यो न भवतीत्यनन्यनारीकमनीयस्तमङ्कं निजोत्सङ्गमारोपितमधिरोपितमिति यत् । एतावता लिङ्गेनेति पूर्वेणान्वयः । रोहतेर्ण्यन्तात्कर्मणि क्तः । `रुहः पोऽन्यतरस्याम्' इति हकारस्य पकारः । गत्यर्थविवक्षायां द्विकर्मकत्वम् । प्रधाने कर्मणि क्तः । गिरिजानितम्बबिम्बं विश्वातिशायिसौन्दर्यं गिरिशाङ्कारुढत्वाद्व्द्यतिरेकेण नार्यन्तरनितम्बबिम्बवत् । विपक्षे हेत्वनुक्तिरेव बाधिका । दाक्षायणीनितम्बबिम्बस्य तु पक्षसपक्षयोरन्यतरभावानतिवृत्तेर्निष्कलङ्कमनुमानमित्यलमस्थानसंरम्भेण ।। १. ३७ ।।

तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवलोमराजिः ।
नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः ।। १. ३८ ।।

     अन्वयः- नीवीम् अतिक्रम्य नतनाभिरन्ध्रं प्रविष्टा तन्वी तस्या नवलोमराजिः सितेतरस्य तन्मेखलामध्यमणेः अर्चिः इव रराज ।
     मल्लिo- तस्य इति ।। नीवीं वस्त्रग्रन्थिम् । `स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च' इत्यमरः अतिक्रम्यातीत्य नतं निम्नं नाभिरन्ध्रं प्रविष्टा प्रविशन्ती तन्वी सूक्ष्मा तस्याः पार्वत्या नवलोमराजिः सितेतरस्यासितस्य । इन्द्रनीलस्येत्यर्थः । तस्याः पार्वत्या मेखला तन्मेखला । तस्या इत्यनुवृत्तौ पुनस्तच्छब्दोपादानं वाक्यान्तरत्वात्सोढव्यम् । यद्वा तस्या नीव्या मेखला तन्मेखला तत्र तदवस्थानात् । तस्या मध्यमणेरर्चिः प्रभेव रराज । `ज्वालाभासोर्नपुंस्यर्चि' इत्यमरः ।। १. ३८ ।।

 
मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला ।
आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ।। १. ३९ ।।

     अन्वयः- वेदिविलग्नमध्या सा बाला मध्येन चारु बलित्रयं कामस्य आरोहणार्थं नवयौवनेन प्रयुक्तं सोपानम् इव बभार ।
     मल्लिo- मध्येनेति ।। `वेदिः परिष्कृता भूमिः'इत्यमरः । वेदिविलग्नमध्या वेदिवत्कृशमध्या । तनुमध्येति यावत् । सा बाला पार्वती । मध्येन मध्यभागेन चारु सुन्दरं वलित्रयं कामस्यारोहणार्थं नवयौवनेन प्रयुक्तं रचितं सोपानमिव बभारेत्युत्प्रेक्षा ।। १. ३९ ।।

अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनव्दयं पाण्डु तथा प्रवृद्धम् ।
मध्यं यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् ।। १.४० ।।

     अन्वयः- अन्योन्यम् उत्पीडयत् पाण्डु उत्पलाक्ष्याः स्तनव्दयं तथा प्रवृद्धं, श्याममुखस्य तस्य मध्ये यथा मृणालसूत्रान्तरम् अपि अलभ्यम् ।
     मल्लिo- अन्योन्येति । अन्योन्यं परस्परम् । `कर्मव्यतिहारे सर्वनाम्ना द्वे वाच्ये' इति द्विरुक्तिः । `समासवच्च बहुलम्' इति बहुलवचनादसमासपक्षेऽपि पूर्वपदस्थस्य सुपः सुर्वक्तव्यः । उत्पीडयदुपरुन्धत्पाण्डु गौरमुत्पलाक्ष्याः स्तनव्दयं तथा तेन प्रकारेण प्रवृद्धम् । कर्तरि क्तः । श्याममुखस्य कृष्णचूचुकस्येति स्वरुपवर्णनं तस्य स्तनव्दयस्य मध्ये यथा येन प्रकारेण मृणालसूत्रान्तरं बिसतन्तुमात्रावकाशोऽप्यलभ्यं लब्धुमशक्यम् । `अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये' इत्यमरः । अत्र संबन्धेऽसंबन्धरुपातिशयोक्त्यलंकारः । कुचयोः पीवरत्वातिशयार्थमवकाशसंबन्धेऽप्यसंबन्धाभिधानादिति ।। १. ४०।।

लोके सुकुमारत्वमेव कुसुमास्त्रस्य साधकत्वमिति स्थिते सत्याह --

शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाविति मे वितर्कः ।
पराजितेनापि कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन ।। १. ४१ ।।

     अन्वयः- यौ (बाहू) पराजितेन अपि मकरध्वजेन हरस्य कण्ठपाशौ कृतौ, (अतः) तदीयौ बाहू शिरीपुष्पाऽधिकसौकुमार्यौ इति मे वितर्कः ।
     मल्लिo- शिरीषेति ।। तस्या इमौ तदीयौ बाहू शिरीषपुष्पादधिकं सौकुमार्यं मार्दवं ययोस्तथोक्ताविति मे वितर्क ऊहः । कुतः । यौ बाहू पराजितेनापि पूर्वं निर्जितेनापि मकरध्वजेन कामेन हरस्य कण्ठपाशौ कण्ठबन्धनरज्जूकृतौ । कण्ठालिङ्गनं प्रापितावित्यर्थः ।थ तदसाध्यसाधनात्तत आधिक्यमिति भावः । अत्र बाह्वोरारोपितकण्ठपाशत्वस्य प्रकृतवैरनिर्यातनोपयागात्परिणामालंकारः ।। १. ४१ ।।

कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य ।
अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ।। १. ४२ ।।

     अन्वयः- स्तनबन्धुरस्य तस्याः कण्ठस्य निस्तलस्य (तस्याः) मुक्ताकलापस्य च अन्योन्यशोभाजननात् भूषणभूष्यभावः साधारणो बभूव ।
     मल्लिo- कण्ठस्येति ।। स्तनाभ्यां बन्धुरस्योन्नतस्य तस्याः पार्वत्याः कण्ठस्य गलस्य निस्तलस्य वर्तुलस्य मुक्ताकलापस्य मुक्ताभूषणस्य च । `वर्तुलं निस्तलं बृत्तं बन्धुरं तून्नतानतम्' । `कलापो भूषणे बर्हे तूणीरे संहतावपि' इति चामरः । अन्योन्यशोभाजननाद् भूषणभूष्यभावोऽलंकारालंकार्यभावः साधारणः समानो बभूव । उभावप्यन्योन्यस्य भूष्यौ भूषणे च बभूवतुरित्यर्थः । अत्र कण्ठमुक्ताकलापयोः शोभक्रियाद्वारेणान्योन्यभूषाजनकत्वादन्योन्यालंकारः । तदुक्तम्- `परस्परं क्रियाजननमन्योन्यम्'इति ।। १. ४२ ।।

इदानीं पार्वतीवदनं चन्द्रकमलसदृशमित्येतदेव वाचोभङ्ग्याह-

चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् ।
उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ।। १. ४३ ।।

     अन्वयः- लोला लक्ष्मीः चन्द्रं गता (सती) पद्मगुणान् न भुङ्त्ते, पद्माश्रिता (सती) चान्द्रमसीम् अभिख्यां न भुङ्क्ते, उमामुखं तु प्रतिपद्य द्विसंश्रयां प्रीतिम् अवाप ।
     मल्लिo- चन्द्रमिति ।। लोला चपला । परिभ्रमणशीलेत्यर्थः । लक्ष्मीः कान्त्यभिमानिनी देवता चन्द्रं गता प्रात्पा सती पद्मगुणान्सौगन्ध्यादीन्न भुङ्क्ते नानुभवति । पद्माश्रिता सती चन्द्रमस इमां चान्द्रमसीमभिख्यां शोभाम् । `अभिख्या नामशोभयोः' इत्यमरः । अमृतवदानन्दिनीं न भुङ्क्ते । उमामुखं प्रतिपद्य तु व्दे चन्द्रपद्मे संश्रयः कारणं यस्यास्तां द्विसंश्रयां प्रीतिमानन्दमवाप । तत्रोभयगुणसंभवादिति भावः । अत्रोपमानभूतचन्द्रपद्मापेक्षयोपमेयस्योमामुखस्याधिकगुणवत्त्वोक्त्या व्यतिरेकालंकारः । तदुक्तम्- `भेदप्राधान्येनोपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः' इति ।। १. ४३ ।।

पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ।। १. ४४ ।।

     अन्वयः- पुष्पं प्रवालोपहितं स्यात् यदि, वा मुक्ताफलं स्फुटविद्रुमस्थ स्यात् यदि, ततः विशदस्य ताम्रौष्ठपर्यस्तरुचः तस्याः स्मितस्य अनुकुर्यात् ।
     मल्लिo-- पुष्पमिति ।। पुष्पं पुणडरीकादिकं प्रवाले बालपल्लव उपहितं निहितं स्याद्यदि । `प्रवालो वल्लकीदण्डे विद्रुमे बालपल्लवे' इति विश्वः । मुक्ताफलं वा स्फुटे निर्मले वा विद्रुमे तिष्ठतीति स्फुटविद्रुमस्थं स्यद्यदि ततस्तर्हि विशदस्य शुभ्रस्य ताम्रे अरुणे ओष्ठे पर्यस्ता प्रसृता रुक्कान्तिर्यस्य तथोक्तस्य तस्याः पार्वत्याः स्मितस्यानुकुर्यात् । स्मितमनुकुर्यादित्यर्थः । अत्र `माषाणामश्नीयात्' इति वत्सम्बन्धमात्रविवक्षया षष्ठी । अत्र पुष्पप्रवालयोर्मुक्ताविद्रुमयोश्चासंबन्धेऽपि संबन्धोक्त्यातिशयोक्तिः । `सा च संभावना' इत्यलंकारसर्वस्वकारः । विशेषस्तु पुष्पमुक्ताफलयोरुपमानयोः प्रकृतोत्कर्षार्थमुपमेयताकल्पनात्प्रतीपालंकारः । तदुक्तम्-- `उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपः' इति लक्षणात् । स च पूर्वोक्तातिशयोक्त्यनुप्राणित इति ।। १. ४४ ।।

स्वरेण तस्याममृतस्त्रुतेव प्रजल्पितायामभिजातवाचि ।
अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमाना ।। १. ४५ ।।

     अन्वयः- अभिजातवाचि तस्याम् अमृतस्त्रुता इव स्वरेण प्रजल्पितायां सत्याम् अन्यपुष्टा अपि ताड्यमाना वितन्त्री इव श्रोतुः प्रतिकूलशब्दाः ।
     मल्लिo-- स्वरेणेति । अभिजातवाचि मधुरभाषिण्यां तस्यां पार्वत्याममृतस्त्रुतामृतस्त्राविणेव । क्विप् । स्वरेण नादेन प्रजल्पितायामालपन्त्याम् । कर्त्तरि क्तः । अन्यैः काकादिभिः पुष्टान्यपुष्टा कोकिलापि । मुख्यया वृत्या जातिवचनत्वभावान्ङीबभावः । ताड्यमाना वाद्यमाना विषमबद्धा तन्त्रीर्वितन्त्रीरिव अवितॄस्तृतन्त्रिभ्यः- ईः ' इति तन्त्रिधातोरौणादिक ईप्रत्ययः । ङीबभावान्न `हल्ङ्याब्भ्यः-' इति सुलोपः । तदुक्तम्- अवोलक्ष्मीतरीतन्त्रीधीह्रीश्रीणामुणादिषु । स्त्रीलिङ्गानाममीषां तु न सुलोपः कदाचन ।। एते ङीबन्ता न भवन्तीत्यर्थः । श्रोतुर्जनस्य प्रतिकूलशब्दाः कर्णकठोरनादा भवन्तीति शेषः ।। १. ४४ ।।

प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या ।
तया गृहितं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः ? ।। १. ४६ ।।

     अन्वयः- प्रवातनीलोत्पलनिर्विशेषम् अधीरविप्रेक्षितम् आयताक्ष्या तया मृगाऽङ्गनाभ्यो गृहीतं नु ? (वा) मृगाङ्गनाभिः ततो गृहीतं नु ?
     मल्लिo- प्रवातेति । प्रवाते प्रभूतवातस्थले यन्नीलोत्पलं ततो विर्विशेषं निर्भेदं, तत्सदृशमित्यर्थः । अधीरविप्रेक्षितं चकितविलोकितमायताक्ष्या विशालनेत्रया तया पार्वत्या मृगाङ्गनाभ्यो हरिणीभ्यो गृहीतमभ्यस्तं नु । अथवा मृगाङ्गनाभिस्ततस्तस्याः पार्वत्याः । पञ्चम्यास्तसिल् । गृहीतं नु । अत्र विवक्षितस्य परस्पग्रहणस्योत्प्रेक्षणादुत्प्रेक्षेति केचित् । तदुपजीविसंदेहालंकार इत्यन्ये । उभयोः संकर इत्यपरे ।। १. ४६ ।।

तस्याः शलाकाञ्जननिर्मितेव कान्तिर्भ्रुवोरायतलेखयोर्या ।
तां वीक्ष्य लीलाचतुरामनङ्गः स्वचापसौन्दर्यमदं मुमोच ।। १. ४७ ।।

     अन्वयः- आयतलेखयोः तस्या भ्रुवोः शलाकाऽञ्जननिर्मिता इव या कान्तिः, लीलाचतुरां तां वीक्ष्य अनङ्गः स्वचापसौन्दर्यमदं मुमोच ।
     मल्लिo-- तस्या इति । आयतलेखयोर्दीर्घरेखयोस्तस्याः पार्वत्या भ्रुवोः संबन्धिनी शलाकयाञ्जनेन निर्मितैव स्थिता या कान्तिर्लीलाचतुरां विलाससुभगां तां कान्तिं वीक्ष्यानङ्गः स्वचापसौन्दर्येण यो मदस्तं मुमोच । इह सौन्दर्यातिशयोक्तिः ।। १. ४७ ।।

लज्जा तिरश्चां यदि चेतसि स्यादसंशयं पर्वतराजपुत्र्याः ।
तं केशपाशं प्रसमीक्ष्य कुर्युर्बालप्रियत्वं शिथिलं चमर्यः ।। १. ४८ ।।

     अन्वयः- तिरश्चां चेतसि लज्जा स्यात् यदि, असंशयं पर्वतराजपुत्र्याः तं केशपाशं प्रसमीक्ष्य चमर्यः बालप्रियत्वं शिथिलं कुर्युः ।
     मल्लिo-- लज्जेति । तिरश्चां तिर्यग्जातीनां चेतसि लज्जा स्याद्यदि । संशयाभावोऽसंशयम् । सन्देहो नास्तीत्यर्थः । पर्वतराजपुत्र्याः । `शार्ङ्गरवाद्यञो ङीन्'इति ङीन् । तं प्रसिद्धं केशपाशं केशकलापम् । `पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे' इत्यमरः । प्रसमीक्ष्य दृष्ट्वा चमर्यो मृगीविशेषाः बालाः प्रिया यासामिति विग्रहे बालप्रियास्तासां भावो बालप्रियत्वम् । प्रियबालत्वमित्यर्थः । आहिताग्न्यादिपाठाव्दा परनिपातः । `त्वतलोर्गुणवचनस्य' इति पुंवद्भावः । शिथिलं कुर्युः । निर्लज्जत्वान्न शिथिलयन्तीत्यर्थः । अत एवात्र निर्लज्जत्वकरणहेतोराद्यपादे वाक्यार्थत्वेनोक्त्या काव्यलिङ्गाख्योऽलङ्कारः । तदुक्तम्-- `हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्' इति ।। १. ४८ ।।

सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन ।
सा निर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिदृक्षयेव ।। १. ४९ ।।

     अन्वयः- सा विश्वसृजा एकस्थसौन्दर्यदिदृक्षया इव प्रयत्नात् यथा प्रदेशं विनिवेशितेन सर्वोपमाद्रव्यसमुच्चयेन निर्मिता ।
     मल्लिo--सर्वोपमेति । किंबहुना सा पार्वती विश्वसृजा विधात्रैकत्र तिष्ठतीत्येक्स्थं तस्य सौन्दर्यस्य । सर्ववस्तुगतस्येत्यर्थः । दिदृक्षयेव प्रयत्नाद्यथाप्रदेशं क्रमाद्विनिवेशितेन स्थापितेन सर्वेषामुपमाद्रव्याणां चन्द्रारविन्दाद्युपमानवस्तूनां समुच्चयेन समाहारेण निर्मिता । दिदृक्षयेवेति फलोत्प्रेक्षा दर्शनार्थित्वाद्विश्वसृज इति ।। १. ४९ ।।

तां नारदः कामचरः कदाचित्कन्यां किल प्रेक्ष्य पितुः समीपे ।
समादिदेशैक वधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य ।। १. ५० ।।

     अन्वयः- कामचरो नारदः कदाचित् पितुः समीपे कन्यां तां प्रेक्ष्य किल प्रेम्णा हरस्य शरीराऽर्द्धहराम् एकवधूं भवित्रीं समादिदेश ।
     मल्लिo-- तामिति । कामेनेच्छया चरतीति कामचरो नारदः । कदाचित्पितुर्हिमवतः समीपे कन्यां तां पार्वतीं प्रेक्ष्य किल प्रेम्णा न त्वन्यथा हरस्य शिवस्यार्धं हरतीत्यर्धहरा । `हरतेरनुद्यमनेऽच्' हत्यच्प्रत्ययः । शरीरास्यार्धहराम् शरीरार्धहराम् । कुलधुरन्धरादिवदवयवद्वारा समुदायविशेषकत्वात्समासः । अन्यथा त्वर्धस्य समप्रविभागवचनत्वादशरीरेति स्यात् । एकवधूमसपत्नीकां भार्याम् । `पूर्वकाल--' इत्यादिना समासः । भवित्रीं भाविनीं समादिदेश । हरस्यार्धाङ्गहारिण्येकपत्नी भविष्यतीत्यादिष्टवानित्यर्थः ।। १. ५० ।।

गुरुः प्रगल्भेऽपि वयस्यतोऽस्यास्तस्थौ निवृत्तान्यवराभिलाषः ।
ऋते कृशानोनं हि मन्त्रपूतमर्हन्ति तेजांस्यपराणि हव्यम् ।। १. ५१ ।।

     अन्वयः- अतः गुरुः अस्याः प्रगल्भे वयसि अपि निवृत्ताऽन्यवराऽभिलाषः तस्थौ । हि मन्त्रपूतं हविः कृशानोः ऋते अपराणि तेजांसि न अर्हन्ति ।
     मल्लिo-- गुरुरिति । गुरुः पिता । `गुरू गीःपतिपित्राद्यौ' इत्यमरः । अतो नारदवचनाद्धेतोरस्याः पार्वत्याः प्रगल्भे वयस्यपि यौवने सत्यपि निवृत्तोऽन्यस्मिन्वरे जामातर्यभिलाषो यस्य स तथोक्तः सन् । `वरौ ना रूपजामात्रोः' इति वैजयन्ती । तस्थौ । वरान्तरं नान्विष्टवानित्यर्थः । ननु कुतोऽसौ निबंन्ध इत्यत आह-- ऋत इति । तथाहि मन्त्रैः पूतं संस्कृतं हूयत इति हव्यमाज्यादिकं कृशानोः पावकादृते कृशानुं विना `अन्यारादितरे--' इत्यादिना पञ्चमी । अपराणि तेजांसि सुवार्णादीनि नार्हन्ति । न भजन्तीत्यर्थः । ईश्वरादन्यस्य तद्योग्यस्याभावादुपेक्षेति भावः ।। १. ५१ ।।

:तर्हि तमेवाहूय दीयतामित्याशङ्क्याह--

अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक ।
अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे ।। १. ५२ ।।

     अन्वयः- अद्रिः अयाचितारं देवदेवं सुतां ग्रहयितुं न शशाक । हि साधुः अभ्यर्थनाभङ्गभयेन इष्टे अर्थे अपि माध्यस्थ्यम् अवलम्बते ।
     मल्लिo-- अयाचितारमिति । अद्रिर्हिमवानयाचितारमयाचमानं देवदेवं महादेवं सुतां पार्वतीं ग्राहयितुं स्वयमाहूय परिग्राहयितुं न शशाक नोत्सेहे । तथाहि साधुः सज्जनः । `साधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत्' इति विश्वः । अभ्यर्थनाभङ्गभयेन याच्ञावैफल्यभीत्येष्टेऽप्यर्थे विषये माध्यस्थ्यमौदासीन्यमवलम्बते ।। १. ५२ ।।

न च तथैव स्थितः, किं तूपायन्तरं चिन्तितवानिति वक्तुं प्रस्तौति -

यदैव पूर्वे जनने शरीरं सा दक्षरोषात् सुदती ससर्ज ।
तदाप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत् ।। १. ५३ ।।

     अन्वयः- सुदती सा पूर्वे जनने यदा दक्षरोषात् शरीरं ससर्ज, तदा प्रभृति एव पशूनां पतिः विमुक्तसङ्गः सन् अपरिग्रहः अभूत् ।
     मल्लिo-- यदेति । शोभना दन्ता यस्याः सा सुदती । `वयसि दन्तस्य दतृ' इति दत्रादेशः । `उगितश्च' इति ङीप् । सा पार्वती पूर्वे जनने पूर्वस्मिञ्जन्मनि । `पूर्वादिभ्यो नवभ्यो वा' इति स्मिन्नादेशविकल्पः । `पूर्वज्वलने' इति पाठे पूर्वं दाक्षायणीत्वे ज्वलने योगाग्नौ । यदा यस्मिन्काले दक्षरोषाच्छरीरं देहं ससर्ज तत्याज, तदाप्रभृत्येव तदाद्येव यथा तथा पशुनां पतिः शिवो विमुक्तसङ्गस्त्यक्तविषयासङ्गः सन् । अपरिग्रहोऽपत्नीकोऽभूत् । स्त्र्यंतरं न परिजग्राहेत्यर्थः `पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः ।। १. ५३ ।।

स कृत्तिवासास्तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु ।
प्रस्थं हिमाद्रेर्मृगनाभिगन्धि किंचित्क्वणर्त्किन्नरमध्युवास ।। १. ५४ ।।

     अन्वयः- कृत्तिवासाः यतात्मा स तपसे गङ्गाप्रवाहोक्षितदेवदारु मृगानाभिगन्धि क्वणत्किन्नरं किञ्चित् हिमाद्रेः प्रस्थम् अध्युवास ।
     मल्लिo-- स इति । कृ त्तिवासाश्चर्माम्बरः । `अजिनं चर्म कृत्तिः स्त्री' इत्यमरः । यतात्मा नियतचित्तः सः पशुपतिस्तपसे तपोर्थं गङ्गाप्रवाहेणोक्षिताः सिक्ता देवदारवो यस्मिंस्तत्तथोक्तम् । मृगनाभिगन्धि कस्तूरीगन्धवत् । कस्तूरीमृगसंचारादिति भावः । `मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम्' इत्यमरः । क्बणन्तो गायन्तः किंन्नरा यस्मिंस्तत्तथोक्तम् । किंचित्किमपि हिमाद्रेः प्रस्थं सानुमध्युवास । कुत्रचित्प्रस्थ उवासेत्यर्थः । `उपान्वध्याङ्वसः' इत्याधारस्य कर्मत्वम् । प्रस्थोऽस्त्री सानुमानयोः ईत्यमरः ।। १. ५४ ।।

गणा नमेरुप्रसवावतंसा भूर्जत्वचः स्पर्शवतीर्दधानाः ।
मनःशिलाविच्छुरिता निषेदुः शैलेयनद्धेषु शिलातलेषु ।। १. ५५ ।।

     अन्वयः- गणा नमेरुप्रसवाऽवतंसाः स्पर्शवतीः भीर्जत्वचो दधानाः मनःशिलाविच्छुरिताः (सन्तः) शैलेयनद्धेषु शिलातलेषु निषेदुः ।
     मल्लिo-- गणा इति ।। गणाः प्रमथगणाः । `गणाः प्रमथसंख्यौघाः' इति वैजयन्ती । नमेरुप्रसवावतंसाः सुरपुंनागकुसुमशेखराः । `नमेरुः सुरपुंनागः' इति विश्वः । स्पर्शवतीः सुखस्पर्शाः । मृद्वीरित्यर्थः । प्रशंसायां मतुप् । भूर्जत्वचो भूर्जवल्कलानि दधानाः । वसाना इत्यर्थः । मनःशिलाभिर्धातुविशेषैर्विच्छुरिता अनुलिप्ताश्च सन्तः । शिलायां भवं शैलेयम् । गन्धौषधिविशेषः । शिलायाः `स्त्रीभ्यो ढक्' इति भवार्थे ढक् । `शिलाजतु च शैलेयम्' इति यादवः । तेन नद्धेषु व्याप्तेषु शिलातलेषु निषेदुः ।उपविविशुरित्यर्थः ।। १. ५५ ।।

तुषारसंघातशिलाः खुराग्रैः समुल्लिखन्दर्पकलः ककुद्मान् ।
दृष्टः कथंचिद्गवयैर्विविग्नैरसोढसिंहध्वनिरुन्ननाद ।। १. ५६ ।।

     अन्वयः- तुषारसङ्घातशिलाः खुराऽग्रैः समुल्लिखन् दर्पकलः विविग्नैः गवयैः कथंचित् दृष्टः ककुद्मान् असोढसिंहध्वनिः (सन्) उन्ननाद ।
     मल्लिo- तुषारेति । तुषारसंघाता हिमघनास्त एव शिलास्ताः खुराग्रैः समुल्लिखन्विदारयन्दर्पेण कलो मधुरध्वनिर्यस्य स दर्पकलो विविग्नैर्मेतैर्गवयैर्गोसदृशमृगविशेषैः कथंचित्कृच्छ्रेण दृष्टः । ककुदमस्यास्तीति ककुद्मान्वृषभोऽसोढः सिंहानां ध्वनिर्येंन स सिंहध्वनिमसहमानः सन् । उन्ननादोच्चैर्ननाद । जगर्जेत्यर्थः । स्वभावोक्तिरलङ्कारः । तदुक्तम्-- स्वभावोक्तिरसौ चारु यथावव्दस्तुवर्णन्म् इति ।। १. ५६ ।।

तत्राग्निमाधाय समित्समिद्धं स्वमेव मर्त्यन्तरमष्टमूर्तिः ।
स्वयं विधाता तपसः फलानां केनापि कामेन तपश्चचार ।। १. ५७ ।।

     अन्वयः- तपसः फलानां स्वयं विधाता अष्टमूर्तिः तत्र स्वम् एव मूर्त्यन्तरं समित्समिद्धम् अग्निम् आधाय केन अपि कामेन तपः चचार ।
     मल्लिo- तत्रेति । तपसः फलानामिन्द्रत्वादीनां स्वयं विधाता जनयिता । दातेत्यर्थः । अष्टो मूर्तयो यस्य सोऽष्टमूर्तिरीश्वरः । `भूतार्कचन्द्रयज्वानो मृर्तयोऽष्टौ प्रकीर्तिताः' । इति तत्र प्रस्थे स्वं स्वकीयमेव मूर्त्यन्तरं मूर्तिभेदं समिद्भिः समिद्धं दीपितमग्निमाधाय प्रतिष्ठाप्य केनापि कामेन कयापि फलकामनया तपश्चचार चक्रे । `प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते' इति न्यायात्कामेनेत्युक्तम् । तस्यावाप्तसमस्तकामत्वात्केनापीत्युक्तम् ।। १. ५७ ।।

अनर्घ्यमर्घ्येण तमद्रिनाथः स्वर्गौकसामार्चितमर्चयित्वा ।
आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम् ।। १. ५८ ।।

     अन्वयः- अद्रिनाथः अनर्घ्यं स्वर्गौकसाम् अर्चितं तम् अर्घ्येण अर्चयित्वा अस्य आराधनाय सखीसमेतां प्रयतां तनूजां समादिदेश ।
     मल्लिo- अनर्घ्येति । अद्रीणां नाथोऽद्रिनाथो हिमवान् । अर्घ मूल्यमर्हदीत्यर्घः । `मूल्ये पूजाविधावर्घः' इत्यमरः । `दण्डादिभ्यो यः' इति यप्रत्ययः । अर्घ्यो न भवतीत्यनर्घ्यस्तमनर्घ्यम् । अमूल्यमित्यर्थः । स्वर्ग ओकः स्थानं येषां तेषां स्वर्गौकसां देवानामर्चितम् । देवैः पूज्यमानमित्यर्थः । "मतिबुद्धिपूजार्थेभ्यश्च" इति वर्तमाने क्तः । "क्तस्य च वर्तमाने " इति षष्ठी । तमीश्वरमनर्घ्येण पूजार्थोदकेन । " पदार्घ्याभ्यां च " इति यत् प्रत्ययः । षट् तु त्रिष्वर्घ्यमघर्थे पाद्यं पादाय वारिणि' इत्यमरः । अर्चयित्वा पूजयित्वास्येश्वरस्याराधनाय सखीभ्यां जयाविजयाभ्यां समेतां प्रयतां नियतां तनूजां सुतां समादिदेशाज्ञापयामास ।। १. ५८ ।।


प्रत्यर्थिभूतामपि तां समाधेः शुश्रूषमाणां गिरिशोऽनुमेने ।
विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ।। १. ५९ ।।

     अन्वयः- गिरिशः समाधेः प्रत्यर्थिभूताम् अपि शुश्रूषमाणां ताम् अनुमेने । विकारहेतौ सति येषां चेतांसि न विक्रियन्ते, ते एव धीराः ।
     मल्लिo- प्रत्यर्थीति । गिरीशः शिवः समाधेः प्रत्यर्थिभूतां प्रतिपक्षभूतामपि । सुप्सुपेति समासः । श्रोतुमिच्छन्तीं शुश्रूषमाणां सेवमानाम् । सेवका हि सेव्ये दत्तकर्णा भवन्ति । इच्छार्थे सन्प्रत्ययः ।`ज्ञाश्रुस्मृदृशां सनः' इत्यात्मनेपदम् । तां पार्वतीमनुमेनेऽङ्गीचकार । न प्रतिषिद्धवानित्यभिप्रायः । न चैतावता धीरस्य कश्चिद्विकार इत्याशयः । धीरत्वमेवार्थान्तरन्यासेनाह- विकारेति । विकारस्य प्रकृतेरन्यथात्वस्य हेतौ स्त्रीसंनिधानादिकारणे सति विद्यमानेऽपि येषां चेतांसि न विक्रयन्ते न विकृर्ति नीयन्ते त एव धीराः । `विक्रियन्ते' इति कर्मणि लट् ।। १. ५९ ।।



शुश्रूषाप्रकारमेवाह-

अवचितबलिपुष्पा वेदिसंमार्गदक्षा

नियमविधिजलानां बर्हिषां चोपनेत्री ।
गिरिशमुपचचार प्रत्यहं सा सुकेशी

नियमितपरिखेदा तच्छिरश्चन्द्रपादैः ।। १. ६० ।।

  अन्वयः- सुकेशी सा अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां च उपनेत्री (सती) तच्छिरश्चन्द्रपादैः नियमितपरिखेदा (सती) प्रत्यहं गिरिशम् उपचचार ।
  मल्लिo- अवचितेति । सुकेशी शोभनमूर्धजा । `स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' इति ङीष् । सा पार्वत्यवचितानि लूनानि बलिपुष्पाणि पूजाकुसुमानि यथा सा वेदेर्नियमवेदिकायाः संमार्गे संमार्जने दक्षा नियमविधेर्नित्यकर्मानुष्ठानस्य यानि जलानि तेषां बर्हिषां कुशानां चोपेनेत्र्यानेत्री सती तस्य गिरिशस्य शिरसि चन्द्रस्य पादै रश्मिभिः । `पादा रश्म्यङ्घ्रितुर्यांशाः' इत्यमरः । नियमितपरिखेदा निवर्तितपरिश्रमा सत्यहन्यहनि प्रत्यहम् । `अव्‌ययं विभक्तिसमीपसमृद्धी-' त्यादिना नियतार्थेऽव्ययीभावः नपुंसकादन्यतरस्याम् इत्यच्प्रत्ययः । गिरिशमुपचचार शुश्रूषांचक्रे ।। १. ६० ।।


इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया

संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्य

उमोत्पत्तिर्नाम प्रथमः सर्गः ।।