कुमारसम्भवम् - मल्लिनाथः/नवमः सर्गः

विकिस्रोतः तः
← अष्ठमः सर्गः कुमारसम्भवम् - मल्लिनाथः
नवमः सर्गः
कालिदासः
दशमः सर्गः →
नवमः सर्गः

तथाविधेऽनङ्गरसप्रसङ्गे मुखारविन्दे मधुपः प्रियायाः ।

संभोगवेश्म प्रविशन्तमन्तर्ददर्श (१)पारावतमेकमीशः ।। ९.१ ।।

{१.पारापतम्.}
     अन्वयः- प्रियाया मुखाऽरविन्दे मधुप ईशः तथाविधे अनङ्गरसप्रसङ्गे संभोगवेश्म प्रविशन्तम् एकं पारावतं ददर्श ।
     सीo- तथाविध इति । प्रियायाः पार्वत्याः संबन्धिनि मुखारविन्दे वदनकमले मधुपो भ्रमरभूत ईशः शिवस्तथाविधे पूर्वोक्तप्रकारेऽनङ्गरसप्रसङ्गे कामरसावसरे संभोगस्य वेश्म गृहमन्तः प्रविशन्तमेकं पारावतं कपोतं ददर्श दृष्टवान् । सर्गेऽस्मिवृत्तमुपजातिः ।। ९.१ ।।


सुकान्तकान्तामणितानुकारं कूजन्तमाधूर्णितरक्तनेत्रम् ।
प्रस्फारितोन्नम्रविनम्रकण्ठं मुहुर्मुहु(२)र्न्यञ्चितचारुपुच्छम् ।। ९.२ ।।

{२.नर्तित.}
     अन्वयः- (शिवः) सुकान्तकान्तामणिताऽनुकारं कूजन्तम् आधूर्णितरक्तनेत्रं प्रस्फारितोन्नम्रविनम्रकण्ठं मुहुर्मुहुः न्यञ्चितचारुपुच्छम् (पारावतं ददर्श) ।
     सीo-- सुकान्तेति । कथंभूतं पारावतम् । सुकान्तमतिमनोहरं यत्कान्तामणितं रमणीरतिकूजितम् । `मणितं रतिकूजितम्' इत्यमरः । तस्यानुकारोऽनुकरणं यत्र यस्मिन्कर्मणि यथा तथा कूजन्तं शब्दायमानम्, तथाघूर्णिते रक्तनेत्रे येन तथोक्तम् । तथा प्रस्फारितो विस्तारित उन्नम्र उच्चैस्तथा विनम्रः कण्ठो यस्य तम् । तथा मुहुर्मुहुर्वारंवारं न्यञ्चितः संकुचितश्चारुः पुच्छः पश्चाद्भागो येन तथोक्तमित्यर्थः । `पुच्छः पश्चात्प्रदेशे स्यात्' इति विश्वः ।। ९.२ ।।


विशृङ्खलं पक्षतियुग्ममीषद्दधानमानन्दगतिं(३) मदेन ।
शुभ्रांशुवर्ण जटिलाग्रपादमितस्ततो मण्डलकैश्चरन्तम् ।। ९.३ ।।

{३.आनन्दगतम्,आमन्दगतिम्.}
     अन्वयः- (शिवः)विश्रृङ्खलं पक्षतियुग्मम् ईषन्मदेन आनन्दगतिं च दधानं शुभ्रांऽशुवर्ण जटिलाऽग्रपादं मण्‍डलकैः इतस्ततः चरन्तम् (तं ददर्श) ।
     सीo-- विश्रृङ्खलमिति । पुनः कथंभूतम् । विशृङ्खलं विगतश्रृङ्खलाकम् । अनेन विशेषणेन कदाचित्कस्यापि बन्धनाभावस्य द्योतनात्स्वेच्छाविहारित्वं ध्वन्यते । `श्रृङ्खला पुंस्कटीवस्त्रबन्धेऽपि निगडेऽपि च' । इति विश्वः । पक्षत्योः पक्षमूलयोर्युग्मं द्वयम् । `पक्षात्तिः' इति तिप्रत्ययः । तथेषन्मदेन हेतुनानन्दगर्ति च दधानम् । तथा शुभ्रांशोश्चन्द्रस्य वर्ण इव वर्णो यस्य तम् । `जटिलस्तु जटायुक्तः' इति विश्वः । तथा मण्डलकैर्मण्डलाकारगतिविशेषैरितस्ततश्चरन्तं भ्रममाणम् । तं कपोतं ददर्शेति संबन्धः । `मण्डलके' इति पाठे सुरतमण्डप इति व्याख्येयम् । त्रिभिरेतद्विशेषकम् ।। ९.३ ।।


रतिद्वितीयेन मनोभवेन ह्रदयात्सुधाया प्रविगाह्यमानात् ।
तं वीक्ष्य फेनस्य चयं नवोत्थमिवाभ्यनन्दत्क्षणमिन्दुमौलिः ।। ९.४ ।।

     अन्वयः- रतिद्वितीयेन मनोभवेन प्रविगाह्यमानात् सुधाया ह्रदात् नवोत्थं फेनस्य चयम् इव तं वीक्ष्य इन्दुमौलिः क्षणम् अभ्यनन्दत् ।
     सीo-- रतीति । रत्या स्वपत्न्या द्वितीयेन । रतिसहायेनेत्यर्थः । मनोभवेन कर्त्रा । प्रविगाह्यमानादवलोड्यमानात्सुधाया ह्रदान्नवमुत्थमुत्पन्नं फेनस्य चयमिव स्थितं तं कपोतं वीक्ष्येन्दुमौलिः शिवः क्षणमभ्यनन्ददस्तौषीत् । कपोतरूपे वस्तुनि धवलिमरूपधर्मेण गम्यमानेन फेनचयरूपवस्तूत्प्रेक्षालंकारः ।। ९.४ ।।


(१)तस्याकृतिं कामपि वीक्ष्य दिव्यामन्तर्भवश्छद्यविहंगमग्निम् ।
विचिन्तयन्संविविदे स देवो भ्रूभङ्गभीमश्च रुषा बभूव ।। ९.५ ।।

{१.तदाकृतिम्.}
     अन्वयः- अन्तर्भवः स देवः दिव्यां काम् अपि तस्य आकृतिं वीक्ष्य छद्मविहंगम् अग्निं विचिन्तयन् संविविदे रुषा भ्रूभङ्गभूमश्च बभूव ।
     सीo-- तस्येति । अन्तर्भवतीत्यन्तर्भवः । सर्वान्तर्व्यापीत्यर्थः । स देवो हरः दिव्यां भव्यां कामपि लोकोत्तरां तस्य पारावतस्याकृतिं वीक्ष्य छद्मना कैतवेन विहंगं कपोतस्वरूपधारिणमग्निं विचिन्तयन्वितर्कयन्संविविदे विजज्ञे । निश्चयात्मकबुद्ध्याग्निरेवायमिति बुबुध इत्यर्थः । `समोगम्युच्छिभ्याम्-' इत्यात्मनेपदम् । रुषा भ्रुवोर्भङ्गेन भीमो भयंकरश्च बभूव । असामयिकागमनकारित्वादिति भावः ।। ९.५ ।।


स्वरुपमास्थाय ततो हुता(१)शस्त्र(२)सन्वलत्कम्प(३) कृताञ्जलिः सन् ।
प्रवेपमानो (४)नितरां स्मरारिमिदं वचो व्यक्तमथाध्युवाच(५) ।। ९.६ ।।

{१.स्त्रास,श्वास.२.कम्प्र,कण्ठः.४.अतितराम्.५.अभ्युवाचम्.}
     अन्वयः- ततो हुताशः त्रसन् स्वरुपम् आस्थाय अथ वलत्कम्पकृताऽञ्जलिः, (तथा) नितरां प्रवेपमानः (सन्) स्मराऽरिं व्यक्तम् इदं वचः अध्युवाच ।

     सीo- स्वरूपमिति । ततोऽनन्तरं हुताशोऽग्निस्त्रसन्बिभ्यत्सन् । `वा भ्रा-शे' त्यादिना वैकल्पिकत्वान्न श्यन् । स्वरुपमाग्नेयं रुपमास्थायाश्रित्य । अथ स्वरुपाश्रयणानन्तरम् । वलन्नुद्भवन्कम्पो यथा तथा कृतो बद्धोऽञ्जलिर्येन । तथा नितरां प्रवेपमानः कम्पमानश्च सन् स्मरारिं शिवं व्यक्तं स्फुटमिदं वक्ष्यमाणं वचोऽध्युवाचोक्तवान् । `दुह्याच्' इत्यादिना ब्रुवो द्विकर्मकत्वम् ।। ९.६ ।।



असि त्वमेको जगतामधीशः स्वर्गौकसां त्वं विपदो निहंसि ।
(६)ततः सुरेन्द्रप्रमुखाः प्रभो त्वामुपासते दैत्यवरैर्विधूताः ।। ९.७ ।।

{६.अतः.}
     अन्वयः- `हे प्रभो ! त्वम् एको जगताम् अधीशः असि (अतएव) स्वर्गौकसां विपदं त्वं निहन्सि, ततः सुरेन्द्रप्रमुखाः दैत्यवरैः विधूताः सन्तः त्वाम् उपासते ।
     सीo-- असीति । हे प्रभो, त्वमेको जगतामधीशोऽसि त्वत्सदृशो जगतां पालयिता न कोऽप्यन्योऽस्तीत्यर्थः । अत एव स्वर्गौकसामिन्द्रादीनां विपदस्त्वं निहंसि दूरीकरोषि । ततः कारणात्सुरेन्द्रप्रमुखा देवास्त्वामुपासते । यतो दैत्यवरैर्विधूतास्तिरस्कृताः ।। ९.७ ।।


त्वया प्रियाप्रेमवशंवदेन शतं व्यतीये (१)सुरतादृतूनाम् ।
' (२)रहः स्थितेन (३)त्वदवीक्षणार्तो दैन्यं परं प्राप सुरैः सुरेन्द्रः ।। ९.८ ।।

{१.अत्रभवन्.२.बहिस्थितोपि.३.त्वदवेक्षणेन.}
     अन्वयः- (हे प्रभो !) प्रियाप्रेमवशंवदेन त्वया रहःस्थितेन सुरतात् ऋतूनां शतं व्यतीतम् । सुरेन्द्रः त्वदवीक्षणार्तः (सन्) सुरैः (सह) परं दैन्यं प्राप ।
     सीo-- त्वयेति । हे प्रभो, प्रियायाः पार्वत्याः प्रेम्णा हेतुना वशंवदेन वशीभूतेन । `प्रियवशे वदः खच्' । इति खच् । `अरुर्द्विषदे-' त्यादिना मुम् । तेन त्वया रहःस्थितेन सता सुरताद्धेतोर्ऋतूनां शतं व्यतीतम् । इणः कर्मणि लिट् । अथ च सुरेन्द्रस्त्वदवीक्षणेन तवानवलोकनेनार्तः पीडितः सन्सुरैः सह परमत्यन्तं दैन्यं प्राप । त्वद्विरहासहत्वादिति भावः ।। ९.८ ।।


त्वदीयसेवावसरप्रतीक्षैरभ्यर्थितः शक्रमुखैः सुरैस्त्वाम् ।
उपागतोऽन्वेष्टुमहं विहंगरुपेण विद्वन्समयोचितेन ।। ९.९ ।।

     अन्वयः- हे विद्वन् ! त्वदीयसेवाऽवसरप्रतीक्षैः शक्रमुखैः सुरैः अभ्यर्थितोऽहं त्वाम् अन्वेष्टुं समयोचितेन विहङ्गरुपेण उपागतोऽस्मि ।
     सीo- त्वदीयेति । हे विद्वन् ! त्वदीया त्वत्कर्मिका या सेवा तस्या अवसरस्य प्रतीक्षा येषां तैः शक्रमुखैरिन्द्रादिभिः सुरैरभ्यर्थितोहं त्वामन्वेष्टुं मृगयितुं समयोचितेन विहंगरुपेण पारावतरुपेण । `जिह्रेति यन्नैव कुतोऽपि तिर्यक्कश्चित्तिरश्चस्त्रपते न तेन' । इति (नैषधीयचरिते ३/४३) श्रीहर्षोक्तेरिति भावः । उपागतोऽस्मि ।। ९.९ ।।


इति प्रभो चेतसि संप्रधार्य (१)तन्नोऽपराधं भगवन् क्षमस्व ।
पराभिभूता वद किं क्षमन्ते कालातिपातं शरणार्थिनोऽमी ।। ९.१० ।।

{१.मम.}
     अन्वयः- हे प्रभो ! हे भगवन् ! तत् इति चेतसि संप्रधार्य नः अपराधं क्षमस्व । पराऽभिभूताः शरणार्थिनः अमी कालाऽतिपातं किं क्षमन्ते ? वद ।
     सीo- इतीति । हे प्रभो, हे भगवन्, तत्तस्मात्कारणात् । इति चेतसि संप्रधार्य संविचार्य नोऽस्माकमपराधं क्षमस्व । असमय इन्द्रप्रेरितस्य तवापराधः कथं सोढव्य इति चेत्तत्राह-परेति । परैरभिभूता पराभिभूता अत एव शरणार्थिनो रक्षितारं याचमानाः । `शरणं गृहरक्षित्रोः' इत्यमरः । अमी इन्द्रादयः कालातिपातं कालविलम्बं किं कथं क्षमन्ते । आर्तैः कालविलम्बो न सह्यत इति भावः । `प्रतीक्षते जातु न कालमार्तः' इति न्यायात् । वद । कथयेत्यर्थः ।। ९.१० ।।


(२)प्रभो प्रसीदाशु (३)सृजात्मपुत्रं यं प्राप्य सेनान्यमसौ सुरेन्द्रः ।
(४)स्वर्लोकलक्ष्मीप्रभुतामवाप्य(५) जगत्त्रयं पाति तव प्रसादात् ।। ९.११ ।।

{२.अथ.३.सृजामु पुत्रम्;सुजस्व पुत्रम्.४.स्वर्गेकलक्ष्मी.५.उपेत्य.}
     अन्वयः- हे प्रभो ! प्रसीद । आत्मपुत्रम् आशु सृज, यं सेनान्यं प्राप्य असौ सुरेन्द्रः तव प्रसादात् स्वर्लोकलक्ष्मीप्रभुताम् अवाप्य जगत्त्रयं पाति ।
     सीo- प्रभो इति । हे प्रभो ! प्रसीद प्रसन्नो भव । आत्मपुत्रमाशु सृजयमात्मपुत्रं सेनान्यं प्राप्यासौ सुरेन्द्रस्तव प्रसादात्स्वर्लोकलक्ष्मीप्रभुतामवाप्य जगत्त्रयं पाति रक्षिष्यति । `वर्तमानसामीप्ये वर्तमानवद्वा' इति लट् ।। ९.११ ।।


स शंकरस्तामिति जातवेदोविज्ञापनामर्थवतीं निशम्य ।
अभूत्प्रसन्नः परितोषयन्ति गीर्भिर्गिरिशा रुचिराभिरीशम् ।। ९.१२ ।।

     अन्वयः- स शङ्करः इति अर्थवतां जातवेदोविज्ञापनां निशम्य प्रसन्नोऽभूत् । गिरीशाः रुचिराभिः गीर्भिः ईशं परितोषयन्ति ।
     सीo- स इति । स शंकर इतीत्येवंभूतामर्थवतीं सार्थकाम् । योग्यामिति यावत् । तां जातवेदसोऽग्नेर्विज्ञापनां प्रार्थनां निशम्य श्रुत्वा प्रसन्नोऽभूत् । तथाहि । गिरीशा वाग्मिनः पुरुषा रुचिराभिर्गीर्भिरीशं स्वामिनं परितोषयन्ति । प्रसादयन्तीत्यर्थः ।। ९.१२ ।।


प्रसन्नचेता मदनान्तकारः स तारकारेर्जयिनो भवाय ।
शक्रस्य सेनाधिपतेर्जयाय व्यचिन्तयच्चेतसि भावि किंचित् ।। ९.१३ ।।

     अन्वयः-- प्रसन्नचेताः स मदनाऽन्तकारः जयिनः जयाय शक्रस्य सेनाऽधिपतेः तारकाऽरेः भवाय भावि किञ्चित् चेतसि व्यचिन्तयत् ।
     सीo- प्रसन्नेति । प्रसन्नचेताः स मदनान्तकारो हरो जयिनो जयशीलस्य तथा जयाय शत्रुपराजयार्थं शक्रस्य सेनाधिपतेस्तारकारेस्तारकशत्रोः अपत्यस्येत्यर्थः । भवाय जन्मने । तत्कर्तुमित्यर्थः । भावि भविष्यत्किंचिच्चेतसि व्यचिन्तयत् विचचारेत्यर्थः ।। ९.१३ ।।


युगान्तकालाग्निमिवाविषह्यं परिच्युतं मन्मथरङ्गभङ्गात् ।
रतान्तरेतः स हिरण्यरेतस्यथोर्ध्वरेतास्तदमोघमाधात् ।। ९.१४ ।।

     अन्वयः- अथ ऊर्ध्वरिताः स युगाऽन्तकालाऽग्निम् इव अविषह्यं मन्मथरङ्गभङ्गात् परिच्युतम् अमोधं तत् रताऽन्तरेतः हिरण्यरेतसि आधात् ।
     सीo- युगान्तेति । अथ स शिवः । युगान्तकालस्याग्निमिवाविषह्यं सोढुमशक्यं मन्मथरङ्गस्य कामक्रीडाया भङ्गाद्धेतोः परिच्युतं भ्रष्टं तथामोघं सफलं तत्प्रसिद्धं रतान्तस्य सुरतान्तस्य रेतो वीर्य हिरण्यरेतसि वह्नावाधान्निदधे । यत ऊर्ध्वरेताः ऊर्ध्वगामिवीर्यं इत्यर्थः ।। ९.१४ ।।


(१)अथोष्णबाष्पानिलदूषितान्तं विशुद्धमादर्शमिवात्मदेहम् ।
बभार भूम्ना सहसा पुरारिरेतः (२)परिक्षेपकुवर्णमग्निः ।। ९.१५ ।।

{१.अथोष्मबाष्पानलदृषितान्तर,अत्युष्णबाष्पानिलदूषितान्तर.२.परिक्षिप्तकुवर्णम्.}
     अन्वयः- अथ अग्निः विशुद्धम् आत्मदेहम् उष्णबाष्पाऽनिलदूषिताऽन्तम् आदर्शम् इव सहसा भूम्नी पुराऽरिरेतः परिक्षेपकुवर्णं दधार ।
     सीo- अथेति । अथानन्तरमग्निर्विशुद्धमात्मदेहमुष्णबाष्पानिलेन मुखनिःश्वासेन दूषितं म्लानीकृतमन्तर्मध्यं यस्य तमादर्शमिव सहसा भूम्ना बाहुल्येन पुरारेः शिवसंबन्धिनो रेतसः परिक्षेपस्तेन कुवर्णं कुत्सितवर्णं बभार धृतवान् ।। ९.१५ ।।


त्वं सर्वभक्षो भव भीमकर्मा कुष्ठाभिभूतोऽनल धूमगर्भः ।
इत्थं शशापाद्रिसुता हुताशं (३)रुष्टा रतानन्दसुखस्य भङ्गात् ।। ९.१६ ।।

{३.तथा.}
     अन्वयः- रतानन्दसुखस्य भङ्गात् रुष्टा अद्रिसुता `हे अनल ! त्वं सर्वभक्षी भीमकर्मा कुष्ठाऽभिभूतः धूमगर्भो भव' इत्थं शशाप ।
     सीo- त्वमिति । रतानन्दः सुरतानन्दस्तत्र यत्सुखं तस्य भङ्गादन्तरायाद्धेतो रुष्टाद्रिसुता पार्वती । हे अनल, त्वं सर्वं मेध्यममेध्यं वा भक्षति तथोक्तः । तथा भीमं भयानकं कर्म यस्य । तथा कुष्ठेनाभिभूतः पराभूतः । तथा धूमो गर्भो मध्ये यस्य तथोक्तश्च भव । इत्थं हुताशमग्निं शशाप । शपति स्मेत्यर्थः । अत्र ज्ञीप्स्यमानत्वाभावात् `श्लाघह्नुङ्स्था-' इति न संप्रदानत्वम् ।। ९.१६ ।।


दक्षस्य शापेन शशी (४)क्षयीव (५)प्लुष्टो हिमेनेव सरोजकोशः ।
वहन्विरुपं वपुरुग्ररेतश्चयेन वह्निः किल निर्जगाम ।। ९.१७ ।।

{४.क्षयाय,५.प्रुष्टः,आलोकनतः.}
     अन्वयः- वह्निः दक्षस्य शापेन क्षयी शशी इव, हिमेन प्लुष्टः सरोजकोश इव, उग्ररेतश्चयेन विरुपं वपुः वहन् निर्जगाम ।
     सीo- दक्षस्येति । वह्निरग्निर्दक्षस्य शापेन हेतुना क्षयी क्षयरोगवान् शशी चन्द्र इव । तथा हिमेन शीतेन प्लुष्टो दग्धः । `प्लुष दाहे' कर्मणि निष्ठा । सरोजकोश इव । वपुः स्वशरीरमुग्रस्य शिवस्य । `उग्रः कपर्दी श्रीकण्ठः' इत्यमरः । रेतश्चयेन वीर्यसङ्घातेन । `शुक्र तेजोरेतसी च' इत्यमरः । हेतुभूतेन विरुपं भ्रष्टशोभमेतादृशं वहन्निर्जगाम सम्भोगवेश्मतो निःसृतवान् । किलेति प्रसिद्धे ।। ९.१७ ।।


स पावकालोकरुषा विलक्षां स्मरत्रपास्मेरविनम्रवक्त्राम् ।
विनोदयामास (१)गिरीन्द्रपुत्रीं श्रृङ्गारगर्भैर्मधुरैर्वचोभिः ।। ९.१८ ।।

{१.नगेन्द्र.}
     अन्वयः- स पावकालोकरुषा विलक्षां स्मरत्रपास्मेरविनम्रवक्त्रां गिरीन्द्रपुत्रीं श्रृङ्गारगर्भैः मधुरैः वचोभिः विनोदयामास ।
     सीo- स इति । पावकस्य वह्नेरालोकेन या रुट् क्रौधस्तया हेतुना विलक्षां विरुपो विकृतिमापन्नो लक्षो लक्षणं चिह्नं शरीरशोभा यस्यास्ताम् । तथा स्मरत्रपाभ्यां कामलज्जाभ्यां स्मेरं सस्मितं विनम्रं नतं च वक्रं यस्यास्तथोक्तां गिरीन्द्रपुत्रीं पार्वतीं स हरः श्रृङ्गारगर्भैरत एव मधुरैर्वचोभिर्विनोदयामास । प्रसादितवानित्यर्थः ।। ९.१८ ।।


हरो विकीर्णं घनघर्मतोयैर्नेत्राञ्जनाङ्कं (२)हृदयप्रियायाः ।
(३)द्वितीयकौपीनचलाञ्चलेनाहरन्मुखेन्दोरकलङ्किनोऽस्याः(४) ।। ९.१९ ।।

{२.सदयं प्रियायाः.३.हरन्.४.अपि.}
     अन्वयः- हरो हृदयप्रियाया अस्या अकलङ्किनो मुखेन्दोः घनघर्मतोयैः विकीर्णं नेत्राऽञ्जनाऽङ्कं द्वितीयकौपीनचलाऽञ्चलेन अहरत् ।
     सीo- हर इति । हरो हृदयस्य प्रियाया अस्याः पार्वत्या अकलङ्किनो मुखेन्दोः सम्बन्धिनं तथा घनानि यानि घर्मतोयानि प्रस्वेदजलानि तैर्विकीर्णं व्याप्तं नेत्रयोरञ्जनमेवाङ्कः कलङ्कस्तं द्वितीयं यत्कौपीनं योगिनः स्कन्धलम्बि वस्त्रम् । `कौपीनं स्यादधोवस्त्रं योगिनः स्कन्धलम्बि च'। इति मेदिनी । तस्य चलं यदञ्चलं प्रान्तस्तेनाहरद्घृतवान् । अकलङ्कस्य कलङ्कानौचित्यादिति भावः ।। ९.१९ ।।


मन्देन (१)खिन्नाङ्गुलिना करेण (२)कम्प्रेण तस्या वदनारविन्दात् ।
परामृशन्घर्मजलं जहार हरः सहेलं व्यजनानिलेन ।। ९.२० ।।

{१.स्विन्नाङ्गुलिना.२.कम्पेन,प्रेम्णा च.}
     अन्वयः-- हरः मन्देन स्विन्नाऽङ्गुलिना कम्प्रेण करेण तस्या वदनाऽरविन्दात् घर्मजलं परामृशन् सहेलं व्यजनाऽनिलेन जहार ।
     सीo- मन्देनेति । हरः शिवः । मन्देन लघुप्रचारेण । तथा खिन्ना अलसप्रयोगेणोदासोना अङ्गुलयो यस्य । तथा कम्प्रेण कम्पशीलेन । `नमिकम्पिस्म्यजसकमे'- ति रः । करेण कृत्वा तस्याः पार्वत्या वदनारविन्दाद् घर्मस्य घर्मरुपं वा जलं परामृशन्विश्लेषयन्सहेलं सक्रीडं यथा तथा व्यजनस्यानिलेन कृत्वा जहार ।। ९.२० ।।


रतिश्लथं तत्कबरीकलापमंसावसक्तं विगलत्प्रसूनम् ।
स पारिजातोद्भवपुष्पमय्या स्त्रजा बबन्धामृतमूर्तिमौलिः ।। ९.२१ ।।

     अन्वयः- अमृतमूर्तिमौलिः स रतिश्लथम् अंसाऽवसक्तं विगलत्प्रसूनं तत्कबरीकलापं पारिजातोद्भवपुष्पमय्या स्त्रजा बबन्ध ।
     सीo- रतिश्लथमिति । अमृतमूर्तिश्चन्द्रो मौलौ यस्य स हरो देवः । रतौ श्लथं शिथिलबन्धनमत एवांसयोः स्कन्धयोरवसक्तं लग्नमत एव विगलन्त्यधःपातुकानि प्रसूनानि यस्य तं तस्याः कबरीकलापं कचभारं पारिजातोद्भवपुष्पमय्या पारिजातोद्भवानि कल्पवृक्षजानि यानि पुष्पाणि तत्प्रचुरया स्त्रजा मालया बबन्ध । `तत्प्रकृतवचने-' इति प्राचुर्ये मयट् । ततः `टिड्ढे-' ति डीप् ।। ९.२१ ।।


कपोलपाल्यां मृगनाभिचित्रपत्ररावलीमिन्दुमुखः सुमुख्याः ।
स्मरस्य सिद्धस्य जगद्विमोहमन्त्राक्षरश्रेणिमिवोल्लिलेख ।। ९.२२ ।।

     अन्वयः-- इन्दुमुखः सुमुख्याः कपोलपाल्यां मृगनाभिचित्रपत्रावलीं सिद्धस्य स्मरस्य जगद्विमोहमन्त्राऽक्षरश्रेणिम् इव उल्लिलेख ।
     सीo- कपोलपाल्यामिति । इन्दुमुखो हरः सुमुख्याः पार्वत्याः सम्बन्धिन्यां कपोलपाल्यां मृगनाभ्याः कस्तूर्या या चित्रा पत्त्रावली पत्ररचना तां सिद्धस्य स्मरस्य कामस्य जगन्ति विमुह्यन्ति यैस्तेषां मन्त्राणां यान्यक्षराणि वर्णास्तेषां श्रेणिं पङ्क्तिमिवोल्लिलेख लिखितवान् । अत्र पत्ररचनारुपे वस्तुन्यक्षरश्रेणिरुपोत्प्रेक्षणाद्वस्तूत्प्रेक्षालङ्कारः) ।। ९.२२ ।।


रथस्य (१)कर्णावभि तन्मुखस्य ताटङ्कचक्रद्वितयं (२)न्यधात्सः ।
जगज्जिगीषुर्विषमेषुरेष ध्रुवं यमारोहति पुष्पचापः ।। ९.२३ ।।

{१.कर्णावलितं मुखस्य.२.व्यधात्.}
     अन्वयः-- स कर्णौ अभि तन्मुखस्य रथस्य ताटङ्कचक्रद्वितयं न्यधात् । (यतः) विषमेषुः एष पुष्पचापः जगज्जिगीषुः (सन्) यम् आरोहति ध्रुवम् ।
     सीo- रथस्येति । स हरः । कर्णावभि कर्णसंमुखे तन्मुखस्य पार्वतीमुखरुपस्य रथस्य सम्बन्धि ताटङ्करुपं चक्रद्वितयं चक्रद्वयं न्यधात् । यतो विषमेषुरेष पुष्पचापः कामो जगज्जिगीषुस्त्रिभुवनविजयेच्छुः सन् यमारोहति । ध्रुवं निश्चितम् । मुखरुपिणं रथमारुह्य जगन्ति विजेतुमिच्छति काम इति भावः ।। ९.२३ ।।


तस्याः स कण्ठे (३)पिहितस्तनाग्रां न्यधत्त मुक्ताफलहारवल्लीम् ।
(४)या प्राप मेरुद्वितयस्य मूर्ध्नि स्थितस्य गाङ्गौघयुगस्य लक्ष्मीम् ।। ९.२४ ।।

{३.अभिघनस्तनं याम्,अभिघलस्ताग्रम्.४.सा.}
     अन्वयः-- स तस्याः कण्ठे पिहितस्तनाऽग्रां मुक्ताफलहारवल्लीं न्यधत्त । या मेरुद्वितयस्य मूर्ध्नि स्थितस्य गङ्गौघयुगस्य लक्ष्मीं प्राप ।
     सीo- तस्या इति । स हरस्तस्याः कण्ठे । पिहिते स्वप्रसारेणावृते स्तनाग्रे चूचुके यया तथोक्तां मुक्ताफलहार एव वल्ली तां न्यधत्त निदधे । या मुक्ताफलहारवल्ली मेरुद्वितयस्य मूर्ध्नि स्थितस्य गङ्गाया ओघयोः प्रवाहयोर्युगस्य लक्ष्मीं शोभां प्राप । तद्वच्छुशुभ इत्यर्थः । अभूतोपमा ।। ९.२४ ।।


नखव्रणश्रेणिवरे(१) बबन्ध नितम्बबिम्बे रशनाकलापम् ।
(२)चलस्वचेतोमृगबन्धनाय मनोभुवः पाशमिव स्मरारिः ।। ९.२५ ।।

{१.श्रेणिकरे.२.चलत्.}
     अन्वयः-- स्मराऽरिः नखव्रणश्रेणिवरे (तस्याः) नितम्बबिम्बे रशनाकलापं चलस्वचेतोमृगबन्धनाय मनोभुवः पाशम् इव बबन्ध ।
     सीo- नखेति । स्मरारिर्हरः नखव्रणश्रेणिभिरात्मप्रयुक्ताभिर्वरे मनोहरे तस्या नितम्बबिम्बे रशनाकलापम् । चलं स्वं चेत एव मृगस्तस्य बन्धनाय मनोभुवः सम्बन्धिनं पाशमिव बबन्ध । मनोभूरस्यात्मनश्चेतोमृगस्य रशनाकलापरूपजालेन बन्धनं करिष्यत्यतो हरः स्वयमेव तत्र तं निदधावित्यर्थः । नहि कामलुब्धक आत्मनीनं गणयतीति भावः ।। ९.२५ ।।


भालेक्षणाग्नौ स्वयमञ्जनं स (३)भङ्क्त्वा दृशोः साधु निवेश्य तस्याः ।
नवोत्पलाक्ष्याः पुलकोपगूढे(४) कण्ठे (५)विनीलेऽङ्गुलिमुज्जघर्ष ।। ९.२६ ।।

{३.न्यक्त्वा.४.उपगूढः.५.विनीलाङ्गुलिम्.}
     अन्वयः- स भालेक्षणाग्नौ अञ्जनं स्वयं भङ्क्त्वा (अथ च) नवोत्पलाक्ष्याः तस्याः दृशोः साधु निवेश्य पुलकोपगूढे विनीले कण्ठे अङ्गुलिम् उज्जघर्ष ।
     सीo-- भालेक्षण इति । स हरः भाले यदीक्षणं नेत्रं तदेवाग्निः । दीपकरुप इत्यर्थः । तत्राञ्जनं स्वयं भङ्क्त्वा पातयित्वा । अथ च नवोत्पलाक्ष्यास्तस्याः पार्वत्यां दृशोः साधु निवेश्य सम्यगञ्जयित्वा । अथ च पुलकै रोमाञ्चैरुपगूढे व्याप्ते विनीले श्यामले कण्ठे । स्वीय इति शेषः । अङ्गुलिमुज्जघर्ष घृष्टवान् । यथान्योऽपि दीपकोपर्यङ्गुल्यैव कज्जलं पातयित्वा स्वस्त्रीनेत्रयोर्निवेश्य कुत्रचिदङ्गुलिमुद्धर्षति तद्वत् । अङ्गुलिलग्नकज्जलनिवारणार्थमिति भावः । स्वभावोक्तिरलङ्कारः ।। ९.२६ ।।


अलक्तकं पादसरोरुहाग्रे सरोरुहाक्ष्याः किल संनिवेश्य ।
स्वमौलिगङ्गासलिलेन हस्तारुणत्वमक्षालयदिन्दुचूडः(१) ।। ९.२७ ।।

{१.इन्दुमौलिः.}
     अन्वयः- इन्दुचूडः सरोरुहाक्ष्याः पादसरोरुहाग्रे अलक्तकं संनिवेश्य स्वमौलिगङ्गासलिलेन हस्ताऽरुणत्वम् अक्षालयत् ।
     सीo- अलक्तकमिति । इन्दुचूडो हरः सरोरुहाक्ष्याः पार्वत्याः पादसरोरुहाग्रेऽलक्तकं संनिवेश्यानुलिप्य । करेणेति शेषः । स्वस्य मौलौ यद्गङ्गासलिलं तेन कृत्वा हस्तस्यारुणत्वमक्षालयन्ममार्ज ।। ९.२७ ।।


भस्मानुलिप्ते वपुषि स्वकीये सहेलमादर्शतलं विमृज्य ।
नेपथ्यलक्ष्म्याः(२) परिभावनार्थमदर्शयज्जीवितवल्लभां सः ।। ९.२८ ।।

{२.लक्ष्मी.}
     अन्वयः- स आदर्शतलं भस्माऽनुलिप्ते स्वकीये वपुषि विमृज्य नेपथ्यलक्ष्म्याः परिभावनाऽर्थं सहेलं जीवतवल्लभाम् अदर्शयत् ।
     सीo- भस्मेति । स हरः । आदर्शतलं भस्मानुलिप्ते स्वकीये वपुषि विमृज्य शुद्धं कृत्वा नेपथ्यानामाकल्पवेषाणां लक्ष्म्याः शोभायाः परिभावनार्थमवलोकनार्थं सहेलं यथा तथा जीवितवल्लभां प्रियामदर्शयत् ।। ९.२८ ।।


प्रियेण दत्ते मणिदर्पणे (३)सा (४)संभोगचिह्नं स्ववपुर्विभाव्य ।
त्रपावती तत्र घनानुरागं रोमाञ्चदम्भेन बहिर्बभार ।। ९.२९ ।।

{३.च.४.सयोगचिह्नम्.}
     अन्वयः- प्रियेण दत्ते मणिदर्पणे संभोगचिह्नं स्ववपुः विभाव्य त्रपावती सा तत्र घनाऽनुरागं रोमाञ्चदम्भेन बहिः बभार ।
     सीo- प्रियेणेति । प्रियेण हरेण दत्ते मणीनां आदर्शे सम्भोगस्य चिह्नानि नखक्षतादीनि यत्र तथोक्तं स्वं वपुर्विभाव्यावलोक्य । भावनात्र विलोकनपरिणता ज्ञेया । त्रपावती सलज्जा । एतानि चिह्नानि विलोक्यान्यः किं वदिष्यतीति विचारजनितया लज्जयान्धेत्यर्थः । सा पार्वती तत्र हरे घनमनुरागं प्रेम रोमाञ्चानां दम्भेन कैतवेन बहिर्बहिःस्थितत्ववैशिष्ट्यपूर्वकं बभार धृतवती । अन्तरस्या योऽनुरागोऽभूत्स एव बही रोमाञ्चत्वेन परिणत इति भावः ।। ९.२९ ।।


नेपथ्यलक्ष्मीं दयितोपक्लृप्तां सस्मेरमादर्शतले विलोक्य ।
अमंस्त सौभाग्यवतीषु धुर्यमात्मानमुद्धूतविलक्षभावा(१) ।। ९.३० ।।

{१.विलक्षतां सा;विलक्षभावम्.}
     अन्वयः-- (सा) आदर्शतले दयितोपक्लॄप्तां नेपथ्यलक्ष्मीं सस्मेरं विलोक्य उद्धूतविलक्षभावा (सती) आत्मानं सौभाग्यवतीषु धुर्यम् अमंस्त ।
     सीo-- नेपथ्येति । सा पार्वती । आदर्शतले दयितेन हरेणोपक्लृप्तां रचितां नेपथ्यलक्ष्मीमाभूषणमण्डनं सस्मेरं सस्मितम् । अत्र स्मितस्यानुरागव्यञ्जकत्वम् । यथा तथा विलोक्योद्धूतस्त्यक्तो विलक्षभावः पूर्वसंजातवैलक्ष्यं यया । प्रसन्नेत्यर्थः तथोक्ता सती । आत्मानं सौभाग्यवतीषु सतीषु मध्ये धुर्यमग्रगण्यममंस्त मेने प्रियकृतनेपथ्यलक्ष्म्या अन्यदुर्लभत्वादिति भावः ।। ९.३० ।।


अन्तः प्रविश्यावसरेऽथ तत्र स्निग्धे वयस्ये विजया जया च ।
(२)सुसंपदोपाचरतां कलाना(३)मङ्के स्थितां तां शशिखण्डमौलेः ।। ९.३१ ।।

{२.उमां तदोपाचरतां कलाभाम्,स्वसम्पदोपाचरतां कलानाम्.३.दूरे स्थिताम्,अङ्कस्थिताम्.}
     अन्वयः- अथ तत्र अवसरे विजया जया च स्निग्धे वयस्यो अन्तः प्रविश्य तत्र शशिखण्डमौलेः अङ्के स्थितां तां कलानां सुसम्पदा उपाचरताम् ।
     सीo-- अन्तरिति । अथानन्तरं तत्रावसरे समये विजया जया चेत्युभे स्निग्धे सार्द्रचित्ते वयस्ये सख्यौ । `आलिः सखी वयस्या च' इत्यमरः । अन्तः प्रविश्य तत्र शशीनः खण्डं मौलौ यस्य तथोक्तस्य हरस्य सम्बधिन्यङ्के स्थितां तां पार्वतीं कलानां भूषणकरणचातुरीविशेषाणां सुसंपदा शोभनया संपदा । शोभयेत्यर्थः । उपाचरताम् । अलंचक्रतुरित्यर्थः । उपाचरतामिति लङः प्रथमपुरुषस्य द्विवचनम् ।। ९.३१ ।।


व्यधुर्बहिर्मङ्गलगानमुच्चैर्वैतालिका(१)श्चित्रचरित्रचारु ।
जगुश्च गन्धर्वगणाः सशङ्खस्वनं(२) प्रमोदाय पिनाकपाणेः ।। ९.३२ ।।

{१.चित्रितचारुवेध्यम्.२.ध्वनिम्.}
     अन्वयः- बहिः वैतालिकाः चित्रचरित्रचारु मङ्गलगानम् उच्चैः व्यधुः । गन्धर्वगणाः पिनाकपाणेः प्रमोदाय सशङ्खस्वनं जगुः ।
     सीo- व्यधुरिति । बहिः प्रदेशे वैतालिका बन्दिनश्चित्रेण चरित्रेण चारु मनोहरं मङ्गलरुपं गानम् गीतमित्यर्थः । उच्चैरुच्चस्वरेण व्यधुश्चक्रुः । तथा गन्धर्वगणाश्च पिनाकपाणेर्हरस्य प्रमोदायानन्दाय । `प्रमोदामोदसंमदाः' इत्यमरः । सशङ्खस्वनं पाञ्चजन्यशब्दसहितं यथा तथा जगुः । गायन्ति स्मेत्यर्थः ।। ९.३२ ।।


ततः स्वसेवावसरे सुराणां गणांस्तदालोकनतत्पराणाम् ।
द्वारि प्रविश्य प्रणतोऽथ नन्दी निवेदयामास कृताञ्जलिः सन् ।। ९.३३ ।।

     अन्वयः- ततः स्वसेवाऽवसरे तदालोकनतत्पराणां सुराणां गणान् नन्दी प्रणतः (सन्) द्वारि प्रविश्य कृताऽञ्जलिः सन् निवेदयामास ।
     सीo- तत इति । ततोऽनन्तरं स्वस्य स्वर्क्तृकायाः सेवाया अवसरे समये तस्य हरस्य यदालोकनं तत्र तत्पराणामासक्तानां सुराणां गणान्कर्मभूतान् । नन्दी कर्ता । प्रणतो नम्रीभूतः सन् द्वारि प्रविश्य । न त्वन्तरेवेत्यर्थः । कृताञ्जलिः सन् । निवेदयामास । देवा भवदवलोकने समुत्सुकाः सन्तीति हरं बोधयामासेत्यर्थः ।। ९.३३ ।।


महेश्वरो मानसराजहंसीं करे दधानस्तनयां हिमाद्रेः ।
संभोगलीलालयतः सहेलं हरो बहिस्तानभि निर्जगाम ।। ९.३४ ।।

     अन्वयः- महेश्वरो हरो मानसराजहंसीं हिमाद्रेः तनयां करे दधानः संभोगलीलाऽऽलयतः बहि तान् अभि सहेलं निर्जगाम ।
     सीo- महेश्वर इति । महानीश्वरः समर्थो हरो मानसस्य मनोरुपस्य सरसो राजहसीं हिमाद्रेस्तनयां पार्वतीं करे दधानः सन् । संभोगलीलाया आलयतो मन्दिरात् । `निकाय्यानिलयालयाः' इत्यमरः । बहिस्तान्सुरानभि सहेल सलीलं यथा तथा निर्जगाम । निश्चक्रामेत्यर्थः ।। ९.३४ ।।


क्रमान्महेन्द्रप्रमुखाः प्रणेमुः शिरोनिबद्धाञ्जलयो महेशम्(१) ।
प्रालेयशैलाधिपतेस्तनूजां देवीं च लोकत्रयमातरं ते(२) ।। ९.३५ ।।

{१.गिरीशम्.२.ताम्.}
     अन्वयः- महेन्द्रप्रमुखाः ते शिरोनिबद्धाञ्जलयः महेशं प्रालेयशैलाऽधिपतेः तनूजां लोकत्रयमातरं देवीं च क्रमात् प्रणेमुः ।
     सीo- क्रमादिति । महेन्द्रप्रमुखास्ते देवाः शिरःसु निबद्धा अञ्जलयो यैस्तथोक्ताः सन्तो महेशं हरम् । तथा प्रालेयो हिमानोरूपो यः शैलाधिपतिः पर्वतराजो हिमालयस्तस्य तनूजां कन्यां लोकत्रयस्य मातरं जननीं देवीं पार्वतीं च क्रमात्प्रणेमुः । नमश्चक्रुरित्यर्थः । `उपसर्गादसमासेऽपि' इति णत्वम् ।। ९.३५ ।।


यथागतं तान्विबुधान्विसृज्य (३)प्रसाद्य मानक्रियया प्रतस्थे ।
स नन्दिना दत्तभुजोऽधिरुह्य वृषं वृषाङ्कः सह शैलपुत्र्या ।। ९.३६ ।।

{३.प्रसन्दमानक्रियया,प्रसाद्यमानः प्रियया.}
     अन्वयः- स वृषाऽङ्कः तान् विबुधान् मानक्रियया प्रसाद्य यथागतं विसृज्य नन्दिना दत्तभुजः (सन्) शैलपुत्र्या सह वृषम् अधिरुह्य प्रतस्थे ।
     सीo-- यथागतमिति । स वृषाङ्को हरस्तान्विबुधानिन्द्रादीन्मानक्रियया संमानविधानेनेत्यर्थः । प्रसाद्य प्रसन्नान्कृत्वा । तथा यथागतं विसृज्य च । नन्दिना दत्तो भुजो यस्मै तथोक्तः सन् । शैलपुत्र्या पार्वत्या सह वृषमधिरुह्यास्थाय प्रतस्थे । `समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । `साकंसार्ध समं सह' इत्यमरः ।। ९.३६ ।।


मनोतिवेगेन ककुद्मता स प्रतिष्ठमानो (१)गगनाध्वनोऽन्तः ।
वैमानिकैः साञ्जलिभिर्ववन्दे विहारहेलागतिभिर्गिरीशः ।। ९.३७ ।।

{१.गगनाध्वनीनः.}
     अन्वयः-- मनोऽतिवेगेन ककुद्मता गगनाऽध्वनः अन्तः प्रतिष्ठमानः स गिरीशः विहारहेलागतिभिः साऽञ्जलिभिः वैमानिकैः ववन्दे ।
     सीo- मन इति । मनसोऽप्यत्यन्तं वेगो गतिर्जवो यस्य तेन ककुद्मता वृषेण गगनरुपिणोऽध्वनो मार्गस्यान्तर्मध्ये प्रतिष्ठते चलतीति प्रतिष्ठमानः स गिरीशो हरो विहारार्थं हेलया क्रीडया गतिर्येषां तैः । यदृच्छया संचरमाणैरित्यर्थः । वैमानिकैर्विमानैश्चरन्तीति वैमानिकाः `चरति' इति ठक् । `ठस्येकः' इतीकादेशः । `किति च' इत्यादिवृद्धिः । तथोक्तैः । देवैरित्यर्थः साञ्जलिभिः सद्भिर्ववन्दे नमस्कृतः । कर्मणि लिट् ।। ९.३७ ।।


स्वर्वाहिनीवारिविहारचारी रतान्तनारीश्रमशान्तिकारी ।
तौ पारिजातप्रसवप्रसङ्गो मरुत्सिषेवे गिरीजागिरीशौ ।। ९.३८ ।।

     अन्वयः- तौ गिरिजागिरीशौ स्वर्वाहिनीवारिविहारचारी रताऽन्तनारीश्रमशान्तिकारी पारिजातप्रसवप्रसङ्गो मरुत् सिषेवे ।
     सीo- स्वर्वाहिनीति । तौ गिरिजागिरीशौ गौरीहरौ । कर्मभूतावित्यर्थः । स्वर्वाहिन्या मन्दाकिन्याः संबन्धिनि वारिणि विहारं संचारं चरत्याचरति । करोतीति यावत् । मन्दाकिनीसीकरवाहीत्यर्थः । अनेन शैत्योक्तिः । तथा रतान्ते यो नारीणां सम्बन्धी श्रमः खेदस्तस्य शान्तिं करोति । अनेन मान्द्योक्तिः । तथा पारिजातस्य कल्पवृक्षस्य संबन्धिनां प्रसवानां पुष्पाणां प्रसङ्गः संबन्धो यस्य अनेन सौगन्ध्योक्तिः । शैत्यमान्द्यसौगन्ध्यरुपगुणत्रयविशिष्टो मरुत्समीरणः । कर्तृभूत इत्यर्थः । सिषेवे । आराधयामासेत्यर्थः ।। ९.३८ ।।


पिनाकिनापि स्फटिकाचलेन्द्रः कैलासनामा कलिताम्बरांशः ।
धृतार्धसोमोऽद्भुतभोगिभोगो(१) विभूतिधारी स्व इव प्रपेदे ।। ९.३९ ।।

{१.भृतभोगिभोगः.}
     अन्वयः-- पिनाकिना अपि कलिताऽम्बरांशः, धृतार्द्धसोमः, अद्भुतभोगिभोगः, विभूतिधारी कैलासनामा स्व इव स्फटिकाऽचलेन्द्रः प्रपेदे ।
     सीo- पिनाकिनेति । पिनाकिनापि हरेणापि कलितः स्वमहत्त्वेनावृतोऽम्बरांश आकाशप्रान्तदेशो येन तथोक्तः । द्वितीयपक्षे कलिता वेष्टिता अम्बरस्यांशा दिग्रूपा येन । दिगम्बर इत्यर्थः । तथा अर्धो यः सोमश्चन्द्रः सोऽस्यास्तीत्यर्धसोमो हरः स धृतो येन । कैलासवासी हि भगवान्गिरीश इति भावः । द्वितीयपक्षे धृतोऽर्धः कलारुपश्चन्द्रो येन । चन्द्रशेखरो हि भगवान्गिरीश इति भावः । भोगिन्यश्च भोगिनश्च भोगिनः । `पुमान्स्त्रिया' इत्येकशेषः । भोगिनः कामुका इत्यर्थः । तेषां तत्कृर्तृको यो भोगः संभोगः सोऽद्भुत आश्चर्यकारी यत्र । द्वितीयपक्षेऽद्भुता भोगिनां सर्पाणां भोगा देहा यत्र । सर्पभूषणो हि भगवानिति भावः । तथा विभूतिं धरतीति विभूतिधारी । संपद्वानित्यर्थः । द्वितीयपक्षे विभूतिं भस्य धरतीति तथा । भस्मोद्धूलनकारी हि भगवान्गिरीश इति भावः । तथा कैलासनामा स्फटिकानामचलेन्दो गिरीन्द्रः । कर्मभूत इत्यर्थः । स्व इवात्मेव प्रपेदे प्राप्तः । कर्मणि लिट् । पूर्णोपमालंकारः ।। ९.३९ ।।


विलोक्य यत्र स्फटिकरय भित्तौ सिद्धाङ्गनाः (२)स्वं प्रतिबिम्बमारात् ।
भ्रान्त्या (३)परस्या विमुखीभवन्ति प्रियेषु मानग्रहिला (४)नमत्सु ।। ९.४० ।।

{२.स्वप्रतिबिम्बम्.३.परस्याभिमुखीभवन्ति.४.मनःसु.}
     अन्वयः-- यत्र स्फटिकस्य भित्तौ आरात् स्वं प्रतिबिम्बं विलोक्य परस्या भ्रान्त्या मानग्रहिलाः सिद्धाऽङ्गनाः प्रियेषु नमत्सु (अपि) विमुखीभवन्ति ।
     सीo- विलोक्येति ।। यत्र कैलासे स्फटिकस्य भित्तावारात्समीपम् । `आराद् दूरसमीपयोः' इत्यमरः । पतितं स्वं स्वकीयं प्रतिबिम्बं विलोक्य परस्याः सपत्न्या भ्रान्त्या भ्रमेण मानग्रहिला माने प्रणयकलहे ग्रहिला आग्रहवत्यः । तुन्दादेराकृतिगणत्वाश्रयणादिलच् । सिद्धाङ्गनाः प्रियेषु नमत्स्वपि सत्सु विमुखीभवन्ति । पराङ्मुख्यो भवन्तीत्यर्थः ।। ९.४० ।।


सुबिम्बितस्य स्फटिकांशुगुप्तेश्चन्द्रस्य चिह्नप्रकरः करोति ।
गौर्यार्पितस्येव रसेन यत्र (१)कस्तूरिकायाः शकलस्य लीलाम् ।। ९.४१ ।।

{१.कस्तूरिकास्थासकुलस्य.}
     अन्वयः- यत्र सुबिम्बितस्य स्फटिकांऽशुगुप्तेः चन्द्रस्य चिह्नप्रकरः गौर्या अर्पितस्य कस्तूरिकायाः शकलस्य लीलां करोति ।
     सीo- सुबिम्बितस्येति । यत्र स्फाटिकाचलेन्द्रे सुबिम्बितस्य प्रतिबिम्बस्यात एव स्फटिकांशुभिः । शुभ्रैरित्यर्थः । गुप्तिः प्रतिबिम्बगोपनं यस्य । उभयोः शुक्लत्वात्पृथग्भासमानस्येत्यर्थः । तथोक्तस्य चन्द्रस्य सम्बन्धी चिह्नप्रकरः कलङ्कसंचयः । `चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । गौर्या पार्वत्यार्पितस्य निहितस्य कस्तूरिकायाः शकलस्य खण्डस्य । संचय इवेत्युत्प्रेक्षा । लीलां क्रीडाम् । शोभामिति । यावत् । करोति । निदर्शनाभेदः । स चोपमयोत्प्रेक्षया वा सङ्कीर्यत इति संदेहसङ्करोऽत्रालङ्कारः । यदि गौर्यार्पितं तर्ह्युपमा यदि नार्पित तर्ह्युत्प्रेक्षेत्यवधेयम् ।। ९.४१ ।।


यदीयभित्तौ प्रतिबिम्बिताङ्गमात्मानमालोक्य रुषा करीन्द्राः ।
(२)मत्तान्यकुम्भिभ्रमतोऽतिभीमदन्ताभिघातव्यसनं वहन्ति ।। ९.४२ ।।

{२.नाग.}
     अन्वयः- करीन्द्राः आत्मानं यदीयमित्तौ प्रतिबिम्बिताऽङ्गम् आलोक्य मत्ताऽन्यकुम्भिभ्रमतो रुषा अतिभीमदन्ताऽभिघातव्यसनं वहन्ति ।
     सीo- यदीयेति । करीन्द्रा आत्मानं शरीरम् । स्वीयमिति शेषः । यदीयभित्तौ प्रतिबिम्बिताङ्गं प्रतिबिम्बितावयवमालोक्य विलोक्य मत्ता येऽन्ये कुम्भिनो दन्तिनस्तेषां भ्रमतो भ्रमाज्जनितया रुषया क्रोधेन । `प्रतिघा रुट्क्रुधौ स्त्रियौ' इत्यमरः । अतिभीमा ये दन्तास्तेषां योऽभिघात आघातस्तेन यद्व्यसनं दुःखं दन्तजर्जरितत्वलक्षणं वहन्ति प्राप्नुवन्ति । भ्रमात्मकं ज्ञानं दुःखावहं भवतीति भावः ।। ९.४२ ।।


निशासु यत्र प्रतिबिम्बितानि ताराकुलानि स्फटिकालयेषु ।
दृष्ट्वा (१)रतान्तच्युततारहारयुक्ताभ्रमं बिभ्रति सिद्धवध्वः ।। ९.४३ ।।

{१.रतान्ते.}
     अन्वयः- यत्र स्फटिकाऽऽलयेषु प्रतिबिम्बितानि ताराकुलानि निशासु दृष्ट्वा सिद्धवध्वो रताऽन्तच्युततारहारमुक्ताभ्रमं बिभ्रति ।
     सीo- निशास्विति । यत्र स्फटिकाचले स्फटिकालयेषु प्रतिबिम्बितानि ताराकुलानि नक्षत्रकुलानि निशासु दृष्ट्वा सिद्धवध्वः किंनरनार्यो रतान्ते च्युतो भ्रष्टस्तारोऽत्युच्चैर्यो हारो मुक्ताहारः । `तारोऽत्युच्चैस्त्रयस्त्रिषु' इत्यमरः । तस्य या मुक्ता मौक्तिकानि तासां भ्रमं बिभ्रति । स्फटिकालयप्रतिबिम्बितमुक्तासदृशनक्षत्रकुलमभिवीक्ष्य सुरतान्तकालीनहारभ्रंशोन्मुक्ताफलभ्रान्तिमत्यः सिद्धवध्वो भवन्तीति भावः ।। ९.४३ ।।


नभश्चरीमण्डनर्दपणश्रीः सुधानिधिर्मूर्धनि यस्य तिष्ठन् ।
अनर्ध्यचूडामणितामुपैति (२)शैलाधिनाथस्य शिवालयस्य ।। ९.४४ ।।

{२.शैलाधिराजस्य.}
     अन्वयः-- नभश्चरीमण्डनदर्पणश्रीः सुधानिधिः यस्य मूर्धनि तिष्ठन् शिवालयस्य शैलाऽधिनाथस्य अनर्ध्यचूजामणिताम् उपैति ।
     सीo- नभश्चरीति । नभसि चरतीति नभश्चरी । आकाशचारिणीत्यर्थः । `चरेष्टः' इति टप्रत्यये टित्त्वात् `टिड्ढाणञी-' ति ङीप् । तथोक्ता मण्डनस्य विलासस्य यो दर्पण आदर्शस्तस्य श्रीरिव श्रीर्यस्य तथोक्तः । अत्र श्रीशब्दस्य रुढत्वेन शोभेति संज्ञावाचकत्वात् `संज्ञापूरण्योश्च' इति पुंवद्भावो न । सुधानिधिश्चन्द्रो यस्य कैलासस्य मूर्धनि श्रृङ्गेतिष्ठन् । शिवालयस्य शिवाः कल्याणकारिण आलया गृहा यत्र तस्य । शैलानामधिनाथस्य कैलासशिखरात्किंचिदधिकत्वम् । यदा कैलासमूर्धनि चन्द्रस्तदा हिमालयस्य मूर्ध्नोऽधः किंचिद्वर्तत इति भावः ।। ९.४४ ।।


समीयिवांसो रहसि स्मरार्ता रिरंसवो यत्र सुराः प्रियाभिः ।
एकाकिनोऽपि प्रतिबिम्बभाजो विभान्ति भूयोभिरिवान्विताः स्वैः ।। ९.४५ ।।

     अन्वयः- यत्र सुराः स्मरार्ताः (अत एव) रिरंसवः प्रियाभिः (सह) प्रतिबिम्बभाजः एकाकिनः अपि सहसि समीयिवांसः भूयोभिः स्वैः अन्विता इव विभान्ति ।
     सीo- समीयिवांस इति । यत्र सुराः स्मरार्ता अत एव रिरंसवो रन्तुमिच्छन्तः । रमतेः सन्नन्तात् `सनाशंसभिक्ष उः' इत्युप्रत्ययः । तथोक्ताः । अत एव प्रियाभिः सहैकाकिनोऽपि प्रत्येकमेकसंख्याका अपि रहसि समीयिवांसः प्राप्नुवन्तो भूयोभिः स्वैर्देहैरन्विता इव विभान्ति । यतः प्रतिबिम्बभाजः । प्रतिबिम्बवशादेक एवानेकधा दृश्यत एवेति युक्तमेवेति भावः ।। ९.४५ ।।


(१)देवोऽपि गौर्या सह चन्द्रमौलिर्यदृच्छया स्फाटिकशैलश्रृङ्गे ।
श्रृङ्गारचेष्टाभिरनारताभिर्मनोहराभिर्व्यहरच्चिराय ।। ९.४६ ।।

{१.दिशः.}
     अन्वयः- चन्द्रमौलिः देवोऽपि स्फाटिकशैलश्रृङ्गे गौर्या सह यदृच्छया मनोहराभिः अनारताभिः श्रृङ्गारचेष्टाभिः चिराय व्यहरत् ।
     सीo- देवोऽपीति । चन्द्रमौलिर्देवोऽपि हरोऽपि स्फाटिकशैलः कैलासस्तस्य श्रृङ्गे शिखरे । `श्रृङ्गं प्रभुत्वे शिखरे' इति मेदिनी । गौर्या पार्वत्या सह यदृच्छया स्वेच्छया । यथाकाममित्यर्थः । मनोहराभिरत एवानारताभिर्निरन्तरं भवन्तीभिः श्रृङ्गारचेष्टाभिश्चिराय व्यहरद्विजहार ।। ९.४६ ।।


देवस्य तस्य स्मरसूदनस्य हस्तं (२)समालिङ्ग्य सुविभ्रमश्रीः ।
सा नन्दिना (३)वेत्रभृतोपदिष्टमार्गा पुरोगेण कलं चचाल ।। ९.४७ ।।

{२.समालम्ब्य.३.उपदिष्टं मार्गम्.}
     अन्वयः-- सुविभ्रमश्रीः सा स्मरसूदनस्य तस्य देवस्य हस्तं समालिङ्ग्य वेत्रभृता पुरोगेण नन्दिना उपदिष्टमार्गा कलं चचाल ।
     सीo- देवस्येति । सुविभ्रमश्रीः शोभना विभ्रमस्य विलासस्य श्रीर्यस्याः सा पार्वती । स्मरसूदनस्य स्मरविनाशकस्य तस्य देवस्य हरस्य हस्तं समालिङ्ग्य । अवलम्ब्येत्यर्थः । वेत्रभृता यष्टिधारकेण तथा पुरोगेणाग्रगामिना नन्दिना गणेनोपदिष्टमार्गतो गमनं विधेयमिति प्रदर्शितमार्गा सती कलं मधुरं यथा तथा चचाल । मन्थरां गतिमकार्षीदित्यर्थः ।। ९.४७ ।।


(१)चलच्छिखाग्रो विकटाङ्गभङ्गः (२)सुदन्तुरः (३)शुक्लसुतीक्ष्णतुण्डः ।
भ्रुवोपदिष्टः स (४)तु शङ्करेण तस्या विनोदाय ननर्त भृङ्गी ।। ९.४८ ।।

{१.चलद्विषाणः.२.सदन्तुरः.३.शुष्क.४.हि.}
     अन्वयः- चलच्छिखाऽग्रः विकटाऽङ्गभङ्गः सुदन्तुरः शुक्लसुतीक्ष्णतुण्डः स भृङ्गी तस्या विनोदाय शङ्करेण भ्रुवा उपदिष्टः (सन्) ननर्त ।
     सीo- चलदिति । चलन्ति शिखाग्राणि चूडाग्राणि यस्य । `शिखा शाखा बर्हिचूडालाङ्गलिक्यग्रमात्रके । चूडामात्रं शिखायां च ज्वालायां प्रपदेऽपि च ।।' इति मेदिनी । तथा विकटाः कराला अङ्गभङ्गा नृत्त्यचेष्टाविशेषा यस्य । `विकटा वज्रवाराह्यां त्रिषु रुचिरकालयोः' । इति मेदिनी । तथा सुदन्तुर उन्नतः । `दन्तुरस्तून्नते त्रिषु' इति मेदिनी । `दन्त उन्नत उरच्' इत्युरच्प्रत्ययः । शुक्लं शुभ्रं सुतीक्ष्णं सुतरां तिग्मं तुण्डं मुखं यस्य । एतादृशः स प्रसिद्धो भृङ्गी गणविशेषस्तु । तस्या भवान्या विनोदायानन्दाय शङ्करेण भ्रुवोपदिष्टः प्रेरितः सन्ननर्त ।। ९.४८ ।।


कण्ठस्थलीलोलकपालमाला दंष्ट्राकरालाननमभ्यनृत्यत् ।
प्रीतेन तेन प्रभुणा नियुक्ता(५) काली कलत्रस्य मुदे प्रियस्य ।। ९.४९ ।।

{५.प्रणुन्ना.}
     अन्वयः- कण्ठस्थलीलोलकपालमाला, दंष्ट्राकरालाननं (बिभ्रती) काली प्रियस्य कलत्रस्य मुदे तेन प्रीतेन प्रभुणा नियुक्ता अभ्यनृत्यत् ।
     सीo- कण्ठस्थलीति । कण्ठस्य स्थल्यां लोला कपालानां नृकपालानां माला यस्याः । तथा दंष्ट्राभिः करालं भयानकमाननं बिभ्रती काली कालिका । `काली तु कालिका क्षीरकीटेषु परिकीर्तिता' । इति मेदिनी । प्रियस्य कलत्रस्य पार्वत्या मुदे प्रीत्यै तेन प्रभुणा हरेण प्रीतेन सता नियुक्ता प्रेरिता सती । अभ्यनृत्यन्ननर्त । नृत्यतेर्दैवादिकात्कर्तरि लङ् ।। ९.४९ ।।


भयंकरौ तौ विकटं (१)नदन्तौ विलोक्य बाला भयविह्वलाङ्गी ।
(२)सरागमुत्सङ्गमनङ्गशत्रोर्गाढं प्रसह्य स्वयमालिलिङ्ग ।। ९.५० ।।

{१.नटन्तौ.२.सुरङ्गम्.}
     अन्वयः- विकटं नदन्तौ भयङ्करौ तौ विलोक्य भयविह्वलाङ्गी बाला प्रसह्य स्वयम् अनङ्गशत्रोः उत्सङ्गं सरागं गाढम् आलिलिङ्ग ।
     सीo- भयंकराविति । विकटं करालं यथा तथा नदन्तौ शब्दायमानौ । अत एव भयंकरौ तौ कालीभृङ्गिणौ विलोक्य भयेन विह्वलमङ्गं यस्याः सा बाला पार्वती प्रसह्य बलात्कारेण स्वयमात्मनैवानङ्गशत्रोर्हरस्योत्सङ्गं सरागं सानुरागं यथा तथा । `सरङ्गम्' इति पाठे भावे नलोपश्चिन्त्यः । गाढमालिलिङ्ग । अन्योऽपि भीतः सन्कंचिदालिङ्गति तद्वदिति भावः ।। ९.५० ।।


उत्तुङ्गपीनस्तनपिण्डपीडं ससंभ्रमं तत्परिरम्भमीशः ।
प्रपद्य सद्य पुलकोपगूढः स्मरेण रुढप्रमदो ममाद ।। ९.५१ ।।

     अन्वयः- ईशः रुढप्रमदः उत्तुङ्गपीनस्तनपिण्डपीडं ससम्भ्रमं तत्परिरम्भं प्रपद्य स्मरेण सद्यः पुलकोपगूढः (सन्) ममाद ।
     सीo- उत्तुङ्गेति । ईशो हरो रुढोपर्यारुढा प्रमदा पार्वती यस्यात एवोत्तुङ्गमुच्चैः पीनं पुष्टं यत्स्तनपिण्टम् । उभयोरतिस्थूलतया परस्परसंयुक्तत्वात्पिण्डीभूतमिति भावः । तेन कृत्वा पीडा यत्र । तथा ससम्भ्रमं सभयं तस्यास्तत्कर्तृकं परिरम्भमाश्लेषं प्रपद्य प्राप्य स्मरेण कामेन हेतुना सद्यः सहसा पुलकैरुपगूढः सन्ममाद मत्तो बभूव ।। ९.५१ ।।


इति गिरितनुजाविलासलीलाविविधविभङ्गिभिरेष तोषितः सन् ।
अमृतकरशिरोमणिर्गिरीन्द्रे कृतवसतिर्वशिभिर्गणैर्ननन्द ।। ९.५२ ।।

     अन्वयः- गिरीन्द्रे कृतवसतिः अमृतकरशिरोमणिः एषः इति गिरितनुजाविलासलीलाविभङ्गिभिः तोषितः (सन्) वशिभिः गणैः (सह) ननन्द ।
     सीo- इतीति । गिरीन्द्रे कैलासे कृता वसतिर्येन तथामृतकरश्चन्द्रः शिरसि मणिरिव यस्य स एष हर इत्येवंभूतैर्गिरितनुजायाः पार्वत्याः सम्बन्धिनी या विलासलीला सकामचेष्टक्रीडा तस्या विविधा नानाविधा या विभङ्गयो रचनास्ताभिस्तोषितः प्रीतः सन् । वशिभिः स्ववशंगतैर्गणैर्नन्दिप्रभृतिभिः सह ननन्द जहर्ष । तेषां हर्षोऽनयोरलौकिकक्रीडादर्शनादिति भावोऽनुसंधेयः । पुष्पिताग्रा वृत्तम् । `अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' । इति लक्षणात् ।। ९.५२ ।।


इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्री-

सीतारामकविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ
कुमारसंभवे महाकाव्ये कैलासगमनो नाम नवमः सर्गः ।।
इति श्रीकालिदासकृते कुमारसम्भवे महाकाव्ये

कैलासगमनो नाम नवमः सर्गः ।