कुमारसम्भवम् - मल्लिनाथः/एकादशः सर्गः

विकिस्रोतः तः
← दशमः सर्गः कुमारसम्भवम् - मल्लिनाथः
एकादशः सर्गः
कालिदासः
द्वादशः सर्गः →
एकादशः सर्गः

(१)अभ्यर्थ्यमाना विबुधैः समग्रैः प्रह्वैः सुरेन्द्रप्रमुखैरुपेत्य ।

तं पाययामास (२)सुधातिपूर्णं (३)सुरापगा (४)स्वं स्तनमाशु (५)मूर्ता ।। ११.१ ।।

{१.अभ्यर्थमाना.२.सुधाभिपूर्णम्.३.स्वर्गापगा.४.स्वस्तनम्.५.धात्रा.}
     अन्वयः- सुरेन्द्रप्रमुखैः समग्रैः विबुधैः उपेत्य प्रह्खैः (सद्भिः) अभ्यर्थ्यमाना सुरापगा आशु मूर्ता (सती) तं सुधाऽतिपूर्णं स्वं स्तनं पाययामास ।
     सीo-- अभ्यर्थ्येति । सुरेन्द्रप्रमुखैरिन्द्रादिभिः समग्रैः समस्तैर्विबुधैर्दैवैरुपेत्य समीपमागत्य प्रह्वैर्नम्रैः सद्भिरभ्यर्थ्यमाना याच्यमाना सुरापगा मन्दाकिनी । आशु शीघ्रं मूर्ता मूर्तिमती सती । तं कुमारं सुधया दुग्धामृतेनातिपूर्णं बहुभृतं स्वमात्मीयं स्तनं पाययामास पानं कारितवती । सर्गेऽस्मिन्वृत्तमुपजातिः ।। ११.१ ।।


पिबन् स तस्याः स्तनयोः सुधौघं क्षणं क्षणं साधु समेधमानः ।
प्रापाकृतिं कामपि (६)षड्भिरेत्य निषेव्यमाणः खलु कृत्तिकाभिः ।। ११.२ ।।

{६.एष.}
     अन्वयः-- स तस्याः स्तनयोः सुधौघं पिबन् क्षणं क्षणं साधु समेधमानः षङ्भिः कृत्तिकाभिः एत्य निषेव्यमाणश्च (सन्) काम् अपि आकृतिं प्राप खलु ।
     सीo- पिबन्निति । स कुमारस्तस्या मन्दाकिन्याः स्तनयोः सम्बन्धिनं सुधौघं दुग्धामृतसमूहं पिबन् अत एव क्षणंक्षणं प्रतिक्षणं साधु यथा स्यात्तथा समेधमानः सम्यग्वर्धमानः षड्भिः कृत्तिकाभिरेत्य निषेव्यमाणः श्रियमाणश्च सन् । कामपि लोकोत्तरमाकृतिं प्राप्तवान्, खलु वाक्यालङ्कारे `खलु स्याद्वाक्यभूषायाम्' इति विश्वः ।। ११.२ ।।


भागीरथीपावककृत्तिकानामानन्दबाष्पाकुललोचनानाम् ।
तं नन्दनं दिव्यमुपात्तुमासीत्परस्परं प्रौढतरो विवादः ।। ११.३ ।।

     अन्वयः- आनन्दबाष्पाकुललोचनानां भागीरथीपावककृत्तिकानां दिव्यं तं नन्दनम् उपात्तुं परस्परं प्रौढतरो विवाद आसीत् ।
     सीo- भागीरथीति । आनन्दबाष्पैराकुललोचनानां व्याप्तनेत्राणाम् । पावकश्च कृत्तिकाश्च पावककृत्तिकाः । भागीरथ्या गङ्गया सहिता याः पावककृत्तिकास्तासां सम्बन्धि दिव्यं लोकोत्तरस्वरूपं तं नन्दनं पुत्रमुपात्तुं ग्रहीतुं परस्परमन्योन्यं प्रौढतरोऽतिशयितो विवादः कलह आसीत् । ममायं ममायमिति प्रवादपूर्वकः कलिर्बभूवेत्यर्थः ।। ११.३ ।।


अत्रान्तरे पर्वतराजपुत्र्या समं शिवः स्वैरविहारहेतोः ।
नभो विमानेन विगाहमानो मनोतिवेगेन जगाम तत्र ।। ११.४ ।।

     अन्वयः- अत्र अन्तरे शिवः पर्वतराजपुत्र्या समं स्वैरविहारहेतोः मनोऽतिवेगेन विमानेन नभो विगाहमानः (सन्) तत्र जगाम ।
     सीo- अत्रान्तर इति । अत्रान्तरे कलहावसरे शिवः पर्वतराजपुत्र्या पार्वत्या समं सह स्वैरविहारो यथेच्छविहारस्तस्माद्धेतोः कारणान्मनोतिवेगेन चेतसोऽप्यतिशयजवेन विमानेन नभोऽन्तरिक्षं विगाहमानोऽवलोडयंस्तत्र कलहस्थाने जगाम प्राप ।। ११.४ ।।


(१)निसर्गवात्सल्यवशाद्विवृद्धचेतःप्रमोदौ गलदश्रुनेत्रौ ।
अपश्यतां (२)तं गिरिजागिरीशौ षडाननं (३)षड्दिनजातमात्रम् ।। ११.५ ।।

{१.निसर्गवात्सल्यरसाद्विवृद्धचेतःप्रमौदौ;निसर्गवात्सल्यविवृद्धचेतः पृथुप्रमोदौ.२.तौ.३.तद्दिन.}
     अन्वयः- गिरिजागिरीशौ निसर्गवात्सल्यवशात् विवृद्धचेतःप्रमोदौ गलदश्रुनेत्रौ षड्दिनजातमात्रं षडाननं तम् अपश्यताम् ।
     सीo- निसर्गेति । गिरिजागिरीशौ निसर्गेण स्वभावेन यद्वात्सल्यं दयावत्त्वं तस्य वशाद्धेतोर्विवृद्धः प्रवृद्धश्चेतसः प्रमोदो हर्षो ययोस्तथाभूतौ । अत एव गलदश्रुणी प्रवहद्वाष्पे नेत्रे ययोस्तथाभूतौ सन्तौ । षड्दिनादारभ्येत्यर्थः । जातानि व्यतीतानि यस्य स षड्दिनजातः स एव षड्दिनजातमात्रस्तं षडाननं षण्मुखं तं कुमारमपश्यतां दृष्टवन्तौ ।। ११.५ ।।


अथाह देवी शशिखण्डमौलिं कोऽयं शिशुर्दिव्यवपुः पुरस्तात् ?
कस्याथवा धन्यतमस्य पुंसो मातास्य का भाग्यवतीषु धुर्या ।। ११.६ ।।

     अन्वयः- अथ देवी- `पुरस्तात् अयं कः ? अथ वा कस्य धन्यतमस्य पुंसः दिव्यवपुः शिशुः ? अस्य माता का (या) भाग्यवतीषु धुर्या ?' इति शशिखण्डमौलिम् आह ।
     सीo- अथेति । अथ दर्शनानन्तरं देवी भवानी । पुरस्तादयं कः ? अथवा कस्य धन्यतमस्य पुंसो दिव्यवपुरादित्यसदृशविग्रहः शिशुर्बालः । पुत्र इति यावत् । अस्य शिशोर्माता जननी का ? या भाग्यवतीषु धुर्याग्रगण्या । `धुरो यढ्ढकौ' इति यत् । एतन्मातृत्वादिति भावः । इत्येवं प्रश्नभूतं वचः शशिखण्डमौलिं हरमाहोक्तवती । आहेति विभक्तिप्रतिरूपकमव्ययम् । तथा चोक्तम्- `अव्ययानामनन्तत्वाद् गणनाय न शक्यते । महाकविप्रयोगेषु यदि सिद्धात्परं च तत् ।।' इति ।। ११.६ ।।


स्वर्गापगासावनलोऽयमेताः षट् कृत्तिकाः किं कलहायमानाः ।
पुत्रो ममायं न तवायमित्थं (१)मिथ्येति (२)वैलक्ष्यमुदाहरन्ति ।। ११.७ ।।

{१.मिश्रः.२.उदाहरन्ते.}
     अन्वयः- असौ स्वर्गापगा, अयम् अनलः, एताः षट् कृत्तिकाः कलहायमानाः (सत्यः) अयं पुत्रो मम, अयं तव न, इत्थं मिथ्या, इति वैलक्ष्यं किम् उदाहरन्ति ।
     सीo-- स्वर्गापगेति । किं चि । असौ स्वर्गापगा गङ्गा । अयमनलोऽग्निः । एताः षट् कृत्तिकाः कलहायमानाः कलहं कुर्वाणाः सत्यः । `शब्दवैरकलहे-' त्यादिना करोत्यर्थे क्यङ् । अयं पुत्रो मम मत्सम्बन्धी इति गङ्गावाक्यम् । अयं तव न, किन्तु मम इत्यग्निवाक्यम् । इत्थं मिथ्योभयोर्युवयोर्मध्ये न कस्यापि किंत्वस्माकमिति सत्यम्, इति कृत्तिकावाक्यम् । इति परस्परं वैलक्षण्यं वैलक्ष्यं यथा तथा किं किमर्थमुदाहरन्ति विवदन्ते ।। ११.७ ।।


एतेषु कस्येदमपत्यमीशाखिलत्रिलोकीतिलकायमानम् ।
अन्यस्य कस्याप्यथ देवदैत्यगन्धर्वसिद्धोरगराक्षसेषु ।। ११.८ ।।

     अन्वयः-- `हे ईश ! एतेषु कस्य इदम् अपत्यम् अखिलत्रिलोकीतिलकायमानम् अथ देवदैत्यगन्धर्वसिद्धोरगराक्षसेषु अन्यस्य कस्य अपि (वद) ।'
     सीo- एतेष्विति । हे ईशा ! एतेषु स्वर्गापगादिषु मध्ये कस्येदमपत्यं पुत्रः । किंभूतम् । अखिला या त्रिलोकी तत्र तिलकायमानं तिलक इवाचरत् । `कर्तुः क्यङ् सलोपश्च' इत्याचारार्थे क्यङ् । तत आत्मनेपदित्वाच्छानच् । अथाथवा । सिद्धा देवविशेषाः । उरगाः सर्पाः । राक्षसा निशाचराः । देवदैत्यगन्धर्वसहिता ये सिद्धोरगराक्षसास्तेषु मध्येऽन्यतमस्य कस्यापीति वदेत्यर्थः ।। ११.८ ।।


श्रुत्वेति (१)वाक्यं हृदयप्रियायाः कौतूहलिन्या विमलस्मितश्रीः ।
सान्द्रप्रमोदोदयसैख्यहेतुभूतं वचोऽवोचत चन्द्रचूडः ।। ११.९ ।।

{१.वाचम्.}
     अन्वयः- चन्द्रचूडः कौतूहलिन्याः हृदयप्रियायाः इति वाक्यं श्रुत्वा विमलस्मितश्रीः सान्द्रप्रमोदोदयसौख्यभूतं वचः अवोचत ।
     सीo- श्रुत्वेतीति । चन्द्रचूडो हरः कौतूहलिन्याः श्रवणे कौतुकवत्या हृदयप्रियायाः पार्वत्या इति पूर्वोक्तं वाक्यं वचः । `वच परिभाषणे' `ऋहलोर्ण्यत्' इति ण्यत् । श्रुत्वा विमला स्मितश्रीर्यस्य । किञ्चिद्विहस्येत्यर्थः । सान्द्रः सघनः बहुरिति यावत् । यः प्रमोदो हर्षः । `प्रमोदामोदसंमदाः' इत्यमरः । तस्योदय उत्पतिस्तेन यत्सौख्यं तस्य हेतुभूतम् । तज्जनकमित्यर्थः । वचो वचनमवोचतोक्तवान् ।। ११.९ ।।


(१)जगत्त्रयीनन्दन एष वीरः प्रवीर(२)मातुस्तव नन्दनोऽस्ति ।
कल्याणि ! कल्याणकरः सुराणां (३)त्वत्तोऽपरस्याः(४) कथमेष सर्गः ।। ११.१० ।।

{१.जगत्त्रयानन्दन.२.मातः.३.अयम्.४.परस्याः.}
     अन्वयः- `हे कल्याणि ! जगत्त्रयीनन्दनो वीर एष प्रवीरमातुः तव नन्दनः अस्ति । सुराणां कल्याणकरः एष सर्गः त्वत्तः अपरस्याः कथम् (स्यात्) ?'
     सीo- जगत्त्रयीति । हे प्रिये ! जगत्त्रय्या नन्दन आनन्दकारकः । नन्द्यादित्वात् `नन्दिग्रही -' ति ल्युः । वीरः पराक्रम्येष पुरोवर्ती शिशुः प्रवीरमातुः प्रकृष्टवीरजनन्यास्तव नन्दनः पुत्रोऽस्ति । ममैवायं नन्दन इत्यत्र किं मानमित्याशङ्क्याह-हे कल्याणि, सुराणामिन्द्रादीनां कल्याणकरः, शर्मकार्येषु पुरोवर्ती सर्गः सृष्टिः । पुत्र इति यावत् । त्वत्तोऽपरस्यास्त्वदन्यस्याः स्त्रियाः कथं केन प्रकारेण स्यात् ? तारकविनाशजनितकल्याणकरत्वे त्वज्जनितस्यैव शक्तिः । अतस्तवैवायं पुत्र इति भावः ।। ११.१० ।।


देवि त्वमेवास्य निदानमास्से(५) (६)सर्गे जगन्मङ्गलगानहेतोः ।
सत्यं त्वमेवेति विचारयस्व रत्नाकरे युज्यत एव रत्नम् ।। ११.११ ।।

{५.आर्ये;आद्ये.६.स्वर्गे.}
     अन्वयः- हे देवि ! जगन्मङ्गलगानहेतोः अस्य सर्गे त्वम् एव निदानम् आस्से । त्वम् इति सत्यं विचारयस्व- `रत्नं रत्नाकरे एव युज्यते' ।
     सीo-- देवीति । हे देवि प्रये ! जगतां मङ्गलानि मङ्गलकर्माणि गानानि । गीतानि । मङ्गलप्रबन्धरूपाणीति यावत् । तेषां हेतोः कारणस्यास्य शिशोः सर्गे सृष्ठौ । उत्पत्ताविति यावत् । त्वमेव निदानमादिकारणमास्से उपविशसि । असीत्यर्थः । `निदानं त्वादिकारणम्' इत्यमरः । `आस उपवेशने', लटो मध्यमपुरुषैकवचनम् । नन्वहमेव कारणमित्यत्र किं मानमित्यत्र दृष्टान्तेन दर्शयति-त्वमेवेति सत्यम् । विचारयस्व । किमिति तत् । रत्नं रत्नाकरे समुद्र एव । अथ च रत्नखनावेव युज्यते युक्तं भवति । `खनिः स्त्रियामाकरः स्यात्' इति, `रत्नाकरो जलनिधिः' इति चामरः ।। ११.११ ।।


अथ युग्मेनाह--

(१)अतः श्रृणुष्वावहितेन वृत्तं बीजं यदग्नौ निहितं मया तत् ।

संक्रान्तमन्त(२) स्त्रिदशापगायां ततोऽवगाहे(३) सति कृत्तिकासु ।। ११.१२ ।।
गर्भत्वमाप्तं (४)तदमोघमेतत्ताभिः शरस्तम्बमधि न्यधायि ।

बभूव तत्रायमभूतपूर्वो महोत्सवोऽशेषचराचरस्य ।। ११.१३ ।।

{१.अत्र.२.त्रिदिवापगायाम्.३.विगाहे.४.यत्.}
अथ युग्मेनाह-
     अन्वयः- (हे प्रिये !) अत अवहितेन वृत्तं श्रृणुष्व- (तथाहि)-मया तत् बीजम् अग्नौ निहितं, तत् त्रिदशापगायाम्, अन्तः संक्रान्तम्, अवगाहे (सति) ततः कृत्तिकासु, गर्भत्वम् आप्तम् । ताथिः अमोघं तत् एतत् अधिशरस्तम्बं न्यधायि । तत्र अशेषचराऽचरस्य अभूतपूर्वो महोत्सवः अयं बभूव ।
     सीo- अत इति । गर्भत्वमिति । हे प्रिये, अतः कारणात् । अवहितेनावधानेन । सावधानतयेति यावत् । भावे निष्ठा । वृत्तं वृत्तान्तं शृणुष्व शृणु । तथाहि । मया यद् बीजं वीर्यमग्नौ निहितं स्थापितं तद्बीजं त्रिदशापगायां गङ्गायामन्तर्मध्ये संक्रान्तं लग्नम् । अवगाहे स्नाने सति ततो गङ्गातः कृत्तिकासु च संक्रान्तं सद् गर्भत्वमाप्तं गर्भीभूतम् । अथ च ताभिः कृत्तिकाभिरमोघं तदेतच्छरस्तम्बमधि अधिशरस्तम्बम् । अधेर्व्यत्ययः प्रामादिक एव । न्यधायि निहितम् । धाञः कर्मणि लुङ् । तत्र शरस्तम्बेऽशेषचराचरस्य समस्तस्थावरजङ्गमस्य जगतोऽभूतपूर्वः पूर्वं भूतो भूतपूर्वस्तादृङ् न भवतीत्यभूतपूर्वो महोत्सवो महानुत्सवोऽयं शिशुर्बभूव । जन्यजनकयोरभेदविक्षयाऽऽयुर्घृतमितिवन्महोत्सवोऽयमिति प्रयोगः ।। ११.१२ - ११.१३ ।।


अशेषविश्वप्रियदर्शनेन धुर्या त्वमेतेन सुपुत्रिणीनाम् ।
अलं विलम्ब्याचलराजपुत्रि ! (१)स्वपुत्रमुत्सङ्गतले(२) निधेहि(३) ।। ११.१४ ।।

{१.सुपूर्णम्.२.तलम्.३.विदेहि.}
     अन्वयः- हे अचलराजपुत्रि ! अशेषविश्वप्रियदर्शनेन एतेन त्वं सुपुत्रिणीनां धुर्या, विलम्ब्य अलम् । स्वपुत्रम् उत्सङ्गतले निधेहि ।
     सीo- अशेषेति । हे प्रिये ! अशेषविश्वस्य समस्तजातः प्रियं प्रीतिकारकम् । `इगुपधे-'त्यादिना कः । तथाभूतं दर्शनं यस्य तथोक्तेनैतेन । अत्रान्वादेश एतच्छब्दस्य नित्यमेनादेशनियमात्कथमेनाभावः साधुः ? सत्यम् । अत्रान्वादेश एव नास्ति । तत्र किंञ्चिद्विधानोद्युक्त्याश्रयीभूतस्य पुनरुपादानाश्रयीभूतस्य च भेदाभाववत्त्वेन विवक्षितत्वात् । प्रकृते तु तदन्यथात्वादन्वादेशाभावेनैनादेशाभावसिद्धिरित्यलम् । त्वं सुपुत्रिणीनां शोभनपुत्रवतीनां धुर्याग्रगण्या । श्रेष्ठतमेति यावत् । असीति शेषः । हे अचलराजपुत्रि, विलम्ब्य विलम्बं कृत्वाऽलम् । विलम्बो न कर्तव्य इत्यर्थः । किन्तु स्वपुत्रमात्मतनूजमुत्सङ्गतलेऽङ्कतले निधेहि स्थापय ।। ११.१४ ।।


अथ युग्मेनाह-

(४)अथेति वादिन्यमृतांशुमौलौ शैलेन्द्रपुत्री रभसेन सद्यः ।

सान्द्रप्रमोदेन सुपीनगात्री धात्री समस्तस्य चराचरस्य ।। ११.१५ ।।
किरीटबद्धाञ्जलिभिर्नभःस्थैर्नमस्कृता सत्वर(५)नाकिलोकैः ।

विमानतोऽवातरदात्मजं तं ग्रहीतुमुत्कण्ठितमानसाभूत् ।। ११.१६ ।।

{४.तथा.५.नाक.}
अथ युग्नेनाह--
     अन्वयः- अथ अमृतांऽशुमौलौ इति वादिनि (सति) समस्तस्य चराऽचरस्य धात्री सान्द्रप्रमोदेन सुपीनगात्री शैलेन्द्रपुत्री नभः स्थैः किरीटबद्धाऽञ्जलिभिः समस्तनाकिलोकैः नमस्कृता सद्यः रभसेन विमानतः अवातरत्, तम् आत्मजं ग्रहीतुम् उत्कण्ठितमानसा च अभूत् ।
     सीo- अथेति । किरीटेति । अथामृतांशुश्चन्द्रो मौलौ यस्य तथाभूते हरे इति पूर्वोक्तप्रकारेण । वादिनि भाषमाणे सति । समस्तस्य चराचरस्य जगतो धात्री परिपोषिका । `ऋन्नेभ्यः-' इति ङीप् । तथा सान्द्रः सघनो यः प्रमोद आनन्दस्तेन सुतरां पीनं प्रफुल्लत्वात्पुष्टं गात्रं यस्यास्तथाभूता शैलेन्द्रस्य हिमालयस्य पुत्री कन्या पार्वती, नभःस्थैः । तत्काल आकाशमाश्रयद्भिरित्यर्थः । तथा सत्वरैश्च नाकिलोकैरिन्द्रादिलोकैः किरीटेषु बद्धा अञ्‍लयो यैस्तथाभूतैः सद्भिर्नमस्कृता वन्दिता सती सद्यो रभसेन वेगेन विमानतो विमानात् । पञ्चम्यास्तसिल् । अवातरदुत्ततार । अथ च तमात्मजं कुमारं ग्रहीतुत्कण्ठितमानसा चाभूत् । अहमेनं गृह्गामीति मनस्यैच्छदित्यर्थः ।। ११.१५ - ११.१६ ।।


स्वर्गापगापावककृत्तिकादीन् कृताञ्जलीनानमतोऽपि (३)भूयः ।
हित्वोत्सुका(४) तं सुतमाससाद पुत्रोत्सवे माद्यति का(५) न हर्षात् ।। ११.१७ ।।

{३.भूम्रा;मूर्ध्वा.४.मुकान्तम्.५.कः.}
     अन्वयः- पुत्रोत्सवे उत्सुका (पार्वती) कृताऽञ्जलीन् भूय आनमतोऽपि स्वर्गापगापावककृत्तिकादीन् हित्वा तं सुतम् आससाद, हर्षात् का न माद्यति ?
     सीo- स्वर्गेति । पुत्रोत्सव उत्सुकोत्कण्ठिता पार्वती । स्वर्गापगा गङ्गा तया सहिता याः पावककृत्तिकास्ता आदयो येषां तान् । अत्रादिशब्देनेन्द्रादयो ग्राह्याः । स्वर्गापगा च पावकश्च कृत्तिकाश्चेति द्वन्द्वसमासेऽल्पाच्तरत्वात्पावकशब्दस्य पूर्वनिपातः प्रसज्येतेति पूर्वरीतिरादृता । तान् कृताञ्जलीनत एव भूयोऽतिशयमानमतो नमस्कुर्वतोऽपि हित्वा परित्यज्य तं सुतमाससाद प्राप । तथाहि । हर्षादानन्दवशात्का न माद्यत्युन्मत्ता न भवति । पुत्रोत्सवेन सर्वासामुन्मत्तत्वं भवतीति भावः ।। ११.१७ ।।


प्रमोदबाष्पाकुललोचना सा न तं ददर्श क्षणमग्रतोऽपि ।
परिस्पृशन्ती (१)करकुङ्मलेन सुखान्तरं प्राप किमप्यपूर्वम् ।। ११.१८ ।।

{१.करकुड्मलाभ्याम्.}
     अन्वयः- सा अग्रतः अपि तं क्षणं न ददर्श, यत् प्रमोदबाष्पाकुललोचना (सती) करकुड्मलेन परिस्पृशन्ती किमपि अपूर्वं सुखान्तरं प्राप ।
     सीo- प्रमोदेति । सा पार्वती । अग्रतः स्थितमपि तं पुत्रं क्षणं न ददर्श । यतः प्रमोदबाष्पैरानन्दाश्रुभिराकुले व्याप्तत्वाद्दर्शनाशक्ते लोचने यस्याः । आनन्दाश्रुभिरन्धीभूतेत्यर्थः । अथ च कर एव कुङ्मलं कलिका तेन परिस्पृशन्ती सती किमपि लोकोत्तरमपूर्वम् । अभूतपूर्वमित्यर्थः । शाकपार्थिवादीनामुत्तरपदलोपः । सुखान्तरम् । अन्यत्सुखमित्यर्थः । अन्तरशब्दोऽत्रोपमानाभावद्योतकः । प्राप प्राप्तवती ।। ११.१८ ।।


(२)सुविस्मयानन्दविकस्वरायाः शिशुर्गलद्बाष्पतरङ्गितायाः ।
विवृद्धवात्सल्यरसोत्तराया देव्या (३)दृशोर्गोचरतां जगाम ।। ११.१९ ।।

{२.सविस्मय.३.दृशः.}
     अन्वयः- शिशुः सुविस्मयानन्दविकस्वरायाः गलद्बाष्पतरङ्गितायाः विवृद्धवात्सल्यरसोत्तरायाः देव्याः गोचरतां जगाम ।
     सीo- सुविस्मयेति । शिशुः कर्ता । सुतरां यौ विस्मयानन्दावाश्चर्यहर्षौ ताभ्यां विकस्वरायाः प्रफुल्लीभूतायाः तथा गलद्वाष्पैस्तरङ्गितायाः संजाततरङ्गायाः । तारकादित्वादितच् । वपुषि गलद्भिर्बाष्पजलैरुद्भूतप्रवाहकल्लोलकलिताया इत्यर्थः । तथा विवृद्धं यद्वात्सल्यं दयावत्त्वम् । पुत्रत्वादिति भावः । तत्र यो रसः प्रीतिः स उत्तरः प्रधानं यस्यास्तथाभूताया देव्याः पार्वत्याः संबन्धिनोर्द्दशोर्विलोचनयोर्गोचरतां विषयतां जगाम प्राप । बाष्पनिर्मुक्ताभ्यां लोचनाभ्यां देवी तमपश्यदित्यर्थः ।। ११.१९ ।।


तमीक्षमाणा क्षणमीक्षणानां सहस्रमाप्तुं विनिमेषमैच्छत् ।
सा नन्दनालोकनमङ्गलेषु क्षणं क्षणं तृप्यति कस्य चेतः ? ।। ११.२० ।।

     अन्वयः- तं क्षणम् ईक्षमाणा सा विनिमेषम् ईक्षणानां सहस्रम् आप्तुम् ऐच्छत् । नन्दनालोकनमङ्गलेषु क्षणं क्षणं कस्य चेतः तृप्यति ?
     सीo- तमिति । तं बालं क्षणमीक्षमाणावलोकमाना सा देवी विनिमेषं निर्गतनिमेषमीक्षणानां नेत्राणां सहस्त्रमाप्तुं मम सहस्त्रं नेत्राणि भवन्त्वित्यैच्छदियेष । द्वाभ्यां विलोचनाभ्यामाकण्ठदर्शनजननाभावादिति भावः । तथाहि । नन्दनस्यालोकनान्येव मङ्गलानि तेषु विषये क्षणं क्षणम् प्रतिक्षणमित्यर्थः । `नित्यवीप्सयोः' इति वीप्सायां द्विर्भावः । कस्य चेतस्तृप्यति तृप्तिं प्राप्नोति ? अपि तु न कस्यापीत्यर्थः ।। ११.२० ।।


विनम्रदेवासुरपृष्ठगाभ्यामादाय तं पाणिसरोरुहाभ्याम् ।
(१)नवोदयं पार्वणचन्द्रचारुं गौरी (२)स्वमुत्सङ्गतलं निनाय ।। ११.२१ ।।

{१.नवोदयात्,महोदयात्.२.तम्.}
     अन्वयः- गौरी नवोदयं पार्वणचन्द्रचारुं तं विनम्रदेवाऽसुरपृष्ठगाभ्यां पाणिसरोरुहाभ्याम् आदाय स्वम् उत्सङ्गतलं निनाय ।
     सीo- विनम्रेति । गौरी पार्वती । `षिद्गौरादिभ्यश्च' इति ङीप् । नवोदयं नूतनोद्भवम् । तत्कालजातमित्यर्थः । अत एव पार्वणः पर्वणि भवः । `तत्र भवः' इत्यण् । स चासौ चन्द्रश्च तद्वच्चारुं मनोहरम् । चन्द्रोऽपि नवोदय इति ज्ञेयम् । तथाभूतं तं तनूजं पुत्रम् कर्मभूतमित्यर्थः । आदाननयने उभे अपि प्रत्यस्तकर्मत्वं विवेचनीयम् । विनम्राः पादप्रणता ये देवा सुरास्तेषां पृष्ठेषु गच्छतः संचरतस्ताभ्याम् । अनेन तेभ्योऽभयदानमुद्रा कृतेति व्यज्यते । पाणिसरेरुहाभ्यां करकमलाभ्यामादाय गृहीत्वा स्वमात्मीयमुत्सङ्गतलं निनाय प्रापयामास । हस्ताभ्यामुत्थाप्य स्वाङ्क आरोपितवतीत्यर्थः ।। ११.२१ ।।


स्वमङ्कमारोप्य सुधानिधानमिवात्मनो नन्दनमिन्दुवक्त्रा ।
(३)तमेकमेषां (४)जगदेकवीरं बभूव पूज्या धुरि पुत्रिणीनाम् ।। ११.२२ ।।

{३.एकमेवम्,एकदेवम्.४.एकदेवी.}
     अन्वयः- इन्दुवक्त्रा एषा एकं जगदेकवीरं तम् आत्मनो नन्दनं सुधानिधानम् इव स्वम् अङ्कम् आरोप्य पुत्रिणीनां धुरि पूज्या बभूव ।
     सीo- स्वमिति । इन्दुवक्त्रा चन्द्रमुख्येषा पार्वती । एकमद्वितीयं जगदेकवीरं जगत्स्वेकवीरं तमात्मनो नन्दनं पुत्रं सुधानिधानममृतपात्रमिव स्वमात्मीयमङ्कमारोप्य संस्थाप्य पुत्रिणीनां पुत्रवतीनां धुर्यग्रभागे पूज्या पूजयितुं योग्या बभूव । एतत्पुत्रस्य सर्वासामपि पुत्रेभ्योऽधिकत्वादग्रपूज्यत्वमुचितमेवेति भावः ।। ११.२२ ।।


निसर्गवात्सल्यरसौघसिक्ता सान्द्रप्रमोदामृतपूरपूर्णा ।
तमेकपुत्रं जगदेकमाता(१)भ्युत्सङ्गिनं प्रस्त्रविणी बभूव ।। ११.२३ ।।

{१.सोत्सङ्गितम्,अभ्युत्सङ्गितम्.}
     अन्वयः-- निसर्गवात्सल्यरसौघसिक्ता सान्द्रप्रमोदाऽमृतपूरपूर्णा जगदेकमाता उत्सङ्गिनं तम् एकपुत्रम् अभि प्रस्रविणी बभूव ।
     सीo- निसर्गेति । निसर्गेण स्वभावेन । न तूपाधिनेत्यर्थः । ओ वात्सल्यरसो दयावत्त्वरसस्तस्यौघेन सिक्ता प्लाविता । तत्रातिवात्सल्यवतीत्यर्थः । तथा सान्द्रप्रमोदोऽतिशयहर्षः । स एवामृतं पीयूषं तस्य पूरेण प्रवाहेण पूर्णा भृता जगतामेकाद्वितीया माता परिपोषिका देव्युत्सङ्गिनमधिश्रितोत्सङ्गं तमेकपुत्रमभिसंमुखं प्रस्त्रविणी दुग्धस्राववती बभूव । पुत्रं दृष्ट्वा मातुः स्तनाभ्यां पयः पततीति युक्तमिति भावः ।। ११.२३ ।।


अशेषलोकत्रयमातुरस्याः षाण्मातुरः स्तन्यसुधामधासीत् ।
सुरस्रवन्त्याः किल कृत्तिकाभिर्मुहुर्मुहुः सस्पृहमीक्ष्यमाणः ।। ११.२४ ।।

     अन्वयः- षाण्मातुरः सुरस्रवन्त्यो कृत्तिकाभिः सस्पृहं मुहुर्मुहुः ईक्ष्यमाणः (सन्) अशेषलोकत्रयमातुः अस्याः स्तनसुधाम् अधासीत् किल ।
     सीo- अशेषेति । षाण्मातुरः षण्णां मातृणामपत्यं षाण्मातुरः कार्त्तिकेयः । अत्र षण्मातृशब्दात् `मातुरुत्संख्ये' त्यादिनाण् मातृश्ब्दस्योदादेश्च । `षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः' । इत्यमरः । सुरस्रवन्त्या देवनद्याः । गङ्गाया इत्यर्थः । `स्त्रवन्ती निम्नगापगा' इत्यमरः । तथा कृत्तिकाभिश्च सस्पृहं स्वेच्छं यथा तथा । `इच्छा काङ्क्षा स्पृहेहा तृट्' इत्यमरः । अस्मदीयपयोधरस्त्रवदमृतपाताऽयमिदानीमेतदीयस्तनपयः- पिबन्पुनरप्यस्मदीयपयोधरपयोऽपि स्मरेदेवंभूतेच्छासहितमित्यर्थः । मुहुर्मुहुरनुवेलमीक्ष्यमाणोऽवलोक्यमानः सन्नशेषं सकलं यल्लोकत्रयं तस्य मातुः पोषिण्या अस्या देव्याः स्तन्या स्तने भवा "शरीरावयवाद्यत् " इति यत् । सा चासौ सुधा च तामधासीत्पपौ । `धेट् पाने' कर्तरि लुङ् । `विभाषा घ्राधेडि' -ति सिज्लुग्न ।। ११.२४ ।।


(१)सुखाश्रुपूर्णेन मृगाङ्कमौलेः कलत्रमेकेन मुखाम्बुजेन ।
तस्यैकनालो(२) द्गतपञ्चपद्मलक्ष्मीं क्रमात्षड्वदनीं (३)चुचुम्ब ।। ११.२५ ।।

{१.सुखास्रपूर्णेन.२.उद्गम.३.चुचुम्बे.}
     अन्वयः- मृगाऽङ्कमौलेः कलत्रम् एकनालोद्गतपञ्चपद्मलक्ष्मीं तस्य षड्वदनीं सुखाऽश्रुपूर्णेन एकेन मुखाऽम्बुजेन क्रमात् चुचुम्ब ।
     सीo- सुखेति । मृगाङ्कमौलेर्हरस्य कलत्रं भार्या । `कलत्रं श्रोणिभार्ययोः' इत्यमरः । एकनाल एककाण्ड उद्रतान्युदितानि यानि पञ्चपद्मानि तेषां लक्ष्मीरिव शोभेव लक्ष्मीः शोभा यस्यास्तथाभूतां तस्य कुमारस्य षण्णां वदनानां समाहारं षड्वदनीम् । `द्विगोः' इति ङीप् । इह संख्यासादृश्यमन्तरा न विरोधः । सुखाश्रुपूर्णेनानन्दाश्रुजलपरिपूरितेनैकेन मुखाम्बुजेन वदनकमलेन क्रमाद्यथाक्रमं चुचुम्ब स्पृष्टवती । अतिशयप्रेमवशादिति भावः ।। ११.२५ ।।


(४)हैमी फलं हेमगिरेर्लतेव विकस्वरं नाकनदीव पद्मम् ।
पूर्वेव दिङ्नूतनमिन्दुमाभात्तं पार्वती नन्दनमादधाना ।। ११.२६ ।।

{४.हैमम्.}
     अन्वयः- तं नन्दनम् आदधाना पार्वती फलं दधाना हेमगिरेः हैमी लता इव विकस्वरं पद्मं दधाना नाकनदी इव नूतनम् इन्दुं दधाना पूर्वा दिक् इव आभात् ।
     सीo-- हैमीति । तं नन्दनं तनयमादधाना सा पार्वती । फलं दधानां हेमगिरेः सुमेरोः संबन्धिनी । तदुत्पन्नेत्यर्थः । हैमी हेमविकारा । विकारार्थकेऽपि `टिढ्ढे-' ति ङीप् । लतेव । विकस्वरं प्रफुल्लं पद्मं कमलं दधाना नाकनदीव गङ्गेव । नूतनं नवोदयमिन्दुं दधाना पूर्वा पूर्वसंज्ञिका दिगिव । आभाच्छुशुभे । अत्र मालोपमालंकारः ।। ११.२६ ।।


प्रीतात्मना (१)सा प्रयतेन दत्तहस्तावलम्बा शशिशेखरेण ।
कुमारमुत्सङ्गतले दघाना विमानमभ्रंलिहमारुरोह ।। ११.२७ ।।

{१.सुप्रयतेन.}
     अन्वयः- कुमारम् उत्सङ्गतले दधाना सा प्रीतात्मना प्रयतेन शशिशेखरेण दत्तहस्ताऽवलम्बा (सती) अभ्रंलिहं विमानम् आरुरोह ।
     सीo- प्रीतेति । कुमारं पुत्रमुत्सङ्गतले दधाना बिभ्रती सा देवी प्रीतात्मना प्रसन्नीभूतमनसा प्रयतेन सावधानेन । न तु संभ्रमितेन । `नयवर्त्मगाः प्रभवतां हि धियः' इति न्यायादिति भावः । तथाभूतेन शशिशेखरेण शिवेन दत्तहस्तावलम्बा सती । अत्यतिप्रेमभरादिति भावः । अभ्रंलिहमाकाशस्पृशं । `वहाभ्रे लिहः' इति खश् । विमानमारुरोहारुढा ।। ११.२७ ।।


महेश्वरोऽपि प्रमदप्ररुढरोमोद्गमो भूधरनन्दनायाः ।
(२)अङ्कादुपादत्त (३)तदङ्कतः (४)सा तस्यास्तु (५)सोऽप्यात्मजवत्सलत्वात् ।। ११.२८ ।।

{२.अकाण्डमादृत्त.३.तमङ्कतः.४.सः.५.सौम्यात्मज.}
     अन्वयः-- प्रमदप्ररुढरोमोद्गमो महेश्वरोऽपि आत्मजवत्सलत्वात् भूधरनन्दनायाः अङ्कात् (तम्) उपादत्त, सोऽपि तस्याः (अङ्कात् उपादत्त) ।
     सीo- महेश्वर इति । प्रमदेनानन्देन प्ररुढा रोमोद्गमा यस्य तथाभूतो महेश्वरोऽप्यात्मजे पुत्रे वत्सलत्वाद् दयावत्त्वाद्धेतोर्भूधरनन्दनायाः पार्वत्या अङ्कादुत्सङ्गतस्तं पुत्रमुपादत्ताग्रहीत् । अथ च तदङ्कतो हरोत्सङ्गात्सा देव्युपादत्त । अथ च सोऽपि हरोऽपि तस्या देव्या अङ्कादुपादत्त । इत्यनुवेलमन्योन्यग्रहणं चक्रतुरित्यर्थः ।। ११.२८ ।।


(६)दधानया नेत्रसुधैकसत्रं(७) पुत्रं पवित्रं सुतया (८)तयाद्रेः ।
संश्लिष्यमाणः शशिखण्डधारी(९) विमानवेगेन (१०)गृहाज्जगाम ।। ११.२९ ।।

{६.दत्वानया.७.पाधम.८.तथा.९.मौलिः;वाही.१०.गृहम्.}
     अन्वयः-- शशिखण्डधारी नेत्रसुधैकसत्रं पवित्रं पुत्रं दधानया तया अद्रेः सुतया संश्लिष्यमाणः (सन्) विमानवेगेन गृहान् जगाम ।
     सीo-- दधानेति । शशिखण्डधारी महेश्वरः । सुधाया अमृतस्यैकं केवलं सत्रं सदादानम् `सत्रमाच्छादने यज्ञे सदादाने धनेऽपि च' इत्यमरः । नेत्रयोः संबन्धि सुधैकसत्रं येन नेत्रयोरमृतवत्सुखदातारमित्यर्थः । तथा पवित्रं पूतम् । `पुवः संज्ञायाम्' इति त्रन्प्रत्ययः । तथाभूतं पुत्रं सुतं दधानया बिभ्रत्या तयाद्रेर्हिमालयस्य सुतया कन्यया पार्वत्या कर्त्र्या । संश्लिष्यमाणः स्नेहवशादालिङ्ग्यमानः सन्विमानस्य वेगेन गृहञ्जगाम प्रययो । `गृहाः पुंसु च भूम्त्येव' । इत्यमरः ।। ११.२९ ।।


(१)अधिष्ठितः स्फाटिकशैलश्रृङ्गे तुङ्गे निजं(२) धाम(३) निकामरम्यम् ।
महोत्सवाय (४)प्रमथप्रमुख्यान् (५)पृथून्गणाञ्शंभुरथादिदेश ।। ११.३० ।।

{१.अधिष्ठित.२.निजे.३.धामनि कामरम्ये;धाम्नि निकामरम्ये.४.प्रमथान्स नाथः.५.महिम्ना स्वमुदा;प्रथिम्नां पृथक्.}
     अन्वयः- अथ शम्भुः तुङ्गे स्फाटिकशैलश्रृङ्गे निकामरम्यं निजं धाम अधिष्ठितः (सन्) महोत्सवाय पृथून् प्रथमप्रमुख्यात् गणान् आदिदेश ।
     सीo-- अधिष्ठित इति । अथानन्तरं शंभुर्महेश्वरस्तुङ्गे उन्नते स्फटिकमयः स्फाटिको यः शैलः कैलासस्तस्य श्रृङ्गे शिखरे । `श्रृङ्गं प्राधान्यसान्वोश्च' इत्यमरः । निकामरम्यमतिमनोहरं निजं स्वीयम् । `स्वके नित्ये निजं त्रिषु' इत्यमरः । अधिष्ठितः सन् । `अधिशीङ्-' इत्यादिनाधारस्य कर्मसंज्ञा । महोत्सवाय महोत्सवं कर्तुम् `तुमर्थाच्चे'ति चतुर्थी । पृथून्महतः प्रमथप्रमुख्यान्प्रमथादीन्गणानादिदेशाज्ञापयामास ।। ११.३० ।।


(६)पृथुप्रमोदः (७)प्रगुणो गणानां गणः समग्रो वृषवाहनस्य ।
गिरीन्द्रपुत्र्यास्तनयस्य जन्मन्यथोत्सवं संववृते विधातुम् ।। ११.३१ ।।

{६.प्रमोद.७.प्रगुण.}
     अन्वयः- अथ पृथुप्रमोदः प्रगुणः समग्रः गणानां गणः वृषवाहनस्य गिरीन्द्रपुत्र्याश्च तनयस्य जन्मनि उत्सवं विधातुं संववृते ।
     सीo- पृथ्विति । अथानन्तरं पृथुर्महान्प्रमोदो हर्षो यस्य । तथा प्रकृष्टा गुणा यस्यैवंविधः समग्रः संपूर्णो गणानां गणः प्रमथादीनां समूहो वृषवाहनस्य महेश्वरस्य गिरीन्द्रपुत्र्याः पार्वत्याश्च तनयस्य जन्मन्युत्सवं विधातुं कर्तुं संववृते संवृत्तः । उद्युक्त इति यावत् ।। ११.३१ ।।


इतः परं सप्तभिरुत्सवानेवाह -

स्फुरन्मरीचिच्छुरिताम्बराणि संतानशाखिप्रसवाञ्चितानि ।
(१)उच्चिक्षिपुः काञ्चनतोरणानि गणा (२)वराणि स्फटिकालयेषु ।। ११.३२ ।।

{१.विचिक्षिपुः.२.क्षलानि.}
     अन्वयः- गणाः स्फटिकालयेषु स्फुरन्मरीचिच्छुरिताऽम्बराणि सन्तानशाखिप्रसवाऽञ्चितानि वराणि काञ्चनतोरणानि उञ्चिक्षिपुः ।
     सीo- स्फुरदिति । गणाः प्रमथाः स्फटिकालयेषु स्फटिकगृहेषु स्फुरन्त्यो भासमाना या मरीचयः किरणास्ताभिश्छुरितं मिश्रीकृतमम्बरं यैस्तानि । संतानशाखिनां देववृक्षाणां प्रसवानि पत्त्राणि तैरञ्चितानि निर्मितानि वराणि श्रेष्ठानि काञ्चनं काञ्चनस्य विकारः काञ्चनं स्वर्णसूत्रं तदाधेयीभूतानि तोरणानि मालाविशेषनुच्चिक्षिपुरुच्चैश्चिक्षिपुः । बबन्धुरित्यर्थः ।। ११.३२ ।।


दिक्षु प्रसर्पस्तदधीश्वराणामथामराणामिव (३)मध्यलोके ।
महोत्सवं शंसितुमाहतोऽन्यैर्दध्वान धीरः (४)पटहः पटीयान् ।। ११.३३ ।।

{३.नाकिलोके.४.धीरम्.}
     अन्वयः- अथ दिक्षु प्रसर्पन् तदधीश्वराणाम् अमराणां पटीयान् धीरः पटहः अन्यैः आहतः (सन्) मध्यलोके महोत्सवं शंसितुम् इव दध्वान ।
     सीo- दिक्ष्विति । अथ तोरणोत्क्षेपानन्तरम् । दिक्षु दशसु दिशासु प्रसर्पन्प्रसिद्धो भवन् । आत्मनिनादेनेति शेषः । गम्यमानार्थत्वादप्रयोगः । तासां दिशामधीश्वराणां दिक्पालानाममराणां देवानामिन्द्रादीनां संबन्धी पटीयान्समर्थः । घोरनिनाद इति शेषः । धीरो गम्भीरः पटहोऽन्यैर्भृत्यभृतैरमरैराहतस्ताडितः सन् मध्यश्चासौ लोकश्च मध्यलोकः । भूलोक इत्यर्थः । तस्मिन् महोत्सवम् । अत्रापि भवत्पुत्रजन्मनास्माकं महानुत्सवो जात इति शंसितुमिव कथयितुमिव । दध्वान ध्वनिं चकार । ध्वनिकरणे महोत्सवज्ञापनस्य फलत्वाभावेऽपि फलत्वकल्पनात्फलोत्प्रेक्षा ।। ११.३३ ।।


महोत्सवे तत्र समागतानां गन्धर्वविद्याधरसुन्दरीणाम् ।
संभावितानां गिरिराजपुत्र्या गृहेऽभवन्मङ्गलगीतकानि ।। ११.३४ ।।

     अन्वयः-- तत्र महोत्सवे समागतानां गृहे गिरिराजपुत्र्या संभावितानां गन्धर्वविद्याधर-सुन्दरीणां मङ्गलगीतकानि अभवन् ।
     सीo-- महेति । तत्र महोत्सवे समागतानां प्राप्तानामत एव गृहे गिरिराजपुत्र्या भवान्या संभावितानां पूजितानाम् । सत्कृतानामित्यर्थः । गन्धर्वा विद्याधराश्च देवविशेशास्तेषां सुन्दरीणां स्त्रीणां स्त्रीकर्तृकाणि मङ्गलगीतकानि मङ्गलप्रयोजनगीतान्यभवन् जातानीत्यर्थः ।। ११.३४ ।।


सुमङ्गलोपायन(१) पात्रहस्तास्तं मातरो मातृवदभ्युपेताः(२) ।
विधाय दूर्वाक्षतकानि मूर्ध्नि निन्युः स्वमङ्कं गिरिजातनूजम् ।। ११.३५ ।।

{१.तूर्णम्.२.अभ्युपेताः.}
     अन्वयः- सुमङ्गलोपायनपात्रहस्ताः अभ्युपेताः मातरः मूर्ध्नि दूर्वाक्षतकानि निधाय तं गिरिजातनूजं मातृवत् स्वम् अङ्कं निन्युः ।
     सीo- सुमङ्गलेति । सुमङ्गलानि यान्युपायनान्युपदासामग्र्यस्तेषां पात्रं तत्सहिता हस्ता यासामेवंभूताः सत्योऽभ्युपेताः प्राप्ता मातरो ब्राह्म्याद्याः । सप्तेति शेषः । `ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः ।।' इत्यमरः । मूर्ध्नि शिरसि दूर्वाक्षतानि निधाय संस्थाप्य तं गिरिजातनूजं कुमारं मातृवत्पार्वतीवत्तत्तुल्यं यथा तथा स्वं स्वीयमङ्कं निन्युः । स्वङ्के स्थापयामासुरित्यर्तः । मातृवदित्यनेन तासामप्यत्र महत्प्रेमास्तीति दर्शितम् ।। ११.३५ ।।


ध्वनत्सु तूर्येषु सुमन्द्रमङ्क्यालिङ्ग्योर्ध्वकेष्वप्सरसो रसेन ।
सुसन्धिबन्धं ननृतुः सुवृत्तगीतानुगं भावरसानुविद्धम् ।। ११.३६ ।।

     अन्वयः-- अङ्क्यालिङ्ग्योर्ध्वकेषु तूर्येषु सुमन्द्रं ध्वनत्सु अप्सरसः रसेन सुसन्धिबन्धं सुवृत्तगीताऽनुगं भावरसाऽनुविद्धं ननृतुः ।
     सीo- ध्वनत्स्विति । अङ्क्यालिङ्ग्योर्ध्वकेष्वेतत्संज्ञकेषु तूर्येषु वाद्येषु सुतरां मन्द्रं गम्भीरं यथा तथा । `कलो मन्द्रस्तु गम्भीरे' इत्यमरः । ध्वनस्तु शब्दायमानेषु सत्सु । अप्सरसो रम्भादिका रसेन स्नेहेन शोभना मधुराः संधयः स्वरसंध्यादयो येषु तथाभूता बन्धाः गीतप्रबन्धा यत्र यस्मिन्कर्मणि । सुवृत्तानि शोभनच्छन्दांसि गीतानुगानि यत्र यस्मिन्कर्मणि । सुवृत्तानि शोभनच्छन्दांसि गीतानुगानि यत्र यस्मिन्कर्मणि । भावा रत्यादयो रसाः श्रृङ्गारादयस्तैरनुविद्धं व्याप्तं यत्र यस्मिन् कर्मणि यथा तथा ननृतुर्गात्राणि विचिक्षिपुः ।। ११.३६ ।।


वाता ववुः सौख्यकराः प्रसेदुराशा विधूमो हुतभुग दिदीपे ।
जलान्यभूवन्विमलानि तत्रोत्सवेऽन्तरिक्षे प्रससाद सद्यः ।। ११.३७ ।।

     अन्वयः- तत्र उत्सवे वाताः सौख्यकरा ववुः, आशाः प्रसेदुः, हुतभुक् विधूमो दिदीपे, जलानि विमलानि अभूवन् ; अन्तरिक्षं सद्यः प्रससाद ।
     सीo- वाता इति । तत्रोत्सवे । वाताः पवनाः सौख्यकरा ववुश्चेलुः । आशा दिशः प्रसेदुर्निर्मला बभूवुः । हुतभुगग्निर्विधूमो निर्धूमः सन्दिदीपे ज्वलति स्म । `दोपी दीप्तौ' इति लिट् । जलानि विमलान्यभूवन् । `भवो हि लोकाभ्युदयाय तादृशाम्' । इति न्यायादिति भावः ।। ११.३७ ।।


गम्भीरशङ्ख(१)ध्वनिमिश्रमुच्चैर्गृहोद्भवा दुन्दुभयः प्रणेदुः ।
दिवौकसां व्योम्नि विमानसङ्घा (२)विमुच्य पुष्पप्रचयान्प्रसस्रुः ।। ११.३८ ।।

{१.शब्द.२.विमुञ्चता पुष्पचयान्;विमुच्यते पुष्पचयान्.}
     अन्वयः- गृहोद्भवा दुन्दुभयो गम्भीरशङ्खध्वनिमिश्रम् उच्चैः प्रणेदुः । दिवौकसां विमानसङ्घाः व्योम्नि पुष्पप्रचयान् विमुच्य प्रसस्रुः ।
     सीo- गम्भीरेति । गृहोद्भवा महेश्वरनिकेतनीया दुन्दुभयो गम्भीरो मन्द्रो यः शङ्खध्वनिः पाञ्चजन्यशब्दस्तेन मिश्रं यथा स्थात्तथोच्चैः प्रणेदुः `उसर्गादसमासेऽपि' इति णत्वम् । अथ च दिवौकसां देवानां विमानसङ्घा व्योम्नि पुष्पप्रचयान्विमुच्य विकोर्य प्रसस्रुः । प्रतस्थिर इत्यर्थः ।। ११.३८ ।।


इत्थं महेशाद्रिसुतासुतस्य (३)जन्मोत्सवे संमदयांचकार ।
चराचरं विश्वमशेषमेतत्परं चकम्पे किल तारकश्रीः ।। ११.३९ ।।

{३.जन्मोत्सवः.}
     अन्वयः- महेशाऽद्रिसुतासुतस्य इत्थं जन्मोत्सवे अशेषं चराऽचरं विश्वं संमदयाञ्चकार । परं तारकश्रीः चकम्पे किल ।
     सीo-- इत्थमिति । महेशो हरः । अद्रिसुता पार्वती तस्याः सुतस्य पुत्रस्येत्थमेवंभूते जन्मोत्सवेऽशेषं समस्तं चराचरं स्थावरजङ्गममेतद्विश्वं जगत्संमदयांचकारोन्मत्तीचकार । उन्मादसाधनैरिति शेषः । परं केवलं तारकस्य तारकासुरस्य श्रीर्लक्ष्मीश्चकम्पे । बिभायेत्यर्थः ।। ११.३९ ।।


ततः कुमारः (१)समुदां निदानैः (२)स बाललीलाचरितैर्विचित्रैः ।
गिरीशगौर्योहृदयं जहार मुदे न हृद्या किमु बालकेलि ।। ११.४० ।।

{१.समुदः.२.स्वबाललीलाललितः.}
     अन्वयः- ततः स कुमार, विचित्रैः समुदां निदानैः बाललीलाचरितैः गिरीशगौर्योः हृदयं जहार । हृद्या बालकेलिः मुदे न किमु ?
     सीo- तत इति । ततोऽनन्तरं स कुमारो विचित्रैरनेकरुपैरत एव समुदां सुतरां प्रीतीनां निदानैरादिकारणैः । `निदानं त्वादिकारणम्' इत्यमरः । बाललीलाचरितैः शिशुक्रीडाचरितैर्गिरीशगौर्योः शिवपार्वत्योः । अभ्यर्हितत्वाद्बह्वचोऽपि पूर्वनिपातः । हृदयं मनो जहार । प्रसादयामासेत्यर्थः । हृद्या मनोहरा बालकेलिर्मुदे न किमु भवतीति । किं तु भवत्येवेत्यर्थः ।। ११.४० ।।


महेश्वरः शैलसुता (३)च हर्षा(४)त्सतर्षमेकेन मुखेन गाढम् ।
अजातदन्तानि (५)मुखानि सूनोर्मनोहराणि (६)क्रमत(७)श्चुचुम्ब ।। ११.४१ ।।

{३.अपि.४.सहर्षम्.५.वक्त्राणि.६.क्रमशः.७.चुचुम्बे.}
     अन्वयः- महेश्वरः शैलसुता च हर्षात् सतर्षम् अजातदन्तानि मनोहराणि सूनोः मुखानि क्रमतः चुचुम्ब ।
     सीo-- महेश्वर इति । महेश्वरो हरः शैलसुता पार्वती च हर्षाद्धेतोः सतृष्णं यथा तथा जातदन्तान्युद्भूतदशनानि मनोहराणि सूनोः कुमारस्य मुखान्येकेन मुखेन गाढं दृढं यथा तथा क्रमतो यथाक्रमं चुचुम्ब पस्पर्श । अत्र कर्तृद्वयस्य पार्थक्येन क्रियान्वयो विधेयः । अन्यथा द्विवचनापत्तिरिति विवेचनीयम् ।। ११.४१ ।।


क्वचित्स्खलद्भिः क्वचिदस्खलद्भिः क्वचित्प्रकम्पैः क्वचिदप्रकम्पैः ।
बालः (८)स लीलाचलनप्रयोगैस्तयोमुदं वर्धयति स्म पित्रोः ।। ११.४२ ।।

{८.सलीलम्.}
     अन्वयः- स बालः क्वचित् स्खलद्भिः क्वचित् अस्खलद्भिः क्वचित् प्रकम्पैः क्वचित् अप्रकम्पैः, लीलाचलनप्रयोगैः तयोः पित्रोः मुदं वर्धयति स्म ।
     सीo- क्वचिदिति । स बालः कुमारः क्वचित्प्रदेशे स्खलद्भिः पतद्भिः क्वचित्प्रदेशेऽस्खलद्भिः क्वचिद्देशे प्रकम्पैः प्रकृष्टकम्पैः क्वचित्प्रेदेशेऽप्रकम्पैर्लीलया ये चलनप्रयोगास्तैर्निमित्तभूतैस्तयोः पित्रोर्जननीजनकयोः । माता च पिता च पितरौ तयोः पित्रोः । `पिता मात्रा' इत्येकशेषः । स मुदं प्रीतिं वर्धयति स्म । `कन्दलयांचकार' इत्यपि पाठः । अर्थः स एव ।। ११.४२ ।।


अहेतुहासच्छुरिताननेन्दुर्गृहाङ्गण(१)क्रीडनधूलिधूम्रः ।
मुहुर्वदन्किचिदलक्षितार्थं मुदं तयोरङ्कगतस्ततान ।। ११.४३ ।।

{१.गेहाङ्गण.}
     अन्वयः- गृहाऽङ्गणक्रीडनघूलिधूम्रः अङ्कगतः (कुमारः) अहेतुहासच्छुरिताननेन्दुः अलक्षिताऽर्थं मुहुः किञ्चित् वदन् तयोः मुदं ततान ।
     सीo- अहेत्विति । गृहाङ्गणे यत्क्रीडनं तेन निमित्तेन धूलिभी रजोभिर्धूम्रो धूसरः सन्नङ्कगत उत्सङ्गं प्राप्तः कुमारः । अहेतुरकारणो यो हासो हसितं तेन च्छुरितो मिश्रित आननेन्दुर्मुखचन्द्रो यस्य । अलक्षितार्थमव्यक्तार्थं मुहुः किंचिद्वदंस्तयोर्मुदं प्रीतिं ततान चकार ।। ११.४३ ।।


गृह्णन्विषाणे हरवाहनस्य स्पृशन्नुमा (२)केसरिणं सलीलम् ।
स भृङ्गिणः सूक्ष्मतरं शिखग्रं कर्षन्बभूव प्रमदाय पित्रोः ।। ११.४४ ।।

{२.केसरिणः सटालीः.}
     अन्वयः- स हरवाहनस्य विषाणे गृह्णन् उमाकेसरिणं सलीलं स्पृशन् भृङ्गिणः सूक्ष्मतरं शिखाऽग्रं स्पृशन् पित्रोः प्रमदाय बभूव ।
     सीo- गृङ्णान्निति । स कुमारः । हरवाहनस्य वृषस्य विषाणे श्रृङ्गे गृह्णन् । कराभ्यामिति शेषः । तथोमाकेसरिणं पार्वतीसिंहं सलीलमप्रयासं यथा तथा स्पृशन् । तथा भृङ्गिणोगणस्य सूक्ष्मतरं शिखाग्रं कर्षन् । पित्रोर्जननीजनकयोः प्रमदाय हर्षाय बभूव । क्रियाग्रहणात्संप्रदानत्वम् ।। ११.४४ ।।


एको नव द्वौ दशा पञ्च सप्तेत्यजीगणन्ना(१)त्ममुखं प्रसार्य ।
महेशकण्ठोरगदन्तपङ्क्तिं (२)तदङ्कगः शैशव(३)मौग्ध्यमैशिः ।। ११.४५ ।।

{१.मञ्जु.२.तदङ्गः.३.नुन्नमीतिः,मुग्धमैशिः.}
     अन्वयः-- तदङ्कगः ऐशिः आत्ममुखं प्रसार्य महेशकण्ठोरगदन्तपङ्क्तिम् एको नव द्वौ दश पञ्च सप्त इति शैशवमौग्ध्यं (दधानः) अजीगणत् ।
     सीo- एक इति । तस्य पितुरङ्कग उत्सङ्गगत एशिः । ईशस्यापत्यमित्यर्थः । `अत इञ्' इत्यपत्यार्थ इञ् । आत्ममुखंप्रसार्य महेशस्य ये कण्ठोरगाः सर्पास्तेषां दन्तपङ्क्तिम् । एको नव द्वौ दश पञ्च सप्तेत्यजीगणत्संख्यातवान् । यतः शैशवमौग्ध्यं बालत्वनिमित्तमूढतां दधानः । अजीगणदिति गणतेर्लुङ् । `ई चगणः' इत्यभ्यासाकारस्येकारः ।। ११.४५ ।।


कपर्दिकण्ठान्तकपालदाम्नोऽङ्गुलिं प्रवेश्याननकोटरेषु ।
दन्तानुपात्तुं रभसी बभूव मुक्ताफलभ्रान्तिकरः(४) कुमारः ।। ११.४६ ।।

{४.करान,धरः.}
     अन्वयः-- कुमारः कपर्दिकण्ठाऽन्तकपालदाम्नः आननकोटरेषु अङ्गुलिं प्रवेश्य मुक्ताफलभ्रान्तिकरः दन्तान् उपात्तुं रभसी बभूव ।
     सीo- कपर्दीति । कुमारः कार्तिकेयः कपर्दिकण्ठान्ते शिवकण्ठमध्ये स्थितस्य कपालदाम्नो नृकरोटीस्रज आननकोटरेषु वदनकूपेषु । `कोटरो नागरे कूपे पुष्करिण्युच्चघाटके' । इति मेदिनी । अङ्गुलिं प्रवेश्य दन्तानुपात्तुं ग्रहीतुं रभसी रभसो वेगोऽस्यास्तीति तथोक्तः । `रभसो वेगहर्षयोः' । इति मेदिनी । बभूव । एतान्वेगेन गृह्णामीत्यैच्छदित्यर्थः, यतो मुक्ताफलभ्रान्तिकरो मौक्तिकभ्रमकारी ।। ११.४६ ।।


शंभोः शिरोऽन्तःसरितस्तरङ्गान्विगाह्य गाढं शिशिरान्नसेन ।
(१)स जातजाड्यं निजपाणिपद्ममतापयद्भालविलोचनाग्नौ ।। ११.४७ ।।

{१.संजातजाड्यः.}
     अन्वयः- स शिशिरान् शम्भोः शिरोऽन्तः सरितः तरङ्गान् रसेन गाढं विगाह्य जातजाड्यं निजपाणिपद्मं भालविलोचनाऽग्नौ अतापयत् ।
     सीo- शंभोरिति । स कुमारः । शिशिराञ्छीतलाञ्छंभोः संबन्धिनः शिरसोऽन्तर्मध्ये स्थितायाः सरितो गङ्गायास्तरङ्गान्रसेन स्वादेन । स्वादोत्र त्वगिन्द्रियग्राह्यत्वेन विवक्षितः । `रसो गन्धरसे जले । श्रृङ्गारादौ विषे वीर्ये तक्रादौ द्रव्यरागयोः । देहधातुप्रभेदे च पारदस्वादयोः पुमान्' । इति मेदिनी । गाढं दृढम् । `गाढबाढदृढानि च' । इत्यमरः । विगाह्यावगाह्य । अत एव जातजाड्यं जातशीतकृतजडत्वं निजपाणिपद्मं स्वीयकरकमलं भाले यद्विलोचनं तत्र योऽग्निस्तत्रातापयत् । अन्योऽपि शीतजडं हस्तमग्नौ तापयति तद्वदिति भावः ।। ११.४७ ।।


किंचित्कलं (२)भङ्गुरकन्धरस्य नमज्जटाजूटधरस्य शंभोः ।
प्रलम्बमानं किल कौतुकेन चिरं चुचुम्बे मुकुटेन्दुखण्डम् ।। ११.४८ ।।

{२.भङ्गुरकण्ठरम्य.}
     अन्वयः- किञ्चित् भङ्गुरकन्धरस्य (स कुमारः) नमज्जटाजूटधरस्य शम्भोः प्रलम्बमानं कलं मुकुटेन्दुखण्डं कौतुकेन चिरं चुचुम्बे किल ।
     सीo- किंचिदिति । किंचिद्भङ्गुरा पतनशीला । `भञ्जभासमिदो धुरच्' इति धुरच् । `चजोः' इति कुत्वम् । कन्धरा ग्रीवा यस्य । बालत्वात् स कुमारो नमज्जटाजूटस्य धरस्तस्य शंभोर्हरस्य शंभोर्हरस्य प्रलम्बमानमाश्रयमाणं कलं मधुरं मुकुटेन्दुखण्डं मुकुटचन्द्रशकलम् । `भित्तं शकलखण्डे वा' इत्यमरः । कौतुकेनानन्देन चिरं बहुकालं चुचुम्बे । पस्पर्शेत्यर्थः ।। ११.४८ ।।


इत्थं शिशोः (३)शैशवकेलिवृत्तैर्मनोभिरामैर्गिरिजागिरीशौ ।
(४)मनोविनोदैकरसप्रसक्तौ दिवानिशं नाविदतां कदाचित् ।। ११.४९ ।।

{३.कनव.४.मुदा.}
     अन्वयः- गिरिजागिरीशौ मनोऽभिरामैः इत्थं शिशोः शैशवकेलिवृत्तैः मनोविनोदैकरसप्रसक्तौ कदाचित् (अपि) दिवानिशं न अविदताम् ।
     सीo- इत्थमिति । गिरिजागिरीशौ मनोभिरामैर्मनोरमैरित्थमेवंभूतैः शिशोः कुमारस्य शैशवस्य बाल्यस्य याः केलयस्यासां वृत्तैश्चरित्रैः । `वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले' इत्यमरः । मनसो विनोदस्तत्र य एको रसः प्रीतिस्तत्र प्रसक्तावासक्तौ सन्तौ कदाचिदपि दिवानिशमहर्निशं नाविदतां नाबुध्येताम् । अगाधपुत्रोत्सवार्णवमग्नत्वादिति भावः ।। ११.४९ ।।


इति बहुविधं बालक्रीडाविचित्रविचेष्टितं

ललितललितंसान्द्रानन्दं मनोहरमाचरन् ।
अलभत परां (१)बुद्धिं षष्ठे दिने नवयौवनं

स किल सकलं शास्त्रं शस्त्रं विवेद (२)विभुर्यया ।। ११.५० ।।

{१.वृद्धिम्.२.विभोरपि.}
     अन्वयः- इति बहुविधं ललितललितं सान्द्रानन्दं मनोहरं बालक्रीडाविचित्रविचेष्टितम् आचरन् विभुः स षष्ठे दिने परां बुद्धिं नवयौवनं च अलभत यया सकलं शास्त्रं-शस्त्रं (च) विवेद किल ।
     सीo- इतीति । इत्येवंभूतं बहुविधं नाना प्रकारकं ललितललितं ललितप्रकारमतिसुन्दरं सान्द्र आनन्दो येन । मनोहरं बालक्रीडाया विचित्रं विचेष्टितं चेष्टाम् । चरित्रमिति यावत् । आचरन्विदधद्विभुः स कुमारः षष्ठे दिने परामुत्कृष्टां बुद्धि धिषणां नवयौवनं तारुण्यं चालभत प्राप । यया बुद्ध्या सकलं समस्तं शास्त्रम् । सकलानि शास्त्राणीत्यर्थः । शस्त्रम् । शस्त्राणीत्यर्थः । उभयत्रापि जातावेकवचनम् । विवेद ज्ञातवान् । किलेति प्रसिद्धौ । प्राचीनसत्संस्काराणां किमिवाशक्यमिति भावः । हरिणीच्छन्दः-- `रसयुगहयैर्न्सौ म्रौ म्लौ गो यदा हरिणी तदा' । इति लक्षणात् ।। ११.५० ।।


इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-

कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ

कुमारसंभवे महाकाव्ये कुमारोत्पत्तिर्नामैकादशः सर्गः ।।