कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)/षोडशः सर्गः(सैन्यसङ्ग्रामः)
← पञ्चदशः सर्गः(सुरसैन्यसङ्घट्टः) | कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५) षोडशः सर्गः(सैन्यसङ्ग्रामः) कालिदासः |
सप्तदशः सर्गः(तारकासुरवधः) → |
षोडशः सर्गः।
अथेति ॥ अथ सुरासुरसंमेलनानन्तरम् । भयंकरैर्भयमुत्पादयद्भिः । अन्योन्यं परस्परं विमुक्तानि प्रहर्तुं विसृष्टान्यस्त्रशस्त्राणां शरादिमोहनादीनां जालानि समूहास्तैः कृत्वा । सुनासीर इन्द्रः, सुरारिस्तारकः, तयोर्बले सैन्ये तयोः । 'बलं गन्धरसे रूपे स्थामनि स्थौल्यसैन्ययोः' इति विश्वः । महद्धौरं युद्धं सङ्ग्राम आसीद्बभूव । सर्गेऽस्मिन्वृत्तमनुष्टुप् ॥ १ ॥
पत्तिः पत्तिमभीयाय रणाय रथिनं रथी ।
तुरंगस्थं तुरंगस्थो दन्तिस्थं दन्तिनि स्थितः ॥ २ ॥
पत्तिरिति ॥ पत्तिः पादचारी पत्तिं पादचारिणम्, रथी रथारूढो रथिनं रथारूढम्, तुरंगस्थोऽश्ववाहस्तुरंगस्थमश्ववाहम्, दन्तिनि गजे स्थितो दन्तिस्थं गजारोहम्, रणाय रणं कर्तुमभीयाय संमुखमगमत् । अत्र प्रत्येकं क्रियासंबन्धो विधेयः, अन्यथा बहुत्वप्रसङ्गः ॥ २ ॥
युद्धाय धावतां धीरं वीराणामितरेतरम् ।
वैतालिकाः कु[३]लाधीशा नामान्यलमुदाहरन् ॥ ३ ॥
युद्धायेति ॥ इतरेतरं परस्परं युद्धाय युद्धं कर्तुं धीरं गम्भीरं यथा तथा धावतां विद्रुवतां वीराणां योद्धॄणां नामानि कुलाधीशाः कुलस्वामिनः, कुलप्रदीपा इति यावत् । अनेन स्वात्मविद्यायामतिप्रावीण्यं व्यज्यते । वैतालिका बन्दिनः । अलं भूषणम्, शोभेति यावत् । यथा स्यात्तथोदाहरन्नूचुः । 'अयममुकसंज्ञको वीरो धावति, अयममुकसंज्ञको वीरो धावति' इत्येवंभूतं जगदुरित्यर्थः । आत्मपरावबोधार्थमिति भावः ॥ ३ ॥
पठतामिति ॥ प्रवीराः प्रकृष्टयोद्धारो विक्रमावलीं पराक्रमसमाहारं पठतां स्तुवताम् 'साधु पराक्रान्तम्, साधु पराक्रान्तम्' इति वदतां बन्दिवृन्दानां वैतालिकसमूहानां पुरोऽग्रे चित्तानि मनांसि क्षणं विलम्ब्य ददुः । यतो युद्धोत्सुकाः समरोत्कण्ठिताः, समरोत्कण्ठितमनोदानाभावो न श्रवणेन्द्रियस्य
केवलस्यैवार्थबोधासंभवात् ॥ ४ ॥ सङ्ग्रामानन्दवर्धिष्णौ विग्रहे पुलकाञ्चिते ।
आसीत्कवचविच्छेदो वीराणां मिलतां मिथः ॥५॥
सङ्ग्रामेति ॥ सङ्ग्रामानन्देन समरोत्साहेन वर्धिष्णौ वृद्धिशीले अत एव पुलकाञ्चिते रोमाञ्चव्याप्ते मिथो मिलतां संगच्छमानानां वीराणां योद्धॄणां विग्रहे शरीरे । जातावेकवचनम् । कवचानां वारणानां विच्छेदो विभेद आसीत् ॥ ५ ॥
निर्दयं खड्गभिन्नेभ्यः कवचेभ्यः समुत्थितः ।
आसन्व्योमदिशस्तूलैः पलितैरिव पाण्डुराः ॥ ६ ॥
निर्दयमिति ॥ निर्दयं निष्कृषं खड्गभिन्नेभ्यः करवालविदीर्णेभ्यः कवचेभ्यः सकाशात्समुत्थितैरुड्डयितैस्तूलैः कार्पासैः । 'तूलः पिचौ भवेत्तूलं ब्रह्मदारुविहायसोः' इति विश्वः । पलितैरिव जराजनितशुक्लत्वैरिव । 'पलितं जरसा शौक्ल्यम्' इत्यमरः । व्योमसहिता दिशः पाण्डुराः श्वेता आसन् । उत्प्रेक्षया कवचविच्छेदेऽपि वीराणां युद्धविषयक उत्साहो न विच्छिन्न इति ध्वन्यते । अतोऽलंकारेण, वस्तुध्वनिः ॥ ६॥
खड्गा रुधिरसंलिप्ताश्चण्डांशुकरभासुराः ।
इतस्ततोऽपि वीराणां विद्युतां वैभवं दधुः ॥ ७ ॥
खड्गा इति ॥ रुधिरेण संलिप्ताः । तथेतस्ततश्चण्डांशुकरैः सूर्यकिरणव्यतिकरैर्भासुराश्चमत्कुर्वन्तो वीराणां खङ्गा विद्युतां तडितां वैभवं सादृश्यं दधुः, तद्वच्छुशुभिर इत्यर्थः । अत्रोपमया खङ्गानां वीरकरसंपर्कजनितपरिकम्पचमत्कारकारित्वं ध्वन्यते । अतोऽत्राप्यलंकारेण वस्तुध्वनिः । तथा वीरकरसंपर्कजनितपरिकम्पचमत्कारकारित्वरूपव्यङ्ग्येन प्रतिद्वन्द्विविहननजनितद्विगुणोत्साहवत्त्वं च व्यज्यते ॥७॥
विसृजन्तो मुखैर्ज्वाला भीमा इव भुजंगमाः ।
विसृष्टाः सुभटै रुष्टैर्व्योम व्यानशिरे शराः ॥ ८॥
पाठा०-१ पुलकाङ्किते. २ धीराणाम्. ३ समुच्छ्रितैः. ४ स्थूलैः, ५ पतितैः ६ पिञ्जराः. ७ वैद्युतम् ; विद्युतः. ८ तुष्टैः; तुङ्ग. ९ असुराः, विसृजन्त इति ॥ रुष्टैः सुभटैः शोभनयोद्धुभिर्विसृष्टा विमुक्ताः शरा बाणाः । मुखैरग्रैर्ज्वाला उल्का विसृजन्तो मुञ्चन्तः । अत एव भीमा भयानका भुजंगमा इवेत्युत्प्रेक्षा । व्योम कर्म । व्यानशिरे व्यापुः । अत्र सुभटकर्तृकविसर्जनव्यापारपूर्वकव्योमव्याप्त्या प्राग्भाविताविशिष्टशत्रुविग्रहभेदनं ध्वन्यते । अन्यथा व्योमव्याप्तिमात्रस्यैव विवक्षितत्वेन व्यापृतेर्व्यर्थत्वमुद्भाव्येत । तेनात्र वस्तुना वस्तुध्वनिः ॥ ८॥
बाढं वपूंषि निर्भिद्य धन्विनां निघ्नतां मिथः ।
अशोणितमुखा भूमिं प्राविशन् दूरमाशुगाः ॥ ९ ॥
बाढमिति ॥ मिथोऽन्योन्यं दूरमतिशयेन निघ्नतां प्रहरतां धन्विनां धनुर्धारिणां वपूंषि गात्राणि बाढं गाढम् , दृढमिति यावत् । निर्भिद्याप्यशोणितमुखाः शोणितसाहित्यराहित्यवन्ति मुखान्यग्राणि येषां त आशुगा बाणा भूमिं प्राविशन् प्रविष्टाः । अत्र विभेदका अप्यशोणितमुखा इति विरोधाभासालंकारेण बाणानामतिशीघ्रगामित्वरूपवस्तुध्वनिः । न च शीघ्रमेव व्यञ्जनीयमिति वाच्यम् ; आशुगा इत्यनेनैव तदभिहितत्वात् ॥ ९॥
निर्भिद्य दन्तिनः पूर्वं पातयामासुराशुगाः ।
पेतुः प्रवरयोधानां प्रीतानामाहवोत्सवे ॥ १० ॥
निर्भिद्येति ॥ आहवोत्सवे सङ्ग्रामरूपोत्सवे प्रीतानां प्रवरयोधानामतिश्रेष्ठयोद्धॄणां संबन्धिन आशुगा बाणा दन्तिनो गजान्निर्भिद्य भेदयित्वा पूर्वं पातयामासुः । पश्चात्स्वयमपि पेतुः । अत्र वाक्यार्थरूपवस्तुना प्राणापहारकं तेषामतितैक्ष्ण्यं वस्तु ध्वन्यत इति वस्तुना वस्तुध्वनिः ॥ १० ॥
ज्वलदग्निमुखैर्बाणैर्नीरन्ध्रैरितरेतरम् ।
उच्चैर्वैमानिका व्योम्नि कीर्णे दूरमपासरन् ॥ ११ ॥
ज्वलदिति ॥ ज्वलदग्निमुखैः प्रज्वलद्वह्निसहिताः । तथेतरेतरं परस्परं नीरन्ध्रैर्निर्गतावकाशैः, परस्परसंघट्टितैरिति तात्पर्यार्थः । बाणैः शरैः । उच्चैरतिशयितं यथा तथा कीर्णे व्याप्ते व्योम्नि वैमानिका विमानचारिणो देवा विष्ण्वादयो दूरमपासरन्दुद्रुवुः । आत्मशरीरसंबन्धशङ्काकुलत्वादिति भावः ॥ ११॥
पाठा०-१ गाढम्. २ निर्भेद्य. ३ कीर्णैः. विभिन्न धन्विनां बाणैर्व्यथार्तमिव विह्वलम् ।
ररास विरसं व्योम श्येनप्रतिरवच्छलात् ॥ १२ ॥
विभिन्न मिति ॥ धन्विनां बाणैर्विभिन्नं विदीर्णम् । अत एव व्यथार्तं पीडया दुःखितम् । अत एव विह्वलम्, इतिकर्तव्यताविस्मरणाश्रयमित्यर्थः । व्योम नभः श्येनप्रतिरवस्य पक्षिविशेषप्रतिध्वनेश्छलान्मिषेण विरसं कठोरं यथा तथा ररासेव रुरोदेवेत्युत्प्रेक्षालंकारः ॥ १२ ॥
चापैराकर्णमाकृष्टैर्विमुक्ता दूरमाशुगाः ।
आधावन्रुधिरास्वादलुब्धा इव रणैषिणाम् ॥ १३ ॥
चापैरिति ॥ आकर्णं कर्णपर्यन्तमाकृष्टै रणैषिणां योद्धॄणां संबन्धिभिश्चापैर्धनुर्भिर्विमुक्ता विसृष्टा आशुगाः शरा रुधिरास्वादे लुब्धा लम्पटा इव दूरमधावन्विद्रुताः । लम्पटोऽपि भोजनास्वादाय द्रुतं पलायते तद्वत् ॥ १३ ॥
गृहीताः पाणिभिर्वीरैर्विकोशाः खड्गराजयः ।
कान्तिजालच्छलादाजौ व्यहसन्संमदादिव ॥ १४ ॥
गृहीता इति ॥ आजौ सङ्ग्रामे वीरैः कर्तृभिः । पाणिभिर्गृहीताः । तथा विकोशाः कोशरहिताः । 'कोशोऽस्त्री कुड्मले पाले दिव्यखड्गपिधानके' इति मेदिनी । खड्गराजयः करवालपतयः कान्तिजालच्छलाद्दयुतिसमूहकैतवेन संमदाद्वीराणामपि शत्रुविघातसाधने वयमेव यथोचितास्तथा नान्य इति प्रमोदाद्व्यहसन्निव जहसुरिवेत्युत्प्रेक्षा ॥ १४ ॥
खड्गाः शोणितसंदिग्धा नृत्यन्तो वीरपाणिषु ।
रजोघने रणेऽनन्ते विद्युतां वैभवं दधुः ॥१५॥
खड्गा इति ॥ शोणितसंदिग्धा रुधिरसंलिप्ताः । तथा वीरपाणिषु नृत्यन्तः खड्गाः। रजसा घने सान्द्रे । तथानन्तेऽपारे रणे विद्युतां वैभवं दधुः, तद्वच्छुशुभिर इत्यर्थः । अत्र पदार्थवृत्तिनिदर्शनालंकारः ॥ ५५ ॥
पाठा०-१ यथार्थमिव विह्वलम् ; वेश्याया इव विह्वलम् ; विशाख इव विह्वली. २ सेनापतिरवच्छलात् ; सेनापतिरिव च्छलात्. ३ कान्तिजालच्छलादाजौ
व्यहसन्समदा इव; कान्त्याननच्छलादाजेर्व्यहसन्सुमदा इव; कान्त्या जनच्छलादानैर्व्यहसन्प्रमदा इव. ४ रजोघनरणे. ५ विभ्रमम्. कुन्ताश्चकाशिरे चण्डमुल्लसन्तो रणार्थिनाम् ।
जिह्वाभोगा यमस्येव लेलिहाना रणाङ्गणे ॥ १६ ॥
कुन्ता इति ॥ रणाङ्गणे सङ्ग्रामचत्वरे चण्डं प्रचण्डं यथा तथोल्लसन्तो दीप्यमानाः कुन्ताः प्रासाः, भल्ला इति यावत् । 'कुन्तः प्रासे चण्डभावे क्षुद्रजन्तौ गवेधुके' इति विश्वः । लेलिहानाः पुनःपुनरतिशयेन वा लिहन्ति ते लेलिहानाः, आस्वादयन्त इत्यर्थः । लिहेर्यङन्ताच्छानच् । यमस्य जिह्वाभोगा इव रसनारूपयन्त्राणीव । 'आभोगो वरुणच्छन्ने पूर्णतायन्त्रयोरपि' इति विश्वः । चकाशिरे दिद्युतिरे ॥ १६॥
प्रज्वलत्कान्तिचक्राणि चक्राणि वरचक्रिणाम् ।
चण्डांशुमण्डलश्रीणि रणव्योमनि बभ्रमुः ॥ १७ ।।
प्रज्वलदिति ॥ प्रज्वलत्प्रदीप्यमानं कान्तिचक्रं द्युतिमण्डलं येषां तानि । तथा चण्डांशुमण्डलस्य सूर्यमण्डलस्य श्रीरिव श्रीः शोभा येषां तानि । वराः श्रेष्ठा ये चक्रिणो योधास्तेषां संबन्धीनि चक्राण्यायुधविशेषाः । 'चक्रो गणे चक्रवाके चक्रं सैन्यरथाङ्गयोः । ग्रामजाले कुलालस्य भाण्डे राष्ट्रास्त्रयोरपि' इति विश्वः । रणव्योमनि सङ्ग्रामरूपगगने बभ्रमुः । 'वा जभ्रमुत्रसाम्' ( पा. ६।४।१२४ ) इत्येत्वाभ्यासलोपयोर्विकल्पः । व्याख्यानान्तरम्-वरचक्रिणां वराणां वीराणां ये चक्रिणो रथास्तेषां चक्राण्यङ्गानि रणव्योमनि बभ्रमुः । विशेषणद्वयमुभयत्रापि समानम् ॥ १७ ॥
केचिद्धीरैः प्रणादैश्च वीराणामभ्युपेयुषाम् ।
निपेतुः क्षोभतो वाहादपरे मुमुहुर्मदात् ।। १८ ।।
केचिदिति ॥ अभ्युपेयुषां संमुखमागतवतां वीराणां धीरैर्गम्भीरैः प्रणादैर्गर्जितैः केचिद्वीराः क्षोभतश्चित्तसंचलनाद्धेतोर्वाहादश्वान्निपेतुर्मुमूर्च्छुः । अपरे केचिन्मदाद्गर्वान्मुमुहुः, चेतनाविरहिता बभूवुरित्यर्थः ॥ १८ ॥
पाठा०-१ रणार्पिताः. २ जिह्वाभागा. ३ रणक्षये; रणाजिरे, ४ वक्राणि.
५ चण्डेषुमण्डल. ६ घोरैः. ७ तु. ८ वाहा न. कश्चिदभ्यागते वीरे जिघांसौ मुदमादधौ ।
परावृत्य गते क्षुब्धे विषसादाहवप्रियः ॥१९॥
कश्चिदिति ॥ कश्चिद्वीरो जिघांसौ हन्तुमिच्छौ वीरेऽभ्यागते संमुखमागते सति । मुदमादधौ प्रससाद । अथ च क्षुब्ध एतदीयप्रहारक्षुभितेऽत एव परावृत्य गते तु विषसाद खिन्नोऽभूत् । यत आहवप्रियः सङ्ग्रामप्रियः । वीराणां प्रतिद्वन्द्विसंमुखागमनमेव प्रोतिजनकं भवतीति भावः ॥ १९ ॥
बहुभिः सह युद्ध्वा वा परिभ्रम्य रणोल्बणाः ।
उद्दिश्य तानुपेयुः केऽपि ये पूर्ववृता रणे ॥ २० ॥
बहुभिरिति ॥ रण उल्बणा उद्भटाः केऽपि योधा रणे सङ्ग्रामे बहुभिः सह युद्ध्वा परिभ्रम्य वा तानुद्दिश्योपेयुर्युद्धार्थमभिजग्मुः । ये पूर्वं वृता अङ्गीकृताः । यैः सह पूर्वमयोधि तैरेव सह पुनरपि योद्धुं जग्मुरित्यर्थः ॥ २० ॥
अभितोऽभ्यागतान्योद्धुं वीरान्रणमदोद्धतान् ।
प्रत्यनन्दन्भुजादण्डरोमोद्गमभृतो भटाः ॥ २१ ॥
अमित इति ॥ भुजादण्डेषु यो रोम्णामुद्गमस्तं विभ्रति तथाभूता भटा योधाः कर्तारः रणस्य सङ्ग्रामस्य मदनोद्धतान् । अत एव योद्धुमभितोऽभ्यागतान्वीरान् , आलोक्येति शेषः । प्रत्यनन्दन्नहृष्यन् ॥ २१ ॥
शस्त्रभिन्नेभकुम्भेभ्यो मौक्तिकानि च्युतान्यधः ।
अध्याहवक्षेत्रमुप्तकीर्तिबीजाङ्कुरश्रियम् ॥ २२ ॥
शस्त्रेति ॥ शस्त्रभिन्ना विदीर्णा य इभकुम्भा गजगण्डस्थलानि । 'कुम्भः स्थाकुम्भकर्णस्य सुते वेश्यापतौ घटे । राशिभेदे द्विपाङ्गे च' इति विश्वः । तेभ्योऽधः युतानि मौक्तिकानि कर्तॄणि । अध्याहवक्षेत्रमधिसङ्ग्रामकेदारम् । उप्तम् । पाठा०-१ क्षुब्धः; क्षुद्रे. २ सहयुध्वानः. ३ नामग्राहमुपेयुः केऽप्यग्रे पूर्ववृता वयम्. ४ अप्यागतान्. ५ योधी. ६ मदोल्बणान् ; मदोद्धताः. ७ प्रत्यघ्नंस्तद्भुजादण्डे रोमोद्गमभृतो मदात्. ८ अधुः. ९ आहवक्षेत्रमभ्युप्तकीर्तिबीजोत्करश्रियम्, 'टुवप् बीजसंताने' इत्यतो निष्ठा । यत्कीर्तिबीजं यशोरूपमहीरुहबीजं तस्याङ्कुरस्तस्य श्रियं शोभाम्, दधुरिति शेषः ॥ २२ ॥
वीराणां विषमैर्घोषैर्विद्रुता वारणा रणे ।
शास्यमाना अपि त्रासाद्भेजुर्धूताङ्कुशा दिशः ॥ २३ ॥
वीराणामिति ॥ रणे विषमैर्दुःसहैर्वीराणां घोषैर्विद्रुताः पलायिता वारणा गजाः शास्यमानाः शिष्यमाणा अपि, यन्तृभिरिति शेषः । धूताङ्कुशा अपमानिताङ्कुशाः सन्तस्त्रासाद्दिशो भेजुः । तॄफलभज-' (पा. ६।४।१२२ ) इत्येत्वाभ्यासलोपौ । दिशः प्रति पलायांचक्रिरे ॥ २३ ॥
रणे बाणगणैर्भिन्ना भ्रमन्तो भिन्नयोधिनः ।
निममज्जुर्मिलद्रक्तनिम्नगासु महागजाः ॥ २४ ॥
रण इति ॥ रणे सङ्ग्रामे बाणगणैः शत्रुशरनिकरैर्भिन्नयोधिनो विदीर्णयन्तारः । अत एव स्वयमपि भिन्ना अत एव भ्रमन्तो महागजा मिलन्त्यः संयुजन्त्यो या रक्तस्य निम्नगा नद्यस्तासु निममज्जः ॥ २४ ॥
अपारेऽसृक्सरित्पूरे रथेषूच्चैस्तरेष्वपि ।
रथिनोऽभिरिपुं क्रुद्धा हुंकृतैर्व्यसृजञ्शरान् ॥ २५ ॥
अपार इति ॥ उच्चस्तरेष्वपि रथेष्वपारेऽगाधेऽसृक्सरित्पूरे रुधिरनदीप्रवाहे मजत्सु सत्सु रथिनो रथारोहाः क्रुद्धाः । अत एव हुंकृतैः, भीषयन्त इति शेषः । अभिरिपुं शत्रुसंमुखं शरान्व्यसृजन्तत्यजुः ॥ २५ ॥
खड्गनिर्लूनमूर्धानो व्यापतन्तोऽपि वाजिनः ।
प्रथमं पातयामासुरसिना दारितानरीन् ॥ २६ ॥
खड्गेति ॥ खड्गनिर्लूनमूर्धानः करवालकृत्तशिरसः । अत एव वाजिनोऽश्वाद्यापतन्तोऽप्यसिना खड्गेन दारितान्विदीर्णानरीन् प्रथमं पातयामासुः, पुनः स्वयं पेतुरिति शेषः । अत्र 'दारयित्वासिना रिपून्' इति पाठः साधीयान् ॥ २६ ॥
पाठा०-१ गलत्. २ निमग्नाः सुमहागजाः. ३ अपरेऽस्रसरित्पूरे. ४ अभिरथि क्रुद्धा हुंकृतैः; अभिक्रुधा क्रुद्धहुंकृतैः. ५ व्यापतन्तः.
२२ कु. सं. वीराणां शस्त्रभिन्नानि शिरांसि निपतन्त्यपि ।
अधावन् दन्तदष्टोष्ठभीमान्यभिरिपुं क्रुधा ॥ २७ ॥
वीराणामिति ॥ शस्त्रभिन्नान्यत एव निपतन्त्यपि दन्तैर्दष्टाः पीडिता य ओष्ठा अधरास्तैर्भीमानि घोराणि वीराणां शिरांसि क्रुधाऽभिरिपुं वैरिसंमुखमधावन् ॥२७॥
शिरांसि वरयोधानामर्धचन्द्रहृतान्यलम् ।
आदधाना भृशं पादैः श्येना व्यानशिरे नभः ॥ २८ ॥
शिरांसीति ॥ अर्धचन्द्रहृतान्यर्धचन्द्राकारबाणकर्तितानि वरयोधानां शिरांसि। पादैरादधाना गृह्णन्तः श्येनाः पक्षिविशेषा भृशमतिशयेन नभो व्यानशिरे न्यापुः । सर्वस्मिन्नेव नभसि श्येननीतमस्तकान्येव जातानीति भावः ॥ २४ ॥
क्रोधादभ्यापदद्दन्तिदन्तारूढाः पदातयः ।
अश्वारोहा गजारोहप्राणान्प्रासैरपाहरन् ॥ २९ ॥
क्रोधादिति ॥ पदातयः पद्गतयोऽश्वारोहाश्च क्रोधाद्धेतोरभ्यापततां संमुखमागच्छतां दन्तिनां दन्तेष्वारूढाः सन्तः । प्रासैः कुन्तैर्गजारोहप्राणान् यन्तॄणामसूनपाहरन् ॥ २९॥
शस्त्रच्छिन्नगजारोहा विभ्रमन्त इतस्ततः ।
युगान्तवातचलिताः शैला इव गजा बभुः ॥ ३० ॥
शस्त्रेति ॥ शस्नैश्छिन्ना गजारोहा येषामत एवेतस्ततो विभ्रमन्तो गजाः । युगान्तवातैः प्रलयप्रभञ्जनैश्चलिता उत्पातिताः शैला इव बभुः शुशुभिरे ॥ ३० ॥ मिलितेषु मिथो योद्धुं दन्तिषु प्रसभं भटाः । अगृह्णन् युध्यमानाश्च शस्त्रैः प्राणान्परस्परम् ॥ ३१ ॥ मिलितेष्विति ॥ योद्धुं मिलितेषु दन्तिषु, आरूढा इति शेषः । भटा मिथोऽन्योन्यं युध्यमानाः प्रसभं बलाच्छस्त्रैः कृत्वा परस्परं प्राणानगृह्णन् ॥३१॥ पाठा०-१ भिन्नानाम्. २ दन्तदष्टौष्ठभीषणान्यरिषु. ३ अपि. ४ आददानाः. ५ दिशः.६ दन्तारूढेषु वाजिषु; दन्तारूढा नृवाजिषु. ७ अक्षारूढाः. ८
सहयुध्वानः. रुषा मिथो मिलद्दन्तिदन्तसंघर्षजोऽनलः ।
योधाञ्शस्त्रहृतप्राणानदहत्संहसारिभिः ॥ ३२ ॥
रुषेति ॥ रुषा क्रोधेन मिथोऽन्योन्यं मिलतां दन्तिनां ये दन्तास्तेषां संघर्षाज्जातोऽनलोऽग्निररिभिर्वैरिभिः शस्त्रैर्हताः प्राणा येषां तान्योधान् सहसाऽकस्माददहत्पुप्लोष ॥ ३२ ॥
आक्षिप्ता अपि दन्तीन्द्रः कोपनैः पत्तयः परम् ।
तदसूनहरन् खड्गघातः स्वस्य पुरः प्रभोः ॥ ३३ ॥
आक्षिप्ता इति ॥ परमतिशयितं कोपनैः क्रुद्वैर्दन्तीन्द्रैराक्षिप्ता अपि, आक्षेप्तुं शुण्डेन गृहीता अपीत्यर्थः । पत्तयः पादचारिणः स्वस्य प्रभोः पुरः खड्गघातैस्तदसून् दन्तीन्द्रप्राणानहरञ्जगृहुः ॥ ३३ ॥
उत्क्षिप्य करिभिर्दूरान्मुक्तानां योधिनां दिवि ।
प्रापि जीवात्मभिर्दिव्यां गतिर्वा विग्रहैर्मही ॥ ३४ ॥
उत्क्षिप्येति ॥ करिभिरुत्क्षिप्योत्थाप्य दिवि दूरान्मुक्तानां योधिनां जीवात्मभिर्जीवैः, प्राणैरिति यावत् । दिव्या स्वर्गीया गतिः प्रापि । विग्रहैर्देहैर्मही वा प्रापि प्राप्ता । कर्मणि लुङ्॥ ३४ ॥
खङ्गैर्धवलधारालैर्निहत्य करिणां करान् ।
तैर्भुवापि समं विद्वान्संतोषं न भटा ययुः ॥ ३५ ॥
खङ्गैरिति ॥ भटा योधा धवलधारालैर्धवलां धारां लान्ति गृह्णन्ति तैः, शुभ्रधारैरित्यर्थः । अद्वितीयैः खड्गैः कृत्वा भुवा पृथिव्या समं विद्धान्प्रहृतान्करिणां कराञ्शुण्डादण्डान्निहत्यापि लवित्वापि संतोषं तृप्तिं न ययुः, अन्यानपि निहन्मीति बुद्धिमन्तो बभूवुरित्यर्थः ॥ ३५ ॥
पाठा०-१ गजारूढान्. २ सह सादिभिः. ३ उत्क्षिप्ता. ४ हस्तीन्द्रः, ५ करैः. ६ ते रिपूनहनन् ; तद्रिपूनहरन्, ७ खड्गपातैः. ८ दूरम्. ९ दिवः. १० दिव्याङ्गनाकण्ठपरिग्रहः; दिव्याङ्गनैषां विग्रहैर्मही. ११ यैर्भुवा. १२ वृद्धं शस्त्र्या
तान्पत्तयोऽहरन्. आक्षिप्याभिदिवं नीताः पत्तयः करिभिः करैः ।
दिव्याङ्गनाभिरादातुं रक्ताभिर्द्रुतमीषिरे ॥ ३६ ॥
आक्षिप्येति ॥ करिभिः कर्तृभिः । करैर्दण्डैः कृत्वाक्षिप्योत्थाप्याभिदिवमाकाशसंमुखं नीताः प्रापिताः पत्तयः पादचारिणो रक्ताभिरनुरक्ताभिर्दिव्याङ्गनाभिर्द्रुतं शीघ्रमादातुं ग्रहीतुमीषिरे इष्टा बभूवुः । ‘अहमेतान्ग्रहीष्यामि, अहमेतान्ग्रहीष्यामि' इति त्वरिता बभूवुः ॥ ३६ ।।
धन्विनस्तुरगारूढा गजारोहाञ्शरैः क्षतान् ।
प्रत्यैच्छन्मूर्च्छितान्भूयो योद्धुमाश्वसतश्चिरम् ॥ ३७॥
धन्विन इति ॥ तुरगारूढा धन्विनो धनुर्धारिणो योधाः शरैः क्षतान् । अत एव मूर्च्छितान्गजारोहान्यन्तॄन् भूयोऽपि पुनरपि योद्धुमाश्वसतो जीवत एतादृशांश्चिरं प्रत्यैच्छन् , प्रतीक्षन्ते स्मेत्यर्थः ॥ ३७॥
क्रुद्धस्य दन्तिनः पत्तिर्जिघृक्षोरसिना करम् ।
निर्भिद्य दन्तमुसलावारुरोह जिघृक्षया ॥ ३८ ॥
क्रुद्धस्येति ॥ पत्तिः पादचारी कश्चिद्योधः क्रुद्वस्यात एव जिघृक्षोर्ग्रहीतुमिच्छोर्दन्तिनः करं दन्तगोरधोभागम् । असिना निर्भिद्य छित्त्वा जिघृक्षया प्रत्युत तस्यैव ग्रहीतुमिच्छया दन्तमुसलावारुरोहारूढवान् ॥ ३८ ॥
खड्गेन मूलतो हत्वा दन्तिनो रदनद्वयम् ।
प्रातिपक्ष्ये प्रविष्टोऽपि पदातिर्निरगाद्रुतम् ।। ३९ ॥
खड्गेनेति ॥ प्रातिपक्ष्ये शत्रुसंवन्धिनि सैन्ये प्रविष्टोऽपि पदातिः पादचारी दन्तिनो गजस्य रदनद्वयं दन्तद्वयं खड्गेन कृत्वा मूलतो मूलाद्धत्वा भित्त्वा द्रुतं निरगान्निश्चक्राम । शत्रुसैन्यप्रविष्टस्य मरणमेव ध्रुवम् , तदस्य विपरीतमभूदित्यपिना द्योत्यते ॥ ३९॥
करेण करिणा वीरः सुगृहीतोऽपि कोपिना ।
असिनासूञ्जहाराशु तस्यैव स्वयमक्षतः ॥ ४० ॥
पाठा०-१ उत्क्षिप्य. २ वृतमम्बरम् ; व्याप्तमम्बरम्. ३ प्रत्यैक्षन्. ४ करिणः. ५ दन्तमुसलान् ; दन्तमुसलेन. ६ आमूलतः. ७ अङ्गिचतुष्टयम्. ८ प्रपतिष्णोः. करेणेति ॥ कोपिना क्रुद्धेन करिणा दन्तिना कर्त्रा । करेण कृत्वा सुतरां गृहीतोऽपि वीरोऽसिना खड्गेन तस्यैव करिण एवासून्प्राणाञ्जहार हृतवान् । स्वयमक्षतोऽभूत् ॥४०॥
तुरंगी तुरगारूढं प्रासेनाहत्य वक्षसि ।
पततस्तस्य नाज्ञासीत् प्रासघातं स्वके हृदि ॥४१॥
तुरंगीति ॥ तुरंग्यश्वारोहः कश्चिद्योद्धा तुरगारूढमश्ववारं प्रासेन कुन्तेन वक्षस्याहत्य ताडयित्वा पततस्तस्याश्ववारस्य कर्तृकं स्वक आत्मीये हृदि प्रासघातं कुन्तक्षतं नाज्ञासीन्न विजज्ञे, तदीयपतनजानन्दस्योद्वेलत्वादिति भावः ॥४१॥
द्विषा प्रासहतप्राणो वाजिपृष्ठदृढासनः ।
हस्तोद्धृतमहाप्रासो भुवि जीवन्निवाभ्रमत् ॥ ४२ ॥
द्विषेति ॥ द्विषा शत्रुणा प्रासेन कृत्वा हृतप्राणो मारितः । तथा वाजिपृष्ठेऽश्वपृष्ठभागे दृढासनः । प्राग्दृढासनत्वान्मृतत्वे दृढत्वं युक्तम् । तथा हस्त उद्धृतो महाप्रासो येन तथाभूतः कश्चिज्जीवन्निव भुव्यभ्रमत्, अश्वभ्रमणवशाद्भ्रमञ्शवोऽशव इव लक्षित इति भावः ॥ ४२ ॥
तुरंगसादिनं शस्त्रहृतप्राणं गतं भुवि ।
अबद्धोऽपि महावाजी न साश्रुनयनोऽत्यजत् ॥ ४३ ॥
तुरंगेति ॥ अबद्धोऽप्यनिरुद्धोऽपि महावाजी महानश्वः साश्रुणी सबाष्पे नयने यस्य तथाभूतः सन् । शस्त्रहृतप्राणमत एव भुवि गतं तुरंगसादिनमश्ववारं नात्यजन्न जहौ, किंतु तज्जीवनमपेक्षमाणस्तत्रैव तस्थावित्यर्थः ॥ ४३ ॥
भल्लेन शितधारेण भिन्नोऽपि रिपुणाश्वगः ।
नामूर्च्छत् कोपतो हन्तुमियेष प्रपतन्नपि ।। ४४ ॥
भल्लेनेति ॥ रिपुणा कर्त्रा । शितधारेण तीक्ष्णधारेण भल्लेन भिन्नोऽपि
पाठा०-१ तुरगी. २ प्रासपातम्. ३ हस्तोद्धतमहाप्रासाः, ४ भटः, ५ अभवत्. ६ अन्त्राढ्यः; अन्त्राद्यः. ७ नात्रस्तनयनः, ८ खड्गेन. ९ च पतन् ; निपतन, विदारितोऽप्यश्वगस्तुरंगगामी कोपतः क्रोधवशानामूर्च्छन्न मुह्यति स्म, किंतु प्रपतन्नप्यश्वादधः स्रंसमानोऽपि रिपुं हन्तुमियेषैच्छत् ॥ ४४ ॥
मिथःप्रासाहतौ वाजिच्युतौ भूमिगतौ रुषा ।
शस्त्र्या युयुधतुः कौचित्केशाकेशि भुजाभुजि ॥ ४५ ॥
मिथ इति ॥ मिथोऽन्योन्यं प्रासेनाहतौ । अत एव वाजिभ्यां सकाशाच्च्युतावधः पतितौ । अत एव भूमिं गतौ कौचिद्योधौ रुषा युतौ सन्तौ शस्त्र्या खड्गपुत्र्या युयुधतुर्ययुधाते । अथ च केशाकेशि केशेषु केशेषु गृहीत्वा प्रवृत्तं यद्युद्धम् , भुजाभ्यां भुजाभ्यां प्रहृत्य प्रवृत्तं यद्युद्धं तदभूत् । 'तत्र तेनेदमिति सरूपे' ( पा. २।२।२७) इति सूत्रेण समासः ॥ ४५ ॥
रथिनो रथिभिर्बाणैर्हतप्राणा दृढासनाः।
क्षतकार्मुकसंधानाः सप्राणा इव मेनिरे ॥४६॥
रथिन इति ॥ रथिभी रथारोहैः कर्तृभिः । बाणैः कृत्वा हृतप्राणास्तथा दृढासनाः क्षतं नष्टं कार्मुकसंधानं धनुःसज्जीकरणं येषामेवंभूता रथिनो रथारोहाः सप्राणा इव जीवन्त इव मेनिरे मताः। कर्मणि लिट् । द्रष्टृभिरिति शेषः ॥ ४६॥
न रथी रथिनं भूयः प्राहरच्छस्त्रमूर्ञ्छितम् ।
प्रत्याश्वसन्तमन्विच्छन्नातिष्ठद्युधि लोभतः ॥४७॥
नेति ॥ रथी रथारोहः शस्त्रेण मूर्च्छितमचेतितं रथिनं भूयो न प्राहरत् । किंतु पुनरपि युधि लोभतो लोभेन । तृतीयार्थे तसिः। प्रत्याश्वसन्तं पुनरुज्जीवन्तमन्विच्छन्नपेक्षमाणः सन्नतिष्ठत् ॥ ४७ ॥
अन्योन्यं रथिनौ कौचिद्गतप्राणौ दिवङ्गतौ ।
एकामप्सरसं प्राप्य युयुधाते वरायुधौ ॥४८॥
अन्योन्यमिति ॥ वरायुधौ श्रेष्ठायुधौ कौचिद्रथिनावन्योन्यं परस्परेण कृत्वा
पाठा०-१ प्रासहतौ; प्रहारतः. २ शस्त्रैः. ३ कृत. ४ रेजिरे. ५ मत्वैनम्. ६ नागाद्युद्धमलोमतः. ७ हृतप्राणौ; हतप्राणो. गतप्राणौ गमितासू अत एव दिवङ्गतावेकामप्सरसं प्राप्य युयुधाते । 'अहमेतां ग्रहीष्यामि, अहमेतां ग्रहीष्यामि' इति वदन्तौ कलहं चक्रतुरित्यर्थः ॥ ४८ ॥
मिथोऽर्धचन्द्रनिर्लूनमूर्धानौ रथिनौ रुचा।
खेचरौ भुवि नृत्यन्तौ स्वकबन्धावपश्यताम् ॥ ४९ ॥
मिथ इति ॥ मिथोऽन्योन्यमर्धचन्द्रेण तदाकारबाणेन निर्लूनमूर्धानौ छिन्नमस्तकावत एव खेचरावाकाशचारिणौ रुचा कान्त्या युतौ कौचिद्रथिनौ रथारोहौ कर्तारौ । भुवि नृत्यन्तौ गात्रं विक्षिपन्तौ स्वकबन्धौ शिरोरहितस्वदेहौ कर्म । अपश्यतां दृष्टवन्तौ ॥ ४९ ॥
रणाङ्गणे शोणितपङ्कपिच्छिले कथंकथंचिन्ननृतुर्धृतायुधाः।
नदत्सु तूर्येषु परेतयोषितां गणेषु गायत्सु कबन्धराजयः ५०
रणेति ॥ तूर्येषु नदत्सु सत्सु, परेतयोषितां भूताङ्गनानां गणेषु गायत्सु सत्सु, सायुधाः कबन्धराजयः शिरोरहितदेहपतयः शोणितपङ्कपिच्छिले रुधिरकर्दमलिप्ते । अनेन स्निग्धत्वमुक्तम् । रणाङ्गणे सङ्ग्रामचत्वरे कथंकथंचिन्महता कष्टेन ननृतुर्गानं विचिक्षिपुः, भूमेरतिस्निग्धतया पादयोः स्थैर्येण स्थापनासंभवान्नृत्ये प्रयत्नो योग्य इति भावः । एषां श्लोकानां स्फुटार्थत्वाद्विस्तरेण विवृतिर्नोक्ता । प्रसङ्गाद्वक्तव्यनिर्धारणेन लाघवाद्यवारि । अतः क्षन्तव्यमित्यलम् । उपजातिर्वृत्तम् ॥ ५० ॥
इति सुररिपुर्वृत्ते युद्धे सुरासुरसैन्ययो
रुधिरसरितां मञ्जद्दन्तिव्रजेषु तटेष्वलम् ।
अरुणनयनः क्रोधाद्भीमभ्रमद्भृकुटीमुखः
सपदि ककुभामीशानभ्यागमत्स युयुत्सया ॥ ५१ ॥
इतीति ॥ इति पूर्वोक्तप्रकारेण सुरासुरसैन्ययोर्देवदैत्यसैन्ययोर्युद्धे सङ्ग्रामे वृत्ते भूते सति । तथा रुधिरसरितां शोणितनदीनां तटेषु मज्जन्तो निमग्नीभवन्तो दन्तिव्रजा गजसमूहा येषु तथाभूतेषु सत्सु । अलमतिशयेन क्रोधाद्धेतो-
पाठा०-१ रुषितौ. २ रुषा. ३ खचरैः. ४ शोभित. ५ क्रोधापीनभ्रमद्भुकुटीमुखः, क्रोधासीनभ्रमद्भुकुटीमुखः. ररुणनयनो रक्तलोचनः । तथा भीमे भयानके भ्रमती विवर्तमाने भृकुटीमुखे भृकुट्योरग्रे यस्य तथोक्तः स सुररिपुस्तारको युयुत्सया योद्धुमिच्छया सपदि तत्क्षणमेव ककुभां दिशामीशानिन्द्रादीनष्टदिक्पालानभ्यागमत्संमुखमाजगाम । हरिणी वृत्तम् ; 'रसयुगहयैन्सौ म्रौ स्लौ गो यदा हरिणी तदा' इति लक्षणात् ॥५१॥
इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये सुरासुर-
सैन्यसङ्ग्रामवर्णनं नाम षोडशः सर्गः ॥