कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)/अष्टमः सर्गः(मल्लिनाथव्याख्या)
← सप्तदशः सर्गः(तारकासुरवधः) | कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५) अष्टमः सर्गः(मल्लिनाथव्याख्या) कालिदासः |
श्लोकानुक्रमणिका → |
कु मा र सं भ व म्
मल्लिनाथकृतया संजीविन्या समेतम् ।
अष्टमः सर्गः ।
अथ शृङ्गारमुभयोः...।
कुमारसंभवफले सर्गेऽस्मिन्नाह संप्रति ॥
सोऽपि संक्षिप्तसंपन्नसंयुक्तश्च समृद्धिमान् ।
इति भेदाश्चतुर्धाक्ताश्चतुर्णां च वियोगिनाम् ॥
तत्रावस्थाप्रभेदेन शृङ्गारे नायिका त्रिधा ।
मुग्धा मध्या प्रगल्भा च तत्र ह्रीसाध्यसाविलाम् ॥
मुग्धावस्थां समाश्रित्य देव्या आद्यसमागमे ।
आदावेकादश श्लोकाः ख्यातपूर्वानुरागिणोः ॥
प्रथमं नाम शृङ्गारं शिवयोः कथितं कविः [?] ।
चुम्बनेष्वधरेत्यत्र लक्षणं त्वस्य वक्ष्यते ॥
पाणिपीडन विधेरनन्तरं शैलराजदुहितुर्हरं प्रति ।
भावसाध्वसपरिग्रहादभूत्कामदोहदसुखं मनोहरम् ॥ १॥
पाणीति | पाणिपीडनविधेरनन्तरं पाणिग्रहणानन्तरम् । विधेरिति पञ्चमी षष्टी च । उभयथाप्यनुशासनसंभवादित्युक्तं प्राक । शैलराजदुहितुः पार्वत्याः कत्र्याः तं हरं प्रति भावसाध्वसपरिग्रहान्मनोहरं चित्ताकर्षकं कामदोहदम् । कामसंवर्धक मित्यर्थः । 'तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पाद्युत्पादक द्रव्यं दोहदं स्यात्' इति शब्दार्णवे । तच्च तत्सुखं कामदोहदसुखमभूत् , हरस्येति शेषः ।
टिप्प०-1 अष्टमसर्गस्ययं टीका मल्लिनाथकृतिरिति प्रथिता दृश्यते, तथाप्यस्या महो- पाध्यायमल्लिनाथप्रतिज्ञातप्रणाल्या विसंवादित्वाद्यनेककारणैरन्यकर्तृकेति विभाव्यते । अपरं चास्मिन्नेव सर्गारम्भे प्राथमिवालोका दरीदृश्यन्ते, न त्वन्यत्र । तदेतदखिलं हेतुजातं मल्लि- नाथनाम्ना केनाप्यपरेण वा महानुभावेन विरच्य मलिनाथापदेशेन स्वकृतिप्रसिद्धिमभिल- पतानुष्ठितमिति समधने साहाय्यमाचरतीत्यत्र न कोऽपि संदेहलेशः ।
रसविदां स्थितिः । तथा च हरस्य गौर्यां नवोढायां स्वगोचरभावप्रत्युक्तसाध्वस- दर्शनात्सुखमाविर्भवति, तच्च मदनाकारं प्रादुर्बभूवेत्यर्थः । तत्र रसभावस्थायिनः कार्यमनुभावः । तदुक्तम्—'रसा गच्छन्ति संस्थानं यत्कार्यमुपलक्ष्यते । सोऽनु- भावः….संस्थानसूचकः ॥' इति सर्गेऽस्मिन्रथोद्धता वृत्तम् ॥ १॥
उक्तं भावसाध्वसम् । तस्य सुखमयत्वं च वर्णयति-
व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका ।
सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः॥२॥
व्याहृतेति ॥ सा पार्वती व्याहृता यत्किंचिदभिहिता सती प्रतिवचः प्रत्युत्तरं न संदधे, न ददावित्यर्थः । अवलम्बितांशुका गृहीतवस्त्रा सती गन्तुमपसर्पितु- मैच्छदिच्छति स्म । इषिधातोर्लङ् । 'इपुगमियमां छः' (पा. ७।३।७७ ) इति छकारः। पराङ्मुखी सती शयनं सेवते स्म, अनभिमुखमशयिष्टेत्यर्थः । तथापि इत्थं साध्वसाप्रतिकूलचेष्टितापीत्यर्थः । पिनाकिनः शिवस्य रतये सुखाय, बभूवेति शेषः । प्रातिकूल्यमपि तस्यानन्दकरमभूदित्यर्थः । एतेन नवोढाया देव्या मौग्ध्या- द्विजितं तन्ममत्वमवसेयम् ॥ २ ॥
कैतवेन शयिते कुतूहलात्पार्वती प्रतिमुखं निपातितम् ।
चक्षुरुन्मिपति सस्मितं प्रिये विद्युदाहृतमिव न्यमीलयत् ॥३॥
कैतवेनेति ॥ प्रिये भर्तरि कुतूहलात् , एषा किं करिष्यतीति बुभुत्सयेत्यर्थः । कैतवेन कपटेन शयिते सुप्ते सति पार्वती क्त्री प्रतिमुखं यथा तथा निपातितम्, प्रियस्वापपरीक्षार्थं तदभिमुखं प्रवर्तितमित्यर्थः । चक्षुः स्वदृष्टिं सस्मितमुन्मिषति, पुनः प्रिये सहासं पश्यतीत्यर्थः । विद्युदाहतं विद्युता प्रतिहतमिव न्यमीलयत् । साध्वसादिति भावः । एतेन किंचित्साध्वसस्यापचयो व्यज्यते ॥ ३ ॥
नाभिदेशनिहितः सकम्पया शंकरस्य रुरुधे तया करः ।
तहुकूलमथ चाभवतस्वयं दूरमुच्छ्वसितनीविबन्धनम् ॥ ४॥
नाभीति ॥ नाभिदेशनिहितः, नीविमोचनायेति शेषः । शंकरस्य करः सकम्पया वेपथुमत्या, प्रियकरस्पर्शादुत्पन्नसात्त्विकभावयेत्यर्थः । तया पार्वत्या रुरुधे निवारितः । अथ च, तथापीत्यर्थः । तद्दुकूलं स्वयं स्वत एव दूरमत्यन्तमुच्छ्वसितमं स्रस्तं नीविबन्धनं नीविग्रन्थिर्यस्य तत्तथाभूतमभवत्, रतिपारवश्या- दिति भावः ॥ ४ ॥
एवमालि ! निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति ।
सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनि प्रिये ॥५॥
एवमिति ॥ हे आलि सखि पार्वति ! रहसि शंकरः । एवम् , स्वोपदिष्टप्रका- रेणेत्यर्थः । निगृहीतसाध्वसं निरस्तभयं यथा तथा सेव्यतामिति सखीभिरुपदिष्ट- मुक्तं वचनं सा पार्वती प्रिये शंकरे प्रमुग्ववर्तिनि सत्याकुला साध्वसविह्वला सती नास्मरत, न स्मृतवतीत्यर्थः । स हि भयपरिप्लुते चेतसि दृष्टतरोऽप्युपदेशः संस्कारमाधत्त इति भावः ॥ ५ ॥
अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् ।
वीक्षितेन परिगृह्य पार्वती मृर्धकम्पमयमुत्तरं ददौ ॥६॥
अपीति ॥ कथाप्रवृत्तये संलापप्रवर्तनायावस्तुन्यप्रस्तुतार्थेऽपि प्रश्नतत्परम् , यत्किंचित्पृच्छन्तमित्यर्थः । अनङ्गशासनमीश्वरं पार्वती वीक्षितेन, न तु वाचेत्यर्थः
। परिगृह्याङ्गीकृत्य मूर्धकम्पमयं शिरःकम्पस्वरूपम् । स्वार्थे मयट् । उत्तरं
ददौ । न तु वाङ्मयं, साध्वसादिति भावः । विहृतनामा लजानुभाव उक्तः । तदुक्तं रतिरहस्ये—'ईर्ष्यामानातिलजाभ्यां न दत्तं योग्यमुत्तरम् । क्रियया व्यज्यते यत्र विहृतं तदुदीरितम् ॥' इति ॥ ६ ॥
शूलिनः करतलद्वयेन सा संनिरुध्य नयने हृतांशुका ।
तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्यभूत् ॥ ७ ॥
शूलिन इति ॥ सा पार्वती रहसि हृतांशुका प्रियेणाकृष्टवस्त्रा सती करतल- द्वयेन, स्वकीयेनेत्यर्थः । शूलिनो हरस्य नयने नेत्रद्वयं संनिरुध्य संच्छाद्य तस्य शूलिनो ललाटलोचने तृतीयेऽक्षिण पश्यति सति मोघयत्नाऽफलाखिलप्रयासाऽत एव विधुराभूत् , तृतीयकराभावादिति भावः । एतेन किंचिद्धाष्टर्यादयो ग्यज्यन्ते ॥ ७ ॥
चुम्बनेष्वधरदानवर्जितं सन्नहस्तमदयोपगूहने ।
क्लिष्टमन्मथमपि प्रियं प्रभोर्दुर्लभप्रतिकृतं वधूरतम् ॥ ८॥
लिङ्गने सन्नौ स्तब्धौ हस्तौ करौ यस्मिंस्तत्तथोक्तम् । तथा दुर्लभप्रतिकृतम् । प्रगल्भत्वान्नखदन्तताडनाद्यकृतप्रयत्नमित्यर्थः । अत एव क्लिष्टमन्मथं लज्जयोपरुद्ध- मदनमपि वध्वा नवोढाया रतं वधूरतं प्रभोरीश्वरस्य प्रियम् , अभूदिति शेषः । 'वधूः स्रुषानवोढास्त्रीभार्यासृष्टाङ्गनासु च' इति विश्वः । अयं लज्जासाध्वसाभ्यां संकुचितोपचारत्वात् संक्लिष्टसंभोगः । तदुक्तं भूपालेन-'युवानौ यत्र संक्षिप्त- साध्वसव्रीडनादिभिः । उपचारान्निपेवन्ते स संक्लिष्ट इतीरितः ॥' इति ॥ ८ ॥
यन्मुखग्रहणमक्षताधरं दत्तमव्रणपदं नखं च यत् ।
यद्रतं च सदयं प्रियस्य तत्पार्वती विपहते स्म नेतरत् ॥९॥
यदिति ॥ पार्वती प्रियस्य संबन्ध्यक्षतोऽखण्डितोऽधरो यस्मिंस्तत्तथोक्तं यन्मुखग्रहणं मुखचुम्बनम् । अव्रणपदं लक्ष्मरहितम् । 'पदं व्यवसितत्राणस्थान- लक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । दत्तं यच्च नखं नखकर्म । यत्सदयं रतं तत्सर्वं विष- हते स्म सहते स्म । नेतरद्विपरीतम् , प्रचण्डमिति यावत् । तच्चुम्बने नखं सुरतं वा न सहते स्म; नवोढात्वादिति हृदयम् । तदुनं रतिरहस्ये-'नात्यन्तमानु- लोम्येन न चातिप्रतिलोमतः । सिद्धिं गच्छन्ति वा तस्मान्मध्येन साधयेदिति ।। नवोढाम्' इति ॥ ९॥
रात्रिवृत्तमनुयोक्तुमुद्यतं सा विभातसमये सखीजनम् ।
नाकरोदपकुतूहलं ह्रिया शंसितुं च हृदयेन तत्त्वरे ।। १० ॥
रात्रीति ॥ सा पार्वती विभातसमये प्रभातकाले रात्रिवृत्तम् , सुरतवृत्तान्त- मित्यर्थः । अनुयोक्तुं प्रष्टुम् । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । उद्यतं प्रवृत्तं सखीजनं ह्रिया लजयापकुतूहलं निराकाङ्क्षं नाकरोत् , किंचिदाचष्ट इत्यर्थः । हृदयेन हृदा च शंसितुं तत्वरे त्वरिताभूत् , औत्सुक्यादिति भावः । त्वरा संभ्र- मादीनामनुभावत्वादिति ॥ १० ॥
दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः ।
प्रेक्ष्य बिम्बमनु विम्बमात्मनः कानि कानि न चकार लज्जया ॥११॥
दर्पण इति ॥ किंचेति चार्थः । दर्पणे मुकुरे परिभोगो नखक्षतादिसंभोगचिह्न पश्यतीति परिभोगदर्शिनी सा पार्वती पृष्टतः पश्चाद्भागे निषेदुषः स्थितवतः । सदः क्वसुः । प्रणयिनः प्रियस्य हरस्य बिम्बं प्रतिबिम्बम् , दर्पणे संक्रान्तमित्यर्थः । आत्मनः स्वस्य बिम्बमनु, प्रतिबिम्बस्य पृष्ठत इत्यर्थः । 'अनुर्लक्षणे' (पा. १।४।८४ ) इति कर्मप्रवचनीयत्वाद्वितीया । प्रेक्ष्य लज्जया, स्वचापलप्राकट्यकृतयेत्यर्थः । कानि कानि यानि यानि भेदवाच्यानि, अङ्गसंवर- णादिचेष्टितानीत्यर्थः । उक्तं च-'लजानुभावेन साचीकृता वर्णवैवर्ण्याधोमुखा- दिकृत्' इति । न चकार ॥ ११ ॥
नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसीत् ।
भर्तृवल्लभतया हि मानसीं मातुरस्यति शुचं वधूजनः ।। १२ ।।
नीलकण्ठेति ॥ नीलकण्ठेन परिभुक्तं यौवनं यस्याः सा ता तथोक्ताम् , प्रियेण भुक्तयौवनामित्यर्थः । तां पार्वतीं विलोक्य जननी मेना समाश्वसीत् , संतुतोषेत्यर्थः । श्वसिधातोर्लङ् । 'अङ्गार्ग्यगालवयोः' (पा. ७।३।९९ ) इति विकल्पादडागमः । तथा हि-वधूजनो भर्तृवल्लभतया पतिवात्सल्येन मातुर्मानसीं मनोभवां शुचं शोकमस्यति निरस्यति हि । विपर्ययाद्विपर्ययश्चेत्यर्थादवसेयम् । सामान्यकविशेषणसमर्थनरूपोऽर्थान्तरन्यासः ॥ १२ ॥
संप्रति देव्या मुग्धावस्थातो मध्यमावस्थाप्राप्तिमाह---
वासराणि कतिचित्कथंचन स्थाणुना पदमकार्यत प्रिया ।
ज्ञातमन्मथरसा शनैःशनैः सा मुमोच रतिदुःखशीलताम् ॥ १३ ॥
वासराणीति ॥ स्थाणुना शंभुना कर्त्रा प्रिया पार्वती कर्मभूना कतिचि- द्वासराणि, कैश्चिदहाभिरित्यर्थः । अत्यन्तसंयोगे द्वितीया । कथंचन कृच्छ्रेण पदं पदप्रक्षेपमकार्यत कारिता, सुरतकर्मणीति शेषः । करोतेर्ण्थन्तात्कर्मणि लुङ् । 'हृक्रोरन्यतरस्याम्' (पा. १/४/५३ ) इत्यणि कर्तुः कर्मत्वे ‘ण्यन्ते कर्तुश्च कर्मणः' इति शब्दानुशासने । सा कृतपदा पार्वती ज्ञातमन्मथरसानुभूतसुरतसुखास्वादा सती । 'आस्वादेऽपि रसमाहुः' इति शब्दानुशासने । शनैः शनैः क्रमेण रतौ रते दुःखशीलतां प्रतिकूलस्वभावतां मुमोच । 'शीलं स्वभावे सद्दत्ते' इत्यमरः । मध्यमावस्थां प्राप्तेत्यर्थः ॥ १३ ॥ तुल्यलज्जास्मरत्वमेवाह-
सस्वजे प्रियमुरोनिपीडिता प्रार्थितं मुखमनेन नाहरत् ।
मेखलाप्रणयलोलतां गतं हस्तमस्य शिथिलं रुरोध सा ॥ १४ ॥
सस्वज इति ॥ सा पार्वत्युरोनिपीडितोरसि गाढमाश्लिष्टा सती प्रियं सस्वजे, न तु निष्पन्दमास्तेत्यर्थः । अनेन स्मरातिशयः सूचितः । अनेन प्रियेण प्रार्थितं चुम्बनार्थं याचितम् । 'याञ्चायामभिधाने च प्रार्थना कथ्यते बुधैः' इति केशवः । मुखं नाहरत् । मेखलायां प्रणयः परिचयः । 'प्रणयः स्यात्परि- चये याञ्चायां सुहृदेऽपि च' इनि यादवः । तत्र लोलतां चञ्चलतां गतमस्य प्रियस्य हस्तं शिथिलं रुरोध न्यवारयत् , न तु निर्भरमिति भावः । अत्र सहन- प्रतीकाराभ्यां तुल्यलजास्मरत्वं व्यज्यते ॥ १४ ॥
अथ देव्याः प्रगल्भावस्थां दर्शयितुं तयोः समानरागित्वं तावदाह---
भावसूचितमदृष्टविप्रियं चाटुमत्क्षणवियोगकातरम् ।
कैश्चिदेव दिवसैस्तदा तयोः प्रेम रूढमितरेतराश्रयम् ॥ १५ ॥
भावेति ॥ तयोः शिवयोः कैश्चित्कतिभिश्चिंदव दिवसैः । भावसूचितं भावै- श्वेष्टाभिः कटाक्षनिक्षेपादिभिः संजातमदृष्टं विप्रियमप्रियाचरणं यत्र तत्तथोक्तं चाटूनि प्रियोक्तयो यस्मिन्सन्ति तच्चाटुमत् । भूतार्थे मतुप् । क्षणवियोगात्क्षण- मात्रविरहादपि कातरं भीरु इतरेतराश्रयमन्योन्यविषयं प्रेम । प्रेमपदाभिलष्या- ङ्कुरावस्था भवतीत्यर्थः । रूढमभूत् , क्रमेणानुरागपदाभिलाषं प्राप्तमित्यर्थः । तदेतत्सर्वं स्फुटीकृतं भूपालेन---'अङ्कुरपल्लवकलिकात्प्रसूनफलभागियम्' इत्या- दिना । एका रतिरेव स्थायीभूता रसीभवति । तस्याश्चाङ्कुरावस्थाभेदोपपत्तौ सा प्रेमादिपदैरभिलष्यत इत्यर्थः । 'सप्रेमभेदरहितं यूनोर्यद्भावबन्धनम् । भावो रती राग एव स्वसंवेद्यदशाप्राप्तयावदाश्रयवृत्तिश्चेदनुरागः' इति । मानादिलक्षणं विस्तरभयान्न लिख्यत इत्याकर एव द्रष्टव्यम् ॥ १५॥
तं यथात्मसदृशं वरं वधूरन्वरज्यत वरस्तथैव ताम् ।
सागरादनपगा हि जाह्नवी सोऽपि तन्मुखरसैकनिर्वृतिः ॥१६॥
तमिति ॥ वधूरात्मसदृशं स्वानुरूपं तं वरं वोढारं प्रति यथान्वरज्यतानुरक्ताभूत् । रञ्जर्दैवादिकारकर्तरि लकारः । स्वरितत्वादात्मनेपदम् । तथैव वरोऽपि नवोढाप्यात्मनः सदृशमात्मसदृशम् । 'त्यदादिषु दृशोऽनालोचने कञ्च' (पा. ३।२।६० ) इति चकारात्किप्पत्ययः । तां वधू प्रत्यन्वरज्यत, वध्वामनुरक्तो- ऽभूदित्यर्थः । 'गत्यर्थाकर्मक-' (पा. ३।४।७२ ) इत्यादिना सकर्मकत्वम् । दृष्टान्त- माह-जाह्नवी गङ्गा सागरान्नापगच्छतीत्यनपगानपेता हि । सोऽपि सागरस्तया जाह्नव्या मुखरसेनारग्रसलिलेन वक्त्रास्वादनैका मुख्या निर्वृतिरानन्दो यस्य स तथोक्तः । अत्र दृष्टान्तालंकारः । लक्षणं तूक्त्म् । इत्थं समानानुरागकथनाद्र- साभासत्वं निरस्तम् । तदुक्तम् –'योषितो बहुसक्तिश्चेद्रसाभासः स उच्यते' । कविनाप्युक्त मालविकायाम् ( ३१५४ )-'अनातुरोक्तं प्रति विप्रसिद्धता समी- पगेनापि रतिर्न मां प्रति । परस्परप्राप्तिनिराशयोर्वा शरीरनाशोऽपि समान- रागयोः ॥' इति ॥ १६॥
अथ देव्याः प्रगल्भावस्थामाश्रित्य संभोगमाह-
शिष्यतां निधुवनोपदेशिनः शंकरस्य रहसि प्रपन्नया ।
शिक्षितं युवतिनैपुणं तया यत्तदेव गुरुदक्षिणीकृतम् ॥ १७ ॥
शिष्यातामिति ॥ रहस्येकान्ते निधुवनमुपदिशतीनि निधुवनोपदेशिनः सुरत- विद्यागुरोः । 'व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम्' इत्यमरः । शंकरस्य शिष्यतां प्रपन्नया प्राप्तया तया पार्वत्या यद्युवतिनैपुणं युवतिजनोचितं नैपुणम् , सुरतकौशलमित्यर्थः । शिक्षितमभ्यस्तम् , आचरितमित्यर्थः । तदेव गुरुदक्षिणी- कृतम् , यथोपदेशकरणादृक्षिणासममभूदित्यर्थः । अनेन कृतप्रतिकृतं सूच्यते ॥१७॥
दष्टमुक्तमधरोष्ठमम्बिका वेदनाविधुतहस्तपल्लवा ।
शीतलेन निरवापयत्क्षणं मौलिचन्द्रशकलेन शूलिनः॥१८॥
दष्टमिति ॥ अम्बिका पार्वती दष्टश्चासौ मुक्तश्च तं दृष्टमुक्तम् । 'पूर्वकाल-' (पा. २।१।४९) इत्यादिना समासः । अधरोष्ठं वेदनया विद्युतौ कम्पितौ हस्त- पल्लवौ पाणिपल्लवौं यस्याः सा तथोक्ता सती शीतलेन शूलिनो मौलिचन्द्रशकलेन क्षणं निरवापयत् । शीतलोपचारेण निर्च्यथमकरोदिति विश्रम्भोक्तिः । निवाते- र्धातोर्ण्यन्तात् 'अर्तिही-' (पा. ७।३।३६) इत्यादिना पुगागमः । अत्राधरपीड-
पाठा०-१'अनातुरोत्कण्ठितयोः प्रसिध्यता समागमेनापि'. नात्सुखेऽपि दुःखवदुपचारात्कुट्टिमनामानुभाव उक्तः । तदुक्तम्- 'केशाधरादि- ग्रहणे मोदमानापि मानसे । दुःखितेव बहिः कुप्येत्तत्कुट्टिममुदाहृतम् ॥' इति ॥१८॥
चुम्बनादलकचूर्णदूपितं शंकरोऽपि नयनं ललाटजम् ।
उच्छ्व्सत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने ॥ १९ ॥
चुम्बनादिति ॥ अथ शंकरोऽपि चुम्बनाचुम्बनार्थिनोऽलकचूर्णेन दूषितमुप- हतं ललाटजं नयनमुच्छ्वसत्कमलगन्धये विकचारविन्दगन्धधारिणे । 'उपमानाच' (पा. ५।४।१३७ ) इनीकारः । पार्वत्या वदनगन्धवाहिने, फूत्कारमारुतायेत्यर्थः । ददौ, रजोनिःसारणार्थ तदाभिमुख्येन स्थापितवानित्यर्थः । एतेन देव्याः प्रिय- चशंवदत्वमुक्तम् । अत्र हरचक्षुष्यलकचूर्णकथनाद्देच्या उपरिभावः सूचितः ॥ १९ ॥
एवमिन्द्रियसुखस्य वर्त्मनः सेवनादनुगृहीतमन्मथः ।
शैलराजभवने सहोमया मासमात्रमवसद्वृषध्वजः ॥ २० ॥
एवमिति ॥ वृषध्वजो हर एवमुक्तरीत्येन्द्रियाणां सुखस्यानुकूलस्य वर्त्मनो मार्गस्य, स्त्रीप्रसङ्गस्येत्यर्थः । सेवनात्परिभोगादनुगृहीतमन्मथः पुनरुज्जीवित- मदनः सन् । वृषध्वजः उमया सह शैलराजभवने हिमवद्गेहे मासमात्रमवसत् । अत्यन्तसंयोगे द्वितीया। मासमात्रमिति वधूवशीकरणकालक्लुप्ति: प्रदर्शिता ॥२०॥
सोऽनुमान्य हिमवन्तमात्मभूरात्मजाविरहदुःखपीडितम् ।
तत्र तत्र विजहार संचरन्नप्रमेयगतिना ककुद्मता ॥ २१ ॥
स इति ॥ स आत्मभूः शिव आत्मजाया दुहितुर्विरहदुःखेन पीडितं हिम- वन्तमनुमान्यानुमतं कृत्वाऽप्रमेयगतिनाऽपरिच्छेद्यगतिना ककुद्मता वृषेण संचर- न्संचरमाणस्तत्र तत्र नानादेशेषु विजहार ॥ २१ ॥
मेरुमेत्य मरुदाशुवाहनः पार्वतीस्तनपुरस्कृतः कृती ।
हेमपल्लवविभङ्गसंस्तरामन्वभूत्सुरततत्परः क्षपाम् ॥ २२ ॥
मेरुमिति ॥ मरुदाशुवाहनः पवनजवनवाहनः पार्वतीस्तनाभ्यां पुरस्कृतः, पार्वतीपुरोगतयाश्लिष्ट इत्यर्थः । अन्वभूदित्यनेनान्वयः। कृती कुशलो हरो मेरुमेत्य हेमपल्लवानां विभङ्गाः खण्डास्त एव संस्तरस्तल्पं यस्यां तां तथोक्तां क्षपां रात्रिं
सुरततत्परः सुरतासक्त: सन् । अन्वभूत् ।। २२ ॥ पद्मनाभवलयाङ्किताश्मसु प्राप्तवत्स्वमृतविप्रुपो नवाः ।
मन्दरस्य कटकेषु चावसत्पार्वतीवदनपद्मपट्रपदः ॥ २३ ॥
पद्मनाभेति ॥ पार्वतीवदनपद्मे षट्पदः, प्रियामुखरसास्वादलोल इत्यर्थः । स हरः । पद्मं नाभिर्यस्य स पद्मनाभो विष्णुः । 'अच्प्रत्यन्ववपूर्वासामलोन्नः' (पा. ५।४।७५) इत्यत्राजिति योगविभागात्समासान्तः । तस्य वलयैरङ्किता अश्मानो येषां तेषु, अमृतमथनसमय इति भावः । तथा नवाः प्रत्यग्रा अमृतविप्रुषः सुधाबिन्दून्प्राप्तवत्सु मन्दरस्य मन्थाचलस्य कटकेषु नितम्बेषु चावसत् । एतेन मन्दरम्यानेकाद्भुताधारत्वान्मनोविनोदकत्वमुक्तम् ॥ २३ ॥
रावणध्वनितभीतया तया कण्ठसक्तमृदुबाहुबन्धनः।
एकपिङ्गलगिरौ जगद्गुरुर्निविवेश विशदाः शशिप्रभाः॥ २४ ॥
रावणेति ॥ जगद्गुरुः । विश्रवमोऽपत्यं रावणो दशकण्ठः । 'तस्यापत्यम्' ( पा. ४११६९२ ) इत्यण्प्रत्ययः । वृत्तिविषये विश्रवमशब्दस्य रावणादेशः । रावणस्य ध्वनितात्कैलासोत्पाटनसमयश्वेडिताभ्दीतया तया पार्वत्या कण्ठसक्ताभ्यां मृदुबाहुभ्यां बन्धनं यस्य स तथाभूतः । एकनेत्रत्वादेकपिङ्गलः कुबेरस्तस्य गिरौ कैलासे विशदा निर्मलाः शशिप्रभाश्चन्द्रिका निर्विवेश बुभुजे । 'निर्वेशो भृतिभोगयोः' इत्यमरः ॥ २४ ॥
तस्य जातु मलयस्थलीरतेर्धूतचन्दनलतः प्रियाक्लभम् ।
आचचाम सलवङ्गकेसरश्चाटुकार इव दक्षिणानिलः ।। २५ ॥
तस्येति ॥ जानु कदाचिध्दतचन्दनलतः कम्पितपटीरशाखः । 'समे शाखालते' इत्यमरः । सह लवङ्गस्य केसरैः सलवङ्गकेसरः । 'लवङ्गं देवकुसुमम्' इत्यमरः । विशेषणाभ्यां शैल्यसौरभ्ये दर्शिते । दक्षिणानिलो मलयमारुतः । चाटुकारश्राटुप्रयोगः, प्रियवाद इति यावत् । भावे घञ् । स इव मलयस्थलीषु मलयाचलप्रदेशेषु रनिः सुरतं यस्य तथोक्तस्य, तत्र रममाणस्येत्यर्थः । तस्य शिवस्य प्रियाकुमं प्रियायाः सुरतश्रममाचचाम जहार । यथा लोके महानपि श्रम एकेन प्रियवादेनापैति तद्वदक्षिणमारुतेनाप्यस्य सकलोऽपि सुरतकुमो हृत
इत्यर्थः ॥२५॥ हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा ।
खे व्यगाहत तरङ्गिणीमुमा मीनपङ्क्तिपुनरुक्तमेखला॥२६॥
हेमेति ॥ उमा गौरी हेमतामरसेन कनककमलेन ताडितः प्रियो यया सा। तेनोत्थितस्य प्रियस्य कराम्बुना कराक्षिप्राम्भसा विनिमीलितेक्षणा मुकुलिताक्षी। मीनपङ्कया पुनरुक्ता द्विगुणिता मेखला यस्याः सा तथाभूता सती खे तरङ्गिणीं व्यगाहत, तत्र तत्र जलक्रीडामकरोदित्यर्थः ॥ २६ ॥
तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् ।
नन्दने चिरमयुग्मलोचनः सस्पृहं सुरवधूभिरीक्षितः ॥२७॥
तामिति ॥ अयुग्मानि लोचनानि यस्य सोऽयुग्मलोचनरुयम्बकः । युग्मशब्दो विशेप्यनिघ्नोऽप्यास्ते । 'तस्मिन्युग्मासु संविशेत्', ( याज्ञ. स्मृ. १/७९) 'युग्मान्दैवे यथाशक्ति पित्र्येऽयुग्मांस्तथैव च' ( याज्ञ. स्मृ. १/२२७ ) इत्यादिप्रयोगदर्शनात् । नन्दने नन्दनोद्याने पुलोमतनया शची । 'पुलोम्नस्तु शची सुता' इति हरिवंशे । तस्या अलकानामुचितैः पारिजातकुसुमैस्तां प्रसाधयन्नलंकुर्वश्चिरं सुरवधूभिः सस्पृहमीक्षितः, केन वा पुण्येनायं लभ्यत इति साभिलाषदृष्ट इत्यर्थः । अत्र देवस्यानुकूलनायकत्वं देव्याः स्वाधीनपतिकात्वं चावसेयम् ॥ २७ ॥
इत्यभौममनुभूय शंकरः पार्थिवं च वनितासखः सुखम् ।
लोहितायति कदाचिदातपे गन्धमादनगिरिं व्यगाहत ॥२८॥
इतीति ॥ इतीत्थं शंकरो वनितासखः सन् भूमौ भवं भौमम् , न भौममभौमं दिव्यं पृथिव्यां भवं पार्थिवं च सुखमनुभूय कदाचिदातपे लोहितायति लोहितवर्णे भवति सति, अस्तंगते सवितरीत्यर्थः । 'लोहितादिडाज्भ्यः क्यष्' (पा. ३।१।१३) इति क्यप्प्रत्ययः । गन्धमादनगिरिं व्यगाहत । पर्वतमुद्दिश्य निवृत्त इत्यर्थः । उद्देशक्रियां प्रति गिरेः कर्मत्वम् । यथाह भाष्यकार:-... ॥२८॥
तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यमवलोक्य भास्करम् ।
दक्षिणेतरभुजव्यपाश्रयां व्याजहार सहधर्मचारिणीम् ।।२९।।
तत्रेति ॥ तत्र गन्धमादने काञ्चनस्य विकारः काञ्चनं सौवर्णं तञ्च तच्छिलातलं तदाश्रयो यस्य स भगवान्नेत्रगम्यं सायंतनम् । अर्थाद्दर्शनयोग्यम् । भास्करं सूर्यम् । 'दिवाविभा-' (पा. ३।२।२१ ) इत्यादिना टप्रत्ययः । अवलोक्य दक्षिणे- तरभुजः सच्यबाहुर्व्यपाश्रयो यस्यास्ताम् , निजवामभुजमवष्टभ्योपविष्टामित्यर्थः सह धर्म चरतीति सहधर्मचारिणीं पत्नीं व्याजहार जगाद ॥ २९ ॥
पद्मकान्तिमरुणत्रिभागयोः संक्रमय्य तव नेत्रयोरिव ।
संक्षये जगदिव प्रजेश्वरः संहरत्यहरसावहर्यतिः ॥ ३० ॥
पद्मकान्तिमिति ॥ असावह्नां पतिरहर्षतिः सूर्यः । 'अहरादीनां पत्या- दिपूपसंख्यानम्' इति रेफादेशः । पद्मकान्तिं पद्मशोभाम् । तृतीयो भागस्त्रिभागः । वृत्तिविषये पूरणार्थत्वं संख्याया इत्युक्तम् । अरुणस्त्रिभागो ययोस्तयोः । अरुणो- पान्तयोरिति भाग्यलक्षगोक्तिः । तव नेत्रयोः संक्रमय्येव । तदानीं पद्मानामवि- कासान्नेत्रयोस्तु विकासाच्चेयमुत्प्रेक्षा । संक्षये प्रलयकाले प्रजेश्वरः प्रजापतिर्जग- दिवाहर्दिवसं संहरति, अस्तं गच्छतीत्यर्थः ॥ ३० ॥
सीकरव्यतिकरं मरीचिभिर्दूरयत्यवनते ! विवस्वति ।
इन्द्रचापपरिवेषशून्यतां निर्झरास्तव पितुर्व्रजन्त्यमी ॥३१॥
सीकरेति ॥ विवस्तेजोऽस्याम्नीति विवस्वांस्तस्मिन्विवस्वति सूर्ये मरीचिभिः । सहार्थविवक्षायां तृतीया । अत एव विनापि सहशब्देन तृतीया। सीकरव्यतिकरं पयःकिरणसंपर्कं दूरयति दूरीकुर्वति सति । हे अवनते पार्वति! अमी तव पितुर्भवन्पितुर्हिमवतो निर्झराः प्रवाहाः । 'प्रवाहो निर्झरो झरः' इत्यमरः । इन्द्रचापं नानावर्णप्रभासमूहस्तस्य परिवेषेण परिवेष्टनेन शून्यतां व्रजन्ति, अर्ककिरणसंपर्क- कृतत्वादैन्द्रचापस्य तन्निवृत्त्या निवृत्तिरित्यर्थः ॥ ३१ ॥
दष्टतामरसकेसरत्यजोः क्रन्दतोर्विपरिवृत्तकण्ठयोः ।
निघ्नयोः सरसि चक्रवाकयोरल्पमन्तरमनल्पतां गतम्॥३२॥
दष्टेति ॥ दष्टमर्धजग्धं तामरसकेसरं पद्मकिञ्जल्कम् , मुखद्वयेनैकमिति भावः । तत्त्यजत इति तथोक्तयोः क्रन्दतोः कूजतोर्विपरिवृत्तकण्ठयोः, परस्परा- लोकनार्थं वक्रीकृतग्रीवयोरित्यर्थः । निघ्नयोर्दैवाधीनयोः । 'अधीनो निघ्न आयत्तः' इत्यमरः । चक्रवाकी च चक्रवाकश्च तयोः । 'पुमान्स्रिया' (पा. १।२।६७) इत्येकशेषः । सरस्यल्पमन्तरं व्यवधानमनल्पतामाधिक्यं गतम्, सरसि वियुज्यमानयोर्महत्यवधानमभूदित्यर्थः ॥ ३२ ॥
स्थानमाह्निकमपास्य दन्तिनः सल्लकीविटपभङ्गवासितम् ।
आविभातचरणाय गृह्णते वारि वारिरुहबद्धपट्पदम् ॥ ३३ ॥
स्थानमिति ॥ दन्तिनो गजाः । अह्नि भवमाह्निकम् । 'कालाट्टञ्' (पा. ४।३।११ ) । स्थानमपास्य विहाय सल्लकी गजप्रिया काचिल्लता। 'सल्लकी स्याद्गजप्रिया' इति हलायुधः । तस्या विटपभङ्गैः पल्लवखण्डैर्वासितं सुरभितं वारिरुहेपु बध्दाः संगताः षट्पदा यर्स्मिस्तद्वारि जलमाविभात प्रभातमारभ्य यच्चरणं तम्मै, तत्पर्याप्तमित्यर्थः । गृह्णत उपाददते । गजा हि भुक्तिपर्याप्तजलं सकृदेव सायं पिबन्तीति प्रसिद्धम् ॥ ३३ ॥
पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे! विवस्वता ।
दीर्घया प्रतिमया सरोम्भसां तापनीयमित्र सेतुबन्धनम् ॥३४॥
पश्येति ॥ हे मितकथे हे मितभाषिणि ! एतेन स्वस्य तत्संलापने लौल्यं सूचयति । पश्चिमदिगन्तलम्बिना विवस्वता कर्त्रा दीर्घया दिगन्तलम्बित्वादायतया प्रतिमया निजप्रतिबिम्बेन । 'प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया । प्रतिकृतिरर्चा पुंसि प्रनिनिधिरुपमोपमानं स्यात् ॥' इत्यमरः । सरोम्भसां तपनीयविकारस्तापनीयं हिरण्मयम् । 'तपनीयं शातकुम्भम्' इत्यमरः । सेतुबन्धनं निर्मितम् । इवेत्युत्प्रेक्षा । अम्तमयसमये सरः पारावारिणामरुणमायतमर्कप्रतिबिम्बं हिरण्मयसेतुरिव दृश्यत इत्यर्थः । पश्येनि वाक्यार्थः कर्म ॥ ३४ ॥
उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्कमतिवाहितातपाः ।
दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरबिसाङ्कुरा इव ।। ३५ ।।
उत्तरन्तीति ॥ दंष्ट्रिणो दंष्ट्रावन्तः । व्रीह्यादित्वादिनिः । अत एव दष्टा भङ्गुराः कुटिला बिसाङ्कुरा मृणालाङ्कुरा यैस्ते त इव स्थिता वनवराहाणां यूथपाः । 'यूथनाथस्तु यूथपः' इत्यमरः । गाढपङ्कमतिपङ्किलं पल्वलमल्पसरः । 'वैशन्तः पल्वलं चाल्पसरः' इत्यमरः । विनिकीर्य विक्षिप्यातिवाहितातपा उत्तरन्ति
पल्बलाङ्गिर्गच्छन्ति ॥ ३५॥ एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलः ।
हीयमानमहरत्ययातपं पीवरोरु ! पिबतीव बर्हिणः ॥ ३६ ॥
एष इति ॥ हे पीवरोरु ! एष वृक्षशिखरे वृक्षाग्रे कृतास्पदः कृतस्थितिर्जातरूपरसगौरमण्डल आतपरूषणात्काञ्चनद्रवदरुणबर्हमण्डलः । 'चामीकरं जातरूपं महारजतकाञ्चने' इत्यमरः । बर्हमस्यास्तीति बर्हिणो मयूरः । ‘फलबर्हाभ्यामिनच्' (वा० ३२१५) इतीनच्प्रत्ययः । हीयमानं क्षीयमाणमहरत्ययातपं दिनान्तातपं पिवतीव, कथमन्यथा क्षीयमाणत्वमिति भावः ॥ ३६ ॥
पूर्वभागतिमिरप्रवृत्तिभिर्व्यक्तपङ्कमिव जातमेकतः ।
खं हृतातपजलं विवस्वता भाति किंचिदिव शेषवत्सरः॥३७॥
पूर्वभागेति ॥ पूर्वभागे प्राचीमूले तिमिरप्रवृत्तिभिर्ध्वान्तप्रसरैरेकतो व्यक्तपङ्कं स्फुटपङ्कमिव जातं तथा विवस्वता हृतमातप एवं जलं यस्य तत्तथोक्तं खमाकाशं किंचिदीषच्छेषोऽस्याम्तीति शेषवच्छुष्कं सर इव भाति ॥ ३७॥
आविशद्भिरुटजाङ्गणं मृगैर्मूलसेकसरसैश्च वृक्षकैः ।
आश्रमाः प्रविशदग्निधेनवो बिभ्रति श्रियमुदीरिताग्नयः॥३८॥
आविशद्भिरिति ॥ उटजाङ्गणं पर्णशालाङ्गणमाविशद्भिः, प्रविशद्भिरित्यर्थः । 'पर्णशालोटजोऽस्त्रियाम्' इत्यमरः । 'उपान्वध्याङ्गसः' (पा. १|४|४८ ) इति कर्मत्वम् । मृगैः । तथा मूलानां सेकन सेचनेन सरसैः सद्रवैर्वृक्षकैश्चोपलक्षिताः । अल्पार्थे कप्रत्ययः । प्रविशन्त्यो वनादागच्छन्त्योऽग्निधेनवोऽग्निहोत्रार्था धेनव उदीरताग्नयश्वाश्रमाः श्रियं बिभ्रति ॥ ३८ ॥
बद्धकोशमपि तिष्ठति क्षणं सावशेषविवरं कुशेशयम् ।
पट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वमिव दातुमन्तरम् ॥ ३९ ।।
बद्धकोशमिति ॥ बद्धकोशमपि, मुकुलितमपीत्यर्थः । कुशेशयं कर्तृ । 'शतपत्रं कुशेशयम्' इत्यमरः । वसतिं ग्रहीष्यते, स्थितिं करिष्यत इत्यर्थः । 'लृटः सद्वा' (पा. ३।३।१४) इति शतृप्रत्ययः । षट्पदाय प्रीतिपूर्वमन्तरमवकाशं
दातुमिव क्षणं सावशेषविवरं तिष्ठति ॥ ३९ ॥ दूरलग्नपरिमेयरश्मिना वारुणी दिगरुणेन भानुना ।
भाति केसरवतेव मण्डिता बन्धुजीवतिलकेन कन्यका ।। ४०॥
दूरलग्नेति ॥ वारुणी दिक्प्रतीची दूरं लग्ना अत एव परिमेया अल्पावशिष्टा रश्मयो यस्य तेन तथोक्तेनारुणेन लोहितवर्णेन भानुना केसरवता किञ्जल्कवता बन्धुजीवं बन्धुजीवककुसुमम् । 'बन्धूको बन्धुजीवकः' इत्यमरः । तदेव तिलकं तेन मण्डितालंकृता कन्य केव भाति ॥ ४० ॥
सामभिः सहचराः सहस्रशः स्यन्दनाश्वहृदयंगमस्वनैः ।
भानुमग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः ॥४१॥
सामभिरिति ॥ किरणोष्मपायिनः किरणोष्माणं पिबन्तीति तथोक्ताः, तथाहारा इत्यर्थः । चरन्तीति चराः । पचाद्यच् । सहभूताश्चराः सहचरा वालखिल्यप्रभृतयो महर्षयोऽग्नौ परिकीणं तेजो यस्य तत्तथोक्तम् । 'आग्निं वावादित्यः सायमनुप्रविशति' इति श्रुतेः । भानुम् । हृदयं गच्छन्तीति हृदयंगमा मनोरमाः। गमेः सुपीति वक्तव्यात्खच् । स्यन्दनाश्वानां हृदयंगमाः स्वना येषां तैः सामभिः सामवेदैः सहस्रशः संस्तुवन्ति । 'सामवेदेनास्तमये महीयते' (सूर्यताप० उ० १|५) इति श्रुतेः ॥ ४१ ॥
सोऽयमानतशिरोधरैर्हयैः कर्णचामरविघट्टितेक्षणैः ।
अस्तमेति युगभुग्नकेसरैः संनिधाय दिवसं महोदधौ ॥ ४२ ॥
स इति ॥ सोऽयं भानुर्दिवसं महोदधौ संनिधाय, निधायेत्यर्थः । दिवसस्यादर्शनादियमुत्प्रेक्षा । आनतशिरोधरैर्गगनावतरणान्नग्रकन्धरैरत एव कर्णचामरविघट्टितेक्षणैर्युगभुग्नकेसरैः कुटिलितस्कन्धरोमभिर्हयैरस्तमेति । 'अस्तस्तु चरमक्ष्माभृत्' इत्यमरः ॥ ४२ ॥
खं प्रसुप्तमित्र संस्थिते रवौ तेजसो महत ईदृशी गतिः ।
तत्प्रकाशयति यावदुत्थितं मीलनाय खलु तावता च्युतम्॥४३॥
खमिति ॥ रवौ संस्थितेऽस्तमिते सति खं व्योम प्रसुप्तमिव निःप्रकाशत्वाब्निद्रितमिव, स्थितमित्यर्थः । युज्यते चैतदित्याह–महतस्तेजस ईदृशी वक्ष्यमाणप्रकारा गतिः । स्वभाव इत्यर्थः । तां गतिमेवाह-तदिति । तन्महत्तेज उत्थितं सद्यावत् , स्थानमिति शेषः । प्रकाशयति तावताधश्र्युतं सत् । तत्स्थानादिति शेषः । मीलनाय संकोचाय खलु भवति । यत्र स्थाने तेजस्तिष्ठति सत्प्रकाशन इति स्थितिः । यतो गच्छति न तत्प्रकाशते । अतः सूर्यापाये खं प्रसुप्तमिवेति युक्तोत्प्रेक्षेति भावः । अस्यार्थस्य तेजोमात्रसाधारण्येऽपि महति स्फुटमिति महद्रहणं कृतम् ॥ ४३ ॥
संध्ययाप्यनुगतं रवेर्वपुर्वन्द्यमस्तशिखरे समर्पितम् ।
प्राक्तथेयमुदये पुरस्कृता नानुयास्यति कथं तमापदि ॥४४॥
संध्ययेति ॥ संध्ययाप्यस्तशिखरेऽस्ताद्रिशृङ्गे समर्पितं निहितं वन्द्यं रवेर्वपुरनुगतमन्वगामि, असंयुतं रविमन्वगादिति भावः । युक्तं चैतदित्याह-प्राक्पूर्वमुदये तथा तेन प्रकारेण पुरस्कृताग्रतः कृता । पूजिता चेति गम्यते । प्रातः सूर्योदयात्प्रगेव संध्यागम इति हि प्रसिद्धम् । इयं संध्या तं रविमापद्यम्तसमये कथं नानुयास्यति, अनुयास्यत्येवेत्यर्थः । संपदसंपदोस्तुल्यरूपमेव साधूनामिति भावः ॥४४॥
रक्तपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि! भान्त्यभूः।
द्रक्ष्यसि त्वमिति मांध्यवेलया वर्तिकाभिरिव साधुवर्तिताः ॥४५॥
रक्तेति ॥ हे कुटिलकेशि ! 'स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' (पा. ४|१|५४ ) इति ङीप् । अमूः पुरोगता रक्ताः पीताः कपिशाश्र रक्तपीतकपिशाः, नानावर्णा इत्यर्थः । चार्थे द्वन्द्वः । न तु 'वर्णो वर्णेन' (पा. २।१।६९ ) इति तत्पुरुषः । सामानाधिकरण्याभावात् । पयोमुचां कोटयोऽश्रयः । 'स्यात्कोटिरश्रौ चापाग्रे संख्याभेदप्रकर्षयोः' इति विश्वः । त्वं द्रक्ष्यसीति हेतोरनया सांध्यवेलया, संध्ययेत्यर्थः । 'संधिवेलया' इति क्वचित्पाठः। वर्तिकाभिश्रित्रशलाकाभिः साधुवर्तिता उत्पादिताश्र भान्ति ॥ ४५ ॥
सिंहकेसरसटासु भूभृता पल्लवप्रसविषु द्रुमेषु च ।
पश्य धातुशिखरेषु चात्मना संविभक्तमिव सांध्यमातपम् ॥४६॥
सिंहेति ॥ सिंहानां केसराणि स्कन्धरोमाणि तान्येव सटा जटास्तासु । 'सटा जटाकसरयोः' इति विश्वः । अथवा 'सटा'शब्देन समूहो लक्ष्यते, अन्यथा पानरुक्यात् । पल्लवप्रसविषु पल्लववत्सु द्रुमेषु च तथा धातुशिखरेषु च भूभृता
- क्रमाङ्कितसूच्यंशाः
ऽस्ताद्रिणात्मना स्वयमेव संविभक्तमिव स्थितं संध्यायां भवं सांध्यमातपं यस्य तथा पश्य । आरुण्यमरुणद्रव्येषु भूयिष्ठमुपलभ्यत इति भावः ॥ ४६ ॥
पार्ष्णिमुक्तवसुधास्तपस्विनः पावनाम्बुरचिताञ्जलिक्रियाः ।
ब्रह्म गूढमभिसंध्यमादृताः शुद्धये विधिविदो गृणन्त्यमी ॥४७॥
पापर्णीति ॥ पाप्णोयो गुल्फाधोभागास्तैर्भुक्तवसुधास्त्यक्तभूतलाः, पादाप्रस्थिता इत्यर्थः । 'गोशृङ्गमात्रमुध्दत्य मुक्तपार्ण्णिः क्षिपेज्जलम्' इति स्मरणात् । पावनैरम्बुभी रचिताञ्जलिक्रियाः, विहितार्ध्यप्रक्षेपा इत्यर्थः । विधिविदः, शास्त्रज्ञा इत्यर्थः । अमी तपस्विन आदृता आदरवन्तः, श्रद्धधाना इत्यर्थः । कर्तरि क्तः । अभिसंध्यं संध्यामभि । 'लक्षणेनाभिप्रती आभिमुख्ये' (पा. २।१।१४ ) इत्यव्ययीभावः । शुद्धये शुद्धयर्थं ब्रह्म गायत्रीं गूढमुपांशु गृणन्ति जपन्ति । 'प्रत्यगा तारकोदयात्' इति स्मरणात् ॥ ४७ ॥
तन्मुहूर्तमनुमन्तुमर्हसि प्रस्तुताय नियमाय मामपि ।
त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि ! विनोदयिष्यति ४८
तदिति ॥ तत्तरमात्कारणान्मामपि प्रस्तुताय नियमाय प्रकृतसंध्याविधये मुहूर्तमनुमन्तुमर्हसि । हे वल्गुवादिनि मञ्जुभाषिणि ! विनोदनिपुणः कालक्षेपचतुरः सखीजनस्त्वां विनोदयिष्यति । विनोदशब्दात् 'तत्करोति-' (ग० २०४ ) इति णिच् ॥ ४८ ॥
निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा ।
शैलराजतनया समीपगामाललाप विजयामहेतुकम् ।। ४९ ॥
निर्विभुज्येति ॥ ततो भर्तुर्वाचि वचनेऽवधीरणापराऽवज्ञापरा शैलराजतनया पार्वती । छाद्यतेऽनेनेति छदः । 'पुंसि संज्ञायां घः प्रायेण' (पा. ३।३।११८) इति धप्रत्ययः । दशनच्छदं निर्विभुज्य कुटिलीकृत्य समीपगां विजयां विजयाख्यां सखीमहेतुकं निर्निमित्तमाललाप, न तु रोषाभ्दुर्तुरुत्तरं ददावित्यर्थः ॥ ४९ ॥
ईश्वरोऽपि दिवसात्ययोचितं मन्त्रपूर्वमनुतस्थिवान्विधिम् ।
पार्वतीमवचनामसूयया प्रत्युपेत्य पुनराह सस्मितम् ॥ ५० ॥
ईश्वर इति ॥ ईश्वरोऽपि दिवसात्ययोचितं सायंकालोचितं विधि संध्यावन्दनकृत्यं मन्त्रपूर्वमनुतस्थिवाननुष्ठितवान् । तिष्ठतेः कसुप्रत्ययः। असूयया संध्या वन्दनजनितासूययावचनामभाषमाणां पार्वतीं पुनः प्रत्युपेत्य सस्मितमाह ॥ ५० ॥
मुञ्च कोपमनिमित्तकोपने ! संध्यया प्रणमितोऽस्मि नान्यथा ।
किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिमात्मनः।।५१॥
मुञ्चेति ॥ हे अनिमित्तकोपनेऽकारणकोपिनि ! नन्द्यादित्वात्कर्तरि ल्युः । कोपं मानं मुञ्च । संध्यया प्रणमितोऽस्मि प्रणामं कारितोऽस्मि । अन्यथा प्रकारान्तरं न, धर्माभिसंधायिनं मां कामाभिसंधायिनं मा मन्यस्वेत्यर्थः । आत्मनस्तव सह धर्म चरतीति सहधर्मचारिणं मां चक्रवाकन समवृत्तिं तुल्यव्यवहारं न वेत्सि किम् ? अनन्यसङ्गिनं वेत्स्येवेत्यर्थः ॥ ५ ॥
प्रणामकारणमाह-
निर्मितेषु पितृषु स्वयंभुवा या तनुः सुतनु ! पूर्वमुज्झिता ।
सेयमस्तमुदयं च सेव्यते तेन मानिनि ! ममात्र गौरवम् ॥५२॥
निर्मितेप्चिति ॥ हे सुतनु सुगात्रि ! पूर्व स्वयं भवतीति स्वयंभूश्चतुराननः । 'भुवः मंज्ञान्तरयोः' (पा. ३।२।१७९ ) इति किप् । मयूरव्यंसकादित्वात्समासः। तेन पितृप्वग्निप्वात्तादिषु निर्मितेषु सत्सु या तनुरुज्झिता सेयं तनुरस्तमस्तमयकाल उदयमुदयकाले । अव्ययमेतत् । सेव्यते पूज्यते च, संध्यारूपेणति शेषः । हे मानिनि ! अविमृश्यकारिणीति भावः । तेन ब्रह्मतनुत्वेन हेतुना ममाग्न संध्यायां गौरवमादरः । तदेतदुक्तं भविष्यपुराणे-'पितामहः पितॄन्सृष्ट्वा मूर्ति तामुत्ससर्ज ह । प्रातः सायं समागत्य संध्यारूपेण पूज्यते ॥ एतां संध्यां यतात्मानो ये तु दीर्घामुपासते । दीर्घायुषो भविष्यन्ति नीरुजः पाण्डुनन्दन ॥ इति ॥ ५२ ॥
इत्थं देव्याः कोपमपनीय धातुसंध्यादिवर्णनं करोति-
तामिमां तिमिरवृत्तिपीडितां भूमिलग्नमिव संप्रति स्थिताम् ।
एकतस्तटतमालमालिनीं पश्य धातुरसनिम्नगामिव ॥ ५३॥
तामिति ॥ संप्रति तिमिरवृत्तिपीडितां तमोवृत्त्युपरुद्वामत एव भूमौ लग्नमिव स्थितां तामिमां संध्यामेकत एकत्र तटतमालमालिनीं तीरतमालतरुपङ्किमतीम् ।
ब्रीह्यादिरवादिनिः । धातुरसनिम्नगां धातुद्रवनदीमिव पश्य ॥ ५३ ॥ सांध्यमस्तमितशेषमातपं रक्तरेखमपरा बिभर्ति दिक् ।
संपरायवसुधा सशोणितं मण्डलाग्रमिव तिर्यगुत्थितम् ॥५४॥
सांध्यमिति ॥ अपरा दिक्प्रनीची । अस्तमिति मकारान्तमव्ययम् । तस्येत- शब्देन समासः । अस्तमितशेषमम्तंगतावशिष्टम् , अत एव रक्ता रेखाकृतिर्यस्य तं संध्यायां भवं सांध्यमातपं संपरायवसुधा युद्धभूमिः । 'समरे संपरायः स्यात्' इति विश्वः । तिर्यगुत्थितं तिर्यक्फलितं सशोणितं मण्डलाग्रं कृपाणमिव बिभर्ति । 'कौक्षेयको मण्डलाग्ः करवाल: कृपाणवत्' इत्यमरः ॥ ५४ ॥
यामिनीदिवससंधिसंभवे तेजसि व्यवहिते सुमेरुणा ।
एतदन्धतमसं निरर्गलं दिक्षु दीर्घनयने ! विजृम्भते ॥ ५५ ॥
यामिनीति ॥ यामिनीदिवसयोः संधिः संध्या, तत्र संभवे तेजसि संध्यारागे सुमेरुणा व्यवहिते सनि हे दीर्घनयने ! एतदन्धतमसम् । 'अबसमन्धेभ्यस्तमसः' (पा. ५।४।७९) इति समासान्तः । दिक्षु निरर्गलं विजृम्भते ॥ ५५ ॥
नोर्ध्वमीक्षणगतिर्न चाप्यधो नाभितो न पुरतो न पृष्ठतः।
लोक एप तिमिरोल्बवेष्टितो गर्भवास इव वर्तते निशि ॥५६॥
नेति ॥ ऊर्ध्वमुपरीक्षणगतिर्दृष्टिप्रसारो नास्ति, अधोऽपि च न, अभितः पार्श्वयोश्च न, पुरतोऽये च न, पृष्ठतः पश्चादपि न । ईक्षणतिरिति सर्वत्र संबध्यते । तथाप्येष लोको निशि तिमिरमेवोल्बं जरायुः । 'गर्भाशयो जरायुः स्यात्' इत्यमरः । तेन वेष्टित आवृतः सन् । गर्भ एव वासो वसतिस्तत्र गर्भवासे वर्तते । इवेत्युत्प्रेक्षा ॥ ५६ ॥
शुद्धमाविलमवस्थितं चलं वक्रमाजवगुणान्वितं च यत् ।
सर्वमेव तमसा समीकृतं धिङ्महत्त्वमसतां हतान्तरम् ॥५७॥
शुद्धमिति ॥ शुद्धं स्वच्छमाविलं मलिनमवस्थितं स्थावरं चलं जङ्गमं वक्र कुटिलं ऋजोर्भाव आर्जवं तदेव गुणस्तेनान्वितं च यद्वस्तुजातम् । तदिति यत्त दोर्नित्यसंबन्धालभ्यते । तत्सर्वमेव तमसा समीकृतं दुर्लक्ष्यविशेषं कृतम् । तथा हि-हतमन्तरं विशेषो येन तद्वतान्तरमसतामसाधूनां महत्त्वं वृद्धिं धिक् । धिक्शब्दयोगाद्वितीया । समत्वेन परगतिविशेषतिरस्करणमसतां स्वभाव इति
सुप्रसिद्धम् , तमसोऽपि तथा महत्त्वं धिगित्यर्थः ॥ ५७ ॥ नूनमुन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये ।
पुण्डरीकमुखि ! पूर्वदिङ्मुखं कैतकैरिव रजोभिरावृतम् ॥५८॥
नूनमिति ॥ यज्वानो विधिनेष्टवन्तः । 'यज्वा तु विधिनेष्टवान्' इत्यमरः । 'सुयजोर्ङ्वनिप्' (पा. ३१२।१०३ ) इति ङ्वनिप्प्रत्ययः । तेषां पतिः प्रियः । दर्श- पूर्णमासादियागप्रवृत्तिहेतुत्यादिति भावः । शार्वरस्य शर्वयाँ भवस्य तमसो निषिद्वये निरासाय नूनमुन्नमत्युद॓ति । कुतः ?। हे पुण्डरीकमुखि ! पूर्वस्या दिशो मुखं पुरोभागः पूर्वदिङ्मुख कंतक्या इमानि कैतकानि, तै रजोभिः परागैरावृतमिव, दृश्यत इति शेषः । अतो नूनमुद॓ति चन्द्र इति संबन्धः ॥ ५८ ॥
मन्दरान्तरितमूर्तिना निशा लक्ष्यते शशभृता सतारका ।
त्वं मया प्रियसखीसमागता श्रोष्यतेव वचनानि पृष्टतः ॥५९॥
मन्दरेति ॥ सतारका निशा मन्दरान्तरितमूर्तिना मन्दराद्रिव्यवहितमण्डलेन शशभृता चन्द्रेण पृष्ठतः पश्चाद्भागे वचनानि श्रोष्यता, श्रोतुं स्थितेनेत्यर्थः । मया प्रियसखीसमागता प्रियसखीभिरावृता त्वमिव लक्ष्यते ॥ ५९ ॥
रुद्धनिर्गमनमा दिनक्षयात्पूर्वदृष्टतनुचन्द्रिकास्मितम् ।
एतदुगिरति रात्रिचोदिता दिग्रहस्यमिव चन्द्रमण्डलम् ॥६०॥
रुद्धेति ॥ दिक् पूर्वदिक । नायिका ध्वन्यते । आ दिनक्षयादा सायं रुदूं निर्गमनं निःमरण यस्य तत्तथोक्तम् ; अन्यत्र बहिरप्रकाशितमित्यर्थः । तनुचन्द्रिकास्मितमिव तनुचन्द्रिकास्मितं पूर्वदृष्टं यस्मात्तत्तथोक्तम् । एतच्चन्द्रमण्डलं नर्म रहस्यं गोप्यार्थमिव रात्रिचोदिता रात्र्या सख्येव प्रेरिता सतीत्यर्थः । उद्गिरति प्रकाशयति । यथा काचिदा सायं मनस्विनी गृहितमभिलाषं प्रदोषे सख्या 'मह्यं वृहि' इति निर्बन्धात्पृष्टा सती प्रकटयति तद्वदित्यर्थः ।। ६० ॥
पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरोम्भसा ।
विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुन विडम्ब्यते ॥ ६१॥
पश्येति ॥ पक्कफलिनीफलत्विषोदयरागाद्विम्बाभ्यां प्रतिबिम्बाभ्यां लाञ्छिते चिह्नित वियत्सरोम्भश्च येन तथोक्तन हिमांशुना विप्रकृष्टं विवरमन्तरालं यस्य तत्तथोक्तम् , अतिदूरस्थमित्यर्थः । चक्रवाकमिथुनं विडम्ब्यतेऽनुक्रियते पश्य । रात्रौ वियति सरोजले चेन्दोर्बिप्रतिबिम्बौ विरहाद्दूरवर्तिनौ चक्रवाकाविव दृश्येत इत्यर्थः ॥ ६१ ॥
शक्यमोषधिपतेर्नवोदयाः कर्णपूररचनाकृते तव ।
अप्रगल्भयवसूचिकोमलाश्छेत्तुमग्रनखसंपुटैः कराः ॥ ६२॥
शक्यमिति ॥ नवोदयाः सद्य उत्पादिता अप्रगल्भयवसूचिकोमला अकठोरयवाङ्कुरसुकुमारा ओषधिपतेरिन्दोः करास्तव कर्णपूररचनाकृते कर्णावतंसनिर्माणक्रियायै । संपदादित्वाद्भावे क्विप् । अग्रनखसंपुटैर्नखाग्रसंभेदैश्छेत्तुं शक्यम् । शक्या इत्यर्थः । 'शकिसहोश्च' (पा. ३।१|९९ ) इति कर्मणि यत्प्रत्ययः । शक्यमिति विपरीतलिङ्गवचनस्यापि सामान्योपक्रमात्कर्माभिधायकत्वम् । पश्चात्कर्म विशेषाकाङ्क्षायां करा इति निर्देशो न विरुध्यते । यथाह वामनः-(काव्यालं. सू. ) 'शक्यमिति रूपं लिङ्गवचनस्यापि सामान्योपक्रमत्वात्' इति । अत्र प्रमाणम् – 'शक्यं श्वमांसेनापि क्षुत्प्रतिहन्तुमिति भाष्यकारप्रयोगः' इति ॥ ६२ ॥
अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः ।
कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ।। ६३ ॥
अङ्गुलीभिरिति ॥ शशी चन्द्रमाः । नायकस्तु प्रतीयते । अङ्गुलीभिः केशसंचयमिव मरीचिभिस्तिमिरं संनिगृह्य गृहीत्वा । सरोजे लोचने इवेत्युपमित- समासोऽङ्गुलीभिरिवेत्युपमायास्तत्साधकत्वात् । कुङ्मलीकृते सरोजलोचने यस्य तत्तथोक्तं रजन्या मुखं प्रारम्भः वदनं चेति गम्यते । चुम्बतीव । अत्रार्थापत्त्याति- शयोक्तिरलंकार उत्प्रेक्षासंकरश्चेति ॥ ६३ ॥
पश्य पार्वति ! नवेन्दुरश्मिभिः सामिभिन्नतिमिरं नभस्तलम् ।
लक्ष्यते द्विरदभोगदूपितं संप्रसीददिव मानसं सरः ॥ ६४ ॥
पश्येति ॥ हे पार्वति ! नवेन्दुरश्मिभिः सामिभिन्नतिमिरमर्धनिरस्तध्वान्तं नभम्तलम् | द्विरदभोगदूषितं गजक्रीडाकलुषितं संप्रसीदत्प्रसादं गच्छन्मानसं मान- साख्यं सर इव लक्ष्यते पश्य ॥ ६४ ॥
रक्तभावमपहाय चन्द्रमा जात एष परिशुद्धमण्डलः ।
विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया ॥६५॥
रक्तभावमिति ॥ एष चन्द्रमा रक्तभावं रक्तत्वमुदयरागमपहाय परिशुद्धमण्डलः शुभ्रबिम्बो निष्कण्टको जातः । तथा हि-निर्मलप्रकृतिषु स्वच्छस्वभावेषु शुद्धसचिवसंपन्नेषु च कालदोषेण जाता कालदोषजा विक्रिया विकारः स्थिरोदया स्थायिनी न भवति खलु । चन्द्रोऽपि स्वभावनिर्मल इति यावत् । यथा कश्चिद्राजा कुतश्चिन्निमित्ताद्विरक्तमण्डलः पश्चात्प्रतिकृतशुद्ध्या स्वस्थमण्डलो भवति तद्वदिति भावः । तत्र प्रथमार्थे समासोक्तिरलंकारः, तस्यार्थान्तरन्यासे नाङ्गाङ्गिभावेन संकरः ॥ ६५ ॥
उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः ।
नूनमात्मसदृशी प्रकल्पिता वेधसैव गुणदोषायोर्गतिः॥६६॥
उन्नतेष्विति ॥ शशिनः प्रभा चन्द्रिकोन्नतेष्वद्रिशृङ्गादिषु स्थिता । निशातमस्तु निम्नसंश्रयपरं गर्तादिनीचस्थानप्रवणम् । तथा हि-वेधसा गुणदोषयोरात्मसदृशी स्वभावानुरूपा गतिः प्रवृत्तिः प्रकल्पितैव ननु । तेजस्विन उन्नमन्ति, मलिनास्तु नीचन्तीति भावः ॥ ६६ ॥
चन्द्रपादजनितप्रवृत्तिभिश्चद्रकान्तजलबिन्दुभिर्गिरिः ।
मेखलातरुषु निद्रितानमून्बोधयत्यसमये शिखण्डिनः ॥ ६७ ॥
चन्द्रपादेति ॥ गिरिर्हिमाद्रिश्चन्द्रपादैरिन्दुकिरणैर्जनितप्रवृत्तिभिर्जनित- प्रसरैश्चन्द्रकान्तमणीनां जलबिन्दुभिः करणैः मेखलातरुषु निद्रितान्संजातनिद्रान् । तारकादित्वादितच् । अमूञ्शिखण्डिनो मयूरानसमयेऽकाले बोधयति, इन्दुकिरणसंपर्कादुपरिचन्द्रमणिस्पन्देष्वधोवृक्षेशयाः शिखण्डिनो वृष्टिभयाजाग्रतीत्यर्थः । शिखण्डिग्रहणमितरशकुन्तानां कुलायनिलयत्वादिति भावः ॥ ६७ ॥
कल्पवृक्षशिखरेषु संप्रति प्रस्फुरद्भिरविकल्पसुन्दरि! ।
हारयष्टिगणनामिवांशुभिः कर्तुमुद्यतकुतूहलः शशी ॥ ६८ ॥
कल्पवृक्षेति ॥ हे अविकल्पेनाविवादेन सुन्दरि अविकल्पसुन्दरि ! शशी संप्रति कल्पवृक्षाणां शिखरेप्वग्रेपु प्रस्फुरद्भिरंशुभिः, करस्थानीयैरिति भावः । हारयष्टिगणनां कल्पतरुलम्बिहारपरिगणनां कर्तुमुद्यतकुतूहल इवोत्पन्नकौतुका किम् । इत्युत्प्रेक्षा ॥ ६८॥
उन्नतावनतभागवत्तया चन्द्रिका सतिमिरा गिरेरियम् ।
भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तदन्तिनः ॥ ६९ ॥
तिमिरमिश्रा । समोन्नतेपु तमसोऽनवकाशादिति भावः । इयं चन्द्रिका बहुविधाभिर्भक्तिभी रचनाभिरर्पिता विन्यस्ता मत्तदन्तिनो भूनिर्भसितमिवाभाति । 'भूतिर्मातङ्गशृङ्गारे' इति विश्वः । तत्र भक्तिसहितानि गजाङ्गान्येव तिमिरभागोपमानमित्यनुसंधेयम् ॥ ६९॥
एतदुच्छवसितपीतमैन्दवं सोढुमक्षममिव प्रभारसम् ।
मुक्तषट्पदविरामञ्जसा भिद्यते कुमुदमा निवन्धनात् ॥७०॥
एतदिति ॥ एतत्कुमुदं कैरवं कर्तृ उच्छ्वसितेन पीतमुच्छवमितपीतम् , अतितृष्णयोच्छ्वस्योच्छ्वस्य पीतमित्यर्थः । इन्दोरिदमैन्दवं प्रभा चन्द्रिका सैव रसो द्रवम्तं सोढुमक्षममिवाञ्जसा मुक्तषट्पदविरावं प्रवर्तितभृङ्गनादं यथा तथा निबन्धनादा वृन्ताद्भिद्यते विकसति । कर्मकर्तरि लट् । यथा लोक कस्यचिदतिपानान्निःसहात्मन उच्चैः क्रोशत उदरं भिद्यते तथैतदिति भावः ॥ ७० ॥
पश्य कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितरूपसंशयम् ।
मारुते चलति चण्डि ! केवलं व्यज्यते विपरिवृत्तमंशुकम् ।।७१।।
पश्येति ॥ शुद्धया ज्योत्स्नया जनिता रूपसंशया अंशुकं ज्योत्स्ना वेति स्वरूपसंदहो यस्य तत्तथोक्तं कल्पतरुलम्ब्यंशुकं । हे चण्डि अत्यन्तकोपने ! गौरादित्वान्डीप् । केवलं मारुते चलति सति विपरिवृत्तं चलं सद्व्यज्यते पश्य । ज्योत्स्नासच्छायत्वान्न रूपतो विविच्यते, परंतु क्रिययेत्यर्थः ॥ ७१ ॥
शक्यमङ्गुलिभिरुद्धृतैरधः शाखिनां पतितपुष्पपेशलैः ।
पत्रजर्जरशशिप्रभालवैरेभिरुत्कचयितुं तवालकान् ॥ ७२ ॥
शक्यमिति ॥ अङ्गुलिभिरुद्धृतरुच्चितैः शाखिनामधः पतितपुष्पवत्पेशलैः कोमलैः, तथा भ्रमकरैरित्यर्थः । एभिः पत्रैर्जर्जरा शकलिता शशिप्रभा चन्द्रिका तस्या लवैः खण्डैः, तरुतलेषु पत्रान्तराललक्ष्यज्योत्स्नामण्डलैंरित्यर्थः । तवालकानुत्कचयितुं बद्धुम् । 'कच दीप्तिबन्धनयोः' इति धातोस्तुमुन्प्रत्ययः । शक्यम् , शक्या इत्यर्थः । शक्यमिति लिङ्गवचनस्य सामान्योपक्रमादित्याद्यनुपदमेवोक्तम् ७२
एष चारुमुखि ! योगतारया युज्यते तरलबिम्बया शशी ।
साध्वसादुपगतप्रकम्पया कन्ययेव नवदीक्षया वरः॥ ७३ ।।
( पा. ४।११५४ ) इति डीप् । एष शशी तरलबिम्बया स्फुरन्मण्डलया योगतारया । प्रत्यहं यया युज्यते सा योगतारा, नित्यनक्षत्रेणेत्यर्थः । साध्वसान्नवसंगमभयादुपगतप्रकम्पया वेपथुमत्या नवदीक्षया नवोद्वाहितया कन्यया वरो वोढेव युज्यते संगच्छते । युजेर्दैवादिकत्वात्कर्तरि लट् ॥ ७३ ॥
पाकभिन्नशरकाण्डगौरयोरुल्लसत्प्रतिकृतिप्रदीप्तयोः ।
रोहतीव तव गण्डलेखयोश्चन्द्रबिम्बनिहिताक्षि! चन्द्रिका ॥७४॥
पाकेति ॥ हे चन्द्रबिम्बनिहिताक्षि चन्द्रविम्बनिहितेक्षणे ! पाकभिन्नः पाकविकसितो यः शरकाण्डस्तद्वद्वौरयोः सितयोः । 'अवदातः सितो गौरः' इत्यमरः । उल्लसन्त्या प्रतिकृत्या चन्द्रकाप्रतिबिम्बेन प्रदीत्पयोः प्रोज्ज्वलयोस्तव गण्डलेखयोश्चन्द्रिका रोहतीव । गण्डस्थलप्रतिबिम्बसंक्रमणमूर्च्छिता चन्द्रिका तयोरेव प्ररूढेति प्रतीयत इत्यर्थः ॥ ७४ ॥
अत्रान्तरे कांचिदवलोक्याह-
लोहितार्कमणिभाजनार्पितं कल्पवृक्षमधु बिभ्रती स्वयम् ।
स्वामियं स्थितिमतीमुपस्थिता गन्धमादनवनाधिदेवता ॥७५॥
लोहितेति ॥ लोहितेऽरु रोऽर्कमणिभाजने सूर्यकान्तपात्रेऽर्पितं कल्पवृक्षमधु कल्पतरुप्रसूतं मधं स्वयं बिभ्रती गन्धमादनवनाधिदेवता स्थितिमतीमवस्थानवतीम्, इह स्ववने तिष्ठन्नीमित्यर्थः । त्वामियं प्रत्यक्षोपस्थिता प्राप्ता, स्वगृहागतां त्वां संभावयितुमागतेत्यर्थः ॥ ७५ ॥
आर्द्रकेसरसुगन्धि ते मुखं रक्तमेव नयनं स्वभावतः ।
अत्र लब्धवसतिर्गुणान्तरं कं विलासिनि ! मधुः करिष्यति ॥७६॥
मान्यभक्तिरथवा सखीजनः सेव्यतामिदमनङ्गदीपकम् ।
इत्युदारमभिधाय शंकरस्तामपाययत पानमम्बिकाम् ॥ ७७ ॥
मान्यभक्तिरिति ॥ अथवा सखीजनो मान्या भक्तिर्यस्य स तथोक्तः, सखीजनः स्वीकार्य इत्यर्थः । ततोऽनङ्गदीपकमिदं वक्ष्यमाणं पान सेव्यतामित्युदारं चतुरमभिधाय शंकरस्तामम्बिकां पीयत इति पानं मद्यमपाययत पाययामास ।पिबतेर्ण्यन्ताल्लुङि तङ् । पिबतेः प्रत्यवसानार्थादणि कर्तुः कर्मत्वम् ।पिबतेनिंगरणार्थत्वेऽपि 'न पादम्या-' (पा. १:३१८९) इति परस्मैपदप्रतिबेधः ।ननु मान्यभक्तिरित्यत्र कथं पुंवद्भावः ? 'अप्रियादिपु' इति निषेधाद्भक्तिशब्दस्य प्रियादिपाठान्नैष दोषो नपुंसकपूर्वपदत्वात् । यथाह वृत्तिकारः-दृढभक्तिरित्येवमादिपु स्त्रीपूर्वपदस्याविवक्षितत्वात्सिद्धम्' इति । भोजराजस्तु–'भज्यत इति कर्मसाधनस्यैव प्रियादिपाठतया दृढभक्तिरिति, न तु भजनं भक्तिरिति भावसाधनस्य । अतोऽत्र स्त्रीपूर्वपदत्वेऽपि न दोषः' इत्याह ॥ ७७ ॥
पार्वती तदुपयोगसंभवां विक्रियामपि सतां मनोहराम् ।
अप्रतक्र्यविधियोगनिर्मिता नम्रतेव सहकारतां ययौ ॥ ७८ ॥
पार्वतीति ॥ [ अस्य श्लोकस्य व्याख्या नोपलब्धा ] ॥ ७८ ॥
तत्क्षणं विपरिवर्तितह्रियोर्नेष्यतोः शयनमिद्धरागयोः ।
सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च ॥७९॥
तदिति ॥ सुवदना पार्वती तत्क्षण तथैव विपरिवर्तितद्वियोर्निवर्तितलज्जयोः शयनं तल्पं नेष्यतोः प्रापयिष्यतोरित्थं प्रवृद्धो रागोऽनुराग आरुण्यं च ययोरिद्धरागयोः शूलिनः प्रियतमस्य मदस्य चेति द्वयोर्वशे वर्तत इति वशवर्तिन्यधीना बभूव ॥७९॥ मदपारवश्यं तावदाह-
घूर्णमाननयनं स्खलत्कथं खेदबिन्दुमदकारणस्मितम् ।
आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ ।। ८० ॥
घूर्णमानेति ॥ ईश्वरो घूर्णमाननयनं भ्राम्यन्नेत्रं स्खलत्कथं स्खलद्वचनं स्वेदबिन्दुमत्स्वेदयुक्तमकारणस्मितमाकस्मिकहासयुक्तमुमामुखं तावत् , आ तृष्णापगममित्यर्थः । आननेन मुखेन न पपौ, न चुचुम्बेत्यर्थः । किंतु चिरं चक्षुषा पपौ, तृष्णयाद्राक्षीदित्यर्थः । तस्या मदपारवश्यं दृष्ट्वा मुदं तावदन्वभूदित्यर्थः ॥ ८० ॥ संप्रति प्रियवशंवदत्वमाह-
तां विलम्बितपनीयमेखलामुद्वहञ्जघनभारदुर्वहाम् ।
ध्यानसंभृतविभूतिसंभृतं प्राविशन्मणिशिलागृहं हरः ॥ ८१॥
तामिति ॥ हरो विलम्बितपनीयमेखलां वित्रंसिहेमरसनां जघनभारेण दुर्वहां तां पार्वतीमुद्वहन् ध्यानसंभृतया संकल्पमात्रसिद्धया विभूत्या भोगसाधनेन संभृतं संपूर्ण मणिशिलागृहं प्राविशत् , रिरंसुरिति भावः ॥ ८१ ॥
तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनम् ।
अध्यशेत शयनं प्रियासखः शारदाभ्रमिव रोहिणीपतिः॥८२॥
तत्रेति ॥ तत्र मणिभवने हंसवाद्ववल उत्तरच्छदः प्रच्छदपटो यस्य तत्तथोक्तं जाह्नवीपुलिनमिव चारुदर्शनं शयनं शय्यां रोहिणीपतिश्चन्द्रः शरदि भवं शारदमभ्रं मेघमिव । शरद्रहणं धावल्यार्थम् । प्रियसखः सन् , प्रियया सहेत्यर्थः। अध्यशेत शयितवान् । 'अधिशीस्थासां कर्म' ( पा. १।४।४६ ) इति कर्मत्वम् । रोहिणीग्रहणसामर्थ्यादिन्दोरप्यभ्रारोहणे रोहिणीसाहित्यमनुसंधेयम् ॥ ८२ ॥
क्लिष्टचन्द्रमदयैः कचग्रहैरुत्पथार्पितनखं समत्सरम् ।
तस्य तच्छिदुरमेखलागुणं पार्वतीरतमभूदतृत्पये ।। ८३ ॥
क्लिष्टेति ॥ अदयैर्निर्दयैः कचग्रहैः केशकर्षणैः क्लिष्टचन्द्रं पीडितहरचन्द्रमुत्पथमुन्मर्यादमर्पिता नखा यस्मिंस्तत्समत्सरमन्योन्यविजिगीषापूर्वकं छिदुराः स्वयमेव छिद्यमाना मेखलागुणा यस्मिंस्तत्तथोक्तम् । 'विदिभिदिच्छिदेः कुरच्' (पा. ३।२।१६२ ) इति कुरच्प्रत्ययः । 'कर्मकर्तरि' इति काशिका । पार्वतीरतं तस्येश्वरस्यातृत्पयेऽभूत् , तृप्तये नाभूदिति भावः ॥ ८३ ॥
केवलं प्रियतमादयालुना ज्योतिषामवनतासु पङ्क्तिषु ।
तेन तत्परिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम् ॥ ८४ ॥
स व्यबुध्यत बुधस्तवोचितः शातकुम्भकमलाकरैः समम् ।
मूर्च्छनापरिगृहीतकैशिकैः किंनरैरुषसि गीतमङ्गलः ॥ ८५ ॥
स इति ॥ बुधस्तवोचितो विद्वत्स्तोत्रार्हः स हर उपसि प्रभाते । स्वराणामारोहक्रमो मूर्च्छना । 'क्रमयुक्ताः स्वरास्तत्र मूर्च्छना परिकीर्तिता' ( नाट्य० ) इति भरतः। तया मूर्छनया परिगृहीतकैशिकैः स्वीकृतरागविशेषैः किंनरैर्गीतमङ्गलः सन् । शातकुम्भकमलाकरैः समं कनकपद्माकरैः सह। 'तपनीय शातकुम्भं गाङ्गेयं भर्म कर्बुरम्' इत्यमरः । व्यबुध्यत विबुद्धवान् । बुध्यतेदैवादिकात्कर्तरि लङ् । अत्र बुध्यतेर्जागिरविकासयोर्बोधयोः श्लेषनिमित्तकाभेदाध्यवसायमूला सहोक्तिरलंकारः ॥८५॥
तो क्षणं शिथिलितोपगृहनौ दंपती रचितमानसोर्मयः ।
पद्मभेदनिपुणाः सिषेविरे गन्धमादनवनान्तमारुताः ॥८६॥
ताविति ॥ शिथिलितोपगृहनौ शिथिलितालिङ्गनौ । जाया च पतिश्च दंपती । 'जाया'शब्दस्य दंभावो निपातितः। तौ शिवौ रचितमानसोर्मयः, मानसे सरसि रचिततरङ्गा इत्यर्थः। पद्मभेदनिपुणाः, पद्मभेदपिशुना इति यावत् । विकाससूचका इत्यर्थः । गन्धमादनवनान्तमारुताः क्षणं सिषेविर ॥ ८६ ॥
ऊरुमूलनखमार्गराजिभिस्तत्क्षणं हृतविलोचनो हरः ।
वाससः प्रशिथिलस्य संयमं कुर्वतीं प्रियतमामवारयत् ॥ ८७ ॥
ऊर्विति ॥ तत्क्षणं मारुतवीजनसमय ऊरुमूले नखमार्गराजिभिर्नखपद- पलिभिः, मरुता प्रसारितवस्त्रतया प्रकाशिताभिरित्यर्थः । हृतविलोचन माकृष्ट- दृष्टिहरः प्रशिथिलस्य वाससः संयम बन्धनं कुर्वती प्रियतमामवारयत् ॥ ८७ ॥
स प्रजागरकषायलोचनं गाढदन्तपदताडिताधरम् ।
आकुलालकमरंस्त रागवान्प्रेक्ष्य भिन्नतिलकं प्रियामुखम् ॥८८॥
स इति ॥ रागवानरागी स हरः प्रजागरेण कषायलोचनं रक्तनेत्रं गाढैर्दन्तपदैर्दन्तक्षतैस्ताडिताधरमाकुलालकं भिन्नतिलकं प्रियामुखं प्रेक्ष्यारंस्तान्वरज्यत, तादृङ्मुखर्शनमेव तस्योद्दीपकमित्यर्थः ॥ ८८ ॥
तेन भङ्गिविषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलम् ।
निर्मलेऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम् ८९
यस्मिंस्तत् । मध्ये पिण्डिता पुञ्जीकृता विसूत्रमेखला छिन्नरसना यस्मिंस्तत्तथोक्तं चरणयो रागेण लाक्षारागेण लाञ्छितं चिह्नितं शयनं निशात्यये प्रभाते निर्मलेऽपि । सूर्योदये सत्यपीत्यर्थः । नोज्झितं न त्यक्तम् । अत्र देव्या सकलसुरतोपचारसंपन्नत्वं पुरुषायितं सूच्यते ॥ ८९ ॥
स प्रियामुखरसं दिवानिशं हर्पवृद्धिजननं सिपेविषुः ।
दर्शनप्रणयिनामदृश्यतामाजगाम विजयानिवेदितः ॥ ९० ॥
स इति ॥ स हरो हर्षवृद्धिजननं सुग्वातिशयकारणं प्रियामुखरसं मदिरामृतं दिवा च निशि च दिवानिशम् । द्वन्द्वैकवद्भावः । सिषेविपुः सेवितुमिच्छुः सन् । विजयानाम्नी काचिद्देव्याः सखी तया निवेदितः, एतदर्थमागतेति ज्ञापितोऽपीत्यर्थः । दर्शनप्रणयिनामदृश्यतामाजगाम, दर्शनं न ददावित्यर्थः ॥ ९० ॥
समदिवसनिशीथं सङ्गिनस्तत्र शंभोः
शतमगमदृतूनां सार्धमेका निशेव ।
न स सुरतसुखेभ्यश्छिन्नतृष्णो बभूव
ज्वलन इव समुद्रान्तर्गतस्तञ्जलौघैः ॥ ९१ ॥
समेति ॥ निशीथोऽत्र निशामात्रलक्षकः । समदिवसनिशीथं तुल्याहर्निशं यथा तथा तत्र तस्यां पार्वत्यां सङ्गिन आसक्तस्य । रात्रिंदिवं रममाणस्येत्यर्थः । शंभोः शिवस्य सार्धमर्धेन सहितमृतूनां शतं पञ्चाशदुत्तरं मानुपमानेन पञ्चविंशतिवर्षाण्यगमन् । स शंभुः समुद्रान्तर्गतः समुद्रस्यान्तर्वृत्तिर्ज्वलनो वडवाग्निरिव तज्जलौघैस्तस्य समुद्रस्य प्रवाहैरिव सुरतसुखेभ्यश्छिन्नतृष्णो निवृत्ताभिलाषो न बभूव । किंतु चिरमवर्धतेत्यर्थः ॥ ९१ ।।
इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये उमा-
सुरतवर्णनं नामाष्टमो सर्गः ॥