कुमारसंभवम्/पञ्चमः सर्गः

विकिस्रोतः तः

तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती। निनिन्द रुपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता॥१॥

इयेष सा कर्तुमबन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः। अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः॥२॥

निशम्य चैनां तपसे कृतोद्यमां सुतां गिरीशप्रतिसक्तमानसाम्। उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात्॥३॥

मनीषिताः सन्ति गृहेषु दैवतास्तपः क्व वत्से क्व च तावकं वपुः। पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पततत्त्रिणः॥४॥

इति ध्रुवेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमात्। क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत्॥५॥

कदाचिदासन्नसखीमुखेन मनोरथज्ञं पितरं मनस्विनी। अयाचितारण्यनिवासमात्मनः फलोदयान्ताय तपःसमाधये॥६॥

अथानुरुपाभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा। प्रजासु पश्चात्प्रथितं तदाख्यया जगाम गौरी शिखरं शिखण्डिमत्॥७॥

विमुच्य सा हारमहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम्। बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति॥८॥

यथा प्रसिद्धैर्मधुरं शिरोरुहैर्जटाभिरप्येवमभूत्तदाननम्। न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते॥९॥

प्रतिक्षणं सा कृतरोमविक्रिया व्रताय मौञ्जीं त्रिगुणां वभार याम्। अकारि तत्पूर्वनिबद्धया तया सहागमस्या रसनागुणास्पदम्॥१०॥

विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात्। कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः॥११॥

महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैरपि या स्म दूयते। अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एव केवले॥१२॥

पुनर्ग्रहीतुं नियमस्थया तया द्वयेऽपि निक्षेप इवार्पितं द्वयम्। लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च॥१३॥

अतन्द्रिता सा स्वयमेव वृक्षकान्घटस्तनप्रस्रवणैर्व्यवर्धयत्। गुहोऽपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यमपाकरिष्यति॥१४॥

अरण्यबीजाञ्जलिदानलालितास्तथा च तस्यां हरिणा विशश्वसुः। यथा तदीयैर्नयनैः कुतूहलात्पुरः सखीनाममिमीत लोचने॥१५॥

कृताभिषेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीतिनीम्। दिदृक्षवस्तामृषयोऽभ्युपागमन्न धर्मवृद्धेषु वयः समीक्ष्यते॥१६॥

विरोधिसत्वोज्झ्तिपूर्वमत्सरं द्रुमैरभीष्टप्रसवार्चितातिथि। नवोटजाभ्यन्तरसंभृतानलं तपोवनं तच्च बभूव पावनम्॥१७॥

यदा फलं पूर्वतपःसमाधिना न तावता लभ्यममंस्त काङ्क्षितम्। तदानपेक्ष्य स्वशरीरमार्दवं तपो महत्सा चरितुं प्रचक्रमे॥१८॥

क्लमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं व्यगाह्यत। ध्रुवं वपुः कञ्चनपद्मनिर्मितं मृदु प्रकृत्या च ससारमेव च॥१९॥

शुचौ चतुर्णां ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा। विजित्य नेत्रप्रतिघातिनीं प्रभामनन्यदृष्टिः सवितारमैक्षत॥२०॥

तथातितप्तं सवितुर्गभस्तिभिर्मुखं तदीयं कमलश्रियं दधौ। अपाङ्गयोः केवलमस्य दीर्घयोः शनैः शनैः श्यामिकया कृतं पदम्॥२१॥

अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडुपतेश्च रश्मयः। बभूव तस्याः किल पारणाविधिर्न वृक्षवृत्तिव्यतिरिक्तसाधनः॥२२॥

निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसंभृतेन सा। तपात्यये वारिभिरुक्षिता नवैर्भुवा सहोष्माणममुञ्चदूर्ध्वगम्॥२३॥

स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः। वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः॥२४॥

शिलाशयां तामनिकेतवासिनीं निरन्तरास्वन्तरवातवृष्टिषु। व्यलोकयन्नुन्मिषितैस्तडिन्मयैर्महातपःसाक्ष्य इव स्थिताः क्षपाः॥५.२५॥

निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीरुदवासतत्परा। परस्पराक्रन्दिनि चक्रवाकयोः पुरा वियुक्ते मिथुने कृपावती॥२६॥

मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्त्रशोभिना। तुषारवृष्टिक्षतपद्मसंपदां सरोजसंधानमिवाकरोदपाम्॥२७॥

स्वयं विशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः। तदप्यपाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः॥२८॥

मृणालिकापेलवमेवमादिभिर्व्रतैः स्वमङ्गं ग्लपयन्त्यहर्निशम्। तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्चकार सा॥२९॥

अथाजिनाषाढधरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा। विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमे यथा॥३०॥

तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती। भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः॥३१॥

विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम्। उमां स पश्यन्नृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः॥३२॥

अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते। अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम्॥३३॥

अपि त्वदावर्जितवारिसंभृतं प्रवालमासामनुबन्धि वीरुधाम्। चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा॥३४॥

अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु। य उत्पलाक्षि ! प्रचलैर्विलोचनैस्तवाक्षिसादृश्यमिव प्रयुञ्जते॥३५॥

यदुच्यते पार्वति ! पापवृत्तये न रुपमित्यव्यभिचारि तद्वचः। तथाहि ते शीलमुदारदर्शने ! तपस्विनामप्युपदेशातां गतम्॥३६॥

विकीर्णसप्तर्षिबलिप्रहासिभिस्तथा न गाङ्गैः सलिलैर्दिवश्युतैः। यथा त्वदीयैश्चरितैरनाविलैर्महीधरः पावित एष सान्वयः॥३७॥

अनेन धर्मः सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भाविनि !। त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते॥३८॥

प्रयुक्तसत्कारविशेषमात्मना न मां परं संप्रतिपत्तुमर्हसि। यतः सतां संनतगात्रि ! संगतं मनीषिभिः साप्तपदीनमुच्यते॥३९॥

अतोत्र किंचिद्भवतीं बहुक्षमां द्विजातिभावादुपपन्नचापलः। अयं जनः प्रष्टुमनास्तपोधने ! न चेद्रहस्यं प्रतिवक्तुमर्हसि॥४०॥

कुले प्रसूतिः प्रथमस्य वेधसस्त्रिलोकसौन्दर्यमिवोदितं वपुः। अमृग्यमैश्र्वर्यसुखं, नवं वयस्तपःफलं स्यात्किमतः परं वद॥४१॥

भवत्यनिष्टादपि नाम दुःसहान्मनस्विनीनां प्रतिपत्तिरीदृशी। विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कृशोदरि ! त्वयि।. ५.४२॥

अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु ! कुतः पितुर्गृहे। पराभिमर्शो न तवास्ति कः करं प्रसारयेत्पन्नगरत्नसूचये॥४३॥

किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम्। वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते॥४४॥

दिवं यदि प्रार्थयसे वृथा श्रमः, पितुः प्रदेशास्तव देवभूमयः। अथोपयन्तारमलं समाधिना, न रत्नमन्विष्यति मृग्यते हि तत्॥४५॥

निविदेतं निश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते। न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम्॥४६॥

अहो! स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते। उपेक्षते यः श्लथलम्बिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः॥४७॥

मुनिव्रतैस्त्वामतिमात्रकर्शितां दिवाकराप्लुष्टबिभूषणास्पदाम्। शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते॥४८॥

अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्च तुरावलोकिनः। करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः॥४९॥

कियच्चिरं श्राम्यसि गौरि ! विद्यते ममापि पूर्वाश्रमसंचितं तपः। तदर्धभागेन लभस्व काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम्॥५०॥

इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम्। अथो वयस्यां परिपार्श्ववर्तिनीं विवर्तितानञ्जननेत्रमैक्षत॥५१॥

सखी तदीया तमुवाच वर्णिनं निबोध साधो ! तव चेत्कुतूहलम्। यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः॥५२॥

इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी। अरूपहार्यं मदनस्य निग्रहात्पिनाकपाणिं पतिमाप्तुमिच्छति॥५३॥

असह्यहुंकारनिवर्तितः पुरा पुरारिमप्राप्तमुखः शिलीमुखः। इमां हृदि व्यायतपातमक्षिणोद्विशीर्णमूर्तेरपि पुष्पधन्वनः॥५४॥

तदा प्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूसरालका। न जातु बाला लभते स्म निर्वृतिं तुषारसंघातशिलातलेष्वपि॥५५॥

उपात्तवर्णे चरिते पिनाकिनः सबाष्पकण्ठस्खलितैः पदैरियम्। अनेकशः किंनरराजकन्यका वनान्तसंगीतसखीररोदयत्॥५६॥

त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे सहसा व्यबुध्यत। क्व नीलकण्ठ ! व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना॥५७॥

यदा बुधैः सर्वगतस्त्वमुच्यसे न वेत्सि भावस्थमिमं कथं जनम्। इति स्वहस्तोल्लिखितश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः॥५८॥

यदा च तस्याधिगमे जगत्पतेरपश्यदन्यं न विधिं विचिन्वती। तदा सहास्माभिरनुज्ञया गुरोरियं प्रपन्ना तपसे तपोवनम्॥५९॥

द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपः साक्षिषु दृष्टमेष्वपि। न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः॥६०॥

न वेद्मि स प्रार्थितदुर्लभः कदा सखीभिरस्त्रोत्तरमीक्षितामिमाम्। तपःकृशामभ्युपपत्स्यते सखी वृषेव सीतां तदवग्रहक्षताम्॥६१॥

अगूढसद्भावमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया। अयीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः॥६२॥

अथाग्रहस्ते मुकुलीकृताङ्गुलौ समर्पयन्ती स्फटिकाक्षमालिकाम्। कथंचिदद्रेस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत॥६३॥

यथा श्रुतं वेदविदां वर ! त्वया जनोयमुच्चैःपदलङ्घनोत्सुकः। तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते॥६४॥

अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुनरेव वर्तसे। अमङ्गलाभ्यासरतिं विचिन्त्य तं तवानुवृतिं न च कर्तुमुत्सहे॥६५॥

अवस्तुनिर्बन्धपरे कथं नु ते करोऽयमामुक्तविवाहकौतुकः। करेण शंभोर्वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम्॥६६॥

त्वमेव तावत्परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः। वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि च॥६७॥

चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम तवानुमन्यते। अलक्तकाङ्कानि पदानि पादयोर्विकोर्णकेशासु परेतभूमिषु॥६८॥

अयुक्तरुपं किमतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत्। स्तनद्वयेऽस्मिन्हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति॥६९॥

इयं च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्यया। विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति॥७०॥

द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया पिनाकिनः। कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी॥७१॥

वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु। वरेषु यद्बालमृगाक्षि ! मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ?॥७२॥

निवर्तयास्मादसदीप्सितान्मनः क्व तद्विधस्त्वं क्व च पुण्यलक्षणा। अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया॥७३॥

इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया। विकुञ्चितभ्रूलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते॥७४॥

उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम्। अलोकसामन्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम्॥७५॥

विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा। जगच्छरण्यस्य निराशिषः सतः किमेभिराशोपहतात्मवृत्तिभिः॥७६॥

अकिंचनः सन्प्रभवः स संपदां, त्रिलोकनाथः पितृसद्मगोचरः। स भीमरूपः शिव इत्युदीर्यते, न सन्ति याथार्थ्यविदः पिनाकिनः॥७७॥

विभूषणोद्भासि, पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा। कपालि वा स्यादथवेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः॥७८॥

तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये। तथाहि नृत्याभिनयक्रियाच्युतं विलिप्यते मौलिभिरम्बरौकसाम्॥७९॥

असंपदस्तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा। करोति पादावुपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली॥८०॥

विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम्। यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति॥८१॥

अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः। ममात्र भावैकरसं मनः स्थितं, न कामवृत्तिर्वचनीयमीक्षते॥८२॥

निवार्यतामालि ! किमप्ययं वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः। न केवलं यो महतोऽपभाषते श्रृणोति तस्मादपि यः स पापभाक्॥८३॥

इतो गमिष्याम्यथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला। स्वरुपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः॥८४॥

तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिर्निक्षेपणाय पदमुद्धृतमुद्वहन्ती। मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ॥८५॥

अद्य प्रभृत्यवनताङ्गि ! तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ। अह्नाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते॥८६॥

इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया सञ्जीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतै

कुमारसंभवमहाकाव्ये तपःफलोदयो नाम पञ्चमः सर्गः॥