किरातार्जुनीयम्/षष्ठः सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
← पञ्चमः सर्गः किरातार्जुनीयम्
षष्ठः सर्गः
भारविः
सप्तमः सर्गः →

रुचिराकृतिः कनकसानुं अथो परमः पुमानिव पतिं पततां ।
धृतसत्पथस्त्रिपथगां अभितः स तं आरुरोह पुरुहूतसुतः ।। ६.१ ।।

तं अनिन्द्यबन्दिन इवेन्द्रसुतं विहितालिनिक्वणजयध्वनयः ।
पवनेरिताकुलविजिह्मशिखा जगतीरुहोऽवचकरुः कुसुमैः ।। ६.२ ।।

अवधूतपङ्कजपरागकणास्तनुजाह्नवीसलिलवीचिभिदः ।
परिरेभिरेऽभिमुखं एत्य सुखाः सुहृदः सखायं इव तं मरुतः ।। ६.३ ।।

उदितोपलस्खलनसंवलिताः स्फुटहंससारसविरावयुजः ।
मुदं अस्य माङ्गलिकतूर्यकृतां ध्वनयः प्रतेनुरनुवप्रं अपां ।। ६.४ ।।

अवरुग्णतुङ्गसुरदारुतरौ निचये पुरः सुरसरित्पयसां ।
स ददर्श वेतसवनाचरितां प्रणतिं बलीयसि समृद्धिकरीं ।। ६.५ ।।

प्रबभूव नालं अवलोकयितुं परितः सरोजरजसारुणितं ।
सरिदुत्तरीयं इव संहतिमत्स तरङ्गरङ्गि कलहंसकुलं ।। ६.६ ।।

दधति क्षतीः परिणतद्विरदे मुदितालियोषिति मदस्रुतिभिः ।
अधिकां स रोधसि बबन्ध धृतिं महते रुजन्नपि गुणाय महान् ।। ६.७ ।।

अनुहेमवप्रं अरुणैः समतां गतं ऊर्मिभिः सहचरं पृथुभिः ।
स रथाङ्गनामवनितां करुणैरनुबध्नतीं अभिननन्द रुतैः ।। ६.८ ।।

सितवाजिने निजगदू रुचयश्चलवीचिरागरचनापटवः ।
मणिजालं अम्भसि निमग्नं अपि स्फुरितं मनोगतं इवाकृतयः ।। ६.९ ।।

उपलाहतोद्धततरङ्गधृतं जविना विधूतविततं मरुता ।
स ददर्श केतकशिखाविशदं सरितः प्रहासं इव फेनं अपां ।। ६.१० ।।

बहु बर्हिचन्द्रिकनिभं विदधे धृतिं अस्य दानपयसां पटलं ।
अवगाढं ईक्षितुं इवैभपतिं विकसद्विलोचनशतं सरितः ।। ६.११ ।।

प्रतिबोधजृम्भणविभीनमुखी पुलिने सरोरुहदृशा ददृशे ।
पतदच्छमौक्तिकमणिप्रकरा गलदश्रुबिन्दुरिव शुक्तिवधूः ।। ६.१२ ।।

शुचिरप्सु विद्रुमलताविटपस्तनुसान्द्रफेनलवसंवलितः ।
स्मरदायिनः स्मरयति स्म भृशं दयिताधरस्य दशनांशुभृतः ।। ६.१३ ।।

उपलभ्य चञ्चलतरङ्गहृतं मदगन्धं उत्थितवतां पयसः ।
प्रतिदन्तिनां इव स सम्बुबुधे करियादसां अभिमुखान्करिणः ।। ६.१४ ।।

स जगाम विस्मयं उद्वीक्ष्य पुरः सहसा समुत्पिपतिषोः फणिनः ।
प्रहितं दिवि प्रजविभिः श्वसितैः शरदभ्रविभ्रमं अपां पटलं ।। ६.१५ ।।

स ततार सैकतवतीरभितः शफरीपरिस्फुरितचारुदृशः ।
ललिताः सखीरिव बृहज्जघनाः सुरनिम्नगां उपयतीः सरितः ।। ६.१६ ।।

अधिरुह्य पुष्पभरनम्रशिखैः परितः परिष्कृततलां तरुभिः ।
मनसः प्रसत्तिं इव मूर्ध्नि गिरेः शुचिं आससाद स वनान्तभुवं ।। ६.१७ ।।

अनुसानु पुष्पितलताविततिः फलितोरुभूरुहविविक्तवनः ।
धृतिं आततान तनयस्य हरेस्तपसेऽधिवस्तुं अचलां अचलः ।। ६.१८ ।।

प्रणिधाय तत्र विधिनाथ धियं दधतः पुरातनमुनेर्मुनितां ।
श्रमं आदधावसुकरं न तपः किं इवावसादकरं आत्मवतां ।। ६.१९ ।।

शमयन्धृतेन्द्रियशमैकसुखः शुचिभिर्गुणैरघमयं स तमः ।
प्रतिवासरं सुकृतिभिर्ववृधे विमलः कलाभिरिव शीतरुचिः ।। ६.२० ।।

अधरीचकार च विवेकगुणादगुणेषु तस्य धियं अस्तवतः ।
प्रतिघातिनीं विषयसङ्गरतिं निरुपप्लवः शमसुखानुभवः ।। ६.२१ ।।

मनसा जपैः प्रणतिभिः प्रयतः समुपेयिवानधिपतिं स दिवः ।
सहजेतरे जयशमौ दधती बिभरांबभूव युगपन्महसी ।। ६.२२ ।।

शिरसा हरिन्मणिनिभः स वहन्कृतजन्मनोऽभिषवणेन जटाः ।
उपमां ययावरुणदीधितिभिः परिमृष्टमूर्धनि तमालतरौ ।। ६.२३ ।।

धृतहेतिरप्यधृतजिह्ममतिश्चरितैर्मुनीनधरयञ्शुचिभिः ।
रजयांचकार विरजाः स मृगान्कं इवेशते रमयितुं न गुणाः ।। ६.२४ ।।

अनुकूलपातिनं अचण्डगतिं किरता सुगन्धिं अभितः पवनं ।
अवधीरितार्तवगुणं सुखतां नयता रुचां निचयं अंशुमतः ।। ६.२५ ।।

नवपल्लवाञ्जलिभृतः प्रचये बृहतस्तरून्गमयतावनतिं ।
स्तृणता तृणैः प्रतिनिशं मृदुभिः शयनीयतां उपयतीं वसुधां ।। ६.२६ ।।

पतितैरपेतजलदान्नभसः पृषतैरपां शमयता च रजः ।
स दयालुनेव परिगाढकृशः परिचर्ययानुजगृहे तपसा ।। ६.२७ ।।

महते फलाय तदवेक्ष्य शिवं विकसन्निमित्तकुसुमं स पुरः ।
न जगाम विस्मयवशं वशिनां न निहन्ति धैर्यं अनुभावगुणः ।। ६.२८ ।।

तदभूरिवासरकृतं सुकृतैरुपलभ्य वैभवं अनन्यभवं ।
उपतस्थुरास्थितविषादधियः शतयज्वनो वनचरा वसतिं ।। ६.२९ ।।

विदिताः प्रविश्य विहितानतयः शिथिलीकृतेऽधिकृतकृत्यविधौ ।
अनपेतकालं अभिरामकथाः कथयांबभूवुरिति गोत्रभिदे ।। ६.३० ।।

शुचिवल्कवीततनुरन्यतमस्तिमिरच्छिदां इव गिरौ भवतः ।
महते जयाय मघवन्ननघः पुरुषस्तपस्यति तपज्जगतीं ।। ६.३१ ।।

स बिभर्ति भीषणभुजंगभुजः पृथि विद्विषां भयविधायि धनुः ।
अमलेन तस्य धृतसच्चरिताश्चरितेन चातिशयिता मुनयः ।। ६.३२ ।।

मरुतः शिवा नवतृणा जगती विमलं नभो रजसि वृष्टिरपां ।
गुणसम्पदानुगुणतां गमितः कुरुतेऽस्य भक्तिं इव भूतगणः ।। ६.३३ ।।

इतरेतरानभिभवेन मृगास्तं उपासते गुरुं इवान्तसदः ।
विनमन्ति चास्य तरवः प्रचये परवान्स तेन भवतेव नगः ।। ६.३४ ।।

उरु सत्त्वं आह विपरिश्रमता परमं वपुः प्रथयतीव जयं ।
शमिनोऽपि तस्य नवसंगमने विभुतानुषङ्गि भयं एति जनः ।। ६.३५ ।।

ऋषिवंशजः स यदि दैत्यकुले यदि वान्वये महति भूमिभृतां ।
चरतस्तपस्तव वनेषु सदा न वयं निरूपयितुं अस्य गतिं ।। ६.३६ ।।

विगणय्य कारणं अनेकगुणं निजयाथवा कथितं अल्पतया ।
असदप्यदः सहितुं अर्हति नः क्व वनेचराः क्व निपुणा मतयः ।। ६.३७ ।।

अधिगम्य गुह्यकगणादिति तन्मनसः प्रियं प्रियसुतस्य तपः ।
निजुगोप हर्षं उदितं मघवा नयवर्त्मगाः प्रभवतां हि धियः ।। ६.३८ ।।

प्रणिधाय चित्तं अथ भक्ततया विदितेऽप्यपूर्व इव तत्र हरिः ।
उपलब्धुं अस्य नियमस्थिरतां सुरसुन्दरीरिति वचोऽभिदधे ।। ६.३९ ।।

सुकुमारं एकं अणु मर्मभिदां अतिदूरगं युतं अमोघतया ।
अविपक्षं अस्त्रं अपरं कतमद्विजयाय यूयं इव चित्तभुवः ।। ६.४० ।।

भववीतये हतबृहत्तमसां अवबोधवारि रजसः शमनं ।
परिपीयमाणं इव वोऽसकलैरवसादं एति नयनाञ्जलिभिः ।। ६.४१ ।।

बहुधा गतां जगति भूतसृजा कमनीयतां समभिहृत्य पुरा ।
उपपादिता विदधता भवतीः सुरसद्मयानसुमुखी जनता ।। ६.४२ ।।

तदुपेत्य विघ्नयत तस्य तपः कृतिभिः कलासु सहिताः सचिवैः ।
हृतवीतरागमनसां ननु वः सुखसङ्गिनं प्रति सुखावजितिः ।। ६.४३ ।।

अविमृष्यं एतदभिलष्यति स द्विषतां वधेन विषयाभिरतिं ।
भववीतये न हि तथा स विधिः क्व शरासनं क्व च विमुक्तिपथः ।। ६.४४ ।।

पृथुदाम्नि तत्र परिबोधि च मा भवतीभिरन्यमुनिवद्विकृतिः ।
स्वयशांसि विक्रमवतां अवतां न वधूष्वघानि विमृष्यन्ति धियः ।। ६.४५ ।।

आशंसितापचितिचारु पुरः सुराणां आदेशं इत्यभिमुखं समवाप्य भर्तुः ।
लेभे परां द्युतिं अमर्त्यवधूसमूहः सम्भावना ह्यधिकृतस्य तनोति तेजः ।। ६.४६ ।।

प्रणतिं अथ विधाय प्रस्थिताः सद्मनस्ताः स्तनभरनमिताङ्गीरङ्गनाः प्रीतिभाजः ।
अचलनलिनलक्ष्मीहारि नालं बभूव स्तिमितं अमरभर्तुर्द्रष्टुं अक्ष्णां सहस्रं ।। ६.४७ ।।

इति भारविकृतौ महाकाव्ये किरातार्जुनीये षष्ठः सर्गः ।