किरातार्जुनीयम्/दशमः सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
← नवमः सर्गः किरातार्जुनीयम्
दशमः सर्गः
भारविः
एकादशः सर्गः →

अथ परिमलजां अवाप्य लक्ष्मीं अवयवदीपितमण्डनश्रियस्ताः ।
वसतिं अभिविहाय रम्यहावाः सुरपतिसूनुविलोभनाय जग्मुः ।। १०.१ ।।

द्रुतपदं अभियातुं इच्छतीनां गमनपरिक्रमलाघवेन तासां ।
अवनिषु चरणैः पृथुस्तनीनां अलघुनितम्बतया चिरं निषेदे ।। १०.२ ।।

निहितसरसयावकैर्बभासे चरणतलैः कृतपद्धतिर्वधूनां ।
अविरलविततेव शक्रगोपैररुणितनीलतृणोलपा धरित्री ।। १०.३ ।।

ध्वनिरगविवरेषु नूपुराणां पृथुरशनागुणशिञ्जितानुयातः ।
प्रतिरवविततो वनानि चक्रे मुखरसं उत्सुकहंससारसानि ।। १०.४ ।।
अवचयपरिभोगवन्ति हिंस्रैः सहचरितान्यमृगाणि काननानि ।
अभिदधुरभितो मुनिं वधूभ्यः समुदितसाध्वसविक्लवं च चेतः ।। १०.५ ।।

नृपतिमुनिपरिग्रहेण सा भूः सुरसचिवाप्सरसां जहार चेतः ।
उपहितपरमप्रभावधाम्नां न हि जयिनां तपसां अलङ्घ्यं अस्ति ।। १०.६ ।।

सचकितं इव विस्मयाकुलाभिः शुचिसिकतास्वतिमानुषाणि ताभिः ।
क्षितिषु ददृशिरे पदानि जिष्णोरुपहितकेतुरथाङ्गलाञ्छनानि ।। १०.७ ।।

अतिशयितवनान्तरद्युतीनां फलकुसुमावचयेऽपि तद्विधानां ।
ऋतुरिव तरुवीरुधां समृद्ध्या युवतिजनैर्जगृहे मुनिप्रभावः ।। १०.८ ।।

मृदितकिसलयः सुराङ्गनानां ससलिलवल्कलभारभुग्नशाखः ।
बहुमतिं अधिकां ययावशोकः परिजनतापि गुणाय सद्गुणानां ।। १०.९ ।।

यमनियमकृशीकृतस्थिराङ्गः परिददृशे विधृतायुधः स ताभिः ।
अनुपमशमदीप्ततागरीयान्कृतपदपङ्क्तिरथर्वणेव वेदः ।। १०.१० ।।

शशधर इव लोचनाभिरामैर्गगनविसारिभिरंशुभिः परीतः ।
शिखरनिचयं एकसानुसद्मा सकलं इवापि दधन्महीधरस्य ।। १०.११ ।।

सुरसरिति परं तपोऽधिगच्छन्विधृतपिशङ्गबृहज्जटाकलापः ।
हविरिव विततः शिखासमूहैः समभिलषन्नुपवेदि जातवेदाः ।। १०.१२ ।।

सदृशं अतनुं आकृतेः प्रयत्नं तदनुगुणां अपरैः क्रियां अलङ्घ्यां ।
दधदलघु तपः क्रियानुरूपं विजयवतीं च तपःसमां समृद्धिं ।। १०.१३ ।।

चिरनियमकृशोऽपि शैलसारः शमनिरतोऽपि दुरासदः प्रकृत्या ।
ससचिव इव निर्जनेऽपि तिष्ठन्मुनिरपि तुल्यरुचिस्त्रिलोकभर्तुः ।। १०.१४ ।।

तनुं अवजितलोकसारधाम्नीं त्रिभुवनगुप्तिसहां विलोकयन्त्यः ।
अवययुरमरस्त्रियोऽस्य यत्नं विजयफले विफलं तपोधिकारे ।। १०.१५ ।।

मुनिदनुतनयान्विलोभ्य सद्यः प्रतनुबलान्यधितिष्ठतस्तपांसि ।
अलघुनि बहु मेनिरे च ताः स्वं कुलिशभृता विहितं पदे नियोगं ।। १०.१६ ।।

अथ कृतकविलोभनं विधित्सौ युवतिजने हरिसूनुदर्शनेन ।
प्रसभं अवततार चित्तजन्मा हरति मनो मधुरा हि यौवनश्रीः ।। १०.१७ ।।

सपदि हरिसखैर्वधूनिदेशाद्ध्वनितमनोरमवल्लकीमृदङ्गैः ।
युगपदृतुगणस्य संनिधानं वियति वने च यथायथं वितेने ।। १०.१८ ।।

सजलजलधरं नभो विरेजे विवृतिं इयाय रुचिस्तडिल्लतानां ।
व्यवहितरतिविग्रहैर्वितेने जलगुरुभिः स्तनितैर्दिगन्तरेषु ।। १०.१९ ।।

परिसुरपतिसूनुधाम सद्यः समुपदधन्मुकुलानि मालतीनां ।
विरलं अपजहार बद्धबिन्दुः सरजसतां अवनेरपां निपातः ।। १०.२० ।।

प्रतिदिशं अभिगच्छताभिमृष्टः ककुभविकाससुगन्धिनानिलेन ।
नव इव विबभौ सचित्तजन्मा गतधृतिराकुलितश्च जीवलोकः ।। १०.२१ ।।

व्यथितं अपि भृशं मनो हरन्ती परिणतजम्बुफलोपभोगहृष्टा ।
परभृतयुवतिः स्वनं वितेने नवनवयोजितकण्ठरागरम्यं ।। १०.२२ ।।

अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे ।
जन इव न धृतेश्चचाल जिष्णुर्न हि महतां सुकरः समाधिभङ्गः ।। १०.२३ ।।

धृतबिसवलयावलिर्वहन्ती कुमुदवनैकदुकूलं आत्तबाणा ।
शरदमलतले सरोजपाणौ घनसमयेन वधूरिवाललम्बे ।। १०.२४ ।।

समदशिखिरुतानि हंसनादैः कुमुदवनानि कदम्बपुष्पवृष्ट्या ।
श्रियं अतिशयिनीं समेत्य जग्मुर्गुणमहतां महते गुणाय योगः ।। १०.२५ ।।

सरजसं अपहाय केतकीनां प्रसवं उपान्तिकनीपरेणुकीर्णं ।
प्रियमधुरसनानि षट्पदाली मलिनयति स्म विनीलबन्धनानि ।। १०.२६ ।।

मुकुलितं अतिशय्य बन्धुजीवं धृतजलबिन्दुषु शाद्वलस्थलीषु ।
अविरलवपुषः सुरेन्द्रगोपा विकचपलाशचयश्रियं समीयुः ।। १०.२७ ।।

अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः ।
गुणं असमयजं चिराय लेभे विरलतुषारकण्.अस्तुषारकालः ।। १०.२८ ।।

निचयिनि लवलीलताविकासे जनयति लोध्रसमीरणे च हर्षं ।
विकृतिं उपययौ न पाण्डुसूनुश्चलति नयान्न जिगीषतां हि चेतः ।। १०.२९ ।।

कतिपयसहकारपुष्परम्यस्तनुतुहिनोऽल्पविनिद्रसिन्दुवारः ।
सुरभिमुखहिमागमान्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः ।। १०.३० ।।

कुसुमनगवनान्युपैतुकामा किसलयिनीं अवलम्ब्य चूतयष्टिं ।
क्वणदलिकुलनूपुरा निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः ।। १०.३१ ।।

विकसितकुसुमाधरं हसन्तीं कुरबकराजिवधूं विलोकयन्तं ।
ददृशुरिव सुराङ्गना निषण्णं सशरं अनङ्गं अशोकपल्लवेषु ।। १०.३२ ।।

मुहुरनुपतता विधूयमानं विरचितसंहति दक्षिणानिलेन ।
अलिकुलं अलकाकृतिं प्रपेदे नलिनमुखान्तविसर्पि पङ्कजिन्याः ।। १०.३३ ।।

श्वसनचलितपल्लवाधरोष्ठे नवनिहितेर्ष्यं इवावधूनयन्ती ।
मधुसुरभिणि षट्पदेन पुष्पे मुख इव शाललतावधूश्चुचुम्बे ।। १०.३४ ।।

प्रभवति न तदा परो विजेतुं भवति जितेन्द्रियता यदात्मरक्षा ।
अवजितभुवनस्तथा हि लेभे सिततुरगे विजयं न पुष्पमासः ।। १०.३५ ।।

कथं इव तव संमतिर्भवित्री समं ऋतुभिर्मुनिनावधीरितस्य ।
इति विरचितमल्लिकाविकासः स्मयत इव स्म मधुं निदाघकालः ।। १०.३६ ।।

बलवदपि बलं मिथोविरोधि प्रभवति नैव विपक्षनिर्जयाय ।
भुवनपरिभवी न यत्तदानीं तं ऋतुगणः क्षणं उन्मनीचकार ।। १०.३७ ।।

श्रुतिसुखं उपवीणितं सहायैरविरललाञ्छनहारिणश्च कालाः ।
अविहितहरिसूनुविक्रियाणि त्रिदशवधूषु मनोभवं वितेनुः ।। १०.३८ ।।

न दलति निचये तथोत्पलानां न च विषमच्छदगुच्छयूथिकासु ।
अभिरतुं उपलेभिरे यथासां हरितनयावयवेषु लोचनानि ।। १०.३९ ।।

मुनिं अभिमुखतां निनीषवो याः समुपययुः कमनीयतागुणेन ।
मदनं उपदधे स एव तासां दुरधिगमा हि गतिः प्रयोजनानां ।। १०.४० ।।

प्रकृतं अनुससार नाभिनेयं प्रविकसदङ्गुलि पाणिपल्लवं वा ।
प्रथमं उपहितं विलासि चक्षुः सिततुरगे न चचाल नर्तकीनां ।। १०.४१ ।।

अभिनयमनसः सुराङ्गनाया निहितं अलक्तकवर्तनाभिताम्रं ।
चरणं अभिपपात षट्पदाली धुतनवलोहितपङ्कजाभिशङ्का ।। १०.४२ ।।

अविरलं अलसेषु नर्तकीनां द्रुतपरिषिक्तं अलक्तकं पदेषु ।
सवपुषां इव चित्तरागं ऊहुर्नमितशिखानि कदम्बकेसराणि ।। १०.४३ ।।

नृपसुतं अभितः समन्मथायाः परिजनगात्रतिरोहिताङ्गयष्टेः ।
स्फुटं अभिलषितं बभूव वध्वा वदति हि संवृतिरेव कामितानि ।। १०.४४ ।।

अभिमुनि सहसा हृते परस्या घनमरुता जघनांशुकैकदेशे ।
चकितं अवसनोरु सत्रपायाः प्रतियुवतीरपि विस्मयं निनाय ।। १०.४५ ।।

धृतबिसवलये निधाय पाणौ मुखं अधिरूषितपाण्डुगण्डलेखं ।
नृपसुतं अपरा स्मराभितापादमधुमदालसलोचनं निदध्यौ ।। १०.४६ ।।

सखि दयितं इहानयेति सा मां प्रहितवती कुसुमेषुणाभितप्ता ।
हृदयं अहृदया न नाम पूर्वं भवदुपकण्ठं उपागतं विवेद ।। १०.४७ ।।

चिरं अपि कलितान्यपारयन्त्या परिगदितुं परिशुष्यता मुखेन ।
गतघृण गमितानि सत्सखीनां नयनयुगैः समं आर्द्रतां मनांसि ।। १०.४८ ।।

अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्यां ।
भृशं अरतिं अवाप्य तत्र चास्यास्तव सुखशीतं उपैतुं अङ्कं इच्छा ।। १०.४९ ।।

तदनघ तनुरस्तु सा सकामा व्रजति पुरा हि परासुतां त्वदर्थे ।
पुनरपि सुलभं तपोऽनुरागी युवतिजनः खलु नाप्यतेऽनुरूपः ।। १०.५० ।।

जहिहि कठिनतां प्रयच्छ वाचं ननु करुणामृदु मानसं मुनीनां ।
उपगतं अवधीरयन्त्यभव्याः स निपुणं एत्य कयाचिदेवं ऊचे ।। १०.५१ ।।

सललितचलितत्रिकाभिरामाः शिरसिजसंयमनाकुलैकपाणिः ।
सुरपतितनयेऽपरा निरासे मनसिजजैत्रशरं विलोचनार्धं ।। १०.५२ ।।

कुसुमितं अवलम्ब्य चूतं उच्चैस्तनुरिभकुम्भपृथुस्तनानताङ्गी ।
तदभिमुखं अनङ्गचापयष्टिर्विसृतगुणेव समुन्ननाम काचिथ् ।। १०.५३ ।।

सरभसं अवलम्ब्य नीलं अन्या विगलितनीवि विलोलं अन्तरीयं ।
अभिपतितुमनाः ससाध्वसेव च्युतरशनागुणसंदितावतस्थे ।। १०.५४ ।।

यदि मनसि शमः किं अङ्ग चापं शठ विषयास्तव वल्लभा न मुक्तिः ।
भवतु दिशति नान्यकामिनीभ्यस्तव हृदये हृदयेश्वरावकाशं ।। १०.५५ ।।

इति विषमितचक्षुषाभिधाय स्फुरदधरोष्ठं असूयया कयाचिथ् ।
अगणितगुरुमानलज्जयासौ स्वयं उरसि श्रवणोत्पलेन जघ्ने ।। १०.५६ ।।

सविनयं अपराभिसृत्य साचि स्मितसुभगैकलसत्कपोललक्ष्मीः ।
श्रवणनियमितेन तं निदध्य सकलं इवासकलेन लोचनेन ।। १०.५७ ।।

करुणं अभिहितं त्रपा निरस्ता तदभिमुखं च विमुक्तं अश्रु ताभिः ।
प्रकुपितं अभिसारणेऽनुनेतुं प्रियं इयती ह्यबलाजनस्य भूमिः ।। १०.५८ ।।

असकलनयनेक्षितानि लज्जा गतं अलसं परिपाण्डुता विषादः ।
इति विविधं इयाय तासु भूषां प्रभवति मण्डयितुं वधूरनङ्गः ।। १०.५९ ।।

अलसपदमनोरमं प्रकृत्या जितकलहंसवधूगति प्रयातं ।
स्थितं उरुजघनस्थलातिभारादुदितपरिश्रमजिह्मितेक्षणं वा ।। १०.६० ।।

भृशकुसुमशरेषुपातमोहादनवसितार्थपदाकुलोऽभिलापः ।
अधिकविततलोचनं वधूनां अयुगपदुन्नमितभ्रु वीक्षितं च ।। १०.६१ ।।

रुचिकरं अपि नार्थवद्बभूव स्तिमितसमाधिशुचौ पृथातनूजे ।
ज्वलयति महतां मनांस्यमर्षे न हि लभतेऽवसरं सुखाभिलाषः ।। १०.६२ ।।

स्वयं संराध्यैवं शतमखं अखण्डेन तपसा परोच्छित्त्या लभ्यां अभिलषति लक्ष्मीं हरिसुते ।
मनोभिः सोद्वेगैः प्रणयविहतैध्वस्तरुचयः सगन्धर्मा धाम त्रिदशवनिताः स्वं प्रतिययुः ।। १०.६३ ।।

इति भारविकृतौ महाकाव्ये किरातार्जुनीये दशमः सर्गः ।