किरातार्जुनीयम्/अष्ठमः सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
← सप्तमः सर्गः किरातार्जुनीयम्
अष्ठमः सर्गः
भारविः
नवमः सर्गः →


अथ स्वमायाकृतमन्दिरोज्ज्वलं ज्वलन्मणि व्य्ॐअसदां सनातनं ।
सुराङ्गना गोपतिचापगोपुरं पुरं वनानां विजिहीर्षया जहुः ।। ८.१ ।।

यथायथं ताः सहिता नभश्चरैः प्रभाभिरुद्भासितशैलवीरुधः ।
वनं विशन्त्यो वनजायतेक्षणाः क्षणद्युतीनां दधुरेकरूपतां ।। ८.२ ।।

निवृत्तवृत्तोरुपयोधरक्लमः प्रवृत्तैनिर्ह्रादिविभूषणारवः ।
नितम्बिनीनां भृशं आदधे धृतिं नभःप्रयाणादवनौ परिक्रमः ।। ८.३ ।।

घनानि कामं कुसुमानि बिभ्रतः करप्रचेयान्यपहाय शाखिनः ।
पुरोऽभिसस्रे सुरसुन्दरीजनैर्यथोत्तरेच्छा हि गुणेषु कामिनः ।। ८.४ ।।

तनूरलक्तारुणपाणिपल्लवाः स्फुरन्नखांशूत्करमञ्जरीभृतः ।
विलासिनीबाहुलता वनालयो विलेपनामोदहृताः सिषेविरे ।। ८.५ ।।

निपीयमानस्तबका शिलीमुखैरशोकयष्टिश्चलबालपल्लवा ।
विडम्बयन्ती ददृशे वधूजनैरमन्ददष्टौष्ठकरावधूननं ।। ८.६ ।।

करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमं ।
उपेयुषी कल्पलताभिशङ्कया कथं न्वितस्त्रस्यति षट्पदावलिः ।। ८.७ ।।

जहीहि कोपं दयितोऽनुगम्यतां पुरानुशेते तव चञ्चलं मनः ।
इति प्रियं कांचिदुपैतुं इच्छतीं पुरोऽनुनिन्ये निपुणः सखीजनः ।। ८.८ ।।

समुन्नतैः काशदुकूलशालिभिः परिक्वणत्सारसपङ्क्तिमेखलैः ।
प्रतीरदेशैः स्वकलत्रचारुभिर्विभूषिताः कुञ्जसमुद्रयोषितः ।। ८.९ ।।

विदूरपातेन भिदां उपेयुषश्च्युताः प्रवाहादभितः प्रसारिणः ।
प्रियाङ्कशीताः शुचिमौक्तिकत्विषो वनप्रहासा इव वारिबिन्दवः ।। ८.१० ।।

सखीजनं प्रेम गुरूकृतादरं निरीक्षमाणा इव नम्रमूर्तयः ।
स्थिरद्विरेफाञ्जनशरितोदरैर्विसारिभिः पुष्पविलोचनैर्लताः ।। ८.११ ।।

उपेयुषीणां बृहतीरधित्यका मनांसि जह्रुः सुरराजयोषितां ।
कपोलकाषैः करिणां मदारुणैरुपाहितश्यामरुचश्च चन्दनाः ।। ८.१२ ।।

स्वगोचरे सत्यपि वित्तहारिणा विलोभ्यमानाः प्रसवेन शाखिनां ।
नभश्चराणां उपकर्तुं इच्छतां प्रियाणि चक्रुः प्रणयेन योषितः ।। ८.१३ ।।

प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता ।
न किंचिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवं ।। ८.१४ ।।

प्रियेऽपरा यच्छति वाचं उन्मुखी निबद्धदृष्टिः शिथिलाकुलोच्चया ।
समादधे नांशुकं आहितं वृथा विवेद पुष्पेषु न पाणिपल्लवं ।। ८.१५ ।।

सलीलं आसक्तलतान्तभूषणं समासजन्त्या कुसुमावतंसकं ।
स्तनोपपीडं नुनुदे नितम्बिना घनेन कश्चिज्जघनेन कान्तया ।। ८.१६ ।।

कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिनोरसा ।
बलिव्यपायस्फुटर्ॐअराजिना निरायतत्वादुदरेण ताम्यता ।। ८.१७ ।।

विलम्बमानाकुलकेशपाशया कयाचिदाविष्कृतबाहुमूलया ।
तरुप्रसूनान्यपदिश्य सादरं मनोधिनाथस्य मनः समाददे ।। ८.१८ ।।

व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः ।
पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी ।। ८.१९ ।।

इमान्यमूनीत्यपवर्जिते शनैर्यथाभिरामं कुसुमाग्रपल्लवे ।
विहाय निःसारतयेव भूरुहान्पदं वनश्रीर्वनितासु संदधे ।। ८.२० ।।

प्रवालभङ्गारुणपाणिपल्लवः परागपाण्डूकृतपीवरस्तनः ।
महीरुहः पुष्पसुगन्धिराददे वपुर्गुणोच्छ्रायं इवाङ्गनाजनः ।। ८.२१ ।।

वरोरुभिर्वारणहस्तपीवरैश्चिराय खिन्नान्नवपल्लवश्रियः ।
समेऽपि यातुं चरणाननीश्वरान्मदादिव प्रस्खलतः पदे पदे ।। ८.२२ ।।

विसारिकाञ्चीमणिरश्मिलब्धया मनोहरोच्छायनितम्बशोभया ।
स्थितानि जित्वा नवसैकतद्युतिं श्रमातिरिक्तैर्जघनानि गौरवैः ।। ८.२३ ।।

समुच्छ्वसत्पङ्कजकोशक्ॐअलैरुपाहितश्रीण्युपनीवि नाभिभिः ।
दधन्ति मध्येषु वलीविभङ्गिषु स्तनातिभारादुदराणि नम्रतां ।। ८.२४ ।।

समानकान्तीनि तुषारभूषणैः सरोरुहैरस्फुटपत्त्रपङ्क्तिभिः ।
चितानि घर्माम्बुकणैः समन्ततो मुखान्यनुत्फुल्लविलोचनानि च ।। ८.२५ ।।

विनिर्यतीनां गुरुस्वेदमन्थरं सुराङ्गनानां अनुसानुवर्त्मनः ।
सविस्मयं रूपयतो नभश्चरान्विवेश तत्पूर्वं इवेक्षणादरः ।। ८.२६ ।।

अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीरस्खलितोर्मिसंहतिः ।
पयोऽवगाढुं कलहंसनादिनी समाजुहावेव वधूः सुरापगा ।। ८.२७ ।।

प्रशान्तघर्माभिभवः शनैर्विवान्विलासिनीभ्यः परिमृष्टपङ्कजः ।
ददौ भुजालम्बं इवात्तशीकरस्तरङ्गमालान्तरगोचरोऽनिलः ।। ८.२८ ।।

गतैः सहावैः कलहंसविक्रमं कलत्रभारैः पुलिनं नितम्बिभिः ।
मुखैः सरोजानि च दीर्घलोचनैः सुरस्त्रियः साम्यगुणान्निरासिरे ।। ८.२९ ।।

विभिन्नपर्यन्तगमीनपङ्क्तयः पुरो विगाढाः सखिभिर्मरुत्वतः ।
कथंचिदापः सुरसुन्दरीजनैः सभीतिभिस्तत्प्रथमं प्रपेदिरे ।। ८.३० ।।

विगाढमात्रे रमणीभिरम्भसि प्रयत्नसंवाहितपीवरोरुभिः ।
विभिद्यमाना विससार सारसानुदस्य तीरेषु तरङ्गसंहतिः ।। ८.३१ ।।

शिलाघनैर्नाकसदां उरःस्थलैर्बृहन्निवेशैश्च वधूपयोधरैः ।
तटाभिनीतेन विभिन्नवीचिना रुषेव भेजे कलुषत्वं अम्भसा ।। ८.३२ ।।

विधूतकेशाः परिलोलितस्रजः सुराङ्गनानां प्रविलुप्तचन्दनाः ।
अतिप्रसङ्गाद्विहितागसो मुहुः प्रकम्पं ईयुः सभया इवोर्मयः ।। ८.३३ ।।

विपक्षचित्तोन्मथना नखव्रणास्तिरोहिता विभ्रममण्डनेन ये ।
हृतस्य शेषानिव कुङ्कुमस्य तान्विकत्थनीयान्दधुरन्यथा स्त्रियः ।। ८.३४ ।।

सरोजपत्त्रे नु विलीनषट्पदे विलोलदृष्टेः स्विदमू विलोचने ।
शिरोरुहाः स्विन्नतपक्ष्मसन्ततेर्द्विरेफवृन्दं नु निशब्दनिश्चलं ।। ८.३५ ।।

अगूढहासस्फुटदन्तकेसरं मुखं स्विदेतद्विकसन्नु पङ्कजं ।
इति प्रलीनां नलिनीवने सखीं विदांबभूवुः सुचिरेण योषितः ।। ८.३६ ।।

प्रियेण संग्रथ्य विपक्षसंनिधावुपाहितां वक्षसि पीवरस्तने ।
स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ।। ८.३७ ।।

असंशयं न्यस्तं उपान्तरक्ततां यदेव रोद्धुं रमणीभिरञ्जनं ।
हृतेऽपि तस्मिन्सलिलेन शुक्लतां निरास रागो नयनेषु न श्रियं ।। ८.३८ ।।

द्युतिं वहन्तो वनितावतंसका हृताः प्रलोभादिव वेगिभिर्जलैः ।
उपप्लुतास्तत्क्षणशोचनीयतां च्युताधिकाराः सचिवा इवाययुः ।। ८.३९ ।।

विपत्त्रलेखा निरलक्तकाधरा निरञ्जनाक्षीरपि बिभ्रतीः श्रियं ।
निरीक्ष्य रामा बुबुधे नभश्चरैरलंकृतं तद्वपुषैव मण्डनं ।। ८.४० ।।

तथा न पूर्वं कृतभूषणादरः प्रियानुरागेण विलासिनीजनः ।
यथा जलार्द्रो नखमण्डनश्रिया ददाह दृष्टीश्च विपक्षयोषितां ।। ८.४१ ।।

शुभाननाः साम्बुरुहेषु भीरवो विलोलहाराश्चलफेनपङ्क्तिषु ।
नितान्तगौर्यो हृतकुङ्कुमेष्वलं न लेभिरे ताः परभागं ऊर्मिषु ।। ८.४२ ।।

ह्रदाम्भसि व्यस्तवधूकराहते रवं मृदङ्गध्वनिधीरं उज्झति ।
मुहुस्तनैस्तालस्समं समाददे मनोरमं नृत्यं इव प्रवेपितं ।। ८.४३ ।।

श्रिया हसद्भिः कलमानि सस्मितैरलंकृताम्बुः प्रतिमागतैर्मुखैः ।
कृतानुकूल्या सुरराजयोषितां प्रसादसाफल्यं अवाप जाह्वनी ।। ८.४४ ।।

परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः ।
उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयतां ।। ८.४५ ।।

भयादिवाश्लिष्य झषाहतेऽम्भसि प्रियं मुदानन्दयति स्म मानिनी ।
अकृत्रिमप्रेमरसाहितैर्मनो हरन्ति रामाः कृतकैरपीहितैः ।। ८.४६ ।।

तिरोहितान्तानि नितान्तं आकुलैरपां विगाहादलकैः प्रसारिभिः ।
ययुर्वधूनां वदनानि तुल्यतां द्विरेफवृन्दान्तरितैः सरोरुहैः ।। ८.४७ ।।

करौ धुनाना नवपल्लवाकृती पयस्यगाधे किल जातसम्भ्रमा ।
सखीषु निर्वाच्यं अधार्ष्ठ्यदूषितं प्रियाङ्गसंश्लेषं अवाप मानिनी ।। ८.४८ ।।

प्रियैः सलीलं करवारिवारितः प्रवृद्धनिःश्वासविकम्पितस्तनः ।
सविभ्रमाधूतकराग्रपल्लवो यथार्थतां आप विलासिनीजनः ।। ८.४९ ।।

उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितं ।
मुखं निमीलन्नयनं नतभ्रुवः श्रियं सपत्नीवदनादिवाददे ।। ८.५० ।।

विहस्य पाणौ विधृते धृताम्भसि प्रियेण वध्वा मदनार्द्रचेतसः ।
सखीव काञ्ची पयसा घनीकृता बभार वीतोच्चयबन्धं अंशुकं ।। ८.५१ ।।

निरञ्जने साचिविलोकितं दृशावयावकं वेपथुरोष्ठपल्लवं ।
नतभ्रुवो मण्डयदि स्म विग्रहे बलिक्रिया चातिलकं तदास्पदं ।। ८.५२ ।।

निमीलदाकेकरलोचचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः ।
निमज्जतीनां श्वसितोद्धतस्तनः श्रमो नु तासां मदनो नु पप्रथे ।। ८.५३ ।।

प्रियेण सिक्ता चरमं विपक्षतश्चुकोप काचिन्न तुतोष सान्त्वनैः ।
जनस्य रूढप्रणयस्य चेतसः किं अप्यमर्षोऽनुनये भृशायते ।। ८.५४ ।।

इत्थं विहृत्य वनिताभिरुदस्यमानं पीनस्तनोरुजघनस्थलशालिनीभिः ।
उत्सर्पितोर्मिचयलङ्घिततीरदेशं औत्सुक्यनुन्नं इव वारि पुरः प्रतस्थे ।। ८.५५ ।।

तीरान्तराणि मिथुनानि रथाङ्गनाम्नां नीत्वा विलोलितसरोजवनश्रियस्ताः ।
संरेजिरे सुरसरिज्जलधौतहारास्तारावितानतरला इव यामवत्यः ।। ८.५६ ।।

संक्रान्तचन्दनरसाहितवर्णभेदं विच्छिन्नभूषणमणिप्रकरांशुचित्रं ।
बद्धोर्मि नाकवनितापरिभुक्तमुक्तं सिन्धोर्बभार सलिलं शयनीयलक्ष्मीं ।। ८.५७ ।।

इति भारविकृतौ महाकाव्ये किरातार्जुनीये अष्ठमः सर्गः ।