काश्यष्टकम्

विकिस्रोतः तः
काश्यष्टकम्
स्कन्दपुराणम्
१९५३

काश्यष्टकम् ४११


यत्र शक्रनगरी तनीयसी यत्र धातृनगरी कनीयसी।
यत्र केशवपुरी लघीयसी विश्वनाथनगरी गरीयसी॥ ६
यत्र देवतटिनी प्रथीयसी यत्र विश्वजननी पटीयसी।
यत्र भैरवकृतिर्बलीयसी विश्वनाथनगरी गरीयसी ॥ ७
विश्वनाथनगरीस्तवं शुभं यः पठेत् प्रयतमानस-
स्सदा । पुत्रदारगृहलाभमव्ययं मुक्तिमार्गमनघं लभे-
त्सदा ॥

॥ इति श्रीवेदव्यासविरचितकाश्यष्टकम् ॥

"https://sa.wikisource.org/w/index.php?title=काश्यष्टकम्&oldid=320166" इत्यस्माद् प्रतिप्राप्तम्