काश्यपपरिवर्तसूत्रम्

विकिस्रोतः तः
काश्यपपरिवर्तसूत्रम्
[[लेखकः :|]]


काश्यपपरिवर्तसूत्रम्

सिद्धमेवं मया श्रुतमेकस्मिन् समये भगवान् राजगृहे विहरति स्म । गृद्धकूटे पर्वते महता भिक्षुसङ्घेन सार्द्धमष्टाभिर्भिक्षुसहस्रैः षोदशभिश्च बोधिसत्त्वसहस्रैः नानाबुद्धक्षेत्रसन्निपतितैरेकजातिप्रबद्धैर्यदुतानुतरस्यां सम्यक्सम्बोधौ ।

क्प्.१ तत्र भगवानायुष्मन्तं महाकाश्यपमामन्त्रयति स्म । कतमे चत्वारः यदुत अगौरवौ भवति धर्मे च धर्मभाणके च । धर्म ...... च भवन्ति । धर्माचार्यमुष्टिञ्च करोति धर्मकामानञ्च पुद्गलानां धर्मान्तरायं करौति विच्छन्द ..... विक्षिपति । न देशयति । प्रतिच्छादयति । आभिमान्तिकश्च भवत्यात्मोत्कर्षी परपंसकः । इमे काश्यप चत्वारो धर्म बोधिसत्त्वस्य प्रज्ञापारिहाणाय संवर्तते । तत्रेदमुच्यते ॥

अगौरवो भवति च धर्मभाणके ।
धर्मेषु मात्सर्यरतो च भोति ।
आचार्यमुष्टिञ्च्छ करोति धर्मे
धर्मार्थि काना च करोति विघ्नम्
विच्छदयन्तो विविधं क्षिपन्तो
धर्मं न देशयति जिनप्रशस्तान्
सो आत्मोत्कर्षणि नित्त्ययुक्तो
परपंसने चाभिरतः कुसिदौ ।
चतुरो इमे धर्मा जिनेन प्रोक्ता
प्रज्ञाप्रहाणाय जिनोर्सानाम्
एतां हि चत्वारि जहित्वा धर्माश्
चतुरौ परां धर्म जिनोक्त भावयेत्

क्प्.२ चत्वारा इमे काश्यप धर्मा बोधिसत्त्वस्य महाप्रज्ञातायैः संवर्तन्ते । कतमे चत्वारः यदु सगौरवो भवति धर्मे च धर्मभाणके च । यथाश्रुतांश्च धर्मान् यथापर्याप्तान् परेभ्यो विस्तरेण सम्प्रकाशयति । निरामिषेण चित्तेनाप्रतिकाङ्क्षयति ..........

क्प्.३ .................... च सत्त्वानामवर्णायशं कीर्र्तिशब्दश्लोकनिश्चारणतया । मायाशाट्ठ्येन च परमुपचरति नाध्याशये न । एभिः काश्यप चतुर्भिः धर्मैः समन्वागतस्य बोधिचित्तं मुह्यति । वां तत्रेदमुच्यते ॥

गुरुदाक्षिणीये न करोति प्रोक्तुम्
परेषु कौकृत्युपसंहरन्ति ।
बोधा ..... स्थित ये च सत्त्वास्
तेषामवर्णमयशं भणन्ति ।
मायाय शाठ्येन च केतवेन
पर्......ति च नाशयेन ।
इमे धर्मा निषे.... मा . अ

मोहे . इ चित्तं वर बुद्धबोधयेः
x स्मादिमा xxxx वमाणो
वराग्रब्. ध्. य्. सुदूर्. व्. त्. त्. ।
xxxxx निषेवमाण्.
वराग्रब्. ध्. स्पृश्. त्. ः प्रशा x

क्प्.४ चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधिसत्त्वस्य । सर्वासु जातिषु जतमात्रस्य बोधिचित्तमामुखी भवति न चान्तरा ..... ह्यति यावद्बोधिमण्डनिषदनात् । कतमैश्चतुर्भिः यदुत जीवितहेतोरपि सम्प्रजान मृषावादं न भाषते । अन्तमश हास्यप्रेक्ष्यमपि । अध्याशयेन सर्वसत्त्वानामन्तिके तिष्ठत्यपगतमायाशाट्ठ्यतया । सर्वबोधिसत्त्वेषु च शास्तृसञ्ज्ञामुत्पादयति । चतुर्दिशां ....... चारयति । याश्च सत्त्वान् परिपाचयति तान् , सर्वानुत्तरस्यां सम्यक्सम्बोधौ समादापय ....... कयानस्पृहणतया । एभिः काश्यप चतुर्भिः धर्मैः समन्वागतस्य बोधिसत्त्वस्य सर्वासु जातिषु जातमात्रस्य बोधिचित्तमामुखिभवति न चान्तरा मुह्यति यावद्बोधिमण्डनिषदनात् । तत्रेदमुच्यते ॥ ४ ॥

न जिवितार्थे अनृतं वदन्ति
भाषन्ति वाचं सदा अर्थयुक्तम् ।
मायाय शट्ठ्ये ..... त्य वर्जिता
अध्याशयेन सदा सत्त्व पश्यति ।
बोधाय ये प्रस्थित शुद्धसत्त्वा
शास्तेति तान्मन्यति बोधिस(त्त्व) ....
वर्णं च तेषां भणते चतुर्दिशं
शास्तार सञ्ज्ञां सदुपस्थपित्वा २
यांश्चापि सत्त्वान् परिपाचयति
अन्नुत्तरे ज्ञाने समादपेति
एतेषु धर्मेषु प्रतिष्ठितानां
चित्तं न बोधाय कदाचि मुह्यतिः ३ ॥

क्प्.५ चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधिसत्त्वस्योत्पन्नोत्पन्नाम कुशला धर्माः पर्यादीयन्ते यैर्न विवर्धन्ति ... र्धर्मैः कतमैश्चतुर्भिः यदुत अभिमानिकस्य लोकायतनमन्त्रपर्येष्ट्या । अश्रुतानामनुद्दिष्टानां च सू ....... ण एभिः काश्यप चतुर्भिर्धर्मैः समन्वागतस्य बोधिसत्त्वस्योत्पन्नोत्पन्ना कुशलान् ध ..... विवर्धते कुशलैर्धर्मैः तत्रेदमुच्यते ॥ ५ ॥

लोकायिकमेषति आभिमानिको
कुलानि ........
बुद्धौरसा द्विषते च बोधिसत्त्वांस्
तेषामवर्णं भणते समन्तात् ।
नोद्दिष्टतो चापि श्रुता ...
... क्षिपिता इमि जिनेन प्रोक्तात् ।
तमेहि धर्मेहि समन्वितस्य
कुशलेषु धर्मेषु न वृद्धिरस्ति ।
तस्माद्..... त बोधिसत्त्वो
दुरान् विजह्याच्चतुरो पि धर्मान् ।
इमा निषेवन्त सुदूरि बोधये
नभं व भूमीय सुदूरदूरं .....

क्प्.६ चतुर्भिः काश्यप धर्मैः समन्वागतो बोधिसत्त्वः अपरिहाणधर्मा भवति विशेषगामितयै कतमैश्चतुर्भिः सुश्रुतं पर्येष्टि न दुश्रुतम् । यदुत षट्पारमिताबोधिसत्त्वपिटकपर्येष्त्श्वसदृशश्च भवति निर्माणतया सर्वसत्त्वेषु धर्मलाभसन्तुष्ट च भवति । सर्वमिथ्याजीवपरिवर्जितः आर्यवंशसन्तुष्ट्..... ताय चापत्या न परांश्चोदयति । न च दोशान्तरस्खलितगवेषी भवति । येष्चास्य बुद्धिर्न गाहते तत्र तथागतमेव साक्षीति कृत्वा न प्रतिक्षिपति ॥ तथागत एव जानाति नाहं ........धिर्नानाधिमुक्तिकानां सत्त्वानां यथाधिमुक्तिकतया धर्मदेशना प्रवर्तते । एभिः काश्यप चतुर्भिर्धर्मैः समन्वागतो बोधिसत्त्वः अपरिहाणधर्म भवति विशेषगमितायै । तत्रेदमुच्यते ॥ ६ ॥

नित्यं च सो.. युक्तो
उपायकौशल्यथ बोधिपीटके ॥
निर्मानतायाश्च श्वचित्तसादृशो
सर्वे च सत्त्वेषु नि ......
तुष्टश्च लाभेन सद्धार्मिकेन
आजिवशुद्धो स्थित आर्यवंशे ।
परं च नापत्तिषु चोदयन्तो
स्खलित....... न गवेषमानो २
न गाहते यत्र च बुद्धिरस्य
तथागतं साक्षिकरोति तत्र ।
नाहं प्रजानामि जिनो प्रजा......
अनन्त बोधि सुगतेन भाषिता ३
इमा तु धर्माश्चतुरो विदित्वा
न हापये जातु विशेषमुत्तमम् ।
इमेषु धर्मेषु प्रतिष्ठितस्य
न दुर्लभा बोधि जिनप्रशस्तान् ॥

क्प्.७ चत्वार इमे काश्यप कुटिलाश्चित्तोत्पादास्तेन बोधिसत्त्वेन परिवर्जितव्याः कतमेश्चत्वारर्यदुत काङ्क्षा विमतिर्विचिकित्सा सर्वबुद्धधर्मेषु । मानमदम्रक्षक्रोधव्यापादाः सर्वसत्त्वेषु इर्ष्यामात्सर्यं परलाभेषु अवर्णायशोकीर्तिशब्दश्लोकनिश्चारणतया...... इमे काश्यप चत्वारः कुटिलाश्चित्तोत्पादास्ते बोधिसत्त्वेन परिवर्जितव्याः तत्रेदमुच्यते ॥ ७ ॥

धर्मेषु काङ्क्षां विमतिं च कुर्वति
सत्त्वेषु मानमथ क्रोधं सेवति ।
मात्सर्यमिर्ष्या परलाभ कुर्वते
जिने प्रसादं च न ........
अकीर्त्यवर्णमयशं च चारयी
सो बोधिसत्त्वेषु सदा अविद्वात् ।
चत्वारि चित्ता कुटिला विवर्जये ......
...... पक्षं सदा बोधिसत्त्वः २ ॥

क्प्.८ चत्वार इमे काश्यप ऋजुकस्य बोधिसत्त्वस्य ऋजुकलक्षणानि भवन्ति कतमानि चत्वारिर्यदुत आपत्तिआपन्नो न प्रच्छादायताचष्टे विवृणोति निष्पर्युत्थानो भवति । येन सत्यवचनेन राजपारिहाणिर्वा धनापारिहाणिर्वा कायजीवितान्तरायो भवेत्तत्सत्यवचनं न विगूहति नान्येनान्यं प्रति निसृत्य वाचा भाषते । सर्वपरोपक्रमेषु चाक्रोशपरिभाषणकुंसनपंसन्ताडन तर्जनवधबन्धनापराधेष्वात्मापराधी भवति । कर्मविपाकप्रतिसरणो न परेषां कुप्यति ना नुशयं वहति । स श्रद्धाप्रतिष्ठितश्च भवति । सर्वाश्रद्धेयानपि बुद्धधर्मा श्रद्दधाति आशयशुद्धतामुपादाय । इमे काश्यप चत्वारो ऋजुकस्य बोधिसत्त्वस्य ऋजुकलक्षणानि भवन्ति । तत्रेदमुच्यते ॥ ८ ॥

आपत्तिमापन्न न च्छादयन्ति
कथेन्ति विवरन्ति च एति दोषात् ।
धनराज्यहेतो न च जीवि xx
xx वदन्ते विददीयसञ्ज्ञाम् ।
आक्रोशनाकुन्सनपंसनासु
वधेषु बन्धेष्ववरोधनेषु ।
आत्मापराधी न परे x कुप्यते
कर्मस्वको नानुशयं वहन्तोः २
स श्रद्दधाति सुगातान बोधिं
श्रद्धास्थितो आशयिशुद्धियुक्तो
ऋजुकलक्षणा ह्येति जिनेन प्रोक्ता
वराग्रसत्त्वेन निषेवितव्याः ३ ॥

क्प्.९ चत्वार इमे काश्यप बोधिसत्त्व खडुङ्काः कतमे चत्वारः श्रुतोद्धतधर्मविहारी च भवति न च प्रतिपद्यते । धर्मानुधर्मप्रतिपत्तिमनुशासने नुद्धतधर्मविहारी च भवति । न च शुश्रूषत्याचार्योपाध्यायानाम् । श्रद्धादेयं विनिपातयति च्युत प्रतिज्ञश्च श्रद्धादेयां परिभुङ्क्ते । दान्ताजानेयप्रापितांश्च बोधिसत्त्वां दृष्ट्वा अगोरवो भवति मानग्राही । इमे काश्यप चत्वारो बोधिसत्त्वाखडुङ्काः तत्रेदमुच्यते ॥ ९ ॥

श्रुतेन ओद्धत्यविहारि भोति न चोद्धतो गच्छति आनुशासनिम् ।
सो उद्धतो सेवति सर्वधर्मान् शुश्रूषते न च आर्यां कथञ्चित् ।
च्युतप्रतिज्ञो परिभुञ्जते सदा श्रद्धाय दिन्नानि सुभोजनानि ।
आजन्यप्राप्तानपि बोधिसत्त्वान् पश्यित्वा नो गौरवता करोति । २
मानं च सो बृंहयते खडुङ्को निर्माण तो सेवति बोधिसत्त्वान्
एते खडुङ्का सुगतेन प्रोक्ता जीनात्मजास्ते परिवर्जनीयात्३ ॥

क्प्.१० चत्वार इमे काश्यप आजानेया बोधिसत्त्वाः कतमे चत्वारः सुश्रुतं श्रुणोति तत्र च प्रतिपद्यते । अर्थप्रतिसरणश्च भवति न व्यञ्जनप्रतिसरणः प्रदक्षिणग्राही भवत्यववादानुशासने । सुवचः सुकृतकर्मकारी च भवति । गुरुशुश्रूषनिर्यातः आजानेयभोजनानि च परिभूङ्क्ते । अच्युतशीलसमाधिर्दान्ताजानेयप्राप्तश्च बोधिसत्त्वां दृष्ट्वा सगौरवो भवति सप्रतीशः तन्निम्नः तत्प्रवणः तत्प्राग्भारः तद्गुणप्रतिकाङ्क्षी । इमे काश्यप चत्वारो आजानेया बोधिसत्त्वा तत्रेदमुच्यते १० ॥

श्रुणोति यं सुश्रुततं करोति
धर्मार्थसारो प्रतिपत्तिसुस्थितः
प्रदक्षिणं गृह्णति आनुशासनीं
सुवचो गुरु सेवति धर्मकाम ।
शीले समाधौ च सदा प्रतिष्ठितो ।
सुभोजनं भुञ्जति शीलसंवृतः
सगौरवो भवति च सप्रदेशो
तन्निम्न तत्प्रोणु गुणाभिकाङ्क्षि २
आजन्यप्राप्ताश्च जिनोरसा ये
प्रेमेण तां पश्यति नित्यकालम् ।
चत्वार एतन् सुगतो x दिष्टा
आजन्यप्राप्ता सुगतस्य पुत्राः ३ ॥

क्प्.११ चत्वार इमे काश्यप बोधिसत्वस्खलितानि । कतमानि चत्वारि अपरिपाचितेषु सत्वेषु विश्वासो बोधिसत्त्वस्य स्खलितम् । अभाजनीभूते सत्त्वेषूदारबुद्धधर्मसम्प्रकाशनता बोधिसत्त्वस्य स्खलितमुदाराधिमुक्तिकेषु सत्त्वेषु हीनयानसम्प्रकाशना बोधिसत्त्वस्य स्खलितं सम्यक्प्रत्युपस्थितेषु सत्त्वेषु शीलवत्सु कल्याणधर्मप्रति मानना दुःशीलपापधर्मसङ्ग्रहो बोधिसत्त्वस्य स्खलि x इमा काश्यप चत्वारो बोधिसत्त्वस्खलितानि । तत्रेदमुच्यते ॥ १० ॥

न विश्वसेयापरिपाचितेषु अभाजने धर्म उदार नो भणे ।
उदारधर्मेषु न हीनयाने प्रकाशये जातु स बोधिसत्त्वो ।
सम्यक्स्थितां शीलगुणोपपेतान् कल्याणधर्मा न विमानयेत ।
दुःशीलसत्त्वा न परिग्रहेया पापं च धर्मान् परिवर्जयेतः
स्खलितानि चत्वारि इमानि ज्ञात्वा विवर्जयेद्दूरत बोधिसत्त्वाः
इमा निषेवं तु न बोधि बुद्ध्यते तस्माद्विवर्जेदिमि धर्म पण्डितः ३ ॥

क्प्.१२ चत्वार इमे काश्यप बोधिसत्त्वमार्गाः कतमे चत्वारः समचित्तता सर्वसत्त्वेषु । बुद्धज्ञानसमादापनता सर्वसत्त्वेषु समधर्मदेशना सर्वसत्त्वेषु सम्यक्प्रयोगता सर्वसत्त्वेषु । ४ इमे काश्यप चत्वारो बोधिसत्त्वमार्गाः तत्रेदमिदमुच्यते १२ ॥

समचित्त सत्त्वेषु भत नित्यं समादपेयादिह बुद्धयाने ।
धर्मां च देशेता जिनप्रशस्तं सर्वेषु सत्त्वेषु प्रसन्नचित्तो ।
सम्यक्प्रयुक्ता प्रतिपत्तिसुस्थितो सर्वेषु सत्त्वेषु समं चरेत ।
मार्गानिमांश्चतुर जिनप्रशस्तां जिनोरसा सद तं भावयन्ति ॥ ३ ॥

क्प्.१३ चत्वार इमे काश्यप बोधिसत्त्वस्य कुमित्राणि कुसहायास्ते बोधिसत्त्वेन परिवर्जयितव्या । कतमानि चत्वारि । श्रावकयानीयो भिक्षु आत्महिताय प्रतिपन्नः प्रत्येकबुद्धयानीयोऽल्पार्थोऽल्पकृत्यः लोकायतिको विचित्रमन्त्रप्रतिभानः यं च पुद्गलं सेवमान ततो लोकामिषसङ्ग्रहो भवति न धर्मसङ्ग्रहः इमे काश्यप चत्वारो बोधिसत्त्वस्य कुमित्राणि कुसहायास्ते बोधिसत्त्वेन परिवर्जयितव्याः तत्रेदमुच्यते ॥

ये श्रावका आत्महिताय युक्ता योगं च ये प्रव्रजिताश्चरन्ति ।
प्रत्येकबुद्धापि च येऽल्पकृत्या अल्पार्थसंसर्गा विवर्जयन्ति ।
लोकायतं ये च पःहन्ति बाला विग्राहिका यत्र कथोपदिष्टा ।
यं सेवमानामिषसङ्ग्रहो भवेद्भवेन्न धर्मस्य च सङ्ग्रहो यहिम् २ ।
तान् बोधिसत्त्वाश्चतुरो प्रहाय कल्याणमित्राश्चतुरो भजन्ति ।
एते कुमित्रा कुसहाययुक्ता जिनेन दूरात्परिवर्जनीया । ३ ॥

क्प्.१४ चत्वार इमे काश्यप बोधिसत्त्वस्य भूतकल्याणमित्राणि । कतमानि चत्वारि । याचनको बोधिसत्त्वस्य भूतकल्याणमित्रं बोधिमार्गोपस्तम्भाय संवर्तते धर्मभाणको बोधिसत्त्वस्य भूतकल्याणमित्रं श्रुतप्रज्ञोपस्तम्भाय संवर्तते । प्रव्रज्यासमादपको बोधिसत्त्वस्य भूतकल्याणमित्र सर्वकुशलमूलोपस्तम्भाय । संवर्तते । बुद्धा भगवन्तो बोधिसत्त्वस्य भूतकल्याणमित्र सर्वबुद्धधर्मोपस्तम्भाय संवर्तते । इमे काश्यप बोधिसत्त्वस्य भूतकल्याणमित्राणि तत्रेदमुच्यते ॥ १२ ॥

कल्याणमित्रं स च दायकानां प्रतिग्राहको बोधिपरिग्रहाय ।
धर्मार्थवादी श्रुतप्रज्ञकरी कल्याणमित्रं सुगतेन प्रोक्तम् ।
प्रव्रज्य ये चापि समादपेन्ति ते मित्रमूलं सुगतस्य वुक्ताः
बुद्धश्च मित्रं सुगतात्मजानां सम्बुद्धमार्गस्युपस्तम्भनायः
एते हि चत्वारि जिनप्रशस्ता कल्याणमित्रा सुगतात्मजानाम् ।
एत निषेव x सदाप्रमन्ता प्राप्नोति बोधि सुगतोपदिष्टा । ३ ॥

क्प्.१५ चत्वार इमे काश्यप बोधिसत्त्वप्रतिरूप.... कतमे चत्वार । लाभसत्कारार्थिको भवति न धर्मार्थिकाः कीर्तिशब्दश्लोकार्थिको भवति न गुणार्थिकः आत्मसुखार्थिको भवति न सत्त्वदुःखा पनयनार्थिकाः पर्षद्गुणार्थिको भवति न विवेकार्थिकः इमे काश्यप चत्वारो बोधिसत्त्वप्रतिरूपकाः तत्रेदमुच्यते ॥ १४ ॥

लाभार्थिको भवति न धर्मकामो कीर्त्यर्थिको न्नेव गुणैभिरर्थिकः
न सत्त्वदुःखापनयेन चार्थिको यो चात्मनो नित्य सुख्.....र्थिकः
पर्षद्गुणार्थी न विवेककामो सुखे प्रसक्तो न गुणेषु सक्तो ।
चत्वार एते प्रतिरूपकोक्ताः बोधिसत्त्वान् परिवर्जनीया २ ॥

क्प्.१६ चत्वार इमे काश्यप बोधिसत्त्वस्य भूता बोधिसत्त्वगुणा । कतमे चत्वार शुन्यतां चाधिमुच्यते । कर्मविपाकं चाभिश्रद्दधाति । नैरात्म्यं चास्य क्षमते सर्वसत्त्वेषु महाकरुण्. निर्वाणगतश्चास्याशयः संसारगतश्च प्रयोगः सत्त्वपरिपाकाय च दानं विपाकाप्रतिकाङ्क्षनता च । इमे काश्यप चत्वारो धर्मा बोधिसत्त्वस्य भूता बोधिसत्त्वगुणा तत्रेदमुच्यते ॥ १५ ॥

शुन्याश्च धर्मानधिमुच्यते सदा विपाक पत्तीयति कर्मणं च ।
नैरात्मक्षान्त्या समताप्रतिष्ठितो करुणां च सत्त्वेषु जनेति नित्यम् ।
निर्वाणि भावो सत तस्य भोति प्रयोग संसारगतश्च तस्य ।
परिपाचनार्थं च ददाति दानं विपाक नाकाङ्क्षति कर्मणां च २ ॥

क्प्.१७ चत्वार इमे काश्यप बोधिसत्त्वस्य महानिदानप्रतिलम्भाः कतमे...........
बुद्धोत्पादारागणता । षट्पारमिताश्रवणः अप्रतिहतचित्तस्य धर्मभाणकदर्शनम् । अप्रमत्तस्यारण्यवासाभिरतः इमे काश्यप चत्वारो बोधिसत्त्वस्य महानिधानप्रतिलम्भा । तत्रेदमुच्यते । ॥ १६ ॥

बुद्धानमारागण सर्वजातिषु श्रवश्च षण्णामपि पारमीणाम् ।
प्रसन्नचित्तोऽपि च धर्मभाणकां सम्पश्यते गौरव जातु नित्यम् ।
सदाप्रमत्तस्य चारण्यवासो तत्रेव सो भोति रतिः सदास्य ।
चत्वार धर्मा सुगतेन प्रोक्ता महानिधानानि जिनात्मजानाम् । २ ॥

क्प्.१८ चत्वार इमे काश्यप बोधिसत्त्वमारपथसमतिक्रमणा धर्माः कतमे चत्वारः बोधिचित्तस्यानुत्सर्गः सर्वसत्त्वेष्वप्रतिहतचित्तता ।
सर्वदृष्टीकृतानामवबोधना । अनतिमन्यना सर्वसत्त्वेषु इमे काश्यप चत्वारो बोधिसत्त्वस्य मारपथसमतिक्रमणा धर्मा । तत्रेदमुच्यते ॥ १७ ॥

बोधाय चित्तं न परित्यजन्ति सत्त्वेषु च प्रतिघ जहन्ति नित्यम् ।
सर्वाश्च दृष्टिगतनुत्सृजं... न चाधिमन्यन्ति ह सत्त्वकायम्
चत्वार एते सुगतेन प्रोक्ता धर्मा हि मारस्य अतिक्रमाय
....... निषेवित्व जिना भवन्ति अङ्गीरसा अप्रतिमा विनायका २ ॥

क्प्.१९ चत्वार इमे काश्यप धर्मा बोधिसत्त्वस्य सर्वकुश लधर्मसङ्ग्रहाय संवर्तन्ते । कतमे चत्वारः निष्कुहकस्यारण्यवासाभिरतिः प्रतिकाराप्रातिकाङ्क्षिणश्च्.......... सङ्ग्रहवस्तूनि सर्वसत्त्वेषु कायजीवितोत्सर्गः सद्धर्मपर्येष्टिमारभ्यातृप्तिता सर्वकुशलमूलसमुदाननाय । इमे काश्यप चत्वारो धर्मा बोधिसत्त्वस्य सर्वकुशलधर्मसङ्ग्रहाय संवर्तन्ते तत्रेदमुच्यते ॥ १८ ॥

अरण्यवासे कुहनाविवर्जितो सत्त्वेषु च सङ्ग्रह यो जिनोक्ता ।
उत्सर्ग कायस्य च जीवितस्य सद्धर्मपर्येष्टि समारभि.............
समुदाननायाश्च सदा अतृप्तो कुशलान मूलान अनल्पकानाम् ।
कुशलान धर्माण च सङ्ग्रहार्थे चत्वारो धर्मा सुगतेन प्रोक्ता २ ॥

क्प्.२० चत्वार इमे काश्यप बोधिसत्त्वस्याप्रमेया पुण्यसम्भाराः कतमे चत्वारः निरामिषचित्तस्या धर्मदानं दुःशीलेषु च सत्त्वेषु महाकरुणा सर्वसत्त्वेषु बोधिचित्तारोचनता दुर्बलेषु सत्त्वेषु क्षान्त्या सेवनता । इमे काश्यप चत्वारो बोधिसत्त्वस्याप्रमेया पुण्यसम्भाराः तत्रेदमुच्यते ॥ १९ ॥

दानं च धर्मस्य जिनप्रशस्तं
चित्तेन शुद्धेना निरामिषेण
अपेतशीले करुणा च तीव्रा
परेषु बोधाय जनेति चित्तम् ।
क्षान्त्याधिसेवेति च दुर्बलेषु
धर्मेष्व...... सङ्ग्रहता......चोक्ता ।
एता निषेवित्वा जिना भवन्ति
ते बोधिसत्त्वे सदा सेवितव्याः
चतुष्कका अष्ट जहि........ का ।
बोधाय ये आवरणं करोन्ति ।
तथापरा द्वादश सेव्य पण्डिता
प्राप्नोति बोधिममृतं स्पृशित्व्...............
ये चाग्रसत्त्वा इम ध्रमनेत्री
धारयन्ति वाचयन्ति प्रकाशयन्ति ।
तेषां जिनो पुण्यमनन्तु भाषते
ये...... मप्रमाणं जिन वर्णयन्ति ४
ये क्षेत्रकोट्यो यथ गङ्गावालुका
रत्नान पूरित्वन तेषु दद्यात्
यो वा इतो गाथ चतुष्पदी पठेद्
इमस्य पुण्यस्य न एति सङ्ख्या । ५ ॥

क्प्.२१ चत्वार इमे काश्यप धर्मा बोधिसत्त्वस्य अविद्याभागीयाक्लेशसमति क्रमाय संवर्तन्ते । कतमे चत्वारः शीलसंवरः सद्धर्मपरिग्रहः प्रदीपदानमन्तमशः संस्तुतेभ्यः इमे काश्यप चत्वारो धर्मा बोधिसत्त्वस्य अविद्याभागीयाक्लेशसमतिक्रमाय संवर्तन्ते ॥

क्प्.२२ चत्वार इमे काश्यप धर्मा बोधिसत्त्वस्य अनावरणज्ञानताये संवर्तन्ते ।
कतमे चत्वारः यदुत इन्द्रियसंवरः गम्भीरार्थविवरणता स्वलाभेनावमन्यना । परलाभेस्वनध्य.......... नता । इमे काश्यप चत्वारो धर्मा बोधिसत्त्वस्यानावरणज्ञानताये संवर्तन्ते । ॥ २२ ॥

क्प्.२३ न खलु काश्यप नाममात्रेण बोधिसत्वो महासत्त्व इत्युच्यते धर्मचर्यया समचर्यया कुशलचर्यया धर्म्...... रिताभिः काश्यप समन्वागतो बोधिसत्त्वो महासत्त्व इत्युच्यते । द्वात्रिंशद्भि काश्यप धर्मैः समन्वागतो बोधिसत्त्वो इत्युच्यते । कतमे द्वात्रिंशद्भिः यदुत हितसुखाध्याशयतया सर्वसत्त्वेषु । सर्वज्ञज्ञानावतारणतया किमहम्मर्गामीति परेषां ज्ञानाकुन्सनता निरधिमानतया । दृढाध्याशयतया । अकृत्रिमप्रेमतया । अत्यन्तमित्रता । मित्रामित्रेषु समचित्ततया । यावन्निर्वाणपर्यन्तताये ।

क्प्.२४ अनृतवाक्यता स्मितमुखपूर्वाभिभाषणता नुपादत्तेषु भारेष्व्. व्. ष्. द्.
न्........... सर्वसत्त्वेष्वपरिचिन्नमहाकरुणता अपरिखिन्नमानसतया सद्धर्मपर्येष्टिमारभ्यातृ....... श्रुतार्थतया । आत्मस्खलितेषु दोषदर्शनातया । परस्खलितेस्वरुष्टापत्तिचोदनतया । सर्वैर्यपथेषु बोधिचित्तपरिकर्मतया । विपाकाप्रतिकाङ्क्षिण त्यागः सर्वभवगत्युपप........ निःश्रितं शीलम् । सर्वसत्त्वेष्वप्रतिहत क्षान्तिः

क्प्.२५ सर्वकुशलमूलसमादाननाय वीर्यम् । आरूप्य........ परिकर्षितं ध्यानाम् ।
उपायसङ्गृहीता प्रज्ञा । चतुःसङ्ग्रहवस्तुसम्प्रयुक्ता उपाय । शीलवद्दूःशी ............ यतया मैत्रता । सत्कृत्य धर्मश्रवणम् । सत्कृत्यारण्यवासः सर्वलोकविचित्रिकेष्वनभिरतिः...... दृष्टिविगतम् । हीनयानस्पृहणता । महायाने चानुशंससन्दर्शितया । पापमित्रविवर्जनत्........... कल्याणमित्रसेवनता । चतुब्रह्मविहारनिष्पादनता । पञ्चाभिज्ञविक्रीडनता । ज्ञानप्रतिसरणता । प्रतिपत्तिविप्रतिपत्तिस्थिताना सत्त्वानामनुत्सर्गः एकाञ्चवचनता । सत्यगुरुकता । ..................... कुशलमूलसमुदानतया अतृप्तता । बोधिचित्तपूर्वङ्गमता

क्प्.२६ एभिः काश्यप द्वास्त्रिंशद्भिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व इत्युच्यते ॥ तत्रेदमुच्यते । ॥

सर्वेषु सत्वेषु हितं सुखं च अध्याशयेनाप्यधिमुच्यमानाः
सर्वज्ञज्ञानोत्तरणाय किं नु अर्घामि नार्घाम्यहं ज्ञानमाना ।
अकुत्सन्. यानधिमानताया दृढाशयाकृत्रिमप्रेमतायाः
सत्त्वेषु चात्यन्तसुमित्रताया यावन्न निर्वाणपरायणत्वं २
मित्रे अमित्रे समचित्तताया स्मितोमुखत्वमनृता च वाणी ।
उपातभारे.............. दार्यणत्वं करुणापरिच्छिन्न तथेव सत्त्वे ३

क्प्.२७ सद्धर्मपर्येष्टिय नास्ति खेदः
श्रुतेष्वतृप्ते स्खलितेत्मदोष्........
........ रश्च रुष्टेन न चोदनीयः
ईर्यापथे चित्तसुकर्मताया ४
त्यागो विपाकाप्रतिकाङ्क्षणं च
अन............ तं शीलद्भवं गतीषु
सत्त्वेषु क्षान्ति प्रतिघातवर्जिता
समुदाननाया कुशलस्य वीर्य ५
आरूप्यधा........ वकृष्टं च ध्यानं
उपायतो सङ्गृहीता च प्रज्ञाः
चतुःसङ्ग्रहेः सङ्ग्रहीतोपायो
दुःशीलशीले द्वया.......... च मैत्र्या ६
सत्कृत्य धर्मश्रवणं च काले सत्कृत्य वासो च अरण्यशान्ते ।
लोकेषु चित्रेषु रतिर्न कार्यं हीनेषु यानेषु रतिर्न कार्यम् ७
उदारयानेषु स्पृहा जनेया पापाणि मित्राणि विवर्जयेया ।
कल्याणमित्राणि सदा च सेवेश्चत्वार ब्रहाश्च विहार भावयेत् । ८

क्प्.२८ क्रीडेताभीज्ञेहि च पञ्चभिः सदा ज्ञानानुसारि च भाअवेत........
न उत्सृजेया प्रतिपत्तियुक्ता न च द्वितीयापि कदाचिदन्याः ९
एकान्तवादी च भवेत नित्यं सत्ये च सेगौरव नित्य भोति ।
भावेति धर्मांश्च जिनप्रशस्ता पूर्वङ्गमं बोधयि शित्त कृत्वा १०
द्वास्त्रिंशदेते सुगतेन प्रोक्ता धर्मा निषेव्या सुगतोरसेति ।
इमेहि धर्मेहि समन्विता ये ते बोधिसत्त्वा सुगतेन प्रोक्ता ११ ॥

क्प्.२९ उपमोपन्यासनिर्देशास्ते काश्यप निर्देक्ष्यामि । यैरुपमोपन्यासनिर्देशेभिः बोधिसत्त्वो महासत्त्वगुणान् विज्ञापय्..... तद्यथा काश्यप इयं महापृथिवी सर्वसत्त्वोपजीव्या निर्विकारा निष्प्रतिकारा । एवमेव काश्यप प्रथमचित्तोत्पादिको बोधिसत्वो यावद्बोधिमण्डनिषदनातावत्सर्वसत्त्वोपजीव्यो निर्विकारो निष्प्रतिकारो भवति । तत्रेदमुच्यते ॥

पृथिवी यथा सर्वजानोपजीव्या प्रतिकार नाकाङ्क्षति निर्विकारा ।
चित्ते तथाद्ये स्थिता बोधिसत्त्वो यावन्न बुद्धो भविता जिनोत्तम ।
अनुत्तरा सर्वजनोपजीव्यो प्रतिकार नाकाङ्क्षति निर्विकारो ।
पुत्रे च शत्रुं हि च तुल्यमान सो पर्येषते नित्य वराग्रबोधिम् २ ॥

क्प्.३० तद्यथा काश्यप अब्धातु सर्वतृणगुल्मोषधिवनस्पतयो रोहापयति । एवमेव काश्यप आशयशुद्धो बोधिसत्त्वः सर्वसत्त्वानि मैत्रतया स्फरित्वा विहरन् सर्वसत्त्वानां सर्वशुक्लधर्मान् विरोहयति । तत्रेदमुच्यते

यथापि आब्धातु तृणगुल्ममौषधी वनस्पतीनौषधिधान्यजातम् ।
एवमेव शुद्धाशयबोधिसत्त्वो मैत्र्याय सत्त्वान् स्फरते अनन्तात्
स्फरित्व धर्मान् विविधा क्रमेण
शुक्लेहि धर्मेहि विवर्धमानः
अ................ र्व प्राप्नोति जिनान बोधिं
निहत्य मारां सबलां ससैन्यम् २ ॥

क्प्.३१ तद्यथा काश्यप तेजोधातुः सर्वसस्यानि परिपा x यति । एवमेव काश्यप बोधिसत्त्वस्य प्रज्ञा सर्वसत्त्वानां सर्वशुक्लधर्मान् परिपाचयति । तत्रेदमुच्यते ३ ॥

यथापि तेज परिपाचयन्ति सस्याणि सर्वाणि तृणौषधींश्च ।
एमेव प्रज्ञा सुगतात्मजानान् धर्मान् शुभा वर्धयते जनस्य १ ॥

क्प्.३२ तद्यथा काश्यप वायुधातुः सर्वबुद्धक्षेत्रानि विठपयति एवमेव काश्यप बोधिसत्त्वस्योपायकौशल्यं सर्वबुद्धधर्मान् विठपयति । तत्रेदमुच्यते ।

॥ वायुर्यथेव विठपेति क्षेत्राद्बुद्धान नानाविध आशयतो ।
उपाय एवं हि जिनोरसानान् विठपन्ति धर्मान् सुगतोक्तमग्रान् ॥

क्प्.३३ तद्यथापि नाम काश्यप मारस्य पापीमतश्चतुरङ्गं बलसैन्य सर्वदेवैर्न शक्यमभिभवितुं पर्यादतुं वा । एवमेव काश्यप शुद्धाशयो बोधिसत्त्व सर्वमारैर्न शक्यमभिभवितु पर्यादत्तुं वा ।

क्प्.३४ ॥ तद्यथापि नाम काश्यप शुक्लपक्षे चन्द्रमण्डलं परिपूर्यते वर्धते च । एवमेव काश्यप आशयशुद्धो बोधिसत्त्वः सर्वशुक्लधर्मैर्वर्धते । तत्रेदमुच्यते ४

॥ शुक्लपक्षे यथा चन्द्रमण्डलं............
पूर्यते वर्धति नो च हीयते ।
एवमेव शुद्धाशयबोधिसत्त्वोः सिच्
शुद्धेहि धर्मेहि सदा विवर्धते । ॥

क्प्.३५ तद्यथापि नाम काश्यप सूर्यमण्डलमेकप्रमुक्ताभि सूर्यरश्मिभिः सत्त्वानामवभासं करोति । एवमेव काश्यप बोधिसत्त्वमेकप्रमुक्ताभिः प्रज्ञारश्मिभिः सत्त्वानां ज्ञानावभासं करोति । तत्रेदमुच्यते ७

॥ मेकप्रमुक्ताभि यथेव सूर्यो
रश्मीभि सत्त्वान्न सिच्करोति भासम्
एवं जिनानां सुत ज्ञानरश्मिभि
प्रज्ञाय सत्त्वानवभास कुर्वति ॥

क्प्.३६ तद्यथापि नाम काश्यप सिङ्हो मृगराजा यतो यत । एव प्रक्रमते सर्वत्राभितो नुत्रस्त एवं प्रक्रमति । एवमेव काश्यप शीलश्रुतगुणधर्मप्रतिष्ठितो बोधिसत्त्वो यतो यत एव प्रक्रमते सर्वत्राभीतो नुत्रस्त एव प्रक्रमते । तत्रेदमुच्यते ८

॥ यथा हि सिङ्हो मृगराज केसरी येनेच्छकं याति असन्त्रसन्तो ।
एवमेव शीलंश्रुतज्ञानसुस्थितो सिच्येनेच्छकं गच्छति बोधिसत्त्वो ॥

क्प्.३७ तद्यथापि नाम काश्यप सुदान्तः कुञ्जरो नागस्सर्वभारवहनतया न परिखिद्यते । एवमेव काश्यप सुदान्तचित्तो बोधिसत्त्व सर्वसत्त्वानां सर्वभारवहनता न परिखिद्यते । तत्रेदमुच्यते

यथापि नामगो सिच्बलवान् सुदान्तो भारं वहन्तो न दुपेति खेदम् ।
सुदान्तचित्तो तथा बोधिसत्त्वो सत्त्वान भारेण न खेदमैति ॥

क्प्.३८ तद्यथापि नाम काश्यप पद्ममुदके जातमुदकेन न लिप्यते । एवमेव काश्यप बोधिसत्त्वो लोके जातो लोकधर्मे न लिप्यते । तत्रेदमुच्यते १०

॥ पद्मं यथा कोकनदं जलेरुहं जलेन नो लिप्यति कर्दमेन वा ।
लोके स्मि जातो तथा बोधिसत्त्वो न लोकधर्मेहि कदाचि लिप्यते ॥

क्प्.३९ तद्यथापि नाम काश्यप विटपच्छिन्नो वृक्षो मूले नुपहते पुनरेव विरोहति । एवमेव काश्यप उपायकौशल्यक्लेशच्छिन्नो बोधिसत्त्वः सर्वकुशलमूलसंयोजने नुपहते पुनरेव त्रैधातुके विरोहति । तत्रेदमुच्यते ११

॥ यथापि वृक्षो विटपस्मि च्छिन्नो विरोहते मूल दृढे नुपद्रुते ।
एवमुपायोपहतो विरोहते मूलस्मि संयोजन सुप्रहीणे ॥

क्प्.४० तद्यथापि नाम काश्यप नानादिग्विदिक्षु महानदीष्वाप्स्कन्धो महासमुद्रे प्रविष्टः सर्वमेकरसो भवति यदुत लवणरसः एवमेव काश्यप नानामुखोपचितं कुशलमूलं बोधिसत्त्वस्य बोधाय परिणामितं सर्वमेकरसं यदिद विमुक्तिरसम् । तत्रेदमुच्यते १२

॥ नानानदीनामुदकं प्रविष्टं महासमुद्रेकरसं यथा स्यात्
कुशलानि नानामुखसञ्चितानि परिनामितान्येकरसानि बोध्ये ॥

क्प्.४१ तद्यथापि नाम काश्यप सुमेरुप्रतिष्ठिता चतुर्महाराजकायिकास्त्रयस्त्रिंशाश्च देवाः एवमेव काश्यप बोधिचित्ताकुशलमूलप्रतिष्ठिता बोधिसत्त्वस्य सर्वज्ञता तत्रेदमुच्यते १३

॥ चतुर्महाराजिकस्सिच्त्रायस्त्रिञ्चा यथ्. सुमेरुस्थित देवसङ्घा ।
तथ बोधिसत्त्वा कुशले प्रतिष्ठाः सर्वज्ञता प्राप्य वदन्ति धर्मान् ॥

क्प्.४२ तद्यथापि नाम काश्यप आमात्यसङ्गृहीता राजानः सर्वराजकार्याणि कुर्वन्ति । एवमेव काश्यप उपायसङ्गृहीता बोधिसत्त्वस्य प्रज्ञा सर्वबुद्धकार्याणि करोति । तत्रेदमुच्यते १४

॥ यथा हि राजान आमात्यसङ्ग्रहा सर्वाणि कार्याणि करोति नित्यम् ।
तथ सिच्बोधिसत्त्वस्य उपायसङ्ग्रहो बुद्धार्थ प्रज्ञाय करोन्ति नित्य ॥

क्प्.४३ तद्यथापि नाम काश्यप व्यभ्रे देवे विगतवलाहके नास्ति वर्षस्यायद्वारमेवमेव काश्यप अल्पश्रुतस्य बोधिसत्त्वस्यान्तिकानास्ति सद्धर्मवृष्टेरार्यद्वरम् । तत्रेदमुच्यते १५

॥ व्यभ्रे यथा विगतवलाहके नभे वर्षस्य आ............ न कदाचि विद्यते ।
अल्पश्रुतस्यान्तिकद्सिच्धर्मदेशना न बोधिसत्त्वस्य कदाचि लभ्यते ॥

क्प्.४४ तद्यथापि नाम काश्यप.......... भ्रघनमेघसमुत्थिता वर्षधारा सस्यान्यभिवर्षति । एवमेव काश्यप महाकरुणाधर्ममेघसमुत्थ्......... बोधिसत्त्वस्य सद्धर्मवृष्टिस्सत्त्वानामभिवर्षति । तत्रेदमुच्यते १६

यथापि मेघो विपुलो सविद्युतो ...........
स्यानुवर्षेण करोति तृप्तिम् ।
सद्धर्ममेघोत्थितवर्षधारा
तर्पेति सत्वास्तथ बोधिसत्वः ॥

क्प्.४५ तद्यथापि नाम काश्यप यत्र राजा चक्रवर्ति उत्पद्यते तत्र सप्तरत्नान्युत्पद्यन्ते एवमेव काश्यप यत्र बोधिसत्त्व उत्पद्यते तत्र सप्तात्रिञ्चद्बोधपक्ष्या धर्मा उत्पद्यन्ते । तत्रेदमुच्यते १७

॥ उत्पद्यते यत्र हि चक्रवर्ति तत्रास्य रत्नानि भवन्ति सप्त
उत्पद्यते यत्र च बोधिसत्त्वस्तत्रास्य बोध्यङ्ग भवन्ति सप्त ॥

क्प्.४६ तद्यथापि नाम काश्यप यत्र मणिरत्नायद्वारं भवति बहूनां तत्र कार्षापणशतसहस्राणामायद्वारं भवति । एवमेव काश्यप यत्र बोधिसत्त्वस्यायद्वारं भवति । बहूनां तत्र श्रावकप्रत्येकबुद्धहशतसहस्राणामायद्वारं भवति । तत्रेदमुच्यते १८

॥ यथापि यस्मिं मणिरत्न भोति ।
कर्षापणायो बहु............ त्र भोति
सम्बोधिचित्तस्य च यत्र आयो
आयो बहू तत्र च श्रावकानाम् ॥

क्प्.४७ तद्यथापि नाम काश्यप मिश्रकावनप्रतिष्ठिताना त्रायस्त्रिंशानां देवानामुपभोगपरिभोगाः समाः सन्तिष्ठन्ते । एवमेव काश्यप आशयशुद्धस्य बोधिसत्त्वस्य सर्वसत्त्वानामन्तिके सम्यक्प्रयोगो भवति । तत्रेदमुच्यते १९

॥ यथापि देवान समा प्रयोगा मिश्रावने संस्थिहते स्थिताना
एवमेव शुद्धासय बोधिसत्त्वो सत्वेषु सम्यक्कुरुते प्रयोगम् ॥

क्प्.४८ तद्यथापि नाम काश्यप मन्त्रौषधपरिगृहीतं विषं न विनिपातयति । एवमेव काश्यप ज्ञानोपायकौशल्यपरिगृहीतो बोधिसत्त्वस्य क्लेशविषं न शक्नोति विनिपातयितुम् । तत्रेदमुच्यते २०

॥ यथा विषं मन्त्रपरिग्रहेण जनस्य दोषं क्रिययासमर्थं
एवं हि ज्ञानी इह बोधिसत्त्वो क्लेशैर्न शक्यं विनिपातनाय । ॥

क्प्.४९ तद्यथापि नाम काश्यप यं महानगरेषु सङ्करकूतं भवति स इक्षुक्षेत्रेषु शालिक्षेत्रेषु मृद्वीकाक्षेत्रेषु चोपकारीभूते भवति । एवमेव काश्यप यो बोधिसत्त्वस्य क्लेशः स सर्वज्ञतायामुपकारीभुतो भवति । तत्रेदमुच्यते ॥ २१

॥ नगरेषु सङ्कारुर्यथा सुचोक्षो सो इक्षुक्षेत्रेषुपकार कुर्वति ।
एवमेव क्लेशो उपकारा कुर्वति यो बोधिसत्त्वस्य जिनान धर्मे ॥

क्प्.५० तद्यथापि नाम काश्यप इष्वस्त्रे अशिक्षितस्य शस्त्रग्रहणमेवमेव काश्यप अल्पश्रुतस्य बोधिसत्त्वस्य धर्मप्रविचयकौशल्यमीमासदर्थग्रहणज्ञानं द्रष्टव्यः २२ ॥

क्प्.५१ तद्यथापि नाम काश्यप कुम्भकारस्य बालभाजनेषूदाराग्निदानामेवमेव काश्यप बालप्रज्ञेषु बोधिसत्त्वस्योदारधर्मदेशना सिच्वेदितव्यः २२ ॥

क्प्.५२ तस्मिन् तर्हि काश्यप इह महारत्नकूटे धर्मपर्याये शिक्षितुकामेन बोधिसत्त्वेन योनिशो धर्मप्रयुक्तेन भवितव्यम् । तत्र काश्यप कतमो योनिशधर्मप्रयोगः यदुत सर्वधर्माणां भुतप्रत्यवेक्षा । कतमा च काश्यप सर्वधर्माणां भुतप्रत्यवेक्षा । यत्र काश्यप नात्मप्रत्यवे क्षानसत्त्वनजीवनपोषनपुद्गलनमनुजनमानवाप्रत्यवेक्षा । इयमुच्यते काश्यप मध्यमा प्रतिपद्धर्माणां भूतप्रत्यवेक्षा ।

क्प्.५३ पुनरपरं काश्यप मद्ध्यमा प्रतिपद्धर्माणां भूतप्रत्यवेक्षा या रूपस्य न नित्यमिति प्रत्यवेक्षा नानित्यानीति प्रत्यवेक्षा । या वेदनायाः सञ्ज्ञायाः संस्काराणां विज्ञानस्य न नित्यमिति प्रत्यवेक्षा । नानित्यमिति प्रत्यवेक्षा इयमुच्यते काश्यप मध्यमा प्रतिपद्धर्माणां भूतप्रत्यवेक्षा

क्प्.५४ या पृथिवीधातोर्न नित्यमिति प्रत्यवेक्षा नानित्यमिति प्रत्यवेक्षा याब्धातोस्तेजोधातोर्वायुधातो न नित्यमिति प्रत्यवेक्षा नानित्यमिति प्रत्यवेक्षा । या आकाशधातोर्विज्ञानधातो न नित्यमिति प्रत्यवेक्षा नानित्यमिति प्रत्यवेक्षा इयमुच्यते काश्यप मध्यमा प्रतिपद्धर्माणां भूतप्रत्यवेक्षा ।

क्प्.५५ पुनरपरं काश्यप मध्यमा प्रतिपद्धर्माणां भूतप्रत्यवेक्षा । या चक्षुरायतनस्य न नित्यमिति प्रत्यवेक्षा नानित्यमिति प्रत्यवेक्षा इयमुच्यते काश्यप मध्यमा प्रतिपद्धर्माणां भूतप्रत्यवेक्षा । एवं यावच्छ्रोत्रघ्राणजिह्वाकायमनायतनस्य न नित्यमित्यमिति । प्रत्यवेक्षा इयमुच्यते काश्यप मध्यमा प्रतिपद्धर्माणां भूतप्रत्यवेक्षा ।

क्प्.५६ नित्यमिति काश्यप अयमेकोऽन्तः अनित्यमिति काश्यप अयं द्वितीयोऽन्तः यदेतयोर्द्वयो नित्यानित्ययोर्मध्यं तदरूप्यनिदर्शनमनाभासमविज्ञाप्तिकमप्रतिष्ठमनिकेतमियमुच्यते काश्यप मध्यमा प्रतिपद्धर्माणां भूतप्रत्यवेक्षा ।

क्प्.५७ आत्मेति काश्यप अयमेकोऽन्तः नैरात्म्यमित्ययं द्वितीयोऽन्तः यदात्मनैरात्म्ययोर्मध्यं तदरूप्यनिदर्शनमनाभासमविज्ञप्तिकमप्रतिष्ठमनिकेतमियमुच्यते काश्यप मध्यमा प्रतिपद्धर्माणां भूतप्रत्यवेक्षा ।

क्प्.५८ भूतचित्तमिति काश्यप अयमेकोऽन्तः अभूतचित्तमिति काश्यप अयं द्वितीयोऽन्तः यत्र काश्यप न चेतना न मनो न विज्ञानमियमुच्यते काश्यप मध्यमा प्रतिपद्धर्माणां भुतप्रत्यवेक्षा

क्प्.५९ एवं सर्वधर्माणां कुशलाकुशलानां लोकिकलोकोत्तराणां सावद्यानवद्यानां सास्रवानास्रवानां संस्कृतासंस्कृतानां सङ्क्लेश इति काश्यप अयमेकोऽन्तः व्यवदानमित्ययं काश्यप द्वितीयोऽन्तः यो स्यान्तद्वयस्यानुगमो नुदाहारो प्रव्याहार इयमुच्यते । काश्यप मध्यामा प्रतिपद्धर्माणां भूतप्रत्यवेक्षा ।

क्प्.६० अस्तीति काश्यप अयमेकोऽन्तः नास्तित्ययं द्वितीयोऽन्तः यदेतयोर्द्वयोरन्तयोर्मध्यमियमुच्यते काश्यप मध्यमा प्रतिपद्धर्माणां भूतप्रत्यवेक्षत्

क्प्.६१ यदपि काश्यप युष्माकं मयाख्यात । यदुत अविद्याप्रत्यया संस्काराः संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययन्नामारूपन्नामरूपप्रत्ययं षडायतनं षडायतनप्रत्यय स्पर्शः सपर्शप्रप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययमुपादानमुपादानप्रत्ययो भवः भवप्रत्यया जातिः जातिप्रत्यया जरामरोणशोकपरिदेवदुःखदौर्मनस्योपायासाः सम्भवन्त्येवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।

क्प्.६२ अविद्यानिरोधा संस्कारनिरोधः संस्कारनिरोधाद्विज्ञाननिरोधः विज्ञाननिरोधान्नामरूपनिरोधः नामरूपनिरोधात्षडायतननि ........................... .........................................
च्यते काश्यप मध्यमा प्रतिपद्धर्माणां भूतप्रत्यवेक्षा ॥

क्प्.६३ पुनरपरं काश्यप धर्माणां भुतप्रत्यवेक्षा यन्न शुन्यताया धर्मा शून्या करोति धर्मा एव शून्या । यन्नानिमित्तेन धर्माननिमित्तान् करोति धर्मा चैवानिमित्ताः यन्नाप्रणिहितेन धर्मा । प्रणिहितान् करोति धर्मा एवाप्रणिहिताः यन्नानभिसंस्कारेण धर्मानभिसंस्करोति धर्मा चवानभिसंस्कृताः एवं नानुत्पदेन धर्मान्नानुत्पादा करोति धर्मा चैवानुत्पन्नाः एवं नजाता धर्मानजातीकरोति धर्मा चैवाजातः एव यन्न अग्राह्या धर्मान्नग्राह्या करोति धर्मा चैवाग्राह्या । एवमनास्रवा धर्माननास्रवा करोति धर्मा चैवानास्रवा । एवं यो नस्वभावेन धर्मानस्वभाविकरोति धर्मा चैवास्वभावा । एवं यन्न स्वभावेन धर्मास्वभावता धर्माणां यत्स्वभावं नोपलभते या एवं प्रत्यवेक्षा इयमुच्यते काश्यप मध्यमा प्रतिपद्धर्माणां भूतप्रत्यवेक्षाः ॥

क्प्.६४ न खलु पुनः काश्यप पुद्गलभावविनाशाय शून्यता पुद्गलश्चैव शून्यता शून्यता चैव शून्यता । अत्यन्तशून्यता । पुर्वान्तशून्यता । अपरान्तशून्यता प्रत्युत्पन्नशून्यता । शून्यता काश्यप प्रतिसरथ मा पुद्गलम् । ये खलु पुन काश्यपः शून्यतोपलम्भेन शून्यता प्रतिसरन्ति । तानहं काश्यप नष्टप्रनष्टानिति वदामि इतो प्रवचनात् । वरं खलु पुन काश्यप सुमेरुमात्रा पुद्गलदृष्टिराश्रिता न त्येवाधिमानिकस्य शून्यतादृष्टिमालिना । तत्कस्माद्धेतो पुद्गलदृष्टिगतानां काश्यप शून्यता निःसरणं शुन्यतादृष्टि पुन काश्यप केन निःसरिष्यन्तिः ॥

क्प्.६५ तद्यथापि नाम काश्यप कश्चिदेव पुरुषो ग्लानो भवेत् । तस्मै वैद्यो भैषज्यं दद्यात्तस्य तद्भैषज्यं सर्वदोषा उचाल्य कोष्ठगत न निर्गच्छेत्तत्किं मन्यसे काश्यप अपि नु स ग्लानपुरुषस्तस्माद्ग्लान्या परिमुक्तो भवेत् । यस्य तद्भैषज्यं सर्वकोष्ठगता दोषानुच्चाल्य कोष्ठगतो न निःसरेत् । आह नो भगवान् । गाढतरश्च तस्य पुरुषस्य तद्गेलान्यं भवेत् । यस्य तद्भैषज्यं सर्वदोषानुचाल्य सकोष्ठगतं न निःसरेत् । भगवानाह । एवमेव काश्यप सर्वदृष्टिगतानां शून्यता निःसरणं यस्य खलु पुनः काश्यप शून्यतादृष्टिस्तमहमचिकित्स्यमिति वदामि । तत्रेदमुच्यते । ॥

यथा हि वैद्यो पुरुषस्य दद्याद्द्विरेचनं रोगविनिग्रहाय
उच्चाल्य दोषाश्च न निःसरेत ततो निदानं च न चोपशान्ति ।
॥ इमेव दृष्टिगहनाशृतेषु या शुन्यता निःसरणं परं हि ।
साशु ................................

क्प्.६६

क्प्.६७

क्प्.६८

क्प्.६९

क्प्.७० ...................................................................................... ये पि शून्यम् । ॥ तद्यथापि नाम काश्यप तैलप्रदीपस्यैवं भवत्यहमन्धकारं विधमामीति । अथा च पुनस्तैलप्रद्योते कृते आलोकं प्रतीत्य तमोन्धकारं विगच्छति । यश्च काश्यप तैलप्रद्योतो यश्च तमोन्धकारमुभायमेतच्शून्यता । अग्राह्या शून्य निश्चेष्टाः एवमेव काश्यप यं च ज्ञानं चाज्ञानं चाज्ञानं च उभयमेतच्शून्यदग्राह्या शून्या निश्चेष्ट्या ७ ।

क्प्.७१ ॥ तद्यथापि नाम काश्यप गृहे वा लयने वा अववरके वा वर्षासहस्रस्यात्ययेन न तत्कदाचित्तैलप्रद्योतः कृतो भवेत् । अथ च तत्र कश्चिदेव पुरुषः तैलप्रदीपं कुर्यात् । तत्किं मन्यसे काश्यप मैवां तस्य तमोन्धकारस्य भूद्वर्षासहस्रसञ्चितोऽहं नाहमितो विगमिष्यामीति । आह नो हीदं भगवन्न....... तस्य तमोन्धकारस्य शक्तिरस्ति यस्तैलप्रद्योत कृते न विगन्तुमवश्यं तेन विगतव्यं भगवानाह एवमेव काश्यप कल्पकोटीनयुतशतसहस्रसञ्चितोऽपि कर्मक्लेश एकेन योनिशोमनसिकारप्रज्ञाप्रत्यवेक्षणेन विगच्छति । तैलप्रद्योत इति काश्यप आर्यस्यैतत्प्रज्ञेन्द्रियस्याधिवचनम् । तमोन्धकार इति काश्यपत्कर्मक्लेशस्याधिवचनम् । तत्रेदमुच्यते ८

॥ यथापि दीपो लयने चिरस्य कृतो भवेत पुरुषेण केनचित्.................................................................................................

क्प्.७२

क्प्.७३

क्प्.७४

क्प्.७५

क्प्.७६

क्प्.७७ .............................................................................................................................................................. वालमुद्धरेत् ।
कुशलान्वितं श्रावकमेव पश्यथ
कुशलेन युक्तमभिसंस्कृतेन ।

क्प्.७८ ॥ तद्यथापि नाम काश्यप घुण्णखादितस्य सर्षपमभ्यम्तरे आकाशधातु एवमेव काश्यप श्रावकस्याभिसंस्कृतं ज्ञानं द्रष्टव्य । तत्रेदमुच्यते १४

॥ घुणखादितस्यैव हि सर्षपस्य आकाशमभ्यन्तरितोपरिक्तम् ।
अभिसंस्कृतं ज्ञान तथा विजानथ यं श्रावकस्य लघुकं परिक्तक्तम् ॥

क्प्.७९ तद्यथापि नाम काश्यप दशासु दिक्ष्वाकाशधातुरेवं बोधिसत्त्वस्याभिसंस्कृतं ज्ञानं द्रष्टव्यम् । तत्रेदमुच्यते १५

॥ यथापि आकाश दशदिशासु अनावृतं तिष्ठति सर्वलोके ।
अभिसंस्कृतं पश्यथ बोधिसत्त्वे ज्ञानं तथा सर्वजगत्प्रधान । ॥

क्प्.८० तद्यथापि नाम काश्यप राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्याग्रमहिषि दरिद्रपुरुषेण सार्धं विप्रतिपद्येत तस्य ततः पुत्रो जायेतः तत्किं मन्यसे काश्यप अपि नु स राजपुत्र इति वक्तव्यः आह नो हीदं भगवन् भगवानाह । एवमेव काश्यप किञ्चापि मम श्रावकार्धर्मधातुनिर्जाता न च पुनस्ते तथागतस्याभिषेक्यपुत्रा इति वक्तव्याः तत्रदमुच्यते १६

॥ यथापि राज्ञो महिषी मनापी दरिद्रसत्त्वेन सहावसेत ।
तस्या सुतस्तेन च जायते यो ४० ५ स राजपुत्रो न तु राजा भेष्यति ।
एवमेव ये श्रावका वीतरागा न ते भिषेक्या मम जातु पुत्राः
तथा हि ते आत्महिताय युक्ता स्वपरोभयार्थेकरबुद्धपुत्राः ॥

क्प्.८१ । तद्यथापि नामा काश्यप राजा क्षत्रियो मूर्धाभिषिक्तः प्रत्यवरया चेटिकया सहा प्रतिपद्येत । तस्य तत पुत्र उत्पद्येत । किञ्चापि काश्यप स प्रत्यवरया चेटिकया सान्तिकादुत्पन्नो थ च पुन स राजपुत्र इति वक्तव्यः एवमेव काश्यप किञ्चापि प्रथमचित्तोत्पादिको बोधिसत्त्वः अप्रतिबलः संसारे संसरन् सत्त्वान् विनयि काममथा च पुन स तथागतपुत्रो इति वक्तव्यः तत्रेदमुच्यते १७

॥ चेतिया सार्धं यथा चक्रवर्त्ती संवासं गत्वा जनयेत पुत्रम् ।
किञ्चापि चेटियसकाशजातो तं राजपुत्रेति वदेति लोके ।
चित्ते तथा प्रथमे बोधिसत्त्वो बलेन हीनो त्रिभवे भ्रमन्तो ।
दानेन सत्त्वाविनयन्नुपायैर्जिनात्मजो वुच्चति शुद्धसत्त्वोः ३ ॥

क्प्.८२ तद्यथापि नाम काश्यप राज्ञा चक्रवर्तिनः पुत्रसहस्रं भवेत् । न चात्र कश्चिचक्रवर्तिलक्षणसमन्वागतो भवेत् । न तत्र राज्ञश्चक्रवर्तिनः पुत्रसञ्ज्ञा मन्येत । एवमेव काश्यप किञ्चापि तथागतो कोटिशतसहस्रपरिवारः श्रावकेर्न चात्र कश्चिद्बोधिसत्त्वो भवति न तत्र तथागतस्य पुत्रसञ्ज्ञोत्पद्यते । तत्रेदमुच्यते १८

॥ यथा सहस्रं नृपते सुतानां न चेक पुत्रोऽपि सलक्षणः स्यात् ।
न तत्र सञ्ज्ञा नृवरस्य तेषु वोढू यतस्ते न धुरं समर्थाः
तथा हि बुद्धो बहुकोटिनिर्वृतः स्यात्तेषु कश्चिन्न च बोधिसत्त्वः
न पुत्रसञ्ज्ञा सुगतस्य तेषु न बोधिसत्त्वोऽस्ति यतो त्र कश्चित्२ ॥

क्प्.८३ तद्यथापि नाम काश्यप राज्ञश्चक्रवर्तिनो अग्रमहिष्या कुक्षे सप्तरात्रोपपन्नः कुमारश्चक्रवर्तिलक्षणसमन्वागतः तस्य कुक्षिगतस्यापरिपक्वेन्द्रियस्य कललमहाभूतगतस्य बलवन्ततरा तत्र देवता स्पृहामुत्पादयन्ति । न त्वेव तेषु बलजवनवेगस्थामप्राप्तेषु कुमारेषु तत्कस्माद्धेतो स हि चक्रवर्तिवंशस्यानुपच्छेदाय स्थास्यति । एवमेव काश्यप प्रथमचित्तोत्पादिको बोधिसत्त्वः अपरिपक्वेन्द्रिय कललमहाभूतगत एव समानोदथ च पुनर्बलवन्ततरा तत्र पूर्वदर्शनो देवा स्पृहामुत्पादयन्ति । न त्वेवाष्टविमोक्षध्यायीष्वर्हत्सु । तत्कस्माद्धेतोः स हि बुद्धवंशस्यानुपच्छेदाय स्थास्यति । तत्रेदमुच्यते १९

॥ यथाग्रदेवीय तु चक्रवर्तिनो कुक्षिस्थितो लक्षणपुण्यसत्त्वो ।
बलवन्तरं देव स्पृहा करोन्ति न स्थामप्राप्तान कुमारकानां
एकाग्रचित्ते स्थितबोधिसत्वे संसारसंस्थे घटमानबोधये ।
जनेन्ति तस्य स्पृह देवनागा न श्रावकेषु त्रिविमोक्षध्यायिषु ॥

क्प्.८४ तद्यथापि नाम काश्यप करविङ्कपोतक आण्डकोशप्रक्षिपतः अनिर्भिन्ने नयने सर्वपक्षिगणमभिभवति । यदुत गम्भीरमधुरनिर्घोषरुतरवितेत् । एवमेव काश्यपः प्रथमचित्तोत्पादिको बोधिसत्त्वो अविद्याण्डकोशप्रक्षिप्त कर्मक्लेशतमस्तिमिरपटलपर्यवनद्धःनयनोऽपि सर्वश्रावकप्रत्येकबुद्धामभिभवति । यदुत कुशलमूलपरिणामनाप्रयोगनिर्हाररुतरवितेन २० ॥ तद्यथापि नाम काश्यप राज्ञश्चक्रवर्तिन अग्रमहिष्या तत्क्षणजातं कुमारं सर्वश्रेष्ठिनैगमजानपतयः कोट्टराजानश्च नमस्यन्त्येवमेव काश्यप प्रथमचित्तोत्पादिको बोधिसत्त्वः सदेवको लोको नमस्करोन्ति २१ ॥

क्प्.८५ तद्यथापि नाम काश्यप एकं वैडुर्यं मणिरत्नं सुमेरुमात्रं राशि काचमणिकानभिभवति एवमेव काश्यप प्रथमचित्तोत्पादिको बोधिसत्त्वः सर्वश्रावकप्रत्येकबुद्धानभिभवति । तत्रेदमुच्यते २२

॥ यथापि वैडूर्यमणि प्रभास्वरः काचामणीनभिभवते प्रभूतान् ।
इमेव चित्ते प्रथमे बोधिसत्त्वो अभीभवति पृथक्च्छ्रावकान् गुणान् ॥

क्प्.८६ तद्यथापि नाम काश्यप राज्ञो ग्रमहिष्याः तत्क्षणजातं कुमार सर्वश्रेष्ठिनैगमजानपदा कोट्टराजानश्च नमस्यन्ति । एवमेव काश्यप प्रथमचित्तोत्पादिको बोधिसत्त्वः सदेवको लोको नमस्यन्ति । तत्रेदमुच्यते २३

॥ यथापि राज्ञ पृथिवीश्वरस्य पुत्रो भवेल्लक्षणचित्रिताङ्गं
दृष्त्वेव तं जातमात्रं कुमारं सकोट्टराजा प्रणमन्ति पौराः
उत्पन्नमात्रे तथा बोधिसत्वे सल्लक्षणं तं जिनराजपुत्रं
लोकस्सदेवोऽपि नमस्करोन्ति प्रसन्नचित्तं बहुमानपूर्वम् ॥

क्प्.८७ तद्यथापि नाम काश्यप यानि हिमवन्तः पर्वतराजा भैषज्यानि विरोहन्ति सर्वान्यममान्यपरिग्रहान्यविकल्पानि । यत्र च पुनर्व्याध्या व्युम्पनाम्यन्ते तं व्याधिं प्रशमयन्ति । एवमेव काश्यप प्रथमचित्तोत्पादिको बोधिसत्त्वो यज्ञानभैषज्यं समुदानयति तत्सर्व निर्विकल्प समुदानयति समचित्तता सर्वसत्त्वेषु चिकित्सा प्रयति । तत्रेदमुच्यते २४

॥ हिमवन्त ये परवतराज भेषजा रोहन्ति ते निर्ममनिर्विकल्पा ।
यत्रोपनाम्यन्ति च तं शमेन्ति व्याधिं जरा चापनयन्ति केचित्
जिनात्मजापि समुदानयन्ति यं ज्ञानभैषज्य विकल्प मुक्त्वा ।
हितार्थ सर्वं समुदानयन्ति समचित्त सत्त्वेषु चिकित्स कुर्वन् ॥

क्प्.८८ तद्यथापि नाम काश्यप नवचन्द्रो नमस्कृयते सा पूर्णचन्द्रो न तथा नमस्कृयते । एवमेव काश्यप ये मम श्रद्दधन्ति ते बलवन्ततरं बोधिसत्त्वं नमस्कर्तव्य । न तथागत तत्कस्य हेतो बोधिसत्त्वनिर्जाता हि तथागताः तत्रेदमुच्यते २५

॥ चन्द्रं नवं सर्व नमस्करोन्ति तमेव पूर्णं न नमस्करोन्ति ।
इमेव यः श्रद्दधतै जिनात्मजो स बोधिसत्त्वं नमता जिना न तु । ॥

क्प्.८९ तद्यथापि नाम काश्यप मात्रिका सर्वशास्त्रग्रहणज्ञाने पूर्वङ्गमा । एवमेव काश्यप प्रथमचित्तोत्पादिको बोधिसत्त्वः सर्वबुद्धविकुर्विताधिष्ठानेऽनुत्तरे पूर्वङ्गमः ॥

क्प्.९० तद्यथापि नाम काश्यप न जातु केनचिच्चन्द्रमण्डलमुत्सृज्य तारकरूपं नमस्कृत पूर्वम् । एवमेव काश्यप न जातु पण्डितो मम शिक्षाप्रतिपन्न बोधिसत्त्वं रिञ्चित्वा श्रावकं नमस्करोति । तत्रेदमुच्यते २६

॥ न केनचि चन्द्र विवर्जयि त्वा नमस्कृता तारगणा कदाचित् ।
न जातु शिक्षाप्रतिपन्न एवं ममात्मजं त्यज नमेत श्रावकः ॥

क्प्.९१ तद्यथापि नाम काश्यप सदेवको लोको काचमणिकस्य परिकर्म कुर्यात्न जातु स काचमणिको वैडूर्यमणिरत्नो भविष्यति । एवमेव काश्यप सर्वशीलशिक्षाधुतगुणसमाधिसमन्वागतोऽपि श्रावको न जातु स बोधिमण्डे निषद्यानुत्तरा सम्यक्सम्बोधिमभिसम्बोत्स्यते । तत्रेदमुच्यते २७

॥ यथापि लोको परिकर्म कुर्यास्सदेवकः काचमणिस्य शुद्धये ।
न काच वैडूर्य कदाचि भेष्यते अन्यादृशी तस्य सदेव जातिः
एवं हि शीलाश्रुतद्ध्यानयुक्तो यः श्रावक सर्वगुणान्वितोऽपि ।
न बोधिमण्डस्थित मार जित्वा बोधिं स्पृशित्वा सुगतो भविष्यति ॥

क्प्.९२ तद्यथापि नाम काश्यप वैडूर्यस्य महामणिरत्नस्य परिकर्म क्रियमाणैर्बहुणां तत्र कर्षापणशतसहस्राणामायद्वारं भवति । एवमेव काश्यप यत्र बोधिसत्त्वस्य परिकर्म क्रियमाणे बहूनां तत्र श्रावकप्रत्येकबुद्धशतसहस्राणामायद्वारं भवति । तत्रेदमुच्यते २८

॥ वैडूर्यरत्ने परिकर्मनीयन्ते कर्षापणानां च बहु आयु भोति ।
बुद्धोरसानां परिकर्मणं तथा आयो बहूनां श्रावकानां तथेव । ३० ॥

क्प्.९३ अथ खलु भगवान् पुनरेवायुष्मन्तं महाकाश्यपमामन्त्रयति स्म । यस्मिं काश्यप देशे उष्ट्रधूमक कृष्णशिर उत्तानशायी भवति स देश सोपद्रवः सोपक्लेश सोपायासो भवति । सचेत्पुन काश्यप यस्मिं देशे बोधिसत्त्वो भवति । स देश निरुपद्रव निरुपक्लेश निरुपायासो भवति । तस्मात्तर्हि काश्यप सत्त्वार्थोद्युक्तेन बोधिसत्त्वेन भवितव्यं तेन सर्वकुशलमूलानि सर्वसत्त्वानामुत्स्रष्टव्यम् । सर्वं च कुशलमूल सम्यक्समुदानयितव्यम् । यश्च ज्ञानभेषज्यं पर्येषते तेन चतुर्दिशं गत्वा सर्वसत्त्वानां भूतचिकित्सा कर्तव्याः भूतचिकित्साया च्च सत्त्वा चिकित्सितव्याः

क्प्.९४ तत्र काश्यपः कतमा भूतचिकित्साः यदुत रागस्य अशुभा चिकित्सा । द्वेषस्य मैत्री चिकित्साः मोहस्य प्रतीत्यसमुत्पादप्रत्यवेक्षणा चिकित्साः सर्वदृष्टीगतानां शून्यता चिकित्साः सर्वकल्पविकल्पपरिकल्पारम्भणवितर्कमनसीकाराणामानिमित्त चिकित्साः सर्वकामधातुरूपधात्वारूप्यधातुप्रहाणायामप्रणिहित चिकित्साः सर्वविपर्यासाना चत्वारो विपर्यास चिकित्साः अनित्ये नित्यसञ्ज्ञायाः अनित्याः सर्वसंस्कारा इति चिकित्साः दुःखे सुखसञ्ज्ञाया दुःखा सर्वसंस्कारा इति चिकित्साः अनात्मीये आत्मीयसञ्ज्ञाया अनात्मान सर्वधर्मा इति चिकित्साः अशुभे शुभसञ्ज्ञायाः शान्तं निर्वाणमिति चिकित्साः

क्प्.९५ चत्वारि स्मृत्युपस्थानानि कायेवेदनाचित्तधर्मसन्निश्रितानां चिकित्साः काये कायानुपस्यी विहरति न च काये कायानुपाश्यनायामात्म्यदृष्ट्यां पतति । वेदनायां वेदनानुपश्यी विहरति न च वेदनानुपश्यनाया आत्मदृष्टीगतेन पतति । चित्ते चित्तानुपश्यी विहरति न च चित्तानुपश्यनायां जीवदिष्टीये पतति । धर्मे धर्मानुपश्यी विहरति न च धर्मानुपश्यनायां पुद्गलदृष्टीये पतति । चत्वारि सम्यक्प्रहाणानि सर्वाकुशलधर्मप्रहाणाय चिकित्सा । सर्वकुशलधर्मपारिपूर्यैः संवर्तन्ते । चत्वारो दृद्धिपादाः कायचित्तपिण्डग्राहोत्सर्गाय संवते । चिकित्साः पञ्चेन्द्रियाणि पञ्च बलानि अश्राद्व्यकौसीद्यमुषितस्मृतिचित्तविक्षेपअसम्प्रजन्यतादुष्प्रज्ञाताचिकित्साः सप्त बोध्यङ्गानि धर्मसमूहाज्ञानस्य चिकित्साः आर्याष्टाङ्गो मार्ग दौष्प्रज्ञासर्वपरप्रवादिनां कुमार्गप्रतिपन्नानां चिकित्साः इयमुच्यते काश्यप भूतचिकित्साः तत्र काश्यप बोधिसत्त्वेन योगः करणीयः

क्प्.९६ यावन्त काश्यप जाम्बुद्वीपे वैद्या वा वैद्यान्तेवासिनो वा सर्वेषां तेषां जिवको वैद्यराजा अग्रो माख्यायते । यावन्तः काश्यप त्रिसाहस्रमहासाहस्रायां लोकधातौ सत्त्वाः ते सर्वे जीवकवैद्यराजसदृशा भवेयुः ते सर्वे परिपृच्छेरन् । दृष्ट्कौकृत्यप्रतिष्ठितस्य प्रपतितस्य किं भैषज्यमिति । ते न समर्था न च शक्नोति तमर्थ आख्यातुं वा निर्देष्टुं वा ज्ञानविज्ञाता वा । तत्र काश्यप बोधिसत्त्वेनैवमुपपरिक्षितव्य न मया लोकिकभैषज्यसन्तुष्टिर्वेदितव्या । लोकोत्तर मया ज्ञानभैषज्यं पर्येष्टितव्यं सर्वकुशलमूलं च सम्यक्समुदानयितव्यम् । मित्येवं चोपपरीक्षितव्यः यच्च ज्ञानभैषज्यं समुदानयित्वा तेन चतुर्दिशं गत्वा सर्वसत्त्वानां भूतचिकित्सा कर्तव्याः भूतचिकित्सया च सत्त्वानि चिकित्सितव्याः

क्प्.९७ तत्र कतरं लोकोत्तरं ज्ञानभैषज्यम् । यदिदं हेतुप्रत्ययज्ञानः नैरात्म्येनिःसत्त्वःनिर्जीवनिष्पोषनीष्पुद्गलेषु धर्मेष्वधिमुक्तिज्ञानम् । शून्यतानुपलम्भेषु धर्मेषु अनुत्रासः चित्तपरिगवेषताये वीर्यम् । स एवं चित्तं परिगवेषते । कतरं चित्तं रज्यति वा दुष्यति वा मुह्यति वा । अतीतं वा अनागतं वा प्रत्युत्पन्नं वा । यदि तावदतीतं चित्तं तत्क्षीणम् । यादनागतं चित्तं तदसम्प्राप्तः अथ प्रत्युत्पन्नस्य चित्तस्य स्थितिर्नास्ति ।

क्प्.९८ चित्तं हि काश्यप न बहिर्धा नोभयायोमन्तराले उपलभ्यते । चित्तं हि काश्यप अरूप्यनिदर्शनमप्रतिघमनाभासमविज्ञाप्तिकमप्रतिष्ठितमनिकेतः चित्तं हि काश्यप सर्वबुद्धैर्न दृष्टं न पश्यन्ति न पश्यिष्यन्ति न द्रक्ष्यन्ति यत्सर्वबुद्धैर्न दृष्तं न पश्यन्ति न द्रक्ष्यन्ति कीदृशस्तस्य प्रचारो द्रष्टव्यं नान्यत्र वितथविपर्यासपतिताया सन्तत्या धर्माः प्रवर्तन्ते ३ चित्तं हि काश्यप मायासदृशम्मभूतं विकल्प्य विविधोपपत्तिं परिगृह्णाति ४ चित्तं हि काश्यप वायुसदृशं दूरङ्गममग्राह्यमप्रचार ५ चित्तं हि काश्यप नदीस्रोतसदृशम्मनवस्तितमुत्पन्नं भग्नविलीन ६ चित्तं हि काश्यप प्रदीपार्चिःसदृशं हेतुप्रत्ययतया प्रवर्तते । ज्वलति च ७

क्प्.९९ चित्तं हि काश्यप विद्युसदृश क्षणभङ्गाव्यवस्थितं ८ । चित्तं हि काश्यप आकाशसदृशमागन्तुकेरुपक्लेशे सङ्किश्यते ९ चित्तं हि काश्यप वानरसदृश विषयाभिलाषि विचित्रकर्मसंस्थानतया १० चित्तं हि काश्यप चित्रकार्सदृश विचित्रकर्माभिसंस्करणतया । ११ चित्तं हि काश्यप अनवस्थितं नानाक्लेशप्रवर्तनतया चित्तं हि काश्यप एकचरमद्वितीयचित्ताभिसन्धानतया १३ चित्तं हि काश्यप राजसदृशं सर्वधर्माधिपतेया १४ चित्तं हि काश्यप अमित्रसदृशं सर्वदुःखसञ्जननतया १५

क्प्.१०० चित्तं हि काश्यप पांस्वागारसदृशमनित्ये नित्यसञ्ज्ञया १६ चित्तं हि काश्यप नीलमक्षिकासदृशमशुचो शुचिसञ्ज्ञाया १७ चित्तं हि काश्यप मत्स्यबडीशसदृश दुःखे सुखसञ्ज्ञाया १८ चित्तं हि काश्यप स्वप्नसदृशमनात्मीये आत्मीयसञ्ज्ञाया १९ चित्तं हि काश्यप प्रत्यर्थिकसदृशं विविधकारणाकरणतया २० चित्तं हि काश्यप ओजाहारयक्षसदृश सदावतारगवेषणतया २१ चित्तं हि काश्यप अरिसदृशं सदा च्छिद्रारामगवेषणतया २२

क्प्.१०१ चित्तं हि काश्यप सदा उन्नतावनतमनुनयप्रतिघोपहतं २३ चित्तं हि काश्यप चोरसदृश सर्वकुशलमूलमुषणतया २४ चित्तं हि काश्यप रूपाराम पगतङ्गनेत्रसदृशं २५ चित्तं हि काश्यप शब्दाराम सङ्ग्रामभेरीसदृश २६ चित्तं हि काश्यप सदा गन्धाराम वराह इव मीडकुणपे २७ चित्तं हि काश्यप रसाराम रसभोज्यचेटीसदृशं २८ चित्तं हि काश्यप स्पर्षाराम मक्षिकेव तैलपात्रे २९

क्प्.१०२ चित्तं हि काश्यप परिगवेषमणं न लभ्यते ३० यन्न लभ्यते तन्नोपलभ्यते तन्नातीतं नानागतं न प्रत्युत्पन्नम् । यन्नातीतं नानागतं न प्रत्युत्पन्नं तत्रध्वसमतिक्रान्तं यत्र्यध्वसमतिक्रान्तम् । तन्नैवास्ति नेव नास्ति । यन्नैवास्ति न नास्ति । तदजातं यदजातम् । तस्य नास्ति स्वभावः यस्य नास्ति स्वभावः तस्य नास्त्युत्पाद । यस्य नास्त्युत्पादः तस्य नास्ति निरोधः यस्य नास्ति निरोधः तस्य नास्ति विगमः अविगमस्तस्यर्न गतिर्नागतिर्न च्युतिर्नोपपत्तिः यत्र न गतिर्नागतिर्न च्युतिर्नोपपत्तिः तत्र न केचित्संस्काराः यत्र न केचित्संस्काराः तदसंस्कृतम् । तदार्याणां गोत्र

क्प्.१०३ य १ आर्याणां गोत्र । तत्रर्न शिक्षा न निश्रयो नानिश्रयः यत्र न शिक्षा न निःश्रयो नानिश्रयः तत्र न शिक्षाव्यतिक्रमः यत्र न शिक्षाव्यतिक्रमः तत्र न संवरो नासंवरः यत्र न संवरो नासंवर । तत्र न चारो नाचारः न प्रचारः यत्र न चारो नाचार न प्रचारः तत्र न चित्तं न चेतसिका धर्माः यत्र न चित्तं न चेतसिका धर्माः तत्र न मनो न विज्ञानः यत्र न मनो न विज्ञान । तत्र न कर्मो न विपाकः यत्र न कर्मो न विपाकः तत्र न सुखं न दुःखं यत्र न सुखं न दुःखं तदार्याणां गोत्रं यदार्यानां गोत्रं तत्र न कर्मो न कर्माभिसंस्कारो नापि तत्र गोत्रे कायेन कर्म कृयते न वाचा न मनसा । नापि तत्र गोत्रे हीनोत्कृष्टमध्यमव्यवस्थानं समं तद्गोत्रमाकाशसमतया । निर्विशेषं तद्गोत्रं सर्वधर्मैकरसतया ।

क्प्.१०४ विविक्तं तद्गोत्रं कायचित्तविवेकतया । अनुलोमं तद्गोत्रं निर्वाणस्य । विमलं तद्गोत्रं सर्वक्लेशमलविगत अममं तद्गोत्रमहङ्कारममकारविगतम् । अविषमं तद्गोत्रं भूताभूतसमतया निर्यातं सत्यं तद्गोत्रं परमार्थसत्यया । अक्षयं तद्गोत्र अत्यन्ततानुत्पन्नम् । नित्यं तद्गोत्रं सदा धर्मतथतया । अशुभं तद्गोत्रं निर्वाणपरमतया । शुभं तद्गोत्रं सर्वाकारमलविगतम् । अनात्मा तद्गोत्रमात्मनः परिगवेष्यमाणनुपलम्भात् । विशुद्धं तद्गोत्रमत्यन्तविशुद्धतया ॥

क्प्.१०५ अध्यात्मं काश्यप परिमर्गथ मा बहिर्विधावध्वम् । तत्कस्माद्धेतोः भविष्यन्ति काश्यप अनागते ध्वनि भिक्षवः श्वलोष्ट्वानुजवनसदृशाः कथं च काश्यप भिक्षवः श्वलोष्टानुजवनसदृशा भवति । तद्यथापि नाम काश्यप श्वानो लोष्टुना त्रासितः तमेव लोष्टुरनुधावति । न तमनुधावति । येन स लोष्टुं क्षिप्तं भवति । एवमेव काश्यप सत्येके श्रमणब्राह्मणा ये रूपशब्दगन्धरसस्पर्शैर्भयभीता अरण्यायतनेषु विहरन्ति । तेषा तत्रेकाकिनामद्वितीयानां कायप्रविविक्तविहारिणां रजनीयास्तज्जक्रिया रुपशब्दगन्धरसस्पर्शावभासमागच्छन्ति । ते तत्रावेक्षकाः सुखलिकानुयोगमनुयुक्ता विहरन्ति रन्ति ।

क्प्.१०६ ते न जान जानन्ति न बुद्ध्यन्ति किं रूपाशब्दगन्धरसस्पर्शान नीःसरणमिति । ते अजानन्तः अबुद्ध्यन्तः तेषां रूपशब्दगन्धरसस्पर्शानास्वादं चादीनवं चा निःसरणं च अवतीर्णा ग्रामनगरनिगमराषराजधानिष्व पुनरेव रूपशब्दगन्धरसस्पर्शर्हन्न्यं सचेदरण्यगता कालं कुर्वन्ति । तेषां लोकिकसंवरस्थिताना स्वर्गलोके उपपत्तिर्भवति । ते तत्रापि दिव्यैः पञ्चभिः कामगुणैर्हन्यम् । ते ततश्च्युता अपरिमुक्ता समानाश्चतुर्भिरपायैर्निरयतिर्यग्नियमलोकासुरैः एवं हि काश्यप भिक्षवः श्वलोष्ट्वनुजवनसदृशा भवन्ति । ॥

क्प्.१०७ कथं च काश्यप भिक्षुर्न श्वलोष्ट्वनुजवनसदृशो भवति यः काश्यप भिक्षु आक्रुष्टो न प्रत्याक्रोशति ताडितो न प्रतिताडयति पंसितो न प्रतिपंसयति । भण्डितो न प्रतिभण्डयति । रोषितो न प्रतिरोषयति । आध्यात्मं चित्तनिद्ध्यप्तिं प्रत्यवेक्षते । को वाक्रुष्टो वा ताडितो वा । पंसितो वा भण्डितो वा रोषितो वा । एवं हि काश्यप भिक्षुर्न श्वलोष्ट्वनुजवनसदृशो भवनसदृशो भवति । तत्रेदमुच्यते ॥

श्वानो यथा लोष्टुन त्रास्यमानो
अनुधावते लोष्टु न येन क्षिप्तं
एमेविहेकै श्रमणा द्विजा वा
रूपादिभीता वनवासमाश्रिता ।
॥ तेषां च तस्मिन् वसतामरण्ये
रूपादयो दशनमेत इष्टा ।
उपेक्षकाध्यात्मगते नभिज्ञा
आदीनवान्निःसरणेःकमेषा
अजानमाना पुन ग्राममाश्रिता ।
पुनेपि रूपेहि विहन्यमाना
श्युतश्च देवै मनुजैश्च केचित्
तत्रापि दिव्यानुपभुज्य भोगा ३
अपायभूमिः प्रपतन्ति केचित्च्युता च्युता दुःखमुपैति मूढाः
एवं हि ते दुःखशतानुबद्धा श्वलोष्टतुल्या सुगतेन देशिता । ४
आक्रुष्ट नाक्रोशति ताडितस्तथा न पंसितः पंसयतेश्च केचित्
न भण्डितो भण्डयते तथान्यानरोषितो रोषयते च सूरतः ५
अध्यात्मचित्तं प्रतिप्रक्षतश्च गवेषते शान्ततवि स्मृतीमान्
एवंविधः शीलव्रतोपपण्नोः न श्वानतुल्य कथितो जिनेन । ६ ॥

क्प्.१०८ तद्यथापि नाम काश्यप कुशलो अश्वदमक सुतो । यत्र यत्र पृथिवीप्रदेशे अश्व स्खलति । उत्कुम्भति वा खडुङ्कक्रिया वा करोति । तत्र तत्र चैव पृथिवीप्रदेशे निगृह्णाति स तथा तथा निगृह्णाति यन्न पुनरपि न प्रकुप्यते । एवमेव काश्यप योगाचारो भिक्षुर्यत्रयत्रैवं चित्तस्य विकारं पश्यति । तत्र तत्रैवास्य निग्रहाय प्रतिपद्यते । स तथा तथा चित्तं निगृह्णाति यथा न पुन प्रकुप्यते तत्रेदमुच्यते । ॥

यथाश्वसूत कुशलो भवेत स्खलितं च अश्व समभिग्र्. हत्. ।
योगी तथा चित्तविकार दृष्ट्वा तथा निगृह्णाति यथा न कुप्यते । ॥

क्प्.१०९ तद्यथापि नाम काश्यप गलग्रह सर्वेन्द्रियाणां ग्रहो भवति जीवितेन्द्रियस्योपरोधे वर्तते । एवमेव काश्यप सर्वदृष्टिगतानाम्मात्मग्राहो धर्मजीवितेन्द्रियस्योपरोधेन वर्तते । तत्रेदमुच्यते ॥

गलग्रहो वे यथ जीवितेन्द्रिया निगृह्णते नास्य सुखं ददाति ।
दृष्टिकृतानामपि आत्मदृष्टि विनाशयेत इम धर्मजीवितम् ॥

क्प्.११० तद्यथापि नाम काश्यप पुरुषो यतो यतः बद्धो भवति ततस्तत एव मोचयितव्यो भवति । एवमेव काश्यप यतो यत एव चित्तं सज्यति । ततस्तत एव मोचयितव्यं भवति । तत्रेदमुच्यते ॥

यथापि बद्धः पुरुषः समन्तात्समन्ततो मोचयितव्य भोति
एवं यहीं सज्जति मूढचित्तं ततस्ततो योगिन मोचनीयम् ॥

क्प्.१११ द्वाविमौ काश्यप प्रव्रजितस्याकाशपलिगोधौ । कतमौ द्वौ ।
लोकायतमन्त्रपर्येष्टिता च । उत्सदपात्रचीवरधारणतया च । इमौ द्वौ । तत्रेदमुच्यते ॥

लोकायतस्याभ्यसनाभियोगो ततोत्सदं चीवरपात्रधारणम् ।
आकाशबोधे इमि द्वे प्रतिष्ठिते तौ बोधिसत्त्वेन विवर्जनीयौ ॥

क्प्.११२ द्वाविमौ काश्यप प्रव्रजितस्य गाढबन्धनो । कतमौ द्वियदुतात्मदृष्टिकृतबन्धनं च लाभसत्कारश्लोकबन्धनं चेतीमे काश्यप द्वौ प्रव्रजितस्य गाढबन्धनम् । तत्रेदमुच्यते २ ॥

द्वे बन्धने प्रव्रजितस्य गाढे दृष्टिकृतं बन्धनमुक्तमादैः
सत्कारलाभो यशबन्धनं च ते सर्वदा प्रव्रजितेन त्यज्ये ॥

क्प्.११३ द्वाविमौ काश्यप प्रव्रजितस्यान्तारयकरो धर्मौ । कतमो द्वौ ।
गृहपतिपक्षसेवना च आर्यपक्षविद्वेषणता चेतीमे काश्यप द्वौ प्रव्रजितस्यान्तरायकरौ धर्मौ । तत्रेदमुच्यते ३ ॥

गृहस्थपक्षस्य च सेवना या आचार्यपक्षस्य च या विगर्हणा ।
द्वावन्तरायो परिपन्थभूतो तौ बोधिसत्त्वेन विवर्यनीयो ॥

क्प्.११४ द्वाविमौ काश्यप प्रव्रजितस्य मलौ कतमौ द्वन् । यदुत क्लेषाधिवासनता च मित्रकुलभेक्षाककुलाद्व्यवसनताग्रहणं चेतिमे काश्यप द्वौ प्रव्रजितस्य मलो । तत्रेदमुच्यते ॥ ४ ॥

क्लेशश्च यो प्रव्रजितो धिवासयेत्मित्रं स भेक्षाककुलं च सेवति ।
एतौ जिनेन्द्रेण हि देशितौ मलो तौ बोधिसत्त्वेन विवर्जनीयोः ॥

क्प्.११५ द्वाविमौ काश्यप प्रव्रजितस्याशनिप्रपातौ । कतमौ द्वौ । सद्धर्मप्रतिक्षेपश्च च्युतशीलस्य च श्रद्धादेयपरिभोगं चेतीमे काश्यप द्वौ प्रव्रजितस्य अशनीप्रपातो धर्मः तत्रेदमुच्यते ॥ ५ ॥

सद्धर्मस्य प्रतिक्षेप श्युतशीलस्य भोजनम् ।
अशनिप्रपातो द्वावेतौ वर्जनीयो नृपात्मकैः ॥

क्प्.११६ द्वाविमौ काश्यप प्रव्रजितस्य व्रणौ कतमौ द्वौ । परदौ प्रत्यवेक्षनता च स्वदौषप्रतिच्छादनता चेतीमे काश्यप द्वौ प्रव्रजित व्रणौ तत्रेदमुच्यते १६ ॥

वृणुते च स्वका दौषा परिदोषाश्च वीक्षते ।
विषाग्नितुल्यो द्वावेतौ व्रणौ त्यज्यौ परिक्षकैः ॥

क्प्.११७ द्वाविमौ काश्यप प्रव्रजितस्य परिदाघो कतमो द्वौ । यदुत सकाषायस्य च काषायधारणं शीलवन्ता गुणवन्ता चान्तिकादुपस्थानपरिचर्यास्वीकरणं चेतीमे काश्यप द्वौ प्रव्रजितस्य परिदाघो । तत्रेदमुच्यते ७ ॥

सकषायचित्तस्य काषायधारणं शीलान्वितानां च सकाश सेवना परिचर्युपस्थानभिवादनं च धर्माविमौ द्वौ परिवर्जणीया ॥

क्प्.११८ द्वाविमौ काश्यप प्रव्रजितस्य दीर्घग्लान्यौ कतमौ द्वौ । यदभिमानिकस्य च चित्तनिध्यप्तिर्महायानसम्प्रस्थितानां सत्त्वाना विच्छन्दना इमे काश्यप द्वौ प्रव्रजितस्य दीर्घगैला । तत्रेदमुच्यते १८ ॥

निध्यप्ति चित्तस्यभिमानिकानां विच्छन्दनायापि च बुद्धयानम् ।
इमे हि द्वे प्रव्रजितस्य ग्लान्ये उक्ते जिनेनाप्रतिपुद्गलेन ॥

क्प्.११९ द्वाविमौ काश्यप प्रव्रजितस्य अचिकित्सो गैलान्यौ । कतमौ द्वौ ।
यादुताभीक्ष्णापत्तिआपद्यनता । अव्युत्थानता चेति इमे काश्यप द्वौ प्रव्रजितस्य अचिकित्सो ग्लान्यो ९ ॥

क्प्.१२० द्वाविमौ काश्यप प्रव्रजितस्य शल्यो कतमौ द्वौ । यदुत शिक्षापदसमतिक्रमं च अनादत्तसारस्य च कालक्रिया इमे काश्यप द्वौ प्रव्रजितस्य शल्यो १०


क्प्.१२१ श्रमण श्रमण इति काश्यप उच्यते । कियन्नु तावत्काश्यप श्रमणः श्रमण इत्युच्यते । चत्वार इमे काश्यप श्रमणः कतमे चत्वारः यदुत वर्णरूपलिङ्गसंस्थानश्रमण । आचारगुप्तिकुहकश्रमणः कीर्तिशब्दश्लोकश्रमणः भूतप्रतिपत्तिश्रमणः इमे काश्यप चत्वारः श्रमणाः ।

क्प्.१२२ तत्र काश्यप कतमो वर्णरूपलिङ्गसंस्थानश्रमणः इह काश्यप इहेकत्यश्रमण वरणरुपलिङ्गसंस्थानसमन्वागतो भवति । सङ्घाटीपरिवेष्ठितो मुण्डशिरः सुपात्रपाणैः परिगृहीतः स च भवत्यपरिशुद्धकायकर्मसमुदाचार अपरिशुद्धवाक्कर्मसमुदाचारः अपरिशुद्धमनस्कर्मसमुदाचारौः भवति । अयुक्त अमुक्तः अदान्तः अशान्तः अगुप्तः अविनितः लुब्धः अलसोः दुःशीलप्पापधर्मसमाचारः अयमुच्यते काश्यप वर्णरूपलिङ्गसंस्थानश्रमणः ॥

क्प्.१२३ तत्र काश्यप कतमः आचारगुप्तिकुहकः श्रमणः इह काश्यप इहैकत्यश्रमणः आचारचारित्रसम्पनो भवति सम्प्रजानचारी चतुर्भि ईर्यापथैर्लूहान्नपानभोजी सन्तुष्टः चतुर्भिरार्यवंशेरसंसृष्टो गृहस्थप्रव्रजितैरल्पभाष्योऽल्पमन्त्रः ते चास्येर्यापथाः कुहनलपनतया कल्पिता भवन्ति । न चित्तपरिशुद्धये । न शमाय नोपशमाय । न दमाय । उपलम्भदृष्टिकश्च भवति । शून्यतानुपलम्भाश्च धर्मेसु श्रुत्वा प्रपातसञ्ज्ञी भवति । शून्यतावादिनां च भिक्षुणामन्तिके अप्रसादसञ्ज्ञिमुत्पादयति इयमुच्यते काश्यप आचारगुप्तिकुहक श्रमणः ॥

क्प्.१२४ तत्र काश्यप कतमः कीर्तिशब्दश्लोकः श्रमणः इह काश्यप इहैकत्यश्रमणः प्रतिसङ्ख्याय शीलं रक्षति । कथमान् परे जानीयुर्शीलवतानिति । प्रतिसङ्ख्याय श्रुतमुद्गृह्णीते कथमां परे जानीयुर्बहुश्रुत इति । प्रतिसङ्ख्यायारण्ये प्रतिवसति । कथमां परे जानीयु आरण्यक इति । प्रतिसङ्ख्याय अल्पेच्छः सन्तुष्टः प्रविविक्तो विहरत् । यावदेव परोपदर्शनाय न निर्वेदाय न विरागाय न निरोधाय नोपशमाय । ना सम्बोधये । न श्रामण्याय । न ब्राह्मणाय । न निर्वाणाय । अयमुच्यते काश्यप कीर्तिशब्दश्लोकश्रमण ॥

क्प्.१२५ तत्र काश्यप कतमो भूतप्रतिपत्तिः श्रमणः यः काश्यप भिक्षुरनर्थिको भवति कायेन च जीवितेनापि । कः पुनर्व्वादो लाभसत्कारश्लोके । शून्यता आनिमित्ता अप्रणिहिताश्च ध्र्मां श्रुत्वा आप्तमनो भवति तथत्वतायां प्रतिपन्नो निर्वाणे चाप्यनर्थिका ब्रह्मचर्यं चरति । कः पुनर्वादस्त्रैधातुकाभिनन्दनतया शून्यतादृष्ट्याप्यनर्थिको भवति । कः पुनर्वाद आत्मसत्त्वजीवपौषपुद्गलदृष्ट्या । धर्मप्रतिसरणश्च भवति । क्लेषानां च अध्यात्मविमोक्षमर्गति । न बहिर्धा धावति अत्यन्तपरिशुद्धाश्च प्रकृत्या सर्वधर्मा असङ्क्लिष्टान् पश्यति । आत्मद्वीपश्च भवत्यनन्यद्वीपः धर्मतोऽपि तथागतं न समनुपश्यति कः पुनर्वाद रूपकायेन । विरागतोऽपि धर्मं नाभिनिविशते कः पुनर्वाद उत वाक्पथोदाहरणेन । असंस्कृतमपि चार्यसङ्घं न विकल्पयति । कः पुनर्वादो गणसं निपाततः नापि कस्यचिद्धर्मस्य प्रर्हाणायाभियुक्तो भवति न भावनायैर्न साक्षीक्रियाय । न संसारे विरोहति । न निर्वाणमभिनन्दति । न मोक्षं पर्येषते । न बन्धम् । प्रकृतिपरिनिर्वृता च सर्वधर्मान् विदित्वा न संसरति न परिणिर्वायति । अयमुच्यते काश्यप भूतप्रतिपत्तिः श्रमणः ॥ भूतप्रतिपत्त्या श्रामण्यायोगः करणीय न नामहेतेन भवितव्यो इमे काश्यप चत्वार श्रमणा । तत्रेदमुच्यते ॥

क्प्.१२६ यो कायवाक्चित्तमनेरशुद्धो अदान्तगुप्तो अविनीत लुब्धो
मुण्डःशिरश्चीवरपात्रपाणी संस्थानलिङ्गा श्रमणेषु वुक्तो १
आचारचर्याप्समन्वितोऽपि रूक्षान्नभोजी कुहनादिसेवी
चतुरार्यवंशेहि समन्वितोऽपि संसर्ग दुरात्परिवर्जयन्तो २
ते चास्य सर्वे न दमाय भोन्ति न शान्तये नापि च निर्विदाय ।
शून्यानिमित्तेषु प्रपातसञ्ज्ञी आचारगुप्तिः कुहको द्वितीयोः ३
धुता गुणा शील श्रुतं समाधिः परस्य विस्वापनहेतु कुर्वति ।
न शान्तये नापि च निर्विदाय कीर्तीयश्लोकश्रमणोस्तृतीय । ४
कायेन यो अर्थिक जीवितेन वा यो लाभसत्कारपरामुखश्च
विमोक्ष उत्पादमुखं च श्रुत्वा अनर्थिका सर्वभवद्गतीषु । ५ ॥
अत्यन्तशून्याश्च परीक्ष धर्मान्न निर्वृतिं पश्यति नाप्यनिर्वृतिम् ।
विरागतो धर्ममवेक्षते सदा असंस्कृतं धर्ममनित्य निर्वृतः ६ ॥

क्प्.१२७ तद्य्थापि नाम काश्यप दरिद्रपुरुषस्य समृधकोश इति नामधेयमं भवेत् । तत्किं मन्यसे काश्यप अनुरूपं तस्य दरिद्रपुरुषस्य तन्नामधेयं भवेत् । आह नो हीदं भदन्त भगवन् । भगवानाह । एवमेव काश्यप ये ते श्रमणब्राह्मण इत्युच्यन्ते । न च श्रमणब्राह्मणसमन्वागता भवन्ति । तानहं दरिदिअपुरुषानिति वदामि । तत्रेदमुच्यते

॥ यथा दरिद्रस्य भवेत नामं समृद्धकोशम्भि न तच्च शोभते ।
श्रामण्यहीन श्रमणो न शोभते दरिद्र आढ्येतिव उच्यमानः ॥

क्प्.१२८ तद्यथापि नाम काश्यप कश्चिदेव पुरुषो महता उदकार्णवेनोह्यमानः तृषया कालं कुर्यात् । एवमेव काश्यप इहेकत्ये श्रमणब्राह्मणो बहुन् धर्मान् पर्याप्नुवन्ति न रागतृष्णान् विनोदयन्ति । न द्वेषतृष्णा न मोहतृष्णा शक्नुवन्ति विनोदयितुम् । ते महता धर्मार्णवेनोह्यमाना क्लेशतृषाया कालगता दुर्गतिगामिनो भवन्ति । तत्रेदमुच्यते २ ॥

यथा मनुष्यो उदकार्णवेन उह्यन्ति तृष्णाय करेय कालम् ।
तथा पठन्ता बहुधर्मतृष्णया धर्मार्णवस्थामि व्रजन्त्यपायम् ॥

क्प्.१२९ तद्यथापि नाम काश्यप वैद्यो ओषधभारं गृहीत्वा अनुविचरेत्तस्य कश्चिदेव व्याधि उत्पद्येत न च तं व्याधि शक्नुयाचिकित्सितुम् । एवमेव काश्यप बहुश्रुतस्य क्लेशव्याधि द्रष्टव्या यस्तेन श्रुतेन न शक्नोति आत्मनः क्लेषव्याधि चिकित्सितुम् । निरर्थकं तस्य तच्छ्रुतं भविष्यति । तत्रेदमुच्यते ३ ॥

यथेव वैद्यौषधर्भरस्त्रसंस्थे परिल्ह्रमेत निखिलंहि लोके ।
उत्पन्नव्याधीन निवर्तयेच निरर्थकं तस्य भवेत तं हि ।
भिक्षुस्तथा शीलगुणेरुपेतः श्रुतेन युक्तोऽपि न च श्चिकित्सेत् ।
अयोनिश क्लेशसमुत्थिता रुजा वृथा श्रमस्तस्य श्रुताभियोगः ॥

क्प्.१३० तद्यथापि नाम काश्यप । ग्लानः पुरुषो राजार्हन् भैषज्यमुपयुज्यासंवरेण कालं कुर्यात् । एवमेव काश्यप बहुश्रुतस्य क्लेशव्याधिं द्रष्टव्याः यस्तेनास्ंवरेण कालं करोति । यो राजार्हां भैषज्यां पर्यापुनित्वा असंवरेण अपायगामी भवति । तत्रेदमुच्यते ४ ॥

यथापि राजार्हं पीत्व भेषजं व्रजेन्नरो संवरतो निपातम् ।
बहुश्रुतस्येष तु क्लेशव्याधिर्यो संवरेणेह करोति कालम् ।

क्प्.१३१ तद्यथापि नाम काश्यप अनर्घं वैडूर्यमहामणिरत्नमुच्चारे पतितमकार्योपकं भवति । एवमेव काश्यप बहुश्रुतस्य लाभसत्कारौच्चारपतनं द्रष्टव्य । निष्किञ्चनं देवमनुष्येषु । तत्रेदमुच्यते ५ ॥

रत्नं यथोच्चारगतं जुगुस्पितं यथा स्यान्न तथा यथा पुर ।
बहुश्रुतस्यापि वदामि भिक्षोः सत्कारमीडे पतनं तथेव ।

॥ तद्यथापि नाम काश्यपा तदेव वैडूर्यं महामणिरत्नममेद्ध्यावस्करादुद्धृतं भवेत्सुद्धौतं सुप्रक्षालितं सुपरिमार्जितम् । तं मणिरत्नस्वभावमेव न विजहत्येवमेव काश्यप बहुश्रुतोऽल्पप्रयत्नेन सर्वक्लेशान् विशोधयति महाप्रज्ञारत्नस्वभावमेव न विजहाति ६ । ॥

क्प्.१३२ तद्यथापि नाम काश्यप मृतकस्य शिरसि सुवर्णमाला । एवमेव काश्यप दुःशीलस्य काषायधारणं द्रष्टव्यम् । तत्रेदमुच्यते । ७ ॥

सुवर्णमालेव मृतस्य शीर्षे न्यस्ता यथा स्यादथ पुष्पमाला
काषायवस्त्राणि तथा विशीले दृष्ट्वाऽन्न कुर्यान्मनसः प्रदोषाम् ॥

क्प्.१३३ तद्यथापि नाम काश्यप अवदातवस्................................... स्य प्रवरचन्दनानुलिप्तस्य श्रेष्ठिपुत्रस्य वा राजपुत्रस्य वा शिरसि चम्पकमालाबद्धं भवेत् । एवमे.................................... लवतो बहुश्रुतस्य काषायधारणं द्रष्टव्यः तत्रेदमुच्यते ८ ॥

सुस्नातस्यानुलिप्तस्य श्रेष्ठिपुत्रस्य शोभे x
xxx म्पकामालेव शुभगन्धा मनोरमां
यथा तथेव काषायं संवरस्थे बहुश्रुते
द्रष्टव्यं शीलसम्पन्न xxxx गुणान्विते २ ॥

क्प्.१३४ चत्वार इमे काश्यप दुःशीला शीलवन्तप्रतिरूपकाः कतमे चत्वारः इह काश्यप ए................. त्यो भिक्षुः प्रातिमोक्षसंवरसंवृतो विहरति । आचारगोचरसम्पन्न अणुमात्रेष्ववद्येषु भयदर्शी समा....................... य शिक्षते शिक्षापदेषु । परिशुद्धकायकर्मवाङ्मनस्कर्मणा समन्वागतो विहरति । परिशुद्धाजीवः स च भ...................... त्यात्मवादी अयं काश्यप प्रथमो दुःशीलः शीलवन्तःप्रतिरूपको द्रष्टव्यः ॥ पुनरपरं काश्यप इहेकत्यो भिक्षुर्विनयधरो भवति । प्रवर्तविनयो विनयगुप्तिःप्रतिष्ठितः सत्कायदृष्टिरस्यानुचलिता भवति । अयं काश्यप द्वितीयो दुःशीलः शीलवन्तःप्रतिरूपकः ॥ पुनरपरं काश्यप इहेकत्यो भिक्षुः मैत्राविहारि भवति सत्त्वा............. णया समन्वागतः स च अजाति सर्व्वधर्माणां श्रुत्वा उत्रसति । सन्त्रसति । सन्त्रासमापद्यते । अयं काश्यप तृतीयो दुःशीलः शीलवन्तःप्रतिरूपकः ॥ पुनरपरं काश्यप इहेकत्यो भिक्षुः द्वादशधुतगुणस................. उपलम्भदृष्टिकश्च भवत्यहङ्कारस्थितः अयं काश्यप चतुर्थो दुःशीलः शीलवन्तप्रतिरूपको द्र..................... प चत्वारो दुःला शीलवन्तप्रतिरूपका द्रष्टव्याः ॥

क्प्.१३५ शीलं शीलमिति काश्यप उच्यते । यत्र नात्म..................... नात्मीय न सत्त्वो न सत्त्वप्रज्ञप्तिः न क्रिया नाक्रिया । न करणं नाकरणम् । चारो नाचारः न प्रचा................. नाप्रचारः न नामं न रूप । निमित्तं नानिमित्तम् । न शमो नप्रशमः न ग्राहो नोत्सर्गः न ग्राह्यं ............... ह्य । न सत्त्वो न सत्त्वप्रज्ञप्तिः न वाङ्न वाक्प्रज्ञप्ति न चित्तं न चित्तप्रज्ञप्तिः न लोको नालोकः न निश्रयो नानिश्रयः ना मशीलोत्कर्षणा । न परदुःशीलपंसना । न शीलमन्यना । न शीलकल्पना । विकल्पना । न सङ्कल्पना न परिकल्पना । इयमुच्यते काश्यप आर्याणा शील । अनास्रवमपर्यापन्नं त्रैधातुकानु गतं सर्वनिश्रयापगम् ।

क्प्.१३६ अथ भगवांस्तस्यां वेलायमिमां गाथामभाषतः ॥
न शीलवन्तस्य म्............... न किञ्चन
न शीलवन्तस्य मदो न निश्रयः
न शीलवन्तस्य तमो न बन्धनम् ।
न शीलवन्तस्य रजो न...............
शान्तप्रशान्त उपशान्तमानसो
कल्पः विकल्पापगतो निरङ्गणः
सर्वेञ्जनामन्यनविप्रमुक्तः
xशिxx न् काश्यप बुद्धशासनेः
न कायसावेक्षि न जीवितार्थिको
ह्यनर्थिकः सर्वभवोपपत्तिभिः
सम्यग्गत्. ः स्................... प्रतिष्ठितः
स शीलवान् काश्यप बुद्धशासने । ३
न लोकलिप्तो न च लोकनिश्रितोः
आलोकप्राप्तो अममो................... ञ्चनः
न चात्मसञ्ज्ञी न परेषु सञ्ज्ञी
सञ्ज्ञा परिज्ञाय विशुद्धशीलः ४
यस्या नपारं न च पारमध्य्.
x पारपारे च न जातु सक्तः
अवबद्धासक्तो अकुहो अनास्रवः
स शीलवान् काश्यप बुद्धशासने । ५

क्प्.१३७ नामे च रूपे च असक्तमानसः समाहितस्सो हि सुदान्तचित्तः
यस्येह आत्मा न च आत्मनीयामेतावता शीलस्थितो निरुच्यते । ६
न शिक्षया मन्यति प्रातिमोक्षे न चापि तेन भवतेह तन्मयो ।
अथोत्तरं मर्गति आर्यमार्गे विशुद्धशीलस्य इमे निमित्ता ७
न शीलपरमो न समाधितन्न्मयोः पर्येषते दुत्तरि प्रज्ञाभावना ।
अनोपलम्भमार्याण गोत्रं विशुद्धशील सुगतं प्रशस्तम् ।
सत्कायदृष्टे हि विमुक्तमानसो अहं ममैतीह न तस्य भोति ।
अधिमुच्यते शून्यतबुद्धगोचरम्मिमस्य शीलस्य समो न विद्यते । ९
शीले प्रतिष्ठाय समाधि शुद्धः समाधिप्राप्तस्य च प्रज्ञभावना ।
प्रज्ञाय ज्ञानं भवते विशुद्धं विशुद्धज्ञानस्य च शीलसम्पदा । १० ॥

क्प्.१३८ अस्मिन् खलु पुनर्गाथाभिनिर्हारे भाष्यमाणे अष्टानां भिक्षुशतानामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि । द्वात्रिंशतिनां च प्राणसहस्राणां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम् । पञ्च भिक्षुशतानि ध्यानलाभी उथायासनेभ्यः प्रक्रान्तानि इमां गम्भीरा धर्मदेशनामवतरन्तो नावगाहमानाः अनधिमुच्यमानाः

क्प्.१३९ अथायुष्मान्महाकाश्यपो भगवन्तमेतदवोचतिमानि भगवन् पञ्च भिक्षुषतानि ध्यानलाभीन्युत्थायासनेभ्यः प्रक्रान्तानि । इमां गम्भीरा धर्मदेशनामवतरन्तो नावगाहन्तो मनधिमुच्यमानाः भगवानाह । तथा ह्येते काश्यप भिक्षुवः अनधिमानिते मनधिमुच्यमाना इमां गम्भीरा गाथाभिनिर्हारामनास्रवं शीलविशुद्धिनिर्देशं श्रुत्वा नावतरन्ति नाधिमुच्यन्ति नावगाहन्ति तत्कस्माद्धेतो गम्भीरो यं काश्यप गाथाभिनिर्हारं गम्भीरं बुद्धा भगवन्तानां बोधि सा न शक्यमनवरोपितकुशलमूले पापमत्रपरिगृहीतेरनधिमुक्तिबहुले सत्त्वैरधिमुच्यितुं वा पर्यपनितुं वा अवतरितुं वा ।

क्प्.१४० अपि च काश्यप एतानि पञ्च भिक्षुशतानि काश्यपस्य तथागतस्यार्हत सम्यक्सम्बुद्धस्य प्रवचने अन्यतीर्थिकश्रावका अभूवन् । स्ते काश्यपस्य तथागतस्यान्तिकादुपरम्भाभिप्रायैरेका धर्मदेशना श्रुत्वा श्रुत्वा चेव चित्तप्रसादो लब्ध आश्चार्यं यावन्मधुरप्रियभाखल्वेयं काश्यपस्तथागतोऽर्हां संयक्सम्बुद्ध इति । ते ततश्च्युतसमाना एकचित्तप्रसादेन कालगताः त्रायस्त्रिंशेषु देवेषूपपन्नाः नेव हेतुना इह मम्म शासने प्रव्रजिताः तान्येतानि काश्यप पञ्च भिक्षुशतानि दृष्टिगतप्रस्कन्दितानि इमां गम्भीरा धर्मदेशना नावतरन्ति नावगाहन्ति नाधिमुच्यन्ते न श्रद्दधन्ति । कृतं पुनरेषा म्.... यं धर्मदेशनाया परिकर्म न भूयो विनिपातगामिनो भविष्यन्ति । एभिरेव स्कन्धैः परिनिर्वास्यन्ति । ॥

क्प्.१४१ तत्र भगवानायुष्मन्तं सुभूतिमामन्त्रयति स्म । गच्छस्त्वंसुभूते एतान् भिक्षु सञ्ज्ञपय सुभूतिराह । भगवत एव तावदेते भिक्षवो भाषितं प्रतिविलोमयन्ति कः पुनर्वादो मम । अथ खलु भगवांस्तस्यां वेलाया येन मार्गेण ते भिक्षवो गच्छन्ति स्म । तस्मिन्मार्गे द्वौ भिक्षु निर्मिमीते स्म । अथ तानि पञ्च भिक्षुशतानि येन मार्गेण तौ द्वौ भिक्षु निर्मितो तेनोपसङ्क्रामन्नुपसङ्क्रम्येवमवोचन् । कुत्र आयुष्मन्तो गमिष्यथः ताववोचताः गमिष्याम वयमरण्यायतनेषु सुखं फाषं विहरिष्यामः तत्कस्माद्धेतोर्यं हि भगवान् धर्मं देशयति तामावा धर्मदेशनां नावरावो नावगाहाम हे । नधिमुच्यावहे । उत्रसिवः सन्त्रसावः सन्त्रासमापद्यामहे । तावावामारण्यायतनेषु सुखं विहरिष्यामः

क्प्.१४२ तान्यपि पञ्च भिक्षुशतान्येतदवोचन् । वयमप्यायुष्मन्तो भगवतो धर्मदेशना नावतरामो नावगाहामहे नाधिमुच्यामहे । उत्रसावः सन्त्रसावः सन्त्रासमापद्यामहे । ते वयमरण्यायनेषु ध्यानसुखविहारैर्विहरिष्यामः निर्मितकाववोचता सङ्गायिष्याम वयमायुष्मन्तो न विवदिष्यामः अविवाद परमो हि श्रमणधर्मः यदिह मायुष्मन्त इत्युच्यते परिनिर्वाणमिति । कतमः स धर्मो यः परि .............. स्यति कश्चित्पुनरस्मिं कये आत्मा वा सत्त्वो वा जीवो वा जन्तुर्वा पौषौ वा पुद्गलो वा मनुजो वा मानवो................... कर्ता वा कारको वा वेदको वा जानको वा सञ्जानको वा उत्थापको वा समुत्थापको वा यः परिनिर्वास्यति ।

क्प्.१४३ ते आहु................... न क्वचिदस्ति । अस्मिं काये आत्मा वा सत्त्वो वा जीवो वा जन्तुर्वा पुरुषो वा पुद्गलो वा मनुजो वा मानवो वा कर्ता वा कारको वा वेदको वा जानको वा सञ्जानको वा उत्थापको वा यः परिनिर्वास्यति । निर्मितका प्राहु । x पुन साक्षीकृयाया परिनिर्वास्यतीति । ते आहुः रागक्षयाय द्वेषक्षयाय मोहक्षयाय आयुष्मन्त परिनिर्वाणमिति । निर्मितका प्राहुः किं पुनरायुष्मता रागद्वेषमोहाः संविद्यन्ते यां क्षपयिष्यथ । ते आहु । न ते आध्यात्मेन न बहिर्धा नोभयमन्तरेणोपलभ्यन्ते । नापि ते अपरिकल्पिता उत्पद्यन्ते निर्मितकाववोचता । तेन मायुष्मन्तो मास्मान् कल्पयतः मास्मन् विकल्पयतः यदायुष्मन्तो न कल्पयिष्यथः न विकल्पयिष्यथः तदायुष्मन्तो न रङ्क्ष्यथ न विरङ्क्ष्यथः यश्चायुष्मन्तो न रक्तो न विरक्तः................... शान्त इत्युच्यते ।

क्प्.१४४ शीलमायुष्मन्तो न संसरति न परिनिर्वाति समाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनमायुष्................. न संसरति न परिनिर्वाति । एभिश्चेवायुष्मन्तो धर्मै निर्वाणं सूच्यते । एते च धर्मा शून्या विविक्ता अग्रा...................... प्रजहीते तामायुष्मन्तः सञ्ज्ञा यदुत परिनिर्वाणमिति मा च सञ्ज्ञाया सञ्ज्ञा कार्ष्वः मा असञ्ज्ञाया.................... च सञ्ज्ञया सञ्ज्ञा परिज्ञासिष्व । यः सञ्ज्ञया सञ्ज्ञा परिजानाति सञ्ज्ञाबन्धनमेवास्य तद्भवति । सं................ वेदयितनिरोधसमा पत्तिमायुष्मन्तः समापद्यध्वं मा च कल्पयथ मा विकल्पयथः सञ्ज्ञावेदयित................... धसमापत्तिसमापन्नस्य भिक्षोर्नास्त्युत्तरे करणीयमिति वदामः

क्प्.१४५ अस्मिं खलु पुनर्धर्मपर्याये भाष्यमाणे........................... षां पञ्चानां भिक्षुशतानामनुपादायास्रवेभ्यः चित्तानि विमुक्तानि । ते विमुक्तचित्ता येन भगवांस्ते................... पसङ्क्रमन्नुपसङ्क्रम्य भगवतः पादौ शिरोभिर्वन्दित्वा एकान्ते म्यषीदन् । अथायुष्मान् सुभुतिस्ता....................... क्षु एतदवोचत् । क्व नु खल्वायुष्मन्तो गता कुतो वा आगताः ते अवोचनक्वचिद्गमनाय । न कुतश्चिदाग........................... नाय । भदन्त सुभूते भगवता धर्मो देशितः सुभूतिराह । को नामायुष्मन्ता शास्ता । ते आहुः योत्पन्नो................. रिनिर्वास्यति ।

क्प्.१४६ सुभूतिराह । कस्य युष्मे श्रावका कस्य सकाशाद्युष्मे विनीता ते आहुर्येन न प्राप्तनाभिसं................... सुभूतिराह । कस्य सकाशाद्युष्माकं धर्मं श्रुतम् । ते आहु यस्य न स्कन्धा न धातवो नायतनानि ३ सुभूतिराह । कथं पुनर्युष्मे धर्मं श्रुतम् । ते आहुर्न बन्धनाय न मोक्षाय । ४ सुभूतिराह । कथं यूयं प्र................... क्ता ते आहु । न योगाय न प्रयोगाय । न प्रहाणाय । ५ सुभूतिराह केन यूयं विनीताः ते आहुः यस्य न कायपारिनिष्पत्तिर्न चित्तप्रचारम् । ६ सुभूतिराह । कथं युष्माभि प्रयुज्यमाना विमुक्ताः.................. आहुः नाविद्यप्रबाणाय न विद्योत्पादाय ७

क्प्.१४७ सुभूतिराह । कस्य यूयं श्रावकाः ते आहुः यस्य न प्राप्तो ना.................... सम्बुद्धः ८ सुभूतिराह । केव चिरेन यूयं परिनिर्वास्यथः ताहुः यावच्चिरेण तथागतनिर्मि.................... काः परिनिर्वास्यन्ति ता वच्चिरेण वयं परिनिर्वास्यामः ९ सुभूतिराह । कृतं युष्माभि स्वकार्थ........................... ते आहुः अर्थानुपलब्धत्वात्१० सुभूतिराह । कृतं युष्माभिः करणीय । ते आहु । कारकानुप...................... ब्धित्वात् । सुभूतिराह । केव युष्माकं सब्रह्मचारिण । ते आहुः । ये त्रैधातुके नोप चरन्ति । न प्रचरं.................

क्प्.१४८ सुभूतिराह । क्षीणा यूष्माकं क्लेशाः ते आहुरत्यन्तक्षयत्वात्सर्वधर्माणां १३ सुभूतिराह । धर्षिता यु...................... र्मारः ते आहुः स्कन्धमारानुपलब्धित्वात्१४ । सुभूतिराह । परिचीर्णो युष्माभिस्तथागतः ते आहुः..................... कायेन न चित्तेन १५ सुभूतिराह । स्थिता युष्माकं दाक्षीणेयभूमौः ते आहुः अग्राहतः अ........................... तिग्राहतः १६ सुभूतिराह । च्छिन्ना यूयं संसारम् । ते आहुः अनुच्छेद अशाश्वतत्वात्१७ सुभूतिराह । प्रतिपन्ना यूयं श्रमणश्रमणभूमौ । तेन पुनराहुः असङ्गाविमुक्तौ । १८ सुभूतिरा........................ किगामिनायुष्मन्तः ते आहुःर्यद्गमिनस्तथागतनिर्मिताः १९ ॥

क्प्.१४९ इति ह्यायुष्मन्तः सुभूति परिपृच्छतः तेषा......................... भिक्षूणां विसर्जयन्तानाम् । तस्या पर्षदि अष्टानां भिक्षुशतानां पञ्चानां च भिक्षुणीशतानामनुपादाय................. वेभ्यश्चित्तानि विमुक्तानि । द्वात्रिंशतीनां च प्राणसहस्राणां सदेवमानुषिकायां प्रजायां विरजो विगत ..................... धर्मेषु धर्मचक्षुर्विशुद्धम् ॥

क्प्.१५० अथ खलु समन्तालोको नाम बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचति......................... गवन्महारत्नकूटे धर्मपर्याये शिक्षितुकामेन बोधिसत्त्वेन कथं स्थातव्यं कथं प्रतिपत्तव्यम् । कथं शिक्षितव्यं ....................... वानाह । उद्गृह्य कुलपुत्र इह धर्मपर्याये शिक्षा आख्याता प्रतिपत्तिसाराणां सत्पुरुषाणामियं धर्मपर्यायो भवार्थकरो भविष्यति ।

क्प्.१५१ तद्यथापि नाम कुलपुत्र कश्चिदेव पुरुषः मृन्मयीनावभिरुह्यं गङ्गानदीमुत्तर्तुकामो भवेत् । तत्किं मन्यसे कुलपुत्र कीदृशेन वीर्येण तेन पुरुषेण सा न्नोर्वाहयितव्या भवे................... ह बलवता भगवन् वीर्येण । तत्कस्माद्धेतोः मा मेअसम्प्राप्तपारस्येवान्तरेण न्नौर्विपद्येत । महाओ....................... र्णवप्राप्तो स्मिन्मा हैवान्तरेणायं नावा विकीर्येत । भगवानाह । एवमेव समन्तालोक अतो बहुतरे..................... बलवन्ततरेण वीर्येण बोधिसत्त्वेन बोधिः समुदानयितव्याः महाबलवीर्येण च बुद्धधर्मा समुदानयित........................

क्प्.१५२ एवमनसीकारेण अनित्यो बतायं कायः चतुर्महाभूतिकः मातापितृकललसम्भूत । अध्रु....................... नाश्वासिकः विपरिणामधर्मः उच्छदस्नपनपरिमर्दनभेदनविकिरणविध्वंसनधर्मः ओद .......................... ल्मासोपचितः अचिरस्थायि अनाहारो न तिष्ठति । जर्जरगृहसदृशो दुरबलः मा हैव अनादत्तसा....................... स्यान्तरेण कालक्रिया भविष्यति महोघार्णवप्राप्तोऽस्मि चतुरोत्तररोगशतप्राप्तानां सत्त्वानामुह्यमान ......................... मुत्तारणताया बोधिसत्त्वेन महाधर्मनावं समुदानयिष्यामि । यया धर्मनावा सर्वसत्त्वा संसार्......................... वप्राप्तानुह्यमानानुत्तारयिष्यामि ।

क्प्.१५३ तत्र समन्तालोक कीदृशे धर्मनौ बोधिसत्वस्य समुदानयि....................... इह समन्तालोक बोधिसत्त्वेन धर्मनावा समुदानयितव्या यदुत सर्वसमचित्तसम्भारा.................... वन्ति अनन्तपुण्योपचिता शीलफलनिर्जाता दानपरिवारालङ्कारालङ्कृताः आशयदृढसारब्........................ नसुबद्धाः क्षान्तिसोरत्यस्मृतिशल्यबद्धाः सप्तबोध्यङ्गसम्भारदृढवीर्यकुशलधर्मदारुसमुदानिता ध्यान्.................... त्तक्रमनीयकर्मणिकृताः दान्ताशान्ताजानेयकुशलशिल्पसुनिष्ठिता । अत्यन्ताकोप्यधर्म महाकरुणासङ्गृही........................ चतुःसङ्ग्रहवस्तुशूरतुरगवाहिनी प्रत्यर्थिकप्रज्ञाज्ञानसुप्रतिरक्षिता । उपायकौशल्यसुकृतविच्.................... चतुब्रह्मविहारसुशोधिताम् ।

क्प्.१५४ चतुस्मृत्युपस्थानसुचिन्तितकायोपनीता । सम्यक्प्रहाणप्रसठारि ................ दजवजविता । इन्द्रियसुनिरीक्षितदानवक्रविगत बलवेगसमुद्गता अन्तरेण शिथिलबोध्यङ्गविबोध..................... अरिशत्रुमारपथजहनी मानोक्रमवाहिनी । कुतिर्थ्यतीर्थजहनी । शमथनिद्ध्यप्तिनिर्दिष्टा विपश्यनाप्र ................ गा । उभयोरन्तयोरसक्तवाहिनी । हेतुधर्मयुक्ता विपुल्विस्तीर्णाक्षयप्रहाणाबन्धा विघुष्टशब्दा दश................... क्षु शब्दमादायत्यागच्छतागच्छताभिरुत महाधर्मनावं निर्वाणपुरगामिनी । क्षेममार्गगामिनी । महा.................. मतीर सत्कायदृष्टिं जहनीम् । परिमतीरगामिनी लघुसर्वदृष्टिगतविगताम् ।

क्प्.१५५ ईदृशि कुलपुत्र धर्म............................ बोधिसत्त्वेन समुदानयितव्यः अपरिमाणकल्पकोटीनयुतशतसहस्रपरिखिन्नमानसेन । ......................... र्वसत्त्वानामर्थाय अनया सद्धर्मनावा सर्वसत्त्वा तारयितव्याः चतुर्भिरोघे उह्यमानाः ईदृ..................... नावा कुलपुत्र बोधिसत्त्वेन समुदानयितव्याः तत्र समन्तालोकः कतामा बोधिसत्त्वस्य क्षिप्राभिज्ञता । यदुत अकृ................... मः प्रयोगः सर्वसत्त्वेषु । तीव्रच्छन्दिकता आचयशुद्ध्या । उतप्तवीर्यता सर्वकुशलमूलसमुदानय.................. ये कुशलच्छन्दिकता योनिशमनसिकारेण श्रुततृप्तता । प्रज्ञापरिपूर्यैः निर्मानता प्रज्ञोप........ य । प्रव्रज्यानिम्नताइ । सर्वगुणपरिपूर्यै अरण्यवासः कायचित्तविवेकतया ।

क्प्.१५६ असंसर्गो दुर्ज........................... नविवर्जनतया । धर्मार्थिकता परमार्थार्थप्रतिसरणतया । ज्ञानार्थो त्यन्तकोपनार्थतया । धर्मा..................... नार्थतया । सत्यार्थो अविसंवादनार्थतया । शुन्यतार्थो सम्यक्प्रयोगार्थतया । विवेकार्थो अत्यन्तोप.................. र्थतायेति ॥ इयमुच्यते समन्तालोक बोधिसत्त्वस्य महासत्त्वस्य क्षिप्राभिज्ञता ॥

क्प्.१५७ अथ खल्वायुष्मान्महाकाश्यपो भगवन्तमेतदवोचत्- आश्चार्यं भगवन् !
अश्चार्यं सुगतः यावच्चेयं महारत्नकूटो सूत्रान्तरा ......................... उपकारीभूतो महायानसम्प्रस्थितानां कुलपुत्राणां च कुलदुहितृणां च । कियद्भगवन् स कुलपुत्रो....................... कुलदुहिता वा पुण्यं प्रसवति । य इतो रत्नकूटं सूत्रान्तराज्ञादेकगाथामप्युपदिशेत्

क्प्.१५८ एवमुक्ते भगवानायुष्मन्तं महाकाश्यपमेतदवोचत्- यो हि काश्यप कुलपुत्रो वा कुलदुहिता वा गङ्गानदीवालुकसमेषु लोकधा.................... परमाणुञ्जासि बिन्देय भित्वा तात्तका चैव वारावापेय । तात्तका चैव तं सर्वलोकधातवः स...................... परिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भ्यः समयक्सम्बुद्धेभ्यो दानं दद्यात् । गङ्गानदीवालुकसमानां च बुद्धा................... भगवन्तानामेकेकस्य च तथागतस्य गङ्गानदीवालुकासमान् विहारान् करापयेत् ।

क्प्.१५९ गङ्गानदीवा..................... मानां च बुद्धानां भगवतामेकेकं च तथागतस्याप्रमेयश्रावकसङ्घं गङ्गानदीवालुकासमान् कल्पां ............... सुखोपधानैः परिचरेत् । तेषां च बुद्धानां भगवतं यावज्जीवमनापेन कायकर्मेण वाक्कर्मेण म्.................. र्मेण उपस्थानपरिचर्याय तात्तका चैव गङ्गानदीवालुकासमां लोकधातवः परमाणुरजांसि .................. त्तकाभिद्य भित्वा वा तात्तका चैव वारापेय । तान् सर्वं लोकधातुः सप्तरत्नपरिपूर्णं कृत्वा..................... नं दद्याद्बुद्धानां भगवतां यावज्जीवं च मनपेन काय कर्मणा वाक्कर्मणा मनस्कर्मणा उप .................... पारिचर्याय तात्तका चैव गङ्गानदीवालुकासमानपि तात्तका चैव बुद्धानां भगवतं सत्कुर्याद्.................. न्मानयेत्पूजयेत्तेषां च परिनिर्वृतानां सप्तरत्नमया स्तुपा कारापयेत् । यश्च कुलपुत्रो वा कुल.................... ता वा इतो महारत्नकूटात्सूत्रान्तराज्ञा सर्वबुद्धभाषितादेकामपि गाथा उद्गृह्णेय धार................... अस्य पुण्यस्कन्धस्य स पूर्वकपुण्यस्कन्धः शतिमामपि । कलानोपैति । सहस्रिमामपि । को........................ तसहस्रिमामपि । सङ्ख्यामपि । कलामपि । गणनामपि । उपमापि । उपनिषामपि । नक्ष.................... योश्च श्रुणेय श्रुत्वा च न परिक्षिपेय । अयं ततो बहुतरः पुण्यस्कन्धप्रसुतो भवेत् । यश्च मातृ .........................शृणुयाद्वा लिखापयेद्वा पर्याप्नुयाद्वा तस्य न जातु विनिपातो भविष्यति । स एव तस्य पशे ...................... वो भविष्यति ।

क्प्.१६० यत्र च पृथिवीप्रदेशो अयं रत्नकूटो धर्मपर्यायो भाष्यते वा देश्यते वा लिख्यते वा.......................... वा पुस्तगतं वा तिष्ठेत्स पृथिवीप्रदेशे चैत्यभूतो सदेवकस्य लोकस्य यस्य च धर्मभाणकस्यान्त्......................... दिमं धर्मपर्यायं श्रिणुयाद्वा उद्गृह्णीयाद्वा लिखेद्वा पर्याप्नुयाद्वा । तस्य धर्मभाणकस्यान्तिके................... वंरूपा गौरवामुत्पादयितव्यः तद्यथापि नाम काश्यप तथागतस्य । य्..................................................णकं सत्करिष्यति गुरुकरिष्यति मानयिष्यति । पूज्...................... णकाले चास्य तथागतदर्शानं भविष्यति ।

क्प्.१६१ तथागतदर्शनेन च दश च कायकर्मपारिशुद्धि प्रतिलप्.......................... कतमे दश । यदुत...................वेदनाया अपर्यादत्तचित्त कालं करिष्यति । चक्षुविभ्रमश्चास्य न भविष्यति............... स्तविक्षेपं च करिष्यति ३ न पादविक्षेपं च करिष्यति । ४ नोच्चारं करिष्यति । ५ न प्रस्रावं करिष्यति । ६ न............................................. आत्स्वेदं प्रयरिष्यति । ७ न मुष्टिं करिष्यति । ८ न चाकाशं परामृशति । ९ यथा निषण्.................

क्प्.१६२

क्प्.१६३

क्प्.१६४

क्प्.१६५

क्प्.१६६�