काशिका (पदमञ्जरीव्याख्यासहिता)/षष्ठोऽध्यायः/प्रथमः पादः
काशिका (पदमञ्जरीव्याख्यासहिता) प्रथमः पादः [[लेखकः :|]] |
द्वितीयः पादः → |
काशिकावृत्ती
अथ षष्ठाध्याये प्रथमः पादः
एकाचो द्वे प्रथमस्य ।। 6.1.1 ।।
इह यद्यपि स्वार्थत्वे सम्भवति पारार्थ्यमयुक्त्म्, विधेयकार्यिणोर्द्वयोर्निर्दे शात् सम्भवति च स्वार्थत्वम्, तथापि `लिटि धातोः' इत्यादौ विधेयानिर्द्देसेन वैयर्थ्यप्रसङ्गान्नायम् `अण्कुटिलिकायाः' इत्यादिवत्केवलो विधिः, नापि `शेषे' इत्यादिवल्लक्षणं चाधिकारश्च। तथा हि सति सर्वेषामेव शब्दानां प्रथमस्यैकाचोऽनेन द्विर्वचने सिद्धे `लिटि धातोः' इत्याहि व्यर्थं स्यात्। धातोर्लिठ्येव, लिटि दातोरेव-इति नियमान्न वैयर्थ्यमिति चेत् ? न; विधिनियमसम्भवे विधेरेव ज्यायस्त्वात्। अस्च हि पारार्थ्येमिति चेत्? न; विधिनियमसम्भवे विधेरेव ज्यायस्तावात्। अस्य हि पारार्थ्योऽवम्भाविनि सति यथा तेषां विधित्वं तथास्य वर्णनं युक्तमतः परार्थ एवायम्। तत्रापि न परिभाषा-द्विर्वचनं विधीयमानं प्रथमस्यैकाचो वेदितव्यमिति; एवं हि सति `सर्वस्य द्वे' इत्यत्रैवास्य व्यापार इति तत्रैवैकाचः प्रथमस्येति वाच्यं स्यात्। `लिटि धातोः' इत्यादिकं च विधेयानिर्द्देशाद्व्यर्थ स्यात्। अतः पारिशेप्यात्स्वरितत्वाच्चाधिकार एवायमिति निश्चित्याह--एकाच इतदि चेति। अधिकारोऽयमिति वक्तव्ये पृथक् स्वरितत्वप्रदर्शनार्थमेवमुक्तम्। एतत्त्रितयमिति। तस्य प्रयोजनम्--यत्र यदपेक्षितं तत्र तस्य सम्बन्धः, यथा--`अजादेर्द्वितीयस्य' इत्यत्र `एकाचो द्वे' इति, `अभे अभ्यस्तम्' इत्यत्र `द्वे' इति, लिटि धातोरित्यादौ सर्व सम्बध्यते। इत उत्तरमित्यादि। अनन्तरोक्तस्यैव विवरणम्। प्राक् सम्प्रसारणविदानादिति। तत आरभ्य तु नास्य सम्बन्धः; विधेयान्तरनिर्देशात्स्वरिते कृते नाधिकार इति वा व्याख्यानात्।
सामान्येनोक्तमुदाहरणनिष्ठं दर्शयति--वक्ष्यतीति। अत्र यदि `धातोरेरेकाचः' इति सामानाधिकरण्येन सम्बन्धः स्यात्, पचिप्रभृतीनामेव स्यात्, न जागर्त्यादीनाम्। प्रथमग्रहणं चानर्थकं स्यात्, न ह्येकाचां धातूनां द्वितीयादिरेकाजस्ति। न च प्रथमस्य धातोरिति सम्बन्धः। तथा हि सति धातुपाठे प्रथमपठितस्य भवतेरेव स्यात्, ततश्च भवतिग्रहणमेव कर्तव्यं स्यात्। अथैकाचो धातोः प्रथमस्य वर्णस्येति सम्बन्धः ? तदयुक्तम्; सहनिर्द्दिष्टयोः सामानाधिकरण्यस्य स्वतः प्राप्तस्य त्यागायोगात्। अतो वैयधिकरण्येन सम्बन्ध इत्याह-दातोरवयवस्येति। द्वितीयस्य चेति। यद्यप्यत्र द्वितीयग्रहणं नास्ति, तथापि `लिटि धातोः' इत्यत्र त्वधिकृतमस्ति, तस्य चार्थः प्रदर्श्यते इति नासङ्गतं किञ्चित। जजागार-इत्यादीनि मुख्यगौणतया क्रमेणोदाहरणानि।
एकाच इति यद्ययं तत्पुरुषः स्यात्तदा `धातोः' इत्यनेन सामानाधिकरण्यं चेत्? इयाय आरेत्यादावेव स्याद्, वैयधिकरण्ये तु पपाचेत्यादिषु भवदपि द्विर्वचनमज्मात्रस्यैव स्यात्, ततश्च `हलादिः शेषः', `शर्पूर्वाः खयः', `लिट्यब्यासस्योभ्येषाम्' इत्याद्यनुपपन्नं स्यात्। एकग्रहणं चानर्थकम, प्रथमस्याच इति विशेषणादेकस्य च धातोरनेकप्रथमाजसम्भवादच इत्येकत्वं वा विवक्षिष्यते, किमेकग्रहणेन ? तस्माद् बहुव्रीहिरयम्। तदाह--एकाच इति बहुव्रीहिनिर्देश इति। बहुव्रीहिणा विवक्षितस्यार्थस्य प्रतिपादनं बहुव्रीहेर्वा उच्चारणं बहुव्रीहिनिर्द्देषः। विग्रहप्रदर्शनं विस्पष्टप्रतिपत्त्यर्थम्। यदि बहुव्रीहिनिर्द्देशस्ततो बहुव्रीहेरन्यपदार्थप्रधानत्वाद्यथा `चित्रगुरानीयताम्' इत्युक्ते यस्य ता गावः स एवानयते न चित्रा गावः, तद्वदत्रोपलक्षितं तदुभयपार्श्ववत्ति व्यञ्जनद्वयमेव द्विरुच्येत, न तूपलक्षणभूतोऽजित्यत आह--तत्रेति। भवति वै बहुव्रीहावपि क्वचिद्वर्तिपदार्थस्यापि कार्ययोगः, तद्यथा--शुक्लवाससमानयेति मत्वर्थे बहुव्रीहिः, तत्र यथा दण्डी, विषाणीति संसर्गे मत्वर्थीय उत्पन्ने तस्य द्विष्ठत्वाद् गुणस्यापि कार्ययोगः; तद्वद् बहुव्रीहावपि यत्र संसर्गो वाच्यस्तत्राविरुद्धो गुमस्यापि कार्ययोगः। अभ्यन्तरश्चेति। अन्तर्भूत इत्यर्थः। आन्यन्तरमिति पाठे अभ्यन्तरम्=मध्यम्, तत्र भवमाभ्यन्तरम्। साच्कस्यैव द्विर्वचनं भवतीति। यथा तत्सन्निहितमवयवान्तरं द्विरुच्यते, तथोपलक्षणीभूतोऽप्यजित्यर्थः। अत्र च ज्ञापकम् `दीर्घोऽकितः' इत्यादि। चोदयति--एवं च पचित्यत्रेति। तेनैव तदवयवोच्छब्दः पशब्दश्चेति। चकारादकारश्च व्यपदेशिवद्भावादेकाजेव, यथैवाङ्गुल्या देवदत्तोऽङ्गुलिमांस्तथा हस्तोऽपि, तद्वदत्रापि। ततश्च सर्वेषामेव तेषां द्विर्वचनप्रसङ्ग इति शेषः। नन्वर्थवद्ग्हहणे नानर्थकस्येति समुदायस्यैव भविष्यति, नावयवानाम्, नन्वेवं जागत्र्यादीनां न स्यात्, किञ्च यत्र `शे' इत्यादौ विशिष्टं शब्दस्वरूपं गृह्यते तत्रैवेयं परिभाषा, अत्र तु `धातोरवयवस्यैकाचः' इति तटस्थेनोपलक्षणेन जाग्, पच्-इत्येवमादिकं गृह्यते, न तु स्वरूपेणेति नेह तस्याः प्रवृत्तिः? परिहरति--तत्रेति।
तेषु समुदायादिष्वेकाक्षु मध्येऽवयवैकाचः प्रथमा न द्विरुच्यन्ते, कुतः ? इत्याह--तथा हीत्यादि। अयमभिप्रायः---किमेकस्मिन्नेव प्रयोगे युगपच्च सर्वप्रयोगश्चोद्यते? पर्यायेण वा ? किं वा प्रयोगभेदेन कस्यचित् क्वचनेति ? न तावदाद्य कल्पः, प्रमित्यनुष्ठानयोर्द्वयोरप्यसम्भवात्। तथा हि--एकाच्त्वेन निरुपितं द्विर्वचनं प्रमातव्यम्, न चैकोऽवयवो युगपदनेकावयवत्वेन शक्योनिरूपयितुम्, तत्कथं युगपत्प्रमीयताम्, प्रमितं वा कथमनुष्ठीयताम्! न ह्येकस्मिन्नेकाचि द्विरुच्यमाने तदैवान्य एकाच्छक्यो द्विर्वक्तुम्; वाचः क्रमभावित्वात्। नापि द्वितीयः; `अनभ्यासस्य' इति प्रतिषेधादनवस्थापाताच्च। तस्मात्प्रयोगभेदेन सर्वप्रसङ्ग इत्येष एव पक्षः सम्भवति। तत्र `णिजिर् शौचपोषणयोः' इत्यस्य श्लौ यदा निशब्दस्य द्विर्वचनम्, तदा नेनेक्ति, नेनिक्त इत्यत्र न कश्चिद्दोषः। नेनिजति, अनेजिजुः, नेनिजदित्यत्र `अदभ्यस्तात्', `सिजब्यस्तविदिभ्यश्च', `नाभ्यस्ताच्छतुः' इत्यद्भावजुसभावनुम्प्रतिषेधा न स्युः; जकारेण व्यवधानात्, इकारस्येच्छब्दस्य च द्विर्वचने रुपमेव न सिध्यतीत्येष एव दोषः ? तस्य परिहारः--`शास्त्रहानिप्रसङ्गात्' इति। अवयवे हि द्विरुच्यमानेऽवयवान्तरविषयसमुदाविषयं च शास्त्रं हीयते। ननु शास्त्रेण प्रमितमेव यदि नानुष्ठीयेत स्याच्छास्त्रहानिः, अत्र तु पर्यायेण प्रतीयत इत्युक्तम्, तच्चानुष्ठितमेव कथं सास्त्रहानिः? अङ्ग तु भवानाचष्टाम्--पशब्दे द्विरुच्यमाने चकारः किमिति न द्विरुच्यते, तदा तद्द्विर्वचनस्याप्रतीतत्वादिति चेत्किमिति न प्रतीयते, तेन सहैकाच्त्वेनानिरूपितत्वादितिचेत्किमिति न निरूप्यते? मौनमत्रोत्तरम्, तस्माद्यस्मिन् प्रयोगे यच्च यावच्च प्रथमैकाच्त्वेन शक्यते निरूपयितुम्, तस्य सर्वस्य द्विर्वचनं प्रमातव्यमनुष्टातव्यं च; अन्यथा तु क्रियमाणं प्रतीत्यनुष्ठानयोरुभयोरपि शास्त्रहानिमावहति। तस्मात्समुदायस्य द्विर्वचनमिति। न चात्रापि पक्षेऽवयवविषये शास्त्रहानिः; अवयवात्मकत्वात्समुदायस्य न खल्ववयवानां द्विर्वचनमकृत्वा समुदायः शक्यो द्विर्वक्तुम्, तद्यथा-वृक्षः प्रचलन्सहावयवैः प्रचलति।
अथ कथं पपाचेति द्विर्वचनम्, यावता धातुरेवायं न धात्ववयवः, नापि प्रथमः, द्वितायादिषु हि सत्सु यस्मात्पूर्वो नास्ति स प्रथमः? कथन्तरां चेयायेत्यादौ यत्रैकोऽजस्येति व्यतिरिक्तोऽन्यपदार्थो नास्ति? तत्राह--पपाचेत्यत्रेति। एकाच्त्वमपीति। अपिशब्दात्प्रथमत्वमपि, उभयत्रापि धातुं प्रत्यवयवत्वम्। व्यपदेशिवद्भावादिति। मुख्य एकाज्व्यपदेशः, अवयवव्यपदेशश्च येषामस्ति ते व्यपदेशिनो जाग्रादिषु जागित्येवमादयः, तेषामिवैषामपि कार्य भवतीत्यर्थः। न चेदं वचनम्, लोकिकोऽयं न्यायः, लोके हि `शिलापुत्रकस्य शरीरम्' इति बहिर्वस्तुभेदेऽसत्यपि बेदव्यवहारोऽवस्थाबेदाश्रयो दृश्यते। शिलापुत्रकः क्रीयमाणविक्रीयमाणत्वाद्यवस्थायुक्तो यो दृष्टस्तस्येदं शरीरमिति परिदृश्यमानावस्थाभेदेन व्यपदिश्यते। पपाचेत्यत्रापि पचेरनन्तप्रयोगविषयस्य सम्प्रति प्रयुज्यमानं लिट्परं रूपमवयव इति शक्यं व्यपदेष्टुम्, प्रथमशब्दोऽपि प्रथमगर्बेण हतेत्यादावसतोऽपि द्वितीयादीन् बुद्ध्या परिकल्प्य मुख्यप्रथमसाधर्म्याद्यथा लोके एकस्मिन्नपि प्रथम इति प्रयुज्यते, तद्वदत्रापि। इयायेत्यत्रापि इतः, यन्ति, आयन्, आगात्, जिगमिषतीत्यनन्तप्रयोगस्थेनैकोऽयमिकार इत्यन्यपदार्थोऽपि कल्पितः. प्रसिद्ध्यप्रसिद्धिकृतश्च गौणमुख्यविवेकः। एवं विधस्तु व्यवहारो मुख्यादपि प्रसिद्ध इति न गौणत्वदोषः। एवं च कृत्वा--`व्यथो लिटि' `भवतेरः',`लिट्यभ्यास्सयोभयेषाम्', `दीर्घ इणः किति' इत्यादिकमुपपद्यते।
अत्र `द्वे' इत्यस्य संख्येयापेक्षायां शब्दानुशासनप्रस्तावाच्छब्दरूपे सख्येये `षष्ठी स्थानेयोगा' इति वचनादेकाचः प्रथमस्येति स्थानषष्ठ्यां सत्यामेकस्य स्थाने द्वे शब्दरुपे इत्यर्थो भवति, यथा--`अस्तेर्भूः' इत्यादौ, तदा `स्थाने द्विर्वचनम्' इत्ययं पक्षो भवति। यदा शब्दसम्बन्धिनी उच्चारणे संख्येये क्रियारूपस्य शब्दस्य च स्थान्यादेशसम्बन्धायोगादध्याहृतोच्चारणक्रियापेक्षयैकाच इति कर्मषष्ठी--एकाचो द्वे उच्चारणे भवतः, एकाचं द्विरुच्यारयेदित्यर्थः, तदा `द्विःप्रयोगो द्विर्वचनम्' इत्ययं पक्षो भवति। तत्राद्ये पक्षे `स्थानेऽन्तरतमः' इति वचनाच्छब्दतश्चान्तरतमयोर्द्वयोविधानाद् यद्यपि ये केचन प्राप्नुत इति दोषनवतारः। चिचीषतीत्यत्र तु `सन्यङोः' इति षष्ठ्याः स्थापयिष्यमाणत्वाच्चिस् इत्यस्य स्ताने चिस्चिस् इति शब्दान्तर आदेशे सति तत्स्थस्य सकारस्य सन्त्वे प्रमाणाभावात् `अज्ज्ञनगमां सनि' इति दीर्घत्वं न स्यात्; आदेशस्य स्थानिवद्भाव उच्यते नादेशावयवस्य स्यान्यवयववद्भाव इति स्थानिवद्भावेनापि सन्त्वं नास्ति। तस्य तु यत्र सन्मात्रस्य द्विर्वचने स्थानिवद्भावेन सन्त्वं सोऽवकाशः, यथा--इणः सन्, ईषिषतीति।
ननु शब्दान्तरप्राप्त्या द्विर्वचनमनित्यम्, अप्राप्त्या तु दीर्घत्वमित्युभयोः परत्वाद्दीर्घत्वे कृते द्विर्वक्ष्यते? इह तर्हि ह्वयतेः सनि ह्नास् इत्यस्य द्विर्वचनम्, समुदायस्य समुदाय आदेशस्तत्र आदोश एतन्नास्ति--इयं प्रकृतिरयं प्रत्यय इति, ततश्च `ह्वोऽभ्यस्तस्य' इति संप्रसारणं न स्यात्, जुहाव जुहुवतुरित्यादावेव तु स्याद्--यत्र ह्वामात्रस्य द्विर्वचनात्स्थानिवत्त्वम्? नैष दोषः; `ह्वोऽभ्यस्तस्य' इति व्यधिकरणे षष्ठ्यौ, ह्वयतेरभ्यस्तस्य भविष्यतः प्रागेव संप्रसारणं परपूर्वत्वम्, `हलः' इति `अज्ज्ञनगमाम्' इति वा दीर्घत्वम्, `ह्वास्' इत्यस्य द्विर्वचनम्। इह च पिपक्षति, उद्विवक्षतीत्यत्र `पूर्वत्रासिद्धमद्विर्वचने' इति तर्हि आटिटद्, आशिशद् इति णिलोपे कृतेऽपि `द्विर्वचनेऽचि' इति रूपस्थानिवद्बावाच्छब्दान्तरप्राप्त्यभावेन नित्यत्वात्पूर्वं द्विर्वचने सति समुदायस्य समुदाय आदेशस्तत्र सम्प्रभुग्धत्वात्प्रकृतिप्रत्ययत्वं नष्टम्, स णिज्न भवतीति णिलोपो न स्यात्, तस्य तु कारणेत्यादिरवकाशः। इह च जिघांसतीति समुदायस्य समुदाय आदेशे कृते हन्तेरभावाद् `अभ्यासाच्च' इति हन्तेरिति कुत्वं न स्यात्। तस्य तु जघनिथ, जघन्थ, अहं किल जघन, जघन्वानित्यादिरवकाशः, यत्रहन्तिमात्रस्य द्विर्वचनात्स्थानिवद्भावः। तदेवमाद्यपक्षस्य दुष्टत्वाद् द्वितीयं पक्षमाश्रित्याह-द्विःप्रयोगे द्विर्वचनमिति। चशब्दोऽवधारणे। कथं पुनः `षष्ठी स्थानेयोगा' इति परिभाषायां सत्यां द्विःप्रयोगपक्षः शक्य आश्रयितुम्? तत्राह--आवृत्तिसंख्या हीति। यद्यावृत्तेः संख्या विधीयते, एवं सति त्रिर्वचनं प्राप्नोति। न ह्याद्यमुच्चारणमावृत्तिः, अतस्तदेकम्, आवृत्ती च द्वे इति त्रिर्वचनप्रसङ्गः। तस्मादावृत्तिकृता संख्या। आवृत्तिसंख्या कस्य? उच्चारणस्य, आवृत्तमुच्चारणं विधीयत इत्यर्थः। तत्र च स्थान्यादेशभावो न सम्भवतीत्युक्तम्। अत्र पक्षे यथाटिटदित्यादौ दोषौ न भवति तथा दर्शयति--तेनेत्यादिना ।
नन्वत्रापि पक्षे नेमतुः, सेहे इत्यादौ नत्वसत्वयोः कृतयोर्धातोरादेशादित्वस्य द्विःप्रयोगेऽप्यनिवृत्तेरेत्वाभ्यासलोपौ न स्याताम्, पक्षान्तरे तु नादेशादिव्यपदेशः? अलाश्रयत्वेन स्थानिवत्त्वाभावात्समुदायादेशत्वेनादेशादित्वाभावाच्च न दोष)ः; `लिटि आदेशः' इति विशेषणआन्नत्वसत्वयोरनैमित्तिकत्वाद्। इह तर्हि वेभिदितेति वेभिद्यशब्दात्तृचि अल्लोपयलोपयोः कृतयोरुपदेषे य एकाजनुदात्तः स एवायमितीट्प्रतिषेधः स्यात्, पक्षान्तरे त्वेकाज्व्यमपदेशस्यालाश्रयत्वाद् बेभिद्येत्यस्य द्व्यचकत्वान्निषेधाभावः? द्विःप्रयोगेऽपि न दोषः; पूर्वस्मादपि विधौ अल्लोपस्य स्थानिवद्भावात्। इह तर्हि जरीगृहितेति ग्रहेर्वलिटि दीर्घत्वं स्यात्, न ह्यत्र स्थानिवत्त्वम्, दीर्घविधौ निषेधात्? नैष दोषः; `एकाच उपदेशे' इत्यत `एकाच' इत्यनुवर्त्तयिष्यते। यद्वा-- ग्रहेर्विहितं यदार्द्धधातुकं तस्य य इट् तस्य दीर्घ इति जरीगृह्यशब्दाद्विहितस्य न भविष्यति। इच च सिषेचति, यद्यपि सिचेर्लिड्विहितः; तथापि द्विर्वचने कृते समुदायस्यैका पदसंज्ञा न तदवयवस्य, सेचशब्दस्य पदसंज्ञायां तदादिग्रहणानिवृत्तेरभ्यासस्य वर्जनायोगादिति `सात्पदाद्योः' इति षत्वनिषेधाभावः। इह तर्हि विभिद्वानित्यादौ शतकृत्वोऽप्युच्चारणे एकाच्त्वं न याति, किं पुनर्द्विरुच्चारण इति `वस्वेकाजाद्धसाम्' इतीट्प्रसङ्गः? तन्न; उच्चारणभेदाद्विरुद्धसंख्याप्रादुर्भावे पूर्वसंख्याकृतव्यपदेशनिवर्त्तनात्। अत एवाद्ग्रहंणं कृतं पपिवानित्यादाविडर्यम्। इह तर्हि विशुष्वापेति, तस्यैवार्थवतो द्विरुक्तिभावमात्रमित्यभ्यासस्यार्थवत्त्वात्सुपेः षत्वमित्यत्रानर्थको विसुषुपुरिति वक्ष्यमाणं विहन्येत? नैष दोषः; अन्वयव्यतिरेकाभ्यां शब्दस्याशेषार्थावसायः, न चात्राभ्यासोपजनने कश्चिदर्थ उपजायते, अपाये चापयाति। ननु स एव चेद् द्विरुच्यते, अर्थप्रत्ययेनाप्यावतितव्यम्, यथा--अहिरहिर्बुध्यस्वबुध्यस्वेति? किमत्रोपालभ्येमहि, न तावदर्थप्रत्यया आवर्तन्ते! तदेतदेवं दृश्यताम्-यथा स्वप्नः, सुप्तः, अस्वपदित्यादौ क्वचिदविकृतः, क्वचिद्विकृतः, क्विचिदडागमापेक्षोऽर्थं प्रतिपादयति, तथा सुष्वापेत्यादावावृत्त एव प्रतिपादयतीति ।।
अजादेर्द्वितीयस्य ।। 6.1.2 ।।
प्रथमद्विर्वचनापवादोऽयमिति। ननु विरोधे समानफलत्वे च बाध्यबाधकभावः, यथा--`अष्टश्रिर्यूपः कर्तव्यो वाजपेयस्य चतुरश्रिः' इत्यष्टाश्रित्वचतुरश्रित्वयोर्तथा नैवारश्चरुर्नखावपूतानामिति नखावपनेन वैतुष्यफलकेन तत्फलकोऽवघातो बाध्यते, नखैस्चोलूखलमुसलम्; यत्र त्वेतदुभयं न भवति न तत्र बाधः, यथा--कृत्कृत्यप्रत्ययसंज्ञानाम्, यथा वा--तद्धिततद्राजप्रत्ययसंज्ञानाम्। इह तु न समानफलत्वम्; फलस्य कस्यचिदभावात्, अस्ति च सभ्भवो यदुभयं स्यात्? स्यादेतत्--द्वयोरासीनयोर्मध्ये कस्मिश्चिदुपविष्टे द्वितीयस्तृतीयो भवति, तथा प्रथमे द्विरुक्ते द्वितीयस्तृतीयो भवतीत्यस्त्येवाक्षत्राप्ससम्भाव इति, स्यादप्येवम्, यदि प्रथमद्विर्वचनमेव नियोगतः पूर्वं स्यात्, किञ्च नात्रौत्पत्तिकस्य द्वितीयस्य द्विर्वचनमुच्यते, किं तर्हि? द्वितीयमात्रस्य, ततः किम्? प्रथमे द्विरुक्ते यो द्वितीयस्तस्य भविष्यति।
नन्वेवमनारम्भसमं स्यात्, कथमटेः सन्, प्रथमस्य द्विर्वचनम्, अट्+अट् इति स्थिते हलादिःशेषश्च प्राप्नोति, द्वितीयद्विर्वचनं च, परत्वान्नित्यत्वाच्च हलादिःशेषः, ततो द्विर्वचनम्, अ+अट्+ अट् इति स्थिते हलादिशेषे त्रयाणामकाराणामतो गुणे पररुपत्वेऽटिषतीत्येतद्रूपं स्याद्, अकृतेऽपि द्विर्वचने एतदेव रूपम्, द्वयोरकारयोः पररूपमित्येतावद् नानारम्भसमम्, कथम्? प्रथमं द्विर्वचनम्, हलादिःशेषः, अ+अट् इति स्थिते `सन्यतः' इतीत्वं च प्राप्नोति द्विर्वचनं च, द्वयोर्नित्ययोः परत्वादित्वम्। नन्वित्वं सनमभ्यासं चापेक्षत इति बहिरङ्गम्, ततः किम्? अन्तरङ्गम् `अतो गुणो' इति पररूपत्वं प्राप्नोति, समानाश्रये च वार्णादाङ्गं बलीय? एवं तर्हि कृतेऽपि पररूपे तरयान्तवद्भावादित्वं प्राप्नोति, अकृते चेति नित्यत्वं परत्वं चेति द्वे तस्य प्राबल्यकारणे। पररूपस्य त्वन्तरङ्गत्वमेकमेवेतीत्वमेव तावद् भवति। सति तु तस्मिन् `अभ्यासस्यासवर्णे' इतीयङ् च प्राप्नोति द्विर्वचनं च, तत्र द्विर्वचनमियङि कृते यङित्यस्य प्राप्नोति; अकृते त्वङित्यस्येति शब्दान्तरप्राप्त्याऽनित्यम्, तेन परत्वान्नित्यत्वाच्चेयङि कृते यङ्शब्दस्य द्विर्वचने हलादिः शेषः, इत्वम्, इयियटिषति, ओणेः--उवुवोणिषतीति भवति। असति द्वितीये द्विर्वचने--इयटिषति, उवोणिषतीति भवतीति नानारम्भसाम्यम् ।
एवं तर्हि `अनभ्यासस्य' इति निषेधादेकस्मिन् द्विरुक्ते नापरो द्विर्वक्तुं शक्यत इत्यस्यैवासम्बवः। अथ वा--सामान्यविहितस्य विशेषविहितं सत्यपि सम्भवे बाधकं भवति, तद्यथा--दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्कडिन्यायेति। ओदनसेकाख्यस्य फलस्य समानत्वादत्र दधिबाध इति चेद्? इहापि तर्ह्यर्थाभिधानाख्यं फलमेकम्, अर्थाभिधानाय हि द्विरुच्चारणम्, तच्चैकेनैव साध्यते। अथ रूपविशेषाख्यं फलं भिन्नम्, अन्यद्धि रूपं प्रथमस्य द्विर्वचने, अन्यच्च द्वितीयस्य ? इतरत्रापि तृप्तिविशेषाख्यं फलं भिद्यते, अन्या हि दध्नस्तृप्तिरन्या हि तक्रस्य, अतो नाप्राप्ते तस्मिन्नारभ्यमाणत्वमेव बाधनिबन्धनम्, नासम्भवः, सामान्यशब्दा हि विशेषशब्दसन्निधौ तत्रैवोपसंह्रियन्ते, ततोऽन्यत्र वा, यथा--वसिष्ठो ब्राह्मणः, ब्राह्मणाः आयाता वसिष्ठोऽप्यायात इति।
ननु कौण्डिन्यस्यापि ब्राह्मणत्वाद् दधि प्राप्तम्, इह तु प्रथमस्योच्यमानं द्विर्वचनं द्वितीयस्य न प्राप्नोतीति कथं येन नाप्राप्तिः? न क्रमो द्वितीयस्य प्राप्तमिति; किन्तु धातुसामान्यविहितं प्रथमद्विर्वचनमजादेर्धातोः प्राप्तमिति; तत्र दधितक्राख्यं विधेयं भिद्यते, इह तु कार्यं भिद्यते, विधेयं द्विर्वचनमेकमित्येतावान् विशेषः। यद्वा-तत्रापि दानमेव विधेयं तस्य तु देयभेदाद् भेदः, इहापि कार्यिबेदाद्भेदः, तद्दमुक्तम्--प्रथमद्विर्वचनापवादोऽयं द्वितीयद्विर्वचनमिति। सर्वथा प्रथमद्विर्वचनं द्वितीयद्विर्वचनेन बाध्यते। यद्यंवम्, यथाभूतस्यैकाचः प्रथमद्विर्वचनं प्राप्तं तथाभूतस्यैवद्वितीयद्विर्वचनं बाधकं स्यात्, सव्यञ्जनस्यैतत्प्राप्तमिति तेन सहव्यञ्कजनानामप्यनावृत्तिप्रसङ्गः? स्यादेवं यद्यजादिषु प्रथमस्यैकाचः किञ्चिद्विहितं प्रतिषिद्धं वा भवेत्, इह तु विशेषसन्निधौ सामान्यशब्दस्य ततोऽन्यत्र वृत्तेरजादिषु प्रथमद्विर्वचनरूपाप्रतीतत्वादप्राप्त्यनुमानमेव बाधः। व्यञ्जनानि च यदा यस्य कार्थं तदा तदङ्गानीति द्वितीयैकाच्यन्तर्भावात्तेन सह द्विर्वचनं केन वार्यते! अत्र च लिङ्गम् `न न्द्राः' इति प्रतिषेधः। अथेयाय, आरेत्यादौ केन द्विर्वचनम्? न तावदनेनाद्वितीयत्वात्, नापि पूर्वेणाजादिषु तस्याप्रवृत्तेः, यत्रैतदप्रवृत्तिः, यत्र तु द्वितीयाभावादेतन्न प्रवर्त्तते न तत्र तस्य प्रवृत्तिर्वार्यते ? तत्रापि वार्यते, अजादेरिति सामान्यनिर्द्देशात्। सामान्यनिर्द्देशे हि क्वचिदपि द्वितीयवत्यां व्यक्तौ सर्वत्र बाधेत, यथा हलादिःशेषे वक्ष्यते--`क्वचिदपि प्रवर्त्तमानो हलादिःशेषः सर्वत्र निवृत्तिं करोति' इति? नैष दोषः;
जात्योपलक्षिता व्यक्तिः प्राधान्येनेह गृह्यते।
द्वितीयवत्यामेवेदं व्यक्तौ तेन प्रवर्त्तते ।।
प्रवर्तते च यत्रेदं तत्र पूर्वं निवर्त्तते।
जातिर्हलादिशेषे तु प्राधान्येन समाश्रिता ।। इति।
गुणे चेति। नित्यत्वात्परत्वाच्च। स्थानिवद्भावः प्राप्नोतीति। ततश्च इस इत्यस्य द्विर्वचने हलादिःशेषे च दीर्घत्वे सति अरीषतीति प्रसङ्गः। न चात्र द्विर्वचनमनिमित्तमिडिति। यत्र परतो द्विर्वचनमुच्यते, तदेव तस्य निमित्तमिति भावः। कि तर्हि कार्यीति। `सन्यङोः' इति षष्ठ्याश्रयणात्। ततः किम्? इत्याह न चेति। तद्भावभावित्वे सत्यपि कायिणः सप्तमीनिर्द्देशाबावान्न निमित्तत्वं शास्त्रे स्थितमित्यर्थः। अवश्यं चैतदेवं विज्ञेयमित्याह--तथा हीति। गुणवृद्ध्योरिति। `क्ङिति च' इत्यत्र वृद्धेरपि प्रतिषेधाद् गुणवृद्ध्योरित्युक्तम्। शयितेत्यत्र न भवतीति। गुणस्य प्रतिषेधः। क्वचित्तु--शायक इत्यपि पठ्यते, तदयुक्तम्, अप्रकृतित्वादत्र वृद्धेः। यथा चोत्तरग्रन्थे गुणग्रहणमेव कृतम् ।
तेषां द्वितीयस्येति विस्पष्टार्थमिति। `तस्मादित्युक्तरस्य' इत्यनन्तरस्य द्विरीयस्यैव भविष्यति, न तृतीयादेः। यदा तु बहुव्रीहेः षष्ठी-अजादिर्यस्य धातोरिति, तदा सामर्थ्यादप्रथमार्थेऽप्यारम्भे तृतीयादेरपि प्रसङ्गः ।।
न न्द्राः संयोगादयः ।। 6.1.3 ।।
`उन्दी क्लेदने,' `अद्ड अभियोगे' दोपधः, ष्टुत्वम्, `अर्च पूजायाम्', `ईक्ष जर्शनाङ्कनयोः' अन प्राणने', `द्रा कुत्सायां गतौ', उब्जिर्विषये यद्वक्तव्यं तत्सर्वम् `हयवरट्' इत्यत्रैवोक्तम् ।
यकारपरस्येति। यकारः परो यस्माद्रकारात्तस्येत्यर्थः.
व्यञ्जनस्येति। तृतीयव्यञ्जनसहितस्यैकाच इत्यर्थः। तत्र षकारस्य द्विर्वचनंन भवति। अपरे पुनरिति। अस्मिन्पक्षे ईर्ष्यतेस्सनि कृते इति व्याख्येयम्, तत्सम्बन्धितस्तृतीयस्यैकाचोऽसम्भवात्। नामधातवः=सुब्धातवः।
पूर्वोऽभ्यासः ।। 6.1.4 ।।
अर्थादिति। सामर्थ्यात्पूर्वशब्दोऽयमवयववचनः, अवयवश्चावयविनो भवति, स चेह कश्चिन्न निर्द्दिष्टः, अतोऽवश्यम् `द्वे' इति अत्रानुवर्त्तनीयम्। न वानुवृत्तमपि प्रथमान्तमेवावस्थिमवयव्यपेक्षां पूरयितुमलमित्येतत्सामर्थ्यम्। अस्मिन्प्रकरण इति। अनेन `सर्वस्य द्वे' इत्यत्र प्रकरणे इयं संज्ञा न भवति, तेन तत्र हलादिशेषाद्यभावः। यद्येवम्, `द्युतिगमिजुहोत्यादीनां द्वे' इत्यत्र न प्राप्नोति? कर्त्तव्योऽत्र यत्नः। तयोः पूर्वोऽवयव इति। अवयववाचिभिर्दिक्शब्दैर्योगे पञ्चमी न भवति; `तस्य प्रमाम्रेडितम्' इति लिङ्गात्। पपाचेत्यादौ `हलादिः शेषः', `सन्यतः', `दीर्घोऽकितः', `कुहोश्चुः', `अभ्यासे चर्च', `सन्वल्लघुनि', `दीर्घो लघोः' इत्यादीनि यथायोगमब्यासकार्याणि ।।
उभे अभ्यस्तम् ।। 6.1.5 ।।
द्वे इति वर्त्तमान इत्यादि। द्विरुक्तसमुदायस्यैकाऽभ्यस्तसंज्ञा यथा स्याद्, द्वयोर्द्वे संज्ञे मा भूतामित्येवमर्थमुभेग्रहणम्, न तु संज्ञिनिर्देशार्थम्। द्वे इत्यस्यानुवृत्त्यैव संज्ञिनिर्देशस्य सिद्धत्वादित्यर्थः। ददतीत्यादौ `अदभ्यस्तात्' इत्यद्भावः, `श्नाभ्यस्तयोरातः' इत्याकारलोपः।
नेनिजतीत्यत्रेत्यादि। असत्युभे ग्रहणे `वृद्धिरादैच्' इत्यादौ प्रत्येकं वाक्यपरिसमाप्तिदर्शनादिहापि प्रत्येकं स्यात्, ततश्च नेनिजतीत्यत्र पृथगाद्युदात्तत्वं स्यात्। न च `अनुदात्तं पदमेकवर्जम्' इत्येकस्यानुदात्तत्वम्; वर्जनीयविशेषावगमहेतोः सतिशिष्टत्वादेरसम्भवात्। अथापि स्यात्, एवमपि पर्यायः स्यात्। ननु च `भीह्नीभृहुमद' इति ज्ञापकात्परस्य न भविष्यति? पूर्वस्यापि तर्हि न स्यात्, परेण व्यवधानात्। उच्यते च स्वरः, ततश्च स एव पर्यायप्रसङ्गः।
यदि तु संयोगसमासादिसंज्ञावदन्वर्थत्वप्रतिपच्यर्थं महासंज्ञाकरणम्, तेनान्वर्थताविज्ञाने समुदायस्यैव संज्ञेत्युच्यते, तदोभेग्रहणं शक्यमकर्तुम्। ननु यत्रोभे श्रूयेते तत्र यथा स्यात्, अन्यतराभावे मा भूद्-इत्येवमर्थमुभेग्रहणं कर्त्तव्यम्; अन्यथा ऋधेरापश्च `सनीवन्त' इति इडभावपक्षे परत्वात् प्रतिपदविहितत्वाच्च `आप्ज्ञप्यृधामीत्' इतीत्वे `न न्द्राः' इति प्रतिषेधाद्रेफवर्जं द्वितीयस्यैकाचो द्विर्वचने कृते`अत्र लोपोऽभ्यासस्य' इत्यतः प्रागन्तरङ्गत्वादभ्यस्तसंज्ञा स्यात्। सा च प्रत्येकम्, समुदायस्य वा? तत्र प्रत्येकपक्षेऽभ्यासलोपेऽपि परस्य न निवर्त्तेत। समुदायपक्षेऽपि पूर्व संज्ञा समुदाये प्रवृत्ता; पश्चादेकदेशनिवृत्तावप्यवशिष्टेऽवतिष्ठेत। यथेयसुन ईकारे लुप्तेऽपि तद्वितसंज्ञा--भूयानित्यत्र। सत्यां च संज्ञायाम्--ईप्सन्ति, ऐप्सन्, ईर्त्सन्ति, ऐर्त्सन्, इत्यत्राद्भावजुसभावनुम्प्रतिपेधाः स्युः, अतः श्रूयमाणप्रतिपत्त्यर्थमुभेग्रहणं कर्त्तव्यम्? तन्न; प्रतीषिषतीत्यादिवत्सिद्धेः। तथा हि-`अजादेर्द्वितीयस्य' इति सनि द्विरुक्ते श्रूयमाणयोरुभ्योः सत्यामप्यभ्यस्तसंज्ञायामद्भावादयो न भवन्ति। यथा च पुत्रीयषिषन्तीत्यादौ `यथेष्टं नामधातूनाम्' इति सनि द्विरुक्ते, तद्वदत्रापि न भविष्यति। अत्र हि ईप्स+झि, ईर्त्स+झीति स्थितेऽद्बावात्प्राग्नित्यत्वाच्छप्, अद्भावो हि शपि कृते तेन व्यवधानान्न प्राप्नोतीत्यनित्यः ततः `ज्ञोऽन्तः' प्राप्नोति, पूर्वेण सहैकादेशश्च, परत्वादन्तादेशः। नित्य एकादेशः-कृतेऽप्यन्तादेशे प्राप्नोति, अकृतेपि। अन्तादेशस्त्वनित्यः, कृते एकादेशे तस्यान्तवद्भावादभ्यस्तग्रहणेन ग्रहणादद्भावेन बाध्यते। यस्य च निमित्तं लक्षणान्तरेण विहन्यते तदनित्यम्। अन्तरङ्गस्तर्ह्ये कादेशः; वर्णाश्रयत्वात्। अन्तादेशस्त्वाङ्गत्वाद्बहिरङ्गः, समानाश्रये च `वार्णादाङ्गं बलीयः'; अन्तादेशोऽप्यन्तरङ्गः, वक्ष्यति हि-आयन्नादिषूपदेशिवद्वचनमिति। तदेवमुभयोरप्यन्तरङ्गयोर्नित्ययोश्च परत्वादन्तादेशः, ततो झकाराभावादलाश्रयत्वेन स्थानिवद्भावाभावाच्चादादेशो न भवति।
अस्तु वा पूर्वमेकादेशः एवमपि `आत्मनेपदेष्वनतः' इत्यत्र `अनतः' इत्यस्य `अदभ्यस्तात्' इति पूर्वेणापि सम्बन्धात्पूर्वस्मादपि विधावेकादेशस्य स्थानिवत्त्वाद्वाऽद्भावो न भविष्यति। एवमैप्सन्नित्यत्रापि, ईप्स=झि इति स्थिते शप् च प्राप्नोति, जुस्भावश्च, नित्यत्वाच्छपि कृते तेन व्यवधानान्न जुस्भावः। न च पूर्वेण सहैकादेशे कृते तस्यान्तद्भावात्पुनर्जुस्प्रसङ्गः, पूर्वस्मादपि विधौ स्थानिवत्त्वात्। ईप्सन्नित्यत्रापि लटः शत्रादेशः, ईप्स+शतृ इति स्थिते सार्वधातुकमात्रापेक्षत्वादन्तरङ्गत्वाच्छपि कृते तत्र सनोऽकारेणातो गुणे पररूपे पश्चात्सर्वनामस्थाने चोत्पन्ने नुमः प्रसक्तस्य तस्यां दशायां शत्रभ्यस्तयोर्व्यपवर्गाभावादुभयवर्णाश्रयत्वेनान्तादिवद्भावाभावच्च निषेधाभावः। एवं प्रतीषिषन्तीत्यादावपि। चिकीर्षन्तीत्यादौ तु यत्र सनोऽकारो न द्विरुच्यते, तत्र तेनैव व्यवधानादद्भावाद्यभावः ।।
जक्षित्यादयः षट् ।। 6.1.6 ।।
अत्र जक्षेः श्तिपि `रुदादिब्यः सार्वधातुके' इतीटि कृते जक्षितिरिति भवति, स आदिर्यषां ते जक्षित्यादय इति विज्ञायमाने वेव्यतेः सप्तमस्य न स्यात्, लाघवार्थमसन्देहार्थं च हकैव निर्द्देष्टव्यं स्यात्-जक्ष्यादय इति। तस्मान्नायमुक्तविग्रहिः, किं तर्हि? `जक्ष' इति पृथक् पदमित्याह-जक्ष इत्ययं धातुरित्यादयः षडिति। इतिनानन्तरो जक्षिर्निर्द्दिश्यते। आदिशब्दः समीपवचनः, अतद्गुणसंविज्ञानो बहुव्रीहिः। सेयमिति। येयमुक्तप्रकारा, सेयमित्यर्थः।
एष स्वर इति। अन्यथा ङित्त्वाल्लसार्वधातुकानुदात्तत्वं धातुस्वरः, यणादेशे `उदात्तस्वरितयोः' इति स्वरितत्वं प्रसज्यते। शतरि व्यत्ययेन सम्पादित इति। ङित्त्वात्परस्मैपदासम्भवाद्व्यत्ययः।
षड्ग्रहणमनर्थकम्, सन्त्वागणान्ता जक्षित्यादयः। वेवीङोऽपि परे ये पठ्यन्ते तेषां कस्मान्न भवति? अत्रैवं गणपाठः, वेवीङोऽनन्तरम् `षस स्वप्ने, वश कान्तौ, चर्करीतं च, ह्नुङ् अपनयने' इति, केचिद्वेवीङोऽनन्तरम् `आङः शसु' इति पठन्ति, `षस्ति स्वप्ने' इति च। तत्राशासो न विशेषः; अभ्यस्तकार्याणि भूयिष्ठानि परस्मैपदिषु, आत्मनेपदी चायम्। अभ्यस्तस्वरेऽपि नास्ति विशेषः, कथम्? अनभ्यस्तेऽपि तस्मिन्ननुदात्तेतः परं लसार्वधातुकमनुदात्तं धातुस्वरश्च, चर्करीतमब्यस्तमेव, षसषस्ती छान्दसौ, वशिरपि, तस्यापि भाषायां न प्रयोगस्साधुः--बाष्यवार्त्तिककारौ चेत्प्रमाणम्। ह्नुङ्ोऽपि ङित्त्वात्परस्मैपदासम्भवः। स्वरस्तर्हि प्राप्नोति, `अङ्न्विङोः' इति प्रतिषेधवचनसामर्थ्यान्न भविष्यति, यदि स्यात्, तर्ह्यपह्नवत इत्यादावभ्यस्तस्वरे सति लसार्वधातुकस्य भवितव्यमेव निघातेनेति प्रतिषेधोऽनर्थकः स्यात्। तस्मात्प्रत्ययस्वरो यथा स्यतात्, लसार्वधातुकानुदात्तत्वं मा बूदित्यहन्विङोरिति प्रतिषेधोऽर्थवान् भवतीति प्रतिषेधसामर्थ्यात्प्रत्ययस्वरः एव भविष्यति, नाभ्यस्तरस्वरः। ननु चाभ्यस्तस्वरोऽजादौ विधीयते, ततः किम्? अजादौ तस्मिन्प्रवृत्तेऽपि ह्रुते, षेह्नु, ह्नुवे-इत्यत्र तस्याप्रवृत्तौ यद्यह्न्विङोरिति प्रतिषेधो न क्रियते, ततो धातुस्वरेणाद्युदात्तं पदं स्यात्। अन्तोदात्तं यथा स्यादिति प्रतिषेधः क्रियेत। तदेवं सति प्रयोजने न प्रतिषेधसामर्थ्यादब्यस्तस्वरं बाधित्वा प्रत्ययस्वरः सिध्यति। एवं तर्हि `अभ्यस्तानामादिः' इत्यत्राप्यह्न्विङोरित्यनुवर्त्तिष्यते, तदेवं नार्थः षड्ग्रहणेन। तदुक्तम्--अपरिगणनं वा गणान्तत्वात् ।।
तुजादीनां दीर्घाऽभ्यासस्य ।। 6.1.7 ।।
अयं योगः शक्योऽवक्तुम्, कथम्? छान्दसमेतद्दीर्घत्वं छन्दसि च दीर्घत्वं न शक्यं परिगणयितुम्, अन्येषामपि दर्शनात् पूरुषः, नारक इति। अनेकाजङ्गत्वाच्च येषां चारभ्यचते तेषामेव तस्मिन्प्रयोगे न दृश्यते--मामहानः, ममहान इति वा ।।
लिटि धातोरनभ्यासस्य ।। 6.1.8 ।।
धातोरिति किमिति। लिटि परतोऽन्यो न सम्भवति; तस्य धातोरेव विधानादिति प्रश्नः। विश्रृण्विरे इति। `छन्दस्युभयथा' इति सार्वधातुकत्वात् `श्रुवः श्रृ च' इति श्नुप्रत्ययः, श्रृभावश्च। अत्र विकरणान्तस्य समुदायस्य लिट्परस्याधातुत्वात्तदीयस्य प्रथमस्यैकाचो द्विर्वचनाभावः। ईक्षाञ्चक्रे इत्यादौ त्वामन्तस्य लिटपरत्वं नास्ति; `आमः' इति लुका कुप्तत्वादिति द्विर्वचनाभावः। सिद्धः। अनभ्यासस्येति किमिति। न तावद् नुनाव, पपाचेत्यादौ तत्रैव लिटि पुनर्द्विर्वचनप्रसङ्गः; सकृत्प्रवृत्त्या लक्षणस्य चरितार्थत्वात्, अनवस्थापाताच्च। यस्तु प्रत्ययान्तरे सनादौ साभ्यासः, न तस्य लिटि सम्भवः; ततो हि `कास्प्रत्ययाद्' इत्यामा भवितव्यमिति प्रशनः। नोनावेति। `अमन्त्रे' इति प्रतिषेधादत्रामभावः। सम्मिमिक्षुरिति। सम्पूर्वान्मिहेः सनि `हो ढः',`षढोः कः सि' लिट्, झेरुस्, अतोलोपः। द्विवचनप्रकरण इति। प्रकरणग्रहणान्न केवलं सर्व द्विर्वचनं छन्दसि विकल्प्यते। एवं च `धातोः', `अनभ्यासस्य' इत्युभयमुत्तरार्थम्। एतस्मादेव विकल्पाद्विकरणान्तसाभ्यासयोर्न भविष्यति ।।
सन्यङोः ।। 6.1.9 ।।
षष्ठ्यन्तमेतदिति। तत्र प्रत्ययग्रहणपरिभाषाया तदन्तस्य द्विर्वचनम्, न तु सन्यङोरेव, यदाह--सनन्तस्य चेति। सप्तमीपक्षे तु सन्यङोः परतः पूर्वस्य धातोर्द्विर्वचनं भवतीत्ययमर्थः स्यात्, ततश्च सन्भक्तस्येटो द्विर्वचनं न स्यात्--अटिटिषति, अशिशिषतीत्यादौ; तथा प्रतीषिषतीत्यादौ सनो न स्यात्। एवमरार्यत इत्यादौ यङः, तथा सप्तम्यामिष्टायां पूर्वेणापरेण वा सहैकमेव योगं कुर्यात्।
जुगुप्सिषत इति। गुपे `गुप्तिज्किद्भयः सन्' तत्र सनि द्विर्वचनम्, पुनरिच्छासन्, तत्राकृतत्वात्पुनर्द्विर्वचनप्रसङ्गः। लोलूयिषते इति। अत्रापि यङिद्विर्वचनम्, न तु सनीति द्विर्वचनप्रसङ्गः।
भागवृत्तिकारस्तावाह--``पूर्वसूत्रे `धातोरनभ्यासस्य' इति द्वयमपि प्रत्याख्याय भाष्यकारेणोक्तम्---`तिष्ठतु तावत्सांन्यासिकं धातुग्रहणम्' इति, उत्तरार्थमिति भावः। अनभ्यासग्रहणस्य तु न किञ्चित्प्रयोजनमुक्तम्, ततश्चोत्तरार्थमपि तन्न भवतीति भाष्यकारस्याभिप्रायो लक्ष्यते। तेनात्र भवितव्यमेव द्विर्वचनेन इति ।।
श्लौ ।। 6.1.10 ।।
श्लौ परत इति। वर्णानामपि युगपदवस्थानाभावाद् बुद्धिपरिकल्पितं पोर्वापर्यम्, तच्चाभावरूपेण श्लुनाप्युपपद्यत् इति भावः। अनब्यासस्येति। अधीकारमात्रैणैतदुक्तम्, न तु श्लौ साभ्यासो भवति। एवं द्वितीयस्य चेत्यत्र द्रष्टव्यम् ।।
चङि ।। 6.1.11 ।।
एषां कार्याणां प्रवृत्तिक्रम इति। एतच्च `अचः परस्मिन्' इत्यत्रोपपादितम्, तत एवावधातव्यम्। न केवलं न्याप्यत्वादयं क्रम आश्रीयते, किन्तु प्रयोजनमप्यनन्यथासिद्धमस्तीत्याह--यथा हीति। ह्रस्वस्य स्थानिवद्भावान्न प्रतिषिध्यत इति। `ह्रस्वस्य स्थानिवद्भावात्प्रतिषिध्यते' इति यत्तन्म भवति, स्थानिवद्भावाभावादित्यर्थः। कथं पुनरस्मिन् कार्यक्रमे सति सथानिवद्भावो न भवति? इत्यत आह--अनादिष्टाच इति। [करणे हेतौ?]। `अचः परस्मिन्' इत्यत्र योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावो भवतीति सिद्धान्तः स्थापितः। न चास्मिन् क्रमे सत्यनादिष्टादचः पूर्वोऽभ्यासो भवति, किं तर्हि? आदिष्टादेव; ह्रस्वत्वे कृतेऽभ्यासोपजननात्। तेन तस्य विधौ कर्त्तव्ये ह्रस्वस्त स्थानिवद्भावो न भवतीति लघुत्वानिवृत्तेः सन्वद्भावो न व्याहन्येत। यदि तु द्विर्वचने कृते ह्रस्वः क्रियते, तर्ह्यनादिष्टादचः पूर्वोऽभ्यासः स्यात्, ततश्च तस्य स्थावनिवद्भावः स्यादेव विधौ, ततश्च दीर्घत्वाल्लघुसंज्ञाया अभावात्सन्वद्भावो न स्यात्। क्व तर्हि स्याद्? अशीशमदित्यादौ। अत्र हि णावेव णितां ह्रस्वो विधीयते। यदि तर्ह्ययं कार्यक्रमः, आटिटदित्यादौ द्वितीयस्यैकाचष्टिशब्दस्य द्विर्वचनं न प्राप्नोति ? अत्राह--आटिटदित्यादि।
`श्लुचङोः' इत्येकयोग एव कर्त्तव्ये योगविभागो वैचित्र्यार्थः ।।
दाश्वान्साह्वान्मीढवांश्च ।। 6.1.12 ।।
दाश्वादीनां प्राचुर्येण छन्दसि प्रयोगदर्शनाच्छान्दसमेतत्सूत्रमिति मन्यमानं प्रत्याह--अविशेषेणेति। विशेषानुपादानादिति भावः। परस्मैपदमिति। भौवादिकस्यात्मनेपदित्वात्, चौरादिकस्य तु `आ धृषाद्वा' इति णिजभावपक्षे दीर्घत्वमनिट्त्वं च निपात्यत इत्यन्ये। मीढ्वस्तोकायेति। `मतुवसोः' इति नुमो रुत्वम्।
किं पुनः सामर्थ्यम्? इत्याह--हलादिशेषे हीति। चराचर इति। दीर्घोच्चारणसामर्थ्याद् ह्रस्वो न भवति।
णिलुक्चेति। `णोरनिटि' इति णिलोपे सिद्धे पुनर्वचनं प्रत्.ययलक्षणेन पुनर्वृद्धिर्मा भूदिति। पाटूपट इति। पूर्ववद्धलादिशेषाभावो ह्रस्वत्वाभावश्च। दीर्घोच्चारणादेव `अब्यासस्यानचि' इति वचनाद्वा उभयत्रापि हलादिशेषाभावः. अभ्यासस्य यदुच्यते तदचि न भवतीत्यर्थः ।।
ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे ।। 6.1.13 ।।
`इग्यणः संप्रसारणम्' इत्यत्रोक्तम्--`वाक्यार्थः संज्ञी वर्णश्च' इति, तत्र विधौ वाक्यार्थ उपतिष्ठते इति तदाश्रयेणाऽऽह--यणः स्थान इग्भवतीत्यर्थ इति।
तदन्तात् ष्यङिति। ष्यङ्विधावादेशपक्षस्य स्थित्वाल्ल्यब्लोप एषा पञ्चमी, तदन्तमाश्रित्येत्यर्थः। अतद्गुणसंविज्ञानेऽत्र बहुव्रीहिः, अण् प्रत्ययोऽन्तः समीपो यस्य कारीषगन्धेस्तस्मात्परः ष्यङित्यर्थः। प्रत्ययपक्ष एव वामनाचार्यस्य तत्राभिमतः। तथा च `ये च तद्धिते' इत्यत्र वक्ष्यति--`अणिञन्ताद्वा परः ष्यङ् प्रत्यय एषितव्यः' इति।
इभमर्हतीतीभ्या, `दण्डादिभ्यो यः' इह कारीषगन्ध्यामतिक्रान्तस्य पुत्रोऽतिकारीषगन्ध्यापुत्र इति प्रत्यग्रहणपरिभाषया समुदायस्याष्यङन्तत्वेऽपि योऽत्रष्यङ्न्तस्तस्य प्रसङ्गः। तथा पुत्रस्य कुलं पुत्रकुलम्, कारीषगन्ध्यापुत्रकुलमिति वर्णग्रहणे तदादिविधिविज्ञानादिह च तदभावात्तदादिविध्यभावेऽपि पुत्रपत्यानन्तर्याश्रयं संग्रसारणं प्राप्नोति। नात्र तर्हीदानीमिदं भवति--कारीषगन्धीपुत्रकुलमिति। भवति च यदैतद्वाक्यं भवति--कारीषगन्धायाः पुत्रः कारीषगन्धीपुत्रस्तस्य कुलं कारीषगन्धीपुत्रकुलमिति। न सिध्यतीति चोद्यार्थः। तथा-अतिकारीषगन्ध्यापुत्रकुलमित्यादावपि सर्वत्र पुत्रपत्योः ष्यङ्न्तस्य चानन्तर्यमाश्रित्य सम्प्रसारणप्रसङ्गः।
स्यादेतत्--यथा वृक्षे शाखेति वृक्षः शाखाया अवयवी प्रतीयते, तथेहापि, ष्यङ्न्तस्य पुत्रपत्योश्च तत्पुरुषः, तत्र प्रत्यासत्त्या यस्य तत्पुरुषस्य प्यङ्न्तोऽवयवस्तस्यैव पुत्रपती इति गम्यते, इह न तथेति? एवमप्यवयवावयवस्य समुदायावयवत्वादस्त्येव प्रसङ्गः? नैष दोषः; पुत्रपत्योरिति सप्ततीनिर्द्देशात् ष्यङन्तस्य पुत्रपत्योश्च पौर्वापर्यं प्रतीयते, पूर्वोक्तेन न्यायेन तत्पुरुषावयवत्वं च। तत्पुरुषश्च पौर्वापर्यावस्थितावयवद्वयात्मकः। तदिह तत्पुरुषावयवयोः पौर्वापर्योणावस्थितयोरिदं भवतीत्युक्ते ययोः स तत्पुरु,स्तावेताविति गम्यते, ष्यङ्न्तस्य पूर्वपदस्य पुत्रपत्योरुत्तरपदयोरित्यर्थः. समासे च यसामाच्च पूर्वं नास्ति तत्पूर्वपदम्, यस्माच्च परं नास्ति तदुत्तरपदम्,---यत् ष्यङ्न्तं न तत्पूर्वपदम्, यच्चोत्तरपदं न तत्पुत्रपत्यात्मकम्, यच्च पुत्रपत्यात्मकं न तदुत्तरपदमिति नास्ति प्रसङ्गः. इहापि तर्हि न प्राप्नोति--परमकारीषगन्धीपुत्र इति? तत्राह---प्यङ् इति स्त्रीप्रत्ययग्रहणमिति। `स्त्रियाम्' इति प्रकृत्य विहितत्वात्स्थानिवद्भावेन स्वयमेव वा प्रत्ययत्वाच्च स्त्रीप्रत्ययत्वम्। यदि स्त्रीप्रत्ययग्रहणम्, ततः किम्? इत्यत आह-तेनेति।
अप्रधानम्=उपसर्जनम्। एतदुक्तं भवति--यत्रार्थे स्त्रीप्रत्ययो विहितः स यावति तदन्ते प्राधान्येनोच्यते तावान्समुदायस्तदन्ततया ग्राह्यः। अप्रधाने च यतो विहितस्तदादिके च तदन्ते च न भवति। यदा तत्पुरुषाक्षिप्तमुत्तरपदं पुत्रपतिभ्यां विशेष्यते तदा तदन्ते प्रसङ्गः, इह तूत्तरपदेन पुत्रपती विशेष्येते इति भावः।
निर्दिश्यमानस्येति। एतच्च `षष्ठीस्थाने योगा' इत्यत्र व्याख्यातम्। `अनन्त्यविकारेऽन्त्यसदेशस्य' इति तु परिभाषा प्रयोजनाबावान्नाश्रिता।
सम्प्रसारणग्रहणमुत्तरार्थम्। इह त्वीशापि सिद्धम्, शकारः सर्वादेशार्थः। तत्रायमप्यर्थः--सम्प्रसारणस्येति योगविभागेन दीर्घत्वं न विधेयं भवति, तदेवोत्तरार्थत्वं दर्शयति--सम्प्रसारणमिति चेत्यादि।
पूर्वं यत्र ष्यङन्तं पदमुपरितनं पुत्रपत्यात्मकं स्याद्
दृष्ट्वा तत्र ष्यङ् तत्पुरुष इह यण स्थान इग्भावनीयः।
यत्रार्थे ष्यङ् स यावत्यपि सति न गुणोऽसाविहेष्टस्तदन्ते
यत्रेत्यर्थः प्रधानो न भवति स यतः ष्यङ् तदाद्येव तत्र ।।
बन्धुनि बहुव्रीहौ ।। 6.1.14 ।।
शब्दरुपापेक्षयेति। `बन्धु' इत्येतस्मिन् शब्दरुपमित्येवं शब्दरुपमपेक्ष्य नपुंसकनिर्देशः कृतः। किमर्थमेवं व्याख्यायते? इत्यत आह--पुंल्लिङ्गाभिधेयस्त्वयमिति। योऽयमस्मिन्सूत्रे बन्धुशब्द उपात्तः स इत्यर्थः। कुत एतत्? नुपुंसकलिङ्गस्यापि विद्यमानत्वात्, बध्यतेऽस्मिन् जातिरिति बन्धु=द्रव्यम्, `जात्यन्ताच्छ बन्धुनि' इति। यद्येवम्, तस्यैव ग्रहणं प्राप्नोति? नैषदोषः; परिपुत्रसाहचर्याज्जातिवचन एव ग्रहीष्यते।
वचिस्वपियजादीनां किति ।। 6.1.15 ।।
आदिशब्दोऽयं यजिनैव सम्बध्यते, न वच्यादिभिः प्रत्येकम्; स्वपिग्रहणात्। अन्यथा `वच परिभाषणे', `विद ज्ञाने', `असभुवि', `मृजूष् शुद्धौ', `रूदिर् अश्रुविवचनेः', `ञिष्वप् शये'--इत्येवं गणपाठाद् वच्यादिग्रहणेनैव स्वपादीनामपि ग्रहणसिद्धेः पृथक् स्वपादिग्रहणँ न कुर्यात्। आगणान्ता इति। गणस्यान्तो गणान्तः, आगता गणआन्तमागणन्ताः। उक्त इति। `चोः कुः' इष्ट इति। व्रश्चादित्वात्षः। ऊढ इति। `हो ढः', `झषस्थोतर्धोधः',ष्टुत्वम्, `ढो ढे लोपः' `ढ्रलोपे पूर्वस्य दीर्घोऽणः'। उषित इति। `वसतिक्षुधोरिट्', `शासिवसिघसीनां च' इति षत्वम्। संवीतदौ `हलः' इति दीर्घः। शून इति। `ओदितश्च' इति निष्टानत्वम्।
धातोःक स्वरूपग्रहण इति। यत्र धातुः स्वरूपेणोपादीयते, न धातुशब्देन तत्र तत्प्रत्यये धातोरित्येवं यो विहितः प्रत्ययस्तत्रैव कार्यं विज्ञायते। एतच्च `भ्रौणहत्य' इति तत्त्वनिपातनेन ज्ञापयिष्यते। वाच्यति, वाचिकमिति। अत्र तु यद्यपि क्विबन्ता धातुत्वं न जहति, तथापि धातोरित्येवं प्रत्ययस्याविधानात्सम्प्रसारणाभावः ।।
ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च ।। 6.1.16 ।।
गृहीतः, यद्यपि प्रथमं ङिति प्रत्यये परतः सम्प्रसारणं चकारात्किति चेति क्रमो व्याक्यातः, तथाप्यनास्थया प्रथमं कित्युदाहृतम्। विजादेशो गृह्यत इति। पूर्वपरसाहचर्याद्यस्य वपेः परस्मैपदसंभवस्तस्य ग्रहणं न्याय्यम्, यस्तु `अय वच गतौ' इति वयिः, सोऽनुदात्तेदात्मनेपदी। यद्येवमिति। वेञादेशस्य ग्रहणमित्यर्थः। यजादिषु वेञ् पठ्यत इति। ततश्च पूर्वेणैव सम्प्रसारणं सिद्धिमिति भावः। नैवं शक्यमिति। विज्ञातुमिति शेषः। नानयोपपत्त्या वयिग्रहणमनर्थकं शक्यं विज्ञातुमित्यर्थः। एवं प्रतिषेधोऽपि प्राप्नोतीति। नात्राविशब्देन समुच्चय उच्यते, किं तर्हि? यथा स्थानिवद्भावाद्विधिः प्राप्यते, तथा प्रतिपेधोऽपि प्राप्नोति, तत्रापि स्तानिवद्भावस्य तुल्यत्वात् इति हेतोस्तुल्यत्वमपिशब्देन द्योत्यते, तेन प्रतिषेध एव भवेदित्यर्थः। उष्ट इति। तसन्तम्। व्यधिर्दिवादिः, व्यचिप्रभृतयस्तुदादयः। वृक्ण इति। `स्कोः संयोगाद्योः' इति सलोपः, पूर्ववन्निष्ठानत्वम्। वरीवृश्च्यत इत्यादौ `रीगृत्वतः' इति रीग्भावः ।।
लिट्यब्यासस्योभयेषाम् ।। 6.1.17 ।।
विव्यथेति। `व्यचेः कुटादित्वमनसीति वक्तव्यम्' इत्यत्र पर्युदासवृत्त्यास्प्रत्ययसदृशस्य कृतो ग्रहणादिह ङित्वाभावाद्धातोः सम्प्रसारणाभावः।
`वृश्चतिपृचचतिभृज्जतीनामविसेषः' इति वार्त्तिकम्, तद् वृश्चतिविषये भाष्यकारेण दूषितम्--`यदुच्यते वृश्चतेरविशेषः' इत्यादि। तत्र वात्तिककारस्याभिप्रायमाह--वृश्चतेरिति। असति सूत्रे यद्रूपं तदेव सतीत्यभिप्रयेण वात्तिककारेणैतदुक्तमित्यर्थः. भाष्यकारस्याभिप्रायमाह--योगारम्भे सतीति। रेफस्य सम्प्रसारणे सत्यसति वा नास्ति विशेष इति वार्त्तिककारेणोक्तमित्यध्यारोप्यभाष्यकारेणोक्तमित्यर्थ। अकिदर्तमिदमिति। किति कथम्? इत्यत आह--किति हीति।
अधिकारादेविति। नात्र सास्त्रीयोऽधिकारः, किं तर्हि? अपेक्षालक्षण, तेन पूर्वसूत्रे वच्यादेः सम्बन्धो नाशङ्कनीयः। योगविभागसामर्थ्याद्वा पूर्वसूत्रे तेषामसम्बन्धः।
हलादिःशेषमपि बाधित्वेति। अन्यथा परत्वाद्धलादिःशेषः स्यात्। सम्प्रसारणमेव यथा स्यादिति। पुनर्विधानमुभयेपांग्रहणाद्भवति तद्वाधकबाधनार्थमिति भावः ।।
श्वापेश्चङि ।। 6.1.18 ।।
स्वापेर्ण्यन्तस्य ग्रहणमिति। आप्रनोतेस्तु सुपूर्वस्य ग्रहणं न अण्यन्तस्य; चङोऽसम्भवात्। ण्यन्तस्यापि न भवति; `धातोः' इत्यधिकारात्। स्वाप्यत इति। कर्मणि लट्, णिलोपः।
स्वापित इति। `निष्ठायां सेटि' इति णिलापः
ननु च `ग्रहिज्या' इत्यादिसूत्रान्ङितीत्यनुवर्त्तिष्यते, न चान्यः स्वापेर्ङिदस्ति, यङ् तावदनेकाच्त्वन्नास्ति, अपित्सार्वधातुकं तु विकरणैर्व्यवहितम्, अङादयस्त्वविहिता एव? तत्राह--ङितीति केवलमित्यादि। ननु कितीत्येतच्चानुकृष्टं पूर्वसूत्र इति नेहानुवर्तिष्यते, किमर्थं दुर्ज्ञानं ङिद्ग्रहणम्? ङिद्ग्रहणमपि तर्हि पूर्वसूत्रे नानुवर्तते; लिटो ङितोऽसम्भवादिति तस्येहानुवृत्तिर्दुर्विज्ञाना ।।
स्वपिस्यमिव्येञां यङि ।। 6.1.19 ।।
स्वप्नगिति। `स्वपितृषोर्नजिङ्' ।।
चायः की ।। 6.1.21 ।।
कीति दीर्घोच्चारणमनर्थकम्, ह्रस्वादेशेऽपि `अकृत्सार्वधातुकयोः' इति दीर्घस्य सिद्धत्वात्? तत्राह--दीर्घाच्चारणमित्यादि। कथं पुनर्यङ्च्यमान आदेशो यङ्लुकि स्यात्? प्रत्ययलक्षणेन। `न लुमताङ्गस्य'? एवं तर्हि दीर्घोच्चारणसामर्थ्याल्लुक्यपि भविष्यति, पूर्वसूत्रविहितं तु प्रसारणं यङ्लुकि न भवत्येव। न च `सम्प्रसारणाश्रयं च कार्यं बलवत्' इति प्रागेव लुकः सम्प्रसारणम्; प्रत्याथ्यातत्वादस्याः परिभाषायाः। तथा च पूर्वत्रोभयेषां ग्रहणं कृतम्, अनयताऽनयैव परिभाषया हलादिशेषात्प्रगेव सम्प्रसारणं भविष्यतीत्यनर्थकं तत्स्यात्। सास्वपीति, सास्वप्ति। सास्वप्तः, साश्वपीतः। वाव्येति, वाव्याति ।।
स्त्यः प्रपूर्वस्य ।। 6.1.23 ।।
द्वयोरप्येतयोरिति। द्वयोरपि स्यारुपस्य लाक्षणिकत्वात्। सम्प्रसारणे कृते इति। तस्यासिद्धत्वात्प्रागेव सम्प्रसारणम् ।
प्रस्त्य इत्येव सिद्ध इति। यथा `प्रस्त्यो।़न्यतरस्याम्' इत्यत्र। न चैवमुच्यमाने प्रशब्दस्यापि यो रेफस्तस्यापि प्रसङ्गः; धातोरित्यधिकारात्। प्रसंस्तीत इति। `प्रस्त्योऽन्यतरस्याम्' इति मत्वमत्र न भवत्येव। तत्कथमिति। कथमयमर्थः शब्देनाभिहितो भवतीति प्रश्नः। षठ्यर्थे बहुव्रीहिरिति। पूर्वशब्दस्यावयववाचित्वात्, यथा--पूर्वं कायस्येति। व्यधिकरणे षष्ट्याविति। प्रपूर्वस्येति स्त्याशब्दापेक्षयावयवष्ष्ठी, स्त्य इत्येषापि यणवयवापेक्ष्या षष्ठी। यथा पुनरयमर्थःक प्रकृतोपयोगी तथा दर्शयति--तत्रेति ।।
द्रवमूर्तिस्पर्शयोः स्यः ।। 6.1.24 ।।
द्रवकाठिन्य इति। द्रवावस्ताया उत्तरावस्थाविशेषः=काठिन्यम्। स्पर्शे चेति। रूपादिसहचरितो गुणः=स्पशः।
शीतो वायुरिति। कथं पुनः स्पर्समात्राभिधायिनःक शीतशब्दस्य तद्वद्द्रव्यवाचिना वायुशब्देन सामानाधिकरण्यम् ? तत्राह--गुणामात्र इत्यादि। शुक्लादिशब्दवदिति भावः ।।
विभाषाऽभ्यवपूर्वस्य ।। 6.1.25 ।।
सेयमुभयत्र विभाषेति। द्रवमूर्तिविषये पूर्वेण प्राप्तेऽन्यत्राप्राप्ते। अथ पूर्वग्रहणं किमर्थम्, न `विभाषाब्यवाभ्याम्' इत्येवोच्येत, तत्राहपूर्वग्रहणस्येत्यादि। क्रियमाणेऽपि पूर्वग्रहणे कस्मादेवात्र न भवति? इत्याह--न किलेति। किलशब्दसूचितामरुचि दर्शयति-योऽत्रेति। मा भून्महासमुदायोऽभ्यवपूर्वः, अवान्तरसमुदायस्त्वभ्यवपूर्वोऽप्यस्ति, तदाश्रयो विकल्पः प्राप्नोति। यत्नान्तरमास्थेयमिति। विभाषाग्रहणं व्यवस्थितविभाषार्थमाश्रयणीयमित्यर्थः। पूर्वग्रहणस्य चान्यत्प्रयोजनं वक्तव्यमिति। तत्पुनरभिसंशीनम्, अभिसंश्यानम्, अवसंशीनम्, अवसंश्यानमित्यत्रापि विकल्पप्रवृत्तिरेव। तच्च पूर्वग्रहणे क्रियमाणे यथा लभ्यते तथा `स्त्यः प्रपूर्वस्य' इत्यत्र व्याख्यातम् ।।
श्रृतं पाके ।। 6.1.27 ।।
श्रा पाक इत्यस्य धातोरिति। `श्रा पाके' इत्यदादौ पठ्यते, `श्रौ पाके' इति चुरादौ, घटादिष्वपि मित्त्वार्थः `श्रा पाके' इति पठ्यते, तत्रेह सर्वेषां ग्रहणम्। श्रायतेरपि कृतात्वस्यैतद्रपं भवति, निपातनसामर्थ्याच्च लक्षणप्रतिपदक्तपरिभाषा नाश्रीयते। ण्यन्तस्य चाण्यन्तस्य चेति। तथा चोक्तम्--`श्राश्रप्योः श्रृभावो निपात्यते' इति। अत एव प्रकृतं सम्प्रसारणमेव न विहतम्, श्रपेरपि श्रृतमित्येव यथा स्यादिति।
यदि विभाषेत्यतदत्रावर्त्तते, क्षीरहविषोरन्यत्र च विकल्पः प्राप्नोति सर्वत्र, तत्राह--व्यवस्थितविभाषा चेयमिति। यदा त्वित्यादि। प्रयोजकव्यापारः प्रेषणादिलक्षण प्रयोजकशब्देनोक्तः, तस्य च बाह्यत्वं बहिर्भूतणिज्व्याप्यत्वात्। तदापि नेष्यत इति। तथा चोक्तम्--श्रपेः श्रृतमन्यत्र हेतोरिति। श्रपितं क्षीरं देवदत्तेन। प्रयोजकव्यापारेणाप्यमानस्यापि प्रयोज्यस्य कर्मसंज्ञा न भवति, `गतिबुद्धिप्रत्यवसान' इति नियमात्। कथं पुनर्ण्यन्तस्य निपातनं लभ्यते, यावता पाक इत्युच्यते, ण्यन्तेन च पाचनाभिधीयते, न पाकः; अथ पाचनायामपि गुणभूतः पाकः प्रतीयते, तदाश्रयं निपातनं स्यचात्? यद्येवम्, द्वितीयेऽपि णिचि प्रसङ्गः। न हि तत्र पाको गुणभूतो न गम्यते।
अथं तत्र गुणभूतत्वादेव प्रधानभूते पाके चरितार्थं निपातनं न भविष्यती त्युच्येत ? प्रथमेऽपि न स्याद्, वक्तव्यो वा विशेषः। तमाह-श्रातिरयमित्यादि। अथमभिप्रायः--द्विविधः पाकः--विक्लित्तिलक्षणः, विक्लेदनालक्षणश्च;, उभयत्रापि पचेः प्रयोगदर्शनात्, पच्यते ओदनः स्वयमेव, पचत्योदनं देवदत्त इति। श्रातिश्चायं यद्यपि `पाके' ित्यविशेषेण पठ्यते, तथापि कर्मकर्तृविषयस्य पचेरर्थेवर्त्तेते। स ण्यन्तोऽपि प्राकृतचं प्रकृतौ भवं णिज्रहितपचिवाच्यं पच्यर्थमाह। सोऽपि पाक एव, न पाचयतेरर्थः, यथा--सिद्धयत्योदनः, साधयत्योदनमिति। तत्र यदा श्रातेः क्त ****त्पद्यते, तदाऽकर्मकत्वात्कर्त्तरि भवति--श्रृतं क्षीरमिति, श्रपेस्तु कर्मणइ--श्रृतं क्षीरं देवदत्तेन। द्वितीये तु णिचि पाचयितृव्यापारः पाचनालक्षणः प्राधान्येनाभिधीयते, न तु पाक इति निपातनाभाव इति। `श्रपेः श्रृत्वमन्यत्र हेतोः' इति वार्त्तिके `श्राश्रप्योः श्रृभावो निपात्यते' इति पूर्वमुक्तत्वादाद्यप्रकृतलक्षणप्रयोजकव्यापाराङ्गीकरणसामर्थ्यात्पाचयितृलक्षणप्रयोजकव्यापारनिषेधो विज्ञेयः ।।
पाकोऽयं पाक्यपक्त्योरद्विविध इह स विक्लित्तिविक्लेदनात्मा
श्रातिर्वक्त्येकमन्यं श्रपयतिरुभयत्रौभयोक्तेः श्रृभावः।
स्वे स्वे वाच्ये श्रपेस्तु प्रसजति सति वा पाचने न द्वितीये
नित्यं क्षीरे शृभावो हविषि च न तु पाक्येषु चार्थान्तरेषु ।।
प्यायः पी ।। 6.1.28 ।।
अन्धुः कूपः ।।
लिड्यङोश्च ।। 6.1.29 ।।
विभाषेति निवृत्तमिति। उत्तरसूत्रे पुनर्विबाषाग्रहणात्। प्यायः पीत्येतच्चकारेणानुकृष्यते इति। असति चकारे प्रकरणिनः सम्प्रसारणस्यैवानुवृत्तिः स्याद्, यथोत्तरत्र। परत्वात्पीभावे कृते इति। ननु द्वयोः सावकाशयोः परत्वं भवति, अनवकाशश्च पीभावः, एवं तर्हि परत्वादुत्कृष्टत्वादनवकाशत्वादिति भावः। पुनः प्रसङ्गविज्ञानादिति। अत्रापि `विप्रतिषेधे परम्' इत्यत्र यदुक्तं न तद्विवक्षितम्, किं तर्हि? द्विर्वचनस्य पुनः प्रसङ्गोऽस्तीति कृत्वेत्यर्थः। यदि तर्ह्यनवकाशः पीभावो नाप्राप्ते द्विर्वचन आरभ्यमाणेन तेन द्विर्वचनस्य बाधः प्राप्नोति? नैष दोषः; परस्परसन्निधौ बाध्यबाधकबावः। इह तु सम्प्रसारणप्रकरणेन द्विर्वचनप्रकरणं विच्छिन्नम्। अत एव वक्ष्यते--`दिग्यादेशेन द्वित्वबाधनमितष्यते' इति।।
विभाषा श्वेः ।। 6.1.30 ।।
शुशावेति। परावपि वृद्ध्यायादेशौ बाधित्वा नित्यत्वात् सम्प्रसारणमन्तरङ्गत्वात्पूर्वत्वम्। शुशुवतुरिति। अत्रापि परत्वात्प्रापमियङं बाधित्वा नित्यत्वात्सम्प्रसारणम्। तत्र कृते परमपि `एरनेकाचः' इति यणं बाधित्वान्तरङ्गत्वात्पूर्वत्वम्, पश्चादुवङादेशः। अन्यत्रेति। पित्सु वचनेषु। तत्र सर्वत्र विकल्प इति। पित्सु तावद्विकल्प्यते; प्रतिषेधकाभावात्। कित्स्वपि परत्वादयं विकल्पः। यजादिलक्षणस्यावकाशः--शूनः, शूनवान्, अस्यावकाशः पिद्ववचनानि; किति लिट्युभयप्रसंगे परत्वादयं विकल्पः। अब्यासस्यापि न भवतीति। किमिति न भवति? न तावत् परत्वादनेन कल्पेन बाधः, धातोरयं विकल्पः, नाभ्यासस्य। किञ्च--उभयेषांग्रहणस्य स एव विधिर्यथा स्यादिति। तस्माद्वचनमेवात्र शरणम्। यदाह--`स्वेर्लिट्यभ्यासलक्षणप्रतिषेधः' इति ।।
णौ च संश्चङोः ।। 6.1.31 ।।
`णौ' इतिक श्वयत्यपेक्षया परस्प्तमी, `संश्चङोः' इति ण्यपेक्षया। तदाह--सन्परे चङ्परे च णौ परत इति। अन्तरङ्गमपीति। अन्तरङ्गत्वं तु णिज्मात्रापेक्षत्वात्। वृद्ध्यादिकमिति। आदिशब्देनायादेशो गृह्यते, यदा तु `संप्रसारणं संप्रसारणाश्रयं च कार्यं बलीयः' इति परिभाषा प्रयोजनाबावात्प्रत्याख्याता, तदा `णौ च संख्चङोर्विषयभूतयोः' इति। ओः पुयण्जीत्यादि। यथा चैतज्ज्ञापकं तथा `द्विर्वचनेऽचि' इत्यत्र प्रतिपादितम्। अत्र स्थानिवद्भावादित्यतः पूर्वम् `द्वितीयोऽपि' इतिशब्दः पाठ्यः। `तेन' इति वा पठितव्यम् ।।
ह्वः सम्प्रसारणम् ।। 6.1.32 ।।
संप्रसारणस्य बलीयस्त्वादिति। बलीयस्त्वं च पूर्ववत्।
एकयोगेनैव सिद्ध इति। उत्तरसूत्रे कस्यचिन्निमित्तस्य सप्तमीनिर्दिष्टस्याभ्यस्तं प्रत्यश्रवणाण्णावपि संश्चङ्परे ह्वेरभ्यस्तकारणस्य सिद्धमेव सम्प्रसारणमिति भावः। अनभ्यस्तनिमित्तप्रत्ययेनिति। अभ्यस्तस्य यन्निमित्तं न भवति तेन। व्यवधाने इति। यद्युत्तरसूत्रं प्रवर्तेत, तदा योगविबागोऽनर्थकः स्यादिति ज्ञापकत्वम् ।।
अभ्यस्तस्य च ।। 6.1.33 ।।
अत्र `ह्वः' इत्यनुवर्त्तमानस्य यद्यभ्यस्तर्येत्यनेन सामानाधिकरण्यं स्यात्, तदा कृते द्विर्वचनेऽभ्यस्तसंज्ञायामुपजातायां सम्प्रसारणेन भविथव्यम्, ततश्चाभ्यासस्य सम्प्रसारणं न स्यात्; `न सम्प्रसारणे सम्प्रसारणम्' इति निषेधात्। आकारहकाराभ्यां व्यवहितत्वादप्रतिषेध इति चेतु? न; समानाङ्गे सम्प्रसारणप्रतिषेधात्। समानाह्गग्रहणं तत्र चोदयिष्यति, न; समानाङ्गे सम्प्रसारणप्रतिषेधात्। समानाङ्गग्रहणं तत्र चोदयिष्यति, एतच्च तत्रैव व्यक्तं व्याख्यास्यते। तमिमं सामानाधिकरण्ये दोषं पश्चन्नाह--तदभ्यस्तस्येत्यनेन व्यधिकरणमिति। एतदेव स्फोरयति--अब्यस्तस्य यो ह्वयतिरिति। तेन किं सिद्धं भवति? इत्याह--तेनेति ।।
अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताः श्रितमाशीराशीर्त्ताः ।। 6.1.36 ।।
अपर आहेति। कस्याञ्चिच्छाखायामपस्पृधेथामित्याद्युदात्तं पठ्यते, अन्यस्यां तु पदद्वयम्, उभयमप्यनेन निपातनेन संगृह्यते। तत्रैकपद्ये `तिङ्ङतिङः' इति निघातः प्राप्तः, `यद्वृत्तान्नित्यम्' इति प्रतिषिद्धः। तत्राट्स्वरेणाद्युदात्तं पदं भवति। यदा तु द्वे पदे, तदा निघातप्रतिषेधे `तास्यनुदात्तेत्' इति लसार्वधातुकानुदात्तत्वे धातुस्वरेण स्पृधेथामिति पदमाद्युदात्तम्,`तिङि चोदात्तवति' इत्यपशब्दस्य निघातः।
बहुवचनस्याविवक्षितत्वादिति। सोमस्यैव बहुत्वे श्राभाव इति नियमानाश्रयणाच्च, अन्यथा बहुत्वातविवक्षायामपि सोमादन्यत्र श्राभावो न स्याद् विषयविभागवादितनाम् ।।
न सम्प्रसारणे सम्प्रसारणम् ।। 6.1.37 ।।
येषां सम्प्रसारणं विहितं तेषां यावन्तो यणस्तेषां सर्वेषां सम्प्रसारणे प्राप्ते प्रतिषेधोऽयमुच्यते। ननु चालोन्त्यपरिभाषयान्त्यस्यैव भविष्यति? नानया परिभाषया शक्यमिहोपस्थातुम्, वच्यादीनामन्त्यस्य यणोऽसम्भवात्। `अनन्त्यविकारेऽन्त्यसदेशस्य' इत्यनया परिभाषया तर्हि अन्त्यसदेशस्यैव भविष्यति, नेतरस्य? नैषास्ति परिभाषा; प्रयोजनाभावात्। एतच्चास्माभिः परिभाषाप्रकरणाख्ये ग्रन्थे उपपादितम्।
एवं तर्हि ज्ञापकात्सिद्धम्, यदयं प्यायः पीभावं शास्ति, तज्ज्ञापयति--न सर्वस्य यणः सम्प्रसारणं भवतीति। यदि स्यात्, प्यायः सम्प्रसारणमेव विदध्यात्। द्वयोर्यकारयोः सम्प्रसारणे पूर्वत्वे च `हलः' इति दीर्घत्वे च सिद्धं स्यात्पीनं मुखमिति। ननु च प्यायोऽन्त्य यणः। सम्भ्वाकत्तस्यैव स्यात्? स्यादेवं यदि `प्यायः' इति स्थानषष्ठी विज्ञायेत, अवयवषष्ठी चैषा विज्ञास्यते--प्यायो यो यण् तस्येति। एवमप्येतावदेवानेन ज्ञाप्यते-न ज्ञाप्यते--न सर्वस्य यणः सम्प्रसारणं भवतीति, तत्र कुत् एतत्-- परस्यैव भवति न पूर्वस्येति, न च विध्यतीत्यादिनिर्द्देशात्परस्यैवेति शक्यमवगन्तुम्? पर्यायेण प्रवृत्तावपि तदुपपत्तेः। तस्मादारभ्यमेवैतत्।
ननु पूर्वपरयोर्यणोरेकयोगलक्षणं सम्प्रसारणं तद्यदि परस्याभिनिर्वृत्तं पूर्वस्याप्यभिनिर्वृत्तमेव, न चाभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या विज्ञातुम्, यो हि भुक्तवन्तं ब्रूयाद् मा भुंक्था इति, किं तेन कृतं स्यात्! अथ पूर्वस्यानभिनिर्वृत्तं परस्याप्यनभिनिर्वृत्तमेव, तत्र निमित्त्त्वेनाश्रयणमनुपपन्नम्? इत्यत आह--एकयोगलक्षणमपीति। अपरः कल्पः-- अस्तु द्वयोरप्यभिनिर्वृत्तम्, कथं तर्हि प्रतिषिद्ध्यते? न सम्प्रसारणं प्रतिषिद्ध्यते, किं तर्हि? तदाश्रयं पूर्वत्वम्। तदेव त्वत्र सम्प्रसारणशब्देनोपचारादुच्यते, तस्मिन्प्रतिषिद्धे यणादेशेन सिद्धमिष्टम्। अस्तु वा द्वयोरप्यनभिनिर्वृत्तम्। कथं तर्हि निमित्तत्वम्? नैवात्र सम्प्रसारणनिमित्तम्, किं तर्हि? तद्भावी यो यण् स एव च सप्तम्यन्तेन सम्प्रसारणशब्देनोच्यत इति।
पुनः सम्प्रसारणग्रहणमिति। असति तस्मिन्, `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' इति पूर्वप्रकरणविहितस्यैव सम्प्रसारणस्य प्रतिषेधः स्यान्न विदेशस्थस्य। विभिनन्नो देशः=विदेशः।
सम्पब्रसारणग्रहणादेवेति। इह तु `व्यथो लिटि' विव्यथे इति हलादिःशेषापवादः सम्प्रसारणम्, प्रकरणादुत्सर्गदेशश्चापवादो भवतीति परस्यैव संप्रसारणात्सिद्धम्। अत एव पुनः संप्रसारणाद्विदेशस्थेपि संप्रसारणे प्रतिषेध इतीष्टव्यम्, अन्यथा तत्रेति वाच्यं स्यात्। व्यवधानमेतावदाश्रयिष्यत इति। तेनोपपूर्वाद्वसेः `भाषायां सदवसश्रुवः' इति लिटः क्वसौ विभक्तौ च परतो वसोस्सम्प्रसारणे उपेयुषेत्यादौ धातोः प्राप्तस्य यजादिलक्षणस्य संप्रसारणस्य प्रतिषेधो न भवति, प्रत्यक्षेण षकारेण व्यवदानादिति भावः। यदि तु व्यवधानमात्रे स्यात्, तदा समानाङ्गग्रहणं कर्त्तव्यम्। निमित्तनिमित्तिनौ यत्रैकस्मिन्नेवाङ्गे भवतः, तत्र प्रतिषेधो भवतीति वक्तव्यम्। उपेयुषीत्यत्र क्वसौ धातुरङ्गम्, क्वस्वन्तं च विभक्ताविति प्रतिषेधाभावः। अन्तरङ्गत्वाद्वाऽत्र पूर्वमेव धातोः सम्प्रसारणम्।
ऋचि त्रेरिति। कल्पसूत्रकारास्तु द्विशब्दस्यापि सम्प्रसारणं प्रयुञ्जते--`तृचाः प्रतिपदनुचराः', `द्वचाः प्रगाथाः' इति ।।
लिटि वयो यः ।। 6.1.38 ।।
लिङ्ग्रहणमुत्तरार्थमिति। नेहार्थं लिटः; अन्यत्र वयादेशस्यासम्भवात् ।।
वश्चास्यान्यतरस्यां किति ।। 6.1.39 ।।
अस्यग्रहणेन वयो यकारः प्रतिनिर्द्दिश्यते, अन्यथादेशाकारस्योच्चारणार्थत्वे प्रमाणाभावाद्वय एवायं सर्वादेशः सम्भाव्येत। अस्यग्रहणे तु सति यद्यष्यकारवानादेशः तथाप्यतो लोपेन सिद्धमिष्टम्।
वश्चास्यग्रहणं शक्यमकर्त्तुम्। कथम्? `अन्यतरस्यां किति वेञः' इति सूत्रं कर्तव्यम्, लिटीत्येव, किति लिटि परतो वेञः सम्प्रसारणं न भवत्यन्यतरस्याम्--ववतुः, ववुः; सम्प्रसारणपक्षे उपङादेशे सति द्विर्वचनम्, सवर्णदीर्घत्वम्--ऊचतुः, ऊचुः; `वेञो वयिः' --ऊयतुः ऊयुरिति। कथं ववौ, वविथ? `ल्यपि च' इति चकारेण लिडनुकृष्यते, तत्पिति नित्यनिषेधार्थं भविष्यति ।।
ल्यपि च ।। 6.1.40 ।।
पूर्वं वश्चास्यग्रहणे क्रियमाणे `ल्यपि व्यो ज्यश्च' इति एकयोग एव कर्त्तव्यः, एवं हि द्विश्चकारोऽपि न कर्त्तव्यो भवति ।।
आदेच उपदेशेऽसिति ।। 6.1.45 ।।
आदेच उपदेशेऽशिति ।। अत्र यदि `धातोः' इति नानुवर्त्तेत, ततो विसेष्याभावादेवल नास्ति तदन्तविधिरित्युपदेशे य एच् तस्यात्त्वमित्यर्थो भवति; ततश्च ढौकिता, त्रौकिता इत्यत्रापि प्राप्नोति। ननु चाशितीत्युच्यते, न चात्राशितं पश्यामः; न च ककार एवाशित्, किं कारणम्? नञिवयुक्तन्यायेन शित्सदृशस्य प्रत्ययस्यैव ग्रहणात् ? स्यादेवं यद्यशितीति पर्युदासः स्यात्, प्रसज्यप्रतिषेधस्त्वयमिति वक्ष्यते। तस्माद्धातोरित्यनुवर्त्तयमित्याह--धातोरिति वर्त्तत इति। तस्य चैचो विशेषणात्तदन्तविधिरित्याह--एजन्तो यो धातुरिति। उपदेश इति। अनिर्ज्ञातस्वरूपस्य स्वरूपज्ञापनार्थमाद्यमुच्चारणम्=उपदेशः।
चेता, स्तोतेति। आर्धधातुके गुणविधानं त्वात्त्वार्थमेव स्यात्; यं विधिं प्रत्युपदेश इति न्यायात्। कर्त्ता, हर्त्ता हत्यादौ च गुणविधिश्चरितार्थः। एवमपि लाक्षणिकत्वादेवात्र न भविष्यति? ज्ञापकाच्च; यदयं क्रीङ्जीनां णावात्त्वं शास्ति, तज्ज्ञापयति-न परनिमित्तस्यैच आत्त्वं भवतीति। नैतदस्ति ज्ञापकम्, नियमार्थमेतत् स्यात्--क्रीङ्जीनां णावेवेति। तत्तर्हि `मीनातिमिनोतिदीङां ल्यपि च' इत्यात्त्वं सास्ति? एवं तहर्युत्तरार्थमवश्यं कर्त्तव्यमुपदेशग्रहणम्, तदिहैव क्रियते मन्दधियामनुग्रहाय।
कथमिति। अशिदित्ययं बहुव्रीहिः, तत्र शिति प्रतिषेधे क्रियमाणे शिन्मात्रस्य प्राप्नोति, ततश्च जग्लाये इति भवितव्यमिति प्रश्नः। भावे लकारः, तत्पुरुषाश्रयेणोत्तरम्। कः पुनस्तत्पुरुषे सति गुणः? इत्यत आह--तत्रेति। तत्पुरुषे हि वर्णग्रहणमिदं भवति, वर्णग्रहणे च तदादौ कार्यं भवति। स्तनन्धय इत्यत्र तु `नासिकास्तनयोः' इति खशि कृते मद्यपातिनं शपमाश्रित्य प्रतिषेधः। प्रयोजनाभावादेवात्र न शपपा भितव्यमिति चेत्? नन्विदमेव प्रयोजनं यदुतात्त्वनिवृत्तिः। अशितीति। यद्ययं पर्युदासः स्यात्--शितोऽन्योऽशित्, तस्मिन्नशितीति, ततो ग्लायन्ति, मलायन्तीत्यत्र शबकारस्यान्त्याकारस्य चैकादेशे कृते तस्य परं प्रत्यादिवद्भावादस्ति शितोऽन्य इति कृत्वाऽऽत्त्वमत्र प्राप्नोति। प्रसज्यप्रतिषेधे तु न दोषः; एकादेशस्य पूर्वं प्रत्यन्तवद्भावात् सिद्ग्रहणेन ग्रहणात् शिति प्रतिषेध एव भवति। किं पुनः कारणमेकादेशविषय एव आत्त्वप्राप्तिश्चोद्यते, न पुनर्ग्लायतीत्यादावपि लकार एवाशिति परत आत्त्वं प्राप्नोतीति? नैवं शक्यं चोदयितुम्; एवं ह्यशितीति प्रतिषेधो निर्वषयः स्यात्, न च `पाघाध्माधेट्दृशः' हृति धेटः शप्रत्ययोऽनन्यपूर्वो विषयः। न ह्येकमुदाहरणं सित्प्रतिषेधं प्रयोजयति। यद्येतावत्। प्रयोजनं स्याद् `अशे' इत्येव ब्रूयात्। यद्वा--अन्तरङ्गत्वान्नित्यत्वाच्च पूर्वं चोद्यते? नैष दोषः; एकादेशस्य पूर्वविधौ स्थानिवद्भावेनादिशितोऽन्यस्य प्रत्ययस्याभवात्। इह तर्हि--सुग्लः, सुग्ला, सुग्लानमित्याकारान्तलक्षणाः काङ्यनो न स्युः? एषोऽप्यदोषः;
आत्त्वभाविन एजन्तादाकारान्तनिमित्तकः।
प्रत्ययो ज्ञाप्यते सर्वो ह्वावामश्चेत्यणा पुनः ।।
इह तर्हि ग्लै-ग्लानीयम्, पै--पानीयम्, अनीयरि कृते आत्त्वं च प्राप्नोति, आयादयश्च, परत्वादायादयः स्युः? सत्यम्; कृतेषु तेष्वलोन्त्यस्यात्वे सवर्णदीर्घत्वे ग्लानीयमित्यादि सिद्धम्। नन्वायादिषु कृतेषु नायमेजन्तः, न च स्थानिवद्बावोऽलाश्रयत्वात्? स्यादेतदेवं यदि सम्प्रति यदेजन्तं तस्यात्त्वं भवतीत्युच्येत, इह तूपदेशगतमेजन्तत्वं न सम्प्रतितनमिति नास्ति स्थानिवद्बावापेक्षा। नन्वेवमपि जग्लतुरित्यादौ यकारस्यात्वे कृते जग्ला+आ+अतुसिति स्थितेऽन्तरङ्गमप्याकारयोरेकादेशं बाधित्वा `आतो लोप इति च' इत्यातो लोपः स्यात्, न च पूर्वस्याकारस्य पुनर्लोपो लभ्यते, यकाराकारलोपस्य पूर्वविधौ स्थानिवद्भावात् `असिद्धवदत्राभात्' इत्यसिद्धत्वाच्च? नैष दोषः; समानाश्रये `वार्णादाङ्गं बलीयः' इह तु व्याश्रयत्वादन्तरङ्ग एकादेशे सति पश्चादाल्लोप इति सिद्धमिष्टम्। एवमपि `द्विर्वचनेऽचि' इत्यायादीनां स्थानिवत्ताव्त ग्लैशब्दस्यद्विर्वचनेऽभ्यासस्येवर्णान्तता प्राप्नोति, पक्षान्तरे त्वनैमित्तिकत्वादात्वस्य द्विर्वचननिमित्तेऽच्यविहितत्वान्न दोषः? पर्युदासपक्षेऽपि न दोषः, लिटि वयो यः' इति द्विलकारकोऽयं निर्देशः, तथानिर्द्देशस्य च तत्र प्रयोजनाभावादिहानुवृत्तं वाक्यभेदेन सम्बद्ध्यते--अशित्येव आत्वं भवति, लिटि तु लकारादौ लावस्थायामेवेति। ततश्चात्त्वस्य द्विर्वचननिमित्ताज्निमित्तत्वाभावात्त्स्य तावन्न स्थानिवद्भावः. आयादयस्तु लिट्यप्राप्ता एव। तदेवं पर्युदासपक्षस्य बहुप्रतिविधेय त्वात्प्रसज्यप्रतिषेधोऽयमित्याह--अशितीति प्रसज्यप्रतिषेधोऽयमिति। तेन किं सिद्धं भवति? इत्याह--तेनैतदित्यादि। एवमादि सिद्धं भवतीति। आदिशब्देन सुग्लेत्यत्र `आतश्चोपसर्गे' इत्यङो ग्रहणम्। अन्यानि बहुनी प्रयोजनानि प्रागेवास्माभिर्द्दर्शितानि ।
इह कस्मान्न भवति-गोभ्याम्, नौभ्यामिति? ज्ञापकात्। यदयम् `रायोहलि' इत्यात्त्वं शास्ति, तज्ज्ञापयति-न प्रातिपदिकस्यात्त्वं भवतीति। नैतदस्ति ज्ञापकम्, नियमार्थमेतत्स्यात्--रायो हल्येव; `औतोम्ससोः' इत्येत्तत्तु गां पश्येत्यत्र, `गोतो णित्' णित्त्वाद्वृद्धिः प्राप्नोति, गाः पश्येत्यत्र त्वशितीति प्रतिषेधः प्राप्नोतीति कृतं भवेदित्यज्ञापकम् ? एवं तहर्युपदेश इत्युच्यते, न च गोनौशब्दयोरुपदेशोऽस्ति, यः `गोपयसोर्यन्', `नौवयोधर्म' इत्यादौ उच्चारणं नासावुपदेशः, किं तर्हि? उद्देशः, सिद्धवदुपानात्। मा भूद् गौनौशब्दयोरुपदेशः, एचस्तूपदेशोऽस्ति--`गमेर्डोः', `ग्लानुदिभ्यां डौः' इति, न च डोडावोर्विधानवैयर्थ्यम्, शसि चरितार्थत्वात्? एवं तर्हि `धातोरिति वर्त्तते'--इत्युक्तत्वान्न भविष्यति ।।
न व्यो लिटि ।। 6.1.46 ।।
कित्त्यात्वे सत्यसति वा विशेषाभावात्पित्युदाहरणमेतस्य वृत्तिकारेण दर्शितम्। थलि `इडत्यर्तिव्ययतीनाम्' इतीट ।।
क्रीङ्जीनां णौ ।। 6.1.47 ।।
यद्यपि करोतेः `ईङ् गतौ' इत्येतस्य यणादेशे ङिति रूपं सम्भवतति, तथापि `एचः' इत्यधिकारात्करोतेस्तावद् ग्रहणं न सम्भवति। तथा ईङोऽपि ग्रहणं न भवति, ह्रस्वान्तेन परेण जयतिना साहचर्यात् ।।
सिध्यतेरपारलौकिके ।। 6.1.48 ।।
परलोकः प्रयोजनमस्य तत्पारलौकिकम् `प्रयोजनम्' इति ठक्, अनुशतिकादित्वादुभयपदवृद्धिः। ज्ञनविशेषे वर्त्तत इति। हेयोपादेयतत्त्वावबोधः=ज्ञानविशेषः। तापसः सिध्यतीति। हेयमुपादेयं च तत्त्वतो ज्ञातुकामः प्रवर्त्त त इत्यर्थः। तदाह--ज्ञानविशेषमासादयतीति। तपः प्रयुङ्क्ते इति। ज्ञानविशेषवन्तं करोतीत्यर्थः। परलोक इत्यस्य विवरणम्-जन्मान्तर इति। इह वा भवतु, स्वर्गादौ वा, शरीरान्तरोपलक्षणार्थं पारलौकिकग्रहणमिति। उपसंहरन्निति। हेतौ शतृप्रत्ययः।
इह कस्मादिति। ब्राह्मणेभ्यो दास्यामीत्यनेनाभिप्रायेणानुष्ठितो धात्वर्थः परलोकप्रयोजनो भवतीति प्रश्नः। सिद्ध्यतेरर्थ इत्यादिना ऐहलौकिकत्वं धात्वर्थस्य दर्शयति। तस्यप्रयोजनमिति। तदुद्दिश्य प्रवृत्तत्वात्। पुनः सिद्धिरेवेति। पारलौकिकीति लिङ्गविपरिणामेन सम्बन्धनीयम्। सिद्धिः= सिद्धिरेवेति। पारलौकिकीति लिङ्गविपरिणामेन सम्बन्धनीयम्। सिद्धिः=निष्पत्तिः। यस्यां सिद्धौ धातुर्वर्त्तते सा च पारलौकिकी न भवति, तस्मादात्त्वं न पर्युदस्यते। साक्षादिति। यदि साक्षादव्यवधानेन पारलौकिको यः सिद्ध्यतेरर्थस्तत्र पर्युदासो न चरितार्थः स्यात्तदा पारम्पर्याश्रयणम्। इदं तु साक्षात्परलोकार्थे ज्ञानविशेषे चरितार्थम्, अतो नैवंविधे विषये प्रवर्त्तते इत्यर्थः ।।
मीनातिमिनोतिदीङां ल्यपि च ।। 6.1.49 ।।
उपदेश एवात्त्वविधानाल्ल्यपः परत्वासम्भवाल्ल्यपीति विषयसप्तमीत्याह--ल्यपि विषय इति। एकाच्च इति। यद्यपि प्रकृतिविशेषणं प्रागासीत्, तथापीहोपदेशाधिकारान्मीनात्यादीनां चोपदेश एजन्तत्वासम्भवात्सामर्थ्यादेव इत्येतदपि विषयविशेषणं विज्ञायत इत्याह--एचश्च विषय इति। यत्र प्रत्यये एज्भावी तस्मिन्बुद्धिस्थ इत्यर्थः। उपदेश एवेत्यस्य विवरणम्--प्राक् प्रत्ययोत्पत्तेरिति।
उपदेश एवात्त्वविधाने योऽर्थः सम्पद्यते तं दर्शयति--उपदेश एवात्त्वविधानादिति। इवर्णान्तलक्षणः प्रत्यय एरच्, आकारान्तलक्षणस्तु घञ्। यद्यपि घञाकारान्तादिति नोच्यते, तथाप्यत्रात्त्वे सति भवति, असति तु न भवतीत्येतावता घञ आकारान्तलक्षणत्वम्। उपदायो वर्त्तत इति। `घञि `आतो युक् चिण्कृतोः' इति युक्। ईषदुपदानमिति खलर्थे `आतो युच्'। मीनातिमिनोत्येस्तु खलचावेव भवत; `निमीमिलियां खलचोः प्रतिषेधः' इति वक्ष्यमाणत्वात्। अतो दी***वोदाहृतः ।।
विभाषा लीयतेः ।। 6.1.51 ।।
तयोरुबयोरपि यकाऽयं निर्द्देशः क्रियते इति। यदि तु दैवादिकस्यैव श्यना निर्द्देशः क्रियेत, `लीङः' इत्येव ब्रूयादिति भावः। शितपः शित्करणसामर्थ्याच्चाबावकर्मवाचित्वेऽपि यग् भवति, यथा--अकर्तृवाचित्वशबादयः--`भवतेरः' इत्यादौ। खलचोरिति। पचाद्यच एरचश्च सामान्येन ग्रहणम्। एवं चेति। व्यवस्थितविभाषाविज्ञानादेवेत्यर्थः। उल्लापयत इति। `लियः सम्माननशालीनीकरणयोश्च' इत्यात्मनेपदम् ।।
खिदेश्छन्दसि ।। 6.1.52 ।।
चखादेति। व्यत्ययेन परस्मैपदम्, आत्त्वस्यानैमित्तिकत्वाद् `द्विर्वचनेऽचि' इति स्थानिवत्त्वाभावदभ्यासस्येवर्णान्तता न भवति।
अयं योगः शक्योऽवक्तम्। कथम्? खादेः--चखाद, खिदेः--चिखेदेति, अनेकार्थत्वाद्दातूनामर्थभेदो।़प्यकिञ्चित्करः ।।
अपगुरो णमुलि ।। 6.1.53 ।।।
यदि गिरतिर्गुरेरर्थे वर्तते, तदायं योगः शक्योऽवक्तम्। कथम् ? गिरेः--अपगारमपगारम्, गुरोः--अपगोरमपगोरम् ।।
प्रजने वियतेः ।। 6.1.54 ।।
यदि वातिरप्रजनेऽपि वर्तते, तदा योगोऽयं शक्योऽकर्तुम्। कथम्? वातेः--प्रवापयति, वीयतेः--प्रवाययतीति। वीयतेरित्ययमपि यका निर्द्दशः स्मर्यते, वेतेरादादिकत्वेन श्यनोऽसम्भवात्। प्रयोजनं हि यका निर्द्देशस्य चिन्त्यम्। जन्मन उपक्रम इति। जनेर्भवे घञ, प्रशब्द आदिकर्मणि। गर्भग्रहणमिति। गृहीतो हि गर्भो जायते, ततो गर्भग्रहणं जन्मन उपक्रमः।
बिभेतेर्हेतुभये ।। 6.1.55 ।।
हेतुभयमिति। `पञ्चमी भयेन' इति समासः, तदाह--हेतोर्भयमिति। किं पुनस्तत्? इत्याह-स यस्य भयस्येति। स चात्त्वपक्षे न भवतीति। एकदेशविकृतस्यानन्यट्वात्प्राप्नोति, कुतो न भवति? इत्याह--लीभियोरीकारप्रश्लेषनिर्द्देसादिति। `लीलोर्नुग्लुकौ' इति लियो नुग्विधीयते, यश्च `भियः षुक्'--तावुभावप्याकारान्तयोर्न भवतः, कुतः? ली+ई भी+ई इति ईकारप्रश्लेषेणेकारान्तयोर्विधानात्। लीभियोः प्रश्लेषनिर्द्देशादिति वार्त्तिके सह पाठादिह लियो ग्रहणम् ।।
नित्यं स्मयतेः ।। 6.1.57 ।।
धात्वर्थसामान्यादिति। सामान्यम्=सादृश्यम्, धात्वर्थयोः सामान्यं धात्वर्थसामान्यम्, द्वयोरपि धात्वोरर्थो चित्तविकारस्वभावौ, तेन भयशब्देन स्मयतेरर्थेऽभिधीयते, `क्रीङ्जीनां णौ' इत्यत्र स्मयतिर्नोक्तः, `हेतुभये' इत्युपाधिं वक्ष्यामीति ।।
सृजिदृशोर्झल्यमकिति ।। 6.1.58 ।।
धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यं विज्ञायत इति प्रत्यय इह सन्निधापितो झला विशेष्यत इति तदादिविधिर्विज्ञायत इत्याहझलादाविति। अकिति प्रत्यये परत इति। किति परतो न भवतीत्यर्थः। प्रसज्यप्रतिषेधो ह्ययमिष्यते, एतच्च गाङ्कुटादिसूत्र सम्यगुपपादितम्। लघूपधगुणापवा दोऽयमिति। अकितीति वृद्धिस्तु भवति, न बाध्यतेः येन नाप्राप्त्यभावात्। साप्यमि कृते भवति। तस्यैव व्याख्या। पूर्व तु बाध्यत इति। अमागमेन; नित्यत्वात्तस्य। रज्जुसृड्भ्याम्, देवदृग्भ्यामिति। उभयत्र व्रश्चादिसूत्रेण षत्वे जश्त्वमिति केचित्। अन्ये तु `क्विन्प्रत्ययस्य कुः' इति कुत्वमित्छन्ति। ननु न क्विन्नन्तावेतौ, किं तर्हि? क्विबन्तौ? नैष दोषः; यस्माद्धातोः क्वचित्क्विन् विहितः, तस्य प्रत्ययान्तरे कुत्वं भवति, `क्विनः कु' इति वक्तव्ये प्रत्ययग्रहणादिति वक्ष्यते। पदान्तस्येत्यधिकारात् स्रष्टा, द्रष्टेत्यत्र न भवति, कुत्वविधावेव तस्य निर्णयं वक्ष्यामः ।।
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् ।। 6.1.59 ।।
उपदेश इति वर्त्तत इति। अनुदात्तस्य विशेषणार्थम्, तेन द्रप्तेत्यत्र तृनि विहिते यद्यपि नित्स्वरेण धातोरुदात्तत्वं भवति, तथापि उपदेशेऽनुदात्त इत्यम्भवति। वर्ढेत्यत्र तृचि कृते यद्यपि शेषनिघातेन धातुरनुदात्तो भवति, तथाप्युपदेशे नायमनुदात्त इत्यम्न भवति। किमर्थं पुनरनुदात्तस्येत्युच्यते, नानिट इत्येवोच्येत, एवं हि सति लघु सूत्रं भवति? तत्राहतृप प्रीणन इत्यादि। इडागमो रधादिभ्यश्चेत्यनेन विकल्पित इति। ततश्च पाक्षिकेणेटा सेट्त्वात्तयोर्न स्यात्। अथ पाक्षिकेणेडभावेन तयोरपि स्यात्, वर्ढा, वर्ढुमित्यत्रापि स्यादिति भावः। यदि तर्हि तयोः `रधादिभ्यश्च' इतीङ्विकल्प्यते, अनुदात्तोपदेशः पुनस्तयोः किमर्थः? इत्याह--अनुदात्तोपदेशः पुनरमर्थ एवेति।
शीर्षंश्छन्दसि ।। 6.1.60 ।।
न पुनरयमादेशः शिरःशब्दस्येति। यद्यपि सूत्रे शिरस इति स्थानी नोपात्तः, तथापि समानार्थत्वादादेशेनाक्षिप्यते, यथा-शिवादिषु विश्रवणरवणशब्दाभ्यां विश्रवःशब्द इत्यादेशत्वशङ्का। सोऽपि हि छन्दसि प्रयुज्यत इति। आदेशक्षपक्षे तु तेन निवर्तितत्वाच्छिरःशब्दो न प्रयुज्येतेति भावः। ननु च `अन्यतरस्याम्' इत्यनुवृत्तेस्तस्यापि प्रयोगो भविष्यति, सत्यम्; उत्तरत्रापि विकल्पानुवृत्तिः शङ्क्येतेति प्रकृत्यन्तरपक्ष एवाश्रितः ।।
ये च तद्धिते ।। 6.1.61 ।।
छन्दसि पूर्वेणैव सिद्धमिति। भाषार्थमिदम्, यदि पूर्वसूत्रवदिहापि शीर्षन्निति प्रकृत्यन्तरं विज्ञायेत तदा। यदा शिरः शब्दाद्यचकारादिस्तद्धित उत्पद्यते तदा तस्य श्रवणं प्रसज्येतेति मत्वाऽऽह--आदेशोऽयमिष्यत इति। स कथमिति। स आदेशः कथं लभ्यते, न कथञ्चित्, स्थानिनोऽनुपादानात् पूर्वसूत्रवदिति प्रश्नः। तन्ननिमित्तमनुरूपां शब्दतश्चार्थतश्चान्तरतमां प्रकृतिं शिरशब्दमेवाक्षिपति। शिरस्यातीति। `सुप आत्मनः क्चन्'।
वा केसेष्विति। सूत्रेण न्त्ये प्राप्ते विकल्पितः। अत्र शिरस्यशब्दस्य केशैकविषयत्वात्तत्प्रयोगे केशशब्दो न प्रयोक्तव्यः, शीर्षण्यशब्दस्तु सामान्यवाचीति तत्प्रयोगे विशेषावगमाय केशशब्दः प्रयोक्तव्यः ।।
अचि शीर्षः ।। 6.1.62 ।।
शीर्षन्भावे ह्यन्निति प्रकृतिभावः स्यादिति। अतोऽकारान्तमादेशान्तरं विहितमिति भावः।
कर्त्तव्योऽत्र यत्न इति। तत्रायं यत्नः--शीर्षन्नादेशसन्नि पातकृतः ष्यङादेशस्तद्विघातस्य निमित्तं न भवतीति। अणिञन्ताद्वा पर इति। `अणिञोरनार्षयोः' इत्यादेशपक्षप्रहाणेन प्रत्ययपक्ष आश्रयणीयः, आदेशपक्ष एव वा स्थित्वा यत्नः कर्त्तव्य इति वाशब्दार्थः ।।
पदन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु ।। 6.1.63 ।।
इहापि `शस्प्रभृतिषु' इति निमित्तोपादानादनुरूपाः प्रकृतयः आक्षिप्यन्ते, पदादयश्चादेश विज्ञायन्ते इत्याह--पाददन्ते त्यादि। अन्ते आसनशब्दः पठ्यते, आस्यशब्दस्तु पठितव्यः, आस्नो वृकस्य वर्त्तिकामभीके, ग्रीवायां बद्धो अपि कक्ष आसनि, आस्नो यत्सीसमुञ्चतं वृकस्येत्यादौ ह्यास्यार्थोऽवगम्यते। आसनीति। `विभाषा ङिश्योः' इत्यल्लोपाभावपक्षे रूपम्। अपरके पुनरविशेषणेच्छन्तीति। भाष्ये तु छान्दस्मेवैतदिति स्थितम्।
प्रकारार्थे प्रभृतिशब्द इति। व्यवस्थावाचिनि तु शसः पूर्वेषु वचनेषु न स्युः। दोषणीति। प्रथमाद्विवचने, दोःशब्दस्य दोषन्नादेशः, औङः शीभावः। मांसपचाया उखाया इति। `मांसस्य पचि युट्घञोः' इत्यन्तलोपो वक्ष्यते, तद्व्युत्पच्यन्तरम्। नस्यमिति। हितार्थे भवार्थे वा `शरीरावयवाद्यत्'। नस्त इति। `अपादाने साहीयरुहोः' इति तसि। नः क्षुद्रः इति। `तृतीया तत्कृतार्थेन' इति समासः। `सप्तमी' इति योगविभागादित्यन्ये। बहुव्रीहौ विशेषणस्य क्षुद्रशब्दस्य राजदन्तादित्वात्परनिपात इत्यन्ये ।
यति वर्णनगरयोर्निति वक्तव्यमिति। तत्तर्हि वक्तव्यम्? न वक्तव्यम्; इह तावन्नासिक्यो वर्ण इति, परिमुकादिपाठाद् ञ्यः, नासिक्यं नगरमिति सङ्काशादिपाठाद् ण्यः, `राजन्यसाङ्काश्यकाम्यिल्पनासिक्यदार्वाघाटानामा दिर्वान्तो वा' इति प्रतिपदस्वरविधानात्स्वरेऽपि नास्ति विशेषः, प्रत्युत यत्प्रत्यये सत्यनासिक्यमित्यत्र `ययतोश्चातदर्थे' इत्युत्तरपदान्तोदात्तत्वं प्रसज्येत, अव्ययपूर्वपदकृतीस्वरश्चेष्यते ।।
धात्वादे षः सः ।। 6.1.64 ।।
सिञ्चतीति। `से मुचादीनाम्' इति नुम्।
षोडन्निति। षड् दन्ता यस्येति बहुव्रीहौ `वयसि दन्तस्य दतृ' `ष, उत्त्वं दतृदशधासु' इति षष उत्वमुत्तरपदादेष्टुत्वं च, `उगिदचाम्' इति नुम्, हल्ङ्यादिसयोगाचन्तलोगौ। क्वचित्तु षोड इति पठ्यते, तत्तु ,षोडन्तमाचष्ट इति णिचि कृते टिलोपे पचाद्यचि रूपम्। षटशब्दोऽवल्युत्पन्नं प्रातिपदिकम्। अनुकम्पितः षडङ्गुलिः षडिकः, `बह्वचो मनुष्यनाम्नष्ठज्वा', `ठाजादावूर्ध्वम्' इत्यङ्गलिशब्दस्य लोपः। लषतीति। षकारोपदेशस्तु प्रनिलषतीत्यादौ `शेषे विभाषाऽखकादावषान्त उपदेशे' इति नेर्णत्वप्रतिषेधार्थं स्यात्, लेषतुः लेषुरित्यत्र `आदेशप्रत्यययोः' इति षत्वार्थम्। क्वचित्तु कषतीत्यपि पठ्यते; तदयुक्तम्; षकारोपदेशसामर्थ्यादेवात्र न भविष्यति; प्रनिकषतीत्यत्रापि कखादावित्येव णत्वप्रतिषेधः सिद्धः; आदेशादित्वाभफ्यासलोपौ च न स्तः---चकषतुः, चकषुः।
किमर्थं पुनः षादयो धातव उपदिष्टा;, न सादय एवोपदिश्येरन्, एवं ह्येतत्सूत्रं न कर्त्तव्यं भवति? तत्राह--आदोशप्रत्यययोरित्यादि। व्यवस्थानियमः-- आदेशप्रत्यययोरिति सहादीनामेव षत्वं यथा स्यात्, सृपिसृजीप्रभृतीनां मा भूदित्येवमर्थं षादयः केचिदुपदिष्टाः; अन्यथा सहादीनां षत्वार्थं यत्नान्तरमास्थेयम्, तच्च गुरु भवतीति भावः। के पुनस्त इति। पाठे भ्रंशसम्भवात्प्रशनः। ये तथा पठ्यन्त इति। अप्रमादेन पठितव्यमित्यर्थः। अथ वा लक्षणं क्रियत इति। मन्दधियोऽनुग्रहीतुमिति भावः। अज्दन्त्यपराः सादय इति। अज्दन्त्यौ परौ येषां तेऽज्दन्त्यपराः, परशब्दोऽवयववाची। तच्चाज्दन्त्ययोः परत्वमवयवान्तरापेक्षं विज्ञायमानं सन्निधानात्सकारापेक्षं विज्ञायते। स्मिङ्स्विदिति। `ष्मिङीषद्धसने', `ञिष्विदा गात्रप्रक्षरणे',`ष्वन्ज सङ्गे', `विष्वप् शये'--एते स्वरूपेणैव पठ्यन्ते। वकारमकारयोरनज्दन्त्यत्वाद्वकारोऽपि केवलदन्तस्थानो न भवति। `स्वद आस्वादने' इति। स्वदिमपि केचित्पठन्ति। सृपिसृजीत्यादि। `सृप्रृ गतौ', `सृज विसर्गे',`स्तॄञ् आच्छादने', `सत्यै ष्ट्यै शब्दसङ्घातयोः', `सेकतिर्गत्यर्थः', `सृ गतौ'---एतान्वर्जयित्वा येऽन्येऽज्दन्त्यपरास्ते षोपदेशाः।
सुब्दात्वित्यादि। सुब्धातुः क्यजाद्यन्तः, `ष्टिवु निरसने', `ष्वष्कतिर्गत्यर्थः' अनुदात्तेत्--एषां सत्वस्य प्रतिषेधो वक्तव्यः। तत्र सुब्दातूनां तावन्न वक्तव्यः, उपदेश इति वर्तते, न च सुब्धातवः क्वचिदुपदिश्यन्ते, एवं च कृत्वा धातुग्रहणं शक्यमकर्तुम्। उपदेशाभावादेव षोडादेर्न भविष्यति, तत् क्रियते धातोरित्यस्य निवृत्तिं सूचयितुम्। तेन `लोपो व्योर्वलि' इति अविशेषेण भवति, ष्ठीवतिष्वष्कती द्विषकारकौ, तत्र पूर्वस्यास्तु सत्वम्, परेण सन्निपातेन षत्वं भविष्यतीति। यद्येवम्, लिट् ष्वष्कते, षत्वस्यासिद्धत्वाद् `डः सि धुट्' इति धुट् प्रसज्येत ? एवं तर्हि यकारादी ष्ठिवुष्वष्कती, यकारस्तु `लोपो व्योर्वलि' इति लुप्यते। ष्ठीवतीति। `ष्ठिवुक्लमुचमां शिति' इति दीर्घत्वम्। अथास्य द्वितीयो वर्णो यदि ठकारः, तेष्ठीयत इति न सिध्यति; अथ थाकरः, टेष्ठीयत इति न सिद्ध्यति; उभयं चेष्यते, तत्राह--ष्ठीवत इत्यस्येत्यादि। उभयथा ह्याचार्येण शिष्याः पाठिता इति भावः ।।
णो नः ।। 6.1.65 ।।
अणतीति। णोपदेशस्तु निरणतीत्यादौ `उपसरगादसमासेऽपि णोपदेशस्य' इति णत्वार्थं स्यात्। सुब्धातोरयमपि नेष्यत इति। पूर्ववदेव सर्वे नादय इति प्रयोगे। नृतीनन्दीत्यादि। `नृती गात्रविक्षेपे', `टुनदि समृद्धौ', `नर्द गर्द्द शब्दे', `नक्क नाशने', `नट अवस्यन्दने' चुरादिः, `नाथृ नाधृ याच्ञोपतापैश्वर्येषु' ।।
लोपो व्योर्वलि ।। 6.1.66 ।।
धातोरिति प्रकृतमित्यादि। एतद् `धात्वादेः षः सः' इत्यत्र व्याख्यातम्। दिदिवानिति। दिवेः क्वसौ रूपम्। `वस्वेकाजाद्घसाम्' इति नियमादिडभावः। अत्र वक्तव्यमस्ति तद् `वस्वेकाजाद्घसाम्' इत्यत्र वक्ष्यामः। `ऊयी तन्तुसन्ताने', `क्नूयी शब्दे'। आस्रेमाणमिति। `स्रिवु गतिशोषणयोः', औणादिको मनिन्, नञा समासः।
ननु च सतः कार्यिणः कार्येण भवितव्यमिति पूर्वं कार्यिनिर्द्देशो युक्तः, पश्चात्कार्यनिर्द्देशः--`व्योर्वलि लोपः' इति, लाघवं च भवत्यर्द्धमात्रया, तत्किमर्थं पूर्वं लोपग्रहणं कृतम्? इत्यत आह--पूर्वं लोपग्रहणमित्यादि। पूर्वं लोपग्रहणेनायमर्थः सूच्यते--विध्यन्तरात्पूर्वमेवायं लोपो भतीति, कण्कडूयतेर्यलोपश्च प्राप्नोति, वेरपृक्तलोपश्च, तत्रान्तरङ्गत्वात्पूर्वमपृक्तलोपेन भवितव्यम्।
कण्डूयतेः क्विबिति। `कण्ड्वादिभ्यो यक्' इत्यत्र भाष्यम्--`नैतेब्यः क्विब् दृश्यते' इति, तस्मात्कण्डूमिच्छतीति क्यजन्तात्क्विब् दृष्टव्यः। द्विविधा हि कण्कड्वादयः--धातवः, प्रातिपदिकानि च। तत्र धातुभ्यो यग्विधानात्प्रातिपदिकेभ्यः क्यजादयो भवन्त्येव, तत्र क्यजन्तात्किवपि कृते--अतो लोपश्च प्राप्नोति, वेरपृक्तलोपश्च, तत्रान्तरङ्गत्वात्पूर्वमपृक्तलोपेन भाव्यम्। अथाप्यार्द्धधातुक इति विषयसप्तम्याश्रयणात्पूर्वमतो लोपः, पश्चात्किवप्? एवमपि क्विलोपश्च प्राप्नोति, वेरपृक्तलोपश्च, तत्रान्तरङ्गत्वात्पूर्वमपृक्तलोपः स्तात्, तस्मिश्च सति निमित्ताभावादलाश्रये प्रत्ययलक्षणाभावात्स्थानिवद्भावाभावाच्च वलि लोपो न स्यात् पूर्वलोपग्रहणाच्च भवति। अथात्र लोपस्य स्थानिवद्बावादुवङ् करमान्न भवति ? उच्यते; क्यजन्तात्क्विबित्युक्तम्, ततः किम् ? स्थानिवद्भावेनापि कण्कडूमात्रस्य धातुत्वाभावादुवह् न भवति। यणादेशस्तर्हि प्राप्नोति ? अस्तु यण्, तस्योठ् करिष्यते। न चोठयपि कर्त्तव्ये स्थानिवद्भावः, आदिष्टदचः पूर्वत्वाद्वकारस्य, अत एव कण्कडुवावित्यादावूङुवङादिषु कर्त्तव्येषु नास्त्यल्लोपस्य स्थानिवद्भावः।
अथ व्रश्चकः, व्रश्चनमित्यादौ रेफे वलि परतो वकारस्य लोपः कस्मान्न भवति? तत्राह--व्रश्चादीनामित्यादि। ननु वृश्चति, वव्रश्चेत्यादौ सम्प्रसारणे कृते हलादिशेषे च वकारस्य श्रवणं यथा स्यादित्येतदुपदेशस्य प्रयोजनं स्यात्, न ह्यत्र लोपः प्रवर्तते, वल्परत्वाभावदित्यत आह--वृश्चति वव्रश्चेत्यादावपीत्यादि। बहिरङ्गत्वादिति। बहिरङ्गत्वं सम्प्रसारणस्य क्डित्प्रत्ययोपेक्षत्वात्, हलादिशेषस्य त्वभ्यासापेक्षत्वात्, ततश्चाकृतयोरेव तयोर्वलोपः प्राप्त उपदेशसामर्थ्यादेव न भवति।
अत्र भाष्ये वलोपः प्रत्याख्यातः। आस्रेमाणम्, जीरदानुरित्यत्र छान्दसो वर्णलोपः, क्वसावपि छान्दस एव, दिविप्रबृतीनां यङ्लुगन्तानां तसादिषूठा भवतिव्यम्, तिप्सिपोरीडभावपक्षेषूठा भवितव्यम्। ये तत्र क्ङितीति नानुवर्त्तयन्ति-देदिविति देद्योति, देदिवीषि देद्योषि, मिपि त्वनुनासिकत्वादेव भवति, देदिवीमि देद्योमि; ये त्वनुवर्त्तयन्ति तेषामपि छान्दसो यङ्लुगिति ।।
वेरपृक्तस्य ।। 6.1.67 ।।
क्विबादयो गृह्यन्त इति। ततोऽन्यस्य वेरपृक्तस्याभावात्। घृतस्पृगिति। `क्विन्प्रत्ययस्य कुः' अपृक्तग्रहणाद्वकारमात्रस्येदं ग्रहणम्, इकार उच्चारणाथः ।।
हल्ङ्याब्भ्यो दीर्घत्सुतिरयपृक्तं हल् ।। 6.1.68 ।।
दीर्घग्रहणं सम्भवव्यभिचाराभ्यां ङ्भापोरेव विशेषणम्। ङ्याब्ग्रहणं च सोविशेषणम्। हलपृक्तग्रहणं च तिस्योः। सुतिसीति त्रीणि पदानि। तदिहेत्यादि। प्रकृतस्य लोपशब्दस्य शास्त्रीयस्य भावसाधनस्य सुतिसीति प्रथमान्तेन सम्बन्धाभवादिति भावः। अपर आह-इल्ङ्याब्भ्यः' इति पञ्चम्या सुतिसीत्यादिकायाः प्रथमायाः षष्ठ्यां प्रकल्पितायां शास्त्रीयेऽपि लापशब्दे न दोष इति। अभिनोऽत्रेति। भिदर्लङि सिलोपः, `दश्च' इति दकारस्य रूत्वम्, तस्य `अतो रोरप्लुतादप्लुते' इत्युत्वम्, श्नमोऽकारेण `आद्गुणः', `एङः पदान्तादति' इति पूर्वरूपम्।
निष्कौशाम्बिरति। ननु च प्रत्ययग्रहणपरिभाषया तदादिग्रहणादेवात्र न भविष्यति, इहापि तर्हि न स्यात्--परमकुमारी, परमखट्वेकि? `स्त्रीप्रत्यये चानुपसर्जने न' इति तदादिनियमाबावाद्भविष्यति। निष्कौशाम्बिरित्यादौ उपसर्जनत्वाद्भवत्येव तदादिनियमः ? एवं तर्हि एतज्ज्ञापयति--अर्द्धपिप्पलीत्यादौ `एकविभक्ति च' इत्युपसर्जनत्वे सत्यपि लोपो भवति। नात्रोपसर्जनं पिप्लली; एकविभक्तावषष्ठ्यन्तमिति वचनात्। अत एव `गोस्त्रियोरुपर्जनस्य' इति ह्रस्वत्वं न भवति। मा भूच्छास्त्रीयमुपसर्जनम्, अप्रधानं तावद्भवत्येव--बह्व्यः श्रेयस्योऽस्य बहुश्रेयसीति? शास्त्रीयमप्युसर्जनत्वमस्ति, `ईयसश्च' इति कपः प्रतिषेधः, `ईयसो बहुव्रीहौ प्रतिषेधो वक्तव्यः' इति ह्रस्वाभावः। अपर आह--`निष्कौशाम्बिरित्यादौ समुदायस्य ङ्याबन्तत्वेऽपि यदत्र ङ्याबन्तं कौशाम्ब्यादि, ततः परस्य सोर्लोपः प्राप्नोति दीर्घग्रहणाद्व्यावर्त्तते' इति। ननु च विहितविशेषणं विज्ञायते--ङ्याबन्ताद्विहितस्येति? नैवं शक्यम्; या, सा, केत्यादौ न स्यात्, न ह्यत्र टाबन्तात्सुब्विहितः। मा भूदेवम्, हलन्ताद्विहित इत्येवं भविष्यिति। यद्येवम्, यः, सः, क इत्यत्रापि स्यात्, कर्त्ता हर्तेत्यादौ चन स्यात्, न ह्यत्र हलन्तात् त्सुर्विहित इति ? अतोऽन्यस्मादपि विहितस्य हल्ङ्याब्भ्योऽनन्तस्य लोप इत्यास्थेयम्। एवं च निष्कौशाम्ब्यादावपि लोपः प्राप्नो दीर्घग्रहणेन व्यावर्त्तनीयः। तिपा सहचरितस्येति। तिपा तिशब्देन साहचर्यात्सहापि तिङ एव ग्रहणमित्यर्थः।
अथ किमर्थमित्यादि। `ङ्यापोर्दीर्घात्सुः' इत्येव वक्तव्यमिति चोद्यार्थः। न लोपो न स्यादिति। ननु च `न ङिसम्बुद्धयोः' इति कज्ञापकान्नलोपे कर्त्तव्ये संयोगान्तलोपरः सिद्ध एव भविष्यति? न; पचन्नित्यादावपि प्रसङ्गात्। नकारसंबुद्धयोरानन्तर्ते प्रतिषेधो विज्ञायमानस्तुल्यजातीये नकारविभक्तयोरानन्तर्य एव संयोगान्तलोपस्य सिद्धत्वं ज्ञापयति। पचन्नित्यादौ तु तकारेण व्यवहितत्वाद् ज्ञापकाभावाल्लोपाभावः?--इत्याशङ्क्य दोषान्तरमाह--उखास्रत्, पर्णघ्वदिति। दत्वमिति। न स्यादित्यनुषङ्गः। उखास्रस्+सु इति स्थिते संयोगान्तलोपमपवादत्वाद्बाधित्वा `स्कोः संयोगाद्योः' इति प्रकृतिसकारस्य लोपे श्रूयमाणः सकारो न वस्वादिसम्बन्धीति `वसुस्रंसु' इति दत्वं न स्यात्। न च संयोगादिलोपं बाधित्वा पूर्वमेव प्रकृतिसकारस्य दत्वं लभ्यते; अपदान्तत्वात्। न हि सौ श्रूयमाणे पूर्वस्य पदसंज्ञाऽस्ति; `असर्वनामस्थाने' इति प्रतिषेधात्। अथापिसावपि पदत्वमिति पक्षाश्रयेण स्यात्पदत्वम्? एवमपि दत्वस्यासिद्धत्वात्पूर्वंसंयोगादिलोप एव स्यात्। ननु च वस्वादीनां दत्वं सौ दीर्घत्वे सिद्धमिति वक्ष्यति तत्र, सौ दीर्घग्रहणं न करिष्यते वस्वादीनां दत्वमित्येव, ततश्च पूर्वमेव दत्वं भविष्यति? एवमपि राजा, तक्षेत्यादौ सावपि पदत्वे सति संयोगान्तलोपस्यासिद्धत्वात्पूर्वं नलोपे सति असंयोगान्तत्वात्सोर्लोपो न स्यात्। तस्मात्सुष्ठूक्तम्--दत्वं न स्यादिति। उत्वमिति। न स्यादित्यनुषङ्गः। स एव हेतुः-- संयोगान्तलोपस्यासिद्धत्वादिति। उत्वमिति। न स्यादित्युनुषङ्गः। स एव हेतुः-- संयोगान्तलोपस्यासिद्धत्वादिति। एतच्च `संयोगान्तलोपो रोरुत्वे सिद्धो वक्तव्यः'---इत्येतदनाश्रित्योक्तम्। तदाश्रयणे तु--हरिवो मेदिनीमित्यादिवत्सिद्धम्। रात्सस्येति नियमाल्लोप एव न स्यादिति। ननु `रात्सस्य' इति द्वितकारकनिर्द्देशाक्तकारस्यापि प्रश्लेषाद्रेफादुत्तरस्य च तकारस्यापि लोपो विधास्यते? यद्येवम्, कीर्त्तयतेः क्विपि `कीः' इति स्यात्, यथान्यासे तु कीर्दिति भवति। तदेवं सिग्रहणमेकं न कर्त्तव्यम्, अन्यत्सर्वं कर्त्तव्यमिति स्थितम्।
संयोगान्तस्य लोपे हीत्यादि। संग्रहश्लोकः। हिशब्दो हेतौ, नलोपादीत्यादिशब्देन दत्वोत्वयोर्गहणम्। ये तु संयोगान्तलोपवादिनस्तेषां रेपादुत्तरस्य तकारस्य अबिभर्भवानित्यत्र नैव लोपः स्यात्, तस्माद्धल उत्तरेषां सुतिसीनां लोपो विधीयते ।।
एङ्ह्रस्वात्सम्बुद्धेः ।। 6.1.69 ।।
अत्र यदि हल्ग्रहणं नानुवर्तेत, तत एङ्ह्रस्वाभ्यां सम्बुद्धिरेव विशेषणीया--एङन्ताद् ह्रस्वान्ताच्च परस्याः सम्बुद्धेर्लोप इति, ततश्च हे कुण्डेत्यत्र न स्यात्। कथम्? कुण्ड+सु इति स्थिते लोपश्च प्राप्नोत्यम्भावश्च, तत्र लोपः शब्दान्तरप्राप्त्याऽनित्याः, स हि कृतेऽम्भावे `आदेः परस्य' इत्यमोऽकारस्य प्राप्नोति, अकृते तु सकारस्य अम्भावस्तु लोपे कृतेऽत्यन्ताप्राप्त्याऽनित्यः- इत्युभयोरनित्ययोः परत्वादम्भावे कृतेऽमि पूर्वस्य प्राप्नोति लोपश्च। तत्रामि पूर्वत्वे कृते व्यपवर्गाभावादुभयत् आश्रणणेऽन्तादिवद्भावाभावाच्च लोपो न प्राप्नोति, लोपे च कृतेऽमोऽभावादमिपूर्वत्वं न प्राप्नोतीत्युभयोरनित्ययोः परत्वादमि पूर्वत्वे कृते लोपो न स्यात्, तस्मादनुवर्त्यं हल्ग्रहणम्। तदाह-हलिति चेति। `वर्त्तते' इत्यपेक्षते। अपृक्तमिति नाधिक्रियत इति। यद्यधिक्रियेत, हे कुण्कडेत्यत्र न स्यात्; अपृक्तसंज्ञाया अभावात्। कथं पुनर्ज्ञायते--नायमधिक्रियत इति? तत्राऽऽह--तथा चेति। अनुवर्तमानेऽपि हल्ग्रहणे यद्येङ्ह्रस्वाभ्यां सम्बुद्धिर्विशेष्येत, तया हल् विशेष्येत--एङन्ताद् ह्रस्वान्ताच्च परा या सम्बुद्धिस्तस्या हल्लुप्यते इति, ततः हे कुण्डेत्यत्र न स्यात् पूर्वोक्तादेव हेतोः। अत एङ्ह्रस्वाभ्यां सम्बुद्ध्या च हलेव विशेषणीय इति मत्वाऽऽह--एङन्तात्प्रातिपदिकादित्यादि। सम्बुद्ध्याक्षिप्तप्रतिपदिकमेङ्ह्रस्वाभ्यां विशेष्यत इति तदन्तविधिलाभः। अत्र पक्षे कुण्डेत्यत्रामि पूर्वत्वस्य पूर्वं प्रत्यन्तवद्भावाद् ह्रस्वान्तात्परो हल्भवति। वस्तुतश्च सम्बुद्धेरिति लोपः सिद्धयति।
अच्छब्द इति। एतच्च तत्रैव व्याख्यास्यते। ह्रस्वाभावादिति। ननु चादडेवाकारो ह्रस्वः, ततः परो हल् भवति, सम्बुद्धेश्च सम्बन्धीति लोपः स्यादेव, सम्बुद्धौतु विशेष्यमाणायां प्रकृत्यकारस्य लोपे ह्रस्वात्प्रा सम्बुद्धिर्न भवतीति लोपाप्रसङ्गः? उच्यते; `सम्बुद्ध्याक्षिप्तं प्रातिपदिकमेङ्ह्रस्वाभ्यां विशेष्यते' इत्युक्तम्, तेन कुण्कडेत्यत्र न भविष्यति; एकादेशस्य पूर्वं प्रत्यन्तवद्भावात् प्रकृतिग्रहणेन ग्रहणात्। हे कतरदित्यत्र च न भविष्यति; टिलोपे कृते प्रकृतेरह्रस्वान्तत्वात्। सम्बुद्धिगुणबलीयस्त्वादिति। अन्यथा अग्नि+सु इति स्थिते सम्बुद्धिगुणश्च प्राप्नोति, ह्रस्वादिति लोपश्च; तत्र नित्यात्वात्परत्वाच्च सम्बुद्धिगुणे कृतेऽह्रस्वान्तत्वान्न भवेत्। ननु च विहितविशेषणं विज्ञास्यते--ह्रस्वान्ताद्विहिता या सम्बुद्धिरिति? एवमपि हे खट्वेत्यत्र न स्यात्। मा भूदनेन, आबन्तत्वात्पूर्वेण भविष्यति ? एवमपि हे खट्वेत्यत्र न स्यात्। मा भूदनेन, आबन्तत्वात्पूर्वेण भविष्यति? एवमपि हे नदि, हे यवागु, हे कुमारीत्यत्र न स्यात्, न चात्र ङ्यन्तत्वाल्लोपो लभ्यते, दीर्घग्रहणात्। एवं तर्ह्युभयं विज्ञास्यते--विहितविशेषणम्, परविशेषणं च; तेनाग्ने, कुमारीत्यादौ सर्वत्र भविष्यति? तत्र सकृच्छ्रुतस्य ह्रस्वग्रहणस्योभयविशेषणत्वमेव तावद् दुर्लभम्। अथापि लभ्यते? एवमपि हे कतरदित्यत्र यद्यपि टिलोपे कृते सम्बुद्धेर्ह्र स्वपरत्वाभावः, तथापि ह्रस्वान्ताद्विहिता सम्बुद्धिरिति स्यादेव लोपः। तस्मादेङ्ग्रहणं कर्तव्यम्।
वयं तु ब्रूमः--ये स्वभावत एङन्तास्तदर्थमप्येङ्ग्रहणं कर्त्तव्यमिति। तद्यथाहेशब्दमतिक्रान्तो ब्राह्मणोऽतिहेः, तस्य सम्बोधनं हे अतिहे; अनुकृतः पचतेशब्दो येन तस्य सम्बोधनं हेऽनुकृतपचते; विहित ईरेप्रत्ययो येन स विहितेरेः पाणिनिः, तस्य सम्बोधनम्--हे विहितेरे इत्यादि। अत्र संग्रहश्लोकः---
सम्बुद्धिर्ह्र स्वभेद्या यदि हि न च भवेन्नादिवन्नान्तवत्स्याद्,
दोषोऽसौ हल्निवृत्तावपि लुपि भवतोऽम् पूर्वरूपे परत्वात्।
ह्रस्वान्ताल्लुब्विधिः स्याद्धल इति कतरड्डित्त्वतो नो हलो लुप्,
ह्रस्वश्रुत्या न शक्यः परविहितविधिर्नातिहेऽतोऽप्यकार्येऽङ् ।।
लोपनं लुप्, लोप इत्यर्थः ।।
शेश्छन्दसि बहुलम् ।। 6.1.70 ।।
या क्षेत्रेति। शेर्लोपे कृते प्रत्ययलक्षणेन `नपुंसकस्य झलचः' इति नुम्, `सर्वनामस्थाने च' इति दीर्घः, नलोपः।
अयं योगः सक्योऽवक्तुम्, कथम्? डादेशेन सिद्धत्वात्। कथमग्नेत्रीति? त्रि+इ इति स्थिते प्रथमयोः पूर्वसवर्णदीर्घत्वेनैव सिद्धम्। न सिद्ध्यति, नुमा व्यवहितत्वात्? छन्दसि नपुंसकस्य पुंवद्भावो पक्तव्यः, मधोर्गृह्णातीत्येवमाद्यर्थं पुंवद्भावेनैव नुमो निवृत्तिः। एवमपि `जसि च' इति गुणः प्राप्नोति, वक्ष्यत्येतत्--`उसादिषु छन्दसि वावचनं प्राङ् णौ चङ्युपधायाः' इति। अपि च या क्षेत्रा, ता ता पिण्डानामिति त+इ इति स्थिते `सुपां सुलुक्' इतीकारस्याकारे कृते `प्रथमयोः पूर्वसवर्णः' इति दीर्घत्वेन सिद्धम् ।।
ह्रस्वस्य पिति कृति तुक् ।। 6.1.71 ।।
कृता धातुराक्षिप्यते, स च ह्रस्वेन विशेष्यते, तेन तदन्तविधिर्भवतीत्याह--ह्रस्वान्तस्य धातोरिति। अग्निचित्, सोमसुदिति। `अग्नौ चेः', `सोमे सुञः' इतिक क्विप्।
ग्रामणिकुलमिति व्यस्तं चेन्नपुंसकह्रस्वत्वम्, षष्ठीसमासे तु `इको ह्रस्वोऽङ्यो गालवस्य', `सोमे सुञः' इति क्विप्।
यदि पुनरयं तुट् परादिः क्रियते? चनैवं शक्यम्; इहाग्निचित्सोमसुत्, `वेरपृक्तस्य' इति वलोपो न प्राप्नोति। इह च परितनोतीति क्विप्, `क्वौ च गमादीनाम्' इत्यनुनासिकलोपः, `नहिवृति' इत्यादिना दीर्घः--परीतत्, तुट आर्द्धधातुकभक्तत्वादिट्प्रसङ्गः। इह चावच्छ्याद् `वाऽन्यस्य संयोगादेः' इत्येत्वं प्रसज्येत। अथाभक्तः स्याद्, मधुच्छादयतीति `तिङ्ङतिङः' इति निघातो न प्राप्नोति; तकारेण व्यवधानात्। न च तकार एवातिङ्; अपदत्वात्। तस्मात्पूर्वान्त एव कर्त्तव्यः। यद्येवम्, नपुंसकह्रस्वत्वमुपसर्जनह्रस्वत्वं द्विगुस्वरश्च न सिद्ध्यति। नपुंसकह्रस्वत्वम्--आराशष्कुलिच्छत्रम्, धानाशष्कुलिच्छत्रम्। उपसर्जनह्रस्वत्वम्--निष्कौशाम्बिच्छत्रम्; द्विगुस्वरः--पञ्चारत्निच्छत्रम्, तुकि कृतेऽनन्त्यत्वादेते विधयो न प्राप्नुवन्ति ? न वा बहिरङ्गलक्षणत्वात्। बहिरङ्गस्तुक्--छकारसन्निपातापेक्षत्वात्, अन्तरङ्गा एते विधयः प्रागेव तत्सन्निधा नाद्भविष्यन्ति ।।
संहितायाम् ।। 6.1.72 ।।
`संहितायाम्' इति विषयसप्तमीयम्। कार्यिनिमित्तयोः संहितायां विषयभूतायां वक्ष्यमाणं कार्यं भवतीत्यर्थः। वक्ष्यति---`इको यणचि' इति, अन्तरं तु विधिमतिक्रामतोऽभिप्रायो मृग्यः। दधि अत्रेति। ननु च `इकोयणचि' इत्यधिकरणसप्तम्येषा, तच्चाधिकरणमौपश्लेषिकादन्यद्वर्णेषु न सम्भवति, तत्राच्युपश्लिष्टस्येको विधीयमानो यण्वर्णान्तरव्यवाये कालव्यवाये च न भविष्यतीति नार्थः संहिताधिकारेण? ज्ञापनार्थं तु, एतज्ज्ञापयति--`कालव्यवायो निर्द्दिष्टपरिभाषायां नाश्रीयते' इति। तेनोत्तरपदादिकारेऽपि विधीयमानं कार्यमलुगादि कालव्यवधानेऽपि भवत्येव--आखरेष्ठ इत्याखरे स्थः, अग्नाविष्णू इत्यग्ना विष्णू इत्यादि ।।
छे च ।। 6.1.73 ।।
छकारेकार उच्चारणार्थः, `विदिभिदिच्छिदेः', `शाच्छोरन्यतरस्याम्' इत्यादिर्निर्द्देशात्। अधिकारे द्वौ पक्षौ--अर्ताधिकारः, शब्दाधिकार इति। तत्राद्ये पक्षे पूर्वसूत्रे कृताक्षिप्तस्य धातेर्ह्रस्वेन विशेषणात्तदन्तं ह्रस्वशब्देन प्रत्यायितमिति इहापि तदन्तस्यैव ग्रहणं स्यात्। शब्दाधिकारे तु ह्रस्वशब्द एवात्रानुवर्त्तते, न पूर्वः प्रकृतोऽर्थः, न चेह किञ्चिद्विशेष्यमस्तीति तदन्तविध्यभावाद् ह्रस्व एवागमी भवति। तत्रेह द्वितीयः पक्ष आश्रित इत्याह--ह्रस्व एवात्रागमीति। किमेवं सति सिद्धं भवति? तत्राह--तेनेति। यदि तु ह्रस्वान्तस्य तुक् स्यात्, तुकोऽभ्यासग्रहणेन ग्रहणाद्धलादिशेषेण निवृत्तिः स्यात्। ह्रस्वमात्रे त्वागमिनि नायमभ्यासस्यावयवो हलिति न भवत्येष प्रसङ्गः। कथं पुनर्ह्रस्व अगमिनि गुगभ्यासग्रहणेन न गृह्यत इत्यत आह--नावयवावयव इति। इतिकरणो हेतौ। यद्यवयवावयवस्समुदायावयवो न भवति, एवं तर्हि शेरत इत्यत्र रूडागमः सार्वधातुकावयवस्यादादेशस्यावयव इति सोऽपि सार्वधातुकस्य समुदायस्यावयवो न स्यात्। तत्र को दोषः ? `शीङः सार्वधातुके गुणः' इति गुणो न स्यात्; रुटा व्यवधानात्। स ह्यवयवभक्तस्तमेव न व्यवदध्यात्, सार्वधातुकं तु व्यवदधात्येव। कुतश्चैष न्यायः--`अवयवावयवः समुदायावयवो न भवति' इति ? लोके तावद्देवदत्तावयवस्य हस्तस्यावयवोऽङ्गुलिर्देवदत्तस्याप्यवयवो भवत्येव--साङ्गुलिर्देवदत्त इति। तस्मादयमत्राभिप्रायः--`छ आह्भाङोश्च' इत्येक एव योगः कर्त्तव्यः, चकारादनन्तरस्य प्राक्कृतस्य च; एवं सिद्धे यद्योगविभागं चकारं च करोति, तस्यैत्प्रयोजनम्--प्रकृतस्य तदन्तस्य प्रहाणेन केवलं ह्रस्वमेवानुवर्त्तयिष्यामिति। यदि त्वागमस्तुक् समुदायस्यावयवः स्याद्, एष यत्नोऽनर्थकः स्यादिति ।।
आङ्माहोश्च ।। 6.1.74 ।।
आङ्भाडोर्ङिद्विश्ष्टयोरुपादाने प्रयोजनमाहः--आङो ङित इति। अर्थविशेषसम्पादनार्थं ङिद्विशिष्टयोरुपादानमित्यर्थः। आच्छायाया इति। `आङ् मर्यादावचने' इति कर्मप्रवचनीयसंज्ञा, `पञ्चम्यपाङ्परिभिः' इति पञ्चमी। आच्छायमिति। `आङ् मर्यादाभिविध्योः' इत्यव्ययीभावः। माच्छिददिति। `इरितो वा' इत्यङ्।
आछाया, आच्छायेति। स्मरणे चात्राकारः, `वाक्यस्मरणयोरङित्'। प्रमेति। प्रमूर्वान्माङः `आतश्चोपसर्गे' इत्यङ्, अत्र धातोर्ङित्वेऽपि टाबन्तो न ङित्, `गामादाग्रहणेष्वविशेषः' इति लाक्षणीकस्याप्यस्य ग्रहणस्य प्रसङ्गः। अत्रोभयत्रापि `पदान्ताद्वा' इति विकल्प एव भवति ।।
दीर्घात् ।। 6.1.75 ।।
`अभयनिर्द्देशे पञ्चमीनिर्द्देशो बलीयान्', अचरितार्था च पञ्चमी, तेन दीर्घादिति पञ्चम्या छ इत्यस्याः सप्तम्याः षष्ठ्यां प्रकल्पितायां छकारस्यैव तुका भवितव्यमिति भ्रान्तिमपाकारोति--दीर्घात्परो य इत्यादि। अनेन पञ्चम्या अन्वयो दर्शितः, प्रक्रमाभेदाय तु छकारस्य निमित्तत्वम्, दीघस्य च कार्यित्वं दर्शयति। तस्मिन्पूर्वस्य तस्यैव दीर्घस्येति। अत्र च लिङ्गम्--`शाच्छा', `विभाषासेनासुराच्छाया' इत्यादि निर्द्देशः, अवध्यवधिमद्भावस्य विवक्षितत्वादधिकरणभावस्य च विवक्षितत्वात् `तस्मिन्पूर्वस्य' इति सप्तमी कृता। ह्रीच्छतीति। `ह्रीच्छ लज्जायाम्'। म्लेच्छतीतिष। `म्लेच्छ अव्यक्ते शब्दे'। अपचाच्छायत इति। `छो छेदने', यङ्, `दीर्घोऽकितः'।।
पदान्ताद्वा ।। 6.1.76 ।।
प्रकृतेन दीर्घण पदविशेषणादेव तदन्तविधौ सिद्धेऽन्तग्रहणम्पदान्तविधिरयं तुग् यथा स्यात्, पदविधिर्मा भूदिति। तेन समर्थपरिभाषानुपस्थानात्--तिष्ठतु कुमारीच्छत्रं हर देवदत्तस्येत्यत्रापि विकल्पो भवति ।।
इको यणचि ।। 6.1.77 ।।
इको यणादेशो भवतीति। इकां यणां च साम्याद्यथासंख्यं भवति, आन्तर्यतो वा व्यवस्था। इक इति किम्? व्यञ्जनस्य मा भूत्--वाग्रत्र। कुत्वजश्तवयोरसिद्धत्वाच्छकारस्य यकारः प्राप्नोति। यत्र च कुत्वादेरप्रसङ्गोऽपदान्ते पचतीति, तत्रापि प्रसङ्गः? नैष दोषः; `दीर्घात्' इति वर्त्तेते, तच्च तत्रैव पञ्चमीनिर्द्देशेऽपि स्थानिबूतमिहापि तथैवानुवर्तते। यदि दीर्घस्य यण् भवति, कथं दध्यत्र मध्वत्रेति, `ह्रस्वस्य' इत्येतदप्यनुवर्त्तते, तदेवं ह्रस्वदीर्घयोर्यण्विधानान्न व्यञ्जनस्य प्रसङ्ग ? प्लुतस्य च प्रकृतिभावेन भवितव्यम्, चयनम्, चायक इत्यादावेचामयादयोऽपवादाः, नाप्राप्ते तस्मिंस्तदारम्भात् ? देवेन्द्रः, खट्वौदनमित्यादौ गुणवृद्धी बाधिके भविष्यतः, यथा--सत्यपीग्ग्रहणे दधीन्द्रादौ सवर्ण दीर्घत्वम्, अतो नार्थ हग्ग्रहणेन ? इदं तर्हि प्रयोजनम्--इको यणेवाचि यथा स्याद्, यद्यदन्यत्प्राप्नोति तन्मा भूदिति। किञ्चान्यत् प्राप्नोति ? शाकल्म्। न च तस्याप्यत्यन्तबाधः; आरम्भसामर्थ्यात्। एवं सति सिन्नित्यसमासयोः शाकलप्रतिषेध इति यत्पूर्वाचार्यैः स्मर्यते तदनेनेग्ग्रहणेन सम्पाद्यते।
इकः प्लुतपूर्वस्येति। प्लुतः पूर्वो यस्मात्स तथोक्तः, प्लुतात्परस्येत्यर्थः। भो 3 इ इन्द्रेति। भो + इ + इन्द्र इति स्थिते भोशब्दस्य गीतिवशात् प्लुतः, इकारः स्वरादिपाठान्निपात प्रगृह्यसंज्ञकः, तस्य प्रकृतिभावे प्राप्ते यण्विधीयते, सवर्णदीर्घबाधनार्थमित्येतत्त्वाद्यप्राप्त्यभिप्रायेणोक्तम्। प्लुतपूर्वस्येति। प्लुतग्रहणमपि मात्रिकद्विमात्रिकव्यतिरिक्ताच्परिग्रहार्थम्, तेन चतुर्मात्रादावपि भवति, तथा च छन्दोगा गायन्ति, सामन्येव चायमिष्यते, भोयिन्द्रं गायतीत्येतदपि सामगस्यानुकरणम्। एवं तावद्भाष्ये स्थितम्, वृत्तावप्येवमेव द्रष्टव्यम् ।।
वान्तो यि प्रत्यये ।। 6.1.78 ।।
कस्य पुनरयं वान्तादेशः ? एच इति वर्त्तते। यद्येवमेदैतोरपि प्राप्नोति--चेयम्, जेयम्, रैयतीति? एवं तर्हि वान्तग्रहणं न करिष्यते, `एचोऽयवायावः' इत्येव। इहापे तर्ह्यादेशः प्राप्नोति--चेयम्, जेयमिति? `क्षय्यजय्यौ शक्यार्थे', `क्र्य्यस्तदर्थे' इत्येतन्नियमार्थं भविष्यति--एचौ यदि भवति क्षिज्योरेवेति। एवमपि रैयतीत्यत्रायादेशः प्राप्नोति? रैशब्दश्छान्दसः, `दृश्टानुविधिश्छन्दसि'। भाषायां तु रैशब्दप्रयोगो भाष्यविरोधादसाधुः। यद्वैवं नियम आश्रयिष्यते--अनौष्ठस्य यदि भवति क्षिज्योरेवेति; ततः `शक्यार्थे' इति द्वितीयो योगः, क्षिज्योरपि शक्यार्थ एवेति ? सिध्यति; सूत्रस्य तु को निर्वहः ? उच्यते; वान्तशब्दोऽयं सन्निहिते वान्ते वर्त्तते, न यत्र कुत्रचित्; सन्निहितश्चौदौत्स्थानिकः पूर्वत्र, यथासंख्यासम्बन्धात्। तत्र यथा यः कश्चन वान्तादेशो न भवति, तथान्यस्थानिको न भविष्यति; विशिष्टस्यैव सन्निधानात्। तदिदमुक्तम्--योऽयमेचः स्थाने इति। बाभ्रव्य इति। `मधुबभ्रवोर्ब्राह्मणकौशिकयोः' इति यञ्। मण्कडुशब्दो गर्गादि। शङ्कुपिचुशब्दाभ्याम् `तदर्थं विकृतेः प्रकृतौ' इत्यत्रार्थे `उगवादिभ्यो यत्' । नावा तार्यं नाव्यम्, नौवयोधर्म' इत्यादिना यत्।
अध्वपरिमाणे चेति। भाषार्थमिदम्। गव्यूतिः=क्रोशयुगम् ।।
धातौस्तन्निमित्तस्यैव।। धातोरिति किमिति। न तावदविशेषेण नियमप्रसङ्गः--
यि प्रत्यये यदि भवति तन्निमित्तस्यैवेति; एवं हि `वान्तो यि प्रत्यये तन्निमित्तस्य' इति विशिष्टविधिराश्रयणीयः, योगविभाग एवकारो नियम इति सर्वमेतदनर्थकमापद्येत। तस्मादसत्यपि धातुग्रहणे विशिष्टविषयो नियमो भविष्यतीति प्रश्नः। स तु विशिष्टो विषयः प्रातिपदकमपि सम्भाव्येतेत्युत्तरम्। वाभ्रव्य इत्यत्रैव स्यादिति। एचस्तन्निमित्तत्वात्। अत्र न स्यादिति। विपर्ययात्। उपोयत इति। वेञःकर्मणि लट, आत्मनेपदम्, यक्, यज्ञादित्वात्संप्रसारणम्, `अकृत्सार्वधातुकयोः' इति दीर्घः, `आद्गुणः', तस्य परं प्रत्यादिवद्भावाद्धातुग्रहणेन ग्रहणम्। ओयते इति। कर्मण्येव लङ्। लौयमानिरिति। `अत इञ्' आदिवृद्धिः। ननु चात्र गुणः पदद्वयापेक्षत्वाद्बहिरङ्गः, वृद्धिरपि बाह्यतद्धितापेक्षत्वाद्बहिरङ्गैव ? सत्यम्; औयतेत्यत्रैतदुभयं नास्ति, तदर्थमवश्यं योग आरब्धव्यः, आरब्धेनैव सिद्धत्वादुपोयते इत्यादिकं प्रत्युदाहृतम्।
एवकारकरणं किमिति। सिद्धे सत्यारम्भो नियमार्थत्वे हेतुः, न त्वेवकारकरणमपीति प्रश्नः। इष्टतोऽवधारणार्थ इत्युत्तरम् ।।
क्षय्यजय्यौ शक्यार्थे ।। 6.1.81 ।।
उदाहरणे शक्यार्थे कृत्यः, प्रत्युदाहरणे त्वावश्यके ।।
क्रय्यस्तदर्थे ।। 6.1.82 ।।
क्रय्य इत्यत्र प्रत्ययार्थश्च कर्म विद्यते, कर्मणि कृत्यविधानात् प्रकृत्यर्थश्च द्रव्यविनिमयः, तत्र प्रत्ययार्थः प्रधानम्, प्रकृत्यर्थस्तूपसर्जनम्, तत्र यदि प्राधान्यात्तदित्यनेन प्रत्ययार्थः परामृश्यमेव क्रय्यशब्दस्य तस्मिन्नर्थे वृत्तेर्नार्थस्तदर्थग्रहणेन। अथ सोऽर्थो यस्य तदर्थः शब्दस्तस्मिन्नभिधेय इत्यर्थः ? तदप्ययुक्तम्; शब्दस्य वृत्त्यसम्भवात्। अतो गुणीभूतोऽपि प्रकृत्यर्थे एव निर्द्दश्यत इति दर्शयति--तदर्थे क्रयार्थं यत्तस्मिन्नभिधेय इति। क्रयार्थं यः प्रसारित इति। क्रेतारः क्रीणीयुरिति बुद्ध्याऽऽणे यद्व्यवस्थापितमित्य्रथः। क्रेयमिति। मूल्येनोपादेयमित्यर्थः।
न चेहास्ति क्रय्यमिति। आपणे विक्रयाय प्रसारितं धान्यं नास्तीत्यर्थः। केचित्तु क्रय्यशब्दे क्रीणातिर्विक्रये वर्त्तत इत्याहुः। तेनापणे विक्रयाय प्रसारितं द्रव्यम् `क्रय्यम्' इत्युच्यते ।।
भय्यप्रवय्ये चच्छन्दसि ।। 6.1.83 ।।
वीत्येतस्येति। `वी गत्यादिषु', `अजेर्व्यघञपोः' इति वा।
ह्रदय्या इति। आकारस्यायादेशः ।।
एकः पूर्वपरयोः ।। वक्ष्यमाणप्रकरणे पौर्वापर्येणावस्थितौ निर्दिश्येते--आदचि, आदेचीत्यादि, तयोः पूर्वपरयोः स्थाने वक्षयमाणो गुणादिरेकादेशो भवतीति सूत्रार्थः ।
अथ पूर्वपरयोरिति किमर्थम्? स्थानिनिर्द्देशार्थम्, असति हि तस्मिन् `आद्गुणः' इत्यादौ स्थानिनिर्द्देशाभावात् कक्य गुणादिरादेशः स्यात्। नैतदस्ति प्रयोजनम्, ादित्यादिका पञ्चमी अचीत्यादिकायाः सप्तम्याः षष्ठीं प्रकल्पयिष्यति, सा च तस्यास्तेन तयोरेव पूर्वपरयोर्गुणो भविष्यतीति नार्थ एतेन ? तदाह--पूर्वपरग्रहणमित्यादि। द्वयोरादेशप्रतिपत्त्यर्थमिति। युगपदादेशप्रतिपत्त्यर्थमित्यर्थः.। असति तु तस्मिन्कस्य स्यात्? इत्यत नोभे सप्तमीपञ्चम्याविकि। नोभे प्रकल्पिके भवतः, युगपन्न प्रकल्पिके भवत इत्यर्थः। इतिकरणो हेतौ। तत्र `आद्गुणः' इत्यत्राचीत्येषा सप्तमी यणादिविधौ चरितार्था; आदित्येषा तु पञ्चमी न क्वचिच्चरितार्था, ततश्च सैव सप्तम्याः षष्ठीं प्रकल्पयिष्यति इत्यच एव स्थाने गुणः स्याद्। `वृद्धिरेचि' इत्यत्र तु गुणविधौ पञ्चमी कृतार्थेति तस्याः `एचि' इति सप्तम्यकृतार्था षष्ठीं प्रकल्पयेदित्यवर्णस्यैव वृद्धिः स्यात्। `उपसर्गादृति धातौ' इत्यादौ द्वयोरप्यकृतार्थत्वेऽपि पर्यायेण परस्परषष्ठीप्रकलृप्तिः स्यात्, न युगपत्कार्यित्वं निमित्तत्वं च; द्वयोर्युगपद्विरोधात्, ततश्च कार्यमपि पर्यायेण स्यात्। तस्मात्पूर्वपरयोरिति वक्तव्यम् ? न वक्तव्यम्; एकग्रहणसामर्थ्याद्। `अन्तादिवच्च' इति वचनाच्च पूर्वपरयोर्द्वयोरेवादेशो भवष्यति, नान्यतरस्य ? सत्यम्; सुखप्रतिपत्यर्थं तु पूर्वपरयोरित्युक्तम्; अन्यथा युगपत् षष्ठीप्रकल्पनद्वारेण विवक्षितप्रतिपत्तौ प्रतिपत्तिगौरवं स्यात् ।
अथ किमर्थमेकग्रहणम्, प्रथमनिर्दिष्टमतिक्रम्य चरमनिर्दिष्टस्य `पूर्वपरयोः' इत्यस्य प्राक् प्रयोजनमुक्तम्; पाठक्रमादर्थकमस्य बलीयस्त्वात्। कथम् ? सतः कार्यिणः कार्येण भवितव्यम्, कार्यस्य च गुणादेर्विशेषणमेकग्रंहणम्। ननु च `आद्गुणः' इत्यादावेकस्यैवादेशस्य सूत्रे उपादानम्, संख्याया विवक्षितत्वादुपात्तसंख्यात्यागे कारणाभावात्, ततश्चैक एव गुणादिरादेशो भविष्यति। स्यादेतत्--आदेशस्य विधेयतया प्राधान्यात् प्रधाने च ग्रहं सम्मार्ष्टीत्यादौ संख्याया अविवक्षितत्वादनेकादेशप्रसङ्ग इति ? तदसतः ग्रहं शेषितयोद्दिश्च सम्मार्गो हि विधीयते, शास्त्रान्तरे च विहितं शेषेत्वमुपगच्छति, शास्त्रान्तरो च विज्ञाता ग्रहाः संख्यान्तरान्विताः, तत्रैकत्वविवक्षायां वाक्यभेदः प्रसज्येतेति कृत्वा ग्रहैकत्वमविवक्षितमुच्यते। नैवं गुणादिरादेश इत्येकत्वं विवक्षितम्; `प्राजापत्या नव ग्रहाः' इति शास्त्रान्तरविहितनवग्रहोद्देशेन संस्कारः सम्मार्गो विधीयते, तत्र श्रुतमप्येकत्वं नोद्देश्यकोटौ निवेशयितुं शक्यते; तत्र संख्यान्तरान्विततया विहितत्वात्। ततश्च तद्विवक्षायां तदपि विधेयं स्यात्, ततश्च वाक्यभेदप्रसङ्गः। वचनव्यक्तिभेदाद्यो ग्रहस्तं सम्माष्टि, तं चैकमिति। इह तु विधेयतया गुणादेः प्राधान्येऽपि विशिष्टविधिसम्भवाद् न वाक्यबेदप्रसङ्गः, अविवक्षाकारणाभावाद्वियक्षितमेकत्वं लोकवत्, तद्यथा--लोकेऽनयोर्मृत्पिण्कडयोर्घटं कुर्विति, न चोच्यते एकमिति एकमेव चासौ करोति। न चार्थप्रकरणादिना तत्रैकस्य करणम्, तदभावेऽपि दर्शनात्तस्मान्नार्थ एकग्रहणेन? तत्राह--एकग्रहं पृथगादेशनिवृत्त्यर्थमिति। यथा पुनः पृथगादेशप्रसङ्गस्तथा दर्शयति--स्थानिभेदादिति। `पूर्वपरयोः' इति निर्द्देशात्स्थानिभेदः प्रतीयते, ततश्च तद्वशादादेशेऽपि श्रुतमप्येकत्वमविवक्षितं स्यादित्यनेकादेशप्रसङ्ग इत्यर्थः। अवश्यं चैतदेवमभ्युपगन्तव्यमिति दृष्टान्तेन दर्शयति। भिन्नादिषु नत्ववदिति। यथा `रदाभ्यां निष्ठातो नः पूर्वस्य च दः' इति नत्वमेकत्वाविवक्षया प्रतिस्थानि भवति, तद्वदत्रापीत्यर्थः।
भाष्ये त्वेकग्रहणं प्रत्याख्यात्म्। न तावद् गुणभूतस्थान्यनुरोधेन प्रधानस्यादेशस्य भेदकल्पना युक्ता, प्रधानानुरोधी ही गुणो भवति,न पुनर्गुणानुरोधी प्रदानम्। यच्चोक्तम्--भिन्नादिषु नन्ववदिति, तत्र न खलु नत्वविधावेकत्वस्याविवक्षिततया द्वौ नकारौ भवतः, किं तर्हि? पूर्वस्य चेति चकाराद्वाक्यभेदोऽवगम्यते। तत्र पूर्वेण निष्ठातो नत्वम्, परेण धातुदकारस्य, इह च `उभौसाभ्यासस्य' इति प्राणिणिषतीत्युपसर्गादनन्तरस्य नकारस्य `अनितेः' इत्येव णअत्वे सिद्धे साभ्यासस्येतेयेतावतैव द्वयोर्नकारयोर्मत्वं सिद्धमिति स्थानिनिर्द्देशार्थमुभौग्रहणं न कर्त्तव्यम्--उभौ नकारौ णत्वमापद्यते इति। तस्मादादेशार्थमुभौग्रहणं विज्ञायते--साब्यासस्यानितेर्थौ नकारौ द्वौ तयोरुभौ णौ भवत इति। तेनात्रापि नैकत्वस्याविवक्षितत्वाद् द्वयोर्द्वौ भवतः, किन्तूभौग्रहणादिति न कश्चिद्दोषः।
इह श्रुतिस्मृतिविहितं कर्म किञ्चित्सकृदनुष्ठीयते, यथा--उपनयनम्, आधानम्, आचमनमिति; न ह्युपनीतः पुनरुपनीयते, नाप्यग्न्याहितः पुनरग्नीनाधत्ते, नाप्याचान्तः पुनराचामति। असति निमित्ते, किञ्चिदसकृद्यथा--ज्योतिष्टो मादयः. यथा--`पूर्ववया ब्राह्मणः प्रत्युत्थेयः' इति यो यो वृद्धवयास्तस्य तस्यागमनं प्रत्युत्थीयते। `ब्राह्मणो न हन्तव्यः', `सुरा न पेया' इति प्रतिव्यक्तिविषेधोऽनुष्ठीयते, न पुनरेकं ब्राह्मणमहत्वैकां च सुरामपीत्वान्यत्र कामचारः। व्याकरणं च स्मृतिः, तदिह `आद्गुणः' इत्यनया स्मृत्या `गुणः कर्त्तव्यः' इति चोदिते यदि सकृदनुष्ठानं खट्वेन्द्र इत्येकस्यां व्यक्तौ गुणे कृते कृतः शास्त्रार्थ इति कृत्वा मालेन्द्र इत्यादिषु न क्रियेत, तस्मात्प्रत्युत्थानादिवदावर्त्तते। किं पुनरत्र निभन्धनम्--किञ्चित्सकृत्क्रियते, किञ्चित्पुनः पुनरिति? उपनयनं तावन्माणवकस्य संस्कारः, सकृच्चासौ संस्कृतोऽध्ययनादिषु योग्यो भवति, आधानमप्यग्निसंस्कारार्थम्, सम्पन्नेष्वग्निषु प्रयोजनाबावात्पुनर्न क्रियते, आचमनमपि शौचार्थमित्य सति निमित्ते पुनर्न क्रियते। ज्योतिष्टोमादयस्तु नित्याश्चेत्प्रत्यवायपरिहाराय वसन्ते क्रियन्ते; अथ काम्याः `अमुष्मिन् लोक एनमप्सरसो जाया भूत्वोपशेरते इति ततस्तमभ्युदयम्', भूयोभूयः परीप्सुभिः पुनः पुनरनुष्ठीयन्ते। पूर्ववयोब्राह्मणप्रत्युत्थानाकरणे दोषः, करणे चाब्युदयो दर्शितः--
`ऊर्ध्व प्राणा ह्युत्कामन्ति यूनः स्थाविर आयति।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते'।। इति।
तच्च प्रत्यागमनमविशिष्टम्, अतो दोषनिर्हाणाथ पुनः पुनरनुष्ठीयन्ते। नैमित्तिकत्वाद्वा प्रतिनिमित्तमावृत्तिः। तथा ब्राह्मणवधे च सुरापाने च दो, उक्तः। स ब्राह्मणमात्रे सुरामात्रे च भवति, ततो दोषवन्तो मा भूमेति सर्वत्रैवानुष्ठीयते। इह शब्दस्य ज्ञाने प्रयोगे चाभ्युदयो दशितः--`एकः शब्द सम्यग् ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग् भवति' इति। प्रत्यवायश्च याज्ञे कर्मण्यपशब्दुप्रयोगे दर्शितः--`तेऽसुरा हेलयः' इति, `आहिताग्निरपशब्दं प्रयुज्य' इति च। अत एव तदपि गुणादिक पुनःपुनरनुष्ठीयते। तदेवं नित्यत्वं नैमित्तिकत्वं काम्यत्वं भूयोबूयोऽनुष्ठाननिबन्धनम्। एतच्च सर्वशास्त्रसाधारणमपि वात्तिककारेण प्रोक्तं भाष्यकारेणोपपादितमित्यस्माभिरप्यत्रैव प्रत्यपादि ।।
अन्तादिवच्च ।। 6.1.85 ।।
अन्तादिशब्दयोरवयवविशेषवाचित्वादवयविशेषापेक्षायां पवपरयोरित्यनुवृत्तेस्तस्य च वक्ष्यमाणगुणाद्यादेशविशेषणत्वादेकादेस इति लभ्यते, तदिदमुक्तम्--एकः पूर्वपरयोरिति वर्त्तत इत्यादि। कः पुनरत्रातिदेशार्थः, किं यावेकादेशस्य स्थानिनौ पूर्वपरौ तयोरन्तादिवद्भवति? किं वा--अकृत एकादेशे तमेवैकादेशमपेक्ष्य यौ पूर्वपरौ समुदायौ तयोरन्तादिवद्भवतीति ? यदि वा--एकादेशस्य स्थानिनौ पूर्वपरौ वर्णै, तयोः समुदाययोरन्तादी, यतोरेकादेशोऽप्यन्तादिवद्भवतीति ? तत्राद्यपक्षस्तावन्न सम्भवति, एकादेशेन पूपरयोस्तत्स्थानिनोर्निवर्त्तितत्वात्! कथमसतोः पूर्व परयोरन्तादिवत्स्यात्! द्वितीये पक्षे वृक्षावित्यत्र वृक्ष+औ इति स्थिते सुबसुपोरेकादेशः सुबपेक्षस्य कस्यचित्परस्याभावात्परादिवन्न स्यात् ?
अतः तृतीयः पक्ष ाश्रीयते। नन्वयमपि पक्षो न सम्भवत्येव। तथा हि--ब्रह्मबन्धूरित्यत्र ब्रह्मबन्धु+ऊ इति स्थिते पूर्वो वर्ण उकारो यस्यान्तो ब्रह्मबन्धुशब्दस्य स एकादेशे नास्त्येव, उकारस्य निवर्त्तितत्वात्; यश्चास्ति धकारान्तो न तस्यान्त एकादेशस्य स्थानी उकारः, अनारम्भकत्वात्? एवं तर्हि यद्व्यपदेशयुक्तस्य स्थानिनौ पूर्वपरावन्तादी तद्व्यपदेशयुक्तस्यैकादेशोऽप्यन्तादिवदित्यर्थः। एददुक्तं भवति--एकादेशात्प्राक् पूर्वपरयोः पृथगवस्थितयोस्ताभ्यां सह यो व्यपदेशः पूर्वपरसमुदायविषयो दृष्टः--प्रातिपदिकमिति वा, सुबन्तमिति वा, स व्यपदेश एकादेशे कृतेऽपि भवतीति। तदिदमुक्तम्--यथा तस्यान्त आदिर्वा तदन्तर्भूत इत्यादि। तस्येत्यनेन एकादेशात्प्रागवस्थितः पूर्वः परश्च समुदायो निर्द्दिश्यते, अन्तादिशब्दाभायां च एकादेशस्य स्थानिनौ पूर्वपरौ। तद्ग्रहणीन गृह्यत इत्यनेनापि `एतदुक्तं भवति' इत्यारम्भायन्तरं च एकादेशस्य स्थानिनौ पूर्वपरौ। तद्ग्रहणेन गृह्यत इत्यनेनापि `एतदुक्तं भवति' इत्यारभ्यानन्तरं यदुक्तमस्माभिस्तद्दर्शितम्। एषोऽतिदेशार्थ इति। अतिदिश्यत इत्यतिदेशः, अतिदेशश्चासावर्थश्चेत्यतिदेसार्थः कर्मधारयोऽयमर्थोऽत्रातिदिश्यत इत्यर्थः।
वर्णाश्रयविदावित्यादि। वर्णस्वरूपमाश्रित्य यद्विधीयते न तदन्तादिवद्भावेनातिदिश्यत इत्यर्थः। तत्कथम्? नात्र ताद्रूप्यनिबन्धनं कार्यमतिदिश्यते, योऽयमान्त आदिर्वा प्रागेकादेशादवस्थितः पूर्वः परश्च तद्वदयमेकादेशो भवति। तत्प्रयुक्तं कार्यं लभत इति। एवं च तद्वच्चेत्येव वक्त्व्य स्तात्, तच्छब्देन पूर्वापरौ परामृश्यते। एवं हि सिद्धेऽन्तादिवदिति वचनादन्तादित्वप्रयुक्तं कार्यमेकादेशस्य भवतु, पूर्वपरस्वरूपप्रयुक्तं तु कार्यं केन भवेत् ! लिङ्गं चात्र भवति तुक्यसिद्धवचनम्; अन्यथा अधीत्येत्यादावेकादेशस्यादिवद्भावादेव तुकः सिद्धत्वादनर्थकं तत्स्यात्। खट्वाभिरिति। तपरकरणं तु यत्रैकादेशो नास्ति तदर्थं स्यात्--शुभंयाभिरिति। जुहावेति। `अभ्यस्तस्य च' इति ह्वयतेः सम्प्रसारणे कृते जुहु+आ इति यत्पूर्वरूपत्वमाकारस्य तन्नादिवद्भावति, योऽयमादिराकारस्तद्वन्न भवति, तेन `आत औ णलः' इति न भवति। अस्यै अश्व इति। स्याटो विभक्त्येकारस्य योऽयं `वृद्धिरेचि' इति वृद्धिरेकादेशः स परस्यादिवन्न भवति, तेन `एङः पदान्तादति' इति न भवति। यत्र च युगपदुभयमाश्रीयते--अन्तश्चादिश्च, तत्राप्यन्तादिवद्भावो न भवति, यथा `एतेलिङि' इति ह्रस्वत्वमुपसर्गात्परस्येणो विधीयमानम्-अभीयात्परीयादित्यादौ न भवति। यदि ह्ययमेकादेशः पूर्वं प्रत्यन्तवद् बुद्ध्या गृह्येत, स तदानीमेव कथं परं प्रत्यादिवत्स्यात्! एवं परं प्रत्यादिवत्त्वे तदानीमेव पूर्वं प्रत्यन्तवद्बावोऽप्यनुपपन्नः; एकस्योभयापेक्षया युगपत्पारतन्त्र्यस्य विरोधात् ।
पूर्वापरेति। यो येन निवर्त्यते स तस्य स्तानी, यथा--भुवोऽस्तिः। समुदायश्चात्र निवर्त्यते, ततश्च तत्प्रयुक्तमेव कार्थं स्थानिवद्बावात्स्याद् यदि किञ्चिदस्ति, न तु प्रत्येकं पूर्वपरयुक्त्म्। स्यादेतद्--अवययोरपि निवर्त्यमानत्वात्तयोरपि स्थानित्वम्? इत्यत आह--तत्रेति। इतिकरणद्वयमपि हेतौ। तत्र समुदाये स्थानिन्यवयवयोर्यत्स्थानित्वं तदानुमानिकमवयवनिवृत्तिमन्तरेणावयविनो निवर्त्तयितुमशक्यत्वादवयवयोर्निवृत्तिः, न त्वादिष्टत्वादित्यर्थः। ततश्च तदाश्रयं कार्यं स्थानिवद्भावान्न प्राप्नोति; साक्षाच्छ्रुतस्यैव च स्थानिनस्तत्राश्रयणात्। इष्यते च तदर्थमन्तादिवद्भावो विधीयते। ननु विपरीतमिदम्--अवयवयोरानुमानिकं स्थानित्वमिति ? `पूर्वपरयोः' इति द्विर्वचननिर्द्देशात् तयोरेव स्थानित्वं श्रुतं न समुदायस्य शब्दोऽस्ति, द्वयोस्तु निवर्तमानयोरर्थात्समुदायो निवर्तत इत्येतावत्। तथा च पूर्वसूत्रे `स्थानिबेदाद्भिन्नादिषु नत्ववत्' इत्युक्तम्। तच्चान्यत्रापि उक्तम्--यो ह्युभयस्थाने भवति लभते सोऽन्यतरव्यपदेशम्, तेन खट्वर्श्य इत्यत्र पररत्वं भवत्यृकारस्यापि स्थानिवद्भावः, कथम? `स्थानिवदादेशः' इत्यत्र स्थानिशब्दस्य सम्बन्धिशब्दत्वादेवादेशपरिग्रहे सिद्धे आदेशग्रहणमानुमानिकस्याप्यादेशस्य स्थानिवद्भावार्थम्, ततश्च स्थान्यप्यानुमानिक आश्रितः, यथा `एरुः' पचत्वित्यत्र । अत्र हि इकारेणेकारान्तः स्तान्यनुमीयते, उकारेणाप्युकारान्त आदेशः, तस्य स्थानिवद्भावात् `तिङ्न्तं पदम्' इति पदसंज्ञा भवति। एवमप्यत्रावयवयोरानुमानिके स्थानित्वे सिद्धः स्थानिवद्भावः ? एवं तर्ह्यनल्विधौ स्थानिवद्बाव उक्तः अल्विध्यर्थमिदम्, यथा--क्षीरपेण, सुरापेणोत्तरपदविभक्त्योरेकादेशस्यान्तवद्भावात् `एकाजुत्तरपदे णः' इति णत्वमल्विधिरपि भवति। ननु च `अनल्विधौ' इति प्रतिषेधः स्थान्यलाश्रयेष्वेव कार्येषु, असय त्वेकादेशस्योत्तरपदं प्रत्यवयवत्वमेव स्थानिवत्त्वेन प्रार्थनीयम्; अच्त्वं तु स्वत एव सिद्दम्, ततश्च यथा--अरुदितामित्यत्र स्वाश्रयं वलादित्वं स्थानिवद्बावकृतं च सार्वदातुकत्वमाश्रित्य `रुदादिभ्यः सार्वधातुके'इतीङ् भवति, तद्वदिहापि स्थानिवद्धावकृतमुत्तरपदावलयवत्वं स्वाश्रयं चाच्त्वमाश्रित्य णत्वं भवति। तत्तु स्थान्यल्खरूपनिबन्धनम्, तत्रेष्यत एव, यथा खट्वाभिरित्यादावैस्भावादि। तस्मात् चिन्त्यभस्य प्रयोजनम् ।।
षत्वतुकोरसिद्धः ।। 6.1.86 ।।
षत्वे तुकि चेति। षत्वशास्त्रे, तुक्शास्त्रे चेत्यर्थः। एकादेश इति। एकादेशशास्त्रम् `आद्गुणः' इत्यादीत्यर्थः। असिद्धो भवतीति। सिद्धः=निष्पन्नः, ततोऽन्योऽसिद्धः। तत्र शास्त्रस्वरूपं तावन्निष्पन्नमिति परत्र परशब्दप्रयोगादिवार्थोऽवगम्यते, तत्कार्यकरणाच्च सादृश्यम्, तदाह--सिद्धकार्याणि न करोतीत्यर्थ इति। षत्वतुक्शास्त्रसन्निधावेकादेशशास्त्रं स्वकार्यमेकादेशाख्यं कार्यं न करोति=न प्रवर्त्तयति, न प्रतिपादयतीत्यर्थः। सूत्रस्य प्रयोजनमाहृ--असिद्धवचनमिति। आदेशे कृते यत्कार्यं तद्धेतुकं प्राप्नोति तदादेशलक्षणम्, आदेसो लक्षणं निमित्तमस्येति कृत्वा; तस्य प्रतिषेधार्थमसिद्धवचनम्। उत्सर्गः=स्थानी, सामान्योत्सृष्टत्वात् स लक्षणं यस्य तदुत्सर्गलक्षणम्, तस्य भावः प्रवृत्तिर्यथा स्यादित्येवमर्थं चासिद्धवचनम्। कोऽसिचदिति। `लिपिसिचिह्वश्च' इति च्लेरङ्, कशब्दात्सोरुत्वम्, `अतो रोरप्लुतादलुते' इत्युत्वम्, गुणः। एङः पदान्तादतीति। परम्प्रत्यादिवद्भावादिति। आदिवद्भावे हि ओसिचदित्येतदन्तं पदम्, ततः सकारः पदादिर्न भवतीति `सात्पदाद्योः' इति निषेधाभावादेकादेशमोकारमिणमाश्रित्य षत्वं प्राप्नोति, तदसिद्धत्वान्न भवति। असिद्धत्वे हि षत्वशास्त्रं प्रत्येकादेशशास्त्रस्याप्रतिपादकत्वात् को असिचदित्येवमवस्थितं पदरूपं भवति, तत्राकारेण व्यवधानात्षत्वाभावः। कोऽस्येति। इदमः षष्ट्येकवचनम्, त्यदाद्यत्वम्, `टाङसिङ्सामिनात्स्याः' इति स्यादेशः, हलि लोपः, शेषं पूर्ववत्। एवमादेशलक्षणप्रतिषेधस्योदाहरणानि दर्शितानि।
इतरस्य दर्शयति--अधीत्य, प्रेत्येति। एकादेशस्यासिद्धत्वादित्यादि। असिद्धत्वे हितुक्शास्त्रसन्निधावधि + इ + इयेत्येव स्थितं पदरूपं भवति, ततश्च ह्रस्वाश्रयस्तुक् प्रवर्त्तते। यदि तु मुख्यस्यैकादेशस्यैव कार्यस्यासिद्धत्वमुच्यते, तदा षत्वे नास्ति दोषः, कथम्? ओकारस्तावत्स्वकार्यं षत्वं न करोति, यौ तु ततः पूर्वौ ककारयकारौ तदाश्रयमपि षत्वं न भवति, तेनैवौकारेण व्यवधानात्। तुकि नेष्टसिद्धिः। कथम् ? एकादेशेन ह्रस्वस्य निवतितत्वात्, न चैकादेशः स्वकार्यं न करोति। अनेन स्थानिनः प्रत्यावृत्तिः शक्या, तस्मात्तिः शक्या, तस्मात्तुकि शास्त्रासिद्धत्वामेवाश्रयणीयम्। आह च--स्थानिवद्वचनानर्थक्यं च शास्त्रासिद्धत्वादिति।
सम्प्रसारणङीट्स्विति। सम्प्रसारणे ङौ इटि च य एकादेशस्तस्यासिद्धत्वप्रतिषेधो वक्तव्यः। शकहूष्विति। शकान् ह्वयतीति यज्ञादित्वात्सम्प्रसारणं पूर्वत्वम्, क्विप्, `हलः' इति दीर्घः। परिवीष्विति। व्येञः परिपूर्वात् क्विबादि पूर्ववत्। असिद्धत्वात्षत्वं न प्राप्नोतीति। पूर्वरूपस्यासिद्धत्वे हि शकहु+आ इत्येवमवस्थितं पदरूपं भवति। वृक्षेच्छत्रमिति, अपचेच्छत्रमिति। पचेर्लङ्, उत्तमैकवचनमिट् शप्। आद्गुणस्यासिद्धत्वादिति। असिद्धत्वे हि तस्य वृक्ष इ च्छत्रम्, अपच इ च्छत्रमित्येवमवस्थितं पदरूपं भवति। अत्र सम्प्रसारणे तावत्प्रतिषेधो न वक्त्व्यः, एकादेशोऽसिद्ध इत्युच्यते, न चात्रैकादेशं पश्यामः; दीर्घेण निवर्त्तितत्वात्। न चदीर्घस्य स्थानिवद्भावादेकादेशग्रहणेन ग्रहणम्; अल्विधित्वात्। ङिटोस्तु प्रतिषेधो वक्तव्य एव।
अथ वा--लाघवार्थं पदस्येति वक्तव्यम्। अन्तादिग्रहणं च पूर्वसूत्रादनुवर्त्तनीयम्, तेन पदान्तस्य पदादेश्च य एकादेशः सोऽसिद्ध इत्येषोऽर्थो भवति। यद्येवम्, सुपिप्पला ओषधीस्कृधीत्यत्रौषधिशब्दाद् द्वितोयाबहुवचनम्, `औषधेश्चविभक्तावप्रथमायाम्' इति दीर्घः, ततः प्रथमयोः पूर्वसवर्णदीर्घः, रुत्वविसर्जनीयौ। अत्रैदानीम् `कःकरत्करतिकृति' इति विसर्जनायस्य सत्वमिष्यते, तन्न प्राप्नोति;`पदान्तपदाद्योः' िति वचनात्। एकादेशस्यासिद्धत्वाभावाद् इण उत्तरो विसर्जनीय इति `इणः षः' इति षत्वं प्राप्नोति, अविशेषेणासिद्धत्वे ओषधी + अस् कृधीत्येवमवस्थानादिण उत्तरत्वाभावात्षत्वाप्रसङ्गात्सत्वं सिध्यति ? ज्ञापकात्सिद्धम्; यदयं कस्कादिषु भ्रातुष्पुत्रशब्दं पठति, तज्ज्ञापयति--नैकादेशात्परस्य विसर्जनीयस्य षत्वं भवतीति। यदि स्याद्, भ्रातृशब्दान्ङसि `ऋत उद्' इत्युत्त्वे एकादेशे रपरे च कृते `रात्सस्य' इति सकारलोपे कृते षष्ठीसमासे `ऋतो विद्यायोनिसम्बन्धेभ्यः' इत्यलुकि रेफस्य विसर्जनीये `ऋत उद्' इत्युकारस्यैकादेशस्य सिद्धत्वात् `इदुदुपधस्य च' इत्येव षत्वे सिद्धे कस्कादिषु तन्न पठेत्, पठति च, ततो ज्ञायते--नैकादेशात्परस्य षत्वमिति। शकहूष्वित्यत्रापि तर्हि न प्राप्नोति ? नैष दोषः; तुल्यजातीयस्य ज्ञापकं भवति। कश्च तुल्यजातीयः ? यः कुप्वोरनन्तरः. इह चट वेञः क्विपि सम्प्रसारणे पूर्वत्वे च `ह्रस्वस्य पिति कृति' इति तुकि प्राप्ते पूर्वत्वस्य सूत्रेणासिद्धत्वे प्राप्ते `पदान्तपदाद्योः' इति वचनादसिद्धत्वाभावादुदिति तुग्भवत्येव। न हि उ+आ इत्येकादेशात्प्रागवस्तायामाकारः पदान्तः। नाप्यकारः पदादिः; विभक्तेरभावात्। न चैकादेशात्प्रागेव कृदन्तत्वाद्विभक्तयुत्पत्तिः; एकादेशस्यान्तरङ्गत्वात्। अथापि प्रागेव विभक्त्युत्पत्तिः; एवमपि उ+आसु इति स्थिते उकारः पदादिः सकारः पदान्तः, सुबन्तं हि पदम्, न तु ततः पूर्वम्। अथापि भ्याम्प्रभृतौ उ+आभ्यमिति स्थिते `स्वादिषु'इति पदसंज्ञायां पदान्तपदाद्योरेकादेशः ? तथापि न दोसः; `पूर्वपरयोः' इति वर्त्तते, अन्तादिग्रहणञ्च; तत्र यथासंक्यसम्बन्धात्पूर्वपदस्य योऽन्तः परस्य चादिस्तयोरेकादेशोऽसिद्ध इत्यर्थः सम्पद्यते। आकारश्चात्र पदादिर्न भवति, नाप्युकारः पदान्त इत्यसिद्धत्वात्तुग् भवत्येव।
किमर्थं पुनः षत्वतुकोरेकादेशस्यासितद्धत्वादुच्यते, यावता द्विपदाश्रयत्वाद् बहिरङ्गस्यैकादेशस्यैकपदाश्रयत्वेनान्तरङ्गयोः षत्वतुकोः `असिद्धं बहिरङ्गमन्तरङ्गे' इत्येवासिद्धत्वं सिद्धम्? ज्ञापनार्थं तु, एतज्ज्ञापयति--`यत्र बहिरङ्गस्यान्तरङ्गस्य वाऽचोरानन्तय निमित्तत्वेनाश्रितं तत्र बहिरङ्गपरिभाषा न प्रवर्त्तते' इति। तेनाक्षद्यूरित्यत्र बहिरङ्गस्याप्यूठोऽसिद्ध्तवाभावाद्यणादेशः सिद्धो भवति। अयमेवार्थः परिभाषारूपेण पठ्यते `नाजानन्तर्यं बहिष्ट्वप्रक्लृप्तिः' इति ।।
आद्गुणः ।। 6.1.87 ।।
गुणग्रहणं किम्, यावताऽचीति वर्त्तते, `एकः पूर्वपरयो' इति च, तत्रान्तर्यतः कण्ठतालव्ययोरकारेकारयोः स्थाने तादृश एवैकारो भविष्यति, कण्ठ्यौष्ठ्ययोश्चाकारोकारयोः स्थाने तादृश एवौकारो भविष्यति, कण्ठ्यौष्ठ्ययोश्चाकारोकारयोः स्थाने तादृश एवौकारो भविष्यति; चैकारौकारयोरपि प्रसङ्गः, वृद्दिरेचीति नियमात् ? तदिदानीं नियमार्थम्, ऐचोरनेनैव सिद्धत्वात्, एच्येव वृद्धिभर्वति। उभयथा नियमश्च व्याख्यास्यते, वृद्धिरेवैचीति। इर तर्हि खट्वर्श्यः मालार्श्य इति प्रमाणतोऽन्तरतमो मूर्द्धन्त ऋकारः प्राप्नाति ? माण एव रपरो भवतीति स्थानत् उभरोरन्तरतमः. आकारस्तर्हि प्राप्नोति ? `इपसर्गादृति धातौ' इत्येतन्न्यमार्थं भविष्यति---ऋति धातावेवाकारो नान्यत्रेति। प्रुतस्तर्हि प्राप्नोति ----खट्वेन्द्रः, `प्लुतश्च विषये स्मृतः', प्लुतविदाने हि सति यस्मिन्विषे ब्लुतो विहितस्तस्मिन्नप्यनैनैव भाव्यम् ? अस्मिन्कर्त्तव्ये आष्टमिकस्य प्लुतस्यासिद्धत्वात्, ततश्च पक्षेऽनुवाददोषपसङ्गत् प्लुगो न भवतीति।
इह तर्हि शट्वा ईषा खट्वेषा,शट्वा ऊढा खट्वेढा, आन्तर्यतश्चतुर्मात्र आदेशः प्राप्नोति, गुणग्रहणे तु क्रियमाणे गुणसंज्ञायान्परकरणं सर्वार्थमिति त्रिमात्रचतुर्मात्राणामगुणत्वादप्रसङ्गः। तस्माद् गुणग्रहणम्। श्लेकौ चात्र भवत----
आदेशश्चेद् गुणः केन स्थानेऽन्तरतमो हि साः।
ऐदौतौ नैचि तावुक्तावृकारो नोभयन्तरः ।।
आकारो नर्त्तिधातौ स प्लतश्च विषये स्मृत।
आन्तर्यात्त्रिचतुर्मात्रो गुणश्च तपरः समृतः ।।
इह वृक्षशब्दान्ङिः, वृक्ष + इ + इन्द्रमिति स्थिते अकारेकायोर्गुणश्च प्राप्नोतीकारयोः सवर्णदीर्घश्च, तत्र शब्दपरविप्रतिषेधाद्दीर्घप्रसङ्गः, तथा तच्छपब्दान् `जश्शसोः शिः', न इ इन्द्रम्, पचेरुत्तमैकवचनमिट् शप् पच इ चन्द्रम् ? नैष दोषः एकपदातरङ्गो गुणे भविष्यते प्रगेव पदान्तरसन्निदानात् ।
लृकारस्य स्तानत इतइ। यथा चैतल्लभ्यते तथा। `लण्' इत्यत्र व्याख्यातम् ।।
एत्येधत्यूठूसु ।। 6.1.89 ।।
न पुनरेधतेरव्यभिचारादिति। बाहुल्याभिप्रायेणैतदुक्तम्। अस्ति ह्यस्यापि व्यभिचारः--चङ्युपधाह्रस्वत्वे भवान् मा प्रेदिधदित्यत्रेत्याहुः। प्रष्ठौह इति। प्रष्ठं वहतीति `धन्दसि सहः', `वहश्च' इति ण्विः, `वाह ऊठ्' इत्यूठ, सम्प्रसारणम्, पूर्वत्वम्, ततो वृद्धिः। एत्येधत्योरेहि पररूपापवाद इति। वृद्धिर्विधीयत इत्यनुषङ्गः।
यथैव तर्हि `एङि पररूपम्' बाधते, एवमाङि पररूपमपि बाधेत: नाप्राप्ते पररूपेऽस्या वृद्धेरारम्भात्? इत्यत आह-ओमाङोश्चैतच्चिवति। कुतः? इत्याहयेनेति। स तस्य बाधको भवतीति। तस्यैव बाधको भवतीति यावत्, तद्बाधस्यावश्यम्भावित्वात्, तावता च बाधकस्य चरितार्थत्वात्। न चाप्राप्ते एङि पररूपे इयं वृद्धिरारभ्यते, आङि पररूपे तु आ इतः=एतः, प्रेतः, परेत इत्यत्र प्राप्ते; उपैति, प्रैतीत्यत्र त्वप्राप्ते तस्मान्न बाधते। परिहारान्तरमाह--पुरस्तादिति। अनन्तरे बाध्ये ज्ञाते तद्बाधया वचनस्य चरितार्थत्वादुत्तरेण सह स्पर्द्धायां परत्वात्तदेव भवतीति भावः।
अक्षौहिणीति। अक्षैरूहतेऽवश्यमिति आवश्यके णिनिः, साधनम् `कृता' इति समासः।
स्वैरमिति। `ईर गतौ', ईरणमीरः, भावे घञ्, स्वेनाभिप्रायेण ईरणं स्वैरम्, `कर्तृकरणे कृता बहुलम्' इति समासः, क्रियाविशेषणात्वाल्लोकाश्रयत्वाद्वा लिङ्गस्य नपुंसकत्वम्। स्वेनाभिप्रायेणेरते गच्छतीति स्वैरी, `सुप्यजातौ' इति णिनिः. ईरिग्रहणमनर्थकम्, स्वेनाभिप्रायेणेरते गच्छतीति स्वैरी, `सुप्यजातौ' इति णिनिः। ईरिग्रहणमनर्थकम्, `पदास्वैरिबाह्य' इति निपातनात्सिद्धम्, पदास्वैरशब्दादिना मत्वर्थीयेन सिद्धम्, णिनिस्त्वनभिधानान्न भविष्यति।
प्रादित्यादि। ऊढ, ऊढि, एष्य--इत्येतान्युत्तरपदानि। इष्यतेरिच्छतेरिष्णातेर्वा यदा ण्यत् तदा--प्रैष्यः, यदा घञ् तदा-प्रैषः, एङि पररूपापवादो वृद्धिः। ईष्यशब्दे तु प्रेष्य इति भवति। तथा आ+ऊढा ओढा प्रोढेति `ओमाङोश्च' इति पररूपं भवति। पूर्वोपात्तस्य ऋणस्यापनयनाय यदृणमन्यदुपात्तं तद् ऋणार्णम्। दशार्णशब्दो नदीविशेषस्य, देशविशेषस्य च संज्ञा ।।
आटश्च ।। 6.1.90 ।।
`ईक्ष दर्शने', `उभ उम्भ पूरणे', `उब्ज आर्जवे',`ऋधु वृद्धौ'-- इत्येतेषामुदाहरणानि। चकारोऽधिकविधानार्थ इति। अस्यैव विवरणम्-- उस्योमाङोश्चेति। पररूपबाधनार्थं इति। उसि, ओमि, आङि च यत्पररूपं प्राप्नोति तद्बाधनार्थ इत्यर्थः; अन्यथा परत्वात्तदेव पररूपं स्यात्। औस्रीयदिति। अनर्थकेऽप्युसि पररूपविधानादत्र प्रसङ्गः ।।
उपसर्गादृति धातौ ।। 6.1.91 ।।
उपार्च्छतीति। `ऋच्छ गन्तीन्द्रियप्रलयमूर्तिभावेषु'।
प्रर्च्छको देश इति। अत्र यत्क्रियायुक्ताः प्रादयः इति गमिं प्रति प्रशब्दस्योपसर्गत्वं नर्च्छतिं प्रतीति भवति प्रत्युदाहरणम्।
वा सुप्यापिशलेरिति हि विकल्पः स्यादिति। तेनोत्तरार्थन्तपरकरणमिति भावः।
धातुग्रहणमनर्थकम्, यत्र चोपसर्गत्वं न सम्भवति, तत्रोपसर्गग्रहणेन प्रादयोऽपिलक्ष्यन्ते, यथा-नासिकाया नस्बावविधौ; इह तु मुख्यमेवोपसर्गत्वं सम्भवति तत्किं धातुग्रहणेन ? इत्यत आह-उपसर्गग्रहणादेवेति। शाकल्यस्येदं शाकलम्, तस्य निवृत्त्यर्थं पुनर्द्धातुग्रहणम्। सति तु दातुग्रहणे योगविभागेन पुनर्वृद्धिर्विधीयत इति शाकलं बाध्यते। असति तु तस्मिन् शाकल्यमतेन परत्वात् प्रकृतिभावः स्यादेव ।।
वा सुप्यापिशलेः ।। 6.1.92 ।।
सुबन्तस्य धातोरसम्भवात्सुबित्येत्येतद्धातोरवयवद्वारकं विशेषणमित्याह--सुबन्तावयवे धाताविति। आचार्यग्रहणेनैव पूजाविकल्पयोरपि सिद्धयोः पुनर्वाग्रहणमाचार्यग्रहणस्य प्राधान्येन पूजार्थतां ख्यापयितुं कृतम् ।।
औतोऽम्ससोः ।। 6.1.93 ।।
गां पश्येति। ननु चात्र `गोतो णित्' इति णित्त्वे सति परत्वा द्वद्धौ कृतायामोकाराभावादात्वेन न भाव्यम्, आत्वविधानं तु द्योशब्दार्थं स्यात्, न हि तत्र णित्त्वमस्ति, `गोतः' इति वचनादित्यत आह-द्योशब्दोऽपीत्यादि। सत्यं यदि णित्त्वं न स्यात्, अस्ति तु तत्रापि णित्त्वम्, `गोतः' इत्यस्यौकारान्तोपलक्षणत्वात्, वर्णनिर्द्देशेषु तपरत्वप्रसिद्धेः। ततः किम्? इत्याह--तेनेति।
शसा साहचर्यादिति। सुप एव हि शशोऽत्र सम्भवः, नान्यस्य;`अचि' इत्यधिकारात्।
अचितवमसुनवमिति। चिनोतेः, सुनोतेश्च लङ्, `तस्थस्थमिपाण्' इत्यमि कृते विकरणस्य गुणावादेशौ ।।
एङि पररूपम् ।। 6.1.94 ।।
`इल प्रेरणे' चुरादिः, `ओखृ शाखृ' इति भूवादौ पठ्येते।
केचिद्वा सुप्यापिशलेरित्यनुवर्त्तयन्तीति। यद्येवम्, तेन सहास्यैकवाक्यतायाम् असुब्धातुषु नास्य प्रवृत्तिः स्याद्? इत्यत आह--तच्चेति। अत्र व्याख्यानमेव शरणम्।
शकन्ध्वादिष्विति। शकन्ध्वादयः प्रयोगतोऽनुसर्तव्याः, तेषु पररूपं वक्तव्यम्। `कुलटाया वा', `कतन्तेभ्यः' इत्यादिनिर्द्देशोऽस्मिन्नर्थे लिङ्गम्। अन्धुः=कूपः, बहूनि कुलान्यटति नैकस्मिन्कुलेऽवस्थितेति कुलटा। पचादिष्वयं पठितव्यः, अन्यथा `कर्मण्यण्' स्यात्।
एवे चानियोग इति। नियोगः=अवश्यम्भावः, नियमः=अवधारणम्, ततोऽन्यत्रार्थे पररूपं सम्भवति। उदाहरणेऽनवक्लृप्तावेवशब्दः, यथा--क्वेव भोक्ष्यस इति। अवधारणे तु वृद्धिरेव भवति---`अमैवाव्ययेन', `धातोस्तन्नितित्तस्यैव', इहैव सन्तत्वाय, ममैव हव्यान्यग्न इत्यादि।
ओतुः=विडालः। `तुन्वोर्वि निपात उपसंख्यानम्', वीति सप्तमीनिर्द्देशात्तदादिविधिः, वकारादौ निपाते परतः तुनु-इत्येतयोः पररूपं भवति--तु वै त्वै, अनुभूततमं चैकम्। नुवै न्वै। एक एवायं निपातः, अर्थाभेदात्, यदाह--`न वा, निपातैकत्वात्' इति। अत एव नैतद् वृत्तिकारेण पठितम् ।
सूत्रे पररूपग्रग्रहणभुत्तरार्थम्, इह त्वेङीत्येव सिद्धम्--एङि परत एकादेशो भवतीति। रूपग्रहणं चिन्त्यप्रयोजनम्, तथा च `अमि पूर्वः' इत्यत्र रूपग्रहणं न कृतम् ।
ओमाङोश्च ।। 6.1.95 ।।
अद्योढेति। आङनाङोरेकादेश आङ्ग्रहणेन गृह्यत इति भवत्युदाहरणम्। अत्र च `धातूपसर्गयोः कार्यमन्तरङ्गम्' इति पूर्वमाद्गुणए कृते पश्चादद्यशब्देन सम्बन्धे वृद्धिः प्राप्नोति, एवमाङो रूपमवितष्टम्। अद्य गआगत इत्यादौ तत्र सवर्मदीर्घत्वेन सिद्धं रूपम्।
अकः सवर्णे दीर्घत्वं बाध्यत इति। ननु च मध्येऽपवादन्यायेन वृद्धेरेव बाधो युक्तः न दीर्घत्वस्य? नैष दोष; चकारोऽत्र क्रियते, स पुनर्विदानार्थो भविष्यति ।।
उस्यपदान्तात्।। 6.1.96 ।।
भिन्द्युरिति। भिदेर्लिङ्, यासुट्, झेर्जुस्, श्नसोरल्लोपः, `लिङः सलोपोऽनन्त्यस्य' इति सलोपः, भिन्द्या+उस्--अनेन पररूपम्। अदुरिति। दाञो लुङ्, `गातिस्था' इत्यादिना सिचो लुक्, `आतः' इति झेर्जुस्, अदा+उस्--अनेन पररूपम् ।
कोस्रेति। ननु चानर्थकत्वादेवास्योसो ग्रहणं न भविष्यति ? एवं तर्ह्येतज्ज्ञापयति--अनर्थस्याप्युसो ग्रहणमिति, तेन भिद्युरित्यादावप्युसि पररूपं भवति। अत्र हि यासुडादिः समुदायोऽर्थवान्, न तु तदवयव उस्। कोषितेति। वसेः क्तः, `वसतिक्षुदोरिट्', यजादित्वात्सम्प्रसारणम्, `शासिवसिघसीनां च' इति षत्वम्, तस्यासिद्धत्वादुसि न पररूपं भवति। अस्य तु लाक्षणिकत्वादेवाग्रहणं सिद्धम्। अबिभयुरिति। भियो लङ्, शपः श्लुः, `सिजभ्यस्त' इत्यादिना झेर्जुस्, `जुसि च' इति गुणः ।।
अतो गुणे ।। 6.1.97 ।।
अकः सवर्णे दीर्घस्यापवाद इति। ननु च मध्येऽपवादन्यायेन वृद्धेरेवायमपवादो युक्तः, न दीर्घस्य? गुणग्रहणाद्दीर्घस्यापि बाधको भविष्यति, अन्यथा--`अतोऽपदान्तात्' इत्येव वक्तव्यम्। एङीत्येव, ततो जुसि च, अपदान्तादित्येव। एवं सिद्धं गुणग्रहणाद् गुणमात्रेऽयं विधइः प्रवर्तमानो दीर्घमपि बाधिष्यते।
अत इति किमिति अदिति वर्त्तत एवेति प्रश्नः। तपरकरणे तात्पर्यमित्युत्तरम् ।।
अव्यक्तानुकरणस्यात् इतौ ।। 6.1.98 ।।
अव्यक्तमपरिस्फुटवर्णमिति। अपरिस्फुटा=अनभिव्यक्ता अकारादयो वर्णा यस्मिन्तत्तथोक्तम्। यद्येवम्, तदनुकरणेनापि तथाविधेनैव भाव्यम्, सदृशं ह्यनुकारणं भवति, ततश्चानुकार्य इव तत्रापि नैवाच्छब्दोऽवधार्यते, अनवधारिते चाशक्यं पररूपं कर्त्तुम् ? तत्राह-तदनुकरणं भवत्यतिप्रसङ्गात्? इत्यत आह--केनचित्सादृश्येनेति। तत्पुनः सादृस्यं ध्वनेस्तुल्यतया, तेन ह्यव्यक्तमनुकार्यमनुकरोति पुरुषः, अनुकरणं कर्तृ अव्यक्तं कर्मानुकरोति, करणस्य कर्तृत्वाविवक्षयां कर्तृप्रत्ययः, अनुकरणशब्दस्तु करणसाधन एव। पररूपमेकादेशो भवतीति। अच्छब्दसयापि सर्वस्य नालोन्त्यस्य; `नानर्थकेऽलोन्त्यविधिः' इति वचनाज्ज्ञापकाच्च। यदयम् `आम्रेडितस्यान्त्यस्य तु वा ' इति अन्त्यग्रहणं करोति, तज्ज्ञापयति --`नात्रालोन्त्यपरिभाषा प्रवर्त्तते' इति। किञ्च--पूर्वापरसमुदाय एकादेशस्य स्थानीत्युक्तम्, ततश्च तदेकदेशे पूर्वस्मिन् खल्वेतत्परिभाषाप्रवृत्तिः कीदृशीति चिन्त्यम्। पटदितीति। प्रक्रियावाक्यमेतत्, न प्रयोगार्हम्; पररूपस्य नित्यत्वात्। पाटितीति कथं पुनः पररूपे कृते तदनुकार्यस्य प्रतिपादकं भवति, कुतश्च तस्यानुकरणत्वम्? नैष दोषः; यथा गवित्ययमाहेति कृतावादेशमपि गोशब्दस्यानुकरणं भवति शास्त्रावासनया, तद्वदत्राऽपि भविष्यति।
दकारान्तानुकरणमेतदिति तकारान्तानुकरणे तु रूपमेवैतन्न स्यात्; अपदत्वेन जश्त्वाभावाद्, यथा--पटिति करोतीति ।।
नाम्रेडितस्यान्त्यास्य तु वा ।। 6.1.99 ।।
अव्यक्तानुकरस्याम्रेडितस्येति। व्यधिकरणे षष्ठ्यौ, अव्यक्तानुकरणस्य यदवयवभूतमाम्रेडितम्, तस्येत्यर्थः। नित्यवीप्सयोरिति द्विर्वचनमिति। वीप्सायोगस्तु ययाकथञ्चिद् द्रष्टव्यः।
अपर आह--`नित्यवीप्सयोः' इत्युपलक्षणमेतत्, `डाचि बहुलं द्वे भवतः' इत्यत्र बहुलवचनादन्यस्यापि द्विर्वचनमिति।
यदि त्विति। द्विरूक्तस्य समुदायानुकरणस्य वार्थभेदो भवंति।
नित्यमाम्रेडिते डाचि ।। 6.1.100 ।।
वार्त्तिकमेवेदम्। वृत्तिकृता सूत्ररूपेण पठितम्। डाचि विवक्षित इति। `आशंसायां भूतवच्च' इति भविष्यति क्तः, विधित्सित इत्यर्थः। अन्यथा कडाजेव न स्यात्; द्व्यजवरार्धत्वाभावात्। तथा च डाज्विधावुक्तम्--`यस्य च द्विर्वचने द्व्यजवरार्द्धता ततः प्रत्ययः' इति, अष्टमे च वक्ष्यतिडाचीति विषयसप्तमीति।
डाचि विधित्सित एव द्विर्वचनं क्रियत इत्यत्र प्रयोजनान्तरमाह--तच्चेति। ह्यर्थे चः, तद्धि द्विर्वचनं टिलोपात्पूर्वमिष्यते। एवं च पूर्वं सिद्धयति, यदि डाचिविधित्सित एव द्विर्वचनं भवति, नान्यथा। यदि हि परभूते द्विर्वचनं स्यात्, ततोऽन्तरङ्गत्वात्पूर्वं टिलोपे कृते टकारान्तस्य द्विर्वचने पटपटेति न सिद्ध्येत्।
यद्वा--डाचि विहिते उत्पन्ने इत्यर्थः। ननु चोक्तम्--डाजेव न स्यादिति? नैष दोषः; `द्व्यजवरार्द्धात्' इति भाविव्यपदेशोऽयम्। यस्य द्व्यजवरार्द्धता भविष्यति द्विर्वचने कृते तस्मादित्यर्थः. यदि डाचि विहितं द्विर्वचनं परत्वाट्टिलोपप्रसङ्ग इत्युक्तम् ? तत्राह--तच्चेत्यादि। `डाचि बहुलम्' इति बहुलग्रहणाद् द्विर्वचने कृते टिलोप इत्यर्थः ।।
अकः सवर्णे दीर्घः ।। 6.1.101 ।।
अग्नय इति। `घेर्ङिति' इति गुणे कृते दीर्घत्वप्रसङ्गः। दध्यत्रेति। असति सवर्णग्रहणे यणादेशस्य दीर्घस्य च विषयविभागो न ज्ञायेत, ततश्च पर्यायः स्यात्।
कुमारी शेत इति। ननु च तुल्यास्यप्रयत्नत्वेऽपि सावर्ण्यमत्र नास्ति, `नाज्ज्ञलौ' इति प्रतिषेधात्? इत्यत आह--नाज्झलावित्यर्त्रति। `आणुदित्सवर्णस्य चाप्रत्ययः' इति ग्रहणकवाक्यम्, तच्च `नाज्झलौ' इत्यस्य प्रवृत्तिसमये नाभिनिर्वृत्तम्, तस्य हि सवर्णसंज्ञाङ्गम्, तेन यावत्सा न प्रवर्त्तते तावदनभिनिर्वृत्तम्। सवर्णसंझाऽपि स्वापवादे `नाज्झलौ' इत्यस्मिन्नप्रवृत्ते न प्रवर्त्तते, ततश्च पूर्वं `नाज्झलौ' इत्यस्य प्रवृत्तिः, पश्चात्सवणसंज्ञायाः प्रवृत्तिः, पश्चाद् ग्रहणकवाक्यस्येति एष क्रमः। तेन `नाज्झलौ' इत्यत्रागृहीतसवर्णानामचां ग्रहणमिति इकारशकारयोः सावर्ण्यमपतिषिद्धम्, तस्मादचीत्यनुवर्त्त्यमिति।
ऋति रृ व वचनमिति। मध्ये रेफभक्ती द्वे, आदितोऽज्भक्तेरर्द्धमात्रा, एवमन्ततः।
एवम् लृतीत्यत्रापि मध्ये द्वे लकारभक्ती, अभितः पूर्ववत्। एवं द्विमात्रयौरप्येतयोरीषत्स्पृष्टत्वाद्विवृत्ताभ्यामृकारलृकाराभ्यामसावर्ण्यादग्रहणाद्दीर्घसंज्ञाया अभावाद्वचनम्। अर्द्धतृतीयमात्रत्वात्तत्कालत्वाभावादित्यन्ये। एतच्च सवर्णसंज्ञाया प्रपञ्चितम्। दीर्घपक्षे त्विति। ऋकारलुकारयोः समुदायः स्थानी, न च तस्यान्तरतमो दीर्घः सम्भवति, अतोऽवयवस्य योऽन्तरतमः स एव भवति। तत्रापि लृवर्णस्य दीर्घासम्भवादृकारस्य योऽन्तरतमः स एव भवति। तत्रापि लृवर्णस्य दीर्घासम्भवादृकारस्य योऽन्तरतमः स ऋकार एव भवति ।।
प्रथमयोः पूर्वसवर्णः ।। 6.1.102 ।।
प्रथमाशब्दो विभक्तिविशेषे रूढ इति। सुपामाद्यत्रिके `सपूर्वायाः प्रथमायाः',`सप्तमीपञ्चमीप्रथमाभ्यः' इत्यादौ तस्यैव ग्रहणात्। ननु च स्त्रीलिङ्गः प्रथमाशब्दस्तत्र रूढः, न चास्य स्त्रीलिङ्गत्वे प्रमाणमस्ति, प्रत्युत प्रथमशब्दस्तिङां त्रिकद्वयेऽस्मिन्नेव शास्त्रे संज्ञात्वेन विनियुक्तं इति तस्यैव ग्रहणं युक्तम्; ततश्च पचति, पचतः, पचन्ति, पचते, पचेते, पचन्ते, चकार, चक्रतुः, चक्रुः; चक्रे, चक्राते, चक्रिरे--इत्यादौ यथाप्राप्तविध्यन्तरबाधेनायं विधिर्युक्तः। किञ्चैव सति मुख्येऽपि प्रथमशब्दे `प्रथमयोः' इति द्विवचनमुपपद्यते, आत्मनेपदपरस्मैपदभेदेन प्रथमस्य भेदात्? उच्यते; एवं सति द्विवचननिर्देशोऽनर्थकः; `लुटः प्रथमस्य' इत्यादिवत्सिद्धत्वात्। यद्वा--`वा सुप्यापिशलेः' इत्यतः सुपीत्यनुवर्त्तयिष्यते, तेन सुप एव प्रथमस्य ग्रहणम्, लिङ्गाच्च, किं लिङ्गम्? `दीर्घाज्जसि च' `तस्माच्छसो नः पुंसि' इति। अत एवल लिङ्गात्सुपामप्यादितः प्रथमयोर्द्वयोर्ग्रहणं भवति, अचीत्यधिकाराच्च, न हि सुरजादिः। सुरपि कुण्डं तिष्ठतीत्यदावजादिः ? नात्रायं विधिः प्राप्नोति, कारणम् ? अमि पूर्वत्वेन बाध्यते। तस्मात् स्त्रीलिङ्गस्य ग्रहणमिति स्थितम्। तत्साहचर्याद् द्वितीयापि प्रथमेत्युक्तेति। द्विवचनं चात्र प्रमाणम्। ननु सकृच्छ्रुतः शब्दो मुख्यवृत्तिरेव वा भवति, जघन्यवृत्तिरेव वा, न पुनरुभयवृत्ति ? प्रथणाद्वितीयासमुदाये जघन्यवृत्तिरेवायम्, स च समुदाय उद्भूतावयवभेद इति द्विवचनोपपत्तिः, यथा--छत्त्रिणो गच्छन्तीति।
वृक्षाः, प्लक्षा इति। नन्वत्रापि `अतो गुणे' इति पररूपेण भवितव्यम्, नाप्राप्ते विध्यन्तरे तस्यारम्भात्। स्यादेतत्--प्रथमयोरित्येतदपि दीर्घत्वं नाप्राप्ते विध्यन्तरे आरभ्यमाणम् अग्नी इत्यादौ यथा बाधते, तथा पररूपमपि बाधिष्यते इति? तत्र, स्वरसन्धिषु गुणयावुत्सर्गौ, वृद्धिः सवर्णदीर्घत्वं पूर्वसवर्णादेशश्च तयोरपवादा इति द्वितीयकक्षाप्राप्ताः, पररूपं तु तृतीयकक्षाप्राप्तमिति तदेव प्राप्नोति। एवं तर्हि योगविभागः करिष्यते--प्रथमयोरिति, अकः सवर्ण इत्येव, तेन वृक्षा इत्यादौ पररूपं बाधित्वा प्रथमयोरकः सवर्णो दीर्घत्वं भविष्यति; यथैव तर्हि योगविभागः पररूपं बाधते, तथा वृक्षमित्यादावमि पूर्वमपि बाधेत, तस्य त्वग्निमित्यादिरवकाशः? नैष दोषः:; `अमि पूर्वः' इत्यत्रामीति योगविभागेन प्राप्तं दीर्घत्वमपि न भवतीत्यर्थः. एवमपि `तस्माच्छसो नः पुंसि' इत्यत्र तच्छब्देनानन्तरो दीर्घः परमृश्यते, एतान् गाश्चरतो बलीवर्द्दान्पस्य इत्यत्र `औतोम्शसोः' इत्येकादेशान्मा भूदिति, ततः किम् ? योगविबागे क्रियमाणे अग्नीन्, वायुनित्यादावेव नत्वं स्यात्, न तु वृक्षानित्यादौ यत्र प्रथमयोरिति योगविभागाद् दीर्घो विधीयते ? अयमप्यदोषः; तस्मादित्यनेनाक्स्थानिको दीर्घः परामृश्यते, नानन्तरः, नापि दीर्घमात्रम्, एतच्चाक इत्यनुवृत्तेर्लभ्यते। मा भूद्वा योगविभागः---प्रथमयोरिति। ननु चोक्तम्--वृक्षा इत्यादौ पररूपप्रसङ्ग इति? नैष दोषः; आचार्यप्रवृत्तिर्ज्ञापयति--न जस्सासोः पररूपं भवतीति, यदयं `नादिचि' इतीज्ग्रहणं करोति; अन्यथा अवर्णान्तस्य नास्त्येव दीर्घप्रसङ्ग इतिक किमिज्ग्रहणेन? केवलोत्तरार्थे हि तस्मिंस्तत्रैव कर्त्तव्यं स्यात्। यद्वा--`दीर्घाच्छसि' इत्येव ब्रूयात्, किमर्थमिदम्? नीयमार्थम्---दीर्घाच्छस्येवेति। तेन जस्शसोर्न भविष्यति।
वृत्तिकारस्तु यथोक्ते परिहारे प्रतिपत्तिगौरवप्रसङागन्यायतः परिहारमाहअतो गुण इति यदकारे पररूपमित्यादि। न्यायं दर्शति--पुरस्तुदिति। इतिकरणो हेतौ ।।
अग्नी इत्यत्रेति। असति हि पूर्वग्रहणे पूर्वसमुदायस्य स्थानिनोऽन्तरतमस्य दीर्घस्याभावादवयवान्तरतमो भवन् पूर्वस्यैवेति नियमकारणाभावात्परसवर्णोऽपि स्यात्, ततस्तन्निवृत्त्यर्थम्। पूर्वग्रहणं तु विप्रतिषेधनिराकरणार्थम्; अन्यथा अग्नी इत्यत्र विप्रतिषिद्धमापद्यते। कथम्? `दीर्घः' इति वर्तते, यदि पूर्वो न दीर्घः, यदि दीर्घो न पूर्वः। ननु दीर्घग्रहणानुवृत्तिसामर्थ्यात् पूर्वशब्देन पूर्वाकृतिर्ग्रहीप्यते ? कथं पुनः सामर्थ्यम्, यावता यत्र पूर्वव्यक्तिर्दीर्घभूता--कुमारीः पश्य, भस्त्राः पश्येत्यादौ तत्रैव यथा स्यात्, अग्नी इत्यादौ मा भूदित्येवमर्था दीर्घानुवृत्तिः स्यात्? यद्येतावत्प्रयोजनं स्याद्-`दीर्घाच्छसि पूर्वोऽमि च' इति ब्रूयात्; यतस्तु वलु प्रथमयोरित्यारभ्यते ततो ज्ञायते--न केवलं कुमारीः पश्येत्यादौ दीर्घस्यैव प्रथमयोरित्यनेन दीर्घो विधित्सितः, किं तर्हि? अग्नी इत्यादावपीति, तच्चाकृतिविवक्षायामुपपद्यते ? सत्यम्; तदेव सवर्णग्रहणेनापि विस्पष्टीक्रियते--त्रिमात्रे स्तानिनि त्रिमात्रादेशनिवृत्त्यर्थमिति। आन्तरतस्यात् त्रिमात्र एव प्राप्नोति। यत्र प्लुताप्लुतप्रसङ्गः स एव `प्लुतश्च विषये स्मृतः' इत्यस्य विषयः, इह तु प्लुतस्यैव प्रसङ्ग इति नायमस्य विषयः ।।
तस्माच्छसो नः पुंसि ।। 6.1.103 ।।
तस्मादित्यनेनान्तरः पूर्वसवर्णदीर्घो निर्द्दिश्यत इत्याह-तस्मात्पूर्वसवर्णदीर्घादिति। उत्तरस्य शशोऽवयवस्येति। उत्तरस्येत्येतच्छसवयवस्य विशेषणम्, तस्मादुत्तरो यः शसोऽवयवस्तस्येति, न तु शशः; असम्भवात्। न हि पूर्वसवर्णदीर्घात् परः क्वचिच्छस् सम्भवति। अन्तादिवद्भावोऽपि न भवति; उभयत आश्रयणात्। अत एवानुपात्तमप्यवयवस्येति लभ्यते। `बहुषु बहुवचनम्' इत्यत्र `त्रिकं प्रातिपदिकार्थः' इत्युक्तम्, तेन `पुसि' इत्येतत्प्रकृतिविशेषणम्--पुंशब्दात् परस्य शसोऽवयवस्येति। यद्येवम्, वृक्षानित्यादिकं पदं नकारान्तमुदाहरणमुपपद्यते। षणुकषण्ढकशब्दाविह लोकप्रसिद्ध्या नपुंसके वर्त्तमानावपि पुंस्तावनुगतमेवार्थमाहतुः, यथा कुमार्यादिषु वर्त्तमानोऽर्थशब्दः, सामान्यविशेषा एव स्त्रीत्वादयो न पुनस्तनादयः। स्त्रीसूत्रे चैतदुपपादितम्। स्थूरकानित्यादि तूदाहरणद्वयमयुक्तम्, कथम्? स्थूरकाया अपत्यानि, अररकाया अपत्यानि `गर्गादिभ्यो यञ्', बहुषु लुक्, स्त्रीप्रत्ययस्यापि `लुक् तद्धितलुकि' इति लुक्, स्थूरक, अररक-इत्येतौ स्त्रीशब्दौ, ताभ्यां परोऽत्र शस् भवति; न तु पुंशब्दाब्यामित्यत आह--सर्व एत इति। न केवलं वृक्षादयः, अपि त्वेतावपीति सर्वशब्दस्यार्थः, लुप्तेऽपि प्रत्यये प्रकृतिरेव तदर्थे वर्त्तते, प्रत्ययार्थश्चात्रायमन्यरूपः। पुंस्त्वविशिष्ट इति। स्त्रीवाचकत्वेन प्रसिद्धावप्येतावस्मिन् प्रयोगे पुंशब्दाविति भावः।
यद्येवम्, चञ्चेव चञ्चाः पुमांस इति `इवे प्रतिकृतौ' इति कनः `लुम्मनुष्ये' इति लुपि कृते प्रकृतिरेव चञ्चाशब्दः पुंस्त्वविशिष्टं प्रत्यार्थमस्मिन् प्रयोग आहेति नत्वप्रसङ्गः? इत्यत आह-इह त्वित्यादि। प्रत्ययार्थोऽपि नैवात्र पुंस्त्वविशिष्टः, किं तर्हि? अतिदेशात् स्त्रीत्वविशिष्ट इत्यर्थः।
तस्मादिति किमिति। प्रकृतस्य दीर्घग्रहणस्य पञ्चम्या विपरिणामात्सिद्धमिति प्रश्नः। एतान् गाः पश्येति। `औतोऽम्शसोः' इत्यात्वमेकादेशः, `एकः पूर्वपरयोः' इति महाप्रकरणम्, ततश्च तद्विषयमेव नत्वं स्यादिति मन्यते। नन्वेवं `षत्वतुकोरसिद्धः' िति च तत्रैव कर्त्तव्यम्--शशो नः पुंसीति, इह तु प्रकरणादनन्तरमेवोपजीविष्यते? तदेव तर्हि तस्माद्ग्रहणेन विस्पष्ट्यते ।।
नादिचि ।। 6.1.104 ।।
खट्वे इति। `औङ आपः' इति औङः शीभावः। कुण्कडे इति। अत्रापि `नपंसकाच्च' इति ।।
दीर्घाज्जसि च ।। 6.1.105 ।।
आदिति नानुवर्तते, चकारेणेचोऽनुकर्षणसामर्थायत्; अन्यथा पूर्वेणैव दीर्गादप्यवर्णादिचि सिद्धः प्रतिषेध इति किं तदनुवृत्त्यर्थेन चकारेण! दीर्घग्रहणं किम्, यावता ऋवर्णस्य `ऋतो ङिसर्वनामस्थानयोः' इति गुणविधानान्नातिप्रसङ्गः ? एवमिदुतोरकपि, `जति च' इति गुणो विधीयते। इह तहि वृक्षाः, अग्नी, वायू; इति ह्रस्वादपि प्रतिषेधः स्यात्? नैष दोषः; `नादिचि' इत्येतन्नियमार्थं भविष्यति, अगृह्यमाणविशेषत्वाच्चोभ्यथानियमः---आदिच्येव, आदेवेचीति। तत्राद्येन नियमेन वृक्षा इत्यादि सिद्धम्; द्वितीयेनाग्नी, वायू इत्यादि। यथैव तर्ह्यग्नी, वायू हत्यादौ निषेधौ न भवति; एवं कुमार्थौ, वध्वावित्यादावपि न स्यात्, तस्माद् दीर्घादिति वक्तव्यम्। जस्ग्रहणं शस्निवृत्त्यर्थम्, अन्यथा कुमारीः पश्य, वधूः पश्येत्यादौ शस्यापि प्रतिषेधः स्यात्। ज्ञापकान्न भविष्यति, यदयम्, `तस्माच्छसो नः पुंसि' इति पुंग्रहणं करोति, तज्ज्ञापयति--न शसि प्रतिषेधो भवतीति; तद्धि नपुंसके सवर्णदीर्घत्वासम्भवात् स्त्रीनिवृत्त्यर्थं कृतम्, यदि च स्त्रियामप्ययं कुमारीः पश्येत्यादौ शस्यपि प्रतिषेधः सयात्तदा पूर्वसवर्णदीर्घ त्वाभावादेव तत्वं न भविष्यति, किं पुंग्रहणेन? नैतदस्ति ज्ञापकम्; ह्रस्वान्तं यत् स्त्रीलिङ्गं तदर्थमेतत् स्यात्--कृतीः पश्य, धेनूः पश्येति। तस्मात् `जासि च' इत्येतदपि वक्तव्यमेव।
वा छन्दसि ।। 6.1.106 ।।
मारुतीरिति। मरुतो देवता आसामिति `सास्य देवता' इत्यण्, ङीप्, जसि पूर्वसवर्णदीर्घत्वम्। वाराहीति। वराहस्य विकार इति `अवयवे च प्राण्योषधिवृक्षेभ्यः' इति `प्राणिरजतादिभ्योऽञ्', ङीप्, द्विवंचने पूर्वसवर्णदीर्घः। उपानहौ विशेष्ये ।।
अमि पूर्वः ।। 6.1.107 ।।
`दूर्घात्' इति नानुर्क्त्तते, आरम्भसामर्थ्यात्।
पूर्वग्रहणमित्यादि। यः पूर्वः श्रुतः, स एव यथा स्यात्, कः पुनरन्यः प्राप्नोति ? तत्राह--पूर्वसवर्णो दीर्घो मा भूदिति। क्वचित्तु समासः पठ्यते, स कर्मधारयो द्रष्टव्य। एतदुक्तं भवति--असतीह पूर्वह्रहणे प्रकृतं पूर्वग्रहणमनुवर्त्यम्, तस्मिंश्चानुवर्त्तमाने तत्सम्बद्धं सवर्णग्रहणमप्यनुवर्त्यम्, ततश्च पूर्वस्य यः सवर्णः स एवान्तरतमः प्रसज्येत, तत्र को दोषः ? न तावद्वृक्षमित्यातदौ द्विमात्रस्य स्थानित्वेन द्विमात्रप्रसह्गः, वचनसामर्थ्यात् `प्रथयोः पूर्वसवर्णः' इत्येव दीर्घस्य सिद्धत्वात् ? अत आह--कुमारीमित्यत्रेति।
वा छन्दसीत्येवेति। एतच्च वाक्यभेदेन सम्बद्ध्यते, अन्यथा भाषायां न स्यात्। शम्यं चेति। विकल्पविदानसामर्थ्यात्पूर्वत्वाभावे पूर्वसवर्णदीर्घोऽपि न भवति, तयोरत्र विशेषाभावादिति यणादेश एव भवति ।।
सम्प्रसारणाच्च ।। 6.1.108 ।।
सम्प्रसारणविधानसामर्थ्यादिति। कथं पुनः सामर्थ्यम्, यावता संहितायां यण् विधीयते, असंहितायां संप्रसारणं चरितार्थम् ? नैत दस्ति; `संहितैकपदे नित्या' इति वचनात्।
वा छन्दसीत्येवेति। पूर्ववद्वाक्यभेदेन सम्बन्धः। यज्यमान इति। नन्विदानी मेवोक्तम्--विगृहीतस्य श्रवणं प्राप्नोति, तत्कथमत्र यणादेशः ? अत आह-पूर्वत्वविधाने हीति। सत्यम्, अनारब्धे पूर्वत्वे विगृहीतश्रवणं प्राप्नोति, सम्प्रसारणविधानं व्यर्थं मा भूदिति, पूर्वत्वविधाने हि सति तत्प्रतिपत्तिविषये अर्थवत्सम्प्रसारणमिति पूर्वत्वाभावपक्षे यणादेशे भवत्येव, `सम्प्रसारणपूर्वत्वे समानाङ्गग्रहणम्', यस्मिन्नङ्गे संप्रसारणमवस्थितं तदन्तर्भूतो योऽच् तेनैव सह यथा स्यात्, इह मा भूत्--शकह्वौ, शकह्वर्थमिति, शकान् ह्वयतीति क्विपि यज्ञादित्वात्सम्प्रसारणम्, योऽन्त्यो धातोराकारः तस्मिन्नेवाङ्गेऽन्तर्भवति तस्य तावत् पूर्वत्वम्, विभक्त्योकारोऽर्थशब्दाकारश्च न तस्मिन्नङ्गेऽन्तर्भवत इति तयोः पूर्वत्वं न भवति। अत्र परिहारः--यणः स्थाने य इक् स संप्रसारणम्, एकादेशस्तु न यण्स्तानिकः, वर्णाश्रयत्वाच्चान्तादिवद्भावोऽपि नास्ति, एवं पूर्वत्वमेव तावन्न सम्प्रसारणम्, किं पुनः, तत्स्थानिक ऊकार िति पूर्वैकादेशाभावः। सम्प्रसारणदीर्घत्वे तु वचनसामर्थ्यादेकादेशस्य पूर्वं प्रत्यन्तवद्भावात् सम्प्रसारणव्यपदेशः। वृत्तिकारस्तु सम्प्रसारणत्वमभ्युपेत्य परिहारान्तरमाह--अन्तरङ्गे चेति ।
देशतो विप्रकर्षोऽत्र बाह्यत्वेनोपवर्णितः।
कालतो विप्रकर्षस्तु पश्चादुपनिपाततः ।।
धातावनन्तर्भावकृतं बाह्यत्वम्, पश्चादुपनिपातस्तु स्पष्ट एव ।।
ङसिङसोश्च ।। 6.1.120 ।।
एङ उत्तरयोरिति। एङ उत्तरौ यौ ङसिङसौ, तयोर्यः सम्बन्धयकारः, तस्मिन् परत इत्यर्थः। अग्नेरागच्छति, अग्नेः स्वमिति। यद्यपि द्वावेङौ, ङसिङसावपि द्वावेव; तथापि यतासङ्ख्यं न भवति, न ह्यत्र ङसिङसोः काय विधीयते, किं तर्हि? तत्सम्बन्धिन्यति; स चैक एव। अथापि सम्बन्धिभेदेन तस्य भेदः स्यात् ? एवमपि न दोषः; `ईदग्नेः सोमवरुणयोः', `धातोः' इत्यादिनिर्देशात् ।।
ऋत उत् ।। 6.1.121 ।।
द्वयोः षष्टीनिर्द्दिष्टयोरित्यादि। न्यायप्राप्तिप्रदर्शनमेतत्, न पुनापरत्वेऽक्रियमाणे किञ्चिदनिष्टम् `ऋतः' इति तपरकरणं दीर्घनिवृत्त्यर्थम्, `उन्न्योर्ग्रहः' `प्रेस्त्रोऽयज्ञे' इत्यादौ न भवति। `उच्' इत्यपि तपरकरणं दीर्घनिवृत्त्यर्थमेव, आन्तर्यतो हि द्विमात्रस्य द्विमात्र एव प्राप्नोति। ननु `भाव्यमानोऽण्सवर्णान्न गृह्णाति' इति ? एवं तर्ह्येज्ज्ञापयति-`भाव्यमानोऽप्युकारः सवर्णान् गृह्णाति' इति, तेनामूभ्यामित्यत्र `अदसोसेर्दादु दो मः' इति दीर्घस्य दीर्घ ऊकारो भवति। इह गम्लृप्रभृतिभ्यो ङसिङसोः कृतयोः ऋकरलुकारयोः सवर्णसंज्ञाविदानादस्मिन्नुत्वे लपरत्वे च कृते संयोगान्तलोपे गमुलिति रूपं भवति ।।
ख्यत्यात् परस्य ।। 6.1.122 ।।
खिशब्दशीशब्दयोरित्यादि। यणादेशे कृते तुल्यरूपत्वाद् द्वयोरपि ग्रहणम्। एतदर्थमेवागन्तुकेनाकारेण यणादेशं कृत्वा विकृतनिर्द्देशः कृतः; अन्यथा खित्योरिति ह्रस्वयोर्गहणे दीर्घयोर्न स्यात्, दीर्घयोर्गहणे ह्रस्वयोर्नस्यात्। विकृतनिर्द्देशे तु द्वयोरपि भवति। अकारान्तयोस्तु मुख्यापत्यादिवर्त्तिनोर्ग्रहणं न भवति, `सख्युर्यः' `पत्युर्नो' `आपत्यस्य च' इत्यादिर्निर्द्देशात्।
सखीयतेः क्विप् सखीरिति। ननु चाल्लोपस्य स्थानिवद्भावद्याणा भाव्यम्, तत्र कृते यलोपे स्थानिवत्त्वनिषेधादादिष्टदचः पूर्वत्वाच्च पूनः स्थानिवत्त्वाभावात् `लोपो व्योर्वलि' इति यलोपे सश्युरित्यादि न सिद्ध्यति ? नैतदस्ति; `क्वौ लुप्तं न स्यानिवत्' इति स्थानिवत्त्वनिषेधात्।
विकृतनिर्द्देशश्य प्रयोजनान्तरमप्याह--विकृतनिर्देशादिति। अतिसखेरिति। अतिक्रान्तः सखा येनेति बहुव्रीहिः। यद्वा--शोभनः सखा अतिसखा, `न पूजनात्' इति समासान्तनिषेधः। अथ स एव यणादेशोऽत्र कस्मान्न भवति, `घेङिति' इति गुणेन बाधितत्वादिति चेत्? न; `शेषो घ्यसखि' इति घिसंज्ञाप्रतिषेधादित्यत आह--सखिशब्दस्य केवलस्यैव हीति। एतच्च तत्रैव प्रतिपादितम् ।।
अतो रोरप्लुतादप्लुते ।। 6.1.123 ।।
उकारानुबन्धकस्येति। यदि रुशब्दसमुदायः स्थानी स्याद्, अगुर्वर्थम्, तर्वर्थमित्यादावपि प्रसज्येत। `ससजुषो रुः' इत्यत्र चोकारस्यानुनासिकत्वप्रतिज्ञयाऽनुबन्धकरणमनर्थकं स्यात्, तद्ध्यत्रैव सूत्रे विशेषणार्थं क्रियते। रुत्वमपीति। अपिशब्दः पुनः शब्दस्यार्थे। यदि पुना रुत्वमसिद्धं स्यात्, स्थानित्वेनाश्रयणमनुपपन्नं स्यात्; उकारानुबन्धकस्य कस्यचिद्रोरभावात्।
तस्यापीति। निमित्तबूतस्यापीत्यर्थः। सुस्रोता3 अत्र न्वसीति। `दूराद्धूते च, इति प्लुतः, नुशब्दः प्रश्ने। अश्विन् आत्रेति। अश्वशब्दान्मत्वर्थीय इनिः, सम्बुद्ध्यन्तं चैतत्, `गुरोरनृतः' इति प्लुतः, हे अश्विन् अत्रैव प्रदेशे पयस्तिष्ठत्वित्यर्थः। प्रायेण तु तकारान्तं पठ्यते, तत्राश्विच्छन्दस्य व्युत्पत्तिर्मृग्या। ननु तपरकरणादेव प्लुतात्परस्य प्लुते वा परतो न भविष्यति, यथा दीर्घे ? तत्राह--प्लुतस्यासिद्धत्वादिति। ननु च सिद्धः प्लुतः स्वरसन्धिषु यदयं `प्लुतप्रगृह्या अचि' इति प्रकृतिभावं शास्ति, यस्य हि विकारः प्राप्नोति तस्य प्रकृतिभावो विधातव्यः, न च प्लुतस्यासिद्धत्वे प्लुतस्य सतो विकारप्राप्तिरित्यनर्थकं तत् स्यात्? अस्तु स्वरसन्धिषु प्लतः सिद्धः, रोरुत्वं तु स्वरसन्धिर्न भवति।
यदि तु संहिताधिकारे यद्विधीयते तन्मात्रविषयं ज्ञापकमाश्रीयते शक्यमकर्त्तम्--`अप्लुतादप्लुते' इति ।।
इशि च ।। 6.1.124 ।।
अप्लुतादित्येव--सुस्रोता3 देहीति। चकारोऽतीत्यस्यानुकर्षणार्थः, तेनोत्तरत्र तस्यैवानुवृत्तिर्भवति, न हशीत्यस्य, नहि तदनुकर्षणस्यान्यत्प्रयोजनमस्ति ।।
प्रकृत्यान्तःपादमव्यपरे ।। 6.1.125 ।।
अतीत्येवेति। न तु हशीति। अत्र हेतुः पूर्वमेवोक्तः। एङ इति यत् पञ्चम्यन्तमित्यादि। `एङः' इति तावद् व्यवहितमप्यनुवर्त्तते, न त्वनन्तरमपि रोरित, अत्र च व्याख्यानमेव शरणम्; तेनाव्यपरे हशि परतो रु प्रकृत्या भवतीत्यर्थो न भवति। तदर्थादिति। नहि पञ्चम्यन्तस्य `प्रकृत्या' इत्यनेन सम्बन्धः सम्भवति। प्रकृतिरित्यादि। उभत्रापि प्रकृतिशब्दो दृष्टः--दुस्त्यजा प्रकृतिः, दध्नः क्षीरं प्रकृतिरिति। अन्तरित्यव्ययमित्यादि। तेन मध्यवाचिनान्तः--शब्देनोपजनिते व्यतिरेके पादशब्दात्षष्ठी, तदन्तेन सहाव्ययीभावः। ऋक्पादस्यैव ग्रहणमिष्यत इति। इष्टिरेवैषा ।
अन्ये तु `वा छन्दसि' इत्यतो मण्डूकप्लुत्या `छन्दसि' इत्यनुवर्त्तयन्ति। एवमवयवार्थं दर्शयित्वा समुदायार्थं दर्शयति--अवकारयकारपर इत्यादिना। स्वभावेनावतिष्ठत इति। यदा प्रकृतिशब्दः स्वभावे वर्त्तते तदायमर्थः--स्वभावपरित्यागेन न संहिताकार्यमापद्यत इत्यर्थः। यदा तु कारणे वर्त्तते तदायमर्थः--एङ्कारणात्मना भवतीति। कारणं परपूर्वत्वादेः कार्यस्यैङ्, तस्यात्मा= स्वरूपम्, तेनैव भवति। प्राक संहिताकार्यादेङो यद्रूपं तेनैवावतिष्ठत इत्यर्थः। अनन्तरोक्तमेवार्थद्वयं विस्पष्टीकरोति--
इति। एवं हि स्वभावेन भवति, यदि स्वभावादन्यथालक्षणां
प्राप्नोति; तथा एवङ्कारणात्मना भवति, यदि विकाररूपं नापद्यते, यदि कार्यात्मना न विपरिणमतीत्यर्थः। तौ चेदिति। निमित्तम्=अकारः, कार्यम्=एङ्। उदाहरणेषु `एङः पदान्तादति' इति पूर्वत्वस्यायवादेश्च यथायोगमभावः ।
एतेऽर्चयन्तीति। अत्रैतत्पदान्ते वर्त्तते, अर्चयन्तीत्यकारश्च परस्य पादस्यादौ।
केचिदिति। यदि `नान्तः पादम्' इति पठन्ति, एवं सति पूर्वत्वस्यैवानन्तरस्य प्रतिषेधः प्राप्नोति, नायवोर्व्यवहितयोः ? इत्यत आह-संहितायामिति। `संहितायाम्' इत्येतावदेवात्रापेक्ष्यतचे, न तु पूर्वरूपत्वम्; तेनैङः संहिताधिकारे यदुक्तं तन्न भवतीत्यर्थः। तेनैतदपि न चोदनीयम्--अनारब्धेऽस्मिन् प्रतिषेधेऽयवोः प्राप्तिर्नास्ति, पूर्वत्वेन बाधितत्वात्, अनेन तु प्रतिषेधेन पूर्वत्वे बाधिते तयोरुद्भवः स्यात्, तस्यां दशायामस्य व्यापारो नास्ति, आत्माश्रयदोषप्रसह्गादिति। कथमेतच्योद्यं परिहृतम् ? यदि पूर्वत्वस्यैवायं प्रतिषेधः स्यात्ततस्तदेवापेक्ष्य प्रतिषेधयेत्, यतस्तु खलु संहितायामित्यपेक्ष्य सामान्येन प्रतिषेधति तस्यैतत्प्रयोजनम्--स्वप्रवृत्त्युत्तरकालमुद्भवतोरयवोरपि प्रतिषेधो यथा स्यादिति। अत्र च `पदान्ताद्' इत्यनुवर्त्यम्, अन्यथा अग्नेरहं सुहुवस्य प्रणीतौ, वायोरिव सूनृतानामुदर्क्क इत्यादौ `ङसिङ्सोश्च' इति यत्पूर्वरूपम्, तस्यापि प्रकृतिभावप्रतिषेधौ प्राप्नुतः ।।
अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च ।। 6.1.116 ।।
अव्यादीनामनुकरणत्वात्समासो विभक्तिश्च। अव्यादिति। अवेराशिषि लिङ्। अवद्यादिति। पञ्चम्येकवचनान्तम्। अवक्रमुरिति। अवपूर्वस्य क्रमेर्लिट्युसि `दिर्वचनप्रकरणे छन्दसि वा वक्तव्यम्' इति द्विर्वचनाभावे रूपम्। केचित्तु सूत्रे अवचक्रमुरिति कृतद्विर्वचनं वठन्ति, तेषामुदाहरणं मृग्यम्; बह्वृचस्तावद्--अवक्रमुरित्यधीयते। अव्रतेति। वृङ्वृञोः `मन्त्रे घस' इत्यादिना च्लेर्लुक्, `आत्मनेपदेप्वनतः' इति अदादेशः। अयमिति। इदम्-शब्दात् सुः, `इदोऽय् पुंसि'। अवतेर्लोट्, अवन्तु, तस्मादेवासुनन्तात् क्यच्, `क्याच्छन्दसि' इत्युप्रत्ययः-- अवस्युः। तेनोवन्तु पितरो हवेष्विति बह्वृचाः पूर्वरूपमेवाधीयते। अधिब्रुवन्तुं तेऽवन्त्वस्मानिति ।।
आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिकेपूर्वे।। 6.1.118 ।।
आपो इत्यादीनि पृथक् पदानि अनुकरणानि, विभक्तिस्त्वनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वान्न भवति। `सुपां सुलुक्' इति वा विभक्तेर्लुग् भवति, अम्बिकेपूर्व इत्येतदप्यनुकरणमेव। तत्र प्रथमं जसन्तम्, द्वितीयं स्वन्तम्, तृतीयं शसन्तम्, चतुर्थं ङयन्तम्, इतरे सम्बुद्ध्यन्ते। अम्बिकेशब्दात्पूर्वाविति। अस्मादेव निपातनात्पञ्चमीसमासः। अस्मादेव निपातनादिति। अम्बेत्येतद्विषयमेतत्। इतरयोस्तु `अम्बार्थं द्व्यक्षरम्' इति वक्ष्यमाणत्वान्नैव ह्रस्वप्रसङ्गः ।।
अङ्ग इत्यादौ च ।। 6.1.119 ।।
अङ्गशब्दे य एङिति। `स प्रकृत्या भवति' इति वक्ष्यमाणेन सम्बन्धः. तदातौ चाकारे यः पूर्व इति। `एङ्' इत्यपेक्ष्यते, पूर्ववच्च सम्बन्धः। तच्छब्देनातिक्रान्तप्रत्यवमर्शिनेतिशब्दस्यार्थमाचष्टे, तस्याङ्गशब्दस्यादिस्तदादिः। चकार किमर्थः, असति चकारेऽङ्गशब्दस्यैवैङ् तदादावति परतः प्रकृत्या भवतीत्यर्थः स्यात्, ततश्चाङ्गेऽङ्गे इत्यत्रैव स्यात्। सति तु तस्मिन्नङ्गशब्दस्य एवैङ् यत्र क्वचिदति परतः प्रकृत्या भवति, तदादौ चाति परतो यः कश्चिदेङ् प्रकृत्या भवतीत्ययमर्थो भवति। तेन अङ्गे अदीध्यत्, प्राणो अङ्गे-- इत्युभयत्रापि भवति ।।
अनुदात्ते च कुधपरे ।। 6.1.120 ।।
कवर्गधकारपरे इति। कवर्गधकारौ परौ यस्मात्स तथोक्तः। धकारेऽकार उच्चारणार्थः। अग्निशब्दः `अङ्गेनिर्नलोश्च' इति निप्रत्ययान्तोऽन्तोऽदात्तः अध्वरशब्दः प्रातिपदिकस्वरेयणान्तोदात्तः।
आद्युदात्तो निपात्यत इति। `ऋन्नेन्द्राग्र' इत्यादावुणादिसूत्रे अग्रशब्दः प्रातिपदिकस्वरेणान्तोदात्तः ।।
सर्वत्र विभाषा गोः ।। 6.1.122 ।।
सर्वत्र च्छन्दसि भाषायां चेति। यद्यपि `छन्दसि' इति न प्रकृतम्, तथापि `अन्तः पादं यजुषि' इति वचनात् अवक्रमुः, अव्रतावस्युरिति छान्दसानुकरणाच्च छान्दसानि पूर्वसूत्राणीति भावः। सर्वत्रग्रहणं तु यजुषि, अन्यत्र चेत्यप्युपपन्तम्। पदान्तादित्येव--गोरागतं गोः स्वम् ।।
अवङ् स्फोटायनस्य ।। 6.1.123 ।।
स्फोटोऽयनं परायणं यस्य स स्फोटायनः=स्पोटप्रतिपादनपरो वैयाकरणाचार्यः। ये त्वौकारं पठन्ति, ते नडादिष्वश्वादिषु वा पाठं मन्यन्ते। अतीति निवृत्तमिति। अन्यथा गवौदनादौ न स्यात्। न चैवं सत्यतिप्रसङ्गः ? इत्याह---अचीत्येतत्त्विति। सर्वत्र चात्र व्याख्यानमेव शरणम्। यद्यचीत्यनुवर्त्तते कथम् `इको यणिचि' इत्यत्रौक्तम्--``अचीति चाधिकारः `सम्प्रसारणाच्च' इति यावत् इति ? निरन्तरानुवृत्त्यभिप्रायं तदित्यदोषः। गवाग्रम्, गवाजिनमिति। बहुव्रीहिः, तत्पुरुषो वा। गवोष्ट्रमिति। द्वन्द्वः, गोरग्वचनम् गोरग्वक्तव्यः, तत्रापि अवादेशेन सिद्ध्यत्येव। न च `एङः पदान्तात्' इति पूर्वत्वप्रसङ्गः; अगागमस्य तद्ग्रहणेन ग्रहणादोकारस्यापदान्तत्वात्। किं प्रयोजनम्? लाघवं तावद्भवति, स्वरे च न दोषः।
कथमागमा अनुदात्ताः ? तत्र गवाग्रादौ बहुव्रीहौ पूर्वपदप्रकृतिस्वरेणागमानुदात्तत्वं सम्भवति, अवङादेशे त्वान्तर्यतोऽन्तोदात्तस्यान्तोदात्तोऽवङादेशः स्यात्। ननु चास्यैकाचः सतो व्यपदेशिवद्भावेनान्तोदात्तत्वमेष्टव्यम्, तत एवाद्युदात्तत्वमपि भविष्यति, ततः किमाद्युदात्तस्याद्युदात्त आदेशो भविष्यति ? सत्यमेवमेतत्; न त्विदं लक्षणमस्ति--प्रातिपदिकस्यादिरुदात्तो भवतीति, इदं पुनरस्ति--प्रातिपदिकस्यान्त उदात्तो भवतीति। योऽसौ लक्षणेनान्तोदात्तः, तत्रान्तर्यतोऽन्तोदात्त आदेशः प्राप्नोति। ननु गमेर्डो विधीयते? ततः किम्, प्रत्ययाद्युदात्तत्वे कृते आन्तर्यत आद्युदात्त आदेशो भविष्यति। कथं पुनरयमाद्युदात्तः, यावता एकाच् व्यपदेशिवद्बावेन? यद्येवम्, तत एवान्तोदात्तोऽपि, तत्रान्तर्यतोऽन्तोदात्तस्यान्तोदात्तोऽवङादेशः प्रसज्यते ? सत्यम्; नन्विड़ं लक्षणमस्ति--प्रत्ययस्यान्तोदात्तो भवतीति, इदं पुनरस्ति--प्रत्ययस्यादिरुदात्तो भवतीति। योऽसौ लक्षणेनाद्युदात्तस्तत्रान्तर्यत आद्युदात्त आदेशो भविष्यति। स्यादेवं यदि `आद्यन्तवदेकस्मिन्' इति शास्त्रातिदेशः स्यात्। यदा त्वनेन कार्यमात्रमुदात्तत्वम्, अन्तत्वे असत्येवादित्वे चातिदिश्यते तदौकारस्यैवादित्वव्यपदेशाभावात् कुतस्तदादेशस्याद्युदात्तत्वम्! ततश्च पर्यायेण त्वनियतदेशमाद्युदात्तत्वं स्यादिति पक्षे दोषप्रसङ्गः । तत्र सूत्रकारेण तावल्लाघवमनादृत्यावङ्गादेशः कृतः। तत्र यथा स्वरे दोषो न भवति, तथा दर्शयति--आद्युदात्तोऽवङादेशो निपात्यत इति। एकश्रुत्या सूत्रपाठे यदत्र यत्नेनाद्युदात्तोच्चारणं तदन्तोदात्तत्वबाधनार्थं विज्ञायते, अन्यत्र समासान्तोदात्तत्वेन वाध्यत इति। एतच्च भाष्ये `उपदेशिवद्भावो वक्तव्यः' इति वचनेन लभ्यते, अन्यथा परत्वात् पूर्वं समासान्तोदात्तत्वे कृते अवङि अवङ्स्वर एव सतिशिष्टत्वात् स्यात्। उपदेशिवद्भावे तु पूर्वमवङि कृते पश्चात् समास इति सतिशिष्टत्वात् समासस्वर एव भवति। पदान्तादित्येव--गवो, गवोः, गवाम्, गवि ।।
इन्द्रे च ।। 6.1.124 ।।
अत्र यदि `अचि' इति विसेषणम्, इन्द्रशब्दो विशेष्यम्, तदाऽजादौ इन्द्रशब्द इत्यर्थः स्यात्। ततश्च गवेन्द्रयज्ञ इत्यादौ न स्यात्, अनुत्तरपदत्वात्। यद्यप्यत्रोत्तरपदग्रहणं नास्ति, तथाप्यर्थात्समास एतद्विधानम्, न ह्यन्यत्र गोरनन्तर इन्द्रशब्दः सम्भवति। समासे च विधानमर्थादुत्तरपद एव स्यात्--ष्यङः सम्प्रसारणवत्, तस्मादज्विशेष्यम्, इन्द्रशब्दो विशेषणम्, अचि परतः कस्मिन्निन्द्रे यः स्थितस्तस्मिन्निति, तदिदमुक्तम्--इन्द्रशब्दस्थेऽचीति ।।
प्लुतप्रगृह्या अचि नित्यम् ।। 6.1.125 ।।
ननु यस्य विकारः प्राप्तस्तस्य प्रकृतिभावो विधेयः, न च प्लुतस्य विकारः प्राप्तः, स्वरसन्धिषु तस्यासिद्धत्वात्? इत्यत आश्रयात्प्लुतः सिद्धः इति। यदिदं प्लुतस्य प्रकृतिभावं प्रति कायित्वेनाश्रयणम्, आह--अस्मादेव ज्ञापकात् `स्वरसन्धिषु प्लुतः सिद्धः' इति कल्प्यत इत्यर्थः।
आदेशनिमित्तस्याचः परिग्रहार्थमिति। यस्मिन्नादेशो विधीयते स एव प्रकृतिभावस्यापि निमित्तत्वेन परिगृहीतो यथा स्यादित्येवमर्थमित्यर्थः। जानु उ अस्येति। उञ् निपातः, तस्य पूर्वेण सहैकादेशस्य यन्निमित्तं न सप्रगृह्यादुत्तरः, यश्च ततः परो न स एकादेशस्य निमित्तमिति प्रकृतिभावाभावादेकादेशो भवत्येव। असति पुनरज्ग्रहणे `प्रगृह्योऽचि परतः प्रकृत्या भवति' इत्युच्यमाने पूर्वेणसह यो विकारः प्राप्तस्तस्यापि प्रकृतिभावः स्यात्। पुनरज्ग्रहणे तु न भवति, तत्रैकादेशे कृते तस्यादिवद्भावात्प्रगृह्यग्रहणेन ग्रहणात्। `इको यणचि' इति यणादेशः प्रकृतिवद्भावान्न भवति, `मय उञो वो वा' इति पक्षे वकारः।
नित्यग्रहणमनुवर्त्तत इति। पूर्वसूत्रे नित्यग्रहणमेतदर्खमेव कृतम्, तत्र त्वारन्भसामर्थ्यादेव नित्यो विधिः सिद्धः। नित्यमेव प्रकृतिभावो यथा स्यादिति। अयमेव प्रकृतिभावो नित्यं यथा स्यात्, शास्त्रान्तरेण कार्यान्तरसहितो मा भूदित्यर्थः ।।
आङोऽनुनासिकश्छन्दसि ।। 6.1.126 ।।
तेनेह न भवतीति। अनर्थकस्यैवाकारस्य भवति, अभ्र आँ अप इत्यादौ सप्तम्यैव तदर्शस्योक्तत्वात्तदर्यवृत्तिराङ्नर्थकः; अनुर्थान्तरवाचित्वात्। आतरदित्यत्र तु क्रियाविशेषणत्वादर्थवान्।
कथं पुनरनर्थकस्य ङित्त्वम्, यावता---
`ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः।
एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित्' ।। इत्युक्तम् ?
सत्यम्; `वाक्यस्मरणयोरङित्' इत्यत्रैव तात्पर्यम्, अन्यत्र सर्वत्र आङ् ङिद्वेदितव्यः--एवं तावद्भाष्ये स्थितम् ।।
इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च ।। 6.1.127 ।।
किमर्थश्चकारः, प्रकृत्येत्येतदनुकृष्यतेऽनेन ? ननु च ह्रस्वविधानसामर्थ्यादेव स्वरसन्धिर्न भविष्यति ? भवेद्दीर्घाणां ह्रस्ववचनसामर्थ्यादेव स्वरसन्धिर्न स्यादिति ह्रस्वानां तु प्राप्नोति। न हि ह्रस्वानां ह्रस्वो भवति; प्रयोजनाभावात्। अस्ति प्रयोजनम्--स्वरसन्धिर्मा भूदिति? इदं तर्हि प्रयोजनम्---प्रकृतिभावमात्रं क्वचिद्यथा स्यादिति, तेनेषा अक्षादिषु च्छन्दसि प्रकृतिभावमात्रं सिद्धं भवति।
शाकल्यग्रहणं पूजार्थमिति। अथ विकल्पार्थं कस्मान्न भवति? इत्याह--आरम्भसामर्थ्यादेवेति। सवर्णेऽचि दीर्घविधानाद्यणादेशस्यासवर्ण एवाज्विषयः, अस्यापि विधेः स एव विषयः, ततश्च विषयैक्यादेव विकल्पे सिद्धे न तदर्थक माचार्यग्रहणम् ।
सिन्नित्यसमासयोरिति। नित्याधिकारविहितोऽस्वपदविग्रहश्च समासो नित्यसमासः, एकापि सप्तमी विषयभेदाद्भिद्यते, सिति परतो नित्यसमासे च विषय इति, शाक्ल्यस्यायां विधिः शाकलः, `कण्वादिभ्यो गोत्रे' इत्यण्। ऋत्विय इति। ऋतुरस्य प्राप्त इति `ऋतोरण्', `छन्दसि घस्'। व्याकरणमिति। `कुगतिप्रादय' इति समासः, तत्र `नित्यम्' इत्यनुवर्त्तते। कुमार्यथमिति। कुमार्यै इदं कुमार्यर्थम्, अस्वपदविग्रहोऽयं नित्यसमासः ।।
ऋत्यकः ।। 6.1.128 ।।
सवर्णर्थमनिगर्थं च वचनमिति। होतृ ऋश्यः, खट्व ऋश्य इत्यादौ; इन्यत्र पूर्वेणैव सिद्धत्वात् ।।
अप्लुतवदुपस्थिते ।। 6.1.129 ।।
ऋषिः=वेदः तत्र भव आर्षः, ततोऽन्योनार्षः, समुदायाद्वाक्यादवच्छिद्य पृथककृत्य स्वरूपेऽवस्थाप्यते। कैः? पदकारैः. पदस्येयत्तापरिज्ञानाय अप्लुतेन तुल्यं वर्त्तत इत्यप्लुतवत्। तत्र येन साधर्म्येणाप्लुतवत्त्वम्, तद्दर्शयति--अप्लुतकार्यमिति। तत्रापि प्लुतशब्देन विहितस्य कार्यस्य प्रतिषेध इति दर्शयति--प्रकृतिभावं करोतीति। अन्यथा स्वरसन्धेरपि प्रतिषेधः स्यात्, तस्यापि प्लुकार्यत्वात्। उदाहरणेषु प्लुतकार्यपब्रतिषेधादेकादेशो भवत् प्लुतमेवोपमृद्य भवति; स्वरसन्धिप्रकरणे प्लुतस्य सिद्वत्वात्।
तत्र को दोष इति। एकादेशेन निवर्त्त्यमानत्वात् प्लुतस्य श्रवणेन न भवितव्यमिति प्लुत एव निषिध्यताम्, किमर्थमतिदेशाश्रयणमिति प्रशनः। अग्नी3 इतीति। यत्र प्लुताश्रयोऽपि प्रकृतिभावः प्राप्नोति, प्रगृह्याश्रयोऽपि; तत्र प्लुताश्रयस्य प्रतिषेधेऽपि प्रगृह्याश्रयस्य प्रकृतिभावस्य प्रतिषेधाभावात् प्लुतस्य श्रवणं सिद्ध्यति, प्लतप्रतिषेधे तु क्रियमाणेऽत्रापि श्रवणं न स्यात् ।।
ई3 चाक्रवर्मणस्य।। 6.1.130 ।।
सूत्रे ई चेति त्रिमात्रिकस्य निर्द्देशः। अचि परत इति। उपस्थितग्रहणं चास्वरितत्वान्निवृत्तम्। अस्तु ही3 इत्यब्रूतामिति। `विभाषा पृष्टप्रतिवचने हेः' इति प्लतः, अस्तेर्लोटि तिप्, `एरुः'।
तदुपस्थिते निवृत्त्यर्थमिति। तत्र पूर्वेणाप्लुतवद्भावस्य नित्यप्राप्तत्वात्, अनुपस्थिते प्राप्त्यर्थमिति, तत्र केनचिदप्राप्तत्वात्।
ईकारादन्यत्रापीति। तथा च भाष्यम्--`ईकारग्रहणेन नार्थः' इत्यादि ।।
दिव उत् ।। 6.1.131 ।।
पदग्रहणमनुवर्त्तत इति। अन्तग्रहणेनोपसमस्तमपि केवलं पदग्रहणमेवानुवर्त्तते, ततश्चार्थात् षष्ठ्यन्तं जायते, दिवशब्देन विशेषणात्तदन्तविधिः, `ग्रहणवता प्रातिपदिकेन' इति तु प्रत्ययविधिविषयम्। व्यपदेशिवद्भावात् केवलस्यापि भवितव्यम्, `व्यपदेशिवद्भावोऽप्रातिपदिकेन' इत्येतदपि प्रत्ययविधिविषयमेव। सानुबन्धकत्वादिति। दीव्यतेर्धातोरुकारोऽनुबन्धः, प्रातिपदिकस्य तु न कश्चिदनुबन्धः. दिवः पदस्येति। तदन्तस्य पदस्येत्यर्थः. द्युकाम इति। दिवं कामयते इति `शीलिकामिभिक्षाचरिभ्यो णः' विमलद्यु इति। विमला द्यौरऽस्मिन्निति बहुव्रीहिः। अक्षद्युभ्यामिति। अक्षशब्द उपपदे दीव्यतेः क्विप्, तत्र `च्छ्वोः शूडनासिते च' इत्यूठ्।
अथ तपरकरणं किमर्थम्, यद्यपि `ऋत उत्' इति तपरकरणेन ज्ञापितम्--`भाव्यमानोऽप्युकारः सवर्णान् गृह्णाति' इति, तथाप्यान्तर्थतोऽर्द्धमात्राकालस्य व्यञ्जनस्य मात्रिक एव भविष्यति? इत्यत आह--तपरकरणमिति। यद्यप्यनेन दीर्घो न प्राप्नेति, प्राप्नोति, लक्षणान्तरेण तु प्राप्तोतीत्याह--द्युभ्याम्, द्युभिरिति। उत्वस्यावकाशो यत्रायजादिपरः--विमलद्यु, ऊठोऽवकाशः--द्यूत्वा, द्यूतम्; यत्र तूभयोः प्रसङ्गस्तत्र परत्वादूठ प्राप्नोति, तपरकरणादुत्वमेव भवति। यदि प्राप्तस्योठो निवृत्त्यर्थं तपरकरणमित्युच्यते एवं तर्हि `चछ्वोः शूडनुनासिते च' इत्यत्र `कथं द्युभ्याम्, द्युभिः' इति परेण चोदिते यद्वक्ष्यति--`ऊठि कृते दिव उदिति तपरकरणानामात्राकालो भविष्यति', तद्विरुद्ध्यते, तस्य ह्यूठि कृते तस्यैवोठो मात्राकालो भविष्यतीत्ययमर्थः ? नैषः दोषः; `ऊठि कृते' इत्येतस्य पूर्वेण चोद्यग्रन्थेन सम्बन्धः--`कथं द्युभ्यां द्युभिरिति, ऊठि कृते' इति; `दिव उत् इति तपरकरणात् मात्राकालो भविष्यति' इत्येतावान् परिहारग्रन्थः. तपरकरणस्य तूण्निवृत्तिरेव प्रयोजनम्। तस्मादुत्त्वमेवात्र कर्त्तव्यम्, न पुनरुडित्यर्थः ।।
एतत्तदोः सुलोपोऽकोरनञ्समासे हलि ।। 6.1.132 ।।
एतेन `एतत्तदोः' इति सुशब्दापेक्षया सम्बन्धलक्षणा षष्ठीत्याचष्टे। यद्येवम्, सु इत्येतस्य सापेक्षत्वाल्लोपशब्देन समासो न प्राप्नोति ? नैवायं समासः, सु इति पृथक्पदम् `सुपां सुलुक्' इति लुप्तष्ठीकम्। कश्च तयोः सुशब्द इति। यदि यस्ताभ्यां विहितः सुः स तयोः सम्बन्धी भवति, तदा परमस ददाति, परमैष ददातीत्यादो न स्यादिति मन्यमानः पृच्छति। इतरो विदिताभिप्रायः परिहति-यस्तदर्थेन सम्बद्ध इति। अर्थद्वारकश्च सम्बनधः, यस्तदर्थगतमेकत्वमाचष्ट इत्यर्थः। परमस ददातीत्यादावपि उत्तरपदार्थप्रधानत्वात्तदर्थगतमेवैकत्वमाचष्ट इति सिद्धो लोपः। प्रथमैकवचनस्यात्र सुशब्दस्य ग्रहणम्, न सप्तमीबहुवचनस्य। `स्यश्छन्दसि' `सोऽचि लोपे चेत्पादपूर्णम्' इत्यत्र ह्यस्यैव सम्भवः। द्वयोः सामान्येन ग्रहणं तर्हि कस्मान्न भवति? एवं तर्हि `निरनुबन्धकग्रहणे न सानुबनधकस्य' इति प्रथमैकवचनस्यैव ग्रहणम्, तस्य ह्युकार उच्चारणार्थः, नानुबन्धः। एष इति। `तदोः स सावनन्त्ययोः' इति सकारः, त्यदाद्यत्वम्, षत्वम्। एषक इति। `अव्यसर्वनाम्नामकच् प्राक् टेः' इत्यकच् ।
ननु रूपभेदात्साकच्कावेतत्तदावेव न भवतः, तत्किम् `अकोः' इति प्रतिषेधेन ? तत्राह--तन्मध्यपतिति इति। अस्याश्च परिभाषाया अस्तित्वे अयमेव प्रतिषेधो लिङ्गम् ।
उत्तरपदार्थप्रधानत्वादिति। एतच्च नञ्सूत्र एव व्याख्यातम्। `हल्ङ्याब्भ्यः' इत्यस्यानन्तरमिदं न कृतम्--संहितायां यथा स्यात्, असंहितायां मा भूदिति ।।
स्यश्छन्दसि बहुलम् ।। 6.1.133 ।।
स्य इति यदित्यस्य प्रथमान्तस्यानुकरणम् `सुपां सुलुक्' इति लुप्तषष्ठीकम्। अनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वादनुत्पत्तिरेव वा षष्ठ्याः। उदाहरणे सत्वादि पूर्ववत् ।।
सोऽचि लोपे चेत्पादपूरणम् ।। 6.1.134 ।।
स इति निर्देशः पूर्ववत्।
केचिदिति। स्वयं तु छन्दोऽधिकारादृक्पादस्यैव ग्रहणं मन्यते ।।
सुट् कात् पूर्वः ।। 6.1.135 ।।
संस्कर्त्तति। संम्पुंकानां सो वक्तव्यः' इति वचनात् `समस्सुटि' इति द्विसकारकत्वाद्वा निर्देशस्य समो मकारसक्य सकारः, `अत्रानुनासिकः पूर्वस्य तु वा' इति पूर्वस्यानुनासिकः। इह `सम्पर्युपेभ्यः करोतौ भूषणे', `किरतौ लवने' इत्यादौ ककारादावागमिनि टित्त्वादेव सुट् कात्पूर्वो लभ्यते। `ह्रस्वाच्चन्द्रोत्तरपदे' इत्यादौ कात्पूर्वत्वसम्भवादनुपयोग एवेत्यनर्थकं कात्पूर्वग्रहण्। स्यादेतत्--संचस्कारेत्यादावभ्यासे सञ्जाते साभ्यासस्य करोतित्वाच्चात्पूर्वः सुट स्यात्, मा भूच्चात्पूर्वः, कात्पव एव यथा स्यादित्येवमर्थं कात्पूर्वग्रहणमिति ? तन्न; अत्र हि लिटि द्विर्वचनं च प्राप्नोति, सुट् च; तत्र द्विर्वचनमकृते सुटि कृशब्दस्य प्राप्नोति, कृते तु स्कृशब्दस्य। सुडपि कृते द्विर्वचने चकृशब्दस्य प्राप्नोति, अकृते तु कृशब्दस्येत्युभयोरनित्ययोः परत्वात् सुटि कृते तस्य धातुग्रहणेन ग्रहणात् सहैव तेन द्विर्वचने `सर्पूर्वाः खयः' इति खयः शेषे संचस्कारेति सिद्धम्। न च साभ्यासस्याकृतः सुकडिति पुनः सुट्प्रसङ्गः; अस्मिन्नेव प्रयोगे लक्षणस्य प्रवृत्तत्वात् ।
ननु `पूर्वं धातुः साधनेन युज्यते' इति दर्शने पूर्वं साधनवाचिनि लकारे तदाश्रये च द्विर्वचने एकपदाश्रयत्वादन्तरङ्गे कृते पदद्वयाश्रयत्वाद्बहिरङ्गः सुट् पश्चाद्भावन् चात्पूर्वः स्यात्, समस्कारोदित्यादौ चान्तरङ्गत्वात् परत्वाच्चाटि कृते तेन व्यवधानान्नैव सुट् स्यात्, विकरणान्ताङ्गभक्तो ह्यडागमस्तमेव न व्यवदध्यात्, करोतिं तु व्यवदधात्येव; इह च समस्कृत, संस्कृथा इति यत्र करोतिरेवाऱङ्गं तत्राटः कृग्रहणेन ग्रहणादट एव पूर्वः सुट् स्यात्, अतोऽडभ्यासयोरपि कृतयोः कात् पूर्वः सुड्यथा स्यादिति कर्त्तव्यं कात्पूर्वग्रहणम्? न कर्त्तव्यम्; `अडभ्यासव्यवायेऽपि' ित्येतस्मादेव निर्देशादेतत्सिद्धम्। न च तत्र करिष्यामीति कात्पूर्वग्रहणम्, कृतेऽप्यस्मिन्नसिद्धेः। तथा हि-क्रियमाणमप्येतत्कालावधारणार्थं वा स्यात्--करोतेस्तस्यामवस्थायां सुड् भवति यस्यामवस्थायां भवन् कात्पूर्वो भवतीति। करोत्यवधारणारथं वा--तस्य करोतेः सुड् भवति यस्य भवन् कात्पूर्वो भवतीति। तत्र पूर्वस्मिन्पक्षे यद्यप्यन्तरङ्गे अप्यडद्विर्वचने बाधित्वा कात्पूर्वग्रहणसामर्थ्यात् पूर्वं सुड् भवति, पश्चात्तयोः कृतयोरिष्टं सिद्ध्यति। द्वितीये तु प्रत्युताभ्यासवतोर्निर्वृत्त्यर्थमेव कात्पूर्वग्रहणं स्यात्, न हि तद्वतोर्भवन् कात्पूर्वः कृतः स्यात्। स्यादेतत्--न करोत्यवधारणार्थं कात्पूर्वग्रहणम्, किं तहि ? अपकृष्य विधिः, करोतेः सर्वत्र सुड भवति, स तु प्रदेशान्तरे प्राप्तः कात्पूर्वः कर्त्तव्य इति ? एवमपि समस्कृत, समस्कृथा इति सिद्ध्यति, अटऋः प्राक्प्राप्नुवन् कात्पूर्वो नीयत इति, समास्करोदित्यादौ त्वसिद्धिरेव, कथम् ? प्रदेसान्तरे प्राप्तस्य विधिरपकृष्य भवति,न चात्र सुट् प्राप्तोऽचा व्यवदानादिति कथमपकृष्य विधिर्भवेत्। कथं च संचस्कारेत्यादावपि द्धिःप्रयोगे द्विर्वचने उच्चारणभेदाच्छब्दभेद इति द्वौ करोती, तत्र यः समोऽनन्तरो न तस्य ककारः, यस्य च ककारो नासौ समोऽनन्तरः--इति अप्राप्तत्वान् न कात्पूर्वं विधीयेत ? स्थाने द्विर्वचने च स्थानिवद्भावादेक एव करोतिः, स चाव्यवहित इति कातु पूर्वः प्राप्तः कात् पूर्वः कृत इति न कश्चिद्दोषः। तदेवं धातुः पूर्वं साधनेन युज्यते, ततश्च क्रियमाणेऽपि कात्पूर्वग्रहणे नैवेष्टं सिध्यतीति `अड्भ्यासव्यवायेऽपि' इत्येतदेव कर्त्तव्यम्। कात्पूर्वग्रहणं तु शक्यमकर्त्तुमति वात्तिंककारस्य पक्षः।
यदि तु `सम्पर्युपैः करोतौ' इति तृतीयानिर्द्दशेन समादिभिरुपसृष्टस्य सुड्विधीयते, तदा व्यवहितस्याप्युपसृष्टत्वात्कात्पूर्वग्रहणेनाप्ययमर्थः शक्यते सम्पादयितम्। कथम्? समस्करोदित्यादौ तावदन्तरेणापि कात्पूर्वग्रहणमटो न भविष्यति; तस्य करोतिं प्रत्यनवयवत्वात्। करोतेस्तु भविष्यति; व्यवहितस्याप्युपसृष्टत्वात्। समस्कृतेत्यादौ त्वटः पूर्व प्रापर्तः कात्पूर्वं चेष्यते। संचस्कारेत्यादौ च स्थाने द्विर्वचने कात्पूर्वं चेष्यते। संचस्कारेत्यादौ च स्थाने द्विर्वचने कात्पूर्वं प्राप्तः कात्पूर्वं करिष्यते। द्विःप्रयोगे तु द्वयोरपि करोत्योः प्राप्तः पूर्वस्मादेव करिष्यते, न हि तस्य कृतः कात्पूर्वः कृतः स्यादिति सिद्धमिष्टम्ग।
भाष्यकारस्तु मेने--उभयं न कर्त्तव्यम्। पूर्वं धातुरुपसर्गेण युज्यते, ततश्चानु त्पन्न एव प्रत्यये संकृ इति स्थिते सुटि कृते लकारः, ततस्तन्निबन्धनावडभ्यासौ ससुट्कस्यैव भविष्यतः। ननु च लब्धस्वरूपा क्रिया विसेषणमाकाङ्क्षति, तल्लाभश्च साधनान्तर इति पूर्वं धातुः साधनेन युज्यते, लब्ध्वस्वरुपेति, कोऽरथ ? किं प्रतिपन्नस्वरूपा, उत निष्पन्नस्वरूपा? निष्पत्तिस्तावद्विशेषणसम्बन्धेनोपयुज्यते, प्रतिपत्तिस्तु विशेषणसम्बन्धात्प्रागपि क्रियायाः सम्भवति। विशिष्टा च क्रिया साधनेन युज्यते, तता हि--तिष्ठतीति गतिनिवृत्तेः साधनसम्बन्धः प्रतीयते, प्रतिष्ठत इति गतेः, गच्छतीति गमनस्य, आगच्छतीत्यागमनस्य, करोतीति व्यापारमात्रस्य, संस्करोतीति भूषणस्य। विशिष्टा च क्रियोपसर्गसम्बन्धे सत्येव प्रतीयत इति द्योतकत्वेन वाचकत्वेन वा पूर्वमुपस्र्गसम्बन्धोऽपेक्षणीयः। अवश्यं चैतदेवं विज्ञेयम्; अन्यथा भवतेरकर्मत्वाद्भावे लकार उत्पन्ने पश्चादनुशब्देन सम्बन्दे अनुभूयते कम्बलो देवदत्तेनेति कथं कर्मणि लकारःस्यात्? अतः `पूर्वं धातुरूपसर्गेण युज्यते' इत्येतदेव सम्प्रतिपन्नम्। एवं च पूर्वोक्तन्यासेन सिद्धमिष्टमिति नार्थः कात्पूर्वग्रहणेन, नापि `अडभ्यासव्यवायेऽपि' इत्यनेन। यदि पूर्वं धातुरुपसर्गेण युज्यते; अध्येता, प्रत्येता, प्रत्यायक इत्यादौ पूर्वं धातूपसर्गयोरेकादेशे तस्य धातुं प्रत्यादिवत्त्वात्तत एव प्रत्ययोत्पत्तावनिष्टं प्राप्नोति ? नैष दोषः, `नेन्द्रस्य परस्य' इत्यत्र ज्ञापितमेतत्--पूर्वोत्तरपदयोस्तावत्कार्यं भवति, पश्चात् स्वरसन्धिरति। प्रत्यय इति वा निर्देशोऽस्यार्थस्य ज्ञापकः।
वृत्तिकारस्तु--उभयं वक्तव्यमिति मन्यमानः कात्पूर्वग्रहणस्य तावत्प्रयोजनमाह--कात्पूर्वग्रहणमित्यादि। किं पुनरभक्तत्वे प्रयोजनम् ? अत आह--तथा हीति। संस्कृषीष्टेति। आशिषि लिङ्, आत्मनेपदम्, `उश्च' इति कित्त्वम्, सुट्,तयोः कात्पूर्वः सुट्, तस्य करोतिभक्तत्वात् करोतिग्रहणेण ग्रहणात् कृञः संयोगादिता ज्ञायेतेति `ऋतश्च संयोगादेः' इतीट् प्रसज्येत। संस्क्रियत इति। कर्मणि लट् `रिङ् शयग्लिङ्क्षु'। अत्रापि भक्तत्वे सुटः कृञः संयोगादित्वात् `गुणोऽर्तिसंयोगाद्योः' इति गुणः स्यात्, अतस्यौ मा भूतामिति अभक्तः सुडेषितव्य इति भावः। निघातोऽपि तर्हि न प्राप्नोति? समः पदस्य सुटा व्यवहितत्वात्, सुटश्चापदत्वात्।
गुणः कथमिति। सुटोऽभक्तत्वेनाङ्गस्य संयोगादित्वाभावात्प्रशनः। `तन्मध्यपतितस्तद्ग्रहणेन गृह्यते'इति स्थानेद्विर्वचनपक्षे द्विःप्रयोगे च समुदायस्यैवाङ्गसंज्ञेत्युक्त्, ततश्च तदङ्गमध्यपतितः तदङ्गग्रहणेन गृह्यते।
नन्वेवमपि असंयोगादित्वं तदवस्थम् ? अत आह--संयोगोपधग्रहणं चेति। अन्त्यादचः पूर्वस्य वर्णस्योपधासंज्ञाविधानात् `तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' इत्येतदुक्तं भवति, यदि न सम्भक्तः सुट् टित्करणं किमर्थम् ? इत्यत आह---टित्करणममिति। `सुटस्तुस्वञ्जाम्' इत्युच्यमाने सुरेत्यादौ यः सुशब्दौ यश्चोपसर्गस्तस्यापि ग्रहणं स्यात्, ततश्च सुरां परिचष्टे परिसुरयतीत्यादावपि प्राप्नोति ।।
अड्भ्यासव्यवायेऽपि ।। 6.1.136 ।।
व्यवायः=व्यवधानम्, अपिशब्दादव्यवधानेऽपि, असति तु तस्मिन् व्यवाय एव स्यात्। संचस्करिथेति। `ऋतो भारद्वाजस्य' इत्येतदप्यसुट एवेष्यत इति वचनादिडागमः। पूर्वं धातुरित्यादि। यद्यपि `पूर्वं धातुः साधनेन युज्यते' इत्यत्रापि दर्शने सुतरामेतदनारम्भणीयम्, तथापि स्वदर्शनत्वादुपपन्नत्वाच्चेदमेव दर्शनमुपन्यस्तम्। अपर आह--`किमर्थं पुनरिदमुच्यते' इत्यस्यानन्तरं यावतेति पठितव्यम्, ततश्च पश्चादडभ्यासावित्येवमन्तश्चोद्यग्रन्थः' इति। परिहरति--अभक्तुश्चेति। चस्त्वर्थे। तत्रेति। अभक्ते। एतस्मिस्तु सतीत्यादि। ननु चास्मादेव वचनात्कृतयोरभ्यासयोस्तद्व्यवायेऽपि सुट् कात्पूर्वः क्रियताम्, यस्तु संकृ इत्यस्यामवस्थायां सुट् प्राप्नोति स केन वार्येत? उच्यते; नाप्राप्ते तस्मिन्नस्यारम्भात्तस्यानेन बाधः। अपरे तु-एतच्चोद्यभयाद्भाष्यकारमतमेव ज्यायो मन्यन्ते। यकत्पुनरुक्तमाद्गुणप्रसंग इति? नैष दोषः; `ऋतश्च संयोगादेः' इत्यत्र तावदुपदेश इति वर्त्तते, क्व प्रकृतम्? `एकाच उपदेशेऽनुदात्तात्' इति, ततः किम्? `अपदेशे संयोगादेः' इति सुटि कृते न भविष्यति। `गुणोऽर्तिसंयोगाद्योः' इत्यत्रापि नित्यमित्यनुवर्त्तते, क्व प्रकृतम् ? `नित्यं छन्दसि'इति, ततः किम् ? नित्यं यः संयोगादिस्तस्य गुणः ? सुटि कृते न भविष्यति ।।
सम्पर्युपेभ्यः करोतौ भूषणे ।। 6.1.137 ।।
सम्पूर्वस्य क्वचिदभूषणेऽपीष्यत इति। एतच्च `संस्कृतंक भक्षाः' इति निर्देसाल्लभ्यते ।।
समवाये च ।। 6.1.138 ।।
उदाहरणेषु भावे निष्ठा। एवं समुदितमित्यत्रापि ।।
उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु ।। 6.1.139 ।।
सत इत्यादि। लब्धसत्ताकस्यार्थस्य पूर्वं ये गुणा आधीयन्ते। येन तद्गुणान्तराधान तत्पुनः किमर्थम् ? इत्याह--आधिक्यायेति। आधिक्यम्=वृद्धिः। वृद्धस्य वा तादवस्थयायेति। तस्य वृद्धियुक्तावस्थायाः प्रच्युतिपरिहारायेत्यर्थः। समीहा=चेष्टा। अगम्यमानार्थस्येति। अर्थप्रकरणादिना। वाक्यस्येति। वाक्यैकदेशस्येत्यर्थः। एधो दकस्येति। जातिद्वन्द्वः, `कृञः प्रतियत्ने' इति षष्ठी, `प्रतियत्नप्रकथनोपयोगेषु कृञः' इत्यात्मनेपदम्। उपस्कृतं भुङ्क्तु इति। क्रियाविशेषणम्, विकृतं भुङ्क्त इत्यर्थः। उपस्कृतं जल्पतीति। साध्याहारं यथा तथा जल्पतीत्यर्थः।
अथैवं कस्मान्न कृतम्--`सम्प्रतिभ्यां करोतौ भूषणसमवाययोः, उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च' इति ? सूत्रकारं पृच्छ ।।
किरतौ लवने ।। 6.1.140 ।।
किरतौ लवनविषय इति। अर्थद्वारकं किरतेर्लवनविषयत्वम्, लवनविषये विक्षेपे यः किरतिर्वर्त्तते तत्रेत्यर्थः। तदाह--विक्षिप्य लुनन्तीत्यर्थ इति। साक्षात्तु विषये किरतेर्लवनमेवार्थः स्यात्।
णमुलत्र वक्तव्य इति। आभीक्षण्यादेर्णमुलर्थस्याभावात् ।।
हिसायां प्रतेश्च ।। हिसायां विषय इति। न त्वभिधेयायाम्। विक्षेप एव त्वभिधेयः, तदेव दर्शयति--तथेति। उदाहरणे नपुंसके भावे क्तः, हंशब्द कोपे। परिनिविभ्य एव सुटः षत्वम्, न प्रतेः ।।
अपाच्चतुष्पाच्छकुनिष्वालेखने ।। 6.1.142 ।।
तस्मिन्विषय इति। न त्वभिधेये। विक्षेप एव त्वभिधेयः, तदारह---आलिख्य विक्षिपतीत्यर्थ इति।
हर्षजीविकेत्यादि। हर्षः=प्रमोदः, जीविका=प्राणपरित्राणोपायः, कुलायः=आश्रयः।
किं पुनरुदाहरण एवात्मनेपदं भवति, न प्रत्युदाहरणे? अत आहहर्षजीविकेत्यादि ।।
कुस्तुम्बुरूणि जातिः ।। 6.1.143 ।।
सूत्रे नपुंसकलिङ्गेन बहुवचनेन च निर्द्देशात् फलजातावेव सुटा भवितव्यम्, न त्वोषधिजातौ ? इत्याशङ्क्याह--सूत्रनिर्देश इति। नपुंसकलिङ्गग्रहणं बहुवचनस्याप्युपलक्षणम् ।।
अपरस्पराः क्रियासातत्ये ।। 6.1.143 ।।
अपरस्परा इति। अपरे च परे चेति द्वन्द्वः, निपा तनादल्पाच्तरस्य परनिपातः। सार्था गच्छन्तीति। सार्थभूता गच्छन्तीत्यर्थः। सततमविच्छेदेनेति। न कदाचिदस्मिन् महापथे गमनं विच्छिद्यत इत्यर्थः। अयं चार्थः सुटा द्योत्यते। किमिदमिति। `अस्मादेव निपातनान् मलोपः' इत्युच्यमाने सततमिति न सिद्धयति, सूत्रे `प्यञन्तोच्चारणादिति प्रश्नः। कथमिति मलोपस्य लक्षणं न दृश्यते। अथ `सातत्ये' इत्येतदेव निपातनं सामान्येन ततशब्दे परतः समो मकारस्य लोपो भवतीत्यस्यार्थस्य ज्ञापकं कल्प्यते, सन्ततमिति न सिद्ध्येत्, बाधकत्वान्निपातनानामिति मन्यमानस्य प्रश्नः।
समस्तते विकल्पेनेति। अयमभिप्रायः---सातत्यशब्दं पूर्वाचार्यलक्षणसिद्धमुच्चारयता पूर्वाचार्यलक्षणमाश्रितम्, अतस्तेन समो मकारस्य लोपो विधीयत इति एवञ्च कृत्वावश्यंप्रभृतीनामपि कृत्यादिषु मकारलोपः सिद्धो भवति, तदेव पूर्वाचार्यलक्षणं पठन्ति--लुम्पेदित्यादि। अन्त्यमिति शेषः। कृत्यप्रत्ययान्ते परतोऽवश्यंशब्दस्यान्त्यं लुम्पेत्, लोपमस्य कुर्यादित्यर्थः। `शे मुचादीनाम्' इति नुम्। अवश्यकार्यमित्युदाहरणम्। तुमिति वृत्तभङ्गभयात्षष्ठी न कृता। तुम्प्रत्ययान्तस्यान्त्यं लुम्पेत्, काममनसोः शब्दयोः परतः--कर्त्तु कामोऽस्य कर्त्तुकामः, कर्तुं मनोऽस्य कर्त्तुमनाः, तुमप्यत्रोपसंख्यायते, अक्रियोपपदत्वादित्याहुः। संशब्दस्यान्त्यं लुम्पेत्, वा=विकल्पेन, हिततयोः शब्दयोः परतः--सहितम्, संहितम्, सततम्, संततम्। नगिसमासः। मांसशब्दस्याप्यन्त्यं लुम्पेत्, क्व? पचि, पचतिधातौ। किंविशिष्टे ? युड्घञोः, युटि घञि च परतो यः पचिस्तस्मिन्नित्यर्थः, मास्पचनम्, मास्पाकः, कर्मणि षष्ठ्याः समासः। संहितायां समासे चैष मलोप इत्याहुः।
अथ सन्ततशब्दात् प्यञ् भवति वा न वा सान्तत्यमिति, तेत्याहुः ।।
गोष्पदं सेवितासेवितप्रमाणेषु ।। गावः पद्यन्तेऽस्मिन्निति। `पुंसि संज्ञायाम्' इत्यधिकरणे घः, कर्त्तरि षष्ठ्या समासः। अगोष्पदान्यरण्यानीति। ननु च सूत्रे गोष्पदशब्द उपात्तः, तत् किमिदम्? इत्यत आह--असेवित इत्यादि। क्रियते चेदमसेवितग्रहणम्, न च तत्र गोष्पदशब्दः सम्भवति, तस्मादसेविते गोष्पदशब्दार्थनिपातनं विज्ञायते। नार्थ एतेनेति। असेवितग्रहणेन। कथं तेन विना सिद्धिः ? तत्राह--गोष्पदप्रतिषेधादिति। सत्यमिति। गोष्पदप्रतिषेधादिति यदुक्तम्, तत् सत्यं मन्यते, न तु नार्थ एतेनेति। तद् यदि सत्यम्, किमर्थं तर्ह्यसेवितग्रहणम् ? इत्याह--यत्र त्विति। नञ्समासो हि तत्पुरुषः स्वभावादुत्तरपदार्थसदृशमर्थमाचष्टे-अब्राह्मणवत्, ततश्च न गोष्पदमगोष्पदमिति नञ्समासे कृते यत्र सेवितस्य सेवनस्य प्रसङ्गोऽस्ति, तत्रैवागोष्पदमिति स्यात्, स एव गोष्पद स्य देशस्य सदृशः; यत्र त्वत्यन्तास्म्भव एव सेवितस्य तत्र न स्यात्। असेवित ग्रहणसामर्थ्यात्तु बहुव्रीहिराश्रीयते, स चात्यन्ताभावेऽपि भवति। तेन येषु गवामत्यन्तासम्भवः, तान्यरण्यान्यासेवितशब्देनोच्यन्ते। ततश्च तत्राप्यगोष्पदमिति भवति। अत्यन्तासम्भवं स्पष्टयति--यानि हि महान्त्यरण्यानीति। तत्र केचिदाहुः--यत्र गवामत्यन्तासम्भवः, तत्रैवागोष्पदशब्दः प्रयोक्तव्यः, न त्वसम्भव इति। अन्ये त्वविशेषेणेच्छन्ति। न चैवमसेवितग्रहणस्य वैयर्थ्यम्, असति ह्यस्मिन्नत्यन्तासम्भवे न स्यात्। गोष्पदपूरमिति। `वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्' इति णमुल्। ननु च गोष्पदमिति षष्ठीसमासोऽयम्, तस्य गोः सम्बन्धि पदमर्थः, न तु प्रमाणम्? तत्राह--नात्र गोष्पदं स्वार्थप्रतिपादनार्थमुपादीयत इति। तथा च गोष्पदपूरं वृष्टे देव इति। असत्यपि गोष्पदपूरणे प्रयुज्यते, यथा--चेलक्नोपं वृष्टो देव इत्यसत्यपि चेलक्रोपे ।।
आस्पदं प्रतिष्ठायाम् ।। 6.1.146 ।।
आत्मयापनायेति। प्राणधारणम्=आत्मयापनम्, तदर्थ यत्स्थानम्, सा प्रतिष्ठा। आस्पदमिति। आङ्पूर्वात्पदेः पूर्ववदधिकरणे घः, लोकाश्रयत्वादस्मादेव निपातनाद्वा नपुंसकलिङ्गता, आपदमित्यव्ययीभावसमासः ।।
आश्चर्यमनित्ये ।। 6.1.147 ।।
यद्याश्चर्यमनित्ये निपात्यते, घटादावतिप्रसङ्गः ? इत्यत आह--अनित्यतयेत्यादि। लोके यदनुचितमदृष्टपूर्वमुपलभ्यते, तदनित्यातया व्याप्तं कादाचित्कत्वम्, अतोऽनित्यता विषयभूता भवति। तथा विषयभूतया अद्भूतत्वं पिस्मयहेतुत्वमुपलक्ष्यते। उदाहरणे `अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि' इत्यनवक्लृप्तावसम्भावनायां लिङ्। रुग्णस्य मन्दकर्णस्य चाविशिष्टे कालादौ भोजनमध्ययनं चादृष्टपूर्वं दृश्यमानमद्भूतं भवतीति। आश्चर्यमिति। `चरेराङि चागुरौ' इति यन्। आचर्यमनुष्ठेयमित्यर्थः ।।
वर्चस्केऽवस्करः ।। 6.1.148 ।।
कुत्सितं वर्चो वर्चस्कम्, `कुत्सिते' इति कन्, `सोऽपदादौ' इति सत्वम्। कना निर्द्देशो दीप्तौ मा भूदिति, दीप्तावपि हि वर्चःशब्दो वर्त्तते। अन्नमलमिति। भाण्डेषु यल्लग्नं काष्ठादिनाऽपकृष्य काकादिभ्यो विकीर्यते तदन्नमलम्। अवकीर्यत इति। भूमाववक्षिप्यत इत्यर्थः। तत्सम्बन्धाद् देशोपीति। यत्र भाण्डानि परिमृज्यन्ते देशे स देशः। तथा च याज्ञवल्कयः--- `सम्मार्जितावस्करया व्यये चामुक्तहस्तया' इति। अपर आह--पुरीषं वर्चस्कं तद्देशश्चेति। अवकर इति। ब्रह्मचारिणः स्त्रियां रेतः सेक=अवकरः, यतोऽवकीर्णो भवति ।।
अपस्करो रथाङ्गम् ।। 6.1.149 ।।
अत्र सूत्रे तृतीय उपसर्गः, पूर्वत्र षष्ठः ।।
विष्किरः शकुनिर्विकिरो वा ।। 6.1.150 ।।
विष्किरो वेत्यादि। शकुनावभिधेये विष्किर इति वा सुण्निपात्यत इत्येतावतैव सुङ्विकल्पः सिद्ध इत्यर्थः। विकिरग्रहणमित्यादि। असति तस्मिन् कप्रत्ययान्तस्य विकिरशब्दस्य शकुनौ विकल्पार्थमेवेदं वचनं स्यादिति विकिरशब्दस्यान्यत्र प्रयोगो न निवर्त्तितः स्यादिति। पुनर्विकिरग्रहणे तु सति भवति। यथा तु भाष्यं तथा `विष्किरः शकुनौ वा' इत्येतावत् सूत्रम् ।।
ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे ।। 6.1.151 ।।
सुडागमो भवतीति। पूर्वं कात्पूर्वग्रहणादभक्तः सुडित्युक्तम्, इह तु कात्पूर्वत्वं न सम्भवति, आगमलिङ्गं च टित्त्वमस्तीत्यागम एव सुडुक्त इति भावः। स च भवन् `उभयनिर्देशे पञ्चमीनिर्द्देशो बलीयान्' इति चन्द्रशब्दस्यैव भवति, सूर्याचन्द्रमसाविति। द्वन्द्वः, `देवताद्वन्द्वे च' इत्यानङ्।
उत्तरपदमित्यादि। स्वनिकायप्रसिद्धिरेवेषा ।।
प्रतिष्कशश्च कशेः ।। 6.1.152 ।।
अत्र यद्यपीत्यादि। कशेरिति। यद्धातोरुपादानं तस्य नान्यत्प्रयोजनमिति भावः।।
प्रस्कण्वहरिश्चन्द्रावृषी ।। 6.1.153 ।।
हरिश्चन्द्रो राजर्षिः। प्रकण्वो देश इति। कण्वम्=पापम्, तत्प्रगतं यस्मात्स एवमुच्यते। इहिः चन्द्रो यस्य मुग्धस्य स हरिचन्द्रः।
मस्करमस्करिणौ वेणुपरिव्राजकयोः ।। 6.1.154 ।।
परिव्राजके त्विनिरपीति। मत्वर्थाभावादिनिरप्राप्तः, अतः सोऽपि निपात्यते, न हि परिव्राजको मकरेण तद्वान्, मस्करेण तु वेणुना तद्वान् भवति; दण्डधारणात्, ततः किम् ? मस्करशब्दादिनिना सिद्धम्। एवमपि संयोगे मत्वर्थीयविधानान्मस्करसंयुक्त एव मस्करीत्युच्येत, मा भूदेवं परिव्राजकमात्रवचनो यथा स्यादितीनिर्निपात्यते, व्युत्पत्तेरदर्शनाद्वा नात्र स्पष्टं निपात्यम्, तद्दर्शयति--केचिदिति। माकरणशील इति। प्रतिषेधशीलस इत्यर्थः। कर्मापवादित्वादिति। कर्मशब्देनेह काम्यमर्माणि विवक्षितानि, न नित्यनैमित्तिकानि, तानि हि ममुक्षोरपि कर्त्तव्यानि। यथाऽऽहुः--
मोक्षार्थी न प्रवर्त्तेत ततः काम्यनिपिद्धयोः।
नित्यनैमित्तिके कुर्यात् प्रत्यवायनिवृत्तये ।। इति ।
तानि कर्माण्यपवदितुं प्रतिषेद्धुं शीलमस्य स कर्मापवादी। परमहंसास्तु कर्ममात्रमपवदन्ति। मा कुरुतेति। न कर्त्तव्यानीत्यर्थः। कर्मणि लुङ् ।।
कास्तीराजस्तुन्दे नगरे ।। 6.1.155 ।।
केचिन्नगरे इति प्रथमाद्विवचनान्तभाहुः। वृत्तौ तु सप्तम्यन्तं व्याख्यात्म्। कातीरमिति। `ईषदर्थे च' इति काभावः ।।
कारस्करो वृक्ष ।। 6.1.156 ।।
पारस्करप्रभृतिष्वेवेति। नेदं सूत्रमधीयत इत्यर्थः ।।
पारस्करप्रभृतीनि च संज्ञायाम् ।। 6.1.157 ।।
रूढिशब्दा एते यथाकथञ्चिद्व्युत्पाद्याः। पाहङ्करोतीति पारस्करः, `कृञो हेतु' इत्यादिना टः। रथं यातीति रथष्या। `आतोऽनुपसर्गे कः'। षत्वागप्यत्र निपात्यते। अन्ये तु सकारमेव पठन्ति। किं करोतीति करोतेर्डुः, किमोऽन्त्यलोपः, सुट्, किष्कुः। किमपि धत्ते किष्किन्धा । पूर्ववत्कः, किमो द्विर्वचनं पूर्वस्य मलोपः, सुट, उभयत्राप्यत्र षत्वमपि निपात्यते। तत्करोतीति तस्करः। अत्र हि तच्छब्देन चोरकर्म प्रसिद्धं निन्द्यं परामृश्यते।
प्रात्तुम्पताविति। `तुप तुम्प हिंसार्थौ' इत्येतस्मिन्धातौ परतः प्रशब्दात्परः सुड् भवति धात्वर्थस्य चेद् गौः कर्त्ता भवति, प्रस्तुम्पतीति यत्ने तिबन्ते सुट्। स्वशब्देन धातुग्रहणात्तदादावपि भवति प्रस्तुम्पतो गावौ, प्रस्तुम्पन्ति गाव इति।
चित्तिचित्तयोरिति। `चिती संज्ञाने', क्तिन्, `नपुंसके भावे क्तः'।
प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते।
तपो निश्चयसंयोगात्प्रायश्चित्तमिति स्मृतम् ।।
अनुदात्तं पदमेकवर्जम् ।। 6.1.158 ।।
एकवर्जमिति। एकं वर्जयित्वेत्यर्थः। `द्वितीयायां च' इति णमुल्। तत्र हि परीप्सायामिति प्रायिकम्। अत्र यदि पदमिति जातावेकवचनं स्यात्तदैकवर्जनमित्येकशब्देनापि प्रत्यासत्त्या पदमेवोच्येत, ततश्चायमर्थो भवति--वाक्ये पदान्यनुदात्तानि भवन्ति एकं पदं वर्जयित्वेति। अनुदात्तशब्दश्चेदानीं लौकिकः, लोके ह्यचामनुदात्तादिगुणायोगे हलपि तदनुरक्तत्वात्तद्धर्मा गृह्यत इति अज्ज्ञल्समुदायरूपं पदमेवानुदात्तमिति सामानाधिकरण्येन व्यपदिशति। अत्र पक्षे किमेकं वर्जनीयमिति नियमकारणाभावात् सर्वेषामेव पदानां पर्यायेण वर्जनात्स्वरनियमो न स्यात्। तस्मात्पदमिति व्यक्तिनिर्द्देशः, विवक्षितं चैकत्वम्। अनुदात्तशब्दश्च `नीचैरनुदात्तः' इत्यज्विशेषे पारिभाषिक इति तस्यैवग्रहणं युक्तम्। एकशब्देनापि सन्निधानादजेवोच्यते। कथं तर्ह्यज्झल्समुदायरूपस्य पदस्याज्मात्रवाचिनानुदात्तशब्देन सामानाधिकरण्यम् ? अवयवावयविनोरभेदोपचारात् अर्सआद्यच्प्रत्यायान्तत्वाद्वाऽनुदात्ताच्कं पदमेवानुदात्तम्। यद्येवम्, अनुदात्तशब्देनापि पदमेव प्राधान्येनोच्यते अज्गुणाभावेनेति पुनरप्येकशब्दस्य संख्येयापेक्षायां प्रधानभूतपदमेव संख्येयं प्राप्नोति ? उच्यते; पदमित्येकत्वं विवक्षितमित्युक्तम्, तत्रैकं पदमनुदात्ताच्कं भवत्येकं पदं वर्जयित्वेति नायमर्थः सम्भवतीति सामर्थ्याद् गुणभूतोऽप्यजेवैकशब्देनोच्यते ।
यद्वा, पदशब्दोऽपि लक्षणया तत्स्थेष्वक्तु वर्त्तते, तत्राचां पदश्थत्वाव्यभिचारादेकत्वविवक्षार्थमेव पदग्रहणम्। सर्वथा त्वयमर्थो विवक्षितः---एकस्मिन्पदे वर्त्तमाना अचोऽनुदात्ता भवन्ति एकमचं वर्जयित्वेति। एवं स्थिते यदीदं स्वतन्त्रं लक्षणं स्यात्तदा नियमो वा स्याद्--एकमचं वर्जयित्वा, परिशिष्टमनुदात्तमेव भवतीति विधिर्वा।
तत्राद्ये पक्षे येषामचां लक्षणआन्तरेणोदात्तः स्वरितो वा विधीयते, तत्रानियमप्रसङ्गाभावात्तद्व्यतिरिक्तविषयमेवेदं भवति। अस्ति हि तत्रानियमप्रसङ्गः; अस्वरस्याच उच्चारणासम्भवात्। एकवर्जमिति। यस्य यस्योदात्तस्वरितविधानं स स वर्ज्य इत्यर्थो भवति। ततश्चत्वार इत्यादावागमादीनां पृथक् स्वरप्रसङ्गः, आमलकीज इत्यत्र ङीषः प्रत्ययाद्युदात्तत्वम्, `गतिकारकोपपदात्कृत्' इति जशब्दस्योदात्तत्वम्, `दीर्घकाशतुषभ्राष्ट्रवटं जे'इति पूर्वपदाद्युदात्तत्वम्, `अन्त्यात्पूर्वं बह्वचः' इति लकाराकारस्योदात्तत्वमिति युगपदुदात्तचतुष्टयप्रसङ्गः। ननु च नाप्राप्ते कृत्स्वर आरभ्यमाणेन `दीर्घकाश' इत्याद्युदात्तत्वेनापोदितत्वादेव कृत्स्वरो न भविष्यति, तथाऽऽद्युदात्तत्वं कुटीज इत्यादौ सावकाशम्, उपसरज इत्यादौ सावकाशेन `अन्त्यात्पूर्वं बह्वचः' इत्यनेन परत्वाद्बाधिष्यत इति कथमुदातुष्टयप्रसङ्गः ? उच्यते; विरोधे समानफलत्वे बाध्यबाधकभावः, विप्रतिषेधोऽपि विरोध एव, तच्चोभयं स्वरेषु नास्तीति कृत्कृत्यप्रत्ययसंज्ञानामिव समावेशप्रसङ्गः। सत्यपबि विप्रतिषेधे ङीष उदात्तत्वे कृते पश्चात् `अन्त्यात्पूर्वं बह्वचः' इत्येतस्मिन्प्रवृत्तेऽपि पूर्वकृतस्य ङीष उदात्तस्यानिवृत्तेरनिष्टमेव। यदि च यस्य यस्योदात्तस्वरितविधानम्, तं तं वर्जयित्वा परिशिष्टमनुदात्तमेवेत्य्रथः स्यात्, तदा पदमेकवर्जमिति द्वयमपि व्यर्थं स्यात्। सामान्येनाचोऽनुदात्ता इत्येवास्तु, प्रत्ययाद्युदात्तत्वादिविषये तैर्बाधितत्वादेवानुदात्तत्वं न भविष्यति। तस्मात्पदमेकवर्जमिति वचनान्नायं स्वतन्त्रो नियमः।
अथ विधिः ? तदा येषामचां लक्षणान्तरेणोदात्तः स्वरितो वा न विधीयते, तष्वप्यनुदात्तस्य पक्षे प्राप्तत्वाद्विधिरनुपपन्न इति लक्षणान्तरेण येषामुदात्तः स्वरितो वा विहितः, त एकस्मिन्पदे वर्तमाना अनुदात्ता भवन्त्येकमचं वर्जयित्वेत्य्रथः स्यात्। क एक वर्ज्य इति न ज्ञायेत! अथापि परनित्यादिभिर्व्यवस्था ? एवमपि सतिशिष्टेनापि व्यवस्था न स्यात्। कथमौपगवत्वमित्यत्र द्वे प्रत्ययाद्युदात्तत्वे ? तत्रैकस्यानुदात्तत्वं विदीयमानं कस्य भवतु ? उदात्तस्वरितव्यतिरिक्तानां चाचामनियमप्रसङ्ग एवावतिष्ठेत। तदेवं स्वतन्त्रेऽस्मिन् विधौ नियमे वा नेष्टं सिद्ध्यति।
अथाधिकारः स्यात्तदा `ककर्षात्वतो घञोऽन्तः' इत्यत्रास्योपस्थाने सत्ययमर्थो भवति--कर्षशबप्दस्याकारवतोऽन्त उदात्तो भवति, तमेकं वर्जयित्वा तस्मिन्पदे वर्त्तमानाः परिशिष्टा अचोऽनुदात्ता भवन्तीति। एवमन्यत्रापि--यत्र यत्रोपस्थानं तत्र तत्र विधीयमानस्य स्वरस्योपलक्षणार्थम्। तेन `तवै चान्तश्च युगपत्', `उभे वनस्पत्यादिषु युगपत्' इत्यादौ द्वयोरपि वर्जनं भवति। इन्द्राबृहस्पती इत्यत्र बृहस्पतिशब्दो वनस्पत्यादित्वाद् द्वयुदात्ते इन्द्रशब्देन द्वन्द्वे `देवताद्वन्द्वे च' इति द्वयोरपि प्रकृतिस्वरत्वमिति त्रयणां वर्जनं भवतीत्येवं षाष्ठिके स्वरे न कीश्चिद्दोषः।
`आद्युदात्तश्च', `समानोदरे शयित ओ चोदात्तः' `अस्थिदधिसक्थ्यक्षणामनङुदात्तः' इत्यादिषु प्रदेशान्तरवर्त्तिषु स्वविधिष्वस्यानुपस्थानात्तेषु परिशिष्टस्यानुदात्तत्वं न स्यात्, एकवर्जमिति च व्यर्थं स्यात्। कथमनुदात्तं पदमित्येवाधिकारोऽस्तु, न चेवं तत्तत्सूत्रविहितस्यापि स्वरस्यानुदात्तप्रसङ्गः, तद्विधानसामर्थ्यात्। तदेवं पक्षान्तरसम्भवात्परिभाषेयमिति निश्चित्याह--परिभाषेयमिति। लिङ्गवती चेयम्, स्वरविधिश्च लिङ्गमित्याह--स्वरविधिविषयेति।
यत्रान्य इति। अनुदात्तापेक्षमन्यत्वम्। उदात्तः स्वरितो वेति। अनुदात्तस्यानुदात्तवर्जनं व्यर्थमिति तद्विरोधाद् उदात्तः स्वरितो वा परिसंख्येयः, तद्विधावेवास्योपस्थानमिति भावः। उपरियतमित्यनेन स्वरविधिभिरस्यैकवाक्याता दर्शता। कः पुनरिति। वर्ज्यविशेषस्य सूत्रेऽनिर्देशात्प्रशनः। यस्य स्वरो विधीयत इति। यत्रेदमुपतिष्ठते तत्र यः स्वरो विधीयते स उच्यते। असाविति। यदि ह्यसावपि न वर्ज्येत तस्य तत्स्वरविदानमनर्थकं स्यात्। धातुस्वरं शनास्वरो बाधत इति। सतिशिष्टेन व्यवस्थाया वक्षयमाणत्वात्। श्नास्वरं तस्स्वरं इति। बाधत इत्यनुषङ्गः। अत्रापि हेतुर्वक्ष्यते, विकरणस्वरस्तु सतिशिष्टोऽपि' इत्यत्र तस्स्वरमाम्स्वर इति। पूर्ववदनुषङ्ग। सतिशिष्टत्वं हेतुः।
आगमस्येत्यादि। उपलक्षणमेतत्। अनेन हि तत्तल्लक्षणाभिनिर्वृत्तानां बहूनामुदात्तस्वरितानां समावेशनिवृत्तिः प्रयोजनमस्येत्युच्यते। न चैतावदेव प्रयोजनम्, येषामपि केनापि स्वरित उदात्तो वा न विधीयते, यथाऽनेकाक्षु प्रत्ययेषु धातुषु वाऽऽधन्तव्यतिरिक्तानामचां तेषामप्यनुदात्तनियमस्यैतदधीनत्वात्।
चत्वार इति। `चतेरुरन्' इति चतुर्शब्द आद्युदात्तः। अनड्वाह इति। `अनसि वहेः क्विवब् उश्चानसः' इति क्विप्, यजादित्वात् सम्प्रसारणम्, अनः--शब्दोऽसन्प्रत्ययान्त आद्युदात्तः, `गतिकारकोपपदात्कृत्' इत्युत्तरपदप्रकृतिस्वरेण धातोरन्त उदात्तः। अस्थनीति। `असिसञ्जिभ्यां क्यिन्' इत्याद्युदात्तोऽस्थिशब्दः, दधिशब्दः `नब्विषयस्यानिसन्तस्य' इत्याद्युदात्तः। नबिति नपुंसकाख्या। यस्यासौ स्वरो विधीयते स वर्ज्यते इत्युक्तम्। सर्वेषां चागमादीनां स्वरो विधीयत इत्यविशेषण वर्जनप्रसङ्ग इत्यत आह--परनित्यान्तरङ्गापवादैरिति। स तस्मिन्योगे सर्वेषामेव तेषां स्वकस्वरवर्ज्यमन्यमनुदात्तं चिकीर्षता परस्परविरोध उपजायते, परत्वादिभिर्युक्तैव व्यवस्ता। सतिशिष्टेन चेति। व्यवस्थेत्यपेक्षते। एतदेव विवृणोति--यो हीति। सामान्येनोक्तमुदाहरणनिष्ठं करोति--तथा हीति। एतच्च सतिशिष्टस्य बाधकत्वं न्यायतस्सिद्धम्। कथमुदात्तस्वरितविदिभिरेकवाक्यतापन्नयाऽनया शेषनिघातः क्रियत इत्युक्तम्, ततः किम्? उत्सर्गस्यापवादस्य वा या चरमा प्रवृत्तिस्तस्यामिदमुपतिष्ठते, एवञ्च तस्यैव लक्षणस्य यचा चरमा प्रवृत्तिस्तत्रास्या उपस्थाने पूर्वा प्रवृत्तिर्बाध्यते, तद्यथौपगवत्वमिति। अत्र हि `आद्यदात्तश्च' इत्यस्य प्रतिप्रत्ययमावृत्तौ त्वप्रत्यये यदा प्रवर्त्तते तदाऽनया निघातः क्रियते। यदि सतिशिष्टस्वरो बाधकः, विकरणस्वरोऽपि लसार्वधातुकस्वरस्य बाधकः प्राप्नोति ? तत्राह--विकरणस्वरस्तिविति। एवं मन्यते--यदयं तासेः परस्य लसार्वधातुकस्यानुदात्तत्वं शास्ति तज्ज्ञापकमुक्तस्वार्थस्य; अन्यथा यद्यपि लावस्थायां तासिविधीयते, तथापि लकारमावापेक्षत्वादन्तरङ्गेषु च लादेशेषु कृतेषु पश्चात्तासिरिति तत्स्वरस्य सतिशिष्टत्वाच्छेषनिघातेनैव सिद्धेरनर्थकं तत्स्यादिति।
विभक्तिस्वरादिति। सतिशिष्टत्वाद्विभक्तिस्वरे प्राप्ते वचनम्। नञ्स्वरेणेति। `तत्पुरुषे तुल्यार्थ' इति प्रकृतिभावविहितेन।
विभक्तिनिमित्तस्वरादिति। विभक्तिर्निमित्तं यस्य तस्य यः स्वरस्तस्मादित्यर्थः। वाक्ये हीत्यादि। देवदत्तशब्द आर्मोन्त्रतस्वरेणाद्युदात्तः, गाभित्याद्युदात्तः, गमेर्डोः प्रत्ययस्वरः, `ओतोऽम्शसोः' इत्यात्वमेकादेशः, `एकादेश उदात्तेनोदात्तः', `निपाता आद्युदात्ताः' `उपसर्गाश्चाभिवर्जम्' इत्याद्युदात्तत्वे वर्जितत्वादभेः फिषित्यनेनान्तोदात्तत्वम्। फिषिति प्रातिपदिकस्य पूर्वाचार्याणां संज्ञा। आङ् उपसर्गस्वरेणाद्युदात्तः। अजेर्लोट्, `तिङ्ङतिङः' इति निधातः, खुक्लशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। टापा विभक्तया च `एकादेश उदात्तेनोदात्तः'। तदेवं पदग्रहणाद्वाक्ये पृथगेव स्वरो भवति।
ननु च यदि वाक्येऽपि शेषनिघातः स्यात्, ततश्च सतिशिष्टस्वरत्वादिनां व्यवस्थापकानां तत्रासम्भवात्क एको वर्जनीय इति न ज्ञायेत? सत्यम्; विशेषाग्रहणात्पर्यायेण वर्जनं भविष्यति। यदि तर्हि पदग्रहणं क्रियते, एवं सति यावत् पदसंज्ञा न भवति, तावच्छेषनिघातेन न भवितव्यम्, ततश्च कुवल्या विकारः कौवलमित्यत्रानुदात्तादेश्चेत्यञ्न प्राप्नोति, यतः कुवलशब्दोऽयं ग्रामादित्वेनाद्युदात्तः, गौरादित्वान्ङीषि विहितेऽपि पदव्यपदेशाभावादाद्युदात्तत्वं न परित्यजति ? इत्यत आह--परिमाणार्थं चेति। पदमत्र गौणमभिप्रेतम्, यस्य पदसंज्ञा भविष्यति न मुख्यम्; पदाधिकारे पुनः पदग्रहणात्। किं चोदात्तस्वरितविधिभिरेकीभूय शेषनिघातः क्रियत इत्युक्तम्, तस्यां च दशायां युष्मदस्मदोर्ङसि, ङयि चेत्यादावेव पदत्वं निष्पन्नं भवति, न पुनः `धातोः' इत्यादिषु धात्वाद्युपदेशानन्तरं प्रवर्त्तमानेषु। अतश्च तैरेकीभूतस्य पदशब्दस्य तदैकदेशेऽपि भविष्यति वृत्तिः। यद्येवम्, यत्र यत्रास्योपस्थानं तत्र तत्र सव पदम्, ततोऽपि चान्यत्र न्यूनं न कार्यित्वेन संनिहितमिति तत्रैवाक्षु परिशिष्टमनुदात्तं भविष्यति, नार्थो वाक्यनिवृत्त्यर्थेन पदग्रहणेन? उच्यते; असति पदग्हणे दातोरन्त उदात्तो भवति परिशिष्टमनुदात्तमित्युक्ते धातोरेव यत्परिशिष्टं तदनुदात्तमिति गम्येत; एवम् `आद्युदात्तश्च' इत्यादौ, ततश्च धातुप्रत्यययोः पृथक्स्वरः स्यादेव। अत एकपदे भविष्यतां सर्वेषामेवानुदात्तत्वं यथा स्यादित्येवमर्थं पदग्रहणम्।
पदाधिकारस्य निवृत्तिं करोतीति। गौणार्थमेतत्पदग्रहणं मुख्यपदाधिकारस्य निवृत्तिं कारयति। तेन किं सिद्धं भवति? तत्राह-तेनेति। ज्ञापकमप्यस्मिन्नर्थे दर्शयति--गर्भिणीशब्दश्चेति। गर्भोऽस्या अस्तीति मत्वर्थीय इनिः, ङीप्। गर्भशब्दो ग्रामादिः। तत्र यदीनिप्रत्ययस्योदात्तविधिसमकालमेवानुदात्तत्वं भवति, ततो गर्भिणीशब्दस्यानुदात्तादित्वाद् `अनुदात्तादेः' इत्याञि प्राप्ते तद्बाधनार्थं युज्यते तस्य भिक्षादिषु पाठः। अथ पदसंज्ञाया उत्तरकालं शिष्टस्यानुदात्तत्वं भवेत्, ततो गर्भिणीशब्द आद्युदात्तः स्यात्, ततश्चाञो बाधनार्थं भिक्षादिषु न पठितव्यः स्यात्।
कुवलगर्भशब्दावाद्युदात्ताविति। तत्र चोक्त एव प्रकारः, ततः कुवलशब्दादञ्सिद्धये आश्रयणीयम्। गर्भिणीशब्दश्च ज्ञापकमुपपद्यत इति भावः। अत्रेदं चोद्यते-उदात्तस्वरितविधिभिरेकीभूतमप्येतन्नियमार्थं चेद् विहितस्वररहितष्वेवस्यात्, विध्यर्थं चेद् विहितस्वरेष्वेव स्याद्--इति प्रागुक्तो दोशस्तदवस्थ एव? उच्यते; उक्तं पदग्रहणमेकस्मिन्पदेऽन्तर्भूतानां सर्वेषामनुदात्तत्वमिति, अतो यथैतदुपपद्यते तथा विधिरूपेण, नियमरूपेण, उभयरूपेण वा प्रवृत्तिर्भविष्यति।
कर्षात्वतो घञोऽन्त उदातः ।। 6.1.159 ।।
आदस्यास्तीत्यात्वान्, `तसौ मत्वर्थे' इति भसंज्ञा, कर्षश्चात्वांश्चेति समाहारद्वन्द्वः। विकृतनिर्देश इति। विकरणान्तस्येदमनुकरणम्, न तु घञन्तनिर्देश इति भावः। अथ किमर्थो मतुब्निर्देशः, यावता न क्वचिदप्याकारात्परो घञस्तीति सामर्थ्यात्तद्वतो ग्रहणं भविष्यति? उच्यते; घञाक्षिप्तो धातुरात इत्यनेन विशेष्येत, तत्र तदन्तविधौ ज्ञायमाने आनन्तर्यस्यासम्भवाद्विधानं विशेष्येत--आकारान्ताद्यो विहित इति, ततश्च दाय इत्यादावेव स्यात्, पाक इत्यादौ तु न स्यात्; मतुब्निर्द्देशात्तु सर्वत्र भवतीति। लाक्षणिकस्याप्यात्वतो ग्रहणमिष्यते; वृषादिषु कामपामपदानां पाठात्।
`अलोऽन्त्यस्य' इत्येव सिद्धेऽन्तग्रहणमुत्तरार्थम् ।।
उञ्छादीनां च ।। 6.1.160 ।।
`उछि उच्छे', `म्लेच्छ अव्यक्ते शब्दे'। `जजि युद्धे', अत्र कुत्वाभावो निपातनात्, `जल्प व्यक्तायां वाचि' `व्यध ताडने', `व्यधजपोरनुपसर्गे' इत्यप्। वध इति। `हनश्च वधः' इत्यप्। कालविशेष इति। कतद्वापरादौ। `घॄ गॄ निगरणे', `ऋदोरप्'।
विषमित्यनेन दूष्यशब्दस्य विशेष वृत्तिं दर्शयति।
`विद ज्ञाने', `ओविजी भयचलनयोः', `वेष्ट वेष्टने', `बन्ध बन्धने', `ष्टुञ् स्तुतौ', `यु मिश्रणे', `द्रु गतौ'।
उपसमस्तार्थमेतदिति। केवलानां धातूनां क्विबन्तानां धातुस्वरेणैव सिद्धत्वात्। परिष्टुदिति। सम्पदादित्वात्क्विप्, तेन प्रादिसमासः, `पूर्वपदात्' इति षत्वम्। अव्ययपूर्वपदप्रकृतिस्वरे प्राप्तेऽन्तोदात्तत्वम्। सोपपदात्तु क्विपि कृत्स्वरेणैव चसिद्धम्।
अन्यत्र मध्योदात्त इति। स हि `वृतु वर्त्तने' इत्यस्मादिनिप्रत्ययेन व्युत्पाद्यते। `दॄ विदारणे'।
साम्बतापौ भावगर्हायामिति। साम्बो भिक्षते, अम्बया सह भिक्षणं गर्हितम्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरस्यापवादः। तापो दस्यूनाम्। धार्मिकेषु दस्युकर्तृकस्तापो गर्हितः। `कर्षात्वतः' इत्येव सिद्धे भावगर्हाया अन्यात्राऽऽद्युदात्तार्थं वचनम्।
उत्तमशश्वत्तमाविति। तमबन्तावेतौ। द्रव्यप्रकर्षविवक्षायामामभावः, पित्त्वादनुदात्ते प्राप्ते पाठः। सर्वत्रेति। भावगर्हायाम्, अन्यत्र च। छन्दसि, भाषायां चेत्यन्ये।
`भक्ष अदने' चुरादिः, `मन्थ विलोडने', `भुज कौटिल्ये', `दिह उपचये'। एरजण्यन्तानामिति। ये तु अनार्षमेतदचनमित्याहुः, तेषां भक्षशब्दस्य पाठे प्रयोजनं मृग्यम् ।।
अनुदात्तस्य च यत्रीदात्तलोपः ।। 6.1.161 ।।
कुमारशब्दोऽन्तोदात्त इति। फिषित्यनेन। अन्यत्रापि प्रातिपदिकस्यान्तोदात्तत्वमनेनैव द्रष्टव्यम्। पथिन्शब्दोऽन्तोदात्त इति। `पतेस्थ च' इतीन्प्रत्ययान्तत्वात्। कुमुदादयोऽन्तोदात्ता इति। कुमुदशब्दो मूलविभुजादित्वात्कप्रत्ययान्तः, नडशब्दोऽव्युत्पन्नः, `वि गत्यादिषु' अस्मादसच्, तुडागमश्च। वेतसश्चित्स्वरेणान्तोदात्तः।
प्रासङ्ग्य इति। प्रासज्यत इति प्रासङ्गः, कर्मणि घञन्तः, `तद्वहति' इति `प्राग्घिताद्यत्' इति यत्। नैतदस्तीति। उदात्तो लुप्यत इति। यत्तस्य प्रतिषेधः। कथं नैतदस्ति ? इत्याह--स्वरिते हीति। `प्रागेव पदसंज्ञायाः स्वरविधिसमकालमेव शेषनिघातो भविष्यति' इत्युक्तं पुरस्तात्। तत् कुत उदात्तलोप इति। न कुतशिचिदित्यर्थः। तदेतदित्यादि। यस्मादेवमनुदात्तग्रहणस्य व्यावर्त्त्य न सम्भवति, तस्मादेतदनुदात्तग्रहणमादेरनुदात्तार्थम् ।
अथासत्यनुदात्तग्रहणे कस्य स्यात्? इत्यत आह--अन्त इति। मा हि धुक्षातामिति। दुहेर्माङि लुङात्मनेपदम्, आतामाथामौ, च्लेः क्सः। `अदुपदेशात्' इति लसार्वधातुकानुदात्तत्वम्, क्सः प्रत्ययस्वरेणान्तोदात्तः, `क्सस्याचि' इत्यकारलोपः। माङः प्रयोगोऽडागमनिवृत्त्यर्थः, अटि हि सति पदमाद्युदात्तं भवति, हिशब्दप्रयोगः `हि च' इति निघातप्रतिषेधार्थः। अत्रासत्यनुदात्तग्रहणे आतामाथामोर्द्वितीयस्याच उदात्तः स्यात्, अन्ताधिकारात्; सति त्वस्मिन्नादेर्भवति। इदं दु वक्तव्यम्, `यत्रोदात्तलोपः' इत्युच्यमाने कथमन्त्यस्य प्रसङ्गः, न हि तदुदात्तलोपस्य निमित्तमिति ? उच्यते; आदेरपि तर्हि न प्राप्नोति, तस्यानुदात्तलोपं प्रत्यनिमित्तत्वात्, `क्सस्याचि' इत्यजादौ प्रत्यये विधानात्। तस्माद्यत्र प्रत्यय उदात्तलोपस्तत्सम्बन्धिनोऽनुदात्तस्योदात्तो भवतीति सूत्रार्थेऽन्ताधिकारादन्त्यस्य प्रसङ्ग। यदि तु निमित्तत्वानादरेण यत्रानुदात्ते परतः उदात्तलोपः, तस्योदात्तो भवतीति सूत्रार्थः, तदा नान्त्यस्य प्रसङ्गः।
भृगव इति। `अत्रिभृगुकुत्स' इत्यादिना बहुषु लुक्। तत्र बहुष्वित्यर्थग्रहणम्, न बहुवचनस्य। वैदीति। विदाद्यञन्तात् `शार्ङ्गरवाद्यञो ङीन्' ।।
चितः ।। 6.1.163 ।।
भङ्गुरमिति। `चजोः कु घिण्यतोः' इति कुत्वम्। कुण्डिना इति। कुण्कडशब्दान्मत्वर्थीय इनिः, स्त्रियां ङीप्, कुण्डिनीशब्दो मध्योदात्तः, कुण्डिन्या अपत्यानि बहूनि, गर्गादियञो बहुषु लुक्, परिशिष्टस्य कुण्डिनजादेशः।
चिति प्रत्यये इति। ननु च नात्र चितीति प्रत्ययग्रहणं कुण्कडिनजादेरपि ग्रहणात् ? तस्मादयमत्रार्थः---यत्र चित्प्रत्ययस्तत्र समुदायस्येष्यत इति। कथं पुनरेतल्लभयते? चित इत्यवयवादेषा षष्ठी, न कार्यिणः, चितोऽवयवस्य सम्बन्धी यः समुदायः स कार्या। अथ वा--चिदस्यास्तीति चितः, अर्शआदेराकृतिगणत्वादच् प्रत्ययः, षष्ठ्यर्थे प्रथमा, तेन चिद्वतः समुदायस्येत्यर्थः। अत्र च लिङ्गम्-अकः चित्करणम्, अन्यथा तस्यैकाच्त्वादनर्थकं तत्स्यात्। कुण्कडिनजादेर्व्यपदेशिवद्भावेन चिद्वत्त्वम् ।।
तद्धितस्य ।। 6.1.164 ।।
कौञ्जायना इति। कुञ्जस्यापत्यानि बहुनि, `गोत्रे कुञ्जादिभ्यश्च्फञ्', `व्रातच्फञोरस्त्रियाम्' इति ञ्यः, `ञ्कयादयस्तद्राजाः', `तद्राजस्यबहुष्' लुक्।
किमर्थंमिति। पूर्वेण सिद्धमिति प्रश्नः। परमपीति। चकारः `ब्रातच्फञोरस्त्रियाम्' इत्यत्र विशेषणेन चरितार्थः। ञकारोऽपि वृद्ध्यर्थः, तत्रासत्यस्मिन्परत्वाद् ञित्स्वरः ।।
तिसृभ्यो जसः ।। 6.1.166 ।।
अर्थगतं बहुत्वं शब्दे आरोप्य बहुवचननिर्द्देशः। तिस्न इति। अन्तोदात्तस्य त्रिशब्दस्य स्थाने तिसृशब्द आदेशः स्थानिवपद्भावादन्तोदात्तः। `अनुदात्तौ सुप्पितौ' इति जसनुदात्तः, तत्राऽचि परतः `अचि र ऋतः'। `जसः' इति किमर्थम् ? तिसृका, स्वार्थे क प्रत्ययः, `तिसृभावे संज्ञायां कनि' इति तिस्रादेशः ? नित्स्व्रोऽत्र बाधको भविष्यति। नाप्रप्ते स्वरान्तरे तिसृस्वर आरभ्यते, स यथैव `सुप्पितावनुदात्तौ' इत्येतं बाधते एवं नित्स्वरमपि बाधेत ? नैष दोषः; येन नाप्राप्ते इत्येतस्य बाधनं भविष्यति, न वाप्राप्ते `अनुदात्तौ सुप्पितौ' इत्येतस्मिन् तिसृस्वर आरभ्यते, तिसृकेत्यत्रापि हि टापा सहैकादेशस्य स्थानिवद्भात्पित्स्वरः प्राप्नोति। अथ वा `मध्येऽपवादाः पूर्वान्विधीन्बाधन्ते' इति तिसृस्वरः `अनुदात्तौ सुप्पितौ' इत्येतमेव बाधिष्यते, न नित्स्वरम्; बहुवचनविषयत्वाद् द्विवचनैकवचने न स्तः। शसि तु भवितव्यम् `उदात्तयणो हल्पूर्वात्' इति। अन्याः सर्वा हलादयो विभक्तयस्तत्र `षट्त्रिचतुर्भ्यो हलादिः' `झल्युपोत्तमम्' इत्यनेन स्वरेण भवितव्यम्, तत्रान्तरेणापि जस्ग्रहणं जस एव भविष्यति ? अत आह-जस्ग्रहणमुपसमस्तार्थमिति। समासेऽपि तिसृशब्दात्परो जस् भविष्यति।
अतितिस्राविति। अत्र `अतेरकृत्पदे' इत्यत्र `अतेर्धातुलोप इति वक्तव्यम्' इति वचनात्प्राप्तमन्तोदात्तत्वं बाधित्वा विभक्तेरुदात्तत्वं स्यात्। जस्ग्रहणात्तु `उदात्तस्वरितयोर्यणः' इति स्वरितो भवति। अतितिस्र इत्यत्र त्वनेन जस उदात्तत्वं भवत्येव ।।
चतुरः शसि ।। 6.1.167 ।।
अनुकरणत्वेनार्थपरत्वाभावादेकवचनम्। इह चतस्रः पश्यइत्यत्र चतस्रादेशे कृते स्थानिवद्भावादयं स्वरः प्राप्नोति? तत्राह--चतस्रादेश इति। स्थानिवद्भावादेवाद्युदात्तत्वे सिद्धे पुनराद्युदात्तत्वनिपातनमस्य स्वरस्य बाधनार्थमिति। भावः। यथैव तर्हि निपातनस्वरः शस्स्वरंक बाधते, एवम् `षट्त्रिचतुर्भ्यो हलादिः' इत्येतमपि विभक्तिस्वरं बाधेत--चतसृणामिति? ज्ञापकात्सिद्धम्, यदयम् `षट्त्रिचतुर्भ्यो हलादिः' इति हलादिग्रहणं करोति, तज्ज्ञापयति--`न निपातनस्वरो विभक्तिस्वरं बाधते' इति। तद्धि तत्र न कर्तव्यम्, कथम् ? सर्वेषामपि बहुवचनविषयत्वाद् द्विवचनैकवचने न सम्भवतः। न चोपसमस्ते सम्भवः; विहितविसेषणाश्रयणात्। तत्र षड्भ्यस्तावत् जश्शसोर्लुका भवतिव्यम्। अन्याः सर्वा हलादयो विभक्त्यः। स्त्रीशब्दऽपि जसि न भवितयम्; असर्वनामस्थानमित्यधिकारात्, शसि भवितव्यम् `एकादेश उदात्तेनोदात्तः' इति, अन्या हलादयः। तिसृशब्देऽपि जसि `तिसृभ्यो जसः' इति भवितव्यम्, शस्यपि `उदात्तयणो हलपूर्वात्' इति, अन्या हलादयः। चतुर्-शब्देऽपि जस्यसर्वनामस्थान इति निषेधः, शसि `चतुरः शशि' इत्ययमेव भवति, अन्यास्तु हलादयः। तदेतद्धलादिग्रहणं चतस्रः पश्येत्यत्र मा भूदित्येतदर्थमेव कृतम्। यदि च निपातनस्वरेण विभक्तिस्वरो बाध्येत हलादिग्रहणमनर्थकं स्यात्। चतस्रः पश्येत्यत्र निपातनस्वरेणैव बाधितत्वाद् विभक्तिस्वरस्याप्रसङ्गात् किं तन्निवृत्त्यर्थेन हलादिग्रहणेन! तत्क्रियमाणम्--विभक्तिस्वरस्य बलीयस्त्वं ज्ञापयतीति चतसृणामित्यत्र विभक्तिस्वरः सिद्धः। यणादेशस्य चेति। `अचि र ऋतः' इति रादेशस्यास्मात्स्वरात्पूर्वं परत्वात्कृतस्य। एतदुक्तं भवति--परत्वादादेशे कृते ऋकारस्य तावन्न भवति, तशब्दाकारस्यापि न भवति; रादेशस्य स्थानिवद्भावादिति। न च स्वरविधौ स्थानिवत्त्वनिषेधः, `स्वरदीर्घयलोपेषु लोपजादेश एव न स्थानिवत्' इति वचनात् ।।
सावेकाचस्तृतीयादिर्विभक्तिः ।। 6.1.168 ।।
साविति सप्तमीबहुवचनस्य सुशब्दस्य गुहणमिति। न प्रथमैकवचनस्य; व्याख्यानात्। प्रयोजनं तूत्तरत्र वक्ष्यति। पातेति। पातेर्लटः शत्रादेशः। राज्ञेति। `सौ' इत्येत्स्मिन्नसत्येकाचः परा तृतीयादिविभक्तिरुदात्ता भवतीत्यर्थो भवति, भवति चायमल्लोपे कृते एकाच्। ननु च विहितविशेषणं विज्ञास्यते-एकाचो या विहिता तृतीयादिरिति ? न; प्रमाणाभावात्। सप्तमीबहुवचनस्य ग्रहणादिति। प्रथमैकवचने तु `त्वाहौ सौ' इति त्वादेशे कृते युष्मच्छब्द एकाच् भवति, शेषे लोपे कृतेऽकारान्तत्वात् `साववर्ण' इति प्रतिषेधो भविष्यति। तदिह प्रथमैकवचनाग्रहणे को हेतुरिति चिन्त्यम् ।।
अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे ।। 6.1.169 ।।
नित्यशब्दः स्वर्यते इति। स्वरितत्वमस्य क्रियत इत्यर्थः। तत्र स्वरितो गुणः क्रियारूपेण निर्द्दिष्टः, स्वरितत्वे सति किं भवति? इत्याह--तेनेति। `स्वरितेनाधिकारः' इत्यत्रायमप्यर्थो व्याख्यातः--स्वरितेन लिङ्गेन यदत्राधिकारः स प्रत्येतव्य इति, ततो नित्याधिकारविहितः समासोऽत्र प्रतिषिध्यते। अवाचेति। नञ्समासः। तत्पुरुषोऽयमिति। न बहुव्रीहिः। तेन `नञ्सुभ्याम्' इत्यन्तोदात्तत्वं न भवति, अव्ययपूर्वपदप्रकृतिस्वर एव भवतीति भावः। प्रायेण तु सुवाचा, सुत्वचा इति पाठः। तत्र प्रत्युदाहरणादिगियं दर्शितेति व्याख्येयम्, न पुनरत्र प्रसङ्गः; प्रादिसमासस्य नित्यसमासत्वात्।
अथोत्तरपदग्रहणं किमर्थम्, यावता `अनित्यसमासे' इत्याधारसप्तमी विज्ञास्यते---अनित्यसमासस्थान्तोदत्तादेकाचः परा तृतीयादिर्विभक्तिरिति, चच्चोत्तरपदमेव? तत्राह--उत्तरपदग्रहणमिति। अयं भावः--सत्सप्तमी विज्ञायेत, ततश्व समासस्याश्रयत्वात्तस्यैवेकात्त्त्वमन्तोदात्त्वं च विशेषणं स्यादिति।
अग्निचिता, सोमसुतेति। `अग्नौ चेः', `सोमे सुञः' इति क्विप्।
`नित्यशब्दः स्वर्थते' इति यदुक्तम्, तस्य प्रयोजनमाह--यस्त्विति ।।
अञ्चेश्छन्दस्यासर्वनामस्थानम् ।। 6.1.170 ।।
दधीच इति। दध्यञ्चतीति `ऋत्विक्' इत्यादिना क्विन्, अनुनासिकलोपः, `अचः' इत्यकारलोपः, `चौ' इति दीर्घत्वम्।
शसोऽपि परिग्रहर्थमिति। शसादिग्रहणं तु न कृतम्, नपुंसके शसि मा भूत्, सुटि च यथा स्यादिति ।।
ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः ।। 6.1.171 ।।
प्रष्ठौह इति। `छन्दसि सहः', `वहश्च' इति ण्विः। वाह ऊठि `एत्येधत्यूठसु' इति वृद्धिः।
ऊठ्युपधाग्रहणमिति। उपधाभूत ऊठ् गृह्यते, न त्वन्त्य इत्यर्थः। पञ्चमीनिर्द्देशादन्त्यस्यैव ग्रहणे प्राप्ते वचनम्।
अन्तोदात्तादित्यधिकारादन्वादेशे न भवतीति। अत एव हेतोः `सावेकाचः' इत्यनेनापि न भवति। यदि स्यात्, इहान्तोदात्ताधिकारो व्यर्थः स्यात्। ननु च यदीमे नानुशसो अभ्यवर्षादिति शसोऽन्वादेशेन मा भूदिति प्रयोजनम्, `एकाचः' इत्यधिकारादेव सिद्धम्, तथा च तदस्मै तथ्य तदस्य प्रियं प्रेणा तदेषामित्यादि सर्वानुदात्तं पदमधीयते।
पदादयो निश्पर्यन्ता गृह्यन्त इति। `पदन्नोमास्' इति सूत्रे निर्द्दिष्टाः, तत्र एकाच इत्यनुवृत्तेनिशः परे न गृह्यन्ते। यदा त्वल्लोपे कृते एकाचो भवन्ति, तदोदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वं सिद्धम्। येऽप्याद्युदात्तानां स्थाने विधीयन्ते आदेशास्ते तत्रैवान्तोदात्ता निपात्यन्ते। वृत्तावप्येतदेवोक्तं द्रष्टव्यम्। आसनीति। आस्यशब्दस्यासनादेशः। यत्रैकाचस्तेषां शसर्थं ग्रहणम् ।।
अष्टनो दीर्घात् ।। 6.1.172 ।।
घृतादिपाठादन्तोदात्त इति। तेनोत्तरार्थमनुवर्तमानस्य `अन्तोदात्तात्' इत्यस्य नेहापि विरोध इति भावः। अष्टस्विति।
ननु चात्र दीर्घग्रहणमनर्थकम्, यावता `अष्टन आ विभक्तौ इत्यनेन भवितव्यम्, तद्विधौ विकल्पस्याभावात् ? इत्यत आह--इदमेवेति। नित्ये ह्यात्वे व्यावर्त्याभावादिह दीर्घग्रहणमनर्थकं स्यात्। कृतात्वस्य च षट्संज्ञामिति। इदमेव दीर्घग्रहममष्टनो ज्ञापयतीति सम्बन्धः। कथमेतत् ? इत्यत आह--अन्यथा हीति। आत्वाभावपक्षेऽयं स्वरो मा बूदित्येतदर्थं हि दीर्घग्रहणम्। यदि च कृतात्वस्याष्टनः षट्संज्ञा न स्यात्, तदाऽऽत्वपक्षे सावकाशमिममष्टनः स्वरमनात्वपक्षे षट्संज्ञायां सत्याम् `झल्युपोत्तमम्' इति षट्स्वरः परत्वाद्बाधिष्यते--इत्यनर्थकं दीर्घग्रहणं स्यात्। यदा तु कृतात्वस्याष्टनः षट्संज्ञा भवति, तदा नाप्राप्ते षट्स्वरे आरभ्यमाणोऽष्टनः स्वरोऽनात्वपक्षेऽपि स्यादिति तन्निवृत्तये क्रियमाणमर्थवद्भवति। कथं पुनरेकेन यत्नेनोभयं शक्यं ज्ञ्पयितुम् ? को दोषः ! अन्यथानुपपत्त्या ह्यनेकोऽप्यर्थो ज्ञाप्यते, तेनैतदुभयमन्तरेणानुपपद्यमानमुभयमपि ज्ञापयति।
शतुरनुमो नद्यजादी ।। 6.1.173 ।।
तुदती, नुदतीति। तुदादित्वाच्छः, `आच्छीनद्योर्नुम्' विकल्पितः। तत्र नुमभावपक्षे उदाहरणम्, नुम्पक्षे प्रत्युदाहरणम्।
तुदन्तीति। `श्नाभ्यस्तयोरात' इत्याकारलोपः। अत्र प्रत्ययस्वरेण शत्रन्तमन्तोदात्तम्। तत्रेत्यादिना प्रत्युदाहरणस्य द्व्यङ्गविकलतां परिहरति--तत्र पूर्वत्रासिद्धमिति नेष्यति इति। अत्र च ज्ञापकमयमेवानुम इति प्रतिषेधः, न हि किञ्चिदेकादेशस्वरमन्तरेण शत्रन्तं सनुम्कमन्तोदात्तमिस्ति।
बुहन्महतोरुपसंख्यानमिति। शतृवद्भावादेव सिद्धे नियमार्थमिदम्--पृष्टदादीनां मा भूदिति। `गौरादिषु बृहन्महतोः पाठोऽनर्थकः' इति स्त्रीप्रकरण एवोक्तम् ।।
उदात्तयणो कहल्पूर्वात् ।। `उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' इति प्राप्ते वचनम्। वहुतितवा ब्राह्मण्येति। स्त्रीलिङ्गोपादानं नाभावनिवत्त्यर्थम्। `तनोतेर्डउः सन्वच्च' इति, `चालनी तितउः पुमान्', ततो बहुव्रीहिः, `बहोर्नञ्वदुत्तरपदभूम्नि' इत्युत्तरपदान्तोदात्तः, तत्र `उदात्तस्वरितयोः' इति विभक्तेः स्वरितत्वम् ।
नकारग्रहणं च कर्त्तव्यमिति। उदात्तस्थाने यो नकारस्ततोऽपि परस्या नद्या उदात्तत्वं वक्तव्यमित्यर्थः। तदर्थं केचिद् `उदात्तहलो हल्पूर्वात्' इति पठनीयमिति मन्यन्ते। वाक्पत्नीति। तत्पुरुषः। `पत्यावैश्वर्य्ये' इति पूर्वपदप्रकृतिस्वरस्य `न भूवाक्चिद्दिधिषु' इति प्रतिषेधात्समासान्तोदात्तत्वे `विभाषा सपूर्वस्य' इति नकारः ।।
नोङ्धात्वोः ।। 6.1.175 ।।
ऊङो धातोश्च य उदात्तयण् हल्पूर्व इति। अनेन पूर्वस्याः प्राप्तेरयं प्रतिषेध इति दर्शयति। तस्मात्परा तृतीयादिर्विभक्तिरिति। यद्यपि पूर्वसूत्रे `नद्यजादी' इत्यनुवर्त्तते न `तृतीयादिः' इति, तथाप्यत्र बाहुल्येन तृतीयादेरेव सम्भवादिधमुक्तम्। तथा हि--ऊङ्धातुयणः परा नदी तावन्न सम्भवति, नाप्यूङ्यणः शस् सम्भवति, धातुयणस्तु सम्भवति ।।
ह्रस्वनुड्भ्याम्मतुप् ।। 6.1.176 ।।
अक्षण्वतेति। `छन्दस्यपि दृश्यते' इत्यनङ्, `अनो नुट्' इति नुडागमः, पूर्वस्य नकारस्य लोपः। शीर्षत्वतेति। `शीर्षञ्छन्दसि' इति निपातितः। वसुशब्द्र आद्युदात्त इति। वसेरुप्रत्ययः, `धान्ये नित्' इत्यधिकारे। अथेहकस्मान्न भवति--मरुतोऽस्य सन्ति मरुत्वानिति ? मरुच्छब्दो हि `मृग्रोरुतिः' इति उतिप्रत्ययान्तत्वात्प्रत्ययस्वरेणान्तोदात्तः। न च तकारेण व्यवधानम्, स्वरविधौ व्यञ्जनस्याविद्यमानत्वात् ? इत्यत आह--अत्रेति। कथं पुनर्ज्ञायते नाक्षी यते इति ? नुड्ग्रहणात्। तद्ध्यक्षण्वतेत्यादौ यथा स्यादित्येवमर्थम्, अन्यथा नकारस्य लुप्तस्यापि स्वरविधावसिद्धेर्नकारेण व्यवधानान्न स्यादिति। यदि चात्र व्यञ्जनमविद्यमानवत्स्यात्, ततोऽसिद्धलोपस्यापि तस्यावविद्यमानत्वादेव स्वरः सिद्ध इति नुड्ग्रहणमनर्थकं स्यात् ? नैतद्युक्तमुच्यते; यदि हि नकारलोपस्यासिद्धत्वेऽपि नकारोऽविद्यमानवत्स्यात्, स्वरविधौ नकारलोपस्यासिद्धवद्वचनमनर्थकं स्यात्। तस्मान्नलोपविषयेऽविद्यमानवद्भावो न प्रवर्त्तत इति कर्त्तव्यमेव नुड्ग्रहणम्। एवं तर्हीष्टिरेवेयम्--`अत्र स्वरेऽविद्यमानवत्परिभाषा न प्रवर्त्तते' इति।
रेशब्दाच्चेति पाठः। आरेवानिति। रयि अस्यास्तीति मतुपि `रर्येर्मतौ बहुलम्' इति सम्प्रसारणम्, पूर्वत्वम्, आद्ग्रणः, ततो ह्रस्वाभावाद्वचनम्।
त्रिवतीरिति। `छन्दसीरः' इति वत्वम्, `वा छन्दसि' इति पूर्वसवर्णदीर्घः ।।
नामन्यतरस्याम् ।। 6.1.177 ।।
मतुबिति चेति। चच्चार्थात्सप्तम्यन्तं सम्पद्यते।
अन्यथा हि साम्प्रतिक एव स्यादिति। साम्प्रतिकाभावे हि भूतपूर्वगतिर्भवति, न तु तस्मिन्सत्यपि; ततस्तिसृणाम्, चतसृणामित्यत्र `न तिसृचतसृ' इति दीर्घप्रतिषेधात्साम्प्रतिक एव ह्रस्वो विद्यते इति तत्रेव स्यात्; अग्नीनाम्, वायूनामित्यादौ परत्वान्नित्यत्वाच्च दीर्घत्वे कृते ह्रस्वाभावान्न स्यात्, तस्मान्मतुपा ह्लस्वो विशेष्यते। यद्येवम्, `मतौ बह्वचोऽनजिरादीनाम्', `शरादीनां च' इति येषां मतौ दीर्घत्वमुच्यते तेषां न स्यात् ? नैष दोषः; संज्ञायामिति वर्त्तते, ततश्चातुरर्थिक एव मतौ दीर्घत्वम्, न तु `तदस्यास्यास्मिन्' इत्यत्र; तत्र मतौ ह्रस्वान्तत्वाद्भविष्यति। ेवमपि तिसृणाम्, चतसृणामित्यत्र न स्यात्, तिसृचतसृभावस्यैव तत्राभावात् ? इष्टमेवैतत्संगृहीतम्। अत्र हि `षष्टत्रिचतुर्भ्यो हलादिः' इति नित्यमेव विभक्तेरुदात्तत्वमिष्यते। धेन्वाम्, शकट्यामिति। `धेट इच्च' इति नुप्रत्ययान्तो धेनुशब्दोऽन्तोदात्तः, `शकटिशकट्योरक्षरमक्षरं पर्यायेण' इति शकटीशब्दोऽपि पक्षेऽन्तोदात्तः। त्रपुशब्दो वसुशब्दश्चाद्युदात्तः ।।
षट्त्रिचतुर्भ्यो हलादिः ।। 6.1.179 ।।
अन्तोदात्तादिति निवृत्तमिति। यद्येतदनुवर्त्तेत पञ्चानाम्, नवानाम्, चतुर्मामित्यत्र न स्यात्; `न्रः संख्याया' इत्याद्युदात्तत्वात्, क्व तर्हि स्यात् ? सप्तानाम्, अष्टानाम्। सप्ताष्टशब्दौ घृतादित्वादन्तोदात्तौ। `न्रः' इति रेफनकारान्ताया इत्यर्थः।
चतस्रः पश्येति। यथैतदिह हलादिग्रहणस्य व्यावर्त्त्यं तथा `चतुरः शसि' इत्यत्रावोचाम ।।
झल्युपोत्तमम् ।। 6.1.180 ।।
झलादौ विभक्तौ परतः षट्त्रिचतुर्णां त्रिप्रभृत्यक्षराभावात् झलादिविभक्तयन्तस्य पदस्य ग्रहणम्, यदाह--विभक्त्यन्ते पदे उपोत्तममुदात्तम्भवतीति ।।
न गोस्वन्साववर्णराडङ्क्रुड्कृद्भ्यः ।। `सौ' इति यदि सप्तमीबहुचनस्य ग्रहणं स्यात्, तेभ्यः, केभ्य इत्यत्र न स्यात्, तत्किंशब्दयोः सप्तमीबहुवचने परतस्त्यदाद्यत्वे कृते `बहुवचने झल्येत्' इत्येत्वविधानात्; ताभिर्याभिरित्यादावेव स्यात्, तासुयास्वित्यत्रावर्णान्तत्वात्। तस्मात्प्रथमैकवचनस्य ग्रहणामित्याह--सौ प्रथमैकवचन इति। अनन्तरस्य प्रतिषेध्यस्यासम्भवात्सर्वस्यैव षाष्ठिकस्वरस्य प्रतिषेधो विज्ञायते इत्याह-इत्येभ्यो यदुक्तं तन्न भवतीति। एवं च वृक्षवानित्यादौ `ह्रस्वनुड्भ्यां मतुप्' इत्यपि प्रतिषेधो भवति, उदात्तनिवृत्तिस्वरस्य प्रतिषेधो नेष्यते। सुगुनेति । बहुव्रीहौ `गोस्त्रियोरुपसर्जनस्य' इति ह्रस्वः, `नञ्सुभ्याम्' इत्यन्तोदात्तत्वम् ।
शुनेति। ननु च नलोपे कृते साववर्णान्तमेतत् ? न ; स्वरविधौ नलोपस्यासिद्धत्वात्। न चायं स्वरविधिः, स्वरप्रतिषेधोऽयम् ? एवं तर्हि शुनः प्रतिषेधं कुर्वन्नेतज्ज्ञापयति--अस्मिन्प्रतिषेदे नलोपोऽसिद्धो भवतीति। तेन नृशब्दात्सप्तम्येकवचने नरीत्यत्र `सावेकाचः' इति विभक्तेरुदात्तत्वं भवति, पितृमानित्यादौ `ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वं भवति, अन्यथा `साववर्ण' इति प्रतिषेधः स्यात्।
प्राचेति। पूर्ववन्नलोपदीर्घादि। क्रुञ्चेति। `कुञ्च क्रुञ्च कौटिल्याल्पीभावयोः', `ऋत्विक्' इत्यादिना क्विन्, तत्रैव सूत्रे क्रुञ्चेति निपातनान्नलोपाभावः। कृतिर्वेति। `कृती छेदने' ।।
दिवो झल् ।। 6.1.183 ।।
झलादिरिति। कथं पुनरसति सप्तमीनिर्देशे तदादिविधिर्भवति; केवलझलात्मिकाया विभक्तेरभावात्, अस्तु तर्हि तदन्तविधिः, का पुनर्झलन्ता विभक्ति, शसादिः सकारान्ता ? एवं तर्हि `षट्त्रिचतुर्भ्या हलादिः' इत्यत आदिग्रहणमनुवर्तते, दिवः परा विभक्तिर्नोदात्ता भवति, कीदृशी ? यस्या झलादिरिति।
अयं योगः शक्योऽवक्तुम्। कथम् ? एवं वक्ष्यामि---`अष्टनो दीर्घात्, दिवोझलादिः, शतरनुमो नदी च' इति, `ऊडिदम्' इत्यादौ च दिवो ग्रहणं न करिष्यमि ? एवमपि `नृ चान्यतरस्याम्' इत्युत्तरसूत्रे तत्र झल्ग्रहणं कर्तव्यम्, `नदि च' इति चकारश्च क्रियत इति नास्ति लाघवे विशेषः ।।
तित्स्वरितम् ।। 6.1.185 ।।
इह कस्मान्न भवति `ऋत इद्धातोः' आस्तीर्णम्, विस्तीर्णम्, तत्कालग्रहणार्थतया चरितार्थत्वादिति चेत् ? न; अनेकप्रयोजनदर्शनादनुबन्धानाम्। तद्यथा आक्षिक इत्यादौ ठकि सति स्वरो वृद्धिश्च भवति। एवं नर्हि नायमिकारस्तपरः, किं तर्हि? दपरः। यद्येवम्, ऋकारस्य स्थाने आन्तर्य्यतो दीर्घः प्राप्नोति ? `भाव्यमानोऽण् सवर्णान्न गृह्याति' । इद्येवम्, `अदसोऽसेर्दादु दो मः' इमूभ्याम् दीर्घस्य स्थाने दीर्घो न स्यात् ? नैष दोषः ज्ञापितमेतत् `दिव उत्' `ऋत उत्' इति तपरकरणेन--भाव्यमानोऽप्युकारः सवर्णान् गृह्णातीति। तयोरेव तर्ह्युकारयोः स्वरितत्वप्रसङ्गः ? तावपि तहि न तपरौ, किं तर्हि ? दपरौ। कथं तर्हिं ज्ञापकम्? `तपरस्तत्कालस्य' इत्यत्र दकारोऽपि चर्त्वभूतोनिर्दिश्यते, `अणुदित्सवर्णस्य चाप्रत्ययस्तपरस्तत्कालस्य' इति, यदि दकारोऽपि निर्दिश्यते `ऋदोरप्' इत्यत्रापि दद्ग्रहणादिहैव, स्याद्यवः, स्तवः; लवः, पव इत्यत्र न स्यात्; `तादपि परस्तपरः' इति तादपि परस्य तपरत्वात्। एवं तर्हि ऋदोरप्' इत्यत्र धकारो जश्त्वभूत उच्चारणार्थो निर्दिश्यते, तत्र जश्त्वस्यासिद्धत्वान्नायमृकारो दपरः। ये तु `प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम्' इति परिभाषां पठन्ति, तेषाम् `ऋत इद्धातोः' इत्यादौ सत्यपि तित्त्वेनास्य स्वरस्य प्रसङ्गः। `तपरस्तत्कालस्य' इत्यत्र दकारोऽपि न प्रश्लेष्टव्यः।
तस्यास्तु परिभाषाया भाष्यवार्त्तिकयोहिर।
अदर्शनादयं यत्नो महानस्माभिरादृतः ।।
तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः ।। तास्यादीनां समाहारद्वन्द्वः। अदुपदेशादिति। उपदिश्यत इत्युपदेशः, तस्याकारेण विशेषणात्तदन्तविधिः, अच्चासावुपदेशश्चादुपदेशः, उपदिश्यमानदशायां यदवर्णान्तं तस्मारित्यर्थः। अकारोपदेशादिति। अकारान्तादुपदेशादित्यर्थः। कर्त्तेत्यादि। लुङात्मनेपदे प्रथमपुरुषस्य डारौरसः, तासिः। एकवचने टिलोपः, इतरत्र `रि च' इति सलोपः।
आस्ते इत्यादावदादित्वाच्छपो लुक्।
तुदत इत्यादीनि तसन्तानि। कथं पुनः शबुपदेशेऽदन्तो भविष्यति, यावता पकारान्तोऽयं तत्र? इत्यत आह---अनुबन्धस्यानेकान्तत्वादकारान्तोपदेश एवेति। `उदीचामाङः'इति कृतात्वनिर्द्देशाज्झापकादनुमीयते---कार्येष्वनुबन्धाः श्रूयमाणा अपि न प्रतिबन्धका इति। पचमानो यजमान इति। लटः शानच्। नन्वत्र मुका व्यवधानम् ? अत आह--यद्यत्रेति। स्यादिति। सम्भावने लिङ्। अङ्गस्य योऽकारस्तस्य मुगित्याश्रयणादस्य पक्षस्य सम्भवः। तदा लसार्वधातुकमदुपदेशादनन्तरमिति। प्रवर्त्तते निघातः। `आतो ङितः' इतीयादेशस्तु न भवति; कअत इत्यत्र तपरकरणात्। अनन्तरयोगे पञ्चमी मृग्या, परमिति वाऽध्याहारः। अथाकारान्तस्याङ्गस्येति। अकारेणाङ्गस्य विशेषणादिति भावः। लसार्वधातुकस्येति। `सिद्धम्' इति वक्ष्यमाणेन सबन्धः, निघात इति चानुषङ्गः, तथा च लसार्वधातुकस्य निघातः सिद्ध इत्यर्थः। असिद्ध इति। प्रकृतत्वान्मुगिति गम्यते। बहिरङ्गत्वादिति। बहिरङ्गत्वं तु मुको बह्वपेक्षत्वात्। स हि अकारान्तविशिष्टमङ्गमाश्रयति आनञ्च प्रत्ययविशेषम्। अयं तु स्वरोऽदुपदेशणात्रं लसार्वधातुकमात्रं चापेक्षत इत्यन्तरङ्गः। चित्स्वरोऽपीत्यादि। चित्स्वरस्यावकाशः--चलनः, `चलनशब्दार्थादकर्मकाद्युच्' अस्यावकाशः--आस्ते, शेते इति; पवमान इत्यादौ परत्वादयं निघातश्चित्स्वरं बाधते। ननु चैकस्य द्विकार्ययोगे विप्रतिषेधः, न चात्रैको द्विकार्ययुक्तः, कथम्? आदेरनुदात्तत्वमन्त्यस्य चित्स्वर नात्रादेरनुदात्तत्वम्, किं तर्हि ? सङ्घातः कार्यी। अत्र ज्ञापकमुत्तरत्र वक्ष्यामः। ततश्चानस्य सर्वानुदात्तत्वेन भवितव्यम्, न त्वादेरित्यस्त्येव विरोध इति परत्वलादयं बाधते इति युक्तमेव।
चिनुतः, चिन्वन्तीति। ननु च `सार्वधातुकमपित्' इति श्नुरपि ङिदेव तत्कथमिदं प्रत्युदाहरणम् ? अत आह--ङिदयं श्नुः पूर्वस्य कार्यं प्रतीति। तत्र हि ङिति यत्कार्यं तदतिदिश्यते, यदाह--सिद्धं तु पूर्वस्य कार्यातिदेशादिति। नायं स्थितः सिद्धान्तः, `आतो ङितः' इत्यत्र वक्ष्यति--```सार्व्धातुकमपित्' इत्यत्र ङित इव ङिद्वदित्यङ्गीक्रियते इत्यादि। अत्र तु पक्षे परिहारः--उपदेशग्रहणमुभाभ्यामपि सम्भध्यते--ङिदुपदेशात्, अदुपदेशादिति। पचावः, पचाम इति। असत्युपदेशग्रहणे परत्वान्नित्यत्वाच्च दीर्घे कृते तपरकरणान्न स्यात्। ननु च तपरकरणं न करिष्यते ? यदितु न क्रियते--यातः, वात इत्यत्रापि प्राप्नोति। हतः, हथ इति। अत्र `अनुदात्तोपदेश' इत्यादिनानुनासिकलोपे कृते सत्यकारात्परं लसार्वधातुकं भवति, तथाप्युपदेशग्रहणान्न भवति। न हि हन्तिरदन्त उपदिश्यते। अथ योऽत्रादन्तो हशब्दस्तदाश्रयमनुदात्तत्वं कस्मान्न भवति? तावतोऽनुपदेशात्, समुदायपरो हि हन्त्युपदेशः। कतीह पचमाना इति। `पूङ्यजोः शाननु', तत्र च `लटः' इति निवृत्तत्वान्न लादेशोऽयम्। शिश्य इति। `एरनेकाचः' इति यणादेशः, `लिट् च' इत्यार्द्धधातुकमेतत्। यदधीत इति। यच्छब्दप्रयोगः `निपातैर्यद्यदि' इति निधातप्रतिषेधार्थः।
आदिः सिचोऽन्यतरस्याम् ।। 6.1.187 ।।
मा हि कार्ष्टामिति। हेः, माङ्श्च प्रयोगे पूर्वमेव प्रयोजनमुक्तम्। अपरो मध्योदात्त इति। ननु न वलादिरिह प्रत्ययः, इडागमः, आगमाश्चानुदात्ता भवन्ति, तस्मादिहाप्यन्तोदात्तत्वेन भवितव्यम् ? अत आह--सिचश्चित्करणादिति।
अनिटः पित इति। अनिटः सिचः परः पित्पक्षे उदात्तो भवति, पक्षे त्वनुदात्तः, तेन मा हि कार्षमिति तिङन्तं पक्षे आद्युदात्तम्, पक्षे त्वन्तोदात्तम्; अन्यथा धातुस्वरेण नित्यमाद्युदात्तं स्यात्। मध्योदात्त एवेति। सिचः स्वरेण, एवकारेण न त्वन्तोदात्त इति दर्शयति ।।
स्वपादिहिंसामच्यनिटि ।। 6.1.188 ।।
स्वपादिरा वृत्कारणादिति। आ गणान्तादित्यर्थः। तत्र `ञिष्वप् शये', `श्वस प्राणने', `अन च' इत्येतेब्यः परे जक्षित्यादयोऽभ्यस्तसंज्ञकाः, तेषु परत्वातद् `अभ्यस्तानामादिः' इति स्वरो भवति, ये तु ततः परे `षस् स्वप्ने' , वश कान्तौ', `ह्नूङ् अपनयने', चर्करीतमिति; तत्र चर्करीतीतमभ्यस्तम्। अन्ये तु `षसिवसी छान्दसौ', छन्दसि च दृष्टानुविधानम्। ह्नुङोऽप्ययं स्वरो न भवति `अहन्विङोः' इत्यनुवृत्तेः। पारीशेष्यादादितस्त्रिवेवायं स्वरः। हिसन्तीति। `हिसि हिंसायाम्' रुधादिः, `श्नान्नलोपः', `श्नसोरल्लोपः'।
अभ्यस्तानामादिः ।। 6.1.189 ।।
आदिरिति वर्त्तमान इति। `आदिः सिचोऽन्यचरस्याम्' इत्यतः। पुनरादिग्रहणं नित्यार्थमिति। अन्यथा आदिग्रहणसम्बद्धमन्यतरस्यांग्रहणमनुवर्तेत ।
अनुदात्ते च ।। 6.1.190 ।।
अनजाद्यर्थेमिदम्। जिहीते, मिमीत इति। `ई हल्यघोः', ङित्त्वाल्लसार्वधातुकानुदात्तत्वम्। `अविद्यमानोदात्ते' इति वदता `अनुदात्त इति बहुव्रीहिनिर्देशोऽयम्' इत्युक्तम्। तत्र प्रयोजनमाह--अनुदात्त इति। बहुव्रीहिनिर्देश इत्यादि। न विद्यते उदात्तो यस्मिन्नित्यनुदात्तः। मा हि स्म् दधादिति। शास्त्रीयेऽनुदात्ते गृह्यमाणे नित्यत्वादन्तरङ्गत्वाद्वा इकारलोपे कृतेऽचोऽनुदात्तस्य परस्याभावादाद्युदात्तत्वं न स्यात्, बहुव्रीहौ विज्ञाते तु भवति। दधात्यत्रेति। अत्र यणादेशस्य बहिरङ्गत्वेनासिद्धत्वादपि स्वरः सिद्धः ।।
सर्वस्य सुपि ।। 6.1.191 ।।
सर्वशब्द उणादिषु अन्तोदात्तो निपातितः, सर्वस्य विकारः सार्व इत्यनुदात्तादिलक्षणोऽञ् यथा स्यादिति।
प्रत्ययलक्षणेनापीत्यादि। `न लुमताङ्गस्य' इत्यत्रैतदुपपादितम्। सर्वस्वरोऽनकच्कस्येति।
भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति ।। आद्युदात्तस्यापवादोऽयम्। जागरामिति सौत्रौ निर्देशः। अत्र मदिर्दिवादिः, दरिद्राजाग्रावदादी, अन्ये जुहोत्यादयः। पञ्चमे लकार इति। लस्येत्वत्र दर्शितक्रमे पञ्चमकलकारो लेट्। लेट्शब्दस्तु वृत्तिकारदेशे जुगुप्सितः, यथाऽत्र द्रविहदेशे नीवीशब्दः। दधनदिति। `इतश्च लोपः परस्मैपदेषु', `लेटोऽडाटौ' इत्यट्। दरिद्रतीति। अत्र परत्वादाकारलोपे कृते इकारस्योदात्तत्वप्रसङ्गः।
अथ प्रत्ययग्रहणं किमर्थम्, यावता भ्यादिभ्यः परः पित्प्रत्यय एव सम्भवति, ननु चायमस्ति--`आडुत्तमस्य पिच्च', बिभयाति, अत्रापि लोडुत्तमस्यैव पित्त्वं विधीयते, न त्वाट् इति, आटसहितो लोडुत्तमः पिद्भवति स च प्रत्यय एव। अत एव लोङादेशात्पितः पूर्वमाड् भवति, प्रत्ययात्तु पूर्वो न भवति, आटसहितस्याप्रत्ययत्वादिति तन्निवृत्त्यर्थं प्रत्ययग्रहणमिति न वाच्यम्, कथण्? यथैव प्रत्ययत्वमाट्सहितस्य , तथा पित्त्तवमपि तस्यैव। इहं तर्हि प्रयोजनम्-- प्रत्ययात्पूर्वस्याच उदात्तत्वं यथा स्यात्सङ्घातस्य मा भूदिति, एतदेव ज्ञापकम्--स्वरविधौ सङ्घातः कार्यीति, तेन `तास्यनुदात्तेत्' इति निघातः `पचमानः' इत्यादौ चित्स्वरं परत्वाद्बाधत इति यदुक्तं तदुपपन्नं भवति। अथ पूर्वग्रहणं किमर्थम्, प्रत्यये पितीति वक्तव्यम्, तत्र `तस्मिन्निति निर्दिष्टे पूर्वस्य' इति पूर्वस्यैव भविष्यति ? इदं तर्हि प्रयेजनम्--पिति पूर्वं कार्यभाग्यथा स्यात्, पिदन्तं मा भूदिति। कथं पुनः सप्तमीनिर्द्देशे तदन्तस्य प्रसङ्ग? एतदेव ज्ञायति--स्वरविधौ सप्तम्यस्तदन्तसप्तम्य इति । किं सिद्धं भवति ? उपोत्तमं
रिति, रित्प्रत्यययान्ते उपोत्तममुदात्तं भवति, न तु रिति परतः पूर्वस्य; `चङ्यन्यतरस्याम्' चङ्न्तस्य। यद्येवम्, `चतुरः शसि' इति शसन्तस्य प्राप्नोति, शस्ग्रहणसामर्थ्यान्न भविष्यति। यदि हि `चतुरः शसि' इत्यनेन शस उदात्तत्वमिष्टं स्यात्, ततः `ऊडिदम्' इत्यस्यानन्तरम् `चतुरश्च' इति ब्रूयात् तत्रासर्वनामस्थानग्रहणानुवृत्त्या `षट्त्रिचतुर्भ्यो हलादिः' इति हलादेरुदात्तत्वविधानाच्च शस एव भविष्यति ।।
लिति ।। 6.1.193 ।।
प्परत्ययात्पूर्वमिति वर्त्तते, तेन लिदन्ते स्वरप्रसङ्गो न चोदनीयः ।।
आदिर्णमुल्यन्यतरस्याम् ।। 6.1.194 ।।
लोलूयंलोलूयमिति। एकाक्षु धातुषु लित्स्वरस्य, अस्य च विशेषाभावादनेकाजुदाहृतः। आम्रेडितानुदात्तत्वे कृत इति। `अनुदात्तं च' इत्यनेन ।।
अचः कर्तृयकि ।। 6.1.195 ।।
कर्तृवाचिनि सार्वधातुके विहितो यक् कर्तृयक्। उपदेश इति वर्त्तत इति। `अदुपदेशात्' इतियत्र यदुपदेशग्रहणं तदुपसमस्तमपि स्वरितत्वप्रतिज्ञानादिह सम्बद्ध्यते, तच्चार्थात्सप्तम्यन्तं सम्पद्यत इति मत्वोक्तम्, न तु सप्तम्यन्तमुपदेशग्रहणं प्रकृतमस्ति। यदि तूपदेशग्रहणं नानुवर्त्तेत, कार्यत इत्यादौ रपरत्वे सति न स्यात्, तस्मादुपदेश इत्यनुवर्त्त्यम्।
यद्येवम्, जायते स्वयमेवेत्यादौ न स्यात्, `ये विभाषा' इत्यात्वे सत्युत्तरकालमजन्ता जनादयः, न तूपदेशे ? इत्यत आह--जनादीनामिति। `ये विभाषा' इत्यत्र `अनुदात्तोपदेशे' इत्यत उपदेशग्रहणमनुवर्तते, सा च विषयसप्तमीति उपदेशएव जनादीनामात्वं भवति। जायते स्वयमेवेति। अन्तर्भावितण्यर्थो जनिः कर्मकर्तृविषयः। दृश्यते चान्तर्भावितण्यर्थस्य प्रयोगः, यथा--एकं द्वादशधा जज्ञे इति ।।
थलि च सेटीडन्तो वा ।। 6.1.196 ।।
`अन्यतरस्याम्' इति वर्त्तमाने वाग्रहणं कार्यिविकल्पार्थम्। अन्यतरस्यांग्रहणेन कार्यं विकल्प्यते, वाग्रहणेन कार्यिणः। तेनेडादयः पर्ययेण कार्यं प्रतिपद्यन्ते। ननु च `अन्तश्च तवै युगपत्' इत्यादौ युगपद्ग्रहणादेवान्यत्र पर्यायः सिद्धः ? सत्यम्; अदेरपि प्राप्ते वाग्रहणम्; अन्यथा श्रुतयोहिडन्तयोरेव कार्यित्वं विकल्पेत्, वाग्रहणे तु सति यद्येवं विकल्पोऽर्थः, अथापि समुच्ययः, सर्वथादेरपि भवति ।
सेटीति किमिति। इड्ग्रहणादेव थल् सेट् ग्रहीष्यत इति प्रश्नः। ययाथेति। अयमभिप्रायः--इड्ग्रहणं यदेडागमः क्रियते तदा तस्योदात्तार्थं स्यात्, ततश्च यथा लुलविथेत्यादौ चतुर्णां पर्यायेणोदात्तवलिधाने ययिथेप्यादौ चतुर्थाभावेऽपि पर्यायेणोदात्तत्यं भवति, एवमिडभावेऽपि स्यादिति ।।
ञ्नित्यादिर्नित्यम् ।। 6.1.197 ।।
प्रत्ययस्वरापवाद इति। बाहुल्यादेवमुक्तम्। `श्रोत्रियंश्छन्दोऽधीते' इत्, अत्र हि वाक्यार्थे पदवचनमित्यत्र पक्षे न प्रत्ययश्वरप्रसङ्गः ।
प्रत्ययलक्षणमत्र नेष्यत इति। ननु च `न लुमताङ्गस्य' इति प्रतिषेधादेव प्रत्ययलक्षणं न करिष्यते, किमुच्यते--प्रत्ययलक्षणमत्र नेष्यत इति ? एवमन्यतो ज्ञापितमेतत्--`स्वरविधौ सप्तम्यस्तदन्तसप्तम्यः' इति। ततश्च यथा पूर्वसूत्रे थलन्तं कार्यि; तथात्रापि ञ्निदन्तं न तु ततः पूर्वमङ्गमित्यनङ्गकार्यत्वात्प्रतिषेधो न सिद्ध्यतीति। यञि कनि चेति। चकाराद्बिदाद्यञि च ।।
आमन्त्रितस्य च ।। 6.1.198 ।।
अत्र `कारकादत्तश्रुत्योरेवाशिषि' इति प्राप्तिः प्रतिषिद्ध्यते, शेषनिधातेन बाध्य ित्यर्थः। प्रत्ययलक्षणमत्रेष्यत इति। षष्ठीनिर्देशेन तत्कार्यस्य स्पष्टत्वात्। सर्पिरिति। सृपेरिसि सर्पिः सब्दोऽन्त्योदात्तः, `स्वमोर्नपुंसकात्' इति सोर्लुक्। सप्तशब्दौ घृतादित्वादन्तोदात्तः, `षङ्भ्यो लुक्' इति जसो लुक् ।।
पथिमथोः सर्वनामस्थाने ।। 6.1.199 ।।
पथिमथिशब्दावित्यादि। `गमेरिनिः', `पुषः कित्', `मन्थः', `पतेस्थ च' इतीनिप्रत्ययः, मन्थः कित्त्वादुपधालोपः--पन्थाः, मन्था इति। `पथिमथ्यृभुक्षामात्' इत्यादिकार्यम् ।
पथः पश्येति। भस्य टेर्लोपः। प्रत्ययलक्षणमत्रापि नेष्यते। अतिप्रसङ्गस्तु पूर्ववत् ।।
अन्तश्च तवै युगपत् ।। 6.1.200 ।।
कर्त्तेवै इति। `कृत्यार्थे तवलैकेन्केन्यत्वनः' इति तवैप्रत्ययः। किं पुनः कारणं पर्यायनिवृत्तये यत्नः क्रियते ? इत्याह--एकवर्जमिति हीत्यादि ।।
क्षयो निवासे ।। 6.1.201 ।।
`क्षि निघासगत्योः'--इत्यास्माद् अधिकरणे घः। क्षयो दस्यूनामिति। क्षयेरच्, कर्त्तरि षष्ठी ।।
वृषादीनां च ।। 6.1.203 ।।
`वृषु सेचने', `जनी प्रादुर्भावे', `ज्वर रोगे', `हि गतौ', `कै गै रै शब्दे'। एते सर्वेऽच्प्रत्ययान्ता इति। पचादित्वात्। बाहुल्याच्चेदमुक्तम्। वृषः--इत्यत्रेगुपधलक्षणः कः। `णीञ् प्रापणे', `तायृ सन्तानपालनयोः'। केचित्तय इति पठन्ति, `अय पय तय गतौ', क्वचिच्चयशब्दः पठ्यते, स चिनोतेर्द्रष्टव्यः। `इण् गतौ', अंस समाधाने', `विद ज्ञाने', `षूद निरासे', `दु दाहे',। `वद व्यक्तायां वाचि', `अत सातत्यगमने'। केचिदेतौ न पठन्ति। `गुहूसंवरणे', `शम उपशमे', `अण रण शब्दे'।
सम्मतौ भावकर्मणोरिति। शमरणाविति वर्त्तते, सम्मतावर्थे शमरणौ भावकर्मणोर्यथाक्रममाद्युदात्तौ भवतः। `मात्रि गुप्तभाषणे'। शान्तिरिति। शमेः क्तिचि `कमु कान्तौ', `यमु उपरमे', केचिद्यमशब्दं न पठन्ति।
`ऋ शब्दे गतौ', `घृञ् धारणे', `कॄ विक्षेपे', भिदादिपु निपातनाद्वृद्धिः। `वह प्रापणे', `कृपू सामर्थ्ये', `पद गतौ' ।।
संज्ञायामुपमानम् ।। 6.1.204 ।।
यद्येवमिति। यद्यत्र कनो लुबित्यर्थः। एतदेवेत्यादि। ज्ञापकाभावे तु सप्तमीनिर्देशेऽपि प्रत्ययलक्षणप्रतिषेधो न स्यात्, `स्वरविधौ सप्तम्यस्तदन्तसप्तम्यः' इति ज्ञापनेन तदन्तस्य कार्यित्वात्। क्वचिदिति। वचनात्क्वचिद्भवत्येव, यथा--`सर्वस्य सुपि' इत्यत्र ।।
निष्ठा च द्व्यजनात् ।। 6.1.205 ।।
इहाद्याक्तः अद्यात्त इत्येकादेशस्य बहिरङ्गत्वादसिद्धत्वाद् `अनात्' इतिक प्रतिषेधाभावः। भीष्मशब्दः `भियः षुक्च' इति मन्प्रत्ययान्तः।
चिन्तित इति। `चिति स्मृत्याम्' चुरादिः ।।
आशितः कर्त्ता ।। 6.1.207 ।।
अशेरिति। `अश भोजने' इत्यस्मात्। आङ्पूर्वादविवक्षिते कर्मणीति। उक्तं हि--`प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया' इति। कर्तरि क्त इति। `गत्यर्थाकर्मक' इत्यादिना। भाष्ये तु `कर्त्तरि क्तो निपात्यते' इति स्थितम्। यदि तर्ह्याङ्पूर्वकस्याशेराशित इति रूपम्, अवग्रहः प्राप्नोति, तस्मात् `उपधादीर्घत्वमपि निपात्यते' इति वार्त्तिककारः. वृत्तिकारस्तु--`संहितापाठ एव नित्यः, पदपाठस्तु पौरुपेयः, ततश्च न लक्षणेन पदकारा अनुवर्त्त्याः पदकारैर्नाम लक्षणमनुवर्त्त्यम्' इति मन्यते। अपर आह---अशेर्ण्यन्तस्य प्रयोज्यकर्त्तरि `गतिबुद्धिप्रत्यवसानार्थ' इति कर्मसंज्ञके निष्ठायामाशित इति रूपम्, स एवात्र भूतपूर्वगत्या कर्त्ता विवक्षित इति ।।
रिक्ते विभाषा ।। 6.1.208 ।।
रिक्त इति। `रिचिर्विरेचने'। संज्ञायामित्यादि। `निष्ठा च द्व्यजनात्' इत्यस्यावकाशः--दत्तः, गुप्तः, अस्यावकाशोऽसंज्ञायाम्--रिक्तो घट इति; संज्ञायामुभयप्रसंगे पूर्वविप्रतिपेधः ।।
जुष्टार्पिते चच्छन्दसि ।। 6.1.209 ।।
जुष्ट इति। `जुषी प्रीतिसेवनयोः', `श्वीदिते निष्ठायाम्' इतीट्प्रतिषेधः। अपित इति। `अतिर्ह्री' अर्त्तेर्णिच्, अर्त्यादिना पुक् ।।
नित्यं मन्त्रे ।। 6.1.210 ।।
आरम्भसामर्थ्यादेव सिद्धे नित्यग्रहणमुत्तरार्थम् ।।
युष्मदस्मदोर्ङसि ।। 6.1.211 ।।
`युष्यसिब्यां मदिक्', युषिः सौत्रो धातुः। तव, ममेति। `युष्मदस्मद्भ्यां ङसोऽस्', `तवममौ ङसि' इति मपर्यन्तस्य तवममादेशः, शेषे लोपः, `अतो गुणे' इति पररूपत्वम्, `एकादेश उदात्तेनोदात्तः' इति विभक्तेरुदात्तत्वे प्राप्ते इदमुच्यते ।।
ङयि च।। 6.1.212 ।।
तुभ्यम्, मह्यमिति। `ङे प्रथमयोरम्', `तुभ्यमह्यौ ङयि'।
अथ किमर्थो योगविभागः, न `युष्मदस्मदोर्ङेङसोः' इत्येवोच्येत, एवं हि चकारो न कर्त्तव्यो भवति ? अत आह--पृथग्योगकरणमिति। आशङ्काग्रहणेनास्वरितत्वादेव यथासंख्यं न भविष्यतीति शक्यं वक्तुमिति दर्शयति। अत्रापि पूर्ववद्विभक्तिस्वरः प्राप्तः ।।
यतोऽनावः ।। 6.1.213 ।।
अत्र `अनावः' इति प्रतिषेधो ज्ञापयति--स्वरविधौ व्यञ्जनमविद्यमानवदिति; अन्यथा य आदिर्नकारो नासौ स्वरयोग्यः, यश्च स्वरोग्य अकारो नासावादिरिति प्रतिषेधोऽनर्थकः स्यात् ।।
ईडवन्दवृशंसदुहां ण्यतः ।। 6.1.214 ।।
`ईह स्तुतौ', `वदि अभिवादनस्तुत्योः', `वृङ्सम्भक्तौ', `शंसु स्तुतौ', `दुह प्रपूरणे'। कथं वार्य इत्यत्र ण्यत्, यावता `एतिस्तुशासु' इत्यादिना विशेषविहितेन क्यपा भाव्यम् ? अत आह--वार्य इत्यादि। अथ वृङोऽपि क्यबेव कस्मान्न भवति ? अत आह--क्यब्विधौ हीत्यादि। एतच्च तत्रैव प्रतिपादितम् ।।
विभाषा वेण्विनधानयोः ।। 6.1.215 ।।
णुप्रत्ययान्त इति। `तिष्ठतेर्णुः' इति तत्रानुवर्तते। उदात्तनिवृत्तिस्वरेणेति। `श्नसोरल्लोपः' इति श्नसोऽकारस्योदात्तस्य लोपात्।
वेणुरित्यादि। `संज्ञायामुपमानम्' इत्यस्यावकाशः--चञ्चा वर्ध्रिका, विभाषाया अवकाशः--अनुपमानभूतो वेणुः शुष्क उपवने; वेणुरिति संज्ञायामुपमाने पूर्वविप्रतिषेधः।
त्यागरागहासकुहश्वठक्रथानाम् ।। 6.1.216 ।।
`कुह विस्मापने', `श्वठ क्रथ भाषणो' चौरादिकावदन्तौ। निधाकतस्यैवायमपवादो युक्तः ? नैतदेवम्; यद्ययं निघातस्यापवादः स्यात्, तत्रैवायं ब्रूयात्--`अनुदात्तं पदमेकवर्जम्, न हि स्वार्थम् ।।
चङ्यन्यतरस्याम् ।। 6.1.218 ।।
उदाहरणे एकवचनातिक्रमणे हेतुर्मृग्यः। मा हि दघदिति। `विभाषा धेट्श्योः' इतिक च्लेश्चङादेशः।
मतोः पूर्वमात्संज्ञायां स्त्रियाम् ।। 6.1.219 ।।
मतोः पूर्वं आकार इति। अर्थव्याख्यानमेतत्। सूत्रे तु शब्दरूपापेक्षय नपुंसकनिर्देशः। केचित्तु सूत्रे पूर्वशब्दं पुंल्लिङ्गमेव पठन्ति। उदाहरणे चातुरथिकः `नद्यां मतुप्', `मतौ बह्वचोऽनचिरादीनां च' इति दीर्घत्वम्। मतोरिति किम् ? गवादिनीति। मतोरित्यस्मिन्नसति पूर्वग्रहणमपि न क्रियेतेति संज्ञाशब्दसम्बन्धिन आकारमात्रस्य प्रसङ्गः। पूर्वग्रहणं मतोरनन्तरस्य पूर्वस्य यथा स्यात्, इह मा भूत्--सानुमतीति ।।
अन्तोऽवत्याः ।। 6.1.220 ।।
इहासन्देहार्थम् `वत्या अन्तः' इत्यवचनादकारप्रश्लेषो निश्चितः।
तत्र प्रयोजनं पृच्छति--अवत्या इति किमुच्यत इति। अथावत्या इत्युच्यगानेऽपि राजवतीत्यत्र कस्मान्न भवति, भवति ह्येतदपि नलोपे कृतेऽवतीशब्दान्तम् ? अत आह--स्वरविधावित्यादि। ननु चोदाहरणेऽपि मतोर्वत्वस्यासिद्धत्वादवतीशब्दान्तत्वं नास्ति ? इत्याहृ--वत्वं पुनरिति। पुनःशब्दो नलोपाद्विशेषं द्योतयति ।।
ईवत्याः ।। 6.1.221 ।।
अहीवतीत्यादौ पूर्वं दीर्घः, `संज्ञायाम्' इति वत्वम्। योगविभागश्चिन्त्यप्रयोजनः ।।
चौ ।। 6.1.222 ।।
उदात्तनिवृत्तिस्वरापवादोऽयमिति। कृदुत्तरपदप्रकृतिस्वरेणोदात्तस्याञ्चत्यकारस्य विभक्तिनिमिक्तकः `अचः' इति लोपः।
चावतद्धित इति वक्तव्यमिति। चौ यः स्वरः स तद्धिते परतो न भवतीत्यर्थः; इन्यथा योऽनुदात्तः प्रत्ययः--दधीचः पश्येत्यादौ, तत्र यथोदात्तनिवृत्तिस्वरं बाधते, तथा दाधीच इत्यादौ प्रत्ययस्वरमपि सतिशिष्ट स्वरो वादेत, तस्मादतद्धित इति वक्तव्यम्, अस्मिश्च सति उदात्तनिवृत्तिस्वरस्यायमपवादो भवति ।।
समासस्य ।। 6.1.223 ।।
राजदृषदिति। ननु च योऽत्र समासस्यान्तो दकारो नासौ स्वरभाक्, यश्च ततः पूर्वोऽकारो नासौ समासस्यान्तः ? अत आह--स्वरविधाविति। न स्वरस्यैव विधिः, किं तर्हि ? योऽपि `अनुदात्तादेरञ्' इत्यादिः, सोऽपि स्वरविधिः; स्वराश्रयत्वात्। तेन सोऽपि विधिर्व्यञ्जनादौ व्यञ्जनान्ते च भवति। अत्र च ज्ञापकम्--`नोत्तरपदेऽनुदात्तादौ' इत्युत्तवा पृथिव्याः प्रतिषेधः।
नानास्वरापवाद इति यद्यपि `अनुदात्तं पदमेकवर्जम्' इत्यस्ति, तथापि वर्जने विशेषाश्रयणात्पर्यायेण नानास्वरप्रसङ्गः। तत्र राजशब्दः `कनिन्युवृषितक्षि' इत्यादिना कनिन्प्रत्यान्तत्वादाद्युदात्तः; `पुरः कुषन्'----पुरुषः; ब्रह्मणोऽपत्यं ब्राह्मणाः--अणन्तः; `कलतृपश्च'; `वृषादिभ्यश्चित्';`कमेर्बुक् च'---कम्बलः; `कन्याराजन्यशिप्यामनुप्याणामन्तः' इति कन्याशब्दोऽनतस्वरितः; `स्वनहसोर्वा' इत्यप्, धातुस्वरः; पटत्पटद्धन्यत इति पटहः, पृषोदरादिरन्तोदात्तः; `स्वनहसोर्वा' इत्यप्, धातुस्वरः; पटत्पटद्धन्यत इति पटहः, पृषोदरादिरन्तोदात्तः; `शाशपिभ्यां दनौ', पचादिषु नदडिति पठ्यते, टित्त्वान्ङीप्-नदी; उदात्तनिवृत्तिस्वरः; पोषशब्दो घञन्तः; `श्रदृभसोऽदिः' `दृणातेः षुग् ह्रस्वश्च' दृषत्, प्रत्ययस्वरः; समिध्यते ययेति समित्, सम्पदादित्वात्क्विप्, कृदुत्तरपदप्रकृतिस्वरः--एते नानास्वराः, तेषामपवादः ।।
इति श्रीहरदत्तमिश्रविरचितायां पदमञ्जर्यां षष्ठस्याध्यायस्य प्रथमः पादः
-----***-----