सामग्री पर जाएँ

काशिका (पदमञ्जरीव्याख्यासहिता)/पञ्चमोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः
← तृतीयः पादः काशिका (पदमञ्जरीव्याख्यासहिता)
चतुर्थः पादः
[[लेखकः :|]]

ॐ नमोनारायनाय नमः

काशिकावृत्ति
अथ पञ्चमाध्याये चतुर्थः पादः

पादशतस्य संख्यादेर्वीप्सायां वुन्लोपश्च ।। 5.4.1 ।।
आदिशब्दोऽयमवयववाची, न तु व्यवस्थावाची; `संख्यायाः' इति पञ्चमीनिर्देशेनैव सिद्धेः। न च संख्यावचनः शब्दः पादशतशब्दयोरवयव उपपद्यते; अनारम्भकत्वात्। तस्मात्संख्यादेरिति वचनादिह ग्रहमवतापि प्रातिपदिकेन तदन्तविधिर्विज्ञायत इत्याह--पादशतान्तस्येति। आनन्तर्यलक्षणा चेयं षष्ठी वुन्विधौ, लोपविधौ तु स्थानषष्ठी। तत्संनियोगेन चेति। चकारस्य संनियोगार्थकत्वात्।
अनैमित्तिकत्वार्थमिति। निमित्ते भवो नैमित्तिकः, अध्यात्मादिः। यस्योतिलोपः परनिमित्तक इति। ईति तद्धिते च परतो लोपविधानात्। पद्भावो न स्यादिति। पच्छब्दो हि तत्र स्थान्युपात्तः, स्थानिवत्त्वे च सति पादशब्दान्तमङ्गं भसंज्ञं भवति, न पाच्छब्दान्तमिति पादायेत्यादिवदत्रापि पद्भावो न स्यात्। अस्य त्वनैमितिकत्वादिति। न ह्यत्र वुन्निमित्तम्; सहविधानात्।
द्विपदिकामिति। तद्धितेन द्योतितत्वाद्वीप्सायां द्विर्वचनं न भवति। तद्धितार्थ इति समास इति। प्रकृत्युपाधिरपि वीप्सा वुना द्योत्यत इति तद्धितार्थो भवति।
द्वौ पादौ ददातीति। उत्तरसूत्रेवक्ष्यति--`दानं व्यवसर्गेः' इति, `अवीप्सार्थोऽयमारम्भः' इति च, तस्माद्भवितव्यमत्र वुना। क्रियान्तरं प्रत्युदाहर्त्तव्यम्-द्वौ पादौ लभत इत्यादि।
अपर आह--दडितो व्यवसृजतीति प्रयोग एवोत्तरोऽविधिरिति। यद्वापरस्वत्वापादनं दानम्=व्यवसर्गः, इह तु समर्पणमात्रे ददातिर्वर्त्तते; यथरजकस्य वस्त्रं ददातीति।
अन्यत्रापि दर्शनादिति। द्वौ द्वौ माषौ ददातीत्यादौ त्वनभिधानादतिप्रसङ्गभावः ।।

दण्डव्यवसर्गयोश्च ।। 5.4.2 ।।
दण्कडनं दण्ड इति। `दमु उपशमने' इत्यस्माद्भावे `ञमन्ताडुः' दण्डतेर्वा चुरादिण्यन्तादेरच्। यद्यपि दण्कडशब्दः करणसाधनो यष्टावपि वर्त्तते, तथापि तस्य ग्रहणं न भवति; धात्वर्थेन व्यवसर्गेण साहचर्यात्। अत्राप्युदाहरणे `तद्धितार्थ' इति समासः स्त्रीलिङ्गस्तद्धितार्थः। उक्तं च-`स्वभावाच्च वुन्प्रत्ययः स्त्रियां वर्त्तते' इति। कथं तर्हि दाने वीप्सायां वुन्पूर्वसूत्र उदाहृतः, यावता नाप्राप्ते वीप्साया वुन्यारभ्यमाणोऽवीप्सावुनेतयोरर्थयोस्तस्य बाधकः प्राप्नोति, यथा `मतिबुद्धिपूजार्थेभ्यश्च' इति `वर्त्तमाने क्तः'---भूतक्तस्य, यथा च `अवृद्धादपि' इत्यपिशब्दः क्रियते? इहापि तर्हि चकारः क्रियते, तेनाधिकविधिरयमबाधकः। एवमपि परत्वादनेनैव दाने वीप्सायां वुन्युक्तः? सत्यम्; अविशेषात्तु पूर्वत्रोदाहृतः। यद्वा--दानस्य पदान्तरवाच्यत्वादेष वुन्बहिरङ्गः, वीप्सायास्तु तद्वितद्योत्यत्वात्पूर्वो वुन्नन्तरङ्गः ।।

स्थूलादिभ्यः प्रकारवचने कन् ।। 5.4.3 ।।
प्रकारवचने द्योत्य इति। प्रकारवचने कन् द्योत्य इत्यर्थः। यथौदनं पचतीत्यत्रैवार्थे ओदनपाकं पचतीति। यद्वा-प्रकारउच्यते स्थूलादिभिरिति द्योतनायेत्यर्थः। प्रकारवाचिभ्यः कन् भवति, तदेव प्रकारवचनत्वं द्योतयितुमिति यावत्। जातीयरोऽपवाद इति। तेनायमपि तद्वदेव प्रकारवति कभवति, न प्रकारमात्र इत्युक्तं भवति। प्रकारः=भेदः, सादृश्यं च, उभयत्रापि यथाभिधानं कन् भवति। वृत्तौ तु प्रकारो भेद इत्युपलक्षणम्।
चञ्चद्बृहतोरिति। एतावपि स्थूलादिषु पठितव्यावित्युक्तं भवति। चञ्चत्क इति। चञ्चतिश्चलनकर्मा चञ्चत्प्रकारश्चञ्चन्नेवं कश्चिद्विशेष उच्यते। तथा बृहद्विशेषो बृहत्कः। अपर आह--सादृश्येऽत्र कन्, अचञ्चन्नपि यश्चञ्चन्निव लक्ष्यते स बृहत्क इति। चञ्चा=बृणमयः पुरुषः, तत्सदृशश्चञ्चकः। `केऽणः' इति ह्रस्वः।
स्थूलाणुमाषेष्विति। स्थूल, अणु, णाप, इपु--इति चतस्रः प्रकृतयः कृष्णतिलेष्विति। कृष्णप्रकारास्तिलाः कृष्णकाः। यवकाः यवसदृशाः। पाद्यकालावदाताः सुरायामिति। पाद्यिका, कालिका, अवदातिका, सुराविशेषा एते। गोमूत्रकम्=गोमूत्रप्रकारं गोमूत्रवर्णमाच्छादनम्। यद्वा--विन्यासविशेषो गोमूत्रम्, तत्सदृशं तु गोमूत्रकम्। यत्र तु शुक्लकृष्णादिवर्णविन्यासः सुरावर्णोऽहिः सुरकः, पूर्ववद् ह्रस्वः। जीर्णप्रकाराः जीर्णकल्पाः शालयो जीर्णकाः।
जातीयरोऽनन्तरमेवायं कन् विधेयः, एवं हि पुनः `प्रकारवचने' इति न वक्तव्यं भवति। इह तु करणेऽज्ञातः स्थूलप्रकार इति प्रकारस्याज्ञातादीनां च युगपद्विवक्षायां परत्वादनेन कनि कृते पुनः प्रसङ्गविज्ञानादज्ञातादिद्योतनाय पुनः को भवति। तत्र तु करणे परत्वात्के कृते पुनः प्रसङ्गविज्ञानादज्ञातादिद्योतनाय पुन को भवति। तत्र तु करणे परत्वात्के कृते कन्न स्यात्; शब्दान्तरत्वात्। सत्यपि वा कनि स्थूलकक इत्याद्युदात्तं स्यात् ।।

अनत्यन्तगतौ क्तात् ।। 5.4.4 ।।
अशेषसम्बन्ध इति। क्तप्रकृतिवाच्यया क्रियया साधनस्य व्याप्तिरित्यर्थः। भिन्नकमिति। ईषद्भिन्नमित्यर्थः।
भिन्नमिति। यदशेषं भिदिक्रियाया व्याप्तं घटादि तदभिधीयते। इहानत्यन्तगतेः प्रकर्षस्य च युगपद्विवक्षायां पूर्वविप्रतिषेधेन पूर्वमातिशायिक इष्यते, तदन्तात्कन्वक्तव्यः, अक्तान्तत्वाद्धि न प्राप्नोति--भिन्नतरकं छिन्नतरकमिति। आह च--`अनत्यन्तगतौ क्तान्तात्तमबादयः पूर्वविप्रतिषिद्धं तदन्ताच्च स्वार्थे कन्वचनम्' इति। स्वार्थः पुनरनत्यन्तगतियुक्त एव, न शुद्धः। तथा हि सति अनत्यन्तगतिर्द्योतिता न स्यात् ।।

न सामिवचने ।। 5.4.5 ।।
साम्यर्थ उच्यतेऽनेन तत्सामिवचनम्। सामिवचने उपपदे इति। उपोच्चारितं पदमुपपदम्, तच्च समासावयवभूतं सत्केवलं गृह्यते। सामिकृतमिति। `सामि' इति समासः। अर्द्धकृतं नेमकृतमिति। विशेषणसमासः, बहुव्रीहिर्वा।
प्रकृत्यभिहितत्वादिति। का पुनरत्र प्रकृतिरभिप्रेता ? न तावत्समासः, अक्तान्तत्वात्, न हि सामिकृतादयः क्तान्ताः; प्रत्ययग्रहणे तदादिनियमात्। न च कृद्ग्रहणपरिभाषया क्तान्तत्वम्; साम्यादीनामगतित्वाद्, अकारकत्वाच्च। अथ यदत्र क्तान्तं सा प्रकृतिः? तदपि न; हि समासे एकार्थीभूतस्य पृथक् प्रकृतित्वभूपपद्यते। अथ वाक्यगतः कृतादिशब्दः प्रकृतिः? एवमपि प्रकृत्यभिहितत्वादित्यनुपपन्नम्। एवं तु वक्तव्यम्--उपपदेनाभिहितत्वादिति? अत्राहुः--वाक्यगतात्कृतादिशब्दात्, समासावयवाद्वा प्रसङ्ग शङ्क्यते। यत्तूक्तम्--प्रकृत्यभिहितत्वादित्यनुपन्नमुपपदेनाभिहितत्वादिति वक्तव्यमिति? सत्यम्; शब्दान्तरेणाभिहितत्वाद् द्योत्याभावात्कनः प्रसङ्गो नास्तीत्यर्थः। यदप्युक्तम्--समास एकार्थीबूतस्य पृथक्प्रकृतित्वासम्भव इति ? तदपि न; प्रकृत्यर्थस्य प्रत्ययार्थेनैकार्थीभावे सति प्रकृतित्वम्। न चार्थान्तरेणैकार्थीभूतस्य प्रत्ययार्थेनैकार्थीभावः सम्भवतीति किल प्रकृतित्वासम्भवः स्यात्। न चात्र प्रत्ययस्या द्योत् वाच्यं वाऽर्थान्तरमस्ति, येन सहैकार्थीभावः प्रार्थ्येत। तस्मादुपपन्नमेकार्थीभूतस्यापि प्रकृतित्वम्। अत एव वृत्तौ समास उदाहृतः।
केन पुनरिति। स्वार्थमात्रे कन्विधेः प्रत्यक्षेणादर्शनात्प्रश्नः। अनुमास्वत इत्युत्तरम्। यदेतदुत्यत इति। भाष्यकारैः उच्यत इति, प्रयुज्यत इत्यर्थः, भाष्यकारप्रयोग उपपन्नो भवतीति यावत्। साक्षिस्थानीयस्य भाष्यकारप्रयोगः, न पुनरन्यत्र स्वार्थे कन् न भवतीति ।।

बृहत्या आच्चादने ।। 5.4.6 ।।
बृहतिका=प्रावारः ।।

अषडक्षाशितङ्ग्वलङ्कर्मालम्पुरुषाध्युत्तरपदात्खः ।। 5.4.7 ।।
अविद्यमानानि षडक्षीणि यस्मिन्निति बहुव्रीहिरिति। अक्षिशब्दोऽत्र श्रोत्रेन्द्रिये वर्त्तते `बहुव्रीहौ सकथ्यक्षणोः' इति षच्। मन्त्रः=मन्त्रणम्, यद् द्वाब्यामेव क्रियत इति, त्रिभिस्तु क्रियमाणः षडक्षो भवति, चतुःप्रभृतिभिस्तु क्रियमाणस्य यद्यप्यष्टाक्षत्वादि सम्भवति, तथाप्यवर्जनीयरूपेण षडक्षत्वमपि भवति। तस्माद् द्वाभ्यामेव क्रियमाणोऽषडक्षीणो भवति। आशिता इति। अश्नोतेराङ्पूर्वादाशितः कर्तेति ज्ञापकात्कर्त्तरि क्तः। यद्वा--ण्यन्तात्कर्मणि। आशितङ्गवीनमरण्यमिति। प्रभूतयवसमित्यर्थः।
अधिशब्दः शौण्डादिषु पठ्यत इति। यत्र `अधिरीश्वरे' इत्यधेः कर्मप्रवचनीयत्वाद् `यस्य चेश्वरवचनम्' इति सप्तम्यन्ता राजादयोऽधिना समस्यन्ते। वाक्यमपि भवति। राजन्यधि, राजाधीनमिति। यथा--अधि ब्रह्मदत्ते पञ्चाला इति, अधिशब्दश्च वृत्तिविषये ईशितव्ये वर्त्तते। अपर आह--अधिकरणे एषा सप्तमी, वृत्तिविषये च ससाधनक्रियावचनोऽधिः, न तु वाक्य इत्यस्वपदेन विग्रहः, वृत्तिविषये च ससाधनक्रियावचनोऽधिः, न तु वाक्य इत्यस्वपदेन विग्रहः, राजन्यधिकृतं राजाधीनम्, राजायत्तमित्यर्थ इति। उत्तरसूत्रे विभाषाग्रहणादिति। द्वयोर्विभाषयोर्मध्ये नित्या विधय इति न्यायात् ।
तमबादय इति। `अतिशायने तमबिष्ठनौ' इत्यादयः। प्राक्कन इति। `अवक्षेपणे कन्' इत्यस्मात् शुक्ल इत्युक्ते सामान्यशब्दत्वात्प्रकर्षस्यानवगमात्तत्तदुपाधिद्योतनायावश्यं प्रयोज्यास्तमबादय इति नित्याः। अतिशयेन शुक्ल इत्यादिकं तु वाक्यं भवत्येव; पदान्तरद्योत्यत्वादतिशयस्य। ञ्जादय इति। `पूगाञ्ञ्योऽग्रामणीपूर्वात्' इत्यादयः। प्राग्वुन इति। पादशतादिशूत्रविहितात्, तस्य तु पुरा विग्रहो दर्शित एव। आमादय इति। `किमेत्तिङव्ययघादामु' इत्यादयः, `तत्प्रकृतवचने मयट्' इत्यतः प्रागित्यर्थः। बृहतीजात्यन्ता इति। बृहतीशब्देन `बृहत्या आच्छादने' इति विहितः कनुपलक्ष्यते। जात्यन्तशब्देनापि`जात्यन्ताच्छ बधुनि' इति विहितश्छः। बहुवचननिर्द्देशादेतत्सूत्रविहितस्य खस्यपाशबादीनां च ग्रहणम्। यो हि वैयाकरणपाशादितत्सूत्रविहितस्य खस्य पाशबादीनां च ग्रहणम्। यो हि वैयाकरणपाशादिशब्देभ्योऽर्थः प्रतीयते, नासौ जातुचित् वैयाकरणादिसामान्यशब्देभ्यः प्रतीयत इति तेऽपि तमबादिवन्नित्या एव। समासान्त श्चेति। `समासान्ताः' इत्यधिकृत्य विहिताः ।।

विभाषाञ्चेरदिक्स्त्रियाम् ।। 5.4.8 ।।
दिक् चासौ स्त्री चेति दिक्स्त्री, तत्र प्रतिषेधः न तु दिशि स्त्रियां च; स्त्रीलिङ्गैकवचननिर्देसात्। उदाहरणेषु `अचः' इत्यकारलोपे कृते `चौ' इति दीर्घः। उदीचीनमित्यत्र तूद `उद ईत्' इतीत्वम्।
दिग्ग्रहणं किमिति। अञ्जत्यन्तः स्त्रियां वतमानो दिश्येव वर्तत इति प्रश्नः। प्राचीना ब्राहामणीति। क्रियानिमित्तको देशकालनिमित्तको वा ब्राह्मण्यां स्त्रियां वर्त्तते, न दिशीति प्रतिषेधाभावः। स्त्रीग्रहणं किमिति। दिग्वृत्तिरञ्चत्यन्तः स्त्रीलिङ्ग एवेति मन्यते। प्राचीनं दिग्रणणीयमिति। प्राचीनशब्दाद्दिग्वाचिनः प्रथमासमर्थाद् दिक्शब्देभ्य इत्युत्पन्नस्यास्तातेः `अञ्चेर्लुक्' इति लुक्, ङीपोऽपि `लुक् तद्धितलुकि' इति लुक्, ततः `तद्धितश्चासर्वविभक्तिः' इत्यव्ययत्वात्स्त्रीलिङ्गाभावः। खे तु कृते स्वभावादेव नपुंसकत्वम् ।।

जात्यन्ताच्छ बन्धुनि ।। 5.4.9 ।।
जात्यन्तात्प्रातिपदिकाद् बन्धुनि वर्त्तमानात्स्वार्थे छः प्रत्ययो यस्य बन्धुशब्दस्येति दर्शयति। एतच्च नपुंसकनिर्द्देशादवसीयते, आप्तपर्यायस्तु पुंल्लिङ्गः। येन ब्राह्मणत्वादिजातिर्व्यज्यत इति। व्यक्त्यधीना हि जातरभिव्यक्तिः, न हि स्वातन्त्र्येण जातुचिज्जातिरुपलभ्यते। एतदेवाभिप्रेत्य--बध्यतेऽस्मिन्निति बन्धिवत्युक्तम्। ब्राह्मणजातीय इति। भावप्रधानोऽत्र ब्राह्मणशब्दः, `द्व्योकयोः' इतिवत्, तेन बहुव्रीहिः। ब्राह्मणादिरेवोच्यते इति। ब्राह्मणत्वजात्याधारो द्रव्यात्मकः पिण्ड उच्यय इत्यर्थः।
ब्राह्मणजातिरिति। षष्ठीसमासः, कर्मधारयो वा ।।

स्थानान्ताद्विभाषा सस्थानेनेति चेत् ।। 5.4.10 ।।
सस्थानेन चेदिति। करणे एषा तृतीया, सस्थानेन सस्थानशब्दवाच्येनार्थेन तुल्यपर्यायेण स्थानान्तं यद्यर्थवद्भवति, एवं प्रत्ययो भति, नान्यतेत्यर्थ। सस्थान इति तुल्य उच्यत इति। स्तानत इति शेषः। स्थानम्=प्राप्तिः, सम्बन्धविशेषः, पदमिति यस्य प्रसिद्धइः। कथं पुनः सस्थानशब्देन तुल्य उच्यते? इत्याह--सामानं स्थानमस्येति। यस्य समानं स्थानं स सस्थान इत्युच्यते यश्चैवंविधः स यदपक्षया तस्य समानं स्थानं तेन तुल्यो भवति, तत्र शब्दभेदेऽपि  ????तुवृत्तेन सस्थानशब्दस्य तुल्यो वाच्यो भवति। सभावः पुनरत्र `ज्योतिर्जनपद' इत्यादि सूत्रेण। पितृस्तानीय इति। पितुरिव स्थानमस्येति बहुव्रीहिः।
गोस्थानमिति। तिष्ठत्यस्मिन्नति स्थानं देशः न तु तत्पुरुष इति। समानं च तत्स्थानं चेत्येवंरूपस्तत्पुरुषः। स्थानशब्दो नार्थमुपस्थापयति। यद्युपस्थापयेत्, तुल्यं च तत्स्थानं च तुल्यस्थानमित्यादेः कर्मधारयादपि प्रत्ययः स्यात्। अथ बहुव्रीहेस्तुल्यस्थानशब्दात्सस्थानशब्दाद्वाऽयं प्रत्ययः करमान्न भवति? कः पुनराहः-न भवतीति! नेष्यते इति करणादेव तु न भविष्यति। चेच्छब्दः सम्बन्धार्थ इति। चेच्छब्दे सति विभक्तिविपरिणानेनैध्याहरेण वा वाक्यपर्यसानेन च सम्बन्धो भवति। असति तु तस्मिन्पञ्चम्यन्तेन तृतीयान्तस्य सम्बन्धोऽनुपपन्नः स्यात् ।।

किमेत्तिङव्यघादाम्वद्रव्यप्रकर्षे ।। 5.4.11 ।।
किम एकारान्तादित्यादि। अर्थप्रदर्शनपरमेतत्, सूत्रे तु षष्ठीसमासः, योगविभागाद्वा पञ्चमीसमासः। यद्यपीति। द्रव्यं विशेष्यं पर्यवसानभूतम्, तस्य स्वरूपेण प्रकर्षो नास्ति, प्रवृत्तिमित्तद्वारक एव तु तस्य प्रकर्षः, यथोक्तं भाष्ये--गुणस्यैव प्रकर्षो न द्रव्यस्येति। गुणः प्रवृत्तिनिमित्तम्। हरिरप्याह---
द्रव्यस्याव्यपदेश्यस्य न विना भेदहेतुना।
प्रकर्षो विद्यते नापि शब्दस्योपैति वाच्यताम् ।।
     क्रियागुणस्य इति। प्रवृत्तिनिमित्तभूतस्य सहचरितस्य धर्ममात्रस्योपलक्षणं क्रियागुणग्रहणम्। द्रव्य उच्यत इति। द्रव्यनिष्ठोऽभिधीयत इत्यर्थः। क्रियागुणयोरेवेति। यो द्रव्यनिष्ठयोरनुविधीयते स तयोरेव प्रकर्षः। किंतरामिति। इदं च किमिदं च किम्, इदमनयोरतिशयेन किम् इति तरप् प्रत्ययः। यत्र स्वरूपेण ज्ञातस्य वस्तुनो विशेषाकारा बहवो जिज्ञासितास्तत्र किंशब्दार्थः प्रश्नप्रकृष्ट इव भवति, तदाश्रयः प्रत्ययः। पूर्वाह्णेतरामिति। `घकालतनेषु' इति सप्तम्या अलुक्। तत्रासत्त्वभूतस्य विभक्त्यर्थस्य प्रकर्षः, न कालस्येति नायं द्रव्यप्रकर्षः ।
उच्चैस्तरामिति। आत्राप्युचचैःशब्दस्याधिकरणप्रधानत्वान्नायं द्रव्यप्रकर्षः। उत्चैस्तरः पर्वत इति। नात्राधिकरणप्रधान उच्चैःशब्दः, किं तर्हि? उच्चैस्त्वं नाम गुणस्तद्गतः प्रकर्षः पर्वतनिष्ठोऽभिधीयते, स्वभावाच्च तरबन्तस्यात्र सत्त्वभूतार्थाभिदायित्वम्, लिङ्गसंख्यायोगश्च।
उदित्करणं किम्? `आमि सर्वनाम्नः सुट्' इत्यत्रास्य सामान्यग्रहणं मा भूत्। यदि स्यात्? किन्तरामित्यत्र परत्वाद्यस्येतिलोपं बाधित्वा `ह्रस्वनद्यापः' इति नुट् प्रसज्येत, मकारस्य त्वित्संज्ञा प्रयोजनाभावादेव न भविष्यतीति ।।

अमु चच्छन्दसि ।। 5.4.12 ।।
प्रतरामिति। प्रशब्दार्थस्य प्रकर्षस्य प्रकर्षे तरप् प्रकृष्टतर इतिवत्। अत्रआप्युदित्करणम् `इच एकाचोऽम्प्रत्ययवच्च' इत्यत्रास्यापि ग्रहणं मा भूदिति। यदि स्यादत्रापि यद् दृष्टं कार्यं तदप्यतिदिश्येत, तत्र को दोषः? इह--स्त्रियम्मन्यः, यस्येतिलोपः प्राप्नोति ।।

अनुगादिनष्ठक् ।। 5.4.13 ।।
अनुगदतीत्यनुगादी, अस्मादेव निपातनाण्णिनिः, प्रकृतिस्वरूपप्रदर्शनपरं चैतत्। न त्वयं केवलः प्रयोगार्हः; ठको नित्यत्वात् ।

णचः स्त्रियामञ् ।। 5.4.14 ।।
व्यावक्रोशीति। व्यवपूर्वात्क्रुशेर्णच्, `कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' णजन्तेऽनुप्रवेशात्समुदायादञ्, तस्याङ्गत्वादादिवृद्धिः। `न य्वाभ्यां पदान्ताभ्याम्' इत्येष विधिर्न भवति; `न कर्मव्यति हारे' इति निषेधात्।
तत इति। णचः, णजन्तादित्यर्थः। स्वार्तिकस्तत्रैव भविष्यतीति। `स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते' इति कृत्वा। अतिवर्त्तन्तेऽपीति। व्यभिचरन्त्यपीत्यर्थः। अपिशब्दादनुवर्त्तन्तेऽपि, अनुवृत्तिस्तु `कासूगोणीभ्यां ष्ठरच्' इति षित्करणान्ङीषर्थादवसीयते। एकान्ततो निवृत्ते हि षकारोऽर्थको भवेत्, तेनेत्यादिना ज्ञापनस्य प्रयोजनं दर्शयति। प्रसन्ना=सुराविशेषः। देवतेति। देवशब्दात्पुंल्लिङ्गादेव तल् ।।

अणिनुणः ।। 5.4.15 ।।
संराविणमिति। `रु शब्दे,' `कूट दाहे' दीर्धोपधः, `मृजूष् शुद्धौ'--एतेब्यः संपूर्वेब्य इनुण्, पूर्ववत्सगतेरण्, `इनण्यनपत्ये' इति प्रकृति भावः, एकानुबन्धकपरिभाषया घिनुणोऽत्र ग्रहणाभावः ।।

विसारिणो मत्स्ये ।। 5.4.16 ।।
विसारीति। पूर्ववण्णिनिः। वैसारिण इति। पूर्ववत्प्रकृतिभावः ।।

संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् ।। 5.4.17 ।।
अत्र `उपाय एवाभ्युपायः' इतिवद् आवृत्तिरेवाभ्यावृत्तिरित्याश्रीयमाणे आद्याऽऽवृत्तिर्न भवतीति षट्कृत्वः प्रवृत्तौ पञ्चकृत्व इति स्यात्, अभिग्रहणं चानर्थकम्, क्रियावृत्तिगणन इत्येव वाच्यं स्यात्, अतोऽत्र विवक्षितं वक्तव्यम्? तदाह--पौनः पुन्यमभ्यावृत्तिरिति। पुनः पुनर्भवितरि वर्त्तमानात् पुनःपुनःशब्दात्प्रवृत्तिनिमित्तस्य भवनस्य निष्कृष्याभिधानाय बावप्रत्यय। पौनःपुन्यम्=पुनः पुर्भवनमित्यर्थः, असकृत्प्रवृत्तिरिति यावत्। तत्र चाद्या प्रवृत्तिरन्तर्भवति, तद्यथा--पौनःपुन्यं भृसार्थो वा क्रियासमभिहार इत्यत्र योऽपि द्विः पचति तत्रापि पापच्यते इति भवति। उक्तमेवार्थं स्पष्टयतिएककर्तृकाणामिति। बहुवचनमतन्त्रम्। द्वयोरपि जननसंख्यानमावृत्तिर्भवत्येव जननसंख्यानम्=उत्पत्तिगणनम्। भिन्नकर्तृकासु भिन्नजातीयासु च क्रियासु निरन्तरमनुष्ठीयमानास्वपि क्रियाब्यावृत्तिप्रत्ययाभावादुभयमुपात्तम्। एवम्भूतानां क्रियाणां जन्मन उत्पत्तेर्यत्संख्यानं गणनं तत्क्रियाभ्यावृत्तिगणनम्। एतच्चाभ्यावृत्तिशब्दस्य तत्रैव प्रसिद्धेर्लभ्यते, अत एव अभिग्रहणं कृतम्। पञ्चकृत्वो भुङ्क्ते इति। एकैवात्र भुजिक्रिया निवृत्तभेदाख्यातेनाभिधीयते, आवृत्त्याजनियेन फलेनैकीकृतत्वात् तस्या उत्पत्तयः पञ्चसंख्यानेन गणयन्ते। आवृत्तिकृतं फलमिच्छन्भुजिक्रियायाः पञ्चोत्पत्त्यावृत्तीः करोतीत्यर्थः। अवान्तरफलापेक्षं पञ्चत्वम्, उत्पत्तिभेदश्च।
  भूरिवारानिति। वारशब्दस्य क्रियोत्पत्त्याधारजालवाचित्वात् `कालाध्वनोः' इति द्वितीया. तथा च पुनःपुनःशब्दादुत्पत्त्याधारकालाभिधायित्वात् `कालाट्ठञ्' भवति--पौनःपुनिक इति। यदि कालशब्दः, वारशब्दः, भूरिशब्दोऽपि तत्समानाधिकरणः काल एव वर्त्तते, न क्रियाभ्यावृत्ताविति कथमत्र प्रसङ्गः? अत्राहुः--कालृवाचित्वेऽपि क्रियावृत्तेरपि गम्यमानत्वात्प्रसङ्ग इति। अपर आह---वारशब्दः क्रियागतामावृत्ति द्योतयन् क्रियाविसेषणत्वात्कर्म। नपुंसकत्वं तु न भवति, लोकाश्रयत्वाल्लिङ्गस्य; वारशब्दस्य नित्यपुंल्लिङ्गत्वात्--भूरिवारान् भुङ्क्ते। कोऽर्थः? आवृत्तानि बहूनिभोजनानि करोतीत्यर्थः। अत्र `बहुगणवतुडतिसंख्या' इत्यत्र बहुगणग्रहणं नियमार्थम्--अनियतप्रचयवाचिनां मध्ये एतयोरेवेति, तेन भूरिशब्दस्य लौकिकसंक्यावाचित्वेऽप्यत्र ग्रहणाभावः।
अम्भावृत्तिः क्रियाया एव सम्भवतीती। साध्यार्थविषयत्वात्तस्याः। न द्रव्यगुणयोरिति। तयोः सिद्धस्वभावतया शब्देनाभिधानात्। पुनः पुनर्दण्डी, पुनः पुनः स्थूल इत्यत्रापि गम्यमानाया भवतिक्रियाया एवाभ्यावृत्तिः, न तु द्रव्यगुणयोः। एकस्य सकृच्चेत्यत्रापीत्यादि। एकशब्देन ह्येकैव क्रियाव्यक्तिराख्यायते। न च तस्यामावृत्तेः सम्भवः; तत्रासति क्रियाग्रहणे `एको भुङ्क्ते' इत्यत्रापि स्यात्। तस्मादुत्तरार्थं क्रियाग्रहणम्। एवं च--क्रिया चाभ्यावृत्तिश्च क्रियाभ्यावृत्ती, तयोगर्णनं क्रियाभ्यावृत्तिगणनमिति द्वन्द्वगर्भः षष्ठीसमास इति केचित। अन्ये तु--इहार्थमपि सुखप्रतिपत्तये क्रियाग्रहणं मन्यमानाः षष्ठीतत्पुरुषगर्भ तत्पुरुषं वर्णयन्ति। तत्र गुणभूतस्यापि क्रियाग्रहणस्य निष्कृष्य सम्बन्धः तद्ग्रहणसामर्थ्याद्वेदितव्यः।
पञ्चपाका इति। अत्र कर्तृभेदेन वा भिन्नकालाः क्रिया एव गणयन्ते, नाभ्या वृत्तिः। सा हि भिन्नकालानामेककर्तृकाणामेककर्मकाणां च नैरन्तर्थे सति भवति। यद्यप्यत्र धात्वर्थस्य सिद्धताख्ये धर्मे घञो विधानम्, तथापि धातुनाऽत्रापि साध्यस्वभावा क्रियैवाभिधीयत इति तदाश्रयः प्रत्ययः स्यादेव। तता च---कारकस्य गतिः, कारकस्य व्रज्येत्यत्र `तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति ण्वुल् भवति।
अक्रियमाण इत्यादि। आ दशभ्यः संख्याः संख्येय एव वर्त्तन्ते, अतः परं संख्याने संख्येये च । तत्रासति गणनग्रहणे क्रियाभ्यावृत्तौ संख्येयायां वर्त्तमानेभ्यः संख्येयवचनेभ्य एव प्रत्ययः स्यात्, संख्याने तु वर्त्तमानेभ्यो न स्यात्, तदाह--इह न स्यादिति। शतं वाराणामिति। इयमप्यत्यन्तसंयोगे द्वितीया। किं कारणं न स्यात्? इत्यत आह--न ह्यत्रेति। कारणमाह--संख्यानमात्रवृत्तित्वादिति। गणनग्रहणात्त्विति। `क्रियाभ्यावृत्तिगणने' इति विषयनिर्देशः, तत्र ये संख्येयवचनाः, ये च संख्यानमात्रवचनाः---द्वयेऽपि ते गणनाविषया भवन्तीति सर्वत्र सिद्धिः। ननु शतं वाराणामित्यत्र यदा वाराणामिति प्रयुज्यते, तदा सापेक्षत्वात् प्रत्ययेन न भाव्यम्? यदा तर्ह्यर्थात्, प्रकरणाद्वाऽपेक्षयं निर्ज्ञातं भवति तदा भविष्यति यद्येवम्, संख्येयवचनादेव शतकृत्व इति भविष्यति, न हि `शतकृत्वो भुङ्क्ते' इत्यत्र वाराणामिति वारानिति वा प्रयोगार्हम्, तस्मात्प्रयोजनदिगियं दर्शिता। इदं तु प्रयोजनम्--यत्र साक्षादभ्यावृत्तिगणनं तत्र यथा स्याद्, अभ्यावृत्तिगणनसम्भवमात्रे मा भूत्--सप्तदश प्राजापत्यान् पशूनालभत इति। अस्ति ह्यत्रालभतिक्रियायाः प्रतिपशु वस्तुतोऽभ्यावृत्तिः, तस्या विषयभूतायाः साधनगणनवृत्तेरपि सप्तदशशब्दात् प्रत्ययः स्यात् ।।

द्वित्रिचतुर्भ्यः सुच् ।। 5.4.18 ।।
सकृदिति। `रात्सस्य' इति सुचो लोपः। सुचश्चकारः स्वरार्त इति। `चितः सप्रकृतेर्बह्वकजर्थम्' इति वचनाच्चतुरित्यस्यान्तोदात्तो भवति; अन्यथा`चतेरुरन्' इत्युरन्प्रत्ययान्तत्वादाद्युदात्तः स्यात् ।।

एकस्य सकृच्च ।। 5.4.19 ।।
सकृदिति । `संयोगान्तस्य लोपः' इति सुचो लोपः। सुचश्चकारोऽत्राप्यन्तोदात्तार्थः, अन्यथा `इण्बीकापाशल्यतिमर्चिभ्यः कन्' इति कन्प्रत्ययान्त एकशब्द आद्युदात्त इति तस्य स्थाने भवन्सकृच्छब्द आन्तर्यत आद्युदात्तः स्यात्। एकः पाक इत्यत्रेत्यादि। अपर आह--`अभ्यावृत्तिग्रहणादेव सिद्धे पूर्वसूत्रे क्रियाग्रहणं क्रियाविशेषप्रतिपत्त्यर्थम्, तेन साध्यस्वभावैव क्रिया गृह्यते। पाकादिभिस्तु शब्दैः सिद्धस्वभावाऽभिधीयते, यादृशी च पूर्वसूत्रे क्रिया गृहीता तादृश्येवात्राप्यनुवर्त्तते' इति। तत्र च पाकादिशब्दप्रयोगे प्रत्ययाभाव इति घञन्ताद्यन्तप्रयोगेऽपि कृत्वोऽर्थप्रत्ययः क्वचित् लिङ्गाद् `द्विर्वचनेऽचि' इति साधनीयो मनीषिभिः ।।

विभाषा बहोर्द्धाऽविप्रकृष्टकाले ।। 5.4.20 ।।
अविप्रकृष्टकालग्रहणं क्रियाभ्यावृत्तिविशेषणमिति। यद्यप्येवम्, तथापि गणनग्रहणेनैवास्य शाब्दोऽन्वय इति नपुंसकलिङ्गमेव भवति, न स्त्रीलिङ्गम्। गणनस्याविप्रकृष्टकालत्वं गण्यमानानामभ्यावृत्तिनामविप्रकृष्टकालत्वे सतीत्यर्थप्राप्तं वृत्तिकारेण दर्शितम्। बहुधा दिवसस्य भुङ्क्ते इति। `कृत्वोऽर्थप्रयोगे कालेऽधिकरणे' इति षष्ठी, अविप्रकृष्टकालत्वं चाभ्यावृत्तीनां तत्तत्क्रियावशेन व्यवतिष्ठते। बहुकृत्वो मासस्य भुङ्क्ते इति। अत्राभ्यावृत्तेर्विप्रकृष्टकालताऽशक्तिदारिद्र्याद्यपेक्षया द्रष्टव्या ।।

तत्प्रकृतवचने मयट् ।। 5.4.21 ।।
प्राचुर्येण प्रस्तुतं प्रकृतमिति। यद्यपि प्रस्तुतमात्रवचनः प्रकृतशब्दः, तथापीह वचनग्रहणादयं विशेषो लभ्यते। वचनग्सरहणं हि यादृशस्य प्रकृतस्य लोके मयटा वचनं प्रत्यायनं तत्र यथा स्यादित्येवर्थम्। प्रथमासमर्थादिति। केन पुनः प्रथमान्तस्य सामर्थ्य प्रत्ययस्तावत्स्वार्थिकः? यद्यपि स्वार्थिकः, प्राचुर्यं तु तस्य द्योत्यम्। तच्च प्रकृत्यर्थगतमित्येतावदत्र सामर्थ्यम्।
अपरे पुनरित्यादि। अत्र प्रकृत्यार्थादर्थान्तर एव प्रत्ययः, तत्पुनरर्थान्तरं ल्युटा प्रतिपादितम्। सप्तम्यर्थ उच्यमानता प्रकृतता च प्रकृत्यर्थविशेषणम्, तद्दर्शयति--अन्नं प्रकृतमस्मिन्नति।
उभयथा सूत्रप्रणयनादिति। प्रकारद्वयसाधारण्येन सूत्रस्य प्रणयनादित्यर्थः। अत्र प्रथमे व्याख्याने तदिति विस्पष्टार्थम्; `देवात्तल्' इत्येवमादिवत्समर्थविभक्तेः सिद्धत्वात् ।।

समूहवच्च बहुषु ।। 5.4.22 ।।
आपूपिकम्, मौदकिकमिति। `अचित्तहस्तिधेनोष्ठक्' ।।

अनन्तावसथेतिहभेषजाञ्ञ्यः ।। 5.4.23 ।।
आवसन्त्येतमित्यावसथः, `उपसर्गे वसेः' इत्यथप्रत्ययः। निपातसमुदायोऽयमिति। वचनाच्चाप्रातिपदिकादपि प्रत्ययः। उपदेशपारम्पर्ये वर्त्तते इति। तद्यथा--इति ह स्मोपाध्याः कथयन्तीति। भिषज्यतेः कण्ड्वादियगन्तात्किवपि भिषक, भिषज इदमित्यण्--भेषजम्, अस्मादेव निपातनादेकारः ।।

देवतान्तात्तादर्थ्ये यत् ।। 5.4.24 ।।
चतुर्थीसमर्थादिति। तादर्थ्ये चतुर्थ्या उपसंख्यानादेतल्लभ्यते। पितृदेवत्यमिति। पर्मधारयात्प्रत्ययः। कथं पुनरत्र सामानाधिकरण्यम्? कथं च न स्यात् ? जातिभेदात्, अन्या हि पितृजातिरन्या च देवताजातिः, दर्शयति च--देवा मनुष्याः पितरस्तेऽन्यत आसन्निति, देव एव देवता--स्वार्थिकस्तल् ? एवं तर्हि तल्प्रत्ययस्य प्रकृतिर्देवशब्दः पचाद्यचि ऐश्वर्यार्थाद्दिवेः साध्यः; न जातिवचनः; ततः सामानाधिकरण्यं स्याद्देवतापितृशब्दयोः। एवं च देवदेवत्यमित्येतदपि सिद्धयति। यागसम्प्रदानमन्त्रस्तुत्यं वा देवता, न जीतिविशेष इत्यर्थः ।।
  
पादार्घाभ्यां च ।। 5.4.25 ।।
गन्धोदकादिसमुदायोऽर्घः, तदर्थभुदकादि=अर्घ्यम्। छन्दस्य इति। यथा गायत्र्यादिवृत्तं छन्दःशब्दोऽभिधत्ते, तथाऽऽश्रावयेत्यादिकमपि सप्तदशाक्षरसमाहारम्, तत्र वर्त्तमानाच्छन्दःशब्दात्स्वार्थे प्रत्ययः, व्यत्ययेन पुंल्लिङ्गता।
द्वितीयाबहुवचनस्य लुगिति। छान्दसत्वात्। अत एव यदन्तात्प्रथमैकवचनं पुंल्लिङ्गं च भवति।
अमुष्यशब्दो नडादिः, अमुष्यपुत्रशब्दो मनोज्ञादिः; उभयत्र षष्ठ्या अलुगुपसंख्यायते। प्रत्ययप्रकरणे प्रासङ्गिकमेतत्, स चालुक् तयोरेव गणयोस्तथैव पाठात्सिद्धः।
समशब्दादावतुप्रत्यय इति। उकार उगित्कार्यार्थः--समावती यज्ञस्याशीरिति ङीब् भवति।
`अग्नीधः शरणे रण् भत्वं च'--आग्नीध्रम्, ततोऽञ्-आग्नीध्री। समानं धारणमस्य साधारणम्, अनेकं प्रत्यविशिष्टसम्बन्धम्। पृषोदरादित्वात्समानस्य सभावः, ततोऽञ् साधारणि। ङीबर्थं वचनम्। क्षेमशब्दाद्यो वक्तव्यः, यति हि सति `यतोऽनावः' इत्याद्युदात्तत्वं स्याद्, अन्तोदात्तत्वं चेष्यते ।।

यावादिभ्यः कन् ।। 5.4.29 ।।
ऋतावुष्णशीते इति। उप्णक ऋतुः, शीतक ऋतुः। ऋतोरन्यत्र तु---उष्णोऽग्निः, शीतमुदकम्। पशाविति। लूनकः पशुः, वियातकः पशुः। अन्यत्र--लूना दर्भाः, वियातो नीचः। अणु निपुण इति। अणुकः=सूक्ष्मदृक, निपुणः, अन्यत्राणुरेव। पुत्र कृत्रिमे। पुत्रको लोहादिनिर्मितः, अन्यत्र पुत्र एव। स्नात वेदसमाप्तौ। यस्याध्येतव्यो वेदः समाप्तः=पारं प्राप्तः, स वेदमधीत्य स्नास्यन्नित्यादिस्वगृह्योक्तप्रक्रारेण स्नानाय चोदितःक स्नातकः=समावृत्त उच्यते। अन्यत्र--नद्यां स्नातः। शून्य रिक्त इति। उदकादिना रिक्तो घटः शून्यकः। अन्यत्र--शून्यः प्रत्ययः, बाह्यार्थरहित इत्यर्थः। तथा शूने हितः शून्यः, गवादिषु `शुनः सम्प्रसारणं वा च दीर्घत्वं च' इति पठ्यते। दान कुत्सिते। कुत्सितं दानं दानकम्। तनु सूत्रे। तनुकं सूत्रम्=सूक्ष्मतन्तुः, अन्यत्र तनुः=शरीरम्। ईयसश्च।ईयसुन्नन्ताच्च स्वार्थे कन् भवति-श्रेयस्कम्। कुमारीक्रीडनकानि च। कुमारीणां यानि क्रीडनकानि=क्रीडासाधनानि तानि कनमुत्पादयन्ति---कण्डु(दु)कम् ।।

वर्णे चानित्ये ।। 5.4.31 ।।
सत्येवाश्रये यल्लौहित्यमपगच्छति तदनित्यम्। लोहितकः कोपेनेति। कोपे सति भवति कोपागगमे च सत्येवाश्रये निवर्त्तत इत्यनित्यमेतत् लौहित्यम्।
लोहितो गौरिति। यावदाश्रयभावित्वादयं नित्यो वर्णः।
लोहितै रुधिरमिति। विषादिदूषितं रुधिरं कदाचित्कृष्णमपि भवतीति विसेषणम्। वर्णग्रहणं किम् ? अनित्यत्वं विशेषणं यथा विज्ञायेत्, अन्यथा लोहितशब्दो वर्णप्रवृत्तिनिमित्तमुपादाय यत्र द्रव्ये पर्यवस्यति, तत्रापि विशेषणं सम्भाव्येत। तत्र को दोषः? इह च स्यात्--लोहितो गौरिति। इह च न स्यात्--लोहितकाः पार्थिवाः परमाणवोऽग्निसंयोगेनेति। तथा वर्णनिरपेक्षो रुधिराख्ये द्रव्ये लोहितशब्दस्यस्यापि ग्रहणं स्यात्, अनित्यग्रहणमिदानीं किमर्थं स्यात्! ननु सर्वमेव रुधिरमनित्यं यत्सत्येवाश्रये कादाचित्कम्, यथा--स्त्रीणामार्त्तवम्, तस्य ग्रहणार्थं स्यात्, तस्माद्वर्णग्रहणम्।
लोहिताल्लिङ्गबाधनं वा इति। ङ्याप्सूत्र एतद्व्याख्यातम् ।।

रक्ते ।। 5.4.32 ।।
यत्र द्रव्यान्तरसम्पर्केण लौहित्यं तथाधीयते तथा यावदाश्रयमवतिष्ठते, तत्रानित्यत्वाभावात्पूर्वेण न प्राप्नोतीत्ययमारम्भः। नन्वेवमपि रञ्जनात् प्राक् सत्येव पदादावाश्रये लौहित्यस्यावस्थानाभावादस्त्येवानित्यता, न कारणावस्थायामेव रञ्जनात्? तदेतदेव वचनं ज्ञापकम्--पूर्वत्रायावद्द्रव्यभावित्वमनित्यत्वम्, न पुनराद्यन्तभाव इति। तादृशस्य त्वनित्यत्वस्य ग्रहणो तैजसानां परमाणूनां यल्लौहित्यं तद्व्यतिरिक्तस्य सर्वस्यैव लोहित्यस्य नित्यत्वादिदं वचनमनर्थलं स्यात् ।।

कालाच्च ।। 5.4.33 ।।
द्वयमप्यनुवर्त्तत इति। द्वयस्यापि स्वरितत्वात्, न त्वनन्तरं `रक्ते' इत्येतदेवेत्यपिशब्दार्थः। वैलक्ष्येणेति। विलक्षस्य भावो वैलक्ष्यम्=लज्जा। कालकः पट इति। नील्यादिना कालतामापादित इत्यर्थः ।।

विनयादिब्यष्ठक् ।। 5.4.34 ।।
उपायाद् ह्रस्वत्वं चेति। उपायशब्दष्ठकमुत्पादयति, ह्रस्वत्वं चापद्यते। स च ह्रस्व आकारस्यैव भवति; अन्यस्याचः स्वत एव ह्रस्वत्वात्। अकस्मादित्यत्र पठ्यते, तद्दकारान्तम्, तेन `हसुसुक्तान्तात्कः' इति कादेशो न भवति--आकस्मिकः, अव्ययत्वाट्टिलोपः ।।

वाचो व्याहृतार्थायाम् ।। 5.4.35 ।।
व्याहृत इति। उक्त इत्यर्थः। अन्येनेति। संदेष्ट्रा। तेन हि पूर्वमुक्तस्तस्यार्थः संदेशहरं प्रति। सन्देशवागिति। सन्देशरूपा वाक् सन्देशवाक्, सन्दिश्यते इति सन्देशः, तस्य वाक् संदेशवाक् यया संदिष्टोऽर्थोऽभिधीयते।
अपर आह--लेख्यादिनावधारितेऽर्थे प्रवर्त्तमाना वाक् व्याहृतार्थेति। `अतिवर्त्तन्ते च स्वार्थिकाः प्रकृतितो लिङ्गवचनानि' इति नपुंसकत्वम् ।।

तद्युक्तात्कर्मणोऽण् ।। 5.4.36 ।।
कर्मशब्दादिति। एतेन `कर्मणः' इति स्वरूपग्रहणम्, नेप्सिततमादेरिति दर्शयति। एतच्च व्याख्यानाल्लभ्यते। कार्मणमिति। `अन्' इति प्रकृतिभावः। तथैवेति। यथैव व्याहृतार्थया वाचा प्रतिपादितम्-एवमेतत्त्वया कर्त्तव्यमिति, तथैवेत्यर्थः।
अण्प्रकरण इति। प्रज्ञादिष्वपाठः---एतेषां भाषायामण्मा भूदिति। सान्नाय्येत्यादि। सान्नाय्यादयः शब्दाः प्रज्ञादिषु द्रष्टव्या इत्यर्थः। अन्तोदात्तार्थं चेह सान्नाप्यशब्दस्य ग्रहणम्, रूपं तु `पाय्यसान्नाय्य' इति निपातनादेव सिद्धम्। आनुजावर इति। अनुजादवर इत्यस्मादेव निपातनात्पञ्जमीसमासः, ततोऽण्। आनुषूक इति। सूतिः सूः, सम्पदादित्वात् क्विप्, अनुगता सूरेतमिति बहुव्रीहिः, कप्, `पूर्वपदात्' इति षत्वम्। चातुष्प्राश्यमिति। चतुर्भिः प्राश्यमिति `कर्तृकरणे कृता बहुलम्' इति समासः, ततोऽण्। आधाने व्रीह्येदनस्येदमभिधानम्। `इदुदुपधस्य' इति षत्वम्। राक्षोघ्नमिति। रक्षांसि हन्यन्तेऽनेनेति धञर्थे कः। वियातविकृतशब्दाभ्यामण्-वैयातः, वैकृतः। वरिवः=परिचर्या, तत्करोति वरिवस्कृत्, क्विप्, `अतः कृकमि' इति सत्वम्, वरिस्कृदेव वारिवस्कृतः=परिचारकः। अग्रमयनमस्य, अग्रे हायनमस्येतिक बहुव्रीहिभ्यामण्---आग्रायणं कर्म। नानिष्ट्वाग्रायणेनाहिताग्निर्नवस्याश्नीगदिति। आग्रहायणी, अणन्तान् ङीप्। सन्प्यतेऽनेनेति सन्तपनः, सन्तपन एव सान्तपनः=कृच्छ्रः ।।

ओषधेरजातौ ।। 5.4.37 ।।
औषधं पिबतीति। पथ्या-शुण्ठी-सैन्धवादीनां कल्के औषधशब्दो वर्त्तते, औषधयः क्षेत्ररूढा इति। फलपाकावसानेषु जातिविशेषेप्वत्रौषधिशब्दः ।।

प्रज्ञादिभ्यश्च ।। 5.4.38 ।।
प्रजानातीति प्रज्ञ इति। `इगुपधज्ञाप्रीकिरः कः' इति कः। अथ किमर्थमुभयं क्रियते, इह च प्रज्ञशब्दः पठ्यते, मत्वर्थे च प्रज्ञाशब्दाण्णो विधीयते, यः प्रजानाति तस्य प्रज्ञाऽस्ति, यस्य च प्रज्ञास्ति स प्रजानातीति, ततश्चान्यतरैणैव प्राज्ञ इति सिद्धम्?-- इत्याशङ्क्य स्त्रियां विशेष इति दर्शयति--स्त्रियामित्यादि।
विदन्, षोडन्निति विभक्त्यन्तयोः पाठ एकत्वविवक्षार्थः। वैचित्र्यार्थः इत्यन्ते। श्रोत्र शरीरे। यः श्रोत्रशब्दः शरीरे वर्त्तते, असौ अणमुत्पादयति--श्रौत्रम्। अन्यत्र श्रोत्रामिन्द्रियम्। जुह्वत्कृष्णमृग इति। कृष्णमृगे वर्त्तमानाज्जुह्वच्छब्दादण्प्रत्ययो भवति--जौह्वतः कृष्णमृगः। अन्यत्र जुह्वत्। अपर आह---कृष्णमृगे वर्त्तमानात्कृष्णशब्दादण्प्रत्ययो भवति--कार्ण्णो मृगः। अन्यत्र तु कृष्णः जुह्वच्छब्दात्त्वविशेषेणाण्भवतीति। सत्वन्त्विति। सच्छब्दो मत्वन्त आगतनुम्को गृह्यते, सत्वानेव सात्वतः ।।

मृदस्तिकन् ।। 5.4.39 ।।
`प्रत्ययस्थात्' इत्येव सिद्धे तिकन हकारोच्चारणम् यत्रापो लुक् क्रियते तदर्थम्---पञ्चभिर्मृत्तिकाभिः क्रीतः पटः पञ्चमृत्तिक पटः ।।

सस्नौ प्रशंसायाम् ।। 5.4.40 ।।
उत्तरसूत्रेऽन्यतरस्यांग्रहणादिति। मृच्छब्दस्य सामान्यशब्दत्वात्, मृदित्युक्ते प्रशंसाया अनवगमाच्च।
इह `प्रशंसायां रूपप्' इत्यस्यानन्तरम्--`वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि, मृदस्सस्नौ, तिकंश्च' इति वक्तव्यम्? तथा तु न कृतमित्येव ।।

बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् ।। 5.4.42 ।।
कारकाभिधायिनः शब्दादिति। पञ्चकपक्षे प्रातिपदिकात्, त्रिकपक्षे सुबन्तात्। गहादिषु `मध्यमध्यमं चाण्चरणे' इत्यविशेषाभिधानेऽपि पृथिवीमध्यस्य मध्यमभाव इत्युक्तम्, इह तु न तथेत्याहअविशेषाभिधानाच्चेति। एवमादीति। आदिशब्देनापादानाधिकरणयोरुदाहरणपरिग्रहः---बहुभ्य आगच्छति बहुश आगच्छति; बहुषु निदधाति बहुशो निदधाति; एवमल्पेब्योऽल्पशः, अल्पेष्वल्पशः।
बहूनां स्वामीति। शेषे षष्ठीविधानान्न कारकाभिधायी बहुशब्दः।
पर्यायेब्योऽपीति। अपिशब्दाद्विशेषेभ्योऽपि। तत्र वृत्तौ पर्यायस्योदाहरणम्। विशेषस्य तु---त्रिशो ददातीति, वीप्साया अन्यत्र। वीप्सायां तूत्तरेण सिद्धम्।
आब्युदयिकेष्विति। अब्युदयप्रयोजनेषु अग्न्याधेयादिषु अनिष्टेषु भयादिनिमित्तेषु दानेषु। प्रायिकं चैतन्मह्गलवचनम्, अन्यत्रापि हि दृश्यते। `अपेतापोढनुक्तपतितापत्रस्तैरल्पशः' इति कारकत्वं समासक्रियां प्रति पञ्चभ्याः कर्मत्वात्तदभिधायित्वाच्चाल्पशब्दस्य द्रष्टव्यम्। उदीरितं च---`अल्पा पञ्चमी सम्स्यते' इति ।।


संख्यैकवचनाच्च वीप्सायाम् ।। 5.4.43 ।।
`नित्यवीप्सयोः' इति द्विर्वचने प्राप्ते तदपवादः सस्विधीयते। कथं तहि `एकैकशः पितृसंयुक्ताम्' इति शस्द्विर्वचनयोः सहप्रयोगः? छन्दोवदृषयः कुर्वन्ति।
यद्यत्र पारिभाषिकस्यैकवचनस्य ग्रहणं स्यात्-सर्वेभ्यो ब्राह्मणेभ्यो घटंघटं ददातीत्यत्रापी स्यात्; घटशब्दस्यैकवचनान्तत्वादित्यालोच्यान्वर्थस्यैकवचनस्यात्र ग्रहणमित्याह--एकोऽर्थ उच्यते येनेति। नन्वेवमपि स दोषस्तदवस्थ एव, एकवचनान्कतस्यैकार्थत्वात्? इत्यत आह-कार्षापणादयश्चेति। अनेन वृत्तिस्थैकार्थताऽऽश्रीयते, न वाक्यगतेति दर्शयति। वृत्तौ न घटादयो जातिशब्दा अनेकार्था भवन्ति, जातियोगस्यैकानेकसाधारणत्वात्; किन्त्वभेदैकत्वसंख्यामुपाददते; कार्षापणादयस्तु परिभाणवचना अक्तपरिमाणमर्थमाचक्षाणा इत्येकशेषबलात् अक्षाः, पादाः, माषा इतिवदेकजात्यन्वयरहितानेकार्थप्रतीतिः। वृत्तौ तु विभक्त्यैकशेषयोरभावात्स एव केवलोऽक्तपरिमाणोर्थोऽवतिष्ठते। अतः कार्षापणादय एवोदाहरणमिति जयादित्यो मन्यते।
वामनस्तु `जश्शसोः शिः' इत्यत्रोदाहरिष्यति--`जसा सहचरितस्य शसो ग्रहणादिह न भवति-कुण्डशो ददाति, वनशः प्रविशति' इति। स मन्यते-जातिशब्दोऽपि यदा अर्थप्रकरणादिना वृत्तावेकार्थीभवति, भवत्येव तदा ततोऽपि शसिति--द्वयोर्द्वयोः स्वामीति। कथं तर्हि--
अव्रतानामविद्यानां जातिमात्रोपजीविनाम्।
सहस्रशः समेतानां परिषत्त्वं ************ ।। इति ?
कथं च न स्याद्? वीप्साया अभावाद्, अकारकत्वाद्, अनेकवचनत्वाच्च, अयं ह्यत्रार्थः- एवम्भूतानां ब्राह्माणां सहस्रस्यापि परिषत्त्वं न विद्यत इति? नायमत्रार्थो यथा त्वमात्थ, कि तहि ? सहस्रं सहस्रं ये समेतास्तेपामप्येवम्भूतानां परिषत्त्वं नास्तीति, तत्र समवायक्रियायां कर्तृत्वाद्वीप्सायाश्चाभावाच्छस् भवति ।।

प्रतियोगे पञ्चब्यास्तसिः ।। 5.4.44 ।।
प्रतिना कर्मप्रवचनीयेनेत्यादि। `प्रतिः प्रतिनिधिप्रतिदानयोः' इति कर्मप्रवचनीयसंज्ञा, `प्रतिनिधिप्रतिदाने च यस्मात्' इति पञ्चमी ।
आद्यादिभ्य उपसंख्यानमिति। `तस्यादित उदात्तमर्धह्रस्वम्' इत्येतदत्र लिङ्गम्।

आपादाने चाहीयरुहोः ।। 5.4.45 ।।
सार्थाद्धीयत इति। `ओहाक्त्यागे', कर्मण्यात्मनेदम्, यक्, घुमास्थादिसूत्रेणेत्वम्। कथं पुनः कर्मसंज्ञा, यावता `कर्त्तुरीप्सिततमं कर्म'? न चात्र सार्थः कर्तृसंज्ञकः, किन्तु ध्रुवत्वेन विवक्षित्वादपादानसंज्ञकः। मा भूत्कर्तृसंज्ञा, जहाति तावत्सार्थो देवदत्तं यदि न जह्यादपाय एव न संवर्त्तेत। स्वातन्त्र्योपलक्षणं च कर्मसंज्ञायां कर्तृग्रहणम्, कर्तृसंज्ञा भवतु मा वा भूत्। एवं चापादनस्यापि सतः सार्थस्य हाने यत्स्वातन्त्र्यं वास्तवम्, तदाश्रया कर्मसंज्ञा भवति। यद्येवम्, माषेप्वश्वं बध्नातीत्यत्र कर्मणोऽप्यश्वस्य वस्तुतो यद्भक्षणे स्वातन्त्र्यं तदाश्रया माषाणं कर्मसंज्ञा प्राप्नोति, तस्मात्कर्मकर्त्तर्यत्र लकारः। कथमिह डजहातिरपगमनायां वर्त्तते? देवदत्तं सार्थो जहाति, अपगमयतीत्यर्थः। एषैव च सार्थस्यापगमना यत् क्षुदुपघातादिना देवदत्तस्यापगमने तत्समर्थाचरणम्, यदा तु क्षुधादिना स्वयमेवापगच्छति तदा कर्मकर्तृत्वम्, ततश्च हीयत इति। कोऽर्थ ? स्वयमेवापगच्छतीत्यर्थः। पुनः `कुतोहीयते'--इत्यपेक्षायां सार्थेन सम्बन्धः।
विकारनिर्देश इति। विकृतिर्विकारः, इह तु तद्वेतुत्वाद्यगभिप्रेतः। तत्र हि घूमास्थादिसूत्रेणेत्वविधानाद्धातुरूपं विक्रियते। यका निर्द्देशः-यस्य यकीत्वमस्ति, तस्य ग्रहणार्थमित्यर्थः। जिहीतेरिति। श्तिपो ङित्त्वाबावादीत्वानुपपत्तेर्जिहातेरिति पठीतव्यम्। तिडन्तानुकरणं वा जिहीतेरिति द्रष्टव्यम्।
नैषा पञ्चमीति। यदन्तात्तसिः, नैषा पञ्चमीत्यर्थः। किं तर्हि तृतीयेति। हेतौ, करणे वा तृतीया, तदन्ताद् `हीयमानपापयोगाच्च' इति तसिरित्यर्थः। स्वरेण, वर्णेन वा विवक्षितादर्थाद्धीन इत्यर्थः सम्पद्यते ।।

अतिग्रहाव्यथनक्षेपेष्वकतरि तृतीयायाः ।। 5.4.46 ।।
अतिक्रम्य ग्रहोऽतिग्रह इति। अतिशब्दोऽत्रातिक्रमणे वर्त्तते इति दर्शयति। अतिशब्दो हि ससाधनेऽप्यतिक्रमणे दृष्टः, तद्यथा--`तस्माद्ब्राह्मणे राजन्यवानत्यन्यं ब्राह्मणम्' इति, `न वै देवा नमस्कारमति' इति च। तेन तस्यातिक्रमणमात्रे वृत्तिर्न सम्भवति। वृत्तेनातिगृह्यत इति। बहुष्वासीनेष्वन्यातिक्रमेणायमसाविति विज्ञायत इत्यर्थः, तत्र वृत्तं कारणम्। चारित्रेणेति। `चरेर्वृत्ते ह्रस्वश्च वा' इति णित्रन्प्रत्ययः-चरित्रम्, चारित्रम् ।।

हीयमानपापयोगाच्च ।। 5.4.47 ।।
उदाहरणेषु वृत्तस्य हीयमानेन पापेन च योगः, हेतौ
करणे वा तृतीया, कर्त्ता त्वत्र बन्धुजनादिः। क्षेपस्याविवक्षायामित्यादि। कस्मादेवमित्याह--क्षेपे हीति ।।

षष्ठ्या व्याश्रये ।। 5.4.48 ।।
नानापक्षसमाश्रयो व्याश्रय इति। तथा च `हेतुमति च' इत्यत्र भाष्ये प्रयोगः---व्याश्रिताश्च भवन्ति, केचित्कंसभक्ता, केचिद्वासुदेवभक्ता इति। देवा इत्यादि। अर्जुन इन्द्रपुत्रः, कर्णः सूर्यपुत्रः। षष्ठी चात्रेति । पक्षशब्दस्तु तसौ सति न प्रयुज्यते: गतार्थत्वात्, नानापक्षसमाश्रयण एवास्य विधानात् ।।

रोगाच्चापनयने ।। 5.4.49 ।।
प्रवाहिकात इति। प्रवाहिफाशब्दात्प्रतीकारापेक्षया षष्ठी, तदन्तात्त्सिः, प्रतीकारशब्दस्य तु पूर्ववदप्रयोगः।।

अभूततद्बावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः ।। 5.4.50 ।।
वार्त्तिककारेण च्विविदावभूततद्भावग्रहणं कर्त्तव्यमित्युक्तम्, तदवश्यं कर्त्तव्यमिति मन्यमानः सूत्र एव प्रक्षिप्य वयाचष्टे--कारणस्येति। उपादानम्, निमित्तम्, असमवायीति--त्रीणि कारणानि, तत्रोपादानकारणस्येत्यर्थः। विकाररूपेणेति। कारणस्यैवोत्तरमवस्थान्तरम्=विकारः, तेन रूपेण तदात्मनाऽभूतस्याजातस्यापरिणतस्येत्यर्थः। तदात्मना विकारात्मना भावः=जन्म, परिणाम इत्यर्थः। अनेन कार्यकारणयोरभेदो दशितः। यथा रज्जुः शिक्यमिति न तत्त्वान्तरम्, अथ च न रज्जुमात्रे शिक्यप्रतीतिः। एवं हिरण्यमेव कुण्डलम्, मृदेव घटः, तन्तव एव पटः, दार्वेव यूपः। अथ च न दिहण्यादिमात्रे कुण्कडलादिप्रतीतिः, नो खलु कुण्डलं हिरण्यं न भवतीति कश्चित्प्रत्येति। यदि च कुण्डलं हिरण्यं न भवति, किं तर्हि? हिरण्यं पिण्डः ननु सोऽपि पिण्डः, एवं वृत्तमेवं दीर्घमिति न किञ्चन हिरण्यं स्यात्, तस्मदनुवृत्तं कारणम्, व्यावर्त्तमानस्त्ववस्थाभेदो विकार इति युक्तम्। कुतः पुनरयमभूततद्भावविशेषो लभ्यते, न पुनरभूत्वा भवनमात्रं भवन्त्यस्मिन्क्षेत्रे शालय इति ? तच्छब्दोपादानात्। येन रूपेण ग्रागभूतं कारणं तेन रूपेण तस्य भावोऽभूततद्भाव इति हि तस्यार्थः, अन्यथाऽभूतभाव इत्येव वाच्यम्। तदपि वा न वक्तव्यम्; सम्पद्यकर्तृत्वादेव सिद्धेः।
यद्वा-जन्मग्रहण एव कर्त्तव्ये `अभूततद्भावः' इति वचनाद्यथोक्तार्थलाभः, सर्वथा यत्र प्रकृतिरेव विकाररूपतामापद्यमाना विकारभेदेन विवक्ष्यते तत्रैव प्रत्ययः, तत्रेव हि दर्शितोऽभूततद्भावः सम्भवति। सम्पद्यतेः कर्तेति। शब्दात्मकस्य धातोः स्वरूपेण कर्त्रा सम्बन्धासम्भवादर्थद्वारकमिदमभिधानम्, सम्पद्यर्थस्य यः कर्त्ता स सम्पद्यकर्तेत्यर्थः। अर्थकथन चैतत्, विग्रहस्तु सम्पद्यश्चासौ कर्त्ता चेति, `पाघ्राध्माधेट्दृशः शः' अस्मादेव निपातनात्सम्पदोऽपि भवति। दिवादित्वात् श्यन्। क्वचित्तु सम्पद्यते कर्तेति। तिङ्न्तं पठ्यते, यः सम्पद्यते कर्त्ता स सम्पद्यकर्तेत्यर्थः। शुक्लीकरोतीति। प्रकृतौ विकारावस्थां प्राप्नुवत्यां वर्त्तमानाद्विकारशब्दात्स्वार्थे च्विप्रत्ययः, इकारः `वेरपृक्तस्य' इति सामान्यग्रहणार्थः। चकारस्तु तदविधातार्थः, प्रकृतेरन्तोदात्तार्थश्च। वकारस्य `वेरपुक्तस्य' इति लोपः, `अस्य च्वौ' इतीत्वम्, `ऊर्यादिच्विडाचश्च' इति निपातत्वेनाव्ययत्वात्सोर्लुक्।
नात्र प्रकृतिर्विवक्षितेति। प्रकृतिविवक्षायामेवाभूततद्भावः सम्भवतीत्युक्तम्।
अभूततद्भावसामर्थ्यक्षितेति। यो विकाररूपेणाभूतः सन् विकारात्मना भवति, स नियोगतस्तेन रूपेण सम्बद्यमानः सम्पद्यकर्त्ता भवतीत्येतत्सामर्थ्य यद्रूपान्तरेण सम्पद्यते न तदवश्यं कर्तृसंज्ञमेव भवतीत्यभिप्रायेणाह--कारकान्तरसम्पत्तौ मा भूदिति। अदेवगृहे देवगृहे सम्पद्यत इति। अदेवगृहे प्रागभूद्यो वृक्षादिः, स इदानीं तस्मिन्प्रदेशे देवालयीभूते देवागृहे सम्पद्यत इत्यर्थः। उदाहरणदिक्चेयं वृत्तिकारेण दर्शिता। कृभ्वस्तियोगाभावाद्विनैवात्र च्विः प्रसज्यते। तस्माददेव गृहे देवगृहे भवतीति प्रत्युदाहार्यम्। अत्र वृक्षादेः सम्पत्तिं प्रत्यधिकरणस्याप्यदेवगृहस्याभूततद्भावोऽस्त्येव; तस्य प्रागदेवगृहस्यापि सम्प्रति देवगृहत्वेन परिणामात्। एवं हि वृक्षादेस्तदाधारविशिष्टतयाऽभूततद्भावो यद्यपि वस्तुतः सम्पद्यकर्तृत्वमपि देवगृहस्यास्ति, तथापि न तद्विवक्षितम्, किं तहि? आधारभाव एवेति भवत्युदाहरणम्। ननु चैवं सति सुक्लीकरोतीत्यत्रापि न स्याद्, अत्रापि हि कारनान्तरस्य कर्मणः सम्पत्तिः, न कर्तुः? अस्यत्र विशेषः, कर्मवयापारोपसर्जनं कर्तृव्यापारं करोतिराह, कर्मव्यापारश्च सम्पत्तिः--शुक्लं करोतीति, कोऽर्थ? शुक्लं सम्पद्यमानं सम्पादयतीत्यर्थः। ततश्च सम्पद्यकर्तृत्वमस्मिन्प्रयोगे शब्देनैवोपात्तम्। इतरत्र तु वृक्षादेरेव सम्पद्यकर्तृत्वं शाब्दम्, देवगृहस्य त्वार्थम्। आधारभाव एव तु शाब्द इति न कश्जिद् दोषः। इह तर्हि कथं समापीभवति, अभ्याशीभवति, अन्तिकीभवतीति? कथं च न स्यात् ? न ह्यसमीपं समीपं भवतीत्यत्रार्थः, किं तर्हि? असमीपे स्थितं समीपे स्थितं भवतीति? तात्स्थ्यात्ताच्छब्द्यं भविष्यति ।।

अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च ।। 5.4.51 ।।
अत्र सर्वविशेषणसम्बन्धादित्यादि। यदि त्वभूततद्भावादीनां विशेषणानां मद्येऽन्यतमं न सम्बध्यते, ततश्च्वेरपि विध्यर्थमेतत्स्यात्। यतस्तु सर्वाणि विषेपणानि सम्बध्यनेते, ततो लोपमात्रमेवन न प्राप्रनेतीति तदथ वचनम्, न च्वेर्विधानार्थम्। `च्विश्च प्रत्ययः' इति तु पूर्वेणैव विहितस्य च्वेरनुवादः कृतः, तत्सन्नियोगशिष्टत्वं लोपस्य दर्शयितुम्। यदि पुनविशेषविहितेन बाधा मा भूदिति च्विरप्यनेन विधीयेत, तत उन्मनीकरोतीत्यादावनेन प्रत्ययो न स्याद्; ग्रहणवचा प्रातिपदिकेन तदन्तविधिप्रतिषेधात्। ततश्चैतत्सन्नियोगशिष्टो लोपो न स्यात्, पूर्वेण तु केवल एव च्विः स्यात्। तस्मात्पूर्वेण विहिते च्वौ परतोऽरुःप्रभृतीनां लोपो भवतीत्येव सूत्रार्थः। पूर्वेणैव च केवलेभ्यस्तदन्ताच्च च्विर्भवति ।।

विभाषा साति कार्त्स्न्ये ।। 5.4.52 ।।
यदि प्रकृतिः कृत्स्ना विकारतामापद्यत इति। अभूततद्भावविषयं कार्त्स्न्यमाश्रीयत इति दर्शयति--विभाषाग्रहणं च्वेः प्रापकमिति। विकल्पार्थस्याप्यस्य प्रापयितव्यान्तराभावात्। ननु वाक्यं प्रापयितव्यं स्यात्? तत्राऽऽह-प्रत्ययविकल्पस्तिति। अपर आह--अनेकार्थत्वान्निपातानां समुच्ययोऽर्थः।
विभाषाग्रहणं च्वेः प्रापकमिति। विभाषाशब्दस्तु निपातो न भवति, `द्वयोर्विभाषयोर्मध्ये' इति विभक्तेर्दर्शनात्, किं तहि? `गुरोश्च हलः' इत्यकार प्रत्ययान्तः--विभाष्यते विकल्प्यते इति विभाषेति ।।

अभिविधौ सम्पदा च ।। 5.4.53 ।।
स तु कृभ्वस्तिभिरेव योगे भवतीति। विभाषाग्रहणस्य विकल्पार्थत्वात्स्वशास्त्रेणैव च्विर्भवतीति सम्पदायोगे तस्याप्रसङ्गात्। स्पष्टीकृतं चैतत्पूर्वग्रन्थे।
विभाषाग्रहणानुवृत्तेश्च्विरप्यभ्यनुज्ञायत इति। समुच्चयार्थे तु तस्मिन्ननेनैव च्विर्भवन्सम्पदापि योगे स्याद्, अभ्यनुज्ञाय इति चानुपपन्नं स्यात्। अथेति। उभयत्र व्याप्तिसम्भवात्प्रश्नः। सर्वा प्रकृतिरिति। प्रकारकार्त्स्न्ये ऽत्र सर्वशब्दः, यथा---सर्वान्नीनो भिक्षुरिति। यथास्यां सेनायामित्यादि। अत्रापि प्रकारकार्त्स्न्य एव सर्वशब्दः, खङ्गप्रासादीनामशेषाणां सस्त्राणामेकदेशेनाप्यग्न्यात्मभावोऽत्र विवक्षितः, न त्वेकस्या अपि सस्त्रव्यक्तेः सर्वात्मना विकाररूपापत्तिः। एवं वर्षासु लवणमित्यत्रापि। कार्त्स्न्य त्वित्यादि। यत्रैकस्यापि द्रव्यस्य सर्वात्मना विकाररूपापत्तिः, न कश्चिदवयवः परिहाप्यते, तत्र कार्त्स्न्यं भवति। तस्मादर्थभेदादुभयमुक्तम्, न त्वेकत्रैवान्यतरत्र सम्पदो ग्रहणं कृतमिति ।।

तदधीनवचने ।। 5.4.54 ।।
स्वामिसामान्यमित्यादि। इह `अधिरीश्वरे' इति अधिशब्दस्य कर्मप्रवचनीयसंज्ञा तेन योगे `यस्मादधिकं यस्य चेश्वरवचनम्' इति ईश्वरवाचिनः सप्तमी, ईश्वरश्चेशितव्यापेक्षः। अधिशब्दश्चायं शौण्डादिषु पठ्यते इति सप्तमीसमासः, ततोऽध्युत्तरपदलक्षणः खः, तत्र कृते ब्रह्मदत्ताधीनाः पञ्चाला इति सामानाधिकरण्यदर्शनादधिशब्द ईशितव्यसामान्यभिधायी, पञ्जालादयस्तु तद्विशेषवचना इति गम्यते; ततश्च स्वामिसामान्यम्, ईशितव्यसामान्यं च तदधीतशब्देनोच्यते, तत्र स्वामिसामान्यं प्रकृत्यर्थः, सामान्यं च विशेषोपलक्षणार्थमिति विशेषवाचिभ्यः प्रत्ययो विज्ञायत इत्वाहस्वामिविशेषवाचिन इति ।।

देये त्रा च ।। 5.4.55 ।।
ब्राह्मणत्राकरोतीति। स्वरादिष्वयं त्रान्तः पठितव्यः, तेनाव्ययत्वात्सोर्लुक्। अपर आह--तत्रैव `चव्यर्थाश्च' इति पठ्यते, तत्र बहुवचननिर्द्देशादच्व्यर्थस्यापि त्राप्रत्यस्य साहचर्येण परिग्रहादव्ययत्वमिति।
राजसाद्भवति राष्ट्रमिति। पूर्वेण सातिरेव भवति ।।

देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् ।। 5.4.56 ।।
सातीति निवृत्तमिति। पूर्वसूत्रे चानुकृष्टत्वात् `कृभ्वस्तियोगे' इति न सम्बध्यत इति तदर्थमत्र स्वरितत्वं कर्त्तव्यम्। स्वरिते सति नाधिकार इत्ययं च पक्ष आश्रयणीयः। मण्‌डूकप्लुत्याउत्तरत्र सम्बन्धः। `सम्पदा च' इत्येतत्तु सर्वथैवं निवृत्तत्वान्न सम्बध्यते ।।

अव्यक्तानुकरणाद् द्व्यजवरार्द्दादनितौ डाच् ।। 5.4.57 ।।
यत्र ध्वनावित्यादि। यद्यप्यनुकार्यमेव रूपमनुकरणे वर्णविशेषरूपेण प्रकाशते, तथापि `अव्यक्तानुकरणस्यात इतौ' इत्यनुकरणस्थस्याच्छब्दस्य पररूपं विधत्ते। ध्वनिमात्रसाम्येन तु तस्यानुकरण मुच्यते। अवरशब्दोऽपकर्षे इति। अपकर्षः=न्यूनता, प्रवृत्तिनिमित्तकथनं चैतत्, अपकृष्टं त्ववरशब्दस्यार्थः। यस्यापकर्षे क्रियमाणे इत्यादि। अत्रापकर्षः=विभागः, समप्रविभागेऽर्द्वशब्दः, अवरत्वं चाच्कृतमेव, द्व्यच्सन्निधानात्। यस्मिन्विभज्य निरूप्यमाणे सुष्ठु न्यूनमपि अल्पमपि अर्ध द्व्यच्छब्दवत्सम्पद्यते न ततो न्यूनम्, अधिकं तु सम्भवतु मा वा भूत्, तद् द्व्यजवरार्द्धमित्यर्थः. यस्येत्यादि। यदि त्वकृते द्विर्वचने यस्य द्व्यजवरार्द्धता ततो डाज् भवतीति विज्ञायते, तदा पटच्छब्दार्दर्न स्यादिति भावः।
नन्वेधं सति डाचि परभूते तदाश्रये द्विर्वचने द्व्यजवरार्द्धता भवति, तस्यां च सत्यं कडाचा भवितव्यमितीतरेतराश्रयत्वं प्राप्नोति ? तत्राह--डाचि बहुलमितीत्यादि। सत्यं परसप्तम्यां स्यादेष दोषः; विषयसप्तमी त्वेषा, ततो न दोष इत्यर्थः। उदाहरणे परभागस्य टचिलोपः, `नित्यमाम्रेडिते डाचि' इति पूर्वतकारस्य परदेश्च पकारस्य पररूपम्--एकं पकारः, द्वितीय उदाहरणे दकारः।
दृषत्करोतीति। व्यक्तानुकरणमेतत्, प्रकरणादिना चानुकरणत्वानुगतिः। खरटखरटाकरोतीति। खरटदित्यस्य द्विर्वचनादि पूरववत्। `द्व्यजर्द्धात्' इत्युच्यमानेऽत्र न स्यात्, न ह्यत्रार्द्धं द्व्यच्कम्, किं तर्हि? त्र्यच्कम्। अवरग्रहणे तु सति भवति; न्यूननिवृत्त्यर्थत्वादवरशब्दस्य। पटिति करोतीति। `अव्यक्तानुकरणस्यात इतौ' इति अच्छब्दस्य पररूपत्वम्। तद्यत्र स्याद्, डाजन्तस्य सतित्वं स्यादिति शब्दमनुच्चार्य करोतिरन्तरः स्यात्, इतिश्च, ततः परः एकाच्त्वादस्य प्रत्ययस्वेरेणैव सिद्धमुदात्तत्वम्, `लोहितादिडाज्भ्यः' इत्यत्रापि `डाभ्यः' इत्युच्यमानेऽपि न कश्चिहोषः।
इडायां डाशब्दोऽनर्थकः, `नाभा पृथिव्याः' इत्यादौ सुवादेशस्यापि डाशब्दस्याग्रहणम्; छन्दसि ततः क्यपोऽदर्शनात्, तस्मान्नार्थश्चकारेण ? तत्राह--चकार इत्यादि। पटपटा असीति स्थिते `तिङ्ङतिङः' इति निघातः, एकादेशः। अत्रासति चकारे `स्वरितो वानुदात्तेऽपदादौ' इति पक्षे स्वरितः स्यात्। चित्करणसामर्थ्यात्तु चिदचितोरेकादेशस्य पूर्व प्रत्यन्तवद्भावाच्चित्स्वरेणान्तोदात्त एव भवति।
स स्वार्थिको विज्ञेय इति। अर्थान्तरस्याभावात्। स्वार्थे तु यकारोऽस्मादेव निपातनाद्विज्ञेयः ।।

कृत्रो द्वितीयतृतीयशम्बबीजात् कृषौ ।। 5.4.58 ।।
कृषावभिधेयायामिति। कस्याभिधेयायाम्? द्विदीयादिशब्दानां डाजन्तानां कृञ्श्च। तद्दर्शयति--द्वितीयं कर्षणं विलेखनं करोतीत्यर्थ इति। प्रतिलोमं कर्षतीत्यर्थं इति। शम्बशब्दस्यात्र प्रातिलोम्ये वृत्तिः, कृञ्श्च कर्षणे। सह बीजेनेति। बीजशब्दस्य बीजावापसहिते विलेखने वृत्तेरयमर्थो भवति ।।

सङ्ख्यायाश्च गुणान्तायाः ।। 5.4.59 ।।
सङ्ख्यावाचिनः शब्दस्येति। एतेन सङ्खय्या इत्यस्य वष्ट्यन्ततां दर्शयति। गुणान्तेति। व्यधिकरणपदो बहुव्रीहिः, अन्तशब्दश्च समीपवचन इत्याह--गुणशब्दोऽन्ते समीप इति। अन्तशब्दस्य सङ्ख्याया इत्येतदपेक्षमाणस्यापि सम्बन्धिशब्दस्य नित्यसापेक्षत्वात्समासः, निपातनाच्च सप्तन्यन्तस्यापि तस्य परनिपातः। यत्रेत्यनेन प्रकृतिर्निर्दिश्यते। सेत्यादिना प्रकृतिसङ्ख्या। गुणान्तेत्युच्यते। सङ्खयाशब्दस्यान्ते गुणश्बदो यस्याः सा तथोक्ता। अत्रापि गमकत्वात्समासः। तादृशादिति। सङ्ख्याशब्दसमीपवत्तिगुणशब्दादित्यर्थः। अन्तशब्दश्चायं नियतमेव परत्वविशिष्टं सामीप्यमाचष्टे, न सामीप्यमात्रम्। तेन गुणविशतिरित्यादौ पूर्वभूते गुणशब्देऽतिप्रसङ्गो नोद्भावनीयः। अनभिधानाद्वाऽत्र प्रत्ययाभावः। द्विगुणं विलेखनं करोति क्षेत्रस्येति। अत्र विलेखनशब्दस्य कृदन्तस्य प्रयोगात्कृद्योगदलक्षणा षष्टी क्षेत्राद्भवति। उत्पन्ने तु तद्धिते तदभावाद् द्वितीयैव भवति।
अथैवं कस्मान्न व्याख्यायते--सङ्ख्यायते-सङ्खयाया इति पञ्चमी, अन्तशब्दोऽवयववचनः, सङ्खयावाचिनः परो यो गुणशब्दस्तदन्तायाः प्रकृतेरिति ? उच्यते; एवं हि सति गुणान्ताया एव सङ्ख्याया इति विशेषणं स्यात्, न गुणशब्दस्य समासे गुणभूतस्य। एवं तर्हि मा बूदन्तग्रहणम्, सङ्घ्याया गुणादित्येवास्तु, व्यधिकरणे च पञ्चम्यौ-- सङ्ख्यायाः परो यो गुणशब्दस्तस्मादिति? एवमपि वाक्ये प्रसङ्गः--पञ्च गुणान्करोतीति, विपर्ययश्च सम्भाव्येत---गुणशब्दात्परा या सङ्ख्या तदन्तादिति। एवं तर्हि सङ्ख्यादेर्गुणादित्येवास्तु? सत्यम्; तथा तु न कृतमित्येव, प्रत्युत यथान्यासे द्विगुणभागं क्षेत्रं करोतीत्यत्रापि प्रसङ्गः ।।

समयाच्च यापनायाम् ।। 5.4.60 ।।
समयाकरोतीति। `अद्य मे पारवाश्यं श्वः परश्वो वास्य समयः' इत्येवं यो बहुषु दिवसेषु अतिवर्त्तते स एवमुत्यते। समयं करोतीति। समयः=नियमः, सङ्गमो वा--समयनं समय इति ।।

सपत्त्रनिष्पत्त्रादतिव्यथने ।। 5.4.61 ।।
पतत्यनेनेति पत्त्रम्=शराणां पुङ्खगतो बर्हः। सपत्त्रं शरमिति। सह पत्त्रेण वर्त्तत इति। सपत्त्रः, आपुङ्खान्मृगशरीरे शरं प्रवेशयतीत्यर्थः। निष्पत्त्राकरोतीति। निर्गतं पत्त्रमस्मान्निष्पत्त्रं मृगं करोतीति। यथास्य शरीरे पुङ्खप्रदेशोऽपि न लगति, तथा शरं शरीरान्निष्क्रामयतीत्यर्थः।
सपत्त्रं वृक्षमिति। पत्त्राणि=पर्णानि। जलसेचनत इति। `कर्तृकरणे कृता बहुलम्' इति तृतीयासमासः। भूमिशोधक इति। `नित्यं क्रीडाजीविकयोः' इति जीविकायां षष्ठीसमासः ।।

निष्कुलान्निष्कोषणे ।। 5.4.62 ।।
निष्कुलाकरोतीति। निष्कोशितं कुलमन्तरवयवानामस्मादिति बहुव्रीहौ डाच् ।।

सुखप्रियादानुलोम्ये ।। 5.4.63 ।।
आराध्यचित्तानुवर्तनमिति। आराध्याः=स्वाम्यादयः, तेषामिष्टानिष्टकरणाकरणाभ्यां यच्चित्तस्यानुवर्त्तनम्= आराधनं तदानुलोम्यम्। प्रिय करोत्यौषधपानमिति। प्रीतिः=प्रियम्, घञर्थे कः।

दुःखात्प्रातिलोम्ये ।। 5.4.64 ।।
चित्तपीडनमिति। स्वाम्यादेर्यदनिष्टस्याचरणेन इष्टस्याकरणेन वा चित्तस्य पीडनं तत्प्रातिलोम्यम् ।।

शूलात्पाके ।। 5.4.65 ।।
शूलं करोति कदन्नमिति। शूलम्=उदरतोदः, कुत्सितमन्नं कदन्नम् ।।

सत्यादशपथे ।। 5.4.66 ।।
सत्सु साधु सत्यम्, प्राग्घितीये यति प्राप्तेऽस्मादेव निपातनाद्यः अन्तोदात्तो हि सत्यशब्दः--सत्येनोत्तभिता भूमिः, ऋतं च सत्यं चेति। शपेरथः शपथः, भाण्डम्=रत्नादिद्रव्यजातम्। तथ्यमिति। तथैव=तथ्यम्, `पादार्घाभ्यां च' इति चकारस्यानुक्तसमुच्चयार्थत्वात्स्वार्थे यत् ।।

मद्रात्परिवापणे ।। 5.4.67 ।।
परिवापणमिति। कर्मव्यापारमात्रवाचिनो वपेर्हेतुमण्णिचि ल्युट्, माङ्गल्यं मुण्डनं करोतीत्यर्थः, चोलदीक्षादौ। भद्राच्चेति वक्तव्यमिति। मद्रादित्यर्थग्रहणमिति तु व्याख्याने मङ्गलादिभ्योऽपि स्यात्।

समासान्ताः ।। 5.4.68 ।।
अवयववचनोऽन्तशब्द इत्याह-अवयवा एकदेशा इति। समीपवचनस्तु न गृह्यते; प्रत्ययपरत्वेनैव सिद्धत्वात्। अवयववचनं चान्तशब्दमाश्रयता समासार्थादुत्तरपदादकृत एव समासे समासान्ता भवन्तीत्युक्तं भवति। एवं हि ते समासस्यैकादेशा भवन्ति, यदि प्रागेव तान्प्रत्ययान्कृत्वा तदन्तेन समासः क्रियते। तथा च `न कपि' इत्यत्र वक्ष्यति--`समासार्थे ह्युत्तरपदे कपि कृते पश्चात्समासेन भवितव्यमिति। ये पुनरत्र पक्षे दोषास्ते ङयाप्सूत्रे एव प्रतिविहिताः।
अधिराजम्, उपराजमिति। विभक्त्यर्थे सामीप्ये चाव्ययीभावः, `अव्ययीभावे शरत्प्रभृतिभ्यः' `अनश्च' इति टच्। द्विपुरीति। समाहारद्वन्द्वः। `ऋक्पूरब्धूः' इत्यकारः। कोषश्च निषच्च कोषनिषदम्, स्रुक्च त्वक् च स्रुक्त्वचम्-द्वन्द्वाच्चुदषहान्तात्समाहारे' इति टच्। विगतो धुरः, प्रगतो धुर इति। प्रादिसमासः। तत्पुरुषे तुल्यार्तेत्येष स्वरो भवतीति। पूर्वपदप्रकृतिस्वरः, पूर्वपदं चात्र `निपाता आद्युदात्ताः', `उपसर्गाश्चाभिवर्जम्' इत्याद्युदात्तम्, उच्चैर्नीचैः- शब्दौ स्वरादिष्वन्तोदात्तौ पठितौ। अथ समासग्रहणं किमर्थम्, यावता `बहुव्रीहौ संख्येये,' `तत्पुरुषस्याङ्गुलेः', `अव्ययीभावे शरत्प्रभृतिभ्यः' ` द्वन्द्वाच्चुदषहान्तात्' इति प्रायेण समासविशेषग्रहणमस्ति? यत्रापि नास्ति तत्रापि सङ्गात एव गृह्यते, यथा `अच् प्रत्यन्ववपूर्वात्सामलोम्नः' इति। यत्र तर्ह्येतदुभयं नास्ति `ऋक्पूरब्धूः' इत्यादौ, समासग्रहममिति ।।

न पूजनात् ।। 5.4.69 ।।
यान् शब्दानुपादायेति। पूजनवचनात्समासान्तो न भवतीत्ययमर्थो न भवति; परिगणिताभ्य एव प्रकृतिभ्यः समासान्तविधानात्। तत्र च पूजनार्थस्य कस्याचिदभावात्, अभावे प्रतिषेधानुपपत्तेः। सुराजेत्यादौ प्रादिसमासः ।
पूजायां स्वलतिग्रहणमिति। पूजनग्रहणमपि कर्त्तव्यमेव, अवक्षेपणे अतिक्रमणे च वर्त्तमानयोः स्वत्योर्ग्रहणं मा भूदिति। प्राग्बहुव्रीहिग्रहणं चेति। `वहुव्रीहौ सक्थ्यक्षणोः' इत्यतः प्रागयमधिकार इति वक्तव्यमित्यर्थः।

किमः क्षेपे ।। 5.4.70 ।।
किराजेति। `किं क्षेपे' इति समासः। कस्य राजा किराज इति। प्रश्नेऽत्र किंशब्दः।
`क्षेपे' इति शक्यमाकर्त्तुम्, कस्मादत्र न भवति--लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति? कश्टिदाह--क्षेपग्रहणेनैज्ज्ञापयति--इयमिह परिभाषा नापतिष्ठत इति, तेन निन्दिता धूरस्य शकटस्य किंधूः शटकमिति बहुव्रीहावपि प्रतिषेधः सिद्धो भवतीति। तद्भाष्यविरोधादुपेक्ष्यम्। तस्माद्विस्पष्टार्थं क्षेपग्रहणम् ।।

बहुव्रीहौ संख्येये डजबहुगणात् ।। 5.4.73 ।।
`बहुव्रीहौ' इति सुब्ब्यत्ययेन पञ्चम्यर्थे सप्तमी। तस्येदं ग्रहणमिति। तस्यैव संख्येये वृत्तेः। योऽपि वार्थे वर्त्तते-द्वित्राः, पञ्चषा इति, योऽपि ,सुजर्थे-द्विदशास्त्रिदशा इति; तावुभावपि संख्येय एव वर्त्तेते; संख्येयस्यैव वार्थस्य सुजर्थस्य चाभिधानात्। उपदशा इत्यादौ टिलोपः। उपविंशा इत्यत्र `तिविंशतेर्डिति' इति तिलोपः द्वयोरकारयोः `अतो गुणे' पररूपत्वम्।
संख्येय इति शक्यमवक्तुम्। इह कस्मान्न भवति---चित्रगुरिति? नत्रिवयुक्तन्यायेन बहुगणप्रतिषेधात्तत्सदृशविज्ञाने सति संख्योत्तरपदो बहुव्रीहिर्ग्रहीष्यते। स्यादेतत्--वैपुल्यवचनोऽपि बहुशब्दोऽस्ति, न संख्यापदमेव, गणशब्दोऽपि सङ्घवचनोऽप्यस्ति, तस्मादशक्यं बहुगणसादृश्येन संख्योत्तरपदं ग्रहीतुमिति ? तन्न; परस्परसाहचर्यात्संख्यापदयोरेव पर्युदासात्। तस्मात् प्रसज्यप्रतिषेधेऽपि समाससम्भवात्सादृश्यस्य चानवस्थितत्वात् संख्येयग्रहणं कृतम्। उपबहवः, उपगणा इति। अनियतप्रचयवचनयोरपि बहुगणशब्दयोरर्थप्रकरणादिना यदा विशिष्टेष्वेव दशादिषु वृत्तिस्तदा तत्समीपगता नवादय उपबहव इत्यविरुद्धं बहुवचनम्। अत्रेति। उपगणा इत्यत्र स्वरे विशेष इति। डचि सत्यन्तोदात्तत्वं स्यात्, तस्मि, तस्मिस्त्वसति पूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वमेव भवति।
संख्यायास्तत्पुरुषस्येति। तत्पुरुषस्यावयवभूतं यत्संख्यावाच्युत्तपरपदं तस्मादित्यर्थः। निस्त्रिशाद्यथमिति। आदिशब्दः प्रकारे, अव्ययादयः संख्यान्तास्तत्पुरुषा निस्त्रिंशप्रकाराः। गोविंशतिरित्यादौ न भवति। निस्त्रिशानिवर्षाणीति। त्रिंशल्लाक्षणायाः संख्याया निर्गतानि अधिकानिं एकत्रिंशदादीनीत्यर्थः। निर्गतस्त्रिशतोऽङ्गूलिभ्य इति। ततोऽपि दीर्घतर इत्यर्थः। रूढिशब्दस्येयं यथाकथञ्चिद्व्युत्पत्तिः।
डचश्चित्करणं स्वरार्थम्; अन्यथा समासार्थादुत्तरपदात्प्रत्यये कृते पश्चाद्वहुव्रीहौ सतिशिष्टः पूर्वपदप्रकृतिस्वरः स्यात्। इदमेव चित्करणं लिङ्गम्-समासार्थादुत्तरपदात्समासान्ते कृते पश्चात्समासः इति, अन्यथा प्रत्ययस्वर एव सतिशिष्टः स्वरः स्यात्। यस्तु मन्यते--`कृते समासे समासान्तग्रहणसामर्थ्याच्चागमवत्तद्ग्रहणेन गृह्यते' इति, तस्यापि ज्ञापकार्थं चित्करणम्; स्वरविधेः प्रागेव समासान्तो भवतीति। तेन महाधुर इत्यादौ बहुव्रीहिस्वरो भवति ।।

ऋक्पूरब्धूःपथामानक्षे ।। 5.4.74 ।।
सामार्थ्यादिति। धुर एवाक्षेण सम्बन्धोऽस्ति, नेतरेषामित्येतत्सामर्थ्यम्। एतद्विशेषणमिति। `अनक्षे' इत्यत्रोत्तरपदार्थ एतदा प्रत्यवमृश्यते, अत एवाह--अक्षसम्बन्धिनी या धूरिति। सूत्रे त्वक्षस्य धूरपेक्षयाऽधिकरणत्वादनक्ष इति सप्तमी। चक्रसम्बद्धः काष्ठविशेषो रथाद्यवयवः=अक्षः, तत्सम्बन्धिनी धूस्तस्यां न भवतीत्यर्थः। यदि त्वक्षे समासार्थे न भवतीति विज्ञायेत, इहैव प्रतिषेधः स्यात्-दृढा धूरस्य दृढधूरक्ष इति, इह तु न स्याद्--अक्षस्य धूरक्षधूरिति। अथाप्येवं विज्ञायेत--अक्षे पूर्वपदे न भवतीति, एवमपीहैव प्रतिषेधः स्याद्--अक्षधूरिति, इह तु न स्याद्दृढधूरक्ष इति। तस्माद्व्याप्तिन्याया दुक्त एवार्थो न्याय्यः। अर्द्धर्च इति। `अध नपुंसकम्' इति समासे `अर्द्धर्चाः पुंसि च' इति पुंल्लिङ्गत्वम्। बह्वच इति। बहुव्रीहिः। ललाटपुरम्, नान्दीपुरमिति। षष्ठीसमासौ। परवल्लिङ्गता तु न भवति, लोकाश्रयत्वाल्लिङ्गस्य। यद्यप्यकारान्तेन पुरशब्देन समासे कृते एतत्सिद्ध्यति, तथापि व्यञ्जनान्तेन समासे तस्य श्रवणं मा भूदिति पूर्वग्रहणम्, द्वीपं समीपमिति। द्विर्गता आपोऽस्मिन्निति बहुव्रीहिः, `द्व्यन्तरुपसर्गेब्योऽप इत्' इतीत्वम्। राजधुरादयः षष्ठीसमासाः। महाधुर इति। बहुव्रीहिः, `स्त्रियाः पुंवत्' इति पुंवद्भावः, `आन्महतः' इत्यात्वम्।
अनृचो माणवक इत्यादि। ऋगन्तस्य बहुव्रीहेर्नञ्पूर्वस्य माणवक एवाभिधेये प्रत्यय इष्यते, तथा बहुपूर्वपदस्य चरणाख्यायामेवेत्यर्थः। अनृक्कं साम, बह्वृक्कं सूक्तमिति। `ज्ञेषाद्विभाषा' इति कप्, `चोःकुः' इति कुत्वम् ।।

अच् प्रत्यन्ववपूर्वात्सामलोम्नः ।। 5.4.75 ।।
प्रतिसाममित्यादौ प्रादिसमासः, बहुव्रीहिः, अव्ययीभावश्च यथासम्भवं वेदितव्याः।
कृष्णोदक्पाण्कडुर्वाया इति। कृष्णादिशब्दाः पूर्वे यस्यास्तस्या भूमेरच् प्रत्ययः स्मृतः। कृष्णा भूमिरस्मिन् कृष्णभूमो देशः, उदीची भूमिरस्मिन्नुदग्भूमो देशः। कः पुनस्सौ पृथिव्या दक्षिणसीमा? भूमिशब्दो वा तद्विशेषे सस्वसंपन्ने द्रष्टव्यः. यस्य दक्षिणतः खिलः संदेश उदम्भूम। गोदावर्याश्च नद्याश्चाच् प्रत्ययः। समृतः, ते नदि संख्या*** उत्तरे भवतः---पञ्चगोदावरम्, पञ्चनदम्। `नदीभिश्च' इति समाहारेऽव्ययीभावः।
पद्मनाभ इति। पद्माकारो नाभिरस्येति प्रथमान्तर्योर्वहुव्रीहिः। पद्मं नाभावस्येति विग्रहे गड्वादिपु दर्शनात्सप्तम्याः परनिपातः ऊर्णनाभ इति। `ङ्यापोः संज्ञाछन्दसोर्वहुलम्' इत्यूर्णशब्दस्य ह्रस्वः। तदेतदिति। कृष्णभूमादिकम्।
ओगविभागेनेति। अत एव प्राक् प्रत्ययनिर्द्देशः कृतः ।।

अक्ष्णोऽदर्शनात् ।। 5.4.76 ।।
`अदर्शनात्' इति वचनादक्षीवाक्षीत्यक्षिसदृशार्थवृत्तिरिहाक्षिशब्द उपात्तः। लवणाक्षम्, पुत्कराक्षमिति। लवणमक्षीव, पुत्करणक्षीवेति `उपमितं व्याघ्रादिभिः' इति समासः।
कथमित्यादि। ननु दर्शनादन्यत्र योऽक्षिशब्दस्तदन्तादित्युक्तम्, गवाक्षकबराक्षयोश्च समुदायो दर्शनवचनः, नाक्षिशब्द इति कात्रानुपपत्तिः? सत्यम्; अक्ष्यन्ताददर्शनादिति सूत्रार्थः कस्मान्न भवतीति मन्यमानस्यायं प्रश्नो द्रष्टव्यः। चक्षुःपर्याय इति। तस्य प्रसिद्धतरत्वादिति भावः ।।

अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजसनिश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्दोक्षोपशुनगोष्ठश्वाः ।। 5.4.77 ।।
समासव्यवस्थापीति। क्वचिद्बहुव्रीहेरेव, क्वचिद् द्वन्द्वादेवइत्येवंमादिको नियमः=व्यवस्था। अपिशब्दादन्यदपि टिलोपादिकं तन्निपातनादेव। स्त्रियाः पुमानिति। स्त्रियं प्रति पुमान् शूर इत्यर्थः।
अक्षिभ्रुवमिति। प्राण्यङ्गत्वादेकवद्भावः। दारगवमिति। `सर्वो द्वन्द्वे विभाषयैकवद्भवति'। सप्तम्यर्थे वृत्तयोरव्यययोः समासोऽपि निपातनादेवेति। चार्थेन योगाबावात्, न हि भवति-इह च, एवं चेति। अहर्दिवमिति। `रोऽसुपि' इति रेफः। कथमनयोर्द्वन्द्व इति। न कथञअचित्, विरुपाणामपि समानार्थानामेकशेषारम्भात्। वीप्सायामित्यादि। चार्थे विधीयमानो वीप्सायां न प्राप्नोति, एकशेषारम्भाच्च। तस्माद्वीप्सायां द्वन्द्वो निपात्यते, वीप्साद्योतनाच्चैकेन गतार्थत्वमपि नाशङ्कनीयम्, यथा द्विर्वचने--ग्रामोग्रामो रमणीय इति।
सरजसमिति। `अव्ययीभावे चाकाले' इति सहस्य सभावः। निःश्रेयसमिति। प्रादिसमासः. निःश्रेयस्क इति। निश्चितं श्रेयोऽनेनेति बहुव्रीहिः, शेपलक्षणः कप्, `सोऽपदादौ' इति सत्वम्।
ऋग्यजुरुन्मुग्घ इति। य ऋचो यजुंपि मन्यते।
त्रयो वा चत्वारो वा त्रिचतुराः। चतुर्णां समीप उपचतुराः, `बहुव्रीहौ सङ्ख्येते' िति प्राप्तस्य कडचोऽपवादोऽदज्विधीयते ।।

ब्रह्महस्तिभ्यां वर्चसः ।। 5.4.78 ।।
वर्चः=दीप्तिः। उदाहरणेषु षष्ठीसमासः ।।

अवसमन्धेभ्यस्तमसः ।। 5.4.79 ।।
अवगतं तमोऽवतमसम्, सन्ततं तमः सन्तमसम्, प्रादिसमासौ। अन्दं करोति अन्धयति, अन्धयतेः पचाद्यच्--अन्धम्, तच्च तत्तमस्च अन्धतमसम् ।।

श्वसो वसीयः श्रेयसः ।। 5.4.80 ।।
वसुशब्दात्प्रशस्तवचनादीयसुन्--वसीयः, `प्रशस्यस्य श्रः'--श्रेयः। स्वबावाच्चेत्यादि। यद्यपि श्वःशब्दोऽन्त्र कालविशेषे वर्तते, तथापीह समासे उत्तरपदार्थप्रशंसामाशीर्विषयामाचष्टे। कुतः ? स्वभावत्। अस्यैवेति। श्वः श्रेयसशब्दस्येत्यर्थः ।।

अन्ववतप्ताद्रहसः ।। 5.4.81 ।।
रहःशब्दोऽयमप्रकाशे वर्त्तते। अनुगतं रह इति। प्रादिसमासः, अनुगतं रहोऽस्मिन्निति बहुव्रीहिर्वा। एवमवहीनं रहः, अवहीनं रहोऽस्मिन्नति अवरहसम्। तप्तं च तद्रहश्च तप्तरहस****। अत्यन्तं रह इत्यर्थः ।।

प्रतेरुरसः सप्तमीस्थात् ।। 5.4.82 ।।
सप्तम्यर्थे वर्त्तत इति। न ह्यन्यदुरःशब्दस्य सप्तमीस्थत्वं नामेति भावः ।।

अनुगवमायामे ।। 5.4.83 ।।
आयामेऽभिधेय इति। प्रवृत्तिनमित्तमायामः, तद्वति तु पर्यवसानम्। मत्वर्थीयाकारान्तो वा आयामशब्दः, आयामवत्यभिधेय इत्यर्थः; अन्यथाऽनुगवं यानमिति सामानाधिकरण्यं न स्यात्। यस्य चायाम इति समास इति। ननु तत्र लक्षणेनेति वर्त्तते ? सत्यम्; इहापि बाह्यं यानं प्रति गवामस्त्येव लक्षणभावः। अनुगुशब्दात्प्रत्ययेऽभिधातव्ये निपातनाश्रयणं प्रसिद्ध्युपसंग्रहार्थम्, तेन यद्गवां बाह्यं तत्रैव भवति ।।

द्विस्तावा त्रिस्तावा वेदिः ।। 5.4.84 ।।
समासश्च निपात्यत इति। लक्ष्णाभावात्। यावती प्रकृततावित्यादिना निपातनस्य विषयं दर्शयति, यस्मिन्कर्मण्युपदिष्टा धर्माः कर्मान्तरेणोपजीव्यन्ते सा प्रकृतिर्ज्योतिष्टोमादिः, येनोपजीव्यते सा=विकृतिः। कस्याञ्चिद्विकृताविति। अश्वमेधादौ। द्विस्तावेति। तावतीशब्देन तत्सम्बन्धिन्या वृत्तिर्लक्ष्यते, सैव च द्विशब्दनं संख्यायत इति सुच् प्रत्ययः, परस्परसामर्थ्य च। द्विस्तावतीत्यसमासोऽयम्। सूत्रे लिङ्गमविवक्षितमअ। द्विस्तावोऽग्निरित्यपि दृश्यते। न चात्राग्निरमिधियते, न वेदिः? अग्निरपि वेदिरेव; उत्तरवेदिविकारत्वात्, `उत्तरवेद्यामग्निशचीयते' इति वचनात् ।।

उपसर्गादध्वनः ।। 5.4.85 ।।
अध्वशब्दस्याक्रियावचनत्वात्तं प्रत्युपसर्गसंज्ञाभावादुप सर्गग्रहणं प्राद्युपलक्षणम् ।।

तत्पुरुषस्याङ्गलेः संख्याव्ययादेः ।। 5.4.86 ।।
अङ्गुलिशब्दान्तस्येत्यादि। सर्वत्र समासान्तसम्बन्धे षष्ठी ।।

अहःसर्वेकदेशसंख्यातपुण्याच्च रात्रेः ।। 5.4.87 ।।
अहर्ग्रहणं द्वन्द्वार्थमिति। न तु तत्पुरुषार्थम्; मुख्यार्थवृत्तयोस्तत्पुरुषासम्भवात्। न ह्यस्ति सम्भवः- रात्रिश्चेति, नाप्यहोरात्रिरित्यस्ति। यदि तु रात्रिशब्देन तद्गुणमहरुच्यते अहः शब्देन तद्गुणा रात्रिः, ततः सम्भवेदपिविशेषणसमासः। गौणार्थता तु भवति। न च मुख्ये सम्भवति गौणस्य ग्रहणं युक्तम्, तस्मादहर्ग्रहणं द्वन्द्वार्थम्। तथा च--`हेमन्तशिशिरावहोरात्रे च छन्दसि' इति द्वन्द्वे समासान्तो निर्द्यिष्टः। अहोरात्र इति। समाहारद्वन्द्वः, `रात्राह्नाहाः पंसि', अह्नो रुत्वे `रूपरात्रिरथन्तरेषु' इति नकारस्य रुत्वम्, तस्य `हशि च' इत्युत्वम्। द्विरात्र इति। समाहारे द्विगुः। नीरात्र इति। प्रादिसमासः, `ढ्रलोपे पूर्वस्य दीर्घोऽणः' ।।

अह्नेऽह्न एतेभ्यः ।। 5.4.88 ।।
तस्मिन्परभूत इति। समासान्तप्रकरणात्तत्र परतोऽयमादेशो विज्ञायते, न तदपवादः स च टजेव विहित इति सामर्थ्यादयमर्थो लभ्यते, व्याख्यानाच्चाह्नादेशः। स्वयं समासान्तो न विज्ञायते `ऊधसोऽनङ्' इत्यादिवत्। सामर्थ्याच्चेत्यादि। सामासान्तो नविज्ञायते `ऊधसोऽनह्' इत्यादिवत्। सामर्थ्याच्चेत्यादि। सामर्थ्यमेव दर्शयति। न हीति। एकशेषविधानाद् द्वन्द्वस्तावन्न सम्भवति, तेनैव तस्यासम्बन्धान्न षष्ठीसमासः, नापि विशेषणसमासः, न हि तदेव तस्य विशेषणं सम्भवति। एतेन बहुव्रीहिर्व्याख्यातः। द्व्यह्न इति। तद्धितार्थे समासः, `तत्र भवः' इत्यण्, तस्य `द्विगोर्लुगनपत्ये' इति लुक्। सर्वाह्न इति। `अह्नोऽदन्तात्' इति णत्वम्।
अह्नोऽह्नवचनानर्थक्यम्, अह्नष्टखोर्नियमवचनात्,`अह्न एतेभ्यः' इत्येतावदेव सूत्रं कर्त्तव्यम्, अजनुवर्त्तते, एतेभ्यः परो योऽहन्शब्दस्ततोऽज्भवति, टचोऽपवादः, तत्राचि कृतेऽह्नष्टखोरेवेति नियमाट्टिलोपाबावेऽल्लोपे सति द्वयह्न इत्यादि सिध्यति, `रात्राह्नाहाः पुंसि' इति वचनात् स्त्रियां प्रवृत्त्यभावाट्टजचोरविशेषः। `एतेभ्यः' इति वचनं संक्याव्ययार्थम्; इतरथा चानुकृष्टत्वान्न सम्बद्ध्येत ।।

न सङ्खयादेः समाहारे ।। 5.4.89 ।।
`सङ्खयादेः' इति न वक्तव्यम्; अन्यस्य समाहारे वृत्त्यसम्भवात् ।।

उत्तमैकाभ्यां च ।। 5.4.90 ।।
केचितत्वित्यादि। यथा `प्रथमयोः' इति प्रथमाद्वितीययोर्ग्रहणं द्विवचननिर्द्देशात्, तथैवात्राप्युत्तमग्रहणसामर्थ्यादुपोत्तमोत्तमयोर्द्वयोरपि ग्रहणमिति तेपामभिप्रायः। अत्र पक्षे उत्तमौ द्वावेकश्चापर इति बहुवचनप्रसङ्गात् सौत्रो द्विवचननिर्देशः। एकशब्दस्यापूर्वनिपातः `अल्पाच्तरम्' इत्यस्यानित्यत्वज्ञापनार्थः ।।

राजाहस्सखिभ्यश्टच् ।। 5.4.91 ।।
इह कस्मादिति। किं च स्याद्यद्यत्र टच् स्यात् ? `भस्याढे तद्धिते' इति पुंवद्भावेन ङीपि निवृत्ते टचि टिलापे सति टित्त्वान्ङीपि मद्रराजीति स्यात्, भद्ररार्ज्ञीति चेप्यते। तस्मादत्र टचोऽनुत्पतिवक्तव्येति भावः। टचश्चित्करणमन्तोदात्तार्थम्; अन्यथा प्रययस्य समासेकदशत्वाद्विधुरः, प्रधुर इत्यादाविव प्रत्ययस्वरोऽव्ययपूर्वपदप्रकृतिस्वरेण बाध्येत ।।

गोरतद्धितलुकि ।। 5.4.92 ।।
पञ्चगवामिति। समाहारे द्विगुः, पञ्चगुरित्यत्र तद्वितार्थे। पञ्चगवरूप्यम्, पञ्चगवमयमिति। यथात्र `द्विगोर्लुगनपत्ये' इति रूप्यमयटोर्लुग्न भवति तथा तत्रैवोक्तम् ।।

अग्राख्यायामुरसः ।। 5.4.93 ।।
`अग्राख्यायाम्' इति पञ्चम्यर्थे सप्तमी, पञ्चम्यन्तेनोरः शब्देन सामानाधिकरण्यात्। सामानाधिकरण्यं तु `स चेदुरःशब्दः' इत्यादिना दर्शितम् ।।

अतेः शुनः ।। 5.4.94 ।।
जवन इत्यर्थ इत्यादि। विषयविशेषादियमर्थव्यवस्था श्वशब्दस्य ।।

उपमानादप्रणिषु ।। 5.4.97 ।।
अश्वा लोष्ट इति। अत्र ` नञस्तत्पुरुषात्' इति प्रतिषेधेन भाव्यम्, तस्मान्निः श्वा लोष्ट इति प्रत्युदाहर्त्तव्यम् ।।

खार्याः प्राचाम् ।। 5.4.101 ।।
द्विखारीति। टजभावपक्षे नपुंसकह्नस्वत्वम्।
     अयं योगः शक्योऽवक्तुम् त्रिखारमिति? खारीशब्देन समानार्थः खारशब्दोऽस्ति यथा च `तदस्य परिमाणम्' , `संख्यायाः संज्ञा' इत्यत्र `अन्येभ्योऽपि दृश्यते खारशताद्यर्थम्' इति वार्तिकम् ।।

द्वित्रिभ्यामञ्जलेः ।। 5.4.102 ।।
द्वाभ्यामञ्जलिभ्यां क्रीतो द्वयञ्जलिरिति। अञ्जलिपरिमितो व्रीह्यादिरञ्जलिः; न पाणिद्वयम्, तस्य मुल्लत्वासम्भवात्। ततश्च परिमाणत्वात्प्राग्वतीयस्य ठकः `अध्यर्द्धपूर्व' इति लुक्। द्व्यञ्जलिप्रिय इति। व्यवस्थइतविभाषात्वादुत्तरपदद्विगोर्न भवतीत्याहुः ।।

अनसन्तान्नपुंसकाच्छसि ।। 5.4.103 ।।
सुत्रामाणमिति। सुष्ठु त्रायते इति `आतो मनिन्', उपपदसमासः। अनेहसमिति। `नञ्याहन एह च' इत्याङ्पूर्वाद्धन्तरेसिप्रत्ययः, धातूपसर्गयोश्चेहादेशः, नञ उपपदसमासः, द्वितीयैकवचनम्।
अन्तग्रहणं विस्पष्टार्थम् ।।

ब्रह्मणो जानपदाख्यायाम् ।। 5.4.104 ।।
अन्तरेणापि भावप्रत्ययं जानपदशब्दो भावप्रधानः, `द्व्येकयोः' इतिवदित्याह-समासेन चेद् ब्रह्मणो जानपदत्वमाख्यायते इति। यद्यप्येकं ब्रह्मग्रहणम्, तेन च समासो विशेषितः, तथापि प्रत्यासत्तेर्ब्रह्मण एव जानपदत्वं विशेषणं विज्ञायते, तस्मादेतत्प्रत्ययविधानमिति। तत एव हि प्रत्ययविदाने ब्रह्मणो जानपदत्वं शक्यमाख्यातुम्।
देवब्रह्मेति। षष्ठीसमासः, कर्मधारो वा ।।

द्वन्द्वाच्युदषहान्तात्समाहारे ।। 5.4.106 ।।
तत्पुरुषान्मा भूदिति। तत्पुरुषादेव मा भूदित्यर्थः। `द्वन्द्वात्' इत्यनुच्यमाने हि तत्पुरुषाधिकारो न निवर्त्तेत ।।

अव्ययीभावे शरत्प्रभृतिभ्यः ।। 5.4.107 ।।
जराया जरस् चेति। जराशब्दादच् प्रत्ययो भवति, अव्ययीभावे जरसादेशश्च--उपजरसम्। प्रतिपरसमनुभ्योऽक्ष्णं इति। प्रादिभ्यः परो योऽक्षिशब्दस्ततष्टज्भवति, तत्र परशब्दस्याव्ययीभावसम्भवात्तत्पुरुषाथ ग्रहणम्। प्रत्यक्षमिति। `यथार्थे यदव्ययम्' इति वीप्सायामव्ययीभावः, परक्ष्मणः परोक्षम्, `परोक्षे लिट्' इति निर्द्देशात्पञ्चमीसमासः, उपसर्जनस्य च परनिपातः, अक्ष्यकारस्य चोत्वम्। अक्षियोग्यम्=समक्षम्, यथार्थे योग्यतायामव्ययीभावः। अन्वक्षमिति। पश्चादर्थेऽव्ययीभावः।।

नपुंसकादन्यतरस्याम् ।। 5.4.109 ।।
नपुंसकग्रहणमुत्तरपदविशेषणमिति। नाव्ययीभावविशेषणम्; अव्यभिचारात् ।।

नदीपौर्णमास्याग्रहायणीभ्यः ।। 5.4.110 ।।
`नदि' इति स्वरूपग्रहणम्, न संज्ञायाः; पौर्णमास्याग्रहायण्योः पृथग्ग्रहणात् ।।

झयः ।। 5.4.111।।
झय इति प्रतयाहारग्रहणमिति। झकारयकारयोस्तु ग्रहणं न भवति; तदन्तस्याव्ययीभावस्यासम्भवात्। योगविबागश्चिन्त्यप्रयोजनः ।।

गिरेश्च सेनकस्य ।। 5.4.112 ।।
अन्तर्गिरमिति। विभक्तयर्तेऽव्ययीभावः। विकल्पोऽनुवर्त्तत एवेति। अन्यथा केषाञअचिज्झयन्तानां शरत्प्रभृतिषु पाठोऽनर्थकः स्यात्; `झयः' इत्यनेनैव सिद्धत्वात्। एतेनैतन्न चोदनीयम्---`द्वयोर्विभाषयोर्मध्ये नित्या विधयः' इति पूर्वस्य विधेर्नित्यत्वार्थमिदं सेनकग्रहणं स्यादिति ।।

ब्रह्मव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् ।। 5.4.113 ।।
स्वाङ्गमद्रवादिलक्षणं पारिभाषिकं गृह्यते। दुःश्लिष्टविभक्तीनीति। दुर्=निन्दायाम्। निन्दितं यथा तथा श्लिष्टाः सम्बद्धाः विभक्यो येषु तानि तथोक्तानि, तथा हि--बहुव्रीहिशब्दात्पञ्चम्या भवितव्यम्, समासान्तसम्बनधे षष्ठ्या वा, यथा--`तत्पुरुषस्याह्गुलेः' इति; इह तु सप्तम्येकवचनं श्रुतम्। `सक्थ्यक्षणेः' इति षष्ठीद्विवचनम्, सप्तमीद्ववचनं वा। न चैवम्भूतेनानेन बहुव्रीहिः शक्यो विशेषयुतुम्; भिन्नविभक्तिवचनत्वात्। स्वाङ्गादिति पञ्चम्येकवचनम्, तच्च न सक्थ्यक्षणोः समानाधिकरणं विशेषणमवकल्पते, तत्चाभिप्रेतम्। तस्माद्विभक्तिव्यत्ययमाश्रित्य विभक्तयः सम्बन्धयितव्या इति `दुःश्लष्टविभक्तीनि' इत्युक्तम्।
स्थूलाक्षिरिक्षुरिति। `अक्ष्णोऽदर्शनात्' इत्यचात्र भवितव्यम्। यदि तु नेष्यते, समासान्तविधिरनित्य इति वक्तव्यम्; तत एव तर्हि षजपि न भविष्यति। तस्मात्स्थूलाक्षा, सूक्षमाक्षा वेणुयष्टिरिति अजेव टापि प्रत्युदाहर्त्तव्य इत्याहुः। दीर्घसक्थीति। दीघ सक्थ्यस्याः सा दीर्घसक्थी, अत्र षचि सतिक ङीषुदात्तो भवति, टचि तु सति ङीबनुदात्तः स्यात्। ननु टचश्चित्करणमन्तोदात्तार्थम्, ततश्च ङीबप्युदात्तनिवृत्तिस्वरेणोदात्त एव भविष्यति ? तत्राह--सक्यं चाक्रान्तादित्यादि। विभायेति। `विभाषोत्पुच्छ' इत्यतोऽनुवृत्तेः षचश्चित्करणमक्ष्यर्थम्। सक्थ्यपि यदाक्रान्तात्परं तदा नित्यमन्तोदात्तं भवति--चक्रसक्थः, वक्रसक्थ इति। गौरसक्थादौ तु नार्थश्चित्करणेन ।।

अङ्गुलेर्दारुणि ।। 5.4.114 ।।
अङ्गलिसदृशावयवमित्यादि। दारुणि समासार्थे मुख्याभिरङ्गुलीभिः सम्बन्धो नोपर्पद्यत इति भावः।
ननु च द्वे अङ्गुली प्रमाणमस्य दारुण इत्यत्र सम्भवति? तत्राह--यस्य त्वलित्यादि। इह च बहुव्रीहेरयं प्रत्ययो विधीयते, त्वदुक्ते चोदाहरणे तद्धितार्थे तत्पुरुषः कर्त्तव्यः, तत्र च `तत्पुरुषस्याङ्गुलेः' इत्यचा भवितव्यम्। तस्माद्बहुव्रीहौ दारुणि वाच्ये गौण एवाङ्गुलिशब्द इति सुष्ठूक्तमित्यर्थः ।।

द्वित्रिभ्यां ष मूध्नः ।। 5.4.115 ।।
अथ किमर्थ षः प्रत्ययान्तरं क्रियते, न प्रकृतः षजनुवर्त्तिष्यते? द्विमूर्द्धः, त्रिमूर्द्ध इत्यत्र `द्वित्रिभ्यां पाद्दन्मूर्द्धसु' इति पाक्षिकमन्तोदात्तत्वं यथा स्यात्। षचि तु सति चित्त्वान्नित्यमन्तोदात्तत्वं स्यात्। `द्वित्रिभ्यां पाद्दन्मूर्द्धशु बहुव्रीहौ' इत्यस्य तु समासान्तविधेरनित्यत्वात्तदभावे द्विमूर्द्धा, `त्रिमूर्द्धान सप्तरश्मिं गृणीषे' इति, सोऽवकाशः स्यात्। षे तु सति यदापि समासान्तः क्रियते, तदापि पक्षेऽन्तोदात्तत्वम्, पक्षे पूर्वपदप्रकृतिश्वरेणाद्यदात्तत्वमिति स्वरद्वयसिद्धिः। अनित्यत्वं च षविधानादेव विज्ञायते। नित्ये हि सति प्रकृते षच्यपि विहिते द्वित्रिभ्यामपि स्वरः प्राप्तमिभाषारूपेण चित्स्वरं वाधिष्यते; विषयान्तराभावात्। अनित्यत्वे तु समासानाताभावपक्षे सावकाशम् `द्वित्रिभ्याम्' इति स्वरं चित्स्वरो वाधेतेति प्रत्ययान्तरकरणमर्थवद्भवति। एवं च कृत्वा मूर्धस्विति नकारान्तनिर्दश उपपन्नो भवति; अन्यथा `सक्यं चाक्रान्तात्' इतिवदकारान्तमेव निद्दिशेत्। यदि नकारान्तो निर्द्दिश्यते,कथं समासान्ते कृते भवति? नैप दोपः; वक्ष्यति हि तत्र--`यदापि समासान्तः क्रियते तदा बहुव्रीहेः कार्यित्वात्तदेकदेशत्वाच्च समासान्तस्यान्तोदात्तत्वं भवत्येव' इति ।

अप्पूरणीप्रमाण्योः ।। 5.4.116 ।।
पूरणप्रत्ययान्त इति। `तस्य पूरणे डट्' इत्येवमादयः पूरणार्थे ये प्रत्यया विहितास्तदन्ता इत्यर्थः। स्त्रीलिङ्गा इति। `पूरणी' इति ङीपा निर्द्देशात्। पूरणीग्रहणेन गृह्यन्ते इति। पूरणार्थसाहचर्यात्।
अपि प्रधानपूरणीग्रहणमिति। अपि विधीयमाने प्रधानं या पूरणी सा गृह्यत इति वक्तव्यमित्यर्थः। क्वच पुनः पूरण्याः प्रादान्यम्? इत्यत आह--यत्रेति। न केवलं वर्त्तिपदार्थ एवेति। समासावयवभूतं पदं वर्त्तिपदम्, तस्यार्थो वर्त्तिपदार्थः. प्रथमान्तं चैतत्, न सप्तम्यन्तम्। पूरणीत्येतदनुषज्यते, न पुनरनुप्रविशतीति। तत्रोदाहरणे उद्भूतावयवबेदस्य समुदायस्य कृतैकशेषेण रात्रिशब्देनाभिधानाद्रात्रिषु पञ्चम्या अन्तर्भावः। कल्याणपञ्चमीकः पक्ष इति। `नद्यृतश्च' इति अप्। अत्र वर्तिपदार्थ एव पूरणी, न त्वन्यपदार्थः; तिरोहितावयवलभेदस्य पक्षस्यान्यपदार्थत्वात्। यथा-वृक्षशब्दस्यावयव्यभिदेयः, न तु शाखादयोऽवयवाः; अनुमीयमानस्याशब्दार्थत्वादित्यप्राधान्यं पूरण्याः।
नेतुर्नक्षत्र इति। यो नेतृशब्दस्तदन्ताद्बहुव्रीहेरित्यर्थः। छन्दसि चेति। अनक्षत्रार्थमिदम्। पञ्चकमासिक इति। पञ्चभृतिरस्य मासस्य पञ्चको मासः, सोऽस्यांखवस्नभृतयः' इति संख्याया कन्, पञ्चको मासोऽस्येति बहुव्रीहौ कृतेटच्। अपः पित्कस्णं यत्र बहुव्रीहावन्तोदात्तत्वमारम्यते तद्बाधनार्थम्--अपञ्चमाः, सुपञ्चमाः, `नञ्सुभ्याम्' इत्यन्तोदात्तत्वं न भवति ।।

अञ्नासिकायाः संज्ञायां नसं चास्थूलात् ।। 5.4.118 ।।
नसमिति। द्वितीयानिर्द्देशो वैचित्र्यार्थः। द्रणस इति। द्रुरिव नासिकास्य `पूर्वपदात्संज्ञायागः' इति णत्वम्। वध्रे भवा वाध्री, सा नासिकास्य वाध्रीणसः, `वृद्धिनिमित्तस्य च तद्धइतस्य' इति पुंवद्भावप्रतिषेधः। गौरिव नासिकाऽस्य गोनसः।
खुरखराभ्यां नस् वक्तव्य इति। केवलादेशवचनं प्रत्ययनिवृत्त्यर्थम्। खुरणाः, खरणा इति। `अत्वसन्तस्य च' इति दीर्घः।
शितिः कृष्णा नासिकास्य शितिनाः, अहेरिव नासिकाऽस्य अहिनाः। अर्चा=प्रतिमा, तस्या इव नासिकास्य अर्चनाः, `ङ्यापोः संज्ञाछन्दसोः' इति ह्रस्वत्वम् ।।

उपसर्गाच्च ।। 5.4.119 ।।
उपसर्गग्रहणं प्राद्युपलक्षणम्; नासिकां प्रति क्रियायोगाभावात्। वेर्ग्रो वक्तव्य िति। विशब्दात्परस्य ग्रशब्द आदेशो भवति; प्रत्ययस्त्वजेव ।।

सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः ।। 5.4.120 ।।
टिलोपादिकमिति। सुप्रातः, सुख्व इत्यत्र टिलोपः। `अव्ययानां भमात्रे टिलोपः' इत्येतत्तु नाश्रितम्। आदिपदेन णणीपदाजपदयोः पद्भावः। शोभनं प्रातरयेति। प्रातः शब्दस्याधिकरणप्रधानत्वात्सामानाधिकरण्याभावात्, प्रातस्तनं कर्म प्रातःशब्देन लक्ष्यते, देवदत्तादिश्चान्यपदार्थ इत्याहुः। कथं च `वरदः करोतु सुप्रातमह्नामयं नायकः' इति? न ह्ययं बहुव्रीहिः, शोभनं प्रातस्तवार्कः करोत्विति ह्यत्रार्थ? उच्यते; शोभनं प्रातस्तनं कर्म यस्य सन्ध्यादेस्तत्ते करोत्विति क्लेशेनास्य निर्वाहः ।।

नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् ।। 5.4.121 ।।
हलिग्रहणमनर्थकम्? कथमहलः, सुहल इति? अकारान्तो हलशब्दोऽस्ति? नन्वर्थभेदोऽस्ति-महद्धलं हलिरित्युच्यते, हलमात्रं तु हलम्? नायमर्थभेदः किञ्चित्करः, क्रियमाणेऽपि हलिग्रहणे हलशब्देनापि समासो न दण्कडवारितः, ततश्च प्रकरणादिवशेन विशेषोऽवगन्तव्यः; सति चैवमकारान्तेनापि समासे प्रकरणादिनैव महस्वमवगंस्यते? इह तर्हि---दुर्हल इत्यकारान्तेनापि समासे पूर्वपदप्रकृतिस्वरः प्राप्नोति, समासान्ते तु विहिते चित्स्वरो भवति। अहलः, सुहल इत्यत्र `नञ्सुभ्याम्' इत्यन्तोदात्तविधानान्नास्ति विशेषः। `शेषाद्विबाषा' इति च हलिशब्दात्कप् प्रत्ययः प्रसज्येत; तस्माद्धलिग्रहणम्। केचित्तु हलिशक्त्योरिति पठन्ति। अस्थिपर्यायः शक्तिशब्दः ।।

नित्यमसिच् प्रजामेधयोः ।। 5.4.122 ।। असेवायं न विहितः, सकास्येत्संज्ञा मा भूदिति।
एवं तर्हीत्यादि। भाष्ये एतन्नाश्रितम्। चित्करणम्--दुःप्रजाः, दुर्मेधा इत्यत्रान्तोदात्तार्थम्। अन्यत्र `नञ्सुभ्याम्' इत्येव सिद्धम् ।।

धर्मादनिच् केवलात् ।। 5.4.124 ।।
परमः स्वो धर्मोऽस्य परमस्वधर्म इति। `सर्वनामसंख्ययोरुपसंख्यानम्' इति स्वशब्दस्य पूर्वनिपातो न भवति; प्राप्तस्य चाबाधा व्याख्येयेति, आहिताग्न्यादेराकृतिगणत्वाद्वा ।।

जम्भा सुहरिततृणसोमेभ्यः ।। 5.4.125 ।।
दन्तवचनो वेति। `इममम्भसुतं पिब' इति दर्शनात् ।।

दक्षिणेर्मा लुब्धयोगे ।। 5.4.126 ।।
लुब्धो वयाध इति। कवयस्तु हिंसामात्रे प्रयुञ्जते--`बालीहेमाब्जमाली गुणनिधिरिषुणा निर्मितो दक्षिणेर्मा' इति यथा। व्रणितमिति। व्रणशब्दादितच्। `व्रम गात्रविचूर्णने' इत्यस्माद्वा चौरादिकणिजन्ताक्तः ।।

इच् कर्मव्यतिहारे ।। 5.4.127 ।।
अयं बहुव्रीहिर्गृह्यत इति। अस्यैव कर्मव्यतिहारे वृत्तेः। उदारहरणेषु `अन्येषामपि दृश्यते' इति पूर्वपदस्य दीर्घत्वम्। तिष्ठद्गुप्रभृतिष्वयमिच् पठ्यते इति। तेनाव्ययीभावसंज्ञकत्वादव्ययत्वे सति सुब्लुग्भवतीति भावः। यद्येवम्, अव्ययीभावसंज्ञया बहुव्रीहिसंज्ञाया बाधनात्समासस्वरेणैवान्तोदात्तत्वं सिद्धमिति नार्थश्चित्करणेन? विशेषणार्थं तु। असति हि तस्मिस्तिष्ठद्गुप्रभृतिष्विकारमात्रं पठ्येत, ततश्च `अच इः' इत्यस्यापि ग्रहणं स्यात् ।।

द्विदण्ड्यादिभ्यश्च ।। 5.4.128 ।।
यदि `द्विदण्कड्यादयः साधवो भवन्ति'--इत्ययमर्थोऽभिप्रेतः, `द्विदण्ड्यादिभ्यः' इति सूत्रपदस्य कथं निर्वाहः? अत आह-द्विदण्ड्यादिभ्य इति। तादर्थ्य एषा चतुर्थीत्यादि। समुदायनिपातनाच्येति। समुदाया यत्र प्रसिद्धास्तत्रैव तेषामवरोधः=अवस्थापनं यथा स्यादित्येवमर्थं समुदायनिपातनमित्यर्थः। द्विदण्कडि प्रहरतीति। द्वौ दण्डावस्मिन्प्रहरणे इति विग्रहः। इह न भवतीति। किं न भवति? द्विदण्डीत्येतच्छब्दरूपं साधु न भवतीत्यर्थः।
बहुव्रीह्यधिकारेऽपीति। अत्रापि `समुदायनिपातनाच्च' इत्ययमेव हेतुः। ननु प्रातिपदिकेष्विच्प्रत्ययान्तपाठादेव सिद्धं द्विदण्ड्यादीनां साधुत्वम्, तत्किमनेन? तन्न; न हि पाठमात्रेणेजन्तत्वं शक्यमवगन्तुम्; ततश्चाव्ययीभावसंज्ञा न स्यात्। अनार्षश्च पाठः शङ्क्येत; क्वचिदप्यनुपयोगात् ।।

प्रसम्भ्यां जानुनोर्ज्ञः ।। 5.4.129 ।।
ज्ञुरित्ययमादेश इति। प्रत्ययस्त्वयं न भवति; षष्ठीद्विवचनेन निर्देशात्। इह हि जानुशब्दस्यैकत्वेऽपि अर्थगतं द्वित्वम्, उपपदनिबन्धनं वा द्वित्वमाश्रित्य जानुनोरिति निर्देश एतदर्थ- क्रियते--स्थानषष्ठीत्वमसन्दिग्धं कथं विज्ञायेतेति। छन्दसि तु स्वतन्त्रोऽपि ज्ञुशब्दो दृश्यते--`उपज्ञुबाधो नभसा', `सदेम वत्सज्ञुं पशुकामस्य' इति ।।

ऊधसोऽनङ् ।। 5.4.130 ।।
ङित्करणादन्त्यादेशत्वम्, अकारादित्वं च निश्चित्याऽऽहअनङादेशो भवतीति। कुण्डोध्नीति। `बहुव्रीहेरूधसो ङीष्', `अल्लोपोऽनः'।
अनङ्‌विधानमुत्तरार्थम्, इह तु नकारादेशेनापि सिद्धम् ।।

गन्धस्येदुत्पूतिसुसुरभिभ्यः ।। 5.4.135 ।।
इकारादेशो भवतीति। षष्ठीनिर्द्देशादादेशत्वावसायः। प्रकरणभेदाय चादेशत्वं व्यवस्थाप्यते, न त्वस्मिन्प्रत्ययेऽपि कश्चिद्दोषः।

गन्धशब्दोऽयमस्ति द्रव्यवचनः---वहति जलमियम्, पिनष्टि गन्धानियमिति, अस्ति च गुणवचनः---चन्दनस्य गन्ध इति, तत्र गुणवाचिनो ग्रहणार्थमाहगन्धस्येत्त्वं इति। रूपादिसमुदायः=द्रव्यम्, तस्य गन्धलक्षणो गुण एकान्त एकदेशो भवति, ऊपादिव्यतिरिक्तमवयवि द्रव्यमिति तु पक्षे एकान्त इवैकान्तः; तत्स्थस्योपलम्भात्।
सुगन्ध आपणिक इति। आपणे नियुक्त आपणिकः; प्राग्वहतीयष्ठक्। भवार्थे वा अध्यात्मादित्वाट्ठक्। अथ वायौ कथं सुगन्धिः, दुगन्धिरिति, न ह्ययं गन्धो वायोर्गुणः? मा भूत्तस्य गुणः, तेन तावदविभागापन्नो लक्ष्यते, एतावदेव च तदेकान्तत्वं विवक्षितम्, न तद्गुणत्वम्। एवं च कृत्वा कुङ्कुमाद्यनुलेपनमपि यदा देवदत्तादेरविभागपन्नं भवति तदेत्त्वं भवत्येव--सुगन्धिर्देवदत्त इति, सर्वथा द्रव्यवचननिवृत्तिः ।।

अल्पाख्यायाम् ।। 5.4.136 ।।
सुपोऽल्पोऽस्मिन्सूपगन्धीति। अर्थप्रदर्शनमेतत्, विग्रहस्तु सूपस्य गन्धो लेशोऽस्मिन्निति; इन्यथा विशेषणत्वाद् गन्धशब्दस्य पूर्वनिपातः स्यात्। यद्वा--अस्मादेव निपातनाद् गन्धशब्दस्य परनिपातः ।।

पादस्य लोपोऽहस्त्यादिभ्यः ।। 5.4.138 ।।
लोपो भवति समासान्त इति। यदि त्वयं समासान्तो न स्याद्, `आदेः परस्य' इत्यादेः स्यात्, `शेषाद्विभाषा' इति कप् च प्रसज्येत्; समासान्तापेक्षस्य शेषस्याश्रयणात्। कथं पुनरभावरुपोऽन्तावयवो भवति? तत्राह--स्थानिद्वारेणेति ।।

कुम्भपदीषु च ।। 5.4.139 ।।
बहुवचननिर्द्देशात्प्रभृत्यर्थोऽवगम्यत इत्याह-- कुम्भपदीप्रमृतय इति। समुदाया एव निपात्यन्त इति। कथं तर्हि सूत्रे भूतविभक्तया सप्तम्या निर्द्देशः? इत्यत आह--तत्रेति। विषयग्रहणेन सूत्रे विषयसप्तमीति दर्शयति---यथा कुम्भपद्यादयः सिद्ध्यन्तीति। यत्तदोर्नित्यसम्बन्धात्पूर्वत्र तथा लोपो भवतीत्यर्थो ग्राह्यः। किमर्थं पुनः समुदाया एव निपात्यन्ते, न कुम्भादीनेव गणे पठित्वा तेभ्यः परस्य पादशब्दस्य लोपो विधीयेत ? तत्राह--समुदायपाठस्य चेति। विषयनियममेव दर्शयति--स्त्रियामेवेति। अत्र च स्त्रियामपि ङीप्प्रत्यय एव। `पादोऽन्तरस्याम्' इति यदा ङीब्विषयभूतस्तदैवेत्यर्थः।
यच्चेत्यादि। उपमानपूर्वपदम्-कुम्भपदी, जालपदीत्यादि; संख्यापूर्वपदम्एकपदी, शतपदीति। अष्टापदीति पठ्यते, तत्र निपातनाद्दीर्घत्वम्, `अष्टनः संज्ञायाम्' इति वाऽऽकारः ।।

वयसि दन्तस्य दतृ ।। 5.4.141 ।।
द्वितन्निति। ऋकारस्योग्त्कार्यार्थत्वाद् `उगिदचाम्' इति नुम् ।।

त्रियां संज्ञायाम् ।। 5.4.143 ।।
अच्छन्दोऽर्थमिदम्। अयोगतीति। अय इव दन्ता अस्या अयोदती, उगित्त्वान्ङीप्। समदन्तीति। `नासिकोदरोष्ठ' इत्यादिना ङीष् ।।

विभाषा श्यावलारोकाभ्याम् ।। 5.4.144 ।।
अरोको निर्दीप्तिरिति। `रुच दीप्तौ',रोचनम्=रोकः, स न विद्यते यस्येति कृत्वा ।।

अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ।। 5.4.145 ।।
चकारोऽनुक्तसमुच्चयार्थः।
अहिदन्नित्यादि। भाष्ये एतन्नाश्रितम् ।।

ककुदस्यावस्थायां लोपः ।। 5.4.146 ।।
कालादिकृता इति। सादिशब्देनाहारपरिणामादेर्ग्रहणम् ।।

त्रिककुत् वर्तते ।। 5.4.147 ।।
पर्वतेऽन्यपदार्थे मुख्यस्य ककुदस्यासम्भवादाह--ककुदाकारं श्रृङ्गमित्यादि। न चेत्यादि। उच्यत इत्यस्यानुषङ्गः। संज्ञैषेत्यादि। एतच्च निपातनाल्लभ्यते। एवं च पर्वतग्रहणं विस्पष्टार्थम् ।।

अरःप्रभृतिभ्यः कप् ।। 5.4.151 ।।
व्यूढोरस्कः, प्रियसर्पिष्कः। इति। `सोऽपदादौ', `इणः षः', उपपूर्वान्नह्यतेः सम्पदादित्वात्कर्मणि क्विप्, उपनद्धा उपानत्, `नहिवृति' इति दीर्घः, अवमुक्ते उपानहौ येन सोऽवमुक्तोपानत्कः। `नहो धः' जश्त्वचर्त्त्वे ।।
विकल्प एव भवतीति। लक्ष्मीशब्दात् `नद्यृतश्च' इति नित्यः कब् न भवति; एकवचनान्तपाठस्य नियमार्थत्वात्। अर्थान्नञ इति। नञः परो योऽर्थशब्दस्तदन्ताद्बहुव्रीहेर्नित्यं कब्भवति। नास्यार्थोऽस्ति अनर्थमः ।।

इनः स्त्रियाम् ।। 5.4.152 ।।
`अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधं प्रयोजयन्ति' ।।

नद्यृतश्च ।। 5.4.153 ।।
नद्यन्ताद्बहुव्रीहेरिति। अत्रान्तशब्द उत्तरपदे वर्त्तते, नद्युत्तरपदाद्बहुव्रीहेरित्यर्थः। यद्वा--बहुव्रीह्यर्थमुत्तरपदं बहुव्रीहिः, तस्मान्नद्यन्तादित्यर्थः। किं सिद्धं भवति? बहुग्रामणीर्नगरी,बहुखलपूर्नगरीत्यत्र कब् निवर्त्तितो भवति ।।

शेषाद्विभाषा ।। 5.4.154 ।।
यस्माद्बहुव्रीहेरिति। कर्मणि ल्यब्लोपे एषा पञ्चमी, बहुव्रीहिमाश्रितयेत्यर्थः, तेन यत्राप्यादेशः समासान्तः--व्याघ्रपात्, सुगन्धिः, कुण्डोध्नीति; असावपि शेषो न भवति। प्रत्ययप्रायत्वाद्वा समासान्तस्य `यस्मात्' इत्युक्तम्।
इह शेषः कबपेक्षो वा स्याद्, अनन्तरो यो बहुव्रीह्यधिकारस्तदपेक्षो वा, समासान्तमाक्षत्रापेक्षो वा-इति त्रयः पक्षाः सम्भवन्ति। तत्राद्ये पक्षे-व्याघ्रपात्, सुगन्धिः, द्विदशाः, अनृचः, विधुर इत्यादौ नित्यकब्विषयवर्जं सर्वत्र प्रसज्येत। शेषग्रहणं चानर्थकम्, न हि नित्यकब्विषये विकल्पप्रसङ्गः; नित्यकविधेरानर्थक्यप्रसङ्गात्। द्वितीयेऽपि द्विद्शा इत्यादौ स्यादेव प्रसङ्ग इति मन्यमानस्तृतीयं पक्षमाश्रयति--समासान्तो न विहित इति। बहुखट्वक इत्यादौ `आपोऽन्यतरस्याम्' इति ह्रस्वः, बहुखट्व इत्यादौ `गोस्त्रियोरुपसर्जनस्य' इति।
कथमित्यादि। यदि समासान्तापेक्षः शेष इति प्रश्नः। विशेषे स इष्यत इति। ततश्च विषयान्तरे सूक्ते सामनि च बहुव्रीहेः समासान्तापेक्षं शेषत्वमस्त्येवेति भावः। किमर्थं पुनः शेषग्रहणम्, यावता यत्र समासान्ता विहितास्तत्र त एव बाधका भविष्यन्ति, अनवकाशा विधयो बाधका भवन्ति, सावकाशाश्च ते, कोऽवकाशः ? विभाषा कप्, यदा न कप् सोऽवकाशः--कपोऽप्यन्याः प्रकृतयः; विशेषप्रकृतिभ्य उभयप्रसङ्गे परत्वात्कप् स्यात्। तस्माच्छेषग्रहणम् ।।

ईयसश्च ।। 5.4.156 ।।
सर्वा प्राप्तिः प्रतिषिद्ध्यत इति। न तु `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' इति शेषलक्षणस्यैव कपः प्रतिषेध इति सर्वशब्दस्यार्थः। एतच्च शेषादित्येतस्य निवृत्तत्वात्कब्मात्रस्यानुवृत्तेर्लभ्यते। बहुश्रेयसीति। लिङ्गविशिष्टग्रहणादत्र प्रतिषेधः। यथात्र सोर्हल्ङ्यादिलोपः, तथा तत्रैव वक्ष्यामः। ह्रस्वत्वमपि न भवतीति। `गोस्त्रियोरुपसर्जनस्य' इति प्राप्तम्। कस्मात्? इत्याह--ईयसो बहुव्रीहावित्यादि। पुंवद्वचनेनात्र न स्त्रीप्रत्ययस्य निवृत्तिर्विवक्षिता, किं तर्हि? ह्रस्वप्रकरणात्तदभावः। तथा च `गोस्त्रियोः' इत्यत्र वृत्तौ-`ईयसो बहुव्रीहौ प्रतिषेधो वक्तव्यः' इत्येवोक्तम् ।।

वन्दिते भ्रातुः ।। 5.4.157 ।।
वन्दितः स्तुत इति। यद्यपि `वदि अभिवादनस्तुत्योः' इत्यभिवादनेऽपि वदिः पठ्यते, तथापि व्याख्यानात्स्तुत्यर्थस्यैव ग्रहणमिति दर्शयति। तेन वन्दितभ्रातृक इत्यत्र कब्भवत्येव ।।

नाडीतन्त्र्योः स्वाङ्गे ।। 5.4.159 ।।
नाडीशब्दो जातिलक्षणङीषन्तः। तन्त्रीशब्दः `अवितृस्तृतन्त्रिभ्य ईः' इतीकारान्तः। बहरुनाडिरिति। उपसर्जनह्रस्वम्। बहुतन्त्रीरित्यत्र तु `कृत्स्त्रियाः प्रतिषेधः' इति वचनान्न भवति ।।

निष्प्रवाणिश्च ।। 5.4.160 ।।
प्रोयतेऽस्यामिति प्रवाणीति। वेञोऽधिकरणे ल्युट्, `कृत्यचः' इति णत्वम् ।।

इति श्रीहरदत्तमिश्रविरचितायां पदमञ्जर्यां पञ्चमास्याध्यायस्य चतुर्थ पादः
           ------------*****-------------