सामग्री पर जाएँ

काशिका (पदमञ्जरीव्याख्यासहिता)/द्वितीयोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः
← तृतीयः पादः काशिका (पदमञ्जरीव्याख्यासहिता)
चतुर्थः पादः
[[लेखकः :|]]

काशिकावृत्तौ? पदम़ञ्जरी?
अथ द्वितीयाध्याये चतुर्थः पादः
द्विगुरेकवचनम्।। 2.4.1 ।।
द्विगुरेकवचनम्।। अत्र यदि पारिभाषिकमेकवचनं गृह्येतानुप्रयोगत एकवचनं न स्यान्---पञ्चपूलीयं शोभनेति, तस्याद्विगुत्वाद् `द्विगोः' इति पञ्चम्या च निर्द्देशः स्यात्, अतोऽन्वर्थस्यैकवचनस्येदं ग्रहणमिति मत्वाऽऽह---एकस्य वचनमेकवचनमिति। वक्तीति वचनम्, `कृत्यल्युटो बहुलम्' इति कर्त्तरि ल्युट्, एकस्यार्थस्य वचनमेकवचनमिति कर्मणि षष्ठ्याः समासः। तत्र चैकस्यार्थस्य वाचर्क भवतीति सामान्यनोपक्रमः, पश्चात्किं तदित्यपेक्षायां द्विगुरित्यस्य पुंल्लिङ्गस्य सम्बन्ध इत्येकवचनमिति नपुंसकोपपत्तिः। एतदेव व्यनक्ति---एकस्यार्थस्येति। एवं च द्विगुरेकार्थस्य वाचको भवति। यदि द्विग्वर्थ एको भवति, न च वस्तुतोऽनेकार्थस्य वचनशतेनाप्येकार्थत्वामापादयितुं शक्यमिति सामर्थ्यादतिदेशो विज्ञायते, तदाह--तदनेन प्रकारेणेति। तदिति वाक्योपन्यासे किमुक्तं भवतीत्याहद्विग्वर्थ एकवद्भवतीति। समाहारद्विगोश्चेदं ग्रहणमिति। तद्वितार्थे यो द्विगुस्तस्यैकवद्भावो मा भूदित्येवमर्थ पञ्चभइर्गोभिः क्रीताः पञ्चगवः पटा इति। अथ क्रियमाणेऽपि समाहारग्रहणे इह कस्मान्न भवति---पञ्चपूली च पञ्चपूली च पञ्चपूल्य इति, शिष्यमाणस्यद्विगुत्वात्तदर्थस्यैकवद्भावः प्राप्नोति? न वा; बहिरङ्गत्वाद्, बहिरङ्गोऽयं द्विग्वर्थः सत्येव द्विगावेकशेषात्प्रगभावादेकशेषे सति पश्चादुपजायमान्तवादन्तरङ्गे प्राथमकल्पिके द्विग्वर्थे चरितार्थ एकवद्भावोऽत्र न भविष्यति। यद्येवम्, पञ्चगवः पटा इत्यत्राप्येवमेव भविष्यति? सत्यम्; यदा पटाः प्रत्येकं पञ्चभिर्गोभिः क्रिताः, यदा तु बहवः पटाः संहताः पञ्चभिर्गोभिः क्रियन्ते तदाऽयमेकशेषस्याविषयः। यदि तर्हि समाहारद्विगोर्ग्रहणम्, नार्थोऽनेन, कथम्? समाहारः= समूहः, तस्यैकत्वाद्यूथं वनमित्यादिवदेकवचनं भविष्यति।
यदि तर्हि समाह्रियत इति समाहार इति कर्मसाधनः समाहारशब्दः, तदाऽपेक्षितपरस्पराः पञ्चपूलाः समासार्थ इति बहुवचनप्रसङ्गेऽतिदेश आरभ्यते, तदाह---प्रत्यधिकरणं वचनोत्पत्तेः संख्यासामानाधिकरण्याच्च द्विगोरेकवचनविधानमिति। अधिकरणं द्रव्यम्, संख्यावाची पञ्चादिशब्दः, यत्संख्याविशिष्टं द्रव्यमभिधीयते तदभिधानयोग्यं वचनमुत्पद्यते। पञ्चपूलीशब्देन पञ्चपूलाः समाह्रियमाणा उच्यन्ते, अतः समासार्थस्य पञ्चादिभिः सामानाधिकरण्याद् द्विवचनबहुवचनप्रसङ्गे एकवचनं विधीयत इत्यर्थः। संख्यासामानाधिकरण्यादित्यनेन कर्मसाधनत्वं समाहारशब्दस्य दर्शयति, भावसाधने तु वैयदिकरण्यंपञ्चानां पूलानाम्। न वा समाहारैकत्वादिति, अयमर्थः----तिरोहितावयवभेदः समूहरूपः समाहारो द्विग्वर्थस्तस्यैकत्वाद्वनादिवदेकवचनसिद्धेर्नात्र सूत्रेण प्रयोजनम्। अवश्यं च तद् भावसाधनः समाहार आश्रयणीयः अन्यथा पञ्चानां खट्वानां समाहारः पञ्चखट्वीत्यत्र वा टाबन्त इति स्त्रीत्वपक्षेखट्वाशब्दस्यानुपसर्जनत्वात् ह्रस्वो न स्यात्। अनुपसर्जनत्वं चाप्रथमानिर्द्दिष्टत्वादनेकविभक्तित्वाच्च। भावसाधने तु पञ्चानां खट्वानां समाहारः, समाहारं समाहारेणेति समासार्थस्य नानाविभक्तियोगेऽपि खट्वाशब्दस्य नित्यं षष्ठ्यन्तत्वात् `एक विभक्ति च' इत्युपसर्जनत्वाद् ह्रस्वत्वं सिध्यति, एकवचनमित्येतदुत्तरार्थं कर्तव्यमेव। पञ्चपूलीति। `अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते' इति स्त्रीलिङ्गत्वाद् `द्विगोः' इति ङीप्।।
द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्।। 2.4.2 ।।
द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्।। इह यस्य द्वन्द्वस्य कश्चिदवयवः प्राण्यङ्गवाची, कश्चित्तूर्याङ्गवाची, कश्चित्सेनाङ्गवाची; यथा---पाणिमार्दङ्गिकाश्वारोहा इति, स व्यतिकीर्णावयवोऽपि प्राण्यङ्गादीनां द्वन्द्वी भवत्येवेत्येकवद्भावः प्राप्नोति, तत्राह---अङ्गशब्दस्येत्यादि। ननु पूर्वपक्षेऽपि प्रत्येकमेव परिसमाप्तिरङ्गशब्दस्य, न हिप्राणितूर्यसेनानामेकमङ्गं सम्भवति? एवं तर्ह्यङ्गानामेव रूपस्य बहुवचनान्तस्य सतोऽङ्गशब्दस्य प्रत्येकं सम्बन्धः, न तु प्रत्येकपरिसमाप्तस्य पश्चाद्वहुवचनसम्बन्धः। त्रीणि वाक्यानि संपद्यन्त इति। सूत्रं तु तेषामेव ग्रहणकवाक्यमिति भावः। तत्र प्रथमेन वाक्येन प्राण्यङ्गानां प्राण्यङ्गयोरेव द्वन्द्वः कृतस्तस्यैकवद्भावो विधीयते, द्वितीयेन तूर्याङ्गानां तूर्याङ्गैरेव, तृतीयेन सेनाङानां सेनाङ्गैरेवेति न संकरप्रसङ्गः। तथा तूर्याङ्गानामिति द्वन्द्व एकवद्भवतीत्यपेक्षते, अत्राङ्गब्द उपकारकवचनः पूर्वत्रोत्तरत्र चावयववचनः सेनाङ्गानां चेति पूर्ववदपेक्षा। पाणिपादमिति। अत्र `जातिरप्राणिनाम्' इत्येव सिद्धे व्यतिकरनिरासार्थं वचनम्। मार्दङ्गिकपाणविकमिति। `शिल्पम्' इति ठक्। वीणावादकेति। `नित्यं क्रीडाजीविकयोः' इति समासः, विपञ्ची परिवादिनी, तज्जीविकः= परिवादकः। पणवमृदङ्गमित्यादौ तु `जातिरप्राणिनाम्' इत्येव सिद्धम्। रथिकाश्वारोहमिति। कथं रथवाजिपत्तिकरिणीसमाकुलमिति, यावतैकवद्भावे सति नपुंसकह्रस्वत्वेन भाव्यम्? निरङ्कुशाः कवयः। रथवाजिपत्तिसहिताः करिण्यो रथवाजिपत्तिकरिण्यस्ताभिः समाकुलमिति वा समर्थनीयम्।
द्वन्द्वश्चेत्यारभ्य `विभाषा समीपे' इत्यन्तस्य प्रकरणस्यानारम्भणीयतां शङ्कतेइतरेतरयोग इत्यादि। सिद्धमेवैकवचनमिति। ततश्चानारम्भणीयं प्रकरणमिति भावः। परिहरति--इदं त्विति। कः पुनरसौ विषयविभाग इत्याह---प्राण्यङ्गादीनामिति। कथं पुनः प्राण्याङ्गादीनां द्वन्द्व एकवचनो भवतीत्यस्य वचनस्य प्राण्यङ्गादीनां समाहार एवेत्यर्थो भवतीति? वचनव्यक्तिभेदात्। एवं ह्यत्र वचनं व्यज्यते--य एकवचनो द्वन्द्वः स एषां भवतीति, न पुनः प्राण्यङ्गादीनां यो द्वन्द्व इत्यनूद्य तस्यैकवचनता विधीयते। एकवचनान्तश्च द्वन्द्वः समाहारद्वन्द्वः, स प्राण्यङ्गदीनामपि `चार्थे द्वन्द्वः' इत्येव सिद्ध इति स एवैषामिति नियमः संपद्यते; दधिपय आदिष्वपि येषां ब्रह्मप्रजापत्यादीनामनेन प्रकरणेन नियमस्याप्राप्तिस्तेषां तावत् `चार्थे द्वन्द्वः' इत्यनेन प्राप्तो द्वन्द्वः प्रतिषिध्यते। य एकवचनो द्वन्द्वः स एषां न भवतीति वचनव्यक्त्या श्रयेण येषामपि दधिपयसी इत्यादीनां `जातिरप्राणिनाम्' इति नियमस्य प्राप्तिस्तेषाम् `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' इति यद्यपि नियमस्य प्रतिषेधो युक्तः, तथापि ब्रह्मप्रजापत्यादिभिः साहचर्यादेकवचनो द्वन्द्व इत्येतावन्मात्रस्यापेक्षणात्समाहारद्वन्द्व एव प्रतिषिध्यते, न नियमः। वृक्षादिविभाषाप्रयोजनं तु तत्रैव वक्ष्यामः।
अथैवं कस्मान्न विज्ञायते----इतरेतरयोगपक्षेऽप्राप्त एकवद्भावो विधीयत इति? उच्यते--यदीतरेतरयोगविहितद्वन्द्वस्यैकवद्भावो विधीयेत, `द्वन्द्वाच्चुदषहान्त' इत्यादिना समाहारनिबन्धनं कार्थ न स्याद्। दधिपयआदिषु तु यस्य द्वन्द्वस्यैकवचनप्राप्तिस्तस्य प्रतिषिध्येतेति समाहारद्वन्द्वस्यैकवचनतायां प्रतिषिद्धायामपि द्वित्वबहुत्वाभावाद् द्विवचनबहुवचने न स्यातामतो नियम एवाङ्गीकर्त्तव्यः। अत्र च व्याख्यानमेव शरणम्। अथ नियमोऽपि भवन्नेवमेव कस्माद्भावति---प्राण्यङ्गादीनां समाहार एवेति? न पुनः-----प्राण्यङ्गादीनामेव समाहार इति? उच्यते---एवं हि विज्ञायमाने दधिपयआदिषु येषामनेन प्रकरणेन नियमो न प्राप्नोति तेषु प्रतिषेधोऽनर्थकः स्यात् तिष्यपुनर्वस्वोरिति बुवचनग्रहणमनर्थकं स्यात्। तद्धितसमाहारद्वन्द्वपक्षे तिष्यपुनर्वस्विदमित्यत्रैकवचनस्य प्रसङ्गे द्विवचनं मा भूदित्येवमर्थम् यदि च त्वदुक्तो नियमः स्यात्तिष्यपुनर्वस्वोरत्र प्रकरणेऽसङ्कीर्त्तितयोः समाहारद्वन्द्वाभावादनर्थकं तत्स्यात्, अतो वृत्तिकारोक्तमेव नियमस्वरूपमिति निरवद्यम्।।
अनुवादे चरणानाम्।। 2.4.3 ।।
  अनुवादे चरणानाम्।। चरणसब्दः कठकालापादिषु शाखाभेदेषु मुख्यः, तदध्यायिषु पुरुषेषु गौणः। उभयेषां चैषां `गोत्रञ्च चरणैः सह' इति चातिसंज्ञा, तत्र शाखाभेदवाचिनः `जातिरप्राणिनाम्' इत्येकवद्भावस्य सिद्धत्वाद् गौणोऽपि पुरुषवृत्तिरेव गृहयत इत्याह---चरणशब्दः शाखानिमित्तक इति। शाखाध्ययननिमित्तक इत्यर्थः। गौण इति क्वचित्पठ्यते, क्वचिन्न। प्रमाणान्तरावगतस्येति। शब्दादन्यत्प्रमाणं प्रमाणान्तरम्= प्रत्यक्षादि। सङ्कीर्त्तिनमात्रमिति। मात्रशब्दोऽवगतिव्युदासाय। नन्वर्थप्रतिपादनाय प्रयोगः, स चेदर्थुः प्रमाणान्तरेणावगतः, किमिति शब्दः प्रयुज्यते? कार्यान्तरविधानार्थम्। यदा हि कठकालापेषूदितेषु आवाभ्यां तत्र गन्तव्यमिति संवादः कृतो भवति, स च विस्मृत्योदास्ते तदा तं प्रतीदमुच्यते---ननूदस्थात्कण्ठकालापं किमास्यते इति। कठेन प्रोक्तमधीयते कठाः, वैशम्पायनान्तेवासित्वाण्णिनिः, `कठचरकाल्लुक्', कलापिशब्दात् `कलापिनोऽण', नान्तस्य टिलोपे सब्रह्मचारीत्यादिना टिलोपः, उभयत्राध्येत्रणो लुक्। एतेन कौथुमो व्याख्यातः। यदा तु प्रथमत एव शब्दोपदेश इति। प्रमाणान्तरेणानवगतस्य शब्देनाद्यं प्रत्यायनमित्यर्थः। उदगुरिति। `आतः' इति झेर्जुस्, `उस्यपदान्तात्' इति पररूपत्वम्। `अद्यतनी' इति लुङः पूर्वाचार्यसंज्ञा। अनन्दिषरिति। `टुनदि समृद्धौ',`सिजभ्यस्त' इति जुस्।
अध्वर्युक्रतुरनपुंसकम्।। 2.4.4 ।।
अध्वर्युक्रतुरनपुंसकम्।। अध्वर्युशब्द ऋत्विग्विशेषे प्रसिद्धः, न च तेन क्रतोर्विशेषणमुपपद्यते, न हि सोऽस्ति क्रतुर्यत्राध्वर्योरनन्वयः, नापि सोऽस्ति यत्राध्वर्योरेवान्वय इति मुख्यार्थासम्भवादौपचारिकग्रहणमित्याह---अध्वर्युवेद इति। यजुर्वेद इत्यर्थः। तत्र ह्याध्वर्यवं विधीयते। कर्मस्वरूपस्येतिकर्त्तव्यतायाः। फलस्य चोपदेशः===विधानम्। अध्वर्युक्रतुवाचिनां शब्दानामनपुंसकलिङ्गानामिति। कथं तर्हि सूत्रे सामानाधिकरण्यमित्याह---अध्वर्युक्रतुरिति। ताद्दशावयवत्वाद् द्वन्द्व एव तथोक्त इत्यर्थः। यदि पुनरनपुंसकमित्यनेन मुख्यया वृत्त्या द्वन्द्व एवोच्येत तदा `स नपुंसकम्' इत्यस्यायमपवादो विज्ञायेत। न वाऽबाधेनोपपत्तौ सत्यां बाधो न्याय्यः। अर्कश्चाश्वमेधश्च अर्काश्वमेधम्। सायाह्नश्चातिरात्रश्च सायाह्नातिरात्रम्।
इषुवज्राविति। सामवेदे एषां विधानम्। राजसूयवाजपेयशब्दावर्द्धर्चादिषु पठितौ, ततस्तौ नपुंसकलिङ्गौ प्रत्युदाहरणम्।।
अध्ययनतोऽविप्रकृष्टाख्यानाम्।। 2.4.5 ।।
अध्ययनतोऽविप्रकृष्टाख्यानाम्।। आख्यायतेऽनेनेत्याख्येति शब्दमात्रमिहाख्याशब्देनोच्यते, न रूढिशब्द एव। असंदेहार्थं विप्रकृष्टाख्यानामध्ययनत इत्यकरणादविप्रकृष्टेति पदच्छेदः। आख्यानञ्च न स्वरूपेणाविप्रकर्षः, किन्तु प्रवृत्तिनिमित्तद्वारेण, तच्चेहाध्ययनम्, तदाह---अध्ययनत इति। अधीतिः=अध्ययनम्, अध्ययनेनाध्ययनतः, आद्यादित्वात्तसिः, प्रवृत्तिनिमित्तभूतस्याध्ययनस्याविप्रकृष्टत्वात्तद्द्वारेणाविप्रकृष्टा आख्या येषां तेऽध्ययनतोऽविप्रकृष्टाख्याः। एतदेवाह---अध्ययनेन निमित्तेनेत्यादि। पदकक्रमकमिति। पदान्यधीते पदकः, `क्रमादिभ्यो वुन्,' एवं क्रमकः। वृत्तिः= संहिता, तामधीते वार्त्तिकः, उक्थादित्वाट् ठक्, अत्र प्रवृत्तिनिमित्तस्याध्ययनस्याविप्रकर्षं दर्शयति---संपाठ इति। संपाठ इति। संपठनं संपाठः, अध्ययनमित्यर्थः। प्रत्यासन्न इति। पदान्यधीत्य क्रमोऽध्येतव्य इति कृत्वा। एवं क्रमकवार्तिकमित्यत्रापि नानधोत्य संहितां क्रमोऽध्येतुं शक्य इति प्रत्यासत्तिर्विज्ञेया।।
जातिरप्राणिनाम्।। 2.4.6 ।।
जातिरप्राणिनाम्।। जातिवाच्यवयवत्वाज्जातिर्द्वन्द्व इति गौणो निर्द्देशः। आराशस्त्रीति। आरा=प्रतोदः। धानाशष्कुलीति। षण्णां रसानां कुलं शष्कुली, गौरादिपाठाद्रूपसिद्धिः। नन्दकपाञ्चजन्याविति। सञ्ज्ञाशब्दावेतौ, `खङ्गोऽस्यनन्दकः, शङ्खः पाञ्चजन्यः प्रकीर्त्तितः।
जातिपरत्वे चेति। जातिप्राधान्ये इत्यर्थः। न नियतद्रव्यविवक्षायामिति। यदा क्वचिद्देशादौ नियतानां द्रव्यविशेषाणां विवक्षा तदा जातिशब्दत्वेऽप्येकवद्भावो न भवतीत्यर्थः। बदरामलकानीति। फलजातिवाचिनावेतौ।।
विशिष्टलिङ्गो नदी देशोऽग्रामाः।। 2.4.7 ।।
विशिष्टलिङ्गो नदी देशोऽग्रामाः।। विशिष्टलिङ्गानामित्यस्य विवरणम्---भिन्नलिङ्गानामिति। विपूर्वः शिषिर्भिदिना समानार्थः। तथा च भेदक विशेषणं भेद्यं विशेष्यमित्युच्यते। `क्तेन नञ्विशिष्टेन' इत्यत्रापि भेदद्वारेणैवाधिक्यमर्थो व्याख्यातः---यस्य हि नञ् भेदकः स नञाधिको भवति। नदीवाचिनामित्यादि। कथं तर्हि सूत्रे विशिष्टलिङ्गादिशब्दानां द्वन्द्वेन सामानाधिकरण्यमित्याह---नद्यवयव इत्यादिना। अग्रामावयवोऽग्राम इत्यपि द्रष्टव्यम्। अग्रामा इति चैकवचनस्थाने बहुवचनम्। असमासनिर्देश एवायमिति। समासे हि व्यतिकीर्णावयो द्वन्द्व एकवत्स्यात्। गङ्गाकुरुक्षेत्रे इति समासो हि भवन्नितरेतरयोगे चेद् द्विवचनप्रसङ्गः, समाहारे चेन्नपुंसकत्वप्रसङ्ग इति भावः। उध्यैरावतीति। `उज्झ उत्सर्गे', `भिद्योध्यौ नदे'। देशः खल्वपीति। उदाह्रियत इति शेषः
जाम्बवशालूकिन्याविति। जाम्बवं नगरम्, शालूकिनी ग्रामः, तत्रोभयतश्च ग्रामाणामिति प्रतिषेध एव भवति। ग्रामोभयावयवस्तु द्वन्द्वो नोदाहृतः। जनपदो हि देश इति। जना यत्र सञ्चरन्ति स देश इत्यर्थः। अवश्यं जनपदो देश इत्यङ्गीकर्त्तव्यमित्याह---तथा चेति। ग्रामे नाध्येयम्।
अभक्ष्या ग्रामकुक्कुटा इत्यादौ ग्रामग्रहणेन नगरमपि गृह्यते, तद्वदिहापिनगरावयवस्यापि द्वन्द्वस्यात्र प्रतिषेधः स्यात्, ज्ञापकात्सिद्धम्, यदयम् `प्राचां ग्रामनगरावयस्यापि द्वन्द्वस्यात्र प्रतिषेधः स्यात्, ज्ञापकात्सिद्धम्, `प्राचां ग्रामनगराणाम्' इति ग्रामग्रहणे नगरग्रहणं करोति, तज्ज्ञापयति----इह शास्त्रे ग्रामग्रहणे न नगरं गृह्यत इति? नैतत्सुष्ठूच्यते, वक्ष्यति हि तत्र `ग्रामत्वादेव सिद्धे नगरग्रहणं प्रवृत्तिभेदज्ञापनार्थम्, ग्रामग्रहणमङ्गविशेषणम्----पूर्वैषुकामशमी, नगरग्रहणं तूत्तरपदविशेषणम्---पूर्वपाटलिपुत्रकः' इति, वाहीकग्रामेभ्यश्च उदीच्यग्रामाच्चेत्यादौ ग्रामग्रहणेन नगरग्रहणं न स्यात्तस्मादाह---अग्राम इत्यत्र नगरप्रतिषेध इति। ग्रामाश्रयस्य प्रतिषेधस्य प्रतिषेध इत्यर्थः।
उभयतश्चेति। ग्रामनगरात्मके उभयस्मिन्सति ग्रामाश्रयः प्रतिषेध एव वक्तव्यः, न पुनर्नगराश्रयः प्रतिषेध इत्यर्थः।।
क्षुद्रजन्तवः।। 2.4.8 ।।
क्षुद्रजन्तवः।। क्षुद्रशब्दोऽयमस्त्येव कृपणे---क्षुद्रोऽयं पुरुष इति, अस्त्यङ्गहोने शीलहीने च---`क्षुद्राभ्यो वा' इति, अस्ति परिमाणापचये---क्षुद्रास्तण्डुला इति; इह तु जन्तुशब्दसमभिव्याहारादन्तिमस्य ग्रहणमित्याह--अपचितपरिमाणः क्षुद्र इति। अल्पशरीर इत्यर्थः।
अपचयस्यापेक्षिकत्वादनवस्था मा भूदिति स्मृतिमुपन्यस्यति---क्षुद्रजन्तुरनस्थिः स्यादिति। यस्यास्थीति न विद्यन्ते सोऽनस्थिः। स्मृत्यन्तरमाह---अथ वेति। क्षोत्तव्यः क्षुद्रः, अर्हार्थेऽपि `स्फायीतञ्चि' इत्यादिना रक् प्रत्ययः, यः क्षुद्यमानोऽपि न म्रियते, यथा---जलूका, स क्षुद्रजन्तुः; यस्तु म्रियते स पापनिमित्तत्वान्न क्षोदार्हः। क्षुद्र एव य इति व्युत्पत्तिवशादेवायं प्रसिद्ध इत्यर्थः। स्मृत्यन्तरमाह----शतं वेति। प्रसृतिरञ्जलेरर्द्धं येषां शतं प्रसृतौ भवति, शतेनार्द्धाञ्जलिः पूर्यत इत्यर्थः। स्मृत्यन्तरमाह---केचिदा नकुलादपीति। नकुलपर्यन्ताः क्षुद्रजन्तव इत्यर्थः।
इतरासां तद्विरोधादिति। अनस्थादिभिः स्मृतिभिर्ये प्रयोगा उपदर्शिता न ते सर्वे ताभिः संगृह्यन्त इत्ययमत्र विरोधः।।
येषां च विरोधः शाश्वतिकः।। 2.4.9 ।।
येषां च विरोधः शाश्वतिकः।। विरोधो वैरमिति। न सहानवस्थानादिः, छायातपावित्यादावपि प्रसङ्गात्। पूर्वसूत्राच्चानुवृत्तेन जन्तुग्रहणेन विरोधस्य विशेषणात्। जन्तूनां हि विरोधो वैरमेव भवति। शाश्वतिको नित्य इति। शश्वदिति त्रैकाल्यमाह। `तत्र भवाः' इति कालाट्ठञि तान्तादपि निपातनादिकादेशः, अव्ययानां भमात्रे टिलोपाभावश्च। गोपालस्यापत्यानि गौपालयः, अत्र कादाचित्को विरोधः। चकारः पुनारित्यादि। पशुशकुनिद्वन्द्वावकाशः----महाजोरभ्रं महाजोरभ्राः, हंसचक्रवाकं हंसचक्रवाकाः; विरोधिनामेकवद्भावस्यावकाशः---श्रमणब्राह्मणम्, मार्जारमूषिकम्; अश्वमहिषं काकोलूकमित्यत्रोभयप्रसङ्गे परत्वात्पशुशकुनिविभाषा स्यात्, चकारादयमेव भवति।।
शूद्राणामनिरवसितानाम्।। 2.4.10 ।।
शूद्राणामनिरवसितानाम्।। शूद्रशब्दोऽत्र त्रैवर्णिकव्यतिरिक्तजातिमात्रवचनः, न वृषलपर्यायः, निरवसितप्रतिषेधात्। निरवसित इति। निरवपूर्वात्स्यतेः कर्मणिक्तः। तत्र प्रकृत्यर्थमाह----निरवसानं बहिष्करणमिति। अनेकार्थत्वाद्धातूनामुपसर्गवशाद्वेति भावः। पात्राद्वहिष्करणमिह विवक्षितमित्याह---यैरिति। संस्कारेणापीति। `भस्मना शुध्यते कांस्यम्' इत्यादिना स्मृतिकारैरुक्तेन न शुध्यति, तेन तत्र भोक्तुं न लभन्त इति ततो बहिष्कृता भवन्ति।।
गवाश्वप्रभृतीति च।। 2.4.11 ।।
गवाश्वप्रभृतीति च।। द्वन्द्वरूपाणीति अन्वयात्प्रभृतीनीति नपुंसकोपपत्तिः। गवाश्वप्रभृतीनि कृतैकवद्भावान्येव पठ्यन्ते, तेषामनेन साधुत्वमात्रं विधीयते, न त्वेकवद्भाव इत्याह---गवाश्वप्रभृतीनीति। गवाश्वादीनां चतुर्णाम्पशुद्वन्द्वे विभा षायां प्राप्तायां वचनम्। एवमुष्ट्रखरम्, उष्ट्रशशमिति। दर्भशरादीनां तृणोलपपर्यन्तानां तृणद्वन्द्वे विभाषायां प्राप्तायां दासीदासादीनाम् `पुमान्स्त्रिया' इत्येकशेषाभावोऽपि निपातनात्। शाटीपटीकमित्यादीनामप्राणिजातिवचनानामबहुप्रकृत्यर्थः पाठः। अन्येषां कुब्जवामनादीनामप्राप्ते वचनम्। यथोच्चारितं द्वन्द्ववृत्तमिति। गणे याद्दशाः कृतावङादेशाः पठितास्ताद्दशानामेव द्वन्द्ववृत्तं द्वन्द्वकार्यमेकवद्भावलक्षणं भवति। रूपान्तरेष्विति। `अवङ् स्फोटायनस्य' इति विकल्पितत्वाद्यदा नास्ति तदेत्यर्थः। एतेन गणपाठे रूपमेषां विवक्षितम्, न पूर्वोत्तरपदनिर्देशमात्रे तात्पर्यमित्युक्तं भवति।।
विभाषा वृज्ञमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडपूर्वापराधरोत्तराणाम्।। 2.4.12 ।।
विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडपूर्वापराधरोत्तरणाम्।। अत्र वृभादिभिः प्रत्येकं द्वन्द्वे विशेष्यते। न चैको वृक्षशब्दो द्वन्द्वः, न च द्वयोः सहप्रयोगः, एकशेषात्। न च पर्यायाणामपि सहयोगः, विरूपाणामपि समानार्थानाम्' एकशेषवचनात्, नापि विशेषेण सहप्रयोगः----वृक्षश्च धवश्चेति, वृक्षशब्देनैवाशेषविशेषाक्षेपाद्धवादिशब्दप्रयोगस्य निष्फलत्वात्। कथं तर्हि `गोबलीवर्दौ' इत्यादौ सामान्यविशेषयोः सह प्रयोगः? बलीवर्दशब्दसंनिधौ गोशब्दस्य स्त्रीगवीष्वेव वृत्तेर्द्धयोरपि विशेषवचनत्वादिति चेद्, इहापि तर्हि धवपदसंनिधौ वृक्षशब्दस्य तद्व्यतिरिक्तविषयतया द्वन्द्वप्रसङ्गः? किं च वाक्येऽपि कथं सहप्रयोगः----ब्राह्मणा आगता वसिष्ठोऽप्यागत इति ? प्रादान्यख्यापनार्थमुक्तार्थस्यापि प्रयोग इति चेद्, द्वन्द्वेऽपि तर्हि प्राप्नोति। तस्मानदनभिधानमेवाश्रयणीयम्, न हि वृक्षधवमिति लोकेऽभिधानमस्ति, अतो वृक्षविशेषवाचिनां ग्राहणम्। एवं मृगादिष्वपि द्रष्टव्यम्।
इत्येतेषां द्वन्द्व इति। एतेषामित्येकापि षष्ठी विषयभेदाद्भिद्यते---वृक्षादीञ्छकुनिपर्यन्तान्प्रत्यवयवषष्ठी, अश्ववडवादीन् प्रति निर्द्धारणषष्ठी। येऽत्राप्राणिनस्तेषां `जातिरप्राणिनाम्' इति नित्यं समाहारद्वन्द्वे प्राप्ते उभयत्र विधीयते । यो विभाषाप्राप्तैकवचनो द्वन्द्वः स एषां भवतीति वचनव्यक्त्याश्रयणेन तेषामेव वृक्षादीनामन्यैः सह द्वन्द्वे यथाप्राप्तं नित्यो विकल्पितो वा एकवद्भावो भवति----व्रीहिकुशप्लक्षमिति, `जातिरप्राणिनाम्' इति नित्यः, प्लक्षशब्दस्पर्शा इत्यत्राद्रव्यवाचित्वात्`जातिरप्राणिनाम्' इत्यस्याप्रवृत्तौ `चार्थे द्वन्द्वः' इत्युभयत्र प्राप्तो भवति। पशुग्रहणं हस्त्यश्वादिषु परत्वात् सेनाङ्गलक्षणस्य नित्यविधेर्बाधनार्थम्।
मृगशकुनिग्रहणं किमर्थम्, न ह्येतेषामनेन प्रकरणेन नित्य एकवद्भावः प्राप्तः, यद्वाधनाय विकल्पोऽभ्यनुज्ञायते, अन्यत्र प्राप्त्यभावादेषामुभयत्रैव द्वन्द्व इति नियमो न सम्भवति? अथैषामेवोभयत्र द्वन्द्व इति नियमः स्यात्, क्व तर्ह्येषां स्यात्? क्वचिदिति चेत्, यद्येवम्, `चार्थे द्वन्द्वः' इति सामान्यलक्षणमनवकाशस्यात्, विषिष्टविधानमेव तदानीमाश्रयणीयं स्यात् प्राण्यङ्गादीनां समाहारे दधिपयआदीनामितरेतरयोगे वृक्षादीनामुभयत्रेति? अथैषामेवोभयत्रेत्यनेनान्येषामुभयत्रापि द्वन्द्वो वार्यते, अन्यतरत्र तु भवत्येव। एवमपि क्वान्यत्रेति न ज्ञायते, `सर्वो द्वन्द्वो विभाषयैकवद्भवति' इति चानुपपन्नं स्यात्? उच्यते---यत्तुल्यजातीयानामेवायं विकल्पस्तत्रैव नियमः प्रवर्तते---मृगविशेषवाचिनां मृगविशेषवाचिभिरेवोभयत्र द्वन्द्वः, अन्यैस्तु सहान्यतरत्रेति। नन्वेमपि न ज्ञायते---क्वान्यतरत्रेति, स्यादेतद् एवम्, यद्युभयत्रैषां द्वन्द्व इति श्रुतं स्यात्। इह तु विभाषैकवचनो द्वन्द्व इति श्रूयते, ततश्च यो विभाषाप्राप्त एकवचनो द्वन्द्वः स मृगविशेषवाचिनां मृगविशेषवाचिभिरेव नान्यैरिति वचनव्यक्तौ व्यक्तमेव ज्ञायते---अन्यैः सहेतरेतरयोगद्वन्द्व इति। अथास्यां वचनव्यक्तौ विभाषाग्रहणं किमर्थम्, यावता विभाषैवैकवचनान्तो द्वन्द्वः प्राप्तस्तत्रैतावदेवास्तु--य एकवचनो द्वन्द्वः स एषामेभिरेवेति ? उच्यते---असति विभाषाग्रहणे वचनव्यक्त्यन्तरमपि सम्भाव्येत---एषामेभिः सहैकवचन एव द्वन्द्व इति, यथा प्राण्यङ्गदिषु। सति तु तस्य नियमस्यासम्भवादभिमतो नियमः संपद्यते। एवं पूर्वापरम्, अधरोत्तरमित्यत्रापि नियमस्वरूपं विज्ञेयम्।
`पशुद्वन्द्व' इत्येव सिद्धेऽश्ववडवग्रहणं प्रतिपदविधानार्थम्। तत्र प्रतिपदविधानादश्वव़डवमित्येकवद्भावपक्षे `पूर्ववदश्वडवौ' इत्येतद्वाधित्वा `स नपुंसकम्' इत्येतदेव भवति, तच्छब्देन ह्येकवद्भावभाजं परामृश्य विधीयमानं नपुंसकत्वमेकवद्भाववदेव प्रतिपदविहितं भवति। `पूर्ववदश्ववडवौ' इत्येतत्तु एकवद्भावाभावपक्षे प्रवर्तते----अश्वडवौ, अश्ववडवान् इति। एतदेवाभिप्रेत्य वृत्तिकारस्तत्र वक्ष्यति---अश्ववडवयोर्विभाषैकवद्भाव उक्त इत्यादि।
बहुप्रकृतिरिति। बहवो बहुत्वसंख्यायुक्ता वर्त्तिपदार्थाः प्रकृतिः कारणं यस्य द्वन्द्वार्थस्य स बहुप्रकृतिः, तदर्थाभिधायित्वाद् द्वन्द्वोऽपि बहुप्रकृतिः। नेदं स्वतन्त्रं लक्षणम्, स्वातन्त्र्ये नित्यं चेद्वनस्पत्यादीनामपि एतत्सूत्रविहितं विकल्पं बाधित्वा बहुप्रकृतित्वे नित्य एकवद्भावः स्यात्, विकल्पे फलादीनामपि `जातिरप्राणिनाम्' इत्यादिलक्षणान्तरेण प्राप्तं नित्यमेकवद्भावं बाधित्वा बहुप्रकृतित्वे विकल्पः स्यात्। अतो लक्षणान्तरस्य शेषोऽयम्। तत्रापि यदि `विभाषा वृक्ष' इत्यत्र पठितत्वादस्यैव शेषत्वं स्यात्ततो वनस्पत्यादिष्वबहुप्रकृतित्वे एवद्विकल्पाभावेऽपि `जातिरप्राणिनाम्' इति नित्यो विधिः स्यात्, फलादिषु तु न दोषः; एतद्विकल्पप्राप्त्यभावाल्लक्षणान्तरप्राप्तेरेव नियमनात् तस्मात्सर्वस्यैव प्रकरणस्यार्थशेषस्तदेतदाह---एषां बहुप्रकृतिरेवेति। एषां फलादीनां द्वन्द्वोऽनेन लक्षणान्तरेण वा एकवद्भवन् बहुप्रकृतिरेवैकवद्भवतीत्यर्थः। बदरामलके इति। अत्र `जातिरप्राणिनाम्' इति न भवति। रथिकाश्वारोहाविति। अत्र सेनाङ्गलक्षणः। प्लक्षन्यग्रोधाविति। अत्रायं विकल्पः, `जातिरप्राणिनाम्' नित्यश्च न भवति। अवनस्पतीनां तु वृक्षिविशेषाणामबुहुप्रकृतित्वेऽप्ययं विकल्पो भवत्येव---आम्रपलाशम्, आम्रपलाशौ। अन्ये तु वनस्पतिग्रहणं वृक्षमात्रोपलक्षणं मन्यन्ते। रुरुपृषतौ, हंसचक्रवाकाविति। अत्राप्यस्य विकल्पस्याभावः। यूकालिक्षे इति। `क्षुद्रजन्तवः' इत्यस्याभावः। व्रीहियवौ, कुशकाशावित्यत्र तूभयोः।।
विप्रतिषिद्धं चानधिकरणवाचि।। 2.4.13 ।।
विप्रतिषिद्धं चानधिकरणवाचि।। पस्परविरुद्धमिति। सहानवस्थानादिलक्षणो विरोधः, `विप्रतिषिद्धानाम्' इत्यादिसूत्रे तु तद्वाच्यवयवत्वाद् द्वन्द्वरूपमेव तथोक्तमिति भावः। अद्रव्यवाचिनामिति। एतेनाधिकरणशब्दो द्रव्ये वर्तते, नाधार इति दर्शयति। न हि द्वन्द्वावयवानामाधारे वृत्तिः सम्भवति; विभक्त्यर्थत्वादाधारस्येति भावः। अयमपि नियमार्थः प्रारम्भ; नियमस्वरूपं च---य एकवचनो द्वन्दो विभाषाप्राप्तः स यदि विप्रतिषिद्धवाचिनां भवत्यद्रव्यवाचिनामेव, द्रव्यवाचिनां त्वितरेतरयोग इति।।
न दधिपय आदीनि।। 2.4.14 ।।
न दधिपय आदीनि।। यथायथमिति। व्यञ्जनत्वाद्विकल्पस्य प्राप्तिस्तत्रादितिस्त्रिषु, पूर्वसूत्रविकल्पस्य शुक्लकृष्णाविति, न त्विह। यद्येवम्, प्रतिषिद्धेऽस्मिन्विकल्पे जातिलक्षणो नित्यः स्यादेकवद्भावः? परिहारोऽत्र वक्ष्यते---स्त्रियां यदुक्तं तन्नेति। यथा षट्स्वभिधास्यते तथात्राप्येकवद्भावमात्रमेव निषिध्यते । किं च, ब्रह्मप्रजापत्यादिष्वत्र पठितेषु समाहारद्वन्द्वनिषेधमुखेनेतरेतयोगद्वन्द्वो व्यवस्थाप्यते, तत्साहचर्यादेतेष्वपि चतुर्षु तदेव युक्तम्।।
अधिकारणैतावत्त्वे च।। 2.4.15 ।।
  अदिकारणैतावत्त्वे च।। वृत्तिर्वर्तः= समासः, सोऽस्यास्तीति समासावयवभूतं वर्त्तिपदम्, तस्यार्थोऽधिकरणमित्युच्यते, कथं पुनस्तदधिकरणमित्याह--स हीति। नियमस्य चात्र प्रतिषेधः प्राण्यङ्गादीनां समाहार एवेति नियमो वर्त्तिपदार्थस्येयत्तायां गम्यमानायां न भवतीति, न पुनः पूर्वसूत्रवत्समाहारद्वन्द्वस्य प्रतिषेधः। यद्येवम्, प्रतिषिद्धेऽपि नियमे `दश दन्तोष्ठाः' इत्यधिकरणैतावत्त्वेऽपि `चाथे द्वन्द्वः' इत्यनेन समाहारेऽर्थे द्वन्द्वः स्यादेव, ये चात्र प्रकरणेऽसंकीर्त्तितास्तेषु नियमस्याप्रसङ्गादसत्यस्मिन्प्रतिषेधे `चार्थे द्वन्द्वः' इत्यनेन समाहारे द्वन्द्वः स्यादेव---दश ब्राह्मणक्षत्त्रिया इति, अतः प्रकृतानामन्येषां च सर्वेषामेकवचनो द्वन्द्वो न भवति, `अधिकरणैतावत्त्वे' इति समाहारद्वन्द्व एव प्रतिषेध्यः? उच्यते---`अधिकरणं वर्त्तिपदार्थः' इत्युक्तम्, न च समाहारद्वन्द्वे वत्तिपदार्थस्यैतावत्त्वं शक्यं प्रतिपादयितुम्, दशादिशब्दप्रयोगेऽपि हि तस्यैव द्वन्द्वार्थस्य समाहारस्य सङ्ख्याविशेषोऽवगम्यते, न वर्तिपदार्थस्य, यथा द्विगौ---दशपञ्चपूल्य इति। अतो वर्तिपदार्थस्य सङ्ख्याविशेषं प्रतिपिपादयिषताऽवश्यमितरेतरयोग द्वन्द्वो विधेय इति दशब्रह्माणक्षत्त्रिया इत्यादौ तावददोषः। यद्येवम्, अनेनैव न्यायेन `दश दन्तोष्ठः' इत्यादावपि समाहारद्वन्द्वो न भविष्यतीति नार्थः प्रतिषेधेन? मैवम्; असत्यस्मिन्प्रतिषेधे प्राण्यङ्गादीनां समाहार एवेति नियमादितरेतरयोगद्वन्द्वो न स्यात्। न च समाहारद्वन्द्वे दशादिप्रयोगेऽपि वर्त्तिपदार्थस्य सङ्ख्याविशेषः प्रतिपादयितुं शक्य इति अधिकरणैतावत्त्वे प्रतिपिपादयिषिते द्वन्द्व एव न स्यादित्यारभ्यः प्रतिषेधः। दश दन्तोष्ठा इति। अत्र दशशब्दस्य प्रत्येकं सम्बन्धाद्वर्त्तिपदार्थस्येयत्ता गम्यते, समुदायसम्बन्धेऽपि दन्तोष्ठात्मकवर्त्तिपदार्थगतैव सङ्ख्या।।
विभाषा समीपे।। 2.4.16 ।।
विभाषा समीपे।। `अधिकरणैतावत्त्वे' इत्यधिकारात्समीपरूप एतस्मिन्निति गम्यते, वृत्तौ त्वर्थमात्रं दर्शितम्। अधिकरणैतावत्त्वस्य समीप इति। अत्र च भावप्रधानः समीपशब्दः, अधिकरणैतावत्त्वस्य सामीप्ये परिच्छित्तावित्यर्थः। अत्र विस्पष्ट एव नियमस्य प्रतिषेधः, न हि विभाषा समाहारद्वन्द्वः प्रतिषेध्यः। अव्ययीभावो विहित इति। `अव्ययं विभक्ति' इत्यादिना। यद्यप्यत्र सङ्ख्ययेति नास्ति, सङ्ख्ययापि तु भवत्येव। बहुव्रीहिरिति। `सङ्ख्ययाव्ययासन्न' इत्यादिना। तत्रैकवद्भावपक्षेऽव्ययीभावोऽनुप्रयुज्यत इति एकार्थस्यैकार्थ इति भावः। ऐकार्थ्यञ्च तस्य सामीप्यप्रधानत्वात्। यद्यप्यव्ययीभावोऽव्ययत्वान्निः----सङ्ख्यस्तथापि भेदाभावरूपमैकार्थ्यमस्त्येव। सामानाधिकरण्यं च सामीप्यतद्वतोरभेदाश्रयेण प्रतिपाद्यम्। अधिकरणैतावत्त्वमपि समाहारसमाहारिणोर्भेदाविवक्षयैवोपपाद्यम्। इतरत्र बहुव्रीहिरिति। बह्वर्थस्य बह्वर्थ इति भावः। बह्वर्थत्वं च तस्य समीपिप्रधानत्वात्। ननु द्वन्द्वार्थस्यैकवद्भावादनुप्रयोगस्याप्येकवचनता सिद्धा, किमेतया क्लिष्टकल्पनया? उच्यते--अव्ययीभावस्यैवानुप्रयोगे तस्याव्ययत्वा द्वहुत्वाभावाद् बहुवचनं न स्यात्,सत्यपि वा तस्मिन्नम्भावे कृते उपदशा इति न स्यात्। बहुव्रीहेरेव चानुप्रयोगे उपदशस्य पाणिपादस्येति षष्ठी स्याद्, उपदशम्पाणिपादस्येति चेष्यते; अतो यथोक्तमेव साधीयः।।
स नपुंसकम्।। 2.4.17 ।।
स नपुंसकम्।। परवल्लिङ्गतापवादो योगः। सग्रहणं व्यवहितस्य द्विगोरपि यथा स्याद्, अन्यथाऽव्यवहितस्य द्वन्द्वस्यैव स्यात्, नैतदस्ति; एकवचनमित्येतावन्मात्रमेवापेक्षिष्यामहे, नैकवचनविशेषं द्वन्द्वम्। एवं तर्हि योऽत्र प्रकरणेऽसङ्कीर्तितः समाहारद्वन्द्वस्तस्यापि यथा स्यात्? अन्यथा प्रकृतस्यैव द्वन्द्वस्य द्विगोश्च स्यात्। ननु प्रकरणमपि नापेक्षिष्यते, यद्येवम्, एकसङ्ख्य इत्यादावेकार्थस्य स्यात्, अतोऽवश्यापेक्ष्यं प्रकरणम्। तस्मिंश्चापेक्ष्यमाणे प्राण्यङ्गादिसम्बन्धादिरूपेण द्वन्द्वः प्रकृत इति तस्यैव स्यात्। स इत्येतस्मिंस्तु सति अपेक्ष्यमाणेऽपि प्रकरणे प्राण्यङ्गादिसम्बन्धपरित्यागेन योऽत्र प्रकरणे संकीर्तितो द्वन्द्वो द्विगुश्च `स नपुंसकम्' इति सर्वस्य समाहारद्वन्द्वस्य नपुंसकत्वं लभ्यते, एकादौ चातिप्रसङ्गो न भवति। तथा च `युवोरनाकौ' इत्यादावुच्यते---युवोरिति समाहारद्वन्द्वे स नपुंसकप्रसङ्गः। अतो यावान्कश्चन समाहारद्वन्द्वः प्राण्यङ्गादिसम्बन्धी, अन्यो वा, सर्वस्यास्य नपुंसकत्वं विधीयत इति सिद्धम्।
अकारान्तोत्तरपद इति। अत्रात इत्यधिकारे `द्विगोः' इति ङीब्विधानं लिङ्गम्। पञ्चखट्वीति। स्त्रीत्वपक्षे उपसर्जनह्रस्वत्वम्।
अनो नलोपश्चेति। `उत्तरपदत्वे चापदादिविधौ' इति प्रत्ययलक्षणप्रतिषेधात्पदत्बाभावान्नलोपवचनम्।
पात्रादिभ्य इति तादर्थ्य एषा चतुर्थी पात्राद्यन्तानां द्विगूनां सिद्धय इत्यर्थः। पात्रादिराकृतिगणः।।
अव्ययीभावश्च।। 2.4.18 ।।
अव्ययीभावश्च।। पूर्वपदार्थप्रघानस्येति। अधिस्त्रीत्यादौ पूर्वपदार्थस्यालिङ्गत्वादिलिङ्गतैव प्राप्नोति। अन्यपदार्थप्रधानस्येति। उन्मत्त्गङ्गमित्यादेः. पुष्याहमिति। कर्मधारये `राजाहः सखिभ्यष्टच्', `रात्राह्नाहाः पुसि' इत्यस्यापवादः। सुदिनमिति। सुदिनशब्दः प्रशस्तवचनः। सुदिनासु समासु कार्यमेतदिति तथा। त्रिपथमिति। षष्ठीसमासः। द्विगोः पात्रादित्वात्सिद्धम्। विरूपः पन्था विपथम्,प्रादिसमासः।
क्रियाविशेषणानां चेति। क्रियाद्वारेण स्त्रीलिङ्गत्वे प्राप्ते वचनम्।।
तत्पुरुषोऽनञ्कर्मधारयः।। 2.4.19 ।।
तत्पुरुषोऽनञ्कर्मधारयः।। असन्देहार्थं नञ्कर्मधारयस्तत्पुरुष इत्यन्यासादनञ्कर्मधारय इति पदच्छेदः। अत्र कर्मधारयशब्दो भावप्रधानः, नञ्च कर्मधारयश्च नञ्कर्मधारयौ, तौ न विद्येते यस्मिंस्तत्पुरुषे सोऽनञ्कर्मधारय इति बहुव्रीहिः। तत्पुरुषे त्वस्मिन्नञ्मात्रस्य तत्पुरुषस्याभावात्तद्युक्ततत्पुरुषो नञ्शब्देन लक्षणोयः स्यात्, लिङ्गवचनयोश्चान्यतरस्य व्यत्ययो वाच्यः स्यात्, अतो बहुव्रीहिरेव न्याय्यः। वृत्तौ वस्तुमात्रं दर्शितम्---नञ्समासं कर्मधारयं च वर्जयित्वेति। विभाषा सेनेति। अनन्तरेषु सूत्रेष्वस्य नातीवोपयोगः, `सञ्ज्ञायां कन्था' इत्यत्र तावदनादिः सञ्ज्ञा गृह्यते, न वा तत्पुरुषो नञ्समासः कर्मधारयो वा उशीनरेषु सञ्ज्ञास्ति, उपज्ञोपक्रममित्यत्रापि षष्ठीतत्पुरुषाद्विना तदादित्वासम्प्रत्ययः। `छाया बाहुल्ये' इत्यत्रापि पूर्वपदार्थधर्मो बाहुल्यं षष्ठीतत्पुरुषमन्तरेण न गम्यते। सभाराजेत्यत्र तु राजाऽमनुष्यपूर्वेति वचनान्नञ्समासस्य कर्मधारयस्य च सभान्तस्याप्रसङ्गः। द्वन्द्वस्य तु प्राप्नोति---ईश्वरश्च सभा च ईश्वरसभे इति, अतस्तत्रापि तत्पुरुष इत्यस्यांशस्योपयोगोऽस्त्येव। `अशाला च' इत्यत्र समूहवचनः सभाशब्दः, समूहस्य च समूह्यपेक्षा स्फुटतरेति षष्ठी तत्पुरुषस्यैव भविष्यति, नान्यस्य, ब्राह्मणश्च सभा च ब्राह्मणसभे, असभा, परमसभेति। अतः `विभाषासेना' इत्यत्रैवास्य साक्षादुपयोग इति भावः।।
संज्ञायां कन्थोशीनरेषु।। 2.4.20 ।।
संज्ञायां कन्थोशीनरेषु।। तत्पुरुषस्य कन्थया विशेषणात्तदन्तविधिरित्याह---कन्थान्तस्तत्पुरुष इति। सौशमिकन्थमिति। सुशमस्यापत्यानि सौशमयः।।
उपज्ञोपक्रमं तदाद्याचिख्यासायाम्।। 2.4.21 ।।
उपज्ञोपक्रमं तदाद्याचिख्यासायाम्।। उपज्ञायत इत्युपज्ञेति। कर्मणि `आतश्चोपसर्गे' इत्यङ्प्रत्ययः। उपक्रम्यत इत्युपक्रम इति कर्मण्येव घञ् । `नोदात्तोपदेशस्य' इति वृद्धिप्रतिषेधः। उपज्ञा चोपक्रमश्चेति समाहारद्वन्द्वः। तदन्तस्तत्पुरुष इति। सूत्रे तु उपज्ञोपक्रमं तत्पुरुषरूपमित्येवं सामानाधिकरण्येन विशेषणम्,तयौरुपज्ञोपक्रमयोरित्यादेर्विवरणम्---यदीति। आदिः=प्राथम्यम्। पाणिन्युपज्ञमिति। कर्तरि षष्ठ्याः समासः। पूर्वाणि व्याकरणान्यद्यतनादिकालपरिभाषायुक्तानि, तद्रहितं तु व्याकरणं पाणिनिप्रभृतिप्रवृत्तमित्यस्ति तदादित्वस्याख्यानम्। व्याड्यु पज्ञमिति। अडः वृश्चिकलाङ्गूलम्, तेन च तैक्ष्ण्यं लक्ष्यते, विगताडो व्यडः, तस्यापत्यंव्याडिराचार्यः। स्वागतादिपाठात् `न य्वाभ्याम्' इत्येष विधिर्न भवति। दुषिति सङ्केतशब्दः, यथात्र वृत्करणम्। नन्दो राजा। मानानि प्रस्थादीनि। वाल्मीकिश्लोका इति षष्ठीसमासः। अस्त्यत्र तदादित्वस्याचिख्यासा; वाल्मीकिः प्रथमं श्लोकप्रबन्धं ददर्शति प्रसिद्धेः। देवदत्तो यज्ञदत्तेनोपज्ञायते यज्ञदत्तेनोपक्रम्यते इति क्रियासम्बन्धमात्रमत्र विवक्षितम्।।
छाया बाहुल्ये।। 2.4.22।।
छाया बाहुल्ये।। पूर्वपदार्थधर्मो बाहुल्यमिति। कथम्? बाहुल्य इति निमित्तसप्तमी। बाहुल्ये सति या छाया तद्वाची यश्छायाशब्दस्तदन्तस्तत्पुरुष इति सूत्रेऽक्षरान्वयः। तत्र कस्य बाहुल्यमित्यपेक्षायामावारकरद्रव्यनिमित्तकत्वाच्छायायास्तद्वाहुल्य इति गम्यते। तेन यानि बहूनि सम्भूयोपलम्भयोग्यामुपजीव्यां वा छायामारभन्ते तेष्वयं विधिः।।
सभा राजाऽमनुष्यपूर्वा।। 2.4.23 ।।
सभा राजामनुष्यपूर्वा।। इह सभाशब्दः शालावचनः। इह कस्मान्न भवतीति। `स्वं रूपम्' इति वचनादिहैव भवितुं युक्तमिति प्रश्नः। पर्यायवचनस्यैवेति। न स्वरूपस्य, नापि विशेषाणां चन्द्रगुप्तादीनामित्यर्थः। एतदेवाप्तोक्तेन द्रढयति----तदुक्तमिति। कथं पुनरेतल्लभ्यते? द्वावत्र नञौ---अराजपूर्वा, अमनुष्यपूर्वाचेति, तत्र नञिवयुक्तन्यानयेन राजशब्दसद्दशाः पर्याया एव गृह्यन्ते, अमनुष्यशब्दो रूढिरूपेणेति। कथं तर्हि `अमनुष्यकर्तृके च' इत्यत्र पित्तघ्नं घृतमित्युदाहरिष्यते? व्याख्यानात्तत्र मनुष्यादन्यमात्रस्य ग्रहणं न रूढिरित्यर्थः।।
अशाला च।। 2.4.24 ।।
अशाला च।। सभाशब्दोऽयं शालावचनः, संघवचनश्च, तत्र शालाप्रतिषेधादितरस्य ग्रहणमित्याह---संघातवचन इत्यादि। तत्र पूर्वसूत्रेण राजामनुष्यपूर्वत्वे शालावचनस्यापि भविष्यति, अशालावचनस्य त्वनेन राजामनुष्यपूर्वत्वाभावेऽपीति।।
विभाषा सेनासुराच्छायाशालानिशानाम्।। 2.4.25 ।।
विभाषा सेनासुराच्छायाशालानिशानाम्।। तत्पुरुष इति प्रकृतं षष्ठीबहुवचनान्तं विपरिणम्यते, नपुंसकमिति च भावप्रधानं संपद्यते। सेनाद्यन्तानां तत्पुरुषाणां नपुंसकत्वमित्यक्षरार्थः। वृत्तौ तु वस्तुमात्रं दशितम्। यद्वा---प्रथमास्थाने षष्ठी। कुड्यच्छायमिति। बाहुल्याभावेऽनेन विकल्पः, बाहुल्ये नित्यार्थम् `छाया बाहुल्ये' इत्युक्तम्। श्वनिशमिति। यस्यां निशायां श्वान उपवसन्ति सा श्वनिशमित्युच्यते। सा पुनः कृष्णचतुर्दशी तस्यां हि श्वान उपवसन्तीति प्रसिद्धिः।।
परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः।। 2.4.26 ।।
परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः।। किमर्थमिदम्? इह द्वन्द्वे त्रीणि दर्शनानिअवयवार्था एवापेक्षितपरस्पराः द्वन्द्वार्थो न तु तद्व्यतिरिक्तः समुदायो नामेत्येकम्; अवयवार्थव्यतिरिक्त एव समुदायो द्वन्द्वर्थः, स चावयवलिङ्गेन लिङ्गवानिति द्वितीयम्; स एव स्वयं लिङ्गशून्य इति तृतीयम्। तत्र पूर्वके दर्शनद्वये विभिन्न लिङ्गावयवद्वन्द्वे युगपदुभयलिङ्गतानुपपत्तेः पर्यायेण लिङ्गद्वयप्रसङ्गे परस्यैव लिङ्गं भवतीति नियमार्थ भवति। तृतीये तु समासार्थस्यालिङ्गस्य परवल्लिङ्गता भवतीति विध्यर्थः। तत्पुरुषोऽपि द्विविधः----पूर्वपदार्थप्रधानोऽर्धपिप्पाल्यादिः; उत्तरपदार्थप्रधानो राजकुमार्यादिः। तत्रोत्तरपदार्थप्रधाने प्राधान्यादेव परवल्लिङ्गस्य सिद्धत्वात्पूर्वपदार्थप्रधाने विध्यर्थ भवति। तत्र वृत्तिकारेण विधिपक्ष आश्रितस्तदाह---परस्य यल्लिङ्गं तद्भवतीति। एवं हि सूत्रस्यैकरूपा वचनव्यक्तिर्भवति, इतरथा तत्पुरुषे विधिरूपा द्वन्द्वे नियमरूपेति वचनव्यक्तिभेदः स्यादिति भावः। द्वन्द्वस्य तत्पुरुषस्य वेति। एतेन द्वन्द्वतत्पुरुषयोरिति षष्ठीयमिति दर्शयति। सप्तम्यां त्वयमर्थो भवति---द्वन्द्वे तत्पुरुषे च यत्परं तद्वल्लिङ्गं भवतीति। तत्र कार्यिणोऽनुपादानात्परशब्दत्वात्तदाक्षिप्तस्य पूर्वपदस्य लिङ्गविधिर्भवति।
यद्वा---द्वन्द्वे तत्पुरुषे च विषये परस्यैव लिङ्गं भवतीत्यक्षरार्थः। तत्रापि पूर्वपदस्यैव लिङ्गविधिः। अत्र पक्षे मयूरीकुक्कुटावित्यत्रोत्तरपदार्थलिङ्गे पूर्वपदार्थस्यातिदिष्टे स्त्रीप्रत्ययस्य निवृत्तिः प्राप्नोति; कुक्कुटमयूर्यौ, राजकुमारी, अर्द्धपिप्पलीत्यादौ पूर्वपदे स्त्रीप्रत्ययप्रसङ्गः। कि पुनरस्मिन्पक्षे किंचिदिष्टं सिध्यति? आहोस्विद्दोषान्तमेव? सिध्यतीत्याह। इह पूर्वकायः अर्धद्रोण इति, यत्र पूर्वपदं नपुंसकमुत्तरपदं च पुंल्लिङ्गम्, तत्र परस्य लिङ्गे पूर्वस्यातिदिष्टे समासस्यापि तदेव भवति, न च पूर्ववदिह किंचिदनिष्टमापद्यते। द्वन्द्वेऽपि पूर्वके दर्शनद्वये गुणकर्मणी द्रव्यगुणावित्यादौ यत्र पुंनपुंसकाभ्यां भिन्नलिङ्गे पूर्वोत्तरपदे, यत्र वाऽवर्णान्तं स्त्रीप्रत्ययान्तं वा पदं न भवति----गतिस्थाने, योषित्पूरुषौ, तित्तिरिबलाके इति, तत्रोत्तरपदार्थलिङ्गे पूर्वपदार्थस्यातिदिष्टे द्वन्द्वस्य पर्यायेण द्वयोरपि लिङ्गे प्रवृत्तेऽपि सर्वमिष्टं सिध्यति, पूर्ववदेव न किं ञ्चिदनिष्टमापद्यते। `व्यतिरिक्तो द्वन्द्वार्थः स्वयं लिङ्गशून्यः' इत्यत्र तु पक्षे द्वन्द्वार्थस्यालिङ्गत्वं तदवस्थमेवेति दोषान्तमेव। द्वन्द्वस्य तत्पुरुषस्य चेति। द्वन्द्वार्थस्य तत्पुरुषार्थस्य चेत्यर्थः। तेनानुप्रयोगेऽपि तदेवं लिङ्गं भवति। यदि तर्हि षष्ठ्याश्रयणेन समासार्थस्य परवल्लिङ्गमतिदिश्यते, `पूर्ववदश्ववडवौ' इत्यत्रापि पूर्वपदार्थलिङ्गं समासार्थेऽतिदिश्यते, ततश्चोत्तरपदार्थस्य स्त्रीत्वं स्थितमेवेति टापः श्रवणप्रसङ्गः। सप्तमीपक्षे तु `पूर्ववदश्ववडवौ' इत्यत्रापि पूर्वपदार्थलिङ्गमुत्तरपदार्थस्यातिदिश्यत इति वडवाशब्दस्य पुंस्त्वातिदेशात् स्त्रीत्वाभावे टापोनिवृत्तिः सिध्यति। निपातनात्सिद्धम्। किं निपातनम्? न तावत् `पूर्ववदश्ववडवौ' इति निपातनमाश्रयितुमुचितम्, वचनान्तरेऽनतिदेशप्रसङ्गाद् अश्ववडवान्, अश्ववडवैरिति। एवं तर्ह्यश्ववडवपूर्वापराधरोत्तराणामित्यत्र टापोऽनुच्चारणान्निपातानादश्ववडवयोर्द्वन्द्वे टाब्निवर्तिष्यते।
अपर आह---`चार्थे द्वन्द्वः' इत्यत्रानेकमित्यधिकारात्सर्वेषामेव वर्तिपदार्थष्यति। इहापि तर्हि प्राप्नोति----कुक्कुटमयूर्याविति? अस्तु, का रूपसिद्धिः? परवल्लिङ्कमिति शब्दशब्दार्थो, कोऽर्थः? लिङ्गशब्देन लिङ्गाभिधायी प्रत्ययोऽर्थश्चतन्त्रेणैकशेषेण वाच्यते। तदयमर्थो भवति---द्वन्द्वार्थस्य तत्पुरुषार्थस्य परस्येव लिङ्गं भवति, तदभिधायी प्रत्ययश्च परस्यैव भवति ताभ्यामिति। तत्र च यत्र द्रव्यगुणौ गुणकर्मणी----अर्द्धद्रोण इत्यादौ, लिङ्गाभिधायी प्रत्ययो न संभवति तत्रार्थ एवातिदिश्यते, उभयसम्भवे तूभयम्---यथा कुक्कुटमयूर्याविति, ततश्चौपदेशिकस्य ह्रस्वत्वेऽप्यातिदेशिकस्य श्रवणं भविष्यति; तस्य चानुपसर्जनत्वात्तदन्तस्य चाप्रातिपदिकत्वात्पुनर्ह्रस्वत्वाभावः। इह तर्हि दत्तागार्ग्यायण्यौ, दत्ताकारीषगन्ध्ये इति ह्रस्वत्वे कृते समासात्पुनः ष्फष्यङौ प्राप्नुतः? स्ताम्, `भस्याऽढे तद्धिते' इति पूर्वोत्पन्नयोर्निवृत्तिर्भविष्यति। यत्र तर्हि पुंवद्भावो नास्ति अभत्वाद्, यथा---दत्ता च युवतिश्च दतायुवती इति, तत्र द्वयोः स्त्रीप्रत्यययोः श्रवणप्रसङ्गः, तस्मादुपसर्जनह्रस्वत्वं द्वन्द्वे न भवति। अन्वर्था ह्युपसर्जनसंज्ञाऽप्रधानस्य विधीयते, द्वन्द्वे चावयवार्थानामेव कार्यान्वयादप्राधान्याभावः। परवल्लिङ्गमिति चार्थ एवातिदिश्यते, अश्ववडवाविति च निपातनादित्येतदेव सम्प्रति।
द्विगुप्राप्तापन्नेत्यादि। स तर्हि प्रतिषेधो वक्तव्यः? न वक्तव्यः, तत्पुरुषग्रहणं न करिष्यते, परवल्लिङ्गं द्वन्द्वस्येत्येव। कथं पूर्वकायः, अर्धपिप्पलीति? एकदेशिसमासो नारप्स्यते, कर्मधारय एवात्र भविष्यति---पूर्वश्चासौ कायश्च, अर्धं चासौ पिप्पली चेति। पूर्वादयः शब्दा एकदेशे वर्त्तन्ते, कायादयस्तु समुदाये, कथमेषां सामानाधिकरण्यम्? अवयवेन समुदायोपचारात्। तदेवं कर्मधारये कृते प्राधान्यादेवोत्तरपदार्थस्य लिङ्गं भविष्यति, नार्थस्तत्पुरुषग्रहणेन, नाप्येकदेशिसमासेन षष्ठीसमासप्रङ्गः इति चेन्न; इष्टत्वादनभिधानाच्च। तत्रैत्स्यात्--यद्यपि पूर्वकाय इत्यादीति रूपाणि कर्मधारयेणापि सिध्यन्ति, तथापि मुख्यार्थवृत्तिषु कायादिशब्देषु यथा पूर्वं कायस्येत्येवमादि वाक्यं भवति, तथा कायपूर्व इत्यादि षष्ठीसमासोऽपि स्याद्, अतस्तन्निवृत्तये एकदेशिसमास आरब्ध इति? तच्च नैवम्; इष्टत्वादनभिधानाच्च। तत्र तावद् `द्वितीयतृतीय' इत्यत्रान्यतरस्यांप्रहणात्सूत्रकारस्य षष्ठीसमास इष्टः---भिक्षाद्वितीयमिति, `अर्द्धं नपुंसकम्' इत्यत्रापि भाष्यकार आह---`इष्यतेऽत्र षष्ठी समासोऽपि, तद्यथा---अपूपार्धं मया भक्षितम्' इति। अस्ति च पैङ्गलेसूत्रे प्रयोगः---स्वरार्धं चार्यार्धमिति। पूर्वापरेत्यत्र त्वनभिधानात् षष्ठीसमासो न भविष्यति।।
पूर्ववदश्ववडवौ।। 2.4.27 ।।
पूर्ववदश्ववडवौ।। अश्वडवयोरिति। `विभाषा वृक्ष' इत्यत्र `पशुद्वन्द्व' इत्येव सिद्धेऽश्ववडवग्रहणं प्रतिपदविधानार्थम्, तत्र प्रतिपदविधानादश्ववडवमित्येकवद्भावपक्षे इमं विधं बाधित्वा `स नपुंसकम्' इत्येतदेव भवति। तच्छब्देन ह्येकवद्भावभाजं परामृश्य विधीयमानं नपुंसकत्वमप्येकवद्भाववदेव प्रतिपदविहितं भवति। यस्तु पूर्ववदित्यतिदेशः स एकबद्भावाभावपक्षे चरितार्थः, तदाह---तत्रैकवद्भावादन्यत्रेति। न निपातनमिति। निपातने हि पूर्ववदिति वचनमनर्थकम्, अविवक्षितमित्यर्थः। निपातने तु तद्विवक्षितं स्याद्, यथोच्चारितरूपविषयत्वान्निपातस्य।।
हेमन्तशिशिरावहेरात्रे च च्छन्दसि।। 2.4.28 ।।
हेमन्तशिशिरावहेरात्रे च च्छन्दसि।। हेमन्तशिशिराविति। अत्र नपुंसकत्वं प्राप्तं शिशिरशब्दस्य नपुंसकत्वात्। केचित्तु `हेमन्तः शिशिरोऽस्त्रियाम्' इत्युभयलिङ्गंमन्यन्ते, तेषामत्र हेमन्तशिशिरावित्यनर्थकम्। अहोरात्रे इति। अत्र `रात्राह्नाहाः पु`स' इति पुंस्त्वं प्राप्तम्। लिङ्गव्यत्यय उक्त इति । `व्यत्ययो बहुलम्' इत्यनेन।।
रात्राह्नाहाः पुंसि।। 2.4.29 ।।
रात्राह्नाहाः पुंसि।। इत्येते पुंसि भाष्यन्ते इति। केचिदाहुः---रात्रादीनामेवानेन पुंस्त्वं विधीयते, तदन्तस्य तु परवल्लिङ्गमित्येव सिद्धमिति। एवं तु समाहारे `स नपुसकम्' इत्येतदेव स्यात्, परवल्लिङ्गपवादत्वात्तस्य, तस्माद्रात्राद्यन्तस्य समासस्यैवेदं लिङ्गविधानं युक्तम्,। एवं हि समाहारेऽपि परत्वादिदमेव प्रवर्त्तते। इत्येते पुंसि भाष्यन्ते इत्यत्र त्वेतदन्ता इत्यर्थो द्रष्टव्यः। त्रिरात्र इति। समाहारे द्विगुः, `अहः सर्वैकदेशे' इत्यच् समासान्तः। पूर्वाह्ण इति। अह्नः पूर्वो भागः, एकदेशिसमासः। `राजाहः सखिभ्यष्टच्',`अह्नेह्न एतेभ्यः' इत्यह्नादेशः, `अह्नोऽदन्तात्' इति णत्वम्। द्व्यह इति। `न संख्यादेः समाहारे' इत्यह्नादेशाभावः, `अह्नष्टखोरेव' इति टिलोपः।
अनुवाकादयः पुंसिति। वाक्यविशेषस्य ताः संज्ञाः कर्मणि घञन्ता इति नपुंसकत्वे प्राप्ते वचनम्।।
अपथं नपुंसकम्।। 2.4.30 ।।
अपथं नपुंसकम्।। `पथः संख्याव्ययादेः' इत्यस्यापरकालभावित्वादयमारम्भः। अपथमिति। `पथो विभाषा' इति यदा समासान्तप्रतिधेषो न भवति तदा `ऋक्पूरब्धूः' समासान्तः। समासान्तनिर्देशाच्च तदभावपक्षे पुंस्त्वमेव भवति--अपन्था इति। तत्पुरुष इति वर्ततइति। एतदर्थमेव `स नपुंसकम्' इत्यस्यानन्तरं न कृतम्।।
अर्धर्चाः पुंसि च।। 2.4.31 ।।
अर्धर्चाः पुंसि च।। साहचर्याच्छत्त्रिन्यायेन कार्षापणादीनामप्यर्धर्चशब्देन ग्रहणमित्याह----अर्धर्चादय इति बहुवचनमत्र प्रमाणम्। शब्दरूपाश्रया चेयं द्विलिङ्गतेति। अस्मिंश्छब्दरूपे लिङ्गद्वयं भवतीत्येतावदत्र विवक्षितम्, न पुनरस्य शब्दस्य यावानर्थस्तत्र सर्वत्र लिङ्गद्वयं बवतीत्येवमपीत्यर्थः। किमेवं सति सिद्धं भवतीत्याह----क्वचिदिति। अर्थभेदेन व्यवस्थयापि भवल्लिङ्गद्वयं तत्रैव शब्दे संप्रवृत्तमिति भावः। अत्रोदहरणमाह---यथेति। `शङ्खः पद्मश्च विज्ञेयौ धनदस्य महानिधी'। क्रियाशब्दस्येति। तद्यथा---भूतं काण्डम्, भूता शाला, भूतो घट इति। यौगिकस्याभिधेयवल्लिङ्गमिति। यद्यपि लवणवृत्तेरपि सैन्धवशब्दस्य योगोऽपि निमित्तम्, तथापि रूढिशक्तिरपि तत्र निमित्तम्। अतो यौगिकस्येति केवलयोगनिमित्तस्येत्यर्थः। अभिधेयवल्लिङ्गमिति, यथा---सिन्धौ भवं सैन्धवं जलम्, सैन्धवो मत्स्यः, सैन्धवी शफरीति। उत्कर्षे तुंल्लिङ्ग इति। चन्दनसारः, खदिरसार इति। धर्म इत्यपूर्वे पुंल्लिगा इति। यागादिक्रियाजन्यः स्वर्गादिफलानुगुणः कर्तर्युत्पन्नः संस्कारविशेषः==अपूर्वम्। भाट्टास्तु अपूर्वसाधने यागादावेव धर्मशब्दं पुंल्लिङ्गम्मन्यन्ते----`चोदनालक्षणोऽर्थो धर्मः', `द्रव्यक्रियागुणादीनां धर्मन्वं स्थापयिष्यते' इति। शाबरेऽप्युक्तम्----`यो यागमनुतिष्ठति तं धार्मिक इत्याचक्षते' इति।।
इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ।। 2.4.32 ।।
इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ।। अन्वादेशोऽनुकथनमिति। शब्दार्थकथनमेतत्, याद्दशस्त्वत्राभिप्रेतस्ताद्दशं पश्चाद्वक्ष्यति। आभ्यां छात्त्राभ्यामिति। आदेश एषः। अथो आछभ्यामिति। एषोऽन्वादेशः। अथोशब्देन चात्रान्वादेशऽभिव्यज्यते।
ननु तृतीयादावयमादेशस्ततत्र च टायामोसि चैनादेशो वक्ष्यते, अन्याः सर्वा हलादयः, तत्र हलिलोपेनैवाभ्यामित्यादिरूपं सिद्धम्; नार्थ आदेशवचनेन, तत्राह--आदेशवचनमिति। अज्ञाताद्यर्थविवक्षायामकचि कृते `हलि लोपः' इत्यत्र `अनाप्यकः' इत्यतोऽक इत्यधिकारादिद्रूपलोपो न स्यात्, सत्यपि च तस्मिन्नाभ्यामित्यादि रूपं न सिद्ध्यत्; तस्मात्साकच्कार्थमादेशवचनम्। साच्कार्थे चास्मिन् शित्करणं सर्वादेशार्थम्, न वान्त्यस्य विकारवचनानर्थक्यात्। यदि ह्ययमन्त्यस्य विकारः स्याद्वचनमिदमनर्थकं स्यात्; त्यदाद्यत्वेनैव सिद्धेः। अर्थवद्वादेशप्रतिषेधार्थम्। अन्त्यस्यापि विकारवचनमर्थवदेव, येऽन्य आदेशा आभ्यामित्यादौ दीर्घादयस्ते मा भूवन्नित्यकारस्याप्यकारवचनं स्यात्, यथा---मोराजिसमः क्वौ' इति मकारस्य मकारवचनमनुस्वारनिवृत्त्यर्थम्। ननु च कृतेऽप्य कचि अनेनादेशे सत्याभ्यामित्यादिरूपस्य साधारण्या9दज्ञाताद्यर्थगतिः प्रकरणाधीना। यद्येवम्, अनुत्पत्तिरेवाकचोऽस्तु, प्रकरणादिनैवाज्ञाताद्यर्थः प्रतिपत्स्यते,. अतोऽनुदात्तत्वमेव विधेयम्, नादेशः? उच्यते----असत्यादेशे प्रकरणादिकमन्तरेणाकचैव कश्चिदज्ञातादिकं प्रतिपादयेत्, मैवं प्रतिपीपददित्यादेशवचनम्। उत्तरार्थ च। अनुदात्तवचनं किमर्थम्, यावता `ऊडिदम्पदादि' इति विभक्तेरुदात्तत्वं शेषनिघातेनैव सिद्धम्। अनुदात्तवचनं विभक्त्वयन्तस्यानुदात्तार्थम्, शेषनिघातेन हि प्रकृतेरेवानुदात्तत्वं सिद्ध्यति। कथं पुनरिदमस्तृतीयादावशादेशो भवति, स चानुदात्त इत्यनेन विभक्त्यन्तस्यानुदात्तत्वं विधातुं शक्यम्? नानेन विभक्त्यन्तस्यानुदात्तत्वं विधीयते, किं त्वनेन प्रकृतेरनुदात्तत्वे कृते `ऊडिढम्' इत्यत्रान्तोदात्तादित्यदिकारादसति विभक्तेरुदात्तत्वे` अनुदात्तौ सुप्पितौ' इत्यनुदात्तत्वादाभ्यामित्यादि पदं कृत्स्नमेवानुदात्तं भवति। यद्यन्वादेशोऽनुकथनम्, इहापि प्राप्नोति---देवदत्तं भोजजय, इमं च यज्ञदत्तमिति, अस्ति ह्यत्रान्वादेशः, तत्र द्विदीयाटौस्स्वेनः' इत्येनादेशः प्राप्नोति? इत्यत आह---नेहेति। एकस्यैवाभिधेयस्येत्यादि। तत्रैवान्वादेशशब्दः प्रसिद्धतर इति भावः।।
एतदस्त्रतसोस्त्रतसौ चानुदात्तौ।। 2.4.33 ।।
एतदस्त्रतसोस्त्रतसौ चानुदात्तौ।। पुनर्वचनमनुदात्तार्थमिति। पाञ्चमिकोऽशादेश उदात्तः स्याद्, अनुदात्तश्चेष्यते इत्यनुदात्तार्थ पुनर्वचनम्। त्रतसोरिति वचनं निमित्तभावार्थम्; अन्यथा `त्रतसौ चानुदात्तौ' इत्यन्वाचयो विज्ञायेत---यत्र त्रतसौ पश्यसि तत्र तावनुदात्ताविति। किमर्थं पुनस्त्रतसोरनुदात्तत्वमिष्यते, यावताऽत्रात इत्यादौ त्रतसोः कृतयोः प्रकृतेर्लित्स्वरे कृते शेषनिघातेन प्रत्ययानुदात्तत्वेसत्यशनुदात्तः करिष्यते? यद्येवं लभ्यते, कृतं स्यात्; तत्तु न लभ्यम्। इह हि त्रतसोः कृतयोर्लित्स्वरश्च प्राप्नोति, अनेन चानुदात्तोऽशादेशः, तत्र येन नाप्राप्तिन्यायेनापवादत्वान्नित्यत्वाच्चानुदात्तेऽशादेशे कृते तद्विधानसामर्थ्यादपवादस्य लित्स्वरस्याप्रवृत्तानुत्सर्गः प्रत्ययस्वर एव त्रतसोः स्यात्, यथा---गोष्पदप्रमित्यत्र णमुल उलोपेन सहि विधानाल्लित्स्वराप्रवृत्तौ प्रत्ययाद्युदात्तत्वे सति कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तं पदं भवति। तस्मात् `त्रतसौ चानुदात्तौ' इति वक्तव्यम्।।
द्वितीयाटौस्स्वेनः।। 2.4.34 ।।
द्वितीयाटौस्स्वेनः।। अनन्तरत्वादेतद एवैनादेशः प्राप्नोति, इदमोऽपीष्यते, तदिदमो ग्रहणं कर्त्तव्यम्? न कर्त्तव्यम्, `इदमोऽन्वादोशे' इत्यत इदम इत्यनुवर्त्तिष्यते, एतदस्त्रतसोरित्यत्रापि संबन्धात्तस्यापि त्रतसोरादेशप्रसङ्गस्तत्राह---इदमो मण्डूकप्लूतिन्यायेनानुवृत्तिरिति। इदमप्यत्र वक्तव्यम्----इदमो हप्रत्ययेन बाधितत्वात्त्रलोऽसम्भावात्त्रतसोहित्यत्रासम्बन्ध इति। यदि परमनुवृत्तिसामर्थ्यात्तस्याप्यादेशेन भाव्यम्, न चासति त्रलि तद्विधानमुपपद्यत इति त्रलः सत्ता परिकल्प्यते? कल्प्यते? तदपि न; उत्तरार्थमप्यनुवृत्तिसम्बवादिति। एनदिति नपुंसकैकवचने वक्तव्यमिति। एनादेशे कृते `अतोऽम्' इत्यम्भावे सत्येनमिति प्राप्नोत्यत एनदादेशो वक्तव्यः। यद्येवम्, अयमेव सर्वत्रास्तु, नार्थ एनादेशेन, कथम्---एनम् एनौ एनान्, ऐनेन, एनयोरिति? त्यदाद्यत्वे कृते भविष्यति, नपुंसकैकवचने तु नित्यत्वात् `स्वमोर्नपुंसकात्' इति लुकि कृते एनदिति स्यादिति सिद्धम्, इह त्वेनं श्रित इति द्वितीयासमासे यद्यप्येनादेशोऽथाप्येनदादेशः, उभायभ्यामपि न भाव्यम्, कथम्? `अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते',तस्मादेतच्छ्रित इति भवति। एकमेव विधानमिति। `अयं दण्डः' इत्यनेन दण्डस्य सत्तामात्रमुपलक्ष्यते, न तु किञ्चिद्विधीयते। एवमीषदर्थ इत्यादिना आकारस्य स्वरूपमात्रं निर्दिश्यते, न तु किञ्चिद्विधीयते।।
आर्धधातुके।। 2.4.35 ।।
आर्धधातुके।। वध्यादिति। आशिषि लिङ्, `लिङाशिषि' इत्यार्धधातुकसंज्ञा। हन्यादिति। विध्यादिलिङ्। विषयसप्तमी चेयमिति। सामान्यनिर्देशोऽयम्। तत्र व्यापित्वान्नित्यत्वाच्च न तेन सह देशकालकृतं पौर्वापर्यं सम्भवति, तस्याद्विषयसप्तमी। यदि तु व्यक्तिनिर्देशेन परसप्तमी स्यात्, भव्यमित्यादि न स्यात्। तथा हिहलन्तत्वादस्त्यादीनाम्`ऋहलोर्ण्यद्' इति ण्यति कृते तत्र परत आदेशैर्भाव्यम्। तत्र द्वयोर्वृद्धौ कृतायां तृतीयस्य च युकि---भाव्यम्, प्रवैयम्, आख्याय्यमिति प्रसज्येत। इह च `ब्रुवो वचिः' ब्रुवोऽजन्तत्वाद्यति कृते वच्यादेशे च वच्यमिति प्राप्नोति, विषयसप्तम्यां तु नैष दोष इत्याह---तेनेति। यथाप्राप्तमिति। यो यतः प्राप्नोति, स ततो भवतीत्यर्थः। `असिद्धवदत्राभात्' इत्यस्य भावाभावव्यवस्थार्थम्। अत्र चाङ्गाधिकारे च द्विरार्धधातुकाधिकारः क्रियते। यदि ह्येतेऽप्यादेशास्तत्रैववीधीरेयन्, जक्षतुः, अधिजगे, अध्यगीष्ट, बभूव, विव्यतुरिति घसाद्यादेशानामसिद्धत्वादुपधालोपातल्लोपे त्ववुग्यणो न स्युः। यदि त्वतोलोपादयोऽप्यत्रविधीयेरन्; गतः, गतवानित्यनुनासिकलोपस्यासिद्धत्वात्`ग्रतो लोपः' स्यादित्येषा दिक्।।
अदो जग्धिर्ल्यप्ति किति।। 2.4.36 ।।
अदो जग्धिर्ल्यप्ति किति।। `ल्यप्' इति पृथक् पदं लुप्तसप्तमीकम्। इह पदद्वयापेक्षं समासमपेक्षमाणो ल्यब्बहिरङ्गः, क्त्वाप्रत्ययमात्रापेक्षस्तु जग्ध्यादेशोऽन्तरङ्गः; तत्र क्त्वावस्थायामेव जग्धौ कृते प्रजग्ध्येति सिद्धम्, नार्थो ल्यब्‌ग्रहणेन। एवं तर्हि ल्यब्विषयेऽप्यन्तरङ्गत्वात्ति कितीत्येव सिद्धे जग्धौ ल्यबिति यदुच्यते तज्ज्ञापयति---अन्तरङ्गाणामपि विधीनां हिप्रभृतीनां ल्यपा भवति बाधनमिति। विधाय,विहाय, प्रदाय, प्रखाय, प्रखन्य, प्रस्थाय, प्रकम्य, आपृच्छ्य, प्रदीव्य, प्रपठ्येत्येषु विधिषु `दधातेर्हिः' `जहातेश्च क्त्वि' दो दद् घोः' `जनसनखनां सञ्झलोः' `द्यतिस्यतिमास्थामित्ति किति' `अनुनासिकस्य क्विझलोः क्ङिति' `च्छवोः शूडनुनासिके च' `आर्धधातुकस्येड्वलादेः' इत्येते विधयः क्त्वावस्थायामेव प्राप्ता बहिरङ्गेन ल्यपा बाध्यन्ते।
एष एवार्थः श्लोकान्तरेण भाष्ये कथितः----जग्धिविधिर्ल्यपि यत्तदकरणम्। अकरणं निष्प्रयोजनमित्यर्थः। सिद्धमदस्ति कितीति विधानात्। अदो जग्धिविधानमित्यर्थः। ज्ञापकार्थ ल्यपि जग्धिविधानमित्याह---हिप्रभृतीस्तु सदा बहीरङ्गो ल्यब्भरतीति कृतं तदु विद्धि। ल्यब्‌भरतीति, ल्यबादेशो हरति=व्यपनयति, बाधते इत्यर्थः। `उ' इति निपातोऽवधारणे। तदेवास्य प्रयोजनमित्यर्थः।।
लुङ्सनोर्घस्लृ।। 2.4.37 ।।
लुङ्सनोर्धस्तु।। ननु `सृघस्यदः क्मरच्' इति वचनाद् xxxxxxxxxत्यन्तरमस्ति? सत्यम्; अदेरात्सीद् अत्सिषतीत्यनिष्टं रूपं मा भूदिति योगारम्भः। प्रात्तीति प्रघस इति, पचाद्यच्। अस्यापि सूत्रवदेव प्रयोजनम्।।
घञपोश्च।। 2.4.38 ।।
बहुलं छन्दसि।। 2.4.39 ।।
बहुलं छन्दसि।। घस्तामिति। लुङि `मन्त्रे घस' इत्यादिना चलेर्लुक्, `बहुलं छन्दस्यमाङ्योगेऽपि' इत्यडभावः। सग्घिरिति। `घसिभसोः' इत्युपधालोपः, `झलो झलि', समाना ग्धिरिति च`समानस्य छन्दसि' इति सभावः। अन्यतरस्यांग्रहणमेव कस्मान्न क्रियत इति, कः पुरनेवं सति गुण इत्याह----तदेवेति। प्रकृत्यन्तरस्य सद्भावादस्य प्रयोजनं प्रयोजनं मृग्यम्।।
लिट्यन्यतरस्याम्।। 2.4.40 ।।
लिट्यन्यतरस्याम्।। प्रकृत्यन्तरस्यासर्वविषयत्वज्ञापनार्थमिदम्। तेन यत्र लिङ्गं वचनं वा नास्ति, तत्र तस्य प्रयोगो न भवति। तत्र लृदित्करणं लुङि प्रयोगस्य लिङ्गम्, घसिश्च सान्तेष्वित्यनुदात्तपाठो वलादावार्द्धधातुक, `सृघस्यदः क्मरच्' इति वचनं क्मरचि। भूवादौ परस्मपदिषु पाठात्परस्मैपदे प्रयोगः।।
वेञो वयिः।। 2.4.41 ।।
हनो वध लिङि।। 2.4.42 ।।
हनो वध लिङि।। यकारान्तश्चायमादेश इति। कुत एतत्? शैलीयमाचार्यस्य यत्र व्यञ्जनान्त आदेशस्तत्रेकारमुच्चारयति, यथा जग्ध्यादौ। तस्मादिकाराकरणादकारान्तोऽयमादेशः। हलन्तलज्ञणा वृद्धिर्न भवतीति। उत्तरसूत्रेण वधादेशे कृत इति भावः।।
लुङि च।। 2.4.43 ।।
आत्मनेपदेष्वन्यतरस्याम्।। 2.4.44 ।।
आत्मनेपदेष्वन्यतरस्याम्।। आहसतेति। `आङो यमहनः' इत्यात्मनेपदम्। `आत्मनेपदेष्वनतः, `हनः सिच्' इति सिचः कित्त्वात् `अनुदात्तोपदेश' इत्यनुनासिकलोपः।।
इणो गा लुङि।। 2.4.45 ।।
इणो गा लुङि।। अगुरिति। `गातिस्था' इति सिचो लुक्, `आतः' इति झेर्जुस्, `उस्यपदान्तात्'। इण्वदिक इति वक्तव्यमिति। यद्यस्यैवायं प्रकरणस्य शेषः स्यात् `इणिकोर्गा लुङि---इति सूत्रन्यासः कर्तव्यः' इत्यवक्ष्यत; यतस्तु खलु पृथगिण्वदिक इत्याह, तेन मन्यामहे---सर्वस्य शास्त्रस्य शेषोऽयमिति। तेन `इणो यण्' `एतिस्तु शासु' इत्याद्यपि भवति----अधियन्ति, अधीत्येति।।
णौ गमिरबोधने।। 2.4.46 ।।
सनि च।। 2.4.47 ।।
इङश्च।। 2.4.48 ।।
गाङ् लिटि।। 2.4.49 ।।
गाङ् लिटि।। द्विलकारकोऽयं निर्देशः---लिटि लकारादाविति। तेन प्रागेवादेशेभ्यो लावस्थायामेवादेशो भवति। किं सिद्धं भवति? अधिजगे---`द्विर्वचनेऽचि' इति स्थानिवद्भावो न भवति। ङित्करणमनर्थकं स्थानिवद्भावादेव सिद्धमात्मनेपदमित्याशङ्क्याह---गाङ्यनुबन्धकरणमिति। गाङिति ग्रहणं यथा स्यादिति। ननु चैतदपि स्थानिवद्भावादेव सिद्धम्, नेत्याह---न हीति। `गाङ्कुटादिभ्यः' इति उच्यमाने `कै गै रै शब्दे' इणो गा लुङीत्येतयोरपि ग्रहणं प्राप्नोति, ततश्चागासीन्नटः, अगासातां ग्रामौ देवदत्तेनेत्यत्रापि घुमास्थादिसूत्रेणेत्त्वं प्रसज्येत।
अपर आह---यत्र सानुबन्धकात्षष्ठ्युच्चार्यते, तत्राकृतायामेवेत्सञ्ज्ञायामादेशः प्रवर्त्तते, सत्यामपि वा तस्यामनुबन्धकार्यमादेशे न भवतीत्यस्यार्थस्य ज्ञापनार्थ गाङ्यनुबन्धकरणमिति। किं प्रयोजनम्? `चक्षिङः ख्याञ्'ङित इत्यात्मनेपदं न भवति; ञिदादेशकरणसामर्थ्यात् `स्वरितञितः' इत्येतदेव भविष्यति। इह तर्हि `लटः शतृशानचौ', लट इति सानुबन्धकात्षष्ठी, पचमानः, `टितः' इत्येत्त्वं न भवतीति?प्रकृतानामात्मनेपदानामेत्त्वविधानादिह न भवति। इह तर्हि`युवोरनाकौ' इत्यत्र भुज्यः, शंयुरित्यत्र मा भूदिति, अनुनासिकोकारानुबन्धौ युवू सूत्रे निर्दिष्टौ; ततश्च नन्दनः, कारकः, नन्दना, कारिका स्थानिवद्भावादुगिल्लक्षणौ ङीब्नुमौ प्राप्नुतः, अस्माज् ज्ञापकान्न भवतः। अनुनासिकयणोस्तत्र ग्रहणम्, न त्वनुनासिकोकारानुबन्धयोरिति नात्रोगित्कार्यप्रसङ्गः। इह हि `सेर्ह्यपिच्च,'सिपो हिरिति वक्तव्यम्, अपिच्चेति न वक्तव्यम्, इह च `तुह्योस्तातङ् इति तिप्‌सिपोस्तदाशिषीति सानुबन्धकात्षष्ठीमुच्चार्थादेशो विधेयः, ङित्करणं न कर्तव्यम्। इह च `तस्थस्थमिपाम्' इति पकारो नोच्चार्थः, तेनाचिनवमित्यादौ गुणसिद्धिः, `अणिञोरनार्षयोः क्त्वो ल्प्' इत्यादौ यत्र स्थान्यनुबन्धकार्यमिष्यते तत्राननुबन्धकः स्थान्युपादेयः। वाराह्या प्रकृत्येत्यादौ वृद्धिर्गुणप्रतिषेधश्च भब्रति तदेवमस्य पक्षस्य मन्दत्वादनुपन्यासः।।
विभाषा लुङ्लृङो।। 2.4.50 ।।
णौ च संश्चेङोः।। 2.4.51 ।।
णौ च संश्चेङो।। अध्यापिपयिषतीति। `क्रीङ्जीनां णौ' इत्यात्त्वम्। अध्यजीगपदिति। लुङि चङि `णौ चङ्युपधाया ह्रस्वः',`सन्वल्लघुनि', `दीर्घो लघोः'।।
अस्तेर्भूः।। 2.4.52 ।।
अस्तेर्भूः।। भवतेरेव भवितेत्यादौ सिद्धेऽसेतरसितेत्यादिनिवृत्तये योगारम्भः।
अनुप्रयोगे त्विति। अनुप्रयोगे=विषये भुवा=भूभावेनास्तेरनिवृत्तिं मनीषिणः स्मरन्ति। कर्तुः== सूत्रकारस्य वचनात्। मनीषिणः कर्तुरिति वा।।
ब्रुवो वचिः।। 2.4.53 ।।
ब्रु वो वचिः।। ब्रुव आर्धधातुके प्रयोगनिवृत्त्यर्थ वचनम्। वक्तेत्यादिकं तु वचेरेव सिद्धम्।।
चक्षिङः ख्याञ्।। 2.4.54 ।।
चक्षिङः ख्याञ्।। कर्त्रभिप्राये क्रियाफले आख्यास्यते, आचख्ये इत्यात्मनेपदं यथा स्यात्, तृजादौ चक्षितेत्यादि मा भूदिति च योगारम्भः। आख्यातेत्यादि `ख्या प्रकथने' इत्यस्यैव सिद्धम्। अत्र यथान्यासे आकारात्पूर्वो भागः खकारयकारात्मेति स्यादाख्यातेति, ककारशकारात्मापि त्विष्यते---आक्शातेति, तदेतदाह--क्शादिरप्ययमिति। ककारेऽकार उच्चारणार्थः।
अपर आह---ख्यादिरेवायमादेश इति। अत्राप्यकार उच्चारणार्थः। तत्र चर्त्वे कृते क्शातेत्यादि भवति। कथमाख्यातेति खकारयकारयोः श्रवणम्? असिद्धकाण्डे णत्वविधानानान्तरं ख्शाञः शस्य यो वेति शस्य यत्वं विभाषा वक्तव्यम्। तत्र चर्त्वे यत्वं सिद्धमित्याख्यातेत्यादि यत्वपक्षे रूपम्, अन्यदा कशातेति रूपम्। अवश्यं च शस्य यत्वमित्याश्रयणीयम्। इह सुप्रचष्टे सुप्रख्यः, `आतश्चोपसर्गे' इति कः, ततो यत्वस्यासिद्धत्वात्सुप्रख्यस्य भाव इति `योपधाद्गुरूपोत्तमात्' इति वुञ् न भवति, अयोपधत्वात्। तस्मिन्सति ष्यञ् भवति----सौप्रख्यमिति। तथा सुप्रख्येन निर्वृत्ते देशे भवः सौप्रख्यीयः, सौप्रख्यीयः, धन्वयोपधादिति वुञ् न भवति, `वृद्धाच्छः' एव भवति। अख्यातः, यत्वस्यासिद्धत्वाद्यण्वत्त्वा भावात् `संयोगादेः' इति नत्वं न भवति, `न ध्याख्यापृमूर्छिमदाम्' इत्यत्र ख्याग्रहणं न कर्तव्यं भवति। पुंसः ख्यानं पुंख्यानमित्यत्र यत्वस्यासिद्ध्त्वात् `पुमः खय्यम्परे'इति रुविधिर्न भवति। पर्याख्यानम्, यत्वस्यासिद्धत्वाच्छकारेणानटा व्यवायात् `कृत्यचः' इति णत्वाभावः। नटः ख्यातेत्यत्र यत्वस्यासिद्धत्वात् खरः शर्परत्वात् `शर्परे विसर्जनीयः' इतेयष विधिर्भवति। नन्वसिद्धे शस्य यवचनेऽपि `ख्या प्रकथने' इत्यस्यौत्पत्तिक एव यकार इति तत्र वुञादिप्रसङ्गः? एवं तर्हि सोऽपि ख्शादिः, शस्य यवचनमपि साधारणं द्रष्टव्यम्।
नृचक्षा रक्ष इति। छान्दसः प्रसोगः। भाषायां तु नृचक्षौ रक्ष इति। विचक्षण इति। `अनुदात्तेतश्च हलादेः' इति युच्। वधक इति। अतो लोपस्य स्थानिवत्त्वाद्वृद्ध्यभावः। गात्रमिति। ष्ट्रनिगादेशः। अजिरमिति। `अजिरशिशिर' इति निपातनमनाद्दत्योक्तम्।।
वा लिटि।। 2.4.55 ।।
अजेर्व्यघञपोः।। 2.4.56 ।।
अजेर्व्यघञपोः।। प्रवयणीयः, प्रवायक इत्यादौ गुणवृद्धिविषये ह्रस्वदीर्घयोरविशेषं मन्वानः पृच्छति---दीर्घोच्चारणं किमिति। दीर्घव्याख्यानमित्यर्थः। घञपोः प्रतिषेधे क्यप उपसङ्ख्यानमिति। क्यपि यः प्रतिषेधस्तस्य क्यप्सम्बन्धी भवतीति क्यप इत्युक्तम्। यस्त्वाह---अपीत्येव क्यपि सिद्धः प्रतिषेधः, कथम्? अबिति प्रत्याहारः, अपोऽकारादारभ्या क्यपः पकाराद् इति, तस्य संवीतिरिति क्तिन्यपि प्रतिषेधः प्राप्नोति, तस्मात्संज्ञाग्रहणात्समज्येत्यत्र वीभावाभावः। न ह्यादेशेन संज्ञा गम्यते। वलादावार्घधातुके वेष्यत इति। नार्थोऽनयेष्ट्या, नापि घञपोः प्रतिषेधेन, नापि क्यप उपसङ्ख्यानेन, नापि `वा यौ' इति सूत्रेण; एतावदस्तु---`वा लिटि', अजेर्वीत्येव, व्यवस्थितविभाषेयम्, तेन घञपाः क्यपि नैव भवति, वलादौ यौ च विकल्पः, अन्यत्र नित्यम्।।
वा यौ।। 2.4.57 ।।
ण्यक्षत्त्रियार्षञितो यूनि लुगणिञोः।। 2.4.58 ।।
ण्यक्षत्त्रियार्षञितो यूनि लुगणिञोः।। ण्यादयो गोत्रप्रत्यया इति। `गोत्राद्यून्यस्त्रियाम्' इति गोत्रप्रत्ययान्तादेव यूनि प्रत्ययविधानात्। क्षत्त्रियगोत्रस्यक्षत्त्रियादभेदोपचारात् क्षत्त्रियशब्देनाभिधानम्। ऋषेरपत्यमार्षम्, `इतश्चानिञः' इति ढकि प्राप्ते शिवादिपाठादण्। ढगपीष्यते----आर्षेयं वृणीते इति। तस्माच्छुभ्रादिष्वपि पठनीयः। एवं गोत्ररूपाभ्यां क्षत्त्रियार्षाभ्यां प्रत्ययस्योपलक्षणाद् ण्यादयो गोत्रप्रत्यया इत्युक्तम्। क्षत्त्रियादिति। क्षत्त्रियगोत्रप्रत्ययान्तादित्यर्थः। आर्षादिति। ऋष्यभिधायिनो गोत्रप्रत्ययान्तादित्यर्थः। प्रथमनिर्दिष्टाद् ण्यान्तादणोऽसम्भवाच्चरमनिर्द्दिष्टोऽपीञेव प्रथममुदाहृतः। क्षत्त्रियगोत्रस्य तत्र ग्रहणमिति। औरसशब्देन साहचर्यात्। स हि `जनपदशब्दात् क्षत्त्रियादञ्' इत्यञन्तत्वात्क्षत्त्रियशब्दः। उरसशब्दः सकारोपधो जनपदवाची, तस्माद्यूनि प्राग्दीव्यतीयोऽणिति। `फेश्छ च' इति च ञच्छौ तु न भवतः, यमुन्दश्च सुयामा चेति परिगणनात्। कण्वादिभ्यो गोत्रे इति शैषिकोऽणिति। वामरथस्य कण्वादिवत्स्वरवर्जमिति कुर्वादिषु पाठादिति भावः।
अब्राह्मणगोत्रमात्रादिति। अत्र भाष्ये त्रीणि वाक्यान्युपन्यस्तानि---अणिञोर्लुकि तद्राजाह्युवप्रत्ययस्योपसंख्यानमिति प्रथमम्, अस्योदाहरणम्---बौधिः पिता, बौधिः पुत्रा; औदुम्बरिः पिता, औदुम्बरिः पुत्रः, बुधोदुम्बराभ्यां शाल्ववयवालक्षण इञ् `यञिञोश्च' इति फक्, तस्य लुक्। अनणिञर्थमेतद्वचनभ्। शाल्वावययवेत्यत्रोदुम्बरास्तिलखिला इत्यादि संभवोदाहरणं न परिगणनमिति बुधशब्दादपीञ् भवति। क्षत्त्रियगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानमिति द्वितीयम्। मात्रशब्दो व्याप्त्यर्थः, तद्राजादिति नियमो नास्ति---क्षत्त्रियगोत्रमात्रादिति। तेन जाबालशब्दादत इञोऽतद्राजादपि परस्य फको लुग् भवति---जाबालिः पिता, जाबालिः पुत्रः। वृत्तिकारेणोन्यस्तं तृतीयम्। अत्रापि मात्रशब्दो व्याप्त्यर्थः। क्षत्त्रियादित्यापि नियमो नास्ति---अब्राह्मणगोत्रमात्रादिति, तेन वैश्यगोत्रादपि भवति। भाण्डिजङ्घकर्णखरकौ वैश्यौ, ताभ्यामत इञ् तदन्तात्फको लुक्। व्यापकत्वाच्चेदमुपन्यस्तं वृत्तिकारेण।।
पैलादिभ्यश्च।। 2.4.59 ।।
पैलादिभ्यश्च।। पीडयतेः पचाद्यचि कपिलादिदर्शनादस्य लत्वे पीला। अन्ये पैलादय इञन्ता इति। तत्र बाह्वादिषु `उदञ्चु' इति पठ्यते। उकार उच्चारणार्थः,क्विनि नोपधत्वं निपात्यते। औदञ्चिः। `अचः' इत्यकारलोपः, `उद ईत्' इतीत्त्वं च न भवति; लुप्तनकारस्य तत्र ग्रहणात्। भूलिङ्गशब्दः शाल्वावयवः। सात्यकिशब्दमपि केचित्पठन्ति, सोऽपि बाह्वादीञन्तः। सत्यकशब्दाद् `ऋष्यन्धक' इत्यणा भाव्यम्। शेषा अत इञन्ताः। शालङ्किरिति। अस्मादेव निपातनाच्छलङ्कोरिञ्, शलङ्कादेशश्च। तद्राजाच्चाण इति। तद्राजसंज्ञकादणः परस्य युवप्रत्ययस्य लुग्भवति। `द्वञ्मगध' इत्यणन्तादाङ्गशब्दात् `अणो द्व्यचः' इति फिञो लुक्। आङ्गः पिता, आङ्गः पुत्रः। तदेवं गणवाक्यमेतदेकम्, पूर्वपतठ
ितानि त्रीणीति चत्वारि यथोत्तरमधिकविषयाणि।।
इञः प्राचाम्।। 2.4.60 ।।
इञः प्राचाम्।। `प्राचामवृद्धम्' इत्यादौ प्राग्ग्रहणं विकल्पार्थम्, इह तु न तथेत्याह---गोत्रविशेषणमिति। युवप्रत्ययस्य लुग्विधानादर्थादाक्षिप्तं गोत्रमिति भावः। पन्नम् = प्राप्तम् अगारं येन स पन्नागारः। मन्थरा = मन्दीभूता ेषणा यस्य स मन्थरैषणः।।
न तौल्वलिभ्यः।। 2.4.61 ।।
न तौल्वलिभ्यः।। `तुल उपमाने', औणादिको वलच्। तुल्वलः। धारयतिपारयतिभ्यां नन्द्यादिल्युः---धारणः, पारणः। देवा मित्रमस्येति देवमित्रः। देवेभ्यो यज्ञोऽस्य देवयज्ञः। `पुष पुष्टौ', क्यप्, पुष्यः। विलक्षणौ कर्णावस्य विकर्णः। करेणुं पालयति करेणुपालः। `असु क्षेपणे', कुरच्---असुरः। `हृञ्‌हरणे', अनुपूर्वाल्लटः शत्रादेशः, पुष्करे सीदतीति पुष्करसत्, बाह्वादी अनुशतिकादी च। परिशिष्टाः पारायणे द्रष्टव्याः।।
तद्राजस्य बहुषु तेनैवास्त्रियाम्।। 2.4.62 ।।
तद्राजस्य बहुषु तेनैवास्त्रियाम्।। इह बहुष्वित्यनेन जसादिबहुवचनं वा गृह्येत? अर्थो वा ? आद्ये पक्षेऽयमर्थो भवति---जसादिषु बहुवचनेषु परतस्तद्राजस्यास्त्रीलिङ्गस्य लुगिति। द्वितीये---बहुष्वर्थेषु वर्तमानस्येति। बहुवचनशब्दे हि जसादिषु विनियुक्ते तदेकदेशेन बहुशब्देनापि जसादि शक्यं लक्षयितुम्। संज्ञानामेकदेशस्यापि प्रयोगदर्शनाद् भीमो भीमसेनः, सत्या सत्यभामेति। जसादीनां च बहुत्वाद् बहुष्विति बहुवचनोपपत्तिः। नन्वेवमपि मुख्यत्वादर्थग्रहणमेव युक्तम्? सत्यम्; तेनैव ग्रहणादस्य पक्षस्य सम्भवः। तद्धि प्रियवाङ्गा इत्यादौ बहुवचनं परमिति लुकः प्रसक्तस्य निवृत्तये कृतम्। अर्थग्रहणे चात्र तद्राजस्य बहुत्वे वृत्त्यभावादेव लुकोऽप्रसङ्गः। यद्येवम्, अस्मादेव लिङ्गाद् बहुवचनस्यैव निश्चयादर्तग्रहणस्यासम्भवः? उच्यते---अस्त्रियामिति प्रतिषेधादस्य पक्षस्य सम्भवः। तद्ध्याङ्ग्यः स्त्रिय इत्यादौ तद्राजस्य बहुषु वर्तमानस्य लुङ्मा भूदिति कृतम्। बहुवचनग्रहणे चात्र स्त्रीप्रत्ययेन व्यवधानादेव लुकोऽप्रसङ्गः। न चाम्बष्ठस्यापत्यानि बह्व्यः स्त्रियः `वृद्धेत्कोसलाजादाञ् ञ्यङ्' `यङश्चाप्' आम्बष्ठ्या इत्यत्रेकादेशस्यान्तवद्भावादव्यवधानाल्लुक्प्रसङ्गः; एकादेशस्य पूर्वविधौ स्थानिवद्भावादत्रापि चापा व्यवधानात्। तदेवं लिङ्गद्वयदर्शनात्पक्षद्वयसम्भवः।
एवमुत्तरेष्वपि योगेषु द्रष्टव्यम्। तत्राद्यो पक्षेऽतिक्रान्तोऽङ्गानत्यङ्गः, अतिगर्गः, अङ्गेभ्य आगतोऽङ्गरूप्यः, गर्गरूप्य इत्यादौ बहुवचनपरत्वाभावाल्लुङ्न स्यात्। न चच वृत्त्यर्थे वाक्ये यच्छसादि बहुवचनं तत्रैव परतस्तस्यामेवावस्थायां लुग्लभ्यतेऽन्तरङ्गत्वादिति वाच्यम्; `अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते' इति वचनात्। न च लुप्तेऽपि तस्मिन्प्रत्ययलक्षणेन लुग्लभ्यः, `न लुमताङ्गस्य' इति निषेधात्। ननु च न लुगङ्गस्य कार्यम्, किं तर्हि? तदेकदेशस्य प्रत्ययमात्रस्य, अङ्गरूप्य इत्यादौ च समर्थात्तद्धितोत्पत्तेः वृत्त्यर्थे वाक्ये यद्वहुवचनमङ्गेभ्य इत्यादि तत्रैव लुक् भविष्यति। इदं तर्हि----अत्रेरपत्यानि बहूनि `इतश्चानिञः' इति ढक्, तस्य `कितः' इत्यन्तोदात्तत्वम्, तस्य जसि परतः `अत्त्रिभृगु' इति लुकि कृते उदात्तनिवृत्तिस्वरः प्राप्नोति, तस्माद् द्वितीयं पक्षमाश्रित्याह---बहुषु वर्तमानस्येति।
नन्वत्रापि पक्षे आङ्गश्च वाङ्गश्च सौह्मश्र अङ्गवङ्गसुह्माः, गार्ग्यश्च वात्स्यश्च वाजयश्च गर्गवत्सवाजा इत्यादौ द्वन्द्वे लुग्न स्यात्; अत्र ह्येकैकस्मिन्नेवार्थे प्रत्यय उत्पन्नः, पूर्वत्र तु पक्षेऽन्तिमस्यापि तावत्सिद्ध्यति, बहुवचनपरत्वात्? नैष दोषः; युगपदधिकरणतायां द्वन्द्वः, तत्रैकैकस्य वर्त्तिपदस्य बह्वर्थकत्वाल्लुग्भविष्यति। नन्वेवमपि तद्धिते उत्पत्तिदशायामेकैकस्मिन्नेवार्थे उत्पन्न इति तद्राजो यो बहुषु यञ् यो बहुषु अञ् यो बहुष्वित्युच्यमानो लुङ् न स्यादेव। नन्वत्र बहुष्वित्यनेन न प्रत्ययमात्रं विशेष्यते, किं तर्हि? प्रत्ययग्रहणपरिभाषया तदन्तग्रहणे सति तदन्तं विशेष्यते---तद्राजान्तं यद्वहुषु यञन्तं यद्बहुषु अञन्तं यद्वहुष्विति। यद्येवम्, कश्यपस्यापत्यं काश्यपः बिदाद्यञ्, तस्य प्रतिकृतय इति `इवे प्रतिकृतौ' इति कन्, तस्य `जीविकार्थे चापण्ये' इति देवपथादिषु अर्चासु पूजनार्थास्विति पाठाद्वा लुपि कृते काश्यपा इत्यञन्तस्य प्रतिकृतिबहुत्वे लुक् प्राप्नोति? नैष दोषः; `यञञोश्च' इत्यत्र `यस्कादिभ्यो गोत्रे' इत्यतो `गोत्रे' इत्यनुवर्तते, तेन गोत्रबहुत्वे लुक् प्रतिकृतिबहुत्वे न भविष्यति। नन्वेवमप्याङ्गस्यैकस्य प्रतिकृतयो बह्व्य इति तद्राजान्तस्य बहुषु वृत्तेर्लुक्प्रसङ्गः। नह्मत्रेदमस्ति---तद्राजान्तं यदपत्यं बहुत्वे वर्तत इति । एवं तर्हि तेनैव ग्रहणमस्मिन्पक्षे न कर्तव्यमित्युक्तं तदत्रोपयोक्ष्यामहे---यस्मिन्नर्थे लुग्भावी प्रत्यय उत्पन्नस्तेनैव चेत्कृतं बहुत्वमिति। इह चापत्ये प्रत्यय उत्पन्नः प्रतिकृतिकृतं च बहुत्वम्, यद्येवम्, आङ्गस्यापत्यानि `अणो द्व्यचः' इति फिञ्, तस्याब्राह्मणगोवमात्रादिति वा `तद्राजाच्चाणः' इति वा लुक्, अङ्गाः, बैदस्यापत्यानि `अत इञ्', `ण्यक्षत्त्रिय' इति लुक्, बिदाः, अत्र गोत्रे प्रत्यय उत्पन्नो युवकृतं चात्र बहुत्वामिति लुङ् न स्यात्? नैष दोषः; तेनैवेत्यस्य तज्जातीयेनैवेत्यर्थः, युवा चापत्यतया तज्जातीयो न प्रतिकृतिः। एवं च कृत्त्वा द्वन्द्वो यदा लोपिनामलोपिनां च भवति तदा न भवति----आङ्गदेवदत्तयज्ञदत्ताः, गार्ग्यदेवदत्तयज्ञदत्ताः। इह तु भार्गवश्च वात्स्यश्चाग्रायणश्च भृगुवत्साग्रायणा इति, यद्यपि नलोपिभिरेव कृतं बहुत्वम्, आग्रायणे नडादिफको लुगभावात्; तथाप्यपत्यतया तज्जातीयत्वमस्तीति लुग्भवत्येव। यद्येवम्, गार्ग्यश्च काश्यपश्च गालवश्च गार्ग्यकाश्यपगालवानामित्यत्र गालवे ऋष्यणो लुगभावेऽप्यपत्यतया तज्जातीयत्वाद्यञञोर्लुक्प्रसङ्गः। एवं तर्हि भृगुवत्साग्रायणेषु `अगार्ग्यकाश्यपगालवानाम्' इति निर्देशद्वयाल्लोपिभिरपत्यप्रत्ययैः कृते बहुत्वे विकल्पः। तदेवं तद्राजान्तस्य बहुत्वे वर्तमानस्येति स्थितम्। वृत्तौ तु तद्राजसञ्ज्ञकस्य प्रत्ययस्य बहुषु वर्तमानस्येति व्यधिकरणो षष्ठ्यो, बहुषु वर्तमानस्यास्त्रीलिङ्गस्य तद्राजान्तस्य योऽवयवः प्रत्ययस्तस्येत्यर्थः। तेनैव चेत्तद्राजेनेति। अत्रापि तद्राजान्तेनेत्यर्थः। तद्राजेत्यापि लोपिप्रत्ययोपलक्षणम्। अङ्गगर्गलोहध्वजा इत्यादावपि भवतीत्याहुः। इहाङ्गस्यापत्यानि बहून्यङ्गास्तेषामपत्यं युवा युवानौ वा आङ्गः आङ्गाविति युवसङ्क्रान्तेः प्राग्गोत्रेऽलुगचीति प्रतिषेधाल्लुगभावः, पश्चात्तु बहुत्वाभावाद्। अचीति च विषयसप्तमी, तेन युवप्रत्यये पश्चाल्लुमता लुप्तेऽपि विषयभूत एव तस्मिन् प्रागेव लुकः प्रतिषेधः, लुप्तेऽपि वा प्रत्ययलक्षणेन। नन्वचीति वचनाद्वर्णाश्रयोऽयम्, नेत्याह; अचीति प्राग्दीव्यतीयस्य प्रत्ययस्य विशेषणं प्रत्ययश्च लुकि निमित्तम्।
आङ्ग्यः स्त्रिय इति। इह च आङ्गी च वाङ्गश्च सौह्मश्चेति द्वन्द्रे आङ्गोतिशब्देन स्त्रीत्वयुक्तानामभिधानात्तदणो लुग्न भवति, आङ्गीवङ्गसुह्मा इति भवतीत्याहुः।।
यस्कादिभ्यो गोत्रे।। 2.4.63 ।।
यस्कादिभ्यो चगोत्रे।। प्रत्ययविधेश्चान्यत्रेति। गोत्रे यत्र प्रत्ययो विधीयते `गोत्रे कुञ्जादिभ्यश्च्फञ्' इत्यतोऽन्यत्रेत्यर्थः। तत्र तावदपत्याधिकारे गोत्रग्रहणादेव पारिभाषिकस्य ग्रहणम्, अन्यत्र लौकिकस्येत्यत्र ज्ञापकं वक्ष्यामः। पुष्करसच्छब्दस्येति। किमर्थ पुनरयमत्र पठ्यते, यावता `बह्वच इञः प्राच्यभरतेषु' इत्येव सिद्धं पुष्करसदः प्राच्यत्वात्, तथा चेतः प्राचामिति प्राप्तस्य लुकः प्रतिषेधाय तौल्वल्यादिषु पठितः? एवं तर्हि गोपनादिषु केचित्तौल्वल्यादयश्चेति पठन्ति, तौल्वल्यादिषु प्रकृतिभागा अपि गोपवनादिषु द्रष्टव्या इत्यर्थः। तेन `न गोपवनादिभ्यः' इति निषेधे प्राप्तेऽत्रास्य पाठः। अयमेव च पाठो ज्ञापयति---गोपवनादिषु तौल्वल्यादयोऽपि पठिता इति।।
यञञोश्च।। 2.4.64 ।।
यञञोश्च।। गोत्रप्रत्ययस्य बहुषु वर्तमानस्येति। अत्रापि व्यधिकरणे षष्ठ्यौ। बहुषु वर्तमानस्य समुदायस्य सम्बन्धी यो गोत्रप्रत्ययो यत्र अञ् च तस्येत्यर्थः। तेन द्वन्द्वेऽपि भवति---गर्गवत्सवाजाः, बिदौर्वभरद्वाजा इति। गार्ग्यः स्त्रिय इति। `यञश्च' इति ङीप्, `हलस्तद्धितस्य'। बैद्य इति। `शाङ्गर्रवाद्यञो ङीन्'।
एकद्वयोरिति। एकत्वद्वित्वयोरित्यर्थः। `संख्याया अल्पीयस्याः' इत्येकशब्दस्य पूर्वनिपातः। `द्व्येकयोः' इति निर्देशाद् द्विशब्दस्यापि भवति। गार्ग्ययोः कुलं गार्ग्यकुलमिति। प्रकरणादिवशाद् द्वित्वावगतौ द्विवचनान्तस्यापि विरुद्धः समासः।।
अत्त्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च।। 2.4.65 ।।
बह्वच इञः प्राच्यभरतेषु।। 2.4.66 ।।
बह्वच इञः प्राच्यभरतेषु।। भरतापत्येषु भरतशब्दाऽभेदोपचाराद्वर्तते, यथा----`रघूणामन्वयं वक्ष्ये' इति। युधिष्ठिरार्जुनशब्दाभ्यां कुर्वाणोऽपवादो बाह्वादिलक्षण इञ्। बलाकाशब्देऽपि बाह्वादिः।
भरताः प्राच्या एवेति। `प्राच्यभरतेषु' इति द्वन्द्वस्तु सामान्यविशेषवाचिनोर्गोबलीवर्दन्यायेनेति भावः।।
न गोपवनादिभ्यः।। 2.4.67 ।।
न गोपवनादिभ्यः।। परिशिष्टानां हरितादीनां प्रमादपाठ इति। ननु चेह स्थाने न गोपवनादयः पठ्यन्ते, किं तर्हि? चतुर्थ एव बिदादिषु तदुपजीवनेनैतत्प्रवर्तते। अथ चतुर्थ पाठः प्रमादज इत्युज्यते, बिदाद्यञपि तर्हि न प्राप्नोति। अथ गोपवनादिभ्यः परत्र पाठः प्रमादजः पूर्वत्र पाठ्यः----इत्युच्येत्, एवमपि `हरितादिभ्योऽञ्' इत्येष विधिर्गोपवनादीनामपि प्राप्नोति। तस्माद्यथाव्यवस्थित एव पाठे मध्ये वृत्करणं वर्तव्यम्, इह वा प्राक् हरितादिभ्य इति वक्तव्यम्। यथोक्तम्----`गोपवानादिभ्यः प्रितिषेध प्राग्घरितादिभ्यः' इति। वृत्तिकारस्तु चतुर्थेऽत्र चपृथक् पाठं मन्यते।।
तिककितवादिभ्यो द्वन्द्वे।। 2.4.68 ।।
तिककितवादिभ्यो द्वन्द्वे।। द्वन्द्वरूपाण्येव गणे पठ्यन्ते। तिकादीनि पूर्वपदानि कितवादीन्युत्तरपदानि, तत्र `तिकादिभ्यो द्वन्द्वे' इत्युच्यमाने पूर्वपदेष्वेव लुगाशङ्क्येत उत्तरपदेष्वपि यथा स्यादिति तिककितवादिभ्य इत्युक्तम्। आदिशब्दः प्रत्येकमभिसम्बध्यते, तदाह---तिकादिभ्यः कितवादिभ्यश्चेति।।
उपकादिभ्योऽन्यतरस्यामद्वन्द्वे।। 2.4.69 ।।
उपकादिभ्योऽन्यतरस्यामद्वन्द्वे।। द्वन्द्वे चाद्वन्द्वे चेति। कथम् `अद्वन्द्वे' इत्युच्यमाने द्वन्द्वे चाद्वन्द्वे च भवति, तदाह----अद्वन्द्वग्रहणं द्वन्द्वाधिकारनिवृत्त्यर्थमिति। नात्र शास्त्रीयोऽधिकारः स्वरितत्वनिबन्धनो विवक्षितः न हि पूर्वसूत्रे द्वन्द्वशब्द आसक्तस्वरित, तस्माल्लौकिकोऽधिकारो व्यपेक्षालक्षणः। तदिह द्वन्द्वशब्देन तद्विषया व्यपेक्षाभिधीयते, तस्या नञा निषेधः---अद्वन्द्वे इति। किमुक्तं भवति? द्वन्द्व इति नापेक्ष्यत इति, तदनपेक्षायां द्वद्वे चाद्वन्द्वे च भवति। `अद्वन्द्व' इत्यस्मिन्नसति लौकिकोऽधिकारो द्वन्द्वस्य शङ्क्येत्, द्वन्द्वचैषामेव परस्परं गृह्यते, तेषां पूर्वेण नित्यं लुग्भवतीति। भाष्ये तु भ्राष्टकिकापिष्ठलय इत्युदाहरणात्तिककितवादिष्वस्य पाठोऽनार्ष इति निश्चयः।।
आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्।। 2.4.70 ।।
आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्।। कुण्डिनोशब्दस्य यञि `भस्याऽढे तद्धिते' इति पुंवद्भावे `नस्तद्धिते' इति लोपे कौण्ड्य इति प्राप्नोति, अस्मादेव निपातनात्पुंवद्भावः। असति च तस्मिन्नीकारस्य यस्येति लोपः, तस्य स्थानिवत्त्वादाभीयत्वेनासिद्धत्वाद्वा टिलोपाभावः। आगस्त्यकौण्डिन्येत्येतयोर्गोत्रप्रत्यययोरिति व्यधिकरणे षष्ठ्यौ, एतयोर्याववयवावीत्यर्थः। तावेव स्वरूपेण दर्शयति---अणश्च यञश्चेति। मध्योदात्तो हि कुण्डिनीशब्द इति। कुण्डमस्यातीति `अतइनिठनौ' प्रत्ययस्वरः, ङीबनुदात्तः। ननु मानुवृत्तं लुग्ग्रहणम्, प्रत्ययान्तयोरवादेशौ स्तामत आह---तयोरित्यादि। यदि हि प्रत्ययान्तयोरेवादेशौ स्याताम्---`गोत्रेऽलुगचि' इति प्रतिषेधो न स्याद्, लुको ह्यसौ निषेधो नादेशस्य, ततश्चादेशे सत्यवृद्धत्वादणेव स्यात्; लुकि तु सति तस्य प्रतिषेधे तत्सन्नियोगशिष्टस्यादेशस्याप्यभावाद्धृद्धलक्षणश्चो भवति। तत्र विशेषो नास्तीति किमर्थ तर्हीदमुक्तम्---अणश्च यञश्च बहुषु लुग्भवतीति? एवं मन्यते----यदि कुण्डिनजादेशः समुदायस्य स्याद् अगस्त्यादेशोऽपि तथा स्याद्; अतोऽवश्यं लुगनुवर्त्त्यः, अनुवृत्तस्य च कौण्डिन्येनापि संबन्धः; विरोधाभावादिति।।
  सुपो धातुप्रातिपदिकयोः।। 2.4.71 ।।
सुपो धातुप्रातिपदिकयोः।। अत्र `सुपः' इति सप्तमीबहुवचनं न गृह्यते; `पञ्चम्या स्तोकादिभ्यः' इत्यादिना पञ्चम्यादीनामलुग्विधानात्। नापि कपः पकारेण प्रत्याहारः, तद्धितानां विधानसामर्थ्यात्; अन्यथा तद्धितान्तस्य प्रातिपदिकत्वात्तदवयवस्य सर्वस्यैव तद्धितस्य लुक् स्यात्, `द्विगोर्लुगनपत्ये' इत्येतच्चानर्थकं स्यात्। अतः सुशब्दादारभ्य सुपः पकारेण प्रत्याहार इत्याह--सुपो विभक्तेरिति। धातुप्रातिपदिकयोरिति यदि सप्तमी स्याद् धातुप्रातिपदिकयोः परतः सुपौ लुक् स्यात्---काष्ठैः पचति, शोभनैः काष्ठैरिति, तस्मात्षष्ठीयमित्याह---सुपो विभक्तेर्धातुसंज्ञायाः प्रातिपदिकसंज्ञाया इति। धातुः संज्ञा यस्यास्तस्या इत्यर्थः। कथं पुनर्विभक्तिर्धातुसंज्ञा प्रातिपदिकसंज्ञा वा भवति, तत्राह---तदन्तर्गता इति। एवमपि धातुप्रातिपदिकयोरवयवभूता विभक्तयः स्युर्न तत्संज्ञाः? नेष दोषः; समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वर्तन्ते. धातुप्रातिपदिकयोरवयवस्य सुप इत्यपि व्याख्याने न कश्चिद्दोषः। प्रत्युत `सुपः' इत्यस्य द्विवचनान्तेन सम्बन्धो न दुरुपपादो भवति, तथा तु न व्याख्यातमित्येव।।
अदिप्रभृतिभ्य शपः।। 2.4.72 ।।
अदिप्रभृतिभ्य शपः।। कथम् ` न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेद्' इति, तथा भट्टिकाव्ये---`आश्वसेयुर्निशाचराः' इति, तथा `न विश्वसेत्पूर्वविरोधितस्य' इति? निरङ्गशाः कवयः। अपर आह---`क्षमूष् सहने' घटादिः; तत्र `घटादयः षितः' इति सिद्धे षित्करणं ज्ञापकम्---अनित्यं गणकार्थमिति, तेनैवमादिप्रयोगोपपत्तिरिति नात्र किञ्टचिदपभाषितमस्ति।।
बहुलं छन्दसि।। 2.4.73 ।।
यङोऽचि च।। 2.4.74 ।।
यङोऽचि च।। अचि प्रत्यये परत इति। पचाद्यचीत्यर्थः। एतदेव ज्ञापकम्---सर्वधातुभ्यः पचाद्यच् भवतीति। प्रत्याहारग्रहणं तु न भवति, तथा हि सति---अणीत्येव वक्तव्यम्; अन्याजादेः प्रत्ययस्यासंभवात्। न तु छन्दसीति। `हुश्नुवोः सार्वधातुके' इत्यत्र वार्त्तिकम्---`हुश्नुग्रहणमनर्थकमन्यस्याभावात्'। यान्ति वातीत्यत्र क्ङितीत्यधिकारान्न भविष्यति, यातः वातः, अचीत्यनुवर्तते। यान्ति वान्ति, ओरिति। युवन्ति रुवन्ति, अनेकाच इति वर्तते। अयुवन्, अरुवन्, अडागमोऽसिद्धः। प्रोर्णवन्ति, असंयोगपूर्वस्येति वर्तते। यङ्लुङ्‌निवृत्त्यर्थ तर्हि हुश्नुग्रहणम्---योयुवति, रोरुवति। यङ्लुगर्थमिति चेदार्धधातुकत्वास्तिद्धम्, छान्दसो यङ्लुक्, तत्र `छन्दस्युभयथा' इत्यार्धधातुकत्वादेव न भविष्यति। तदेवं यङ्लुकश्छान्दसत्वमभ्युपगम्य हुश्नुग्रहणं प्रत्याख्यातं वार्त्तिककारेण। स मन्यते---चकारेणात्र `बहुलं छन्दसि' इति सर्वमनुवर्त्तिष्यते, तेनाचि प्रत्यये परतः छन्दसि भाषायां यङो लुग् भवतीत्येकं वाक्यम्, छन्दसि बहुलमनैमित्तिको लुगिति द्वितीयम्, प्रसिद्धश्च तथा छान्दसो यङ्लुगिति। प्रयोगश्च चिरन्तनः पद्ये गद्ये च काव्याख्यायिकादौ विकटपदोपन्यासप्रधानैरपि कविभिर्न कृतो द्दश्यते।
भाष्यकारस्तु `हुश्नुवोरिति वक्ष्यन्ति, एवं तर्ह्येतज्ज्ञापयति---भाषायामपि यङ्लुक्' इति, तेन चेचिदीति, चेच्छिदीति, योयवीतीत्यादि सिद्धं भवति। वृत्तिकारस्तु मन्यते----`यदि ज्ञापकेनापि तावद्भाषायामपि यङ्लुकः प्रयोगे भवति, हन्तैवमत्रैव छन्दोग्रहणं मानुवृतत्! प्रयेगस्तु ज्ञापकाश्रयेणैव यथाभिधानं व्यवस्थास्यते' इति, अतो न भाष्यवार्त्तिकविरोधो वृत्तेः शङ्कनीयः।।
जुहोत्यादिभ्यः श्लुः।। 2.4.75 ।।
जुहोत्यादिभ्यः श्लुः।। शबनुवर्त्तते, न यडिति। श्लाविति द्विर्वचनविधानात्। यङ्नुवृत्तौ हि श्लुना तत्र लुप्तेऽपि `सन्यङोः' इति षष्ठ्याश्रयणाद् द्विर्वचनसिद्धेरनर्थकं तत्स्यात्। बिभर्तीति। `भृञामित्' इत्यभ्यासस्येत्त्वम्। नेनेक्तीति। `णिजिर्‌शौचपोषणयोः',`णिजां त्रयाणां गुणः श्लौ'।।
बहुलं छन्दसि।। 2.4.76 ।।
  गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु।। 2.4.77 ।।
गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु।। अभूदिति। `भूसुवोस्तिङि' इति गुणप्रतिषेधः। लुगनुवर्त्तते, न श्लुरिति। व्याख्यानात्।
इण्‌पिबत्योर्ग्रहणमिति। इणादेशो गा इणित्युक्तः, तत्र गातीत्यादाविकस्येणोय आदेशस्तदनुकरणो गा तिपि शब्लुका निर्दिष्टः, स्थानिवद्भावात्प्रकृतिवदनुकरणं भवतीति चच। तेन `गामादाग्रह8णेष्वविशेषः' इति लाक्षणिकस्यापि गारुपस्य यद्यपि ग्रहणं प्राप्तम्, तथापि गातीति निर्देशादेव तस्य निवृत्तिः। तथा `लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्' इति पिबतेरेव ग्रहणम्। अगासीत्, अपासीदिति। `कै गै रै शब्दे' पा रक्षणे' यमरमनमातां सक्च' इति सगागमः, सिचश्चेट्, `अस्तिसिचोऽपृक्ते' इतीट्, `इट ईटि'। पै ओवै शोषणे' इत्यस्य लाक्षणिकं पारूपमिति ग्रहणाभावः।
अगासातामिति। कर्मण्यात्मनेपदम्, आताम्।।
विभाषा घ्राघेट्शाच्छासः।। 2.4.78 ।।
विभाषा घ्राघेट्शाच्छासः।। धेटः सानुबन्धकस्य निर्देश आत्वपरिहारार्थः। `धा' इत्युच्यमाने प्रतिपदोक्तत्वाद्धाञ एव ग्रहणं स्यात्। ननु सत्यप्यनुबन्धो च्चारणेऽनुबन्धानामनेकान्तत्वात् `नानुबन्धकृतमनेजन्तत्वम्' इत्युदीचां माङ इतिवदात्त्वं प्राप्नोति? सत्यम्; अयमेव निर्देशो ज्ञापयति---सानुबन्धानुकरणे नावश्यकमात्त्वमिति। तेन सूत्राद्वहिरपि वेञः, धेटः, दैप इत्यादि प्रयोगोपपत्तिः। अघ्रासातामिति। कर्मण्यात्मनेपदम्, आताम्। सुमनसाविति। `स्त्रियः सुमनसः पुष्पम्' इत्यमरसिंहः, `अप्सुमनस्समासिकतावर्षाणां बहुत्वं च' इति पाणिनीयं सूत्रम्। तद्वहुत्वं प्रायिकं मन्यते, एका च सिकता तैलदाने समर्था' इति भाष्ये प्रयोगात्।।
तनादिभ्यस्तथासोः।। 2.4.79 ।।
तनादिभ्यस्तथासोः।। उदाहरणेषु स्वरितेत्त्वादात्मनेपदम्। थासा साहचर्यादिति। यद्यपि तावदयं तशब्दो द्दष्टापचारः---अस्त्यात्मनेपदमस्ति च परस्मैपदम्, अस्ति चैकवचनमस्ति च बहुवचनम्। अयं तु खलु थाः शब्दोऽद्दष्टापचार---आत्मनेपदमेकवचनं च, तस्यास्य कोऽन्यः सहायो भवितुमर्हति, अन्यदत आत्मनेपदादेकवचनाच्चेति भावः। आत्मनेपदस्येति। उपलक्षणमेतत्। एकवचनस्येत्यपि द्रष्टव्यम्।।
मन्त्रे घसह्वरणशवृदहाद्‌वृचकृगमिजनिभ्यो लेः।। 2.4.80 ।।
मन्त्रे गसह्वरणशवृदहाद्‌वृचकृगमिजनिभ्यो लेः।। च्लेरेवात्र ग्रहणमिष्यते, न लिङादीनाम्, तदर्थं `सिचः' इत्यनुवर्तयन्ति---सिचो यो लिः स्थानिभूतस्तस्येति व्याचक्षते। सिचि प्रकृते लिग्रहणम् `आदिः सिचोऽन्यतरस्याम्' इत्यादिसिच्कार्यं मा भूदिति। पूर्वत्र हि मा हि दातामिति सिच्स्वरो भवत्येव। ह्वरेति विहितगुणस्यानुकरणम्, अकारश्चाग्न्तुक उच्चारणार्थः। अक्षन्निति। `लुङ्सनोर्घस्लृ', `गमहन्' इत्युपधालोपः, `शासिवसि' इति षत्वम्। प्राणडिति। ब्रश्चादिना षत्वे जश्त्वचत्वे। प्राणगिति पाठे `नशेर्वा' इति कुत्वम्। आप्रादिति। `प्रा पूर्त्तौ' आङ्पूर्वः। अज्ञतेति। `जनी प्रादुर्भावे', अनुदात्तेत्। बहुवचनस्य `आत्मनेपदेष्वनतः' इत्यदादेशः, पूर्ववदुपधालोपः, श्चुत्वम्। ब्राह्मणे प्रयोगोऽयमिति। मन्त्रव्यतिरिक्तो वेदभागः=ब्राह्मणम्। यथाह भगवाञ्जैमनिः----`यच्चोदकेषु मन्त्राख्या इति मन्त्रलक्षणान्तरम्, शेषे ब्राह्मणशब्दः' इति। बह्वचानां हरिश्चन्द्रब्राह्मणे हरिश्चन्द्रं प्रति वरुणस्यैतद्वाक्यम्---अज्ञत वा अस्य दन्ता इति। कथं पुनर्मन्त्रग्रहणे ब्राह्मणग्रहणं भवति? तत्राह---मन्त्रग्रहणन्त्विति। मन्त्रस्य छन्दोरूपत्वात्तेन तदुपलक्ष्यते। बाहुल्येन तु मन्त्रे दर्शनान्मन्त्राग्रहणं कृतम्।।
आमः।। 2.4.81 ।।
आमः।। आम उत्तरस्य लेर्लुग्भवतीति। यद्यपि सिचा लिर्विशेषितः, तथापीह लेरित्येवानुवर्तत इति भावः। विदामक्रन्विदाङ्गुर्वन्त्वित्यत्र लुङ्लोटोर्निपातनाल्लुग्भवति। तरबादीनां चामन्तादनुत्पत्तिरेव, तस्यानभिव्यक्तपदार्थत्वात्। अयं च लुग्नाप्राप्तेषु तिबादिषु विधीयमानत्वाल्लादेशानामपवादः। तेनामन्तस्यातिङ्न्तत्वाच्चक्षुः कामम्, याजयाञ्चकारेत्यत्र `तिङ्ङतिङः' इति, तस्य चानिघातः, तस्माच्च निघातः सिद्धो भवति। कथमामन्तस्य पदत्वम्? सुबन्तत्वात्। लकारस्य कृत्त्वात्प्रातिपदिकत्वम्। तिङ्भाविनो हि लकारस्यातिङिति प्रतिषेधः, न चायं तिङ्भावी। सुपः श्रवणं कस्मान्न भवति? आमः स्वरादिषु पाठादव्ययत्वात्। तद्धितेनामा साहचर्येऽपि तद्धित एव न गृह्यते, अपि तु व्याप्तेरतद्धितोऽपि नञा तुच समासप्रसङ्गः, न कारयां न हारयां `ऩञ्' सुबन्तेन समस्यत इति समासः प्राप्नोति? नैष दोषः; अभिव्यक्तपदार्थेन हि याजयाञ्चकारेति नञः सामर्थ्यम्, न त्वनभिव्यक्तपदार्थेनामन्तमात्रेण। आमन्तेभ्यो णलः प्रतिषेधः----शशाम, तताम;वृद्धौ कृतायां स्थानिवद्भावेन णलो लिग्रहणेन ग्रहणे लुक् प्राप्नोति? अर्थवद् ग्रहणात्सिद्धम्। अर्थवत आमन्तस्य ग्रहणम्, न चैषोऽर्थवान्। एवमपि `अमगत्यादिषु', तिपो णल्, आम----अत्र प्राप्तोति, अर्थवत्त्वात्? `लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' इति अत्र न भविष्यति।।
अव्ययादाप्सुपः।। 2.4.82 ।।
अव्ययादाप्सुपः।। तत्र शालायामिति। शालाशब्दसन्निधौ स्त्रीत्वयुक्तद्रव्यगतकारकशक्त्यभिधानात्तस्यामितिवत्तत्रेत्यत्रापि यदि स्त्रीप्रत्ययः स्यात्पदादेव स्त्रीत्वं प्रतीयेतेति व्यामोहनिवृत्त्यर्थ टापो लुग्वक्तव्यः, यथा----षट्सञ्ज्ञकेभ्यः प्रतिषेध इति भावः। वार्त्तिककारस्त्वाह----`अव्ययादापो लुग्वचनानर्थक्यं लिङ्गाभावात्' इति। कृत्वा, हृत्वेति। यदा `बहुषु बहुवचनम्' इत्यादेः स्वादिविधिवाक्येनैकवाक्यता, तदा निस्सङ्ख्येभ्यो निष्कारकेभ्यश्चाव्ययेभ्योऽस्मादेव लुग्विधानाल्लिङ्गत्स्वादयो भवन्ति, भिन्नवाक्यतायामपि नियमपक्षे तुल्यजातीयस्य नियमेन व्यावृत्तिः----बहुष्वेव बहुवचनं न द्वयोरेकस्मिन्, द्वयोरेव द्विचनं नैकस्मिन्न बहुषु, एकस्मिन्नेवैकवचनं न द्वयोर्न बहुषु, इत्यव्ययेभ्यः स्वादीनां सम्भवः। त्रिकपक्षे तु यत्र सङ्ख्या सम्भवति तत्रैव सा वाच्यत्वेन विधीयते, अव्ययेभ्यस्तु निः सङ्ख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एवेति सर्वथाव्ययेभ्यः सुबुत्पत्तिरेषितव्या---प्रत्ययलक्षणेन पदसञ्ज्ञा यथा स्यादिति। तुबिति च सप्तमीबहुवचनस्य पकारेण प्रत्याहारः, न कपः; आपः पृथगुपादानात्।।
नाव्ययीभावादतोऽम्त्वपञ्चम्याः।। 2.4.83 ।।
नाव्ययीभावादतोऽम्त्वपञ्चम्याः।। किमर्थः प्रतिषेधः? पूर्वसूत्रेण लुङ्माभूदिति। अमत्र विधीयते, स नाप्राप्ते लुकारभ्यमाणस्तस्य बाधको भविष्यति, यत्र तर्हि प्रतिषिध्यते, पञ्चम्यास्तत्र लुक् प्राप्नोति। प्रतिषेधे तु सतित तत्सामर्थ्याद् द्वे वाक्ये भवतः-----नाव्ययीभावादित्येकम्, अम्त्वपञ्चम्या इति द्वितीयम्। अत्र चात इत्यपेक्ष्यते। तत्रापञ्चम्या इत्यनेनानन्तरस्य विधिर्वा भवति प्रतिषेधो वेति पञ्चम्या आदेशः प्रतिषिद्ध्यते, न पूर्ववाक्यविहितः प्रतिषेधः। इममेवार्थ तुशब्देन द्योतयति---अविशेषेण प्रितषेधः अम्त्वपञ्चम्या इति, तदेतदुक्तम्----तस्मिन्प्रतिषिद्धे पञ्चम्याः श्रवणमेव भवतीति। वाक्यभेदस्तु वृत्तावेव स्पष्टः। उपकुम्भादिति। समीपभूतात्कुम्भादित्यर्थः। कुम्भस्य समीपादित्यपरे। उन्मत्तगङ्गादिरन्यपदार्थप्रधानः सत्त्ववाच्यव्ययीभावः क्रियासम्बन्धसद्भावादपादानत्वात्पञ्चम्या मुख्यमुदाहरणम्।।
तृतीयासप्तम्योर्बहुलम्।। 2.4.84 ।।
तृतीयासप्तम्योर्बहुलम्।। सुभद्रमिति। मद्राणां समृद्धिरित्यव्ययीभावः, ततः सप्तमी, तस्या नित्यमम्भावः। एकविशतिभारद्वाजमिति। एकविशतिर्भरद्वाजा वंश्या इति `सङ्ख्या वंश्येन' इति समासः। तत्र वर्त्तिपदार्थानां स्वार्थोपसर्जनार्थान्तराभिधायित्वाद्भारद्वाजशब्द एकत्वविशष्टार्थान्तरे सङ्क्रान्त इत्यञो लुगभावः। नेति वयम्, गर्गाणां कुलं गर्गकुलमित्यादावपि प्रसङ्गात्। तस्माद् भाष्यकारप्रयोगादत्र लुगभावः।।
लुटः प्रथमस्य डारीरसः।। 2.4.85 ।।
लुटः प्रथमस्य डारीरसः।। परस्मीपदस्यात्मनेपदस्य चेति। यद्येवं परस्मैपदे त्रयः प्रथमपुरुषसंज्ञकास्तिबादयः, आत्मनेपदेष्वपि त्रयस्तादय इति षट् स्थानिनस्त्रय आदेशा इति वैषम्यात्संख्यातानुदेशो न प्राप्नोति। मा भूत्संख्यातानुदेशः, आन्तर्यतो व्यवस्था भविष्यति? अर्थतश्चान्तर्यम्, एकार्थस्यैकार्थो द्व्यर्थस्य द्व्यर्थो बह्वर्थस्य बह्वर्थः। कथं पुनर्डादीनामैकार्थ्याध्यवसायः, यावता यस्तिपः स्थाने स एकार्थः, यस्तस्स्थाते स द्व्यर्थः यो झेः स्थाने स बह्वर्थः? नेत्याह, प्रयोगदर्शनादप्यैकार्थ्यादिकमध्यवसातुं शक्यम्। अथ वाऽऽदेशा अपि षडेव निर्दिश्यन्ते, कथम्? एकशेषनिदशात्, डारौरसश्च डारौरसश्चेति कृतद्वन्द्वानामेकशेषः। यदि तु डा च डा च डा, रौ च रौ च रौ, रस् च रस् च रस्, डा च रौ च रस् च डारौरस इति कृतैकशेषणां द्वन्द्वः स्यात्? अनिष्टः संख्यातानुदेशः प्राप्नोति तिप्तसोर्डा, झितयो रौ, आतांझयो रसिति। कर्तिति। लुट्,तिप्, तस्य डा इत्ययं सर्वादेशः। नानुबन्धकृतमनेकाल्त्वम्। अस्तु तर्ह्मन्त्यस्यैव, तिपस्तकारेण सह टिलोपो भवति। ननु तकारान्तमङ्गं न भवति, डित्करणसामर्थादनङ्गस्यापि भविष्यति, यथा---सिद्धान्तेऽभस्यापि। अथ वाऽऽनुपूर्व्यात्सिद्धम्, कथम्? अन्त्यस्याप्ययं स्थाने भवन्नप्रत्ययः स्याद्, असत्यां प्रत्ययसंज्ञायां डकारस्येत्संज्ञा नास्ति, असत्यां चेत्संज्ञायामनेकाल्, यदानेकाल् तदा सर्वादेशः, यदा सर्वादेशस्तदा प्रत्ययः, यदा प्रत्ययस्तदेत्संज्ञा, यदेत्संज्ञा तदा लोपस्तदैकाल्, न चेदानीं प्रत्यावृत्त्यान्तादेशो भवितुमर्हति? तदेतदानुपूर्व्यात्सिद्धम्। कर्तारौ, कर्तार इति। `रि च' इति तासस्त्योर्लोपः। अध्येतेति। `इङ् अध्ययने'। अथात्र डारौरस्सु कृतेषु टेरेत्त्वं कस्मान्न भवति? पूर्वमेवास्मिन्योगे स्थानिषु प्रवृत्तत्वात्। इह हि तशब्दस्य टेरेत्त्वं च प्राप्नोति, डादेशश्च; द्वयोरपि शब्दान्तरप्राप्तेरनित्यत्वात्परत्वाट्टेरेत्त्वे कृते पुनः प्रसङ्गविज्ञानाड्डादेशः। एवं रौरसोरपि द्रष्टव्यम्। अथ वा--- पूर्वमेव डारौरसो भवन्तु, थासः सेवचनं ज्ञापकम्----ये तिङादेशास्तेषां टेरेत्त्वं न भवतीति, अन्यथा `थासः स' इत्येव वाच्यं स्यात्। कर्तासीति। `तासस्त्योः' इति सलोपः।।
इति श्रीहरदत्तमिश्रविरचितायां पदमञ्चर्यां द्वितीयाध्यायस्य तुरीयश्चरणः।।
* समाप्तोऽयं द्वितीयोऽध्यायः *

-------******-------