काशिका (पदमञ्जरीव्याख्यासहिता)/तृतीयोऽध्यायः/चतुर्थः पादः
← तृतीयः पादः | काशिका (पदमञ्जरीव्याख्यासहिता) चतुर्थः पादः [[लेखकः :|]] |
अथ तृतीयाध्याये चतुर्थः पादः
पदमञ्जरी
धातुसम्बन्धे प्रत्ययाः ।। 3.4.1 ।।
प्रयोगे स्वार्थाभिधानव्यग्रयोर्धात्वोः परस्परेण सम्बन्धाभावादुपचरितवृत्तिरत्र दातुशब्द इत्याह---धात्वर्थे धातुशब्द इति । धात्वर्थानां सम्बन्धो धातुसम्बन्ध इति । सम्बन्धस्यानेकाधिष्ठानत्वात् वृत्तावपि संख्याविशेषोऽवगम्यत इति भावः । सकलविषयापेक्षया च बहुवचनम् । एकैकं विवक्षायां तु धात्वर्थयोः सम्बन्ध इति द्रष्टव्यम् । यदि तु कर्मत्वं समानकर्तृकत्वं च धातोरर्थद्वारकं विशेषणमितिवद्धात्वोरेवार्थद्वारकः सम्बन्ध आश्रीयेत, इह तु न स्यात्---गोमानासीत्, गोमान् भवितेति, द्वयोर्हि प्रयुज्यमानयोः सम्बन्धो भवति, न चात्र वर्तमानकालेऽस्तिः प्रयुज्यते । कीदृशः पुनरयं धातुसम्बन्धः ? इत्याह---विशेषणविशेष्यभाव इति । तत्र तिङन्तवाच्योऽर्थो विशेष्यं तत्प्रधानत्वाद्वाक्यस्य; सुबन्तवाच्यस्तु विशेषणम्, कारकस्य क्रियां प्रति गुणभावात् । अयथाकालोक्ता अपीति । यस्मिन्काले विहितास्ततोऽन्यत्रापि प्रयुक्ता इत्यर्थः । एतेन कालमात्रस्यात्र बाधः, न तूपपदोपाधिप्रकृतिप्रत्ययार्थानामिति दर्शयति । एतच्च `वर्त्तमानसामीप्ये' इत्यारभ्य प्रायेण कालान्यत्वप्रतिपादनाल्लभ्यते । अग्निष्टोमयाजीति भूतकाल इति । भूतः कालो यस्येति बहुव्रीहिः, एतेन भविष्यत्काल इति व्याख्यातम् । तत्रेति । तयोर्मध्ये । भूतकालोऽग्निष्टोमयाजीत्येवशब्दो भविष्यत्कालेन जनितेत्यनेन सम्बद्ध्यमानः साधुर्भवति । अयमपि भविष्यत्कालः सन्साधुर्भवतीत्यर्थः । अथ वा---स्वयमपि भविष्यत्कालेना भिसम्बद्ध्यमानः, स्वकालपरित्यागेन भविष्यत्कालः सन्नित्यर्थः । अयं ह्यत्रार्थः---पुत्त्रोऽस्य जनिता स चाग्निष्टोमेन यष्टेति, तत्र यदि भूतकाल एव णिनिरवतिष्ठेन तदा यागस्य भविष्यत्तावगमो न प्राप्नोतीत्ययमारम्भः । एवमितरयोरप्युदाहरणयोर्द्रष्टव्यम् । अथ विपर्ययः कस्मान्न भवति, भविष्यत्कालो भूतकालेनाभिसम्बद्ध्यमानः स्वकालपरित्यागेन भूते साधुर्भवति, ततश्चाग्निष्टोमयाज्यस्य पुत्त्रो जात इत्ययं वाक्यार्थ इति ? तत्राह=विशेषणं गुणत्वादिति । प्रधानानुवर्त्ता गुणः, न गुणानुवतिं प्रधानम्, उभयोश्च स्वकालनिष्ठयोः स्म्बन्धानुपपत्तिरिति प्रधानानुरोधेन गुणस्य कालपरित्याग इत्यर्थः ।
प्रत्ययाधिकार इति । यद्यपि प्रकृतः प्रत्ययशब्दः स्वरूपपदार्थकः, तथापीह संज्ञेनामनिर्देशात्संज्ञिपदार्थको विज्ञास्यत इति भावः । अधात्वधिकारविहिता अपीति । अन्यथा प्रकृतानां धातुप्रत्ययानामेव ग्रहणं स्यात् । प्रत्ययग्रहणात्तु सर्वपरिग्रहार्थात्तद्धितानामपि कालान्तरेऽपि साधुत्वं भवति । गोमानासीत्, गोमान्भवितेति । `तदस्यास्त्यस्मिन्' इति मतुप्प्रत्ययो वर्त्तमानसत्ताविशिष्टेन प्रकृत्यर्थेन विशिष्टेऽर्थे विहितः । धातुसम्बन्धे तु प्रकृत्यर्थस्य भूतभविष्यत्वेऽपि साधुर्भवति । ततश्चायमत्रार्थः---गावोऽस्यासन् गोमानासीत्, गावोऽस्य भवितारः गोमान् भवितेति । धात्वधिकारादेव धातुग्रहणे सिद्धे पुनर्धातुग्रहणं धातुविशेषपरिग्रहार्थम्, तेनास्तिभूजनिसम्बन्धे तद्विशेषणानामेव कालान्यत्वेन साधुत्वं भवतीति केचित् । न चायं पक्षो भाष्ये सिद्धान्तत्वेन स्थापितः, तस्मादविशेषेण भवतीत्यन्ये । दृश्यते चान्यत्रापि कालान्यत्वलम्---`साटोपमुर्वीमनिशं नदन्तो ये प्लावयिष्यन्ति समन्ततोऽमी' इत्यत्र । नदन्त इति वर्त्तमानकालः प्लावयिष्यन्तीति अवर्त्तमानेनाभिसम्बद्ध्यमानो भविष्यत्कालः सम्पद्यते ।
सूत्रप्रत्यख्यानं तु---अग्निष्टोमयाजीति भूत एव णिनिः, जनितेत्येतत्सम्बन्धात्तु केवलं व्यपदेशस्य भावित्वप्रतीतिः, अस्य सूत्रस्य शाटकं वयेतिवत् । ततश्च भाविव्यपदेशविज्ञानाद्विशेषणस्य कालान्यत्वं वाक्यार्थवशादसत्यपि सूत्रारम्भे प्रत्येष्यते । अवश्यं च स्वकाल एव प्रत्ययविधिरेष्टव्यः, अन्यथा भाविकृत्यमासीदित्यत्र भाविशब्दस्य भूतकालत्वे भाव्यासीच्छब्दयोः पर्यायत्वाद्युगपत्प्रयोगो न स्यात् । तस्मादिदानीमासीदित्येवं तत्रार्थः । गोमानासीदित्यत्रापि देवदत्तस्य विधमानत्वेऽपि गोमद्रूपस्यातीतत्वाद् भूतप्रत्ययः । तत्रार्थाद् गवामप्यतीतत्वं प्रतीयते, गोमच्छब्दस्तु स्वमहिम्ना वर्त्तमानसत्ताविशिष्टमेव प्रकृत्यर्थमाह ।।
क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः ।। 3.4.2 ।।
धातुसम्बन्ध इति वर्त्तत इति । अनुप्रयोगधातुना च सम्बन्धः । क्वचित्त्वयं ग्रन्थो न पठ्यते । प्रकृत्यर्थविशेषणं चैतदिति । उपपदत्वाशङ्कां निरस्यति । व्याख्यानाच्चोपपदत्वाभावः । समभिहारविशष्टक्रियावचनादिति । क्रियाधर्मे समभिहारमात्रे धातोर्वृत्त्यसम्भवादेतदुक्तम् । अत्र यदि `लोटो हिस्वौ' इति वचनात्तस्यैव हिस्वौ स्याताम्, तदा सामान्यविहितानां तिङां शतृशानउभ्यामिव हिस्वाभ्यां बाधा स्यात्, ततस्तध्वमोर्लोट्स्थानिकयोरभावात् `वा च तध्वमोः' इति तयोः स्थानित्वेनोपादानमनुपपन्नमिति लोट्शब्देन तदादेशानां ग्रहणमित्युपलक्ष्यते । अस्तु तथा, को दोषः ? इह हि तिप्सिप्मिपां स्थाने विहितस्य हेः स्थानिवद्भावेन पित्त्वान्ङित्त्वाभावाल्लुनीहितीत्त्वं न स्यात्, ब्रूहीति `ब्रुव ईट्' स्यात्, तृण्ढीति `तृणह इम्' स्यात्, अनुदात्तत्वं च हेः प्रसज्येत ? नैष दोषः; `सेर्ह्यपिच्च' इत्यत्र योगविभागः करिष्यते, तत्सामर्थ्याद् `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' इति नाश्रीयते, सेर्हिर्भवति अपिच्च भवति यावान्कश्चिद्धिर्नामेति । यौ तर्ह्युत्तमादेशौ हिस्वौ, तरोयराडागमः प्राप्नोति---लुनीहिलुनीहीत्येवाहं लुनामि, अधीष्वाधीध्वेत्येवाहमधीय इति ? नैष दोषः; आटि कृते साट्कस्यादेशौ भविष्यतः, सकृत्प्रवृत्त्या लक्षणस्य चरितार्थत्वात् । हिस्वयोः पुनराट् न भविष्यति, इह ह्याट् क्रियातां हिस्वाविति सम्प्रधारणायामुभयोरनित्ययोः `शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति' इति परत्वादाटि कृते साट्कस्य हिस्वाविति सिद्धमिष्टम् । एवमपि हेर्योगविभागेन पित्त्वाभावेऽपि स्वशब्दस्योत्तमादेशस्य पित्त्वाद्भुङ्क्ष्वभुङ्क्ष्वेत्येवाहं भुञ्जे इत्यत्र `श्नसोरल्लोपः' इत्यकारलोपो न प्राप्नोति, ब्रूष्वब्रूप्वेत्येवाहं ब्रुवे `ब्रुव ईट्' प्राप्नोति, सर्वेषां च तिङां द्वावपि हिस्वौ पर्यायेण स्यातां न तु `परस्मैपदानां हिः, इतरेषआं स्वः' इति नियामकमस्ति । तस्माद्दुष्ट एवायं पक्ष इति मत्वा लकारस्यैवादेशौ हिस्वावाश्रयणीयाविति दर्शयति । तस्य च लोट इति । नन्वस्मिन्पक्षे `वा च तध्वमोः' इत्यनुपपन्नमित्युक्तं तत्राह---तध्वम्भाविनस्तु वा भवति इति । मुख्यार्थासम्भवे तध्वम्भावी लोडेव तथोच्यते इत्यर्थः ।
यदि तर्हि लोट एव हिस्वावादेशौ न तदादेशानाम्, `लः परस्मैपदम्' इति द्वयोरपि परस्मैपदसंज्ञा स्यात्, ततश्च द्वावपि परस्मैपदिभ्य एव स्याताम् । तिङ्क्ष्वसन्निवेशाच्च तदन्तस्य तिङन्तता न स्यात्, ततश्च `तिङ्ङतिङः' इति निघातो न प्राप्नोति । हिस्वयोश्च कृत्त्वात्तदन्तस्य शतृशानजन्तस्यैव प्रातिपदिकत्वात्स्वाद्युत्पत्तिः प्राप्नोति, तत्र च विभक्तिसंज्ञकहिस्वसदृशत्वादनयोर्हिस्वयोः `विभक्तिस्वरप्रतिरूपकाश्च निपाताः' `निपातोऽव्ययम्' इत्यव्ययसंज्ञायां यद्यपि विभक्तीनां श्रवणं न भवति, तथापि ततः परस्य `तिङ्ङतिङ' इति निघातः प्राप्नोति, द्वावपि च कर्तर्येव स्याताम्, न तु स्वादेशो भावकर्मकर्तृषु स्यात् । तस्मादयमपि पक्षो दुष्ट एव, तत्राह---लोडित्येवेति । एतेन द्वितीययोगे प्रथमान्तस्य लोड्ग्रहणस्यानुवृत्ति दर्शयति । तत्र च सामानाधिकरण्येन लोडित्यनेन हिस्वौ विशेष्येते, न षष्ठ्या विपरिणामेन, च न हिस्वौ लोटौ भवतः; उच्यते चेदं लोटो हिस्वाविति, ततश्च धर्मातिदेशो विज्ञायते, तदाह---लोड्धर्माणौ तौ भवत इत्यर्थ इति । अत्र च लोट्शब्देन लोट्संबन्धिनौ हिस्वावुच्येते मुख्यलोट्संबन्धिनो धर्मस्यातिदेश्यस्यासम्भवात्प्रसिद्धौ लोट्संबन्धिनौ यौ हिस्वौ, `सेर्ह्यपिच्च' `सवाभ्यां वामौ' इति विहितौ, तद्धर्माणावित्यर्थः । किं सिद्धं भवति ? तद्दर्शयति---तेनेति । तयोहि परस्मैपदात्मनेपदत्वं भेदेन व्यवस्थितम्---हेः परस्मैपदत्वम्, स्वस्यात्मनेपदत्वमिति । अतस्तद्धर्मातिदेशादिहापि तदुभयं भेदेन, व्यवतिष्ठते, भेदेन भविष्यतीत्यर्थः । तिङ्त्वं च भवतीति । तथा च---हीत्यस्य कर्त्ता वाच्यः, स्वशब्दस्य तु भावकर्मकर्त्तारः । पुरुषैकवचनसंज्ञे तु विधानसामर्थ्यान्न भवतः, यदि हि ते अपि स्याताम्, हिस्वयोरनेन विधानमनुपपन्नं स्याद्; वचनान्तरेणैव तयोस्तादृशयोः सिद्धत्वात् ।
लुनीहि लुनीहीत्यादि । पुनः पुनर्लवनमयं करोतीत्यादिरर्थः । तत्र च लोडन्तं पुनः पुनर्लवनमाह, अनुप्रयोगधातुस्तु कृतिं तद्विषयां वदन् अभिव्यनक्ति, संमुग्ध तद्गतं साधनादिकम् । एवं च सामान्यविशेषयोर्विशेषणविशेष्यभावाद् धातुसम्बन्ध उपपद्यते, इत्येवशब्दौ, लोडन्तानुप्रयोगयोः सम्बन्धार्थौ, अयन्त्वमहंशब्दाः पुरुषविशेषाभिव्यक्तिहेतवः । अथ वेति । `वा च तध्वमोः' इत्यस्य फलं दर्शयति ।
अलावीदिति । लुङ्, सिचि वृद्धिः, सिच इट्, तिपः `अस्तिसिचोऽपृक्ते' इतीट्, `इट ईटि' इति सिचो लोपः, `सिज्लोप एकादेशे सिद्धो वक्तव्यः' इति सवर्णदीर्घत्वम् । एवं मध्यमोत्तमयोरुदाहार्यमिति । लुनीहि तुनीहीत्येव त्वमलावीः अलाविष्टमलाविष्ट । अथा वा लुनीत लुनीतेत्येव यूयमलाविष्ट । लुनीहि लुनीहीत्येवाहमलविषम् अलाविष्व अलाविष्म । एवं मध्यमोत्तमयोरपीति । लुनीहि लुनीहीत्येव त्वं लविष्यसि लविष्यथः लविष्यथ । अथ वा लुनीत लुनीतेत्येव यूयं लविष्यथ । लुनीहि लुनीहीत्येवाहं लविष्यामि लविष्यावः लविष्यामः । एवं सर्वेषु लकारेषूदाहार्यमिति । लुनीहिलुनीहीत्येवायमलुनात् लुनातु लुनीयात् लूयात् लुलाव लविता लविष्यति अलविष्यत्; अधीष्वाधीष्वेत्येवायमध्यैत अधीताम् अधीयीत अध्येषीष्ट अधिजगे अध्यगीष्ट अध्यैष्ट अध्येता अध्यैष्यत अध्येष्यते । कर्मणि---लूयस्व लूयस्वेत्येवायं केदारो लूयत इत्यादि । भावे तु प्रसिद्धः स्वशब्दो दृष्टो न वेति चिन्त्यम् ।
अथोदाहरणेषु कथं द्विर्वचनम्, यावता क्रियासमभिहारं द्योतयितुं द्विर्वचनं विधीयते, स चात्र तस्मिन्नेव विधीयमानेन लोटैव द्योतितः, अथ द्योतितेऽपि तस्मिन् `क्रियासमभिहारे द्वे भवतः' इति वचनसामर्थ्यादत्र द्विर्वचनं यङन्तेऽपि प्राप्नोति, वक्तव्यो वा विशेषः ? तत्राह---क्रियासमभिहाराभिव्यक्ताविति । `लः कर्मणि च' इति वचनाद्भावकर्मकर्त्तारोऽस्य वाच्याः, समभिहारस्तु द्विर्वचनेनैव द्योत्यः, यङस्तु न किञ्चिदन्यद्वाच्यं द्योत्यं वा विद्यते इति तेनैव क्रियासमभिहारस्य द्योतितत्वाद् द्विर्वचनाभावः । ननु च सन्तु भावकर्मकर्त्तारोऽस्य वाच्याः, समभिहारोऽप्युपाधित्वेन श्रुतः, सोऽपि लोटो द्योत्यो भवतु, यथा---लडादिषु वर्त्तमानादयः ? एवं तर्ह्यसति द्विर्वचने शुद्धस्य लोटोऽस्य च साधारणं रूपमिति समभिहाराभिव्यक्तयेऽवश्यं द्विर्वचनमपेक्ष्यते । शब्दशक्तिवैचित्र्यं चात्र हेतुः, यथा स्त्रीत्वं क्वचिदेकेनैव प्रत्ययेन द्योत्यते, क्वचिद् द्वाभ्याम्, क्वचित् दृषदित्यादो प्रातिपदिकेनैवेत्यलं प्रबन्धेन ।।
समुच्चयेऽन्यतरस्याम् ।। 3.4.3 ।।
`समुच्चये' इति समान्योक्तावपि क्रियासमुच्चय एव दृश्यते, धातोः प्रत्ययविधानादित्याह---अनेकाक्रयाध्याहारः समुच्चय इति । अनेकासां क्रियाणामेकस्मिन् सम्बन्धिनि निचीयमानतेत्यर्थः । एतेनैकक्रियाविषयात्समभिहारात्समुच्चयस्य भेदो दर्शितः । धातोः क्रियावाचित्वात्क्रियाधर्मे समुच्चयमात्रे वृत्तिर्न भवतीत्यभिप्रायेणाह---समुच्चीयमानक्रियावचनादिति । एकस्मिन्साधने याः क्रियाः समुच्चीयन्ते तद्वाचिभ्यो धातुभ्यः प्रत्य इत्यर्थः ।
भ्राष्ट्रमटेत्यादि । भ्राष्ट्राटनादीनि करोतीत्यर्थः । तत्रानुप्रयुज्यमानो धातुः साधनभेदेन भिन्नेष्वटनेष्वनुवर्तमानं कृतिव्यापारं वदँस्तद्गतानि साधनादीनि प्रिकाशयतीति परस्परसम्बन्धः । भ्राष्ट्रम्=चुल्लि, खस्य दूरं खदूरम्=अपवरकम्, स्थाल्यः प्रक्षालिता यत्र निधाय पिधीयन्ते तत्स्थाल्यपिधानम् ।
अथ वेति । प्रथमेनाथवाशब्देन `वा च तध्वमोः' इत्यस्य व्यापारं दर्शयति, द्वितीयेनान्यतरस्याङ्ग्रहणस्य । एवं द्वितीयेऽप्युदाहरणे द्रष्टव्यम् ।।
यथाविध्यनुप्रयोगः पूर्वस्मिन् ।। 3.4.4 ।।
यथाविधीति । पदार्थनतिवृत्तौ `यथार्थे यदव्ययम्' इत्यव्ययीभावः, अनुप्रयोग इत्यनुशब्दो धात्वर्थानुवादी, न पश्चाद्भावेनानन्तर्येऽर्थे । तेन पूर्वव्यवहितप्रयोगोऽपि भवति । पूर्वस्मिन्निति वचनं विस्पष्टार्थम् । समुच्चये हि सामान्यवचनस्यानुप्रयोगं वक्ष्यति, तेन ततोऽन्यत्रायं विधिरन्यश्च विषयः पूर्वमेव लोड्विधानम् । धातुसम्बन्धे प्रत्ययविधानादिति । ननु च हिस्वान्तमेतदनभिव्यक्तपदार्थकम्, सख्याकालपुरुषाणामनभिव्यक्तत्वात्, अतस्तदर्थाभिव्यक्त्यर्थभेवानुप्रयोगः सिद्धः ? अस्त्वेवम्, किमेतावता वृत्तिकारोक्तो हेतुर्न भवति । अथ वा यावन्तमर्थमभिव्यङ्क्तुं हिस्वान्तं समर्थं तावतो विवक्षायामनुप्रयोगासिद्धि मत्वैवमुक्तम् । यथाविध्यर्थ वचनमिति । ननु च `समुच्चये सामान्यवचनस्य' इति वक्ष्यति, तत्र नियमो विज्ञास्यते---समुच्चय एव धात्वन्तरस्यानुप्रयोग इति, ततश्च क्रियासमभिहारे यथाविध्यनुयोगो भविष्यति ? एवं मन्यते---समुच्चये सामान्यवचनस्यैवानुप्रयोग इति नियमादन्यत्र धात्वन्तरस्यापि स्यादिति छिनत्तीति नानुप्रयुज्यत इति । पचतीत्यादेभिन्नार्थस्य त्वप्रसङ्गः, लोडन्तेनानन्वयात् । समानार्थस्य तु सम्भवति सम्बन्धः, यथा--तस्यैव । एवं सामान्यवचनस्य करोत्यादेरप्यनुप्रयोगप्रसङ्गः, तस्यापि हि सन्निहेतलोडन्तवाच्ये विशेषे पर्यवसानात्सम्भवत्येवान्वयः । ननु चैकस्या आकृतेश्चरितः प्रयोगो न द्वितीयस्यास्तृतीयस्याश्च भवति, एतच्च `कृञ्जानुप्रयुज्यते' इत्यत्र व्याख्यातम्, तत्र यथा गवां स्वामी अश्वेषु चेति न भवति, तथेहापि येनैव धातुना लोट्प्रयोगः प्रारब्धस्तेनैवासौ समापयिष्यते ? न; अस्यापि न्यायस्य वेदे लोके च व्यभिचारात् । वेदे तावत्---इन्द्राय राज्ञे सूकर इति चतुर्थोप्रयोगप्रकरणे क्षिप्रश्येनस्य वर्त्तिका ते धातुरिति षष्ठी, मयुः प्राजापत्य इति तद्धितश्च देवतासम्बन्धे दृश्यते । लोकेऽपि---सस्नुः, पयः पपुरिति लिटा सहानेनिजुरिति लङ् प्रयुक्तः । तस्मादारभ्यमेवैतत् ।।
समुच्चये सामान्यवचनस्य ।। 3.4.5 ।।
ननु च हिस्वान्तस्यानभिव्यक्तपदार्थकत्वाद्धातुसम्बन्धे प्रत्ययविधानाच्चानुप्रयोगः सिद्धः, नार्थ एतेन ? तत्राह---सर्वविशेषेति । असत्यस्मिन्यतो धातोर्लोड्विहितः स तस्यानुप्रयुज्येत । एवमपि हिस्वान्तार्थस्याभिव्यक्तिर्भवत्येव धातुसम्बन्धश्चोपपद्यते ।
ननु च सर्वेषु विशेषेषु यदनुगतं सामप्त्न्यं तद्वाचिनोऽनुप्रयोगेऽपि तस्य सामान्यस्य सन्निहितेषु विशेषेषु पर्यवसानादर्थाभिव्यक्तिश्च सर्वेषां भवति, धातुसम्बन्धश्च । तत्र सामान्यवचनस्यैकस्यानुप्रयोगोऽस्तु, बहूनां विशेषवाचिनां वेति सम्प्रधारणायामेकस्यैव भविष्यति, लघुत्वात्तत्राह---लाघवं चेति । अन्यथा तरुद्रुमादीनामेव प्रयोगः स्यात्, न वनस्पत्यादिशब्दानामिति भावः । ननु भ्राष्ट्रमटेत्यादौ तस्यैवानुप्रयोगात्कथं सामान्यवचनता ? तत्राह---भ्राष्ट्रमटेत्यादि । कारकभेदात् क्रियाभेदे सतीति । भेदनिबन्धनः समुच्चयोऽप्येवमेवात्रोपपाद्यः ।।
छन्दसि लुङ्लङ्लिटः ।। 3.4.6 ।।
उदाहरणेषु धातुसम्बन्धो मृग्यः । अकरदिति । `कृमृदृरुहिभ्यश्छन्दसि' इति च्लेरङादेशः, `ऋदृशोऽङि गुणः' ।।
लिङर्थे लेट् ।। 3.4.7 ।।
जोषिषदिति । `जुषी प्रीतिसेवनयोः' अनुदात्तेत्, व्यत्ययेन परस्मैपदम्, `इतश्च लोपः परस्मैपदेषु', `लेटोऽडाटौ' इति तिपोऽडागमः, `सिब्बहुलं लेटि' इति सिप्, इडागमः । तारिषदिति । सिब्विधौ बहुलं णिद्वद्भाव उक्तः, ततो वृद्धिः । पतातीति । `पत्लृ गतौ', तिप आडागमः ।।
उपसंवादाशङ्कयोश्च ।। 3.4.8 ।।
यदि मे भवानित्यादिनोपसंवादस्य स्वरूपं दर्शयति । कारणत इत्यादिना । शङ्कायाः अनुसरणमनुगमनमित्यर्थः । अहमेवेत्यादि । त्रिपुरविजये देवैः प्रर्थितस्य देवस्यैतद्वचनम् । `ईश ऐश्वर्ये', उत्तमैकवचनमिट्, टेरेत्वम्, `वैतोन्यत्र' इत्यैकारः । पशवो द्विपादश्चतुष्पादश्च । `वायुं देवा अब्रुवन्सोमं राजानं हनामेति, सोऽब्रवीदूरं वृणै, मदग्रा एव वो ग्रहा गृहायान्तै इति । मद्ग्रहोऽग्रं प्रथमं येषां ते तथोक्ताः, ग्रहेः कर्मण्यात्मनेपदं यक्, ग्रहिज्यादिना सम्प्रसारणम्, झस्याडागमः, पूर्ववदैत्यम् । `देवाः सोममघ्नन्, सोऽपूयदशक्यतामागमत्, ते वायुमब्रुवन् इमं नः स्वदयेति, सोऽब्रवीद्वरं वृणै, मद्देवतान्येव वः पात्राण्युच्यान्तै इति । अहं देवता येषां तानि तथोक्तानि । उच्यान्तै इति वचेः `वचिस्वपि' इत्यादिना सम्प्रसारणम्, शेषं पूर्ववत् । नेज्जिह्यायन्त इति । इच्छब्द आशङ्कां द्योतयति । जिह्मचरणेन नरकपातः सम्भाव्यते, स मा भूदित्यर्थः । जिह्मम्=कुटिलं पापम्, `छन्दसि परेच्छायाम्' इति क्यच्, `अश्वाघस्यात्' इति योगविभागोनात्वम् । वृत्तौ तु वस्तुमात्रं दर्शितम् । जिह्माचरणेनेति । न पुनराचारे उपमानादन्यत्र क्यजस्ति । हेतौ शतृप्रत्ययः । लिङर्थ एवायमिति । हेतुहेतुमद्भावे, कथम् ? उपसंवादे तावत्करणं हेतुः, दानं हेतुमत्; अन्यथा यदि मे भवानिदं कुर्यादिति लिङ् न स्यात्, विभाषा तु लिङिति । अहमपि ते इदं दास्यामीति लृट् । भाष्ये तु ददातेरपि लिङ् प्रयुक्तः । आशङ्कापि कारणतः कार्यानुसरणम्, तत्र कारणं हेतुः, कार्यं हेतुमत् । अथापि करणमवधिः, दानमवधिमदित्यवध्यवधिमद्भाव उपसंवादे प्रतीयते, न हेतुहेतुमद्भावः, आशङ्कायामपि निश्चितो हेतुहेतुमद्भावो नास्तीत्युच्येत, तथापि लिङ्प्रयोगसिद्धयेऽवश्यं वक्तव्योऽत्र हेतुहेतुमद्भावः, अतो लिङर्थ एवायमित्यर्थः । नित्यार्थं तु वचनमिति । छन्दसि नित्योऽत्र लिङ् दृश्यत इति मन्यते, तथापि व्यवस्थितविभाषया सिद्धमिति चेत्तदेव तर्हि वचनेन ज्ञाप्यते ।।
तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ् तवेनः ।। 3.4.9 ।।
कथं ज्ञायत इति । `कर्तरि कृत्' इति वचनात् भावस्तुमर्थो नोपपद्यत इति प्रश्नः । अपकर्षः=अपनयः, स्वार्थश्च धातूनां भाव इति साध्यमानरूपः । स एव हि धातुवाच्यो भावः । घञादिवाच्यस्तु भावो धात्वर्थव्यतिरिक्तः सिद्धतारूपः । पिबध्यै इति । `यको बहुलं छन्दसि' इति लुकि पिबादेशः । मादयर्ध्यै इति । यकः प्रसङ्गे व्यत्ययेन शप् ।।
दृशे विख्ये च ।। 3.4.11 ।।
योगविभागश्चिन्त्यप्रयोजनः ।।
ईश्वरे तोसुन्कसुनौ ।। 3.4.13 ।।
वितृद इति । `ओतृदिर् हिंसानादरयोः' ।।
कृत्यार्थे तवैकेन्केन्यत्वनः ।। 3.4.14 ।।
कृत्यानामर्थो भाकर्मंणी इति । यद्यपि भव्यगेयादिषु कर्त्ताप्यर्थः, वह्यं करणम्, स्नानीयं चूर्णित्यादिषु करणादयः; तथापि न तत्र कृत्यत्वेन कर्त्रादिषु विधानम्, किं तर्हि ? स्वरूपेण, अतः कृत्यतया विधानं भावकर्मणोरेवेति भावः । दिदृक्षेण्य इति । दृशेः सन्नन्तात्केन्यः । शुश्रूषेण्य इति । श्रृणोतेः । सयादिसूत्रेऽपीति । येन सयादयो विधीयन्ते तत्र `तुमर्थे सेसेनसे' इत्यत्रेत्यर्तः । तस्य तुमर्थादन्यत्रेति । अन्यथाऽनेनैव तुमर्थे भावेऽपि सिद्धत्वादनर्थकं तत्स्यात् ।।
अवचक्षे च ।। 3.4.15 ।।
एश्प्रत्यय इति । शित्करणं सार्वधातुकत्वार्थम्, तेन चक्षिङः ख्याञ् न भवति ।।
भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् ।। 3.4.16 ।।
संस्थानादीनामवधित्वेन लक्षणभावः । आ समाप्तेरिति । सम्पूर्वो हि तिष्ठतिः समाप्तौ रूढः; सन्तिष्ठते पिण्डपितृयज्ञ इत्यादौ दर्शनात् । आतामितोरिति । `तमु ग्लानौ' ।।
अलंखल्वाः प्रतिषेधयोः प्राचां क्त्वा ।। 3.4.18 ।।
`तुमर्थे' इत्येव । अलंकृत्वेति । `अमैवाव्ययेन' इति नियमादुपपदसमासाभावः । न कर्त्तव्यमित्यर्थः ।
वासरूप इति चेदिति । पूर्वं तु प्रैषादिषु कृत्यानां वचनेन `स्त्र्यधिकाराधूर्ध्वं वासरूपविधिर्नावश्यमस्ति' इति ज्ञापितत्वादिह तदभावमभिप्रेत्य प्राग्ग्रहणं विकल्पार्थमित्युक्तम् ।।
उदीचां माङो व्यतीहारे ।। 3.4.19 ।।
अपमित्येति । `मेङ् प्राणिदाने' क्त्वो ल्यपि `गयतेरिदन्यतरस्याम्' इतीत्वं, ह्रस्वस्य तुक् । अपूर्वकालत्वादिति । पूर्व ह्यसौ याचते पश्चादपमयते । यदा चास्माद्वचनान्मयतेः क्त्वो भवति तदा `समानकर्तृकयोः' इत्यादिना याचने भवति, अनेन बाधितत्वात्, यथा---द्वितीयद्विर्वचनेन प्रथमद्विर्वचनम् । अनभिधानाद्वा । मेङ इत्यादि । मेङोऽयं कृतात्वस्य निर्देशः कृतः, न पुनः `माङ् माने' इत्यस्य, तस्य व्यतिहारे वृत्त्यसम्भवादित्यर्थः । यद्येवम , मेङ इत्येव वक्तव्यम्, तत्रायमप्यर्थो व्यतीहारग्रहणं न कर्त्तव्यं भवति, तत्राह---ज्ञापनार्थमिति । किं ज्ञाप्यत इत्याह---नानुबन्धकृतमिति । प्रयोजनमाह---तेनेति । यद्ययमर्थो न ज्ञाप्येत, ततः श्रूयमाणे पकारे दैप आत्वं न स्यात्; अनेजन्तत्वात्, ततश्चादाबिति प्रतिषेधे तस्य ग्रहणं न स्यात्, `दाप् लवने' इत्यस्यैव तु स्यात् ।।
परावरयोगे च ।। 3.4.20 ।।
परावरशब्दयोः सम्बन्धिशब्दत्वाद्यपदेक्षं परावरत्वम्, तयोः पूर्वपरयोरेव परावराभ्यां योगो गम्यते, इत्याह---परेण पूर्वस्येति । पूर्वशब्देनात्रावरो विवक्षितः । अप्राप्य नदीमिति । नद्याः पूर्वदेश इत्यर्थः । ततश्च नदी परा भवतीति । परनदीयोगेन पर्वतो विशेष्यति । अतिक्रम्य पर्वतमिति । पर्वतस्य परस्तादित्यर्थः । ततश्चावरः पर्वतो भवति तेनावरपर्वतयोगेन नदी विशेष्यते । अयमप्यपूर्वकालार्थ आरम्भः, अतिक्रमोऽत्र कीदृश इति चिन्त्यम् ।।
समानकर्तृकयोः पूर्वकाले ।। 3.4.21 ।।
क्रियापेक्षत्वात्कर्तृभावस्य धात्वधिकारेऽपि तदर्थस्यैव समानर्क्तृकत्वं विज्ञायते, न धातोरित्याह---समानः कर्त्ता ययोर्धात्वर्थयोरिति । कमानशब्दोऽयमेकवाची, तत्रेति निर्द्धारणे सप्तमीं दर्शयति । षष्ठ्यामपि न दोषः । सप्तमी त्वाश्रिता । पूर्वकाले धात्वर्थे वर्तमानादिति । प्राभाकरास्तु पूर्वप्रयुज्यमानादिति व्याचक्षते, अनुष्ठाने पौर्वकाल्यं नाद्रियन्ते; तद्भाष्यवार्त्तिकविरोधादुपेक्ष्यम् । उक्तं हि---आस्यं व्यादाय स्वपिति संमील्य हसतीत्युपसंख्यानमपूर्वकालत्वादिति । ननु च शक्तिः कारकम्, सा च प्रतिक्रियं भिद्यते, तत्कुतः समानकर्तृकत्वम् ? इत्यत आह---शक्तिशक्तिमतोरिति । इह समानकर्तृकयोरिति द्विवचननिर्देशः क्रियते, तेन द्वयोरेव पौर्वकाल्ये स्यात्, बहूनांन स्यात्, तत्राह---द्विवचनमतन्त्रमिति । अवश्यं येन केनचिद्ववचनेन निर्देशः कर्त्तव्यः, तत्र समानकर्तृकत्वस्य पूर्वकालत्वस्य च भेदाधिष्ठानत्वाद्भेदनिबन्धनयोर्व्दिवचनबहुवचनयोः प्रथमभावित्वाद् द्विवचनं प्रयुक्तम्, न त्वैतत्तन्त्रमित्यर्थः । एवमपि लोकविज्ञानान्न सिद्ध्यति, तद्यथा लोके---अमीषां ब्राह्मणआनां पूर्व आनीयताम् इत्युक्ते सर्वपूर्व एवानीयते, एवमिहापि सर्वपूर्वायाः क्रियायाः प्राप्नोति, तस्मादेवं वक्तव्यम्---सर्वेषामेवात्र व्रजि प्रति पौर्वकाल्यम्, स्नात्वा व्रजति भुक्त्वा व्रजति पीत्वा व्रजतीति । आख्यातवाच्या हि क्रिया विशेष्यत्कात्प्रधानम्, तेन तां प्रति सर्वासां विशेषणत्वात्परस्परेणासम्बन्धः, तदुक्तम्---`गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात्' इति । एवं च कृत्वा प्रयोगोऽप्यनियतो भवति---स्नात्वा भुक्त्वा पीत्वा व्रजति, पीत्वा स्नात्वा भुक्त्वा व्रजतीति ।
भुक्तवति ब्राह्मण इति । ननु तुमर्थाधिकाराद्भावे क्त्वाप्रत्ययः, क्तवतुस्तु कर्तरि ? एवं तर्ह्यस्मिन्विषये भावे न भवतीति प्रत्युदाहरणत्वं वाच्यम्, `श्रीशैलशिखरं दृष्ट्वा सर्वपापैः प्रमुच्यते' इत्येवमादीनां कर्तृभेदविषयाणां प्रयोगाणामसाधुत्वमेव । व्रजति जल्पति चेति । यौगपद्यादिह पूर्वकालता नास्ति । अपूर्वकालत्वादि । पूर्वं ह्यसौ स्वपिति पश्चाद्व्याददाति, यदैव हसति तदैव संमीलयति, न वा स्वप्नस्यापरकालत्वात्, अस्यं त्वसौ व्यादाय मुहूर्त्तमपि स्वपिति संमील्य च हसति, ततश्चोत्तरकालभाविस्त्वापहासाद्यपेक्षं पौर्वकाल्यं तदाश्रयश्च प्रत्ययः । इह कस्मान्न भवति---पूर्वं भुङ्क्ते, ततो व्रजतीति ? स्वशब्देनोक्तत्वात् । `विभाषाग्रे' इत्यनेनापि न भवति, किं कारणम् ? साधनपौर्वाकाल्यविषयाणामग्र्यादीनां तत्र ग्रहणम्, अन्येभ्यो भोक्तृभ्यः पूर्वं भुक्त्वा ततो व्रजतीति । इह तु व्रज्यपेक्षं भोजनस्य यत्पौर्वकाल्यं तत्र क्त्वाप्रत्ययश्चोद्यते, तत्पूर्वशब्देनोक्तम् । न च वचनसामर्थ्यादुक्तेऽपि प्रसङ्गः; साधनपौर्वकाल्यविषयेऽग्र्यादावुपपदे चरिताथेत्वात् । क्रियाविषयत्वाच्च कालव्यवहारस्य तद्द्वारकमेव साधनपौर्वकाल्यं द्रष्टव्यम् । उक्तं हि---
क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका । इति ।
इहास्यते भोक्तुमिति वासरूपेण लड् भवति, यदा आसेः क्त्वा भवति तदा भुजेर्लडादय एव भवन्ति---आसित्वा भुङ्क्त इति, न तु तुमुन् ; अनभिधानात् । आसित्वा भोक्तुमित्युक्ते प्रक्रमत इत्यादीनां सम्बन्धः प्रतीयते ।।
आभीक्ष्ण्ये णमुल् च ।। 3.4.22 ।।
द्विर्वचनसहिताविति । केन पुनरत्र द्विर्वचनमित्याह---आभीक्ष्णये द्वे भवत इत्युपसङ्ख्यानाद् द्विर्वचनमिति । `नित्यवीप्सयोः' इत्यत्र तु वामनो वक्ष्यति---`तिङ्क्षु नित्यता अव्ययकृत्सु च' इति । तन्मते नित्यग्रहणादेवात्र द्विर्वचनम् । पायंपायमिति । `आतो युक्' ।।
न यद्यनाकाङ्क्षे ।। 3.4.23 ।।
अनाकाङ्क्ष इति । पचाद्यजन्तेन नञ्समासः, तद्दर्शितम् । नापरं किञ्चिदाकाङ्क्षते इति । क्त्वा तु पूर्वसूत्रविहितोऽपीति । णमुल् चेत्युक्तम्, तदपेक्षं पूर्वत्वमपिशब्दादनन्तरसूत्रविहितोऽपि आभीक्ष्ण्येनाभीक्ष्ण्ये च क्त्वामात्रस्य प्रतिषेध इत्यर्थः । एतच्च पूर्वकाले यत्प्राप्नोति तन्न भवतीत्येवं प्रकरणापेक्षया प्रतिषेधविज्ञानाल्लभ्यते ।।
विभाषाग्रेप्रथमपूर्वेषु ।। 3.4.24 ।।
अग्रशब्दो देशविशेषवचनोऽप्यस्ति---प्रभोरग्रे भुङ्क्ते इति, इह तु प्रथमशब्दसाहचर्यात्कालविशेषवाचिनो ग्रहणम् । अनुकरणत्वाच्चाग्रे इति विभक्तेर्लुगभावः---अस्यवामीयमिति यथा । आमीक्ष्ण्य इति नानुवर्त्तत इति । अप्राप्तविभाषेयमित्यत्रेयंयुक्तिः । तदनुवृत्तौ हि पूर्वसूत्रेण प्राप्ते विभाषा स्याद्, एवं च ब्रुवता साधनपोर्वकाल्यविषया अग्र्यादय इत्युक्तं भवति । क्रियापौर्वकाल्ये हि अग्र्यादिभिरेव तस्योक्तत्वादाभीक्ष्ण्येऽपि क्त्वाणमुलोरप्राप्तिरिति `आभीक्ष्ण्ये' इत्यनुवृत्तावप्यप्राप्तविभाषैव स्यात् । न च द्विर्वचनमन्तरेणाभीक्ष्ण्यं द्योतयितुं शक्यमिति न तद्द्योतनायापि क्त्वाणमुलोर्विधानमुपपद्यते । नन्वननुवर्तमानेऽप्याभीक्ष्ण्यग्रहणे पूर्वसूत्रस्यावकाशो यत्राग्र्यादयो न सन्ति, अस्य तु यत्राभीक्ष्ण्यं नास्ति सोऽवकाशः; आभीक्ष्ण्ये चाग्र्यादिषु च सत्सूभयप्रसङ्गे परत्वादियमेव विभाषा प्राप्नोतीत्युभयत्र विभाषेयं युक्ता ? एवं मन्यते---पूर्वविप्रतिषेधेनाभीक्ष्ण्ये नित्य एव विधिर्भवतीति---अग्रेभोजंभोजं व्रजति, अग्रेभुक्त्वाभुक्त्वा व्रजति । एवं पूर्वप्रथमयोरपि द्रष्टव्यम् । नन्वेवं णमुल्यप्राप्ते क्त्वाप्रत्यये तु `समानकर्तृकयोः' इत्यादिना प्राप्ते सत्ययमारम्भ इति पुनरप्युभयत्रविभाषैव युक्ता ? नैतदस्ति; सह विहितौ यौ क्त्वाणमुलौ यद्विषये वासरूपविधेरभावो ज्ञापयितुमिष्टः, तावनन्तरसूत्रविहितौ क्त्वाणमुलावभिप्रेत्याप्राप्तविभाषेयमुच्यते, न तु क्त्वाणमुल्मात्रपेक्षया । क्त्वाणमुलौ प्रत्ययौ भवत इति । किमर्थं पुनः क्त्वा विधीयते, यावता नाभीक्ष्म्येऽपि समानकर्तृकयोरित्येवासौ सिद्धः ? सत्यम् ; विभाषाग्रहणेन वासरूपविधेरभावो ज्ञाप्यत इति वक्ष्यति । न च केवलं णमुल्विधौ तदभावो ज्ञापयितुमिष्यते, किं तर्हि ? क्त्वासहितणमुल्विधौ । तस्माण्णमुलः क्त्वासहितस्य विधिर्यथा स्यादिति णमुल् चेत्यनुवृत्त्या क्त्वोऽप्यनुवादः क्रियते । एवं हि द्वयोः सह विधातुमुपादीयमानं विभाषाग्रहणं तादृश एव विषये वासरूपविधेरभावं ज्ञापयतीति सिद्धमिष्टम् । अग्रेभोजं व्रजतीति । अन्येभ्यो भोक्तृभ्यः पूर्वं भुक्त्वा व्रजतीत्यर्थः । आमीक्ष्ण्ये लडादयो न भवन्तीति । अग्रे भुङ्क्ते भुङ्क्ते ततो व्रजतीत्येवं न भवतीत्यर्थः ।
उपपदसमासः कस्मान्न भवतीति । प्राप्तविभाषायामस्यामग्र्यादीनां पक्षे प्रत्ययनिवृत्तौ निमित्तत्वम्, न तु प्रत्ययोत्पत्तौ, तयोः `आभीक्ष्ण्ये णमुल् च' इत्यनेनाविशेषेण विहितत्वादित्यनुपपदत्वम् । अप्राप्तविभाषायां त्वग्र्यादीनां प्रत्ययोत्पत्तिं प्रति निमित्तत्वान्निमित्तस्य चोपपदसंज्ञाविधानादुपपदसमासः प्राप्नोतीति भावः । अमैव यत्तुल्यविधानमिति । एतच्च तत्रैव व्याख्यातम् ।।
कर्मण्याक्रोशे कृञः खमुञ् ।। 3.4.25 ।।
उदाहरणेषु करोतिरुच्चारणे वर्त्तते, तस्य शब्दात्मकमेव कर्म भवति । तत्र चोरादिशब्दाः शब्दप्रधानाः । चोरङ्कारम् । कोऽथेः ? चोरशब्दमुच्चार्येत्यर्थः, तदाह---चोरोऽसीत्यादि । चोरकरणमिति । चोरशब्दोच्चारणम् । आक्रोशसम्पादनार्थमिति । निन्दितशब्दोच्चारणमन्तरेण तस्य सम्पादयितुशक्यत्वात् । न त्वसाविति । न हि चोरोऽसीति वचनेन चोरः क्रियते ।।
स्वादुमि णमुल् ।। 3.4.26 ।।
स्वादुमीत्यर्थग्रहणमिति । एतच्च व्याख्यानाल्लभ्यते । स्वाद्वर्थेष्विति । मान्तत्वमपि सर्वेषां भवति; अर्थे सम्भावत् । लवणसम्पन्नशब्दावपि स्वादुशब्दापर्यायो । अथ `स्वादुमि' इति मकारान्तनिपातनं किमर्थम्, याषता खमुञ् प्रकृतः, सोऽनुवत्तिष्यते, तत्र `अरुद्विषदजन्तस्य मुम्' इति मान्तत्वं सिद्धमिति ? तत्राह---मकारान्तनिपातनमीकाराभावार्थमिति । भावप्रत्ययविषये मान्तत्वे निपात्यमाने `वोतो गुणवचनात्' इति ङीप् न भवति, मकारान्तत्वादुकारान्तत्वाभावादित्यर्थः । च्व्यन्तस्येति । खमुञ्यपि न सर्वत्र मुम् सिद्ध्यति; तद्विदौ `अनव्ययस्य' इत्यधिकारादिति भावः । एवं तर्हि मान्तत्वमेव निपात्यताम्, प्रत्ययस्तु प्रकृतः खमुञेव विधेयः ? नैतदस्ति; अव्ययार्थमेव मान्तनिपातनं स्यादिति ङीप्स्यादेव । णमुलि तु मान्तत्वमपूर्वं विधीयमानमीकाराभावार्थं च च्व्यन्तस्य च मकारान्तार्थं विज्ञायते । अवश्यं चोत्तरत्र णमुल् विधेय इति लाघवाभावादिहैव कृतः । अस्वाद्वीं स्वाद्वीं कृत्वेति । द्वयोर्वाक्ययोस्तन्त्रेणोपादानमेतत् । स्वाद्वीं कृत्वा यवागूं भुङ्क्त इतीकाराभावस्योदाहरणम्, अस्वादुं स्वादुं भुङ्क्त इत्यव्ययस्य । इह यदि क्त्वादयः प्रत्ययाः `कर्त्तरि कृत्' इति वचनात्कर्त्तरि स्युः, इह पक्त्वोदनो भुज्यते देवदत्तेनेति देवदत्तात्तृतीया न स्यात्, क्त्वाप्रत्ययेनाभिहितः कर्त्तेति । अथ क्त्वाप्रत्ययेनाभिधाने सत्यपि भुजिप्रत्ययेनानभिहितः कर्तेति कृत्वाऽनभिहिताश्रया विभक्तिर्भवति तृतीया ? यद्येवम्, ओदने द्वितीया प्राप्नोति, किं कारणम् ? भुजिप्रत्ययेनाभिधानेऽपि क्त्वाप्रत्ययेनानभिहितं कर्मेति । तथा यदि कर्मणि स्युः, पक्त्वौदनं भुङ्क्ते देवदत्तेन, पक्त्वौदनं भुङ्क्ते देवदत्त इत्येव तु भवति । तथास्मिन् णमुल्यपि स्वादुङ्कारं भुज्यते यावगूर्देवदत्तेनेति यवाग्वा द्वितीया न भवति, स्वादुङ्कारं यवागूं भुङ्क्ते देवदत्त इत्यत्रापि कर्मणि द्वितीया भवति, कर्त्तरि तृतीया च न भवति । एवमा तुमुनो द्रष्टव्यम् । तथा `तमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' `समानकर्तृकेषु तुमुन्' इत्यत्रापि तुमुनि भोक्तुमोदनः पच्यते देवदत्तेन, इष्यते ग्रामो गन्तुं देवदत्तेन, भोक्तुमोदनं पचति देवदत्तः, ग्रामं गन्तुमिच्छति देवदत्त इति सर्वत्रानुप्रयोगात् यत्र लादयस्तदनुरोधेनैव कर्तृकर्मणोर्विभक्तिर्भवति । तस्मादव्ययकृतः समानाधिकरण इति वक्तव्यम्, केन सामानाधिकरण्ये ? अनुप्रयोगेण । एतदुक्तं भवति---अनुप्रयुज्यमानाद्धातोर्यस्मिन्कारके लादयो विहितास्तत्रैवाव्ययकृतोऽपि भवन्तीति । एवं ह्युभाभ्यां कर्तृकर्मणोरभिहितत्वाद्यथायथं विभक्तयः सिद्ध्यन्ति ।
वृत्तिकारस्त्विममर्थमन्यथा साधयितुमाह---तुमर्थाधिकाराच्चेति । तत्र सयादिसूत्रे तुमर्थग्रहणात्तमुन् भावे भवतीति ज्ञापितम्, तदेव च तुमर्थग्रहणं `शकधृषज्ञा' इतियावदनुवर्त्तते, अतः सर्व एते क्त्वादयो भावे भवन्तीति तत्र चोदयति----यद्येवमिति । तृतीया कस्मान्न भवतीति । एतच्चोपलक्षणम्, स्वादुङ्कारं यवागूःभुज्यते देवदत्तेनेत्यत्र कर्मणि द्वितीया कस्मान्न भवतीत्यपि द्रष्टव्यम् । `अनभिहिते' इति पर्युदासे चैतच्चोद्यम्---तदा हि सत्यभिधानेऽनभिधाने च यतोऽनभिधानं तदाश्रया विभक्तिः प्राप्नोति । परिहरति---भुजिप्रत्ययेनेति । `अनभिहिते' इति प्रसज्यप्रतिषेध आश्रीयते इति भावः । तदा हि यतोऽभिधानं तदाश्रयः प्रतिषेधो भवति । ननु च शक्तिः कारकम्, अन्या च करणविषया शक्तिः, अन्या च भुजिविषया, तत्र यद्येकस्या शक्तेरभिधानमनभिधानं च स्यात्, स्यादयं परिहारः, यतोऽभिधानं तदाश्रयः प्रतिषेध इति शक्तिभेदात्त्वयुक्तः ? इत्यत्राह---न चास्मिन्निति । किं कारणं भेदो न विवक्षितः ? इत्याह---समानकर्तृकत्वं हि विरुध्यत इति । ननु च मा नामास्मिन्प्रकरणे शक्तिभेदो विवक्षितः, `अनभिहितेन' इत्यत्र कस्मान्न विवक्ष्यते ? असम्बद्धमेतत् ; कथं हि तस्मिन्नेव प्रयोगे तदैव विवक्षाविवसे स्याताम् । किञ्चि---`अनभिहिते' इत्येकत्वादीनामाधारनिर्देशोऽनभिहिते कर्मादौ यदेकत्वादि तत्रेति, द्रव्यमेव चैकत्वादीनामाधारो न शक्तिः, अतस्तत्रापि द्रव्यमेवानभिहितमित्युच्यते, तस्य च शक्तिद्वारेणाभिधानानभिधानयोः सतोर्यतोऽभिधानं तदाश्रयः प्रतिषेधो भवतीति युक्तमेव । अभ्युपेत्यापि शक्तिभेदविवक्षां परिहारमाह---प्रधानशक्त्यभिधाने चेति । आख्यातपदवाच्या क्रिया विशेष्यत्वात्प्रधानम्, विशेषणभूता त्वप्रधानम्, तद्द्वारेण तद्विषययोः शक्त्योरपि गुणप्रधानभावः । तत्र प्रधानानुवतित्वाद् गुंणानां तन्मुखप्रेक्षित्वात्तद्विरुद्धस्वकार्यारम्भाभावाद्यथायथं विभक्तिसिद्धिरित्यर्थः । उक्तं च---
प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथके ।
शक्तिर्गुणाश्रया तत्र प्रधानमनुरुद्ध्यते ।।
प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते ।
यदा गुणे तदा तद्वदनुक्तापि प्रतीयते ।। इति ।
वयं तु ब्रूमः---सकृत् श्रुतस्य युगपदुभाभ्यां सम्बन्धाभावादेकेनैव प्रधानेन शाब्दोऽन्वय इति, इतरेण तु सन्निधानादार्थ इति ।।
अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् ।। 3.4.27 ।।
कथं पुनरसौ सिद्धाप्रयोग इति । सिद्ध ओदन इत्यादौ सिद्धशब्दो निष्पन्नवचनः, ततश्च सिद्धश्चेदप्रयोगः कथमप्रयुज्यमानात्ततो णमुल्विधिरिति प्रश्नः । `सिद्धे सत्यारम्भोनियमार्थः' इतिवत्प्राप्तवचनः सिद्धशब्द इत्युत्तरम् । निर्थकत्वादिति । निष्प्रयोजनत्वात् । एवमेवेति । निरर्थक एव सन्नित्यर्थः । एतदेव स्फोरयति---अन्यथा भुङ्क्त इति । यावानर्थ इति । उदाहरणेष्वनुप्रयोगेषु या क्रिया तत्प्रकारवचना अत्रान्यथादयः । अन्यथा कृत्वा शिरो भुङ्क्त इति । अत्र तु विना करोतिना शिरसोऽन्यथाकरणं न प्रतीयते, भुजिक्रियागत एव प्रकारे गम्यते, अतोऽवश्यं प्रयोज्यः करोतिः ।।
यथातथोरसूयाप्रतिवचने ।। 3.4.28 ।।
यद्यसूयन् पृच्छति प्रतिवक्तीति । पृच्छति सति यद्यसूयन्प्रतिवक्तीत्यर्थः । `असु मानसोपतापे' कण्ड्वादिः । तत्रेति । एवम्भूते विषये यत्प्रतिवचनं तदसूयाप्रतिवचनमित्यर्थः । यथाकारमिति । प्रष्टुमनर्हः सन्यदि पृच्छति तदेदमुत्तरम् । यथा कृत्वाहं भोक्ष्य इति । तत्त्वकथनमेतत् । कथं पुनरत्र क्त्वाप्रत्ययः, यावता `सिद्धाप्रयोगे' इति वचनादनर्थकोऽत्र करोतिः, ततश्च भेदनिबन्धनस्य पौर्वकाल्यस्य समानकर्तृकत्वस्य चाभावान्नात्र प्राप्नोति, णमुल् पुनरुभयाभावेऽपि वचनसामर्थ्याद्भवति ? उच्यते; क्रियासामान्यवचनः करोतिस्तद्विषयप्रकारो यथातथाशब्दाभ्यामुच्यते, तत्र सामान्यस्य सन्निहिते विशेषे पर्यवसानात्तद्विषय एव प्रकार उक्तो भवदि, ततश्च यथा भोक्ष्यते इति यावानर्थस्तावानेन सत्यपि करोतावित्येतावता सिद्धाप्रयोगत्वमुच्यते, न पुनरत्यन्तमबिदेयाभावात्, ततश्च क्रियाभेदनिबन्धन उपपन्न एव क्त्वाप्रत्ययः । एवं च कृत्वा पूर्वसूत्रेऽपि वासरूपेण क्त्वा भवति । भाष्येऽपि तत्र तत्र प्रयुज्यते--`अन्यथा कृत्वा चोदितमन्यथा कृत्वा परिहार उक्तः', `कथं कृत्वा बाधकम्' इत्यादि ।।
कर्मणि दृशिविदोः साकल्ये ।। 3.4.29 ।।
कर्मण्युपपदे साकल्यविशिष्ट इति । सकलस्य भावः साकल्यम्, तद्विशिष्टे कर्मण्युपपदे इत्यर्थः । कन्यादर्शं वरयतीति । अत्र दर्शनविषयभूतानां सर्वासामेव कन्यानां वाक्यार्थेनान्वयात्साकल्यम्, सर्वाः कन्या वरयतीत्यत्रापि दर्शनविषयभूता इत्यर्थः । अतिशयप्रतिपादनपरं चैतत्; यस्मात्कस्याश्चित्परित्यागेऽपि भवत्येव । जानाति लभते विचारयति वेति । सत्तार्थस्य तु विदेरकर्मकत्वादग्रहणमिति भावः ।।
यावति विन्दजीवोः ।। 3.4.30 ।।
विन्देति विदेर्लाभार्थस्यानुकरणम्, तस्य हि विन्दतीत्यादौ `शे मुचादीनाम्' इति नुमस्ति । यावल्लभते ताक्द् भुङ्क्ते इत्यर्थ इति । एतेनासाकल्यं दर्शयति, साकल्ये हि पूर्वेणैव सिद्धम् ।।
चर्मोदरयोः पूरेः ।। 3.4.31 ।।
कर्मणीत्यनुवृत्तेः पूरेरिति ण्यन्तस्येदं ग्रहणम्, केवलस्याकर्मकत्वादित्याह---पूरयतेरिति । उदरपूरं भुङ्क्त इति । उदरं पूरयन् भुङ्क्त इत्यर्थः । एवमादिषु प्रायेण पौर्वकाल्यं नास्ति, तस्मात् `पूर्वकाले' इति न सम्बन्धनीयमित्याहुः ।।
वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् ।। 3.4.32 ।।
गोष्पदपूरमिति । गोः पदं पूरयन्वृष्ट इत्यर्थः, वृषरेकर्मकत्वात्कर्त्तरि क्तः । अत्रापि `पूर्वकाले' इति न सम्बन्धनीयमित्याहुः । सीतापूरमिति । सीता=लाङ्गलपद्धतिः ।
अस्यग्रहणं किमर्थमिति । सन्निधानादेव पूरयतेरूलोपो विज्ञास्यत इति प्रश्नः । उपपदस्य मा भूदिति । अस्येत्यनुच्यमाने वर्षप्रमाणवदूलोपोऽपि समुदायविषयो विज्ञायेत---प्रकृत्युपपदसमुदाये सन्निहितो य ऊकारस्तस्य लोप इति, ततश्चोपपदस्यापि स्यादिति भावः ।
`ऊलोपश्चास्यान्यतरस्याम्' इति शक्यमकर्तुम् । कथं गोष्पदप्रमिति ? `प्रापूरणे' इत्यस्माद्धातोः `आतोऽनुपसर्गे कः', क्रियाविशेषणत्वात्कर्मत्वनपुंसकत्वे, न रूपभेदः, नार्थभेदः, न स्वरभेदः । कप्रत्यये थाथादिसूत्रेणान्तोदात्तत्वम्; णमुल्यूलोपे कृते पूर्वस्य स्वरभाजोऽभावात् `लिति' इत्यस्याप्रवृत्तौ प्रत्ययखरः, तस्य कृदुत्तरपदप्रकृतिस्वरेणावस्थानमित्यन्तोदात्तत्वमेव । ननु च णमुलि सति `कृन्मेजन्तः' इत्यव्ययत्वाद्विभक्तीनां श्रवणं न भवति, तरपि च गोष्पदप्रतरपमिति भवति, कल्पबादौ च गोष्पदप्रकल्प इति भवति, अज्ञातादिषु चाव्ययत्वादकज्भवति, के तु सति सर्वमेतन्न सिद्ध्यति ? उच्यते; इष्यते तावद्विभक्तीनां श्रवणमेकेन गोष्पदप्रेणेति, तरबादिषु चोपन्यस्तानि रूपाणि नेष्यन्त एव । एतच्च भाष्ये ऊलोपप्रत्यख्यानादवसीयते ।
ननु च गोष्पदपूरमित्याद्यपि घञैव सिद्धम् ? न सिद्ध्यति, यदि तावत्करणे घञं विधाय तदन्तेन कर्मणि षष्ठ्याः समासः क्रियते, ततस्थाथादिस्वरेणान्तोदात्तत्वं स्याद् । अथ भावे घञि व्यधिकरणपदो बहुव्रीहिः क्रियते---गोष्पदस्य पूरणमस्मिन्वर्ष इति, ततः पूर्वपदप्रकृतिखरप्रसङ्गः । गोष्पदपूरन्तराम्, गोष्पदपूरङ्कल्पमित्यादि च न सिद्ध्यति, तस्माद् `वर्षप्रमाणे' इति वक्तव्यम् ।।
चेलेः क्नोपेः ।। 3.4.33 ।।
अस्माद्धातोर्ण्यन्तादिति । पुका निर्देशादेव ण्यन्तत्वमवसीयते, व्याख्यानाच्चेल इत्यर्थग्रहणमित्याह---चेलार्थेष्विति । चेलक्नीपं वृष्ट इति । चेलं क्नोपयन्=शब्दाययन्वृष्ट इत्यर्थः । यथा वर्षणे चेलानि शब्दायन्ते तथा वृष्ट इति यावत् ।।
निमूलसमूलयोः कषः ।। 3.4.34 ।।
अत्र प्रकरणे समानकर्तृकत्वमेव । निमूलकाषमिति । कषतिर्हिसार्थः । एकस्यैव धात्वर्थस्य सामान्यविशेषभावेन भेदे सति विशेषणविशेष्यभावः । निगतं मूलमस्य निमूलम् । सह मूलेन समूलं कषणं करोति, सह मूलेन कर्षतीत्यर्थः । एवं सर्वत्र प्रकरणे द्रष्टव्यम् ।।
समूलाकृतजीवेषु हन्कृञ्ग्रहः ।। 3.4.36 ।।
जीवग्राहमिति । जीवतीति जीवः, इगुपधलक्षणः कः । जीवन्तं गृह्णातीत्यर्थः ।।
करणे हनः ।। 3.4.37 ।।
नित्यसमासार्थं चेति । `हिसार्थानाम्' इत्यनेन णमुलि `तृतीयाप्रभृतीन्यन्यतरस्याम्' इति विकल्पितः समासः स्याद्, अतो हिंसार्थेऽप्यनेनैव णमुलेषितव्य इत्यर्थः ।
कथं पुनरिष्यमाणोऽपि लभ्यते, यावताऽहिंसार्थे हन्तौ सावकाशोऽयं विधिः, `हिंसार्थानाम्' इत्यस्य तु हन्तिव्यतिरिक्तो हिंसार्थोऽवकाशः; हिंसार्थे हन्तावुभयप्रसङ्गे परत्वात्स एव विधिः प्राप्नोति ? तत्राह--पूर्वविप्रतिषेधेनेति । कथं तर्हि `हिंसार्थानाम्' इत्यत्रोदाहरिष्यते---दण्डोपघातं गाः कालयति, दण्डेनोपघातं वेति ? अत्राहुः---यत्रैक एव धात्वर्थः सामान्यविशेषभावेन भिद्यमानो विशेषणविशेष्यबावमनुभवति सोऽस्य विषयः; `कषादिषु यथाविध्यनुप्रयोगः' इति वचनात् । अत्यन्तभिन्नधात्वर्थसम्बन्धे तु तेनैव णमुल् भवतीति । एवं च नित्यसमासार्थो यथाविध्यनुप्रयोगार्थश्चेति, कोऽर्थः ? यथाविध्यनुप्रयोगार्थः सन्नित्यसमासार्थ इत्यर्थः ।
इह द्वर्हन्ग्रहणं समूलग्रहणं च क्रियते, सकृदेव तु शक्यं कर्तुम्, कथम् ? एवं वक्ष्यामि---जीवाकृतयोर्ग्रहकृञः; शुष्कचूर्णरुक्षेषु पिषः, निमूले कषः, समूले हनश्च, चकारात्कषश्च, ततः करणे हन इत्येव, यदेतत्कषादिषु यथाविध्यनुप्रयोग इति एतद्ग्रहादिष्विति वक्तव्यम् । तथा तु न कृतमित्येव ।।
स्नेहने पिषः ।। 3.4.38 ।।
व्याख्यानात्स्नेहने इत्यर्थग्रहणमित्याह---स्नेहनवाचिनीति । उदपेषमिति । `पेषंवासवाहनधिषु च' इत्युदकस्योदभावः । `शुष्कचूर्ण' इत्यत्र स्नेहनग्रहणं न कृतम्, कर्मणि तत्र प्रत्ययः, इह तु करणे ।।
हस्ते वर्त्तिग्रहोः ।। 3.4.39 ।।
`जीवे ग्रहः, हस्ते च, वर्त्तेश्च' इति नोक्तम्, तत्र कर्मोपपदम्, इह तु करणम् । वर्त्तिर्ण्यन्त इति । निर्देश एवात्र प्रमाणम् । हस्तवर्त्तं वर्त्तयतीति । हस्तेन वर्त्तयति, गुलिकां करोतीत्यर्थः ।।
स्वे पुषः ।। 3.4.40 ।।
स्वपोषमिति । पित्पर्यायवचनस्य चेति । स्वरूपेऽपि भवति ।।
संज्ञायाम् ।। 3.4.42 ।।
अनधिकरणार्थोऽयमारम्भः, पूर्वयोगस्त्वसंज्ञार्थः । कथं तर्हि ग्रामे बन्ध इति ? वासरूपविधिना घञ् भविष्यति ।।
कर्त्रोर्जीवपुरुषयोर्नशिवहोः ।। 3.4.43 ।।
जीवेन नष्ट इति । जीवेन करणेनापदं प्राप्त इत्यर्थः । पुरुषेणोढ इति । पुरुषेण करणेन देशान्तरं प्रापितो देवदत्तादिरित्यर्थः ।।
ऊर्ध्वे शुषिपूरोः ।। 3.4.44 ।।
ऊर्ध्वशोषं शुष्यतीति । वृक्षादिरूर्ध्व एव तिष्ठन् शुष्यतीत्यर्थः । ऊर्ध्वः पूर्यत इत्यर्थ इति । ऊर्ध्वमुख एव सन् घटादिर्वर्षोदकादिना पूर्णो भवतीत्यर्थः ।।
उपदंशस्तृतीयायाम् ।। 3.4.47 ।।
इतः प्रभृति पौर्वकाल्यमप्यस्ति । मूलकोपपदंशं भुङ्क्ते इति । ननु च नात्र तृतीयान्तस्योपदंशिना संबन्धः, न हि मूलकेनान्य उपदश्यते, किं तर्हि ? तदेवोपदश्यते, भुजिना तु संबन्ध उपपद्यते ; तम्प्रति करणत्वात्, किं तूपदंशिना समार्थ्याभावात्प्रत्ययो न प्राप्नोति, उपपदसंज्ञा च नस्यात्, तदभावादुपपदसमासोऽपि न प्राप्नोति, वचनस्य तु दशनैरुपदश्य भुङ्क्ते इत्यादिरवकाशः स्यात् ? इत्यत आह---मूलकादि चेति । सत्यं मूलकादेर्भुजिनैव शाब्दोऽन्वयः, उपदंशिना तु कर्मापेक्षायां सन्निधानाद्योग्यत्वाच्च वस्तुतः सम्बन्धोऽस्त्येव, भुजिं प्रति करणत्वमन्यथा नोपपद्यते, ततश्चायमर्थः---मूलकेन भुङ्क्ते, किं कृत्वा ? उपदश्य, किमुपदश्य ? तदेव मूलकमिति । यदि तु यत्र तृतीयान्तेनैव शाब्दोऽन्वयस्तत्रैवायं प्रत्ययोऽभिमतः स्यात्, करण इत्येव ब्रूयाद्, यथा--करणे हन इति । तस्मादार्थेन सम्बन्धेन सामर्थ्ये सति प्रत्ययादिकं सर्वं भविष्यति ।।
हिसार्थानां च समानकर्मकाणाम् ।। 3.4.48 ।।
`धातुसम्बन्वे' इत्यधिकारादनुप्रयोगधातुना समानकर्मत्वं विज्ञायते, इत्याह---अनुप्रयोगधातुनासमानकर्मकाणामिति । कालयति । `कल विक्षेपे' चुरादिः । दण्डताडमिति । `तड आघाते' चुरादिरेव । उपहत्येति । `वा ल्यपि' इत्यनुनासिकलोपः, ह्रस्वस्य तुक् ।।
सप्तम्याञ्चीपपीडरुधकर्षः ।। 3.4.49 ।।
उपशब्दः प्रत्येकमिति । पीडादीनां समाहारद्वन्द्वं कृत्वोपपूर्वः `पीडरुधकर्ष' इत्युत्तरपदलोपी समासः । सौत्रः पुंल्लिंङ्गनिर्देशः । करणाधिकरणविवक्षाभेदेनोपपदेषु विभकर्तिदूयम् । कर्षतेरिति भौवादिकस्य, न कृषतेरिति; तौदादिकस्य शपा निर्देशात् । शपा निर्देशस्तु विहितगुणस्योच्चारणाद्विज्ञायते । सूत्रे तु पञ्चम्यर्थे प्रथमा, किञ्च स्याद्यदि तौदादिकस्य ग्रहणं स्यात्, यावतोभयोरपि विलेखनार्थत्वान्नार्थभेदो नापि रूपभेदः ? यद्याप्युभयोरपि विलेखने पाठः, तथापि तौदादिकस्य क्षेत्रविषये विलेखने वृत्तिः---पञ्चभिर्हलैः कृषतीति । तेन क्षेत्रे उपकृष्य हलेनोपकृष्येति तौदादिकात् क्त्वाप्रत्यय एव भवति, न णमुल् ।।
समासत्तौ ।। 3.4.50 ।।
सप्तम्यां तृतीयायामित्यनुवर्त्तते इति । पूर्वसूत्रेऽपि स्वरितत्वादेव तृतीयाऽनुवर्त्तते, सप्तम्यां तु तस्या निवृत्तिर्मा विज्ञायीति चकारः क्रियते । तेन चानुकृष्टमुत्तरत्र नानुवर्त्तते इति न चोदनीयम् । युद्धसंरम्भादिति । कोपादिना मनः क्षोभपूर्वको वाक्कायविकारः=संरम्भः, युद्धार्थः संरम्भो युद्धसंरम्भः, अश्वघासादिवत्षष्ठीसमासः । अत्यन्तं सन्निकृष्य युद्ध्यन्ते इत्यर्थ इति । सन्निकर्षप्रतिपादनपरमेतत्केशग्रहणं भवतु, मा वा भूदिति ।।
प्रमाणे च ।। 3.4.51 ।।
तृतीयासप्तम्योरित्येवेति । अर्थानुवृत्तिप्रदर्शनमेतत्, न ह्येवंविधः शब्दः प्रकृतोऽस्ति । द्व्यङ्गुलोत्कर्षंमिति । द्वयोरङ्गुल्योः समाहारो द्वयङ्गुलम्, `तत्पुरुषस्याङ्गुलेः' इत्यच्समासान्तः, द्व्यङ्गुलेनोत्कृष्य परिच्छिद्येत्यर्थः । ह्रस्वाः खण्डाः=खण्डिकाः ।
अपादाने परीप्सायाम् ।। 3.4.52 ।।
परीप्सा त्वरिति । `ञित्वरा सम्भ्रमे' घटादिः, `घटादयः षितः', षित्त्वादङ् । शय्योत्थायमिति । `उदः स्थास्तम्भोः' इति तिष्ठतिसकारस्य तकारः, पूर्वद्युक् । अवश्यकर्त्तव्यमपीति । अक्षिप्रक्षालनादिकम् । द्वितीयायां परीप्सायामित्येवेति । `अनुदात्तं पदेमकवर्जम्' इत्यत्रापि परीप्सा भवत्येव, कथम् ? परिभाषेयम्, पदग्रहणं च परिभाषार्थम् । तेनोदात्तः स्वरितो वा यत्र विधीयते तत्र तत्समकालमेवैकमचं वर्जयित्वा परिशिष्टमनुदात्तं कर्त्तव्यम्, न विलम्बितव्यमिति ।।
स्वाङ्गेऽध्रुवे ।। 3.4.54 ।।
स्वाङ्गलक्षणं चतुर्थे वक्ष्यते---अद्रवं मूर्त्तिमदित्यादि । अक्षिनिकाणमिति । `कण निमीलने' चुरादिनिपूर्वः । उत्त्रिप्य शिरः कथयतीति । ननु च ध्रुवमिति नित्यमुच्यते---ध्रुवा द्यौर्ध्रुवा पृथिवीति यथा; अध्रुवमनित्यम्, शिरश्चाप्यनित्यमेव, प्राणिनामेवानित्यत्वादत आह---यस्मिन्नङ्ग इति । अयं भावः---विशेषणसामर्थ्यात्प्रकर्ष आश्रीयते, प्रकर्षेण यदध्रुवमिति । प्रकर्षश्च जीवत्यपि प्राणिनि कदाचिदभाव इति ।।
परिक्लिश्यमाने च ।। 3.4.55 ।।
परिक्लिश्यमान इति । `क्लिशू विबाधने' इत्येतस्यैतद् रूपम्, न तु `क्लिश उपतापे' इत्यस्य, परिश्च सर्वतो भाव इत्याह---परिक्लेशः सर्वंतो विबाधनमिति ।।
विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः ।। 3.4.56 ।।
अनवयवेनेति । साकल्येन । पदार्थानामिति । गेहादीनाम् । तात्पर्यमिति । पौनः पुन्यमाभीक्ष्ण्यमित्यर्थः । द्रव्ये व्याप्तिरित्यादिना व्याप्त्यसेवयोर्विषयविभागं दर्शयति । गेहानुप्रवेशमिति । ननु व्याप्तौ वीप्सा गम्यते, आसेवायां च नित्यत्वमिति `नित्यवीप्सयोः' इति द्विर्वचनं प्राप्नोति, तत्कस्मान्न भवतीत्याह---समासेनेति । यद्यपि समास एतयोरर्थयोर्न विधीयते, तथापि स्वभावत एतयोस्तेनाभिदानम्, यथा---सप्तपर्वा इति, पर्वगताया वीप्सायाः---पर्वणिपर्वणि सप्त पर्णान्यस्येति । तथा च वक्ष्यतीति । `नीत्यवीप्सयोः' इत्यत्र वक्ष्यति । भाष्यकारः । तिङ्क्षु नित्यतेति । उपलक्षणम्, `अव्ययकृत्सु च' इत्यपि द्रष्टव्यम् ।
क्त्वानिवृत्त्यर्थमिति चेदिति । `आभीक्ष्ण्ये णमुल् च' इत्यनेन क्त्वाणमुलौ द्वावपि विहितौ, तत्र विश्यादिभ्यो णमुलेव यथा स्यात्, क्त्वाप्रत्ययो मा भूदित्येवमर्थं पुनर्ममुलुच्यत इति चेदित्यर्थः । दूषयति---नेष्टत्वादिति । इष्यते ह्यासेवायां विशिप्रभृतिभ्यः क्त्वा---गेहमनुप्रविश्यानुप्रविश्यास्त इति । द्वितीयोपपदार्थं तर्हीति । अत्र हि `द्वितीयायां च' इत्यधिकारद् द्वितीयान्तस्योपपदसंज्ञा लभ्यते, किमर्थं पुनरुपपदत्वमिष्यते ? इत्याह---उपपदसमास इति । `तृतीयाप्रभृतीन्यन्यतरस्याम्' इति वचनात्पक्ष इत्युक्तम् । तेन हि सत्युपपदाभाव इति । सप्तमीस्थस्य कस्यचिदभावात् ।।
अस्यतितृषोः क्रियान्तरे कालेषु ।। 3.4.57 ।।
`असु क्षेपणे', `ञितृषा पिपासायाम्' । क्रियामन्तरयतीति क्रियान्तर इति । व्यवधानवाचिनोऽन्तरशब्दात्तत्करोतीति णिचि `कर्मण्यण्' । पाययतीति । पिबतेर्णिचि `शाच्छासाह्वा' इत्यादिना युक् । अत्यसनेनेत्यादि । यच्चाद्य पानं यच्च द्व्यहे गते भविता, तन्मध्यवर्त्तित्वादत्यसनतर्षणयोः, एतदेव स्पष्टयन्नुदाहरणस्यार्थमाह---अद्य पाययित्वेत्यादि ।
द्व्यहमुपोष्येति । उपपूर्वाद्वसेः क्त्वा ल्यप्, यजादित्वात्सम्प्रसारणम्, `शासिवसिघसीनां च' इति षत्वम्, अत्रोपवासेन भोजनं व्यवधीयते । अहरिति । `कालाध्वनोः' इति द्वितीया । कृत्स्नमहरिषूनत्यस्य क्षिप्त्वा गत इत्यर्थः । योजनमत्यस्येति । क्वचित्स्रुघ्नादौ पाययित्वा तता योजनमतिक्रम्य पाययतीत्यर्थः ।।
नाम्न्यादिशिग्रहोः ।। 3.4.58 ।।
आदिशेर्ग्रहेश्चेति । एतेनाङो दिशिनैव सम्बन्धः, न ग्रहिणेति दर्शयति ।।
अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ ।। 3.4.59 ।।
`अयथाभिप्रेताख्याने' इति नञः प्रश्लेषः पश्चान्निर्देशाद्विज्ञायते, अन्यथाऽसन्देहार्थं पूर्वं निर्दिशेत्, अयथाभिप्रेतशब्दश्चाख्यानक्रियाविशेषणं यथाभिप्रेतं न भवति तथाख्यान इत्यर्थः । पुत्त्रजन्म प्रार्थमानं ब्राह्मणं गत्वा केनचिद्गोपनीयवन्नीचैराख्यातम्--ब्राह्ण पुत्त्रस्ते जात इति तममृष्यमाणो ब्राह्मण आह--किं तर्हीति । पुत्त्रजन्माख्यानस्य प्रियत्वेऽपि आख्यानप्रकारस्यानभिप्रेतत्वाद्भवत्युदाहरणम्, ्त एवायथाभिप्रेताख्यान इत्युक्तम्, न पुनरप्रियाख्यान इति । आचक्ष इति । लट्, `थासस्से', शपो लुकि `स्कोः संयोगाद्योः' इति ककारलोपः, `षढोः कः सि' । उदाहरणेऽयथाभिप्रेताख्यानं दर्शयति---उच्चैर्नामेति । नामशब्दः प्रसिद्धौ, न पुनरिदं ब्राह्मणवाक्यमुक्तमिति `उपदंशस्तृतीयायाम्' इत्यत्रेदमुक्तम् । समासार्थं वचनमिति । एतदेवोपपादयति---तथा हीति । `क्त्वा च' इत्यत्र `तृतीयाप्रभृतीन्यन्यतरस्याम्' इति वर्त्तते, तस्मादनेन यः क्त्वा विहितस्तेनैव पक्षे समासो लभ्यते, न तु समानादिसूत्रविहितेन, न हि तेन तृतीयाप्रभृतिषूपपदेषु क्त्वा विधीयत इत्यर्थः । णमुल्ग्रहणमनर्थकम्, प्रकृतो ह्यसौ तत्र क्त्वा चेति वक्तव्यम् ? इत्यत आह---णमुलधिकार इत्यादि । तुल्यकक्षत्वम्=तुल्यबलत्वम् ।। तेनेत्यादि । यदि तु चकारेण णमुलनुकृष्येत, उत्तरत्र नानुवर्त्तेत; यत्नाभावात् । पुनर्णमुल्ग्रहणे तु द्वन्द्वनिर्दिष्टयोर्द्वयोरप्युत्तरत्रानुवृत्तिः सिद्धा भवति ।।
तिर्यच्यपवर्गे ।। 3.4.60 ।।
तिर्यवकृत्येति । तिरोऽञ्चतीति `ऋत्विग्' इत्यादिना क्विन्, `तिरसस्तिर्यलोपे' इति तिर्यादेशः । व्युत्पत्तिमात्रं चैतत्, न त्वत्रावयवार्थोऽस्ति, समुदायो ह्ययमपवर्गे वर्त्तते तद्दिर्शितम् । समाप्य गत इत्यर्थ इति । तिर्यवकृत्वेति । अनृजु कृत्वा, अग्रतः स्थितं पार्श्वे क्षिप्त्वेत्यर्थः ।
`तिर्यचि' इत्ययुक्तोऽयं निर्देशः, भसंज्ञायां सत्याम्, `अचः' इत्यकारलोपे तिरश्चीति भवितव्यम् ? अत आह--तिर्यचीति शब्दानुकरणमेतदिति । `अच' इत्यर्थवतोऽजित्यस्य ग्रहणम् । स चार्थो लोकप्रसिद्धो गृह्ते; `अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः' इति न्यायात् । अतोऽञ्चेः स्वार्थे वर्तमानस्याल्लोपः । एतत्तु तत्र स्थितस्य शब्दरूपस्यानुकरणम्, तेनानुकार्येण रूपेणार्थवन्न तु लौकिकार्थेन, तेन लोपाभाव इति भावः । नन्वेवमपि `प्रकृतिबदनुकरणं भवति' इति लोपः प्राप्नोत्येवात आह---न च प्रकृतिवदनुकरणेन भवितव्यमिति । कस्मादित्याह---अनुक्रियमाणरूपविनाशप्रसङ्गादिति । यादृशं रूपमनुकर्तुमिष्टं तादृशं न प्रतीयेत, लौकिक एव त्वर्थः प्रतीयेतेत्यर्थः । क्व च यथा प्रकृतिवदनुकरणं भवतीत्याह---एतदोऽशित्यादि । यद्यनुक्रियमाणरूपविनाशेऽपि प्रकृतिवदनुकरणं स्यात्, एतदः, अदस इत्यत्रोभयत्रापि त्यदाद्यत्वादिके प्रकृतिकार्ये सति एतस्य, अमुष्येति रूपं स्यात् । ननु प्रयोजनानुवत्तिं प्रमाणं ततश्चेल्लोपः प्राप्नोति कर्त्तव्य पवायम् ? कथम् ? `यत्तदेतेभ्यः' इति त्यदाद्यत्वम् , अस्यवामीयमिति यस्येति लोपः, गवित्ययमाहेत्यवादेशः, पटिति करोतीत्यनुक्रियमाणरूपविनाशे सत्यपि `अव्यक्तानुकरणस्यात इतौ' इति पररूपत्वं वा भवति । तस्मादुभयथा निर्देशदर्शनात् क्वचित्प्रकृतिबदनुकरणं भवति, क्वचिन्नेति वाच्यम् । तथा चास्मिन्नेव सूत्रे भाष्यम्---सौत्रो निर्देश इति ।।
स्वाङ्गे तस्प्रत्यये कृभ्वोः ।। 3.4.61 ।।
`तस्प्रत्यये' इति बहुव्रीहिनिर्देश इत्याह---तस्प्रत्ययोयतः स्वाङ्गात्तदेवमुच्यत इति । न च `क्विन्प्रत्ययस्य कुः' इतिवत्कदाचित्तस्प्रत्ययान्तत्वेन दृष्टे संप्रत्यतदन्तेऽपि स्वाङ्ग प्रसङ्गः, तस्प्रत्ययग्रहणसामर्थ्यात् । कर्मधारयो वायम्---तस्प्रत्यये परतो यत्स्वाङ्गं तस्मिन्नुपपदे इति । वृत्तौ तु वस्तुमात्रं प्रदर्शितम् । यथासंख्यमत्र नेष्यत इति । व्याख्यानात् । मुखत इति । आद्यादित्वात्सप्तम्यर्थे तसिः ।
मुखे तस्यतीत्यादि । `तसु उपक्षये' इत्यस्मान्मुखशब्द उपपदे `अन्येभ्योऽपि दृश्यते' इति क्विप्---मुखतः, `अत्वसन्तस्य च' इति दीर्घो न भवति; `अधातोः' इति प्रतिषेधात् ।
प्रत्ययाप्रत्ययपरिभाषयैवात्राप्रसङ्गात् नार्थः प्रत्ययग्रहणेन ।।
नाधार्थप्रत्यये च्व्यर्थे ।। 3.4.62 ।।
नार्थो धार्थश्चेति । नाधासहचरितोऽर्थो नाधा शब्दाभ्यामुक्तः, नार्थो यस्य स नार्थः, नार्थार्थ इत्यर्थः । एतेन धार्थो व्याख्यातः । प्रत्ययो यस्मादिति । यदि पञ्चम्यां विग्रहः क्रियते, ततः प्रकृतेरुपलक्षणं नाधार्थग्रहणं स्यादिति सम्प्रत्यतदन्तत्वेऽपि प्रकृतिमात्रे प्रसङ्गः ? न प्रसङ्गः, एवं हि विनञ्सङ्ख्यास्विति वक्तव्यं स्यात्, षष्ठ्या विग्रहः कर्त्तव्यः---नाधार्थः प्रत्ययो यस्य समुदायस्यावयव इति । ल्यब्लोपे वा पञ्चमी व्याख्येया यं समुदायामुद्दिश्य नाधार्थः प्रत्ययो विधीयत इति । विनाकृत्य नानाकृत्येति । `विनञ्भ्यां नानाञौ नसह' इति नानाञौ । द्विधाकृत्येति । `सङ्ख्याया विधार्थे धा' । द्वैधंकृत्येति । `द्वित्र्योस्च धमुञ्' । हिरक्पृथक्शब्दौ विनार्थे ।
नाना कृत्वा काष्ठानि गत इति । पूर्वमेव नाना सन्ति काष्ठान्यन्यत्र कृत्वा गत इत्यर्थः । धार्थमर्थग्रहणमिति । बहवो हि धार्थाः प्रत्ययाः, तत्रासत्यर्थग्रहणे प्रत्ययस्यैव ग्रहणं स्यात्, नान्येषाम्; तदर्थानामर्थग्रहणे तु तेषामपि भवति । यश्चाधादेशो धार्थः `धमुञन्तात्स्वार्थे डदर्शनम्' इति तदर्थमर्थग्रहणम्---द्वैधकृत्य द्वैधकारं द्वैधभूय द्वैधभावमिति । धमुञादीनां तु स्थानिवद्भावादेव सिद्धं तद्विधौ ध इत्यधिकारेणादेशपक्षस्याश्रयणात् । अथ नार्थमप्यर्थग्रहणं कस्मान्न भवतीत्यत आह---ना पुनरेक एवेति । ननु च नाप्रत्ययावपि द्वौ भवतः---निरनुबन्धकः, सानुबन्धकश्चेति, तत्रासत्यर्थग्रहणे निरनुबन्धकस्यैव ग्रहणं स्यात्, नेतरस्य ? एवं मन्यते---तन्त्रावृत्त्यैकशेषाणामन्यतमस्याश्रयणात्तस्यापि भविष्यति ।।
अन्वच्यानुलोम्ये ।। 3.4.64 ।।
अन्वग्भूयेति । अग्रतः पार्श्वत- पृष्ठतो वाऽनुकूलो भूत्वाऽऽस्ते इत्यर्थः । अन्वग्भूत्वेति । पृष्ठतो भूत्वेत्यर्थः । अनुकूलोऽननुकूल इति शब्देन न स्पृश्यते ।।
शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् ।। 3.4.65 ।।
अत्रानन्तरेणास्तिशब्देनैवार्थशब्दः सम्बद्ध्यते, शकधृषज्ञानां घटाईयोश्च पृथगुपादानात्, तदाह---शकादिषूपपदेषु अस्त्यर्थेषु वैति । तुमुन् प्रत्ययो भवतीति । भावे । अक्रियार्थोपपदार्थ आरम्भ इति । `क्रियार्थोपपदे तुमुन्ण्वुलौ' इत्यादिनैव सिद्धत्वात् । तत्र तावत् शक्नोति भोक्तुम्, धष्णोति, जानातीति भोजने प्रावीण्यं गम्यते । ग्लायति भोक्तुमिति । तत्राशक्तिः । घटतेऽर्हतीति योग्यता । आरभते प्रक्रमत इति । भुजेरेवाद्यावस्था । लभते भोक्तुमिति । अप्रत्याख्यातं भोजनं लभते इत्यर्थः । उत्सहते भोक्तुमिति । भोजने व्याप्रियत इत्यर्थः । अस्ति भोक्तुमिति । भोजनमस्तीत्यर्थः । प्रवीणो भोक्तुम्, कुशलो भोक्तुम्, पटुर्भोक्तुमित्यादौ पर्याप्तिविवक्षायामुत्तरसूत्रेण तुमुन् भवति ।।
पर्याप्तिवचनेष्वलमर्थेषु ।। 3.4.66 ।।
पर्याप्तिः=अन्यूनता, परिपूर्णतेत्यर्थः । अन्यूनता च द्विधा सम्भवति---भोजनस्य प्रभूततया वा, भोक्तुः समर्थतया वा, अतः सामर्थ्येनालमर्थेन विशिनष्टि । अलमर्थेषु पर्याप्तिवचनेष्विति । प्रयाप्तो भोक्तुमिति । भोजने न न्यूनीभवति समर्थ इत्यर्थः । पुर्यप्तमिति । प्रभूतमित्यर्थः ।
शक्यमेवं कर्त्तुमिति । सुकरमेतदित्यर्थः । सम्भवमात्रं वाऽत्र विवक्षितम्---सम्भवत्येवंविधस्य करणमिति ।।
कर्त्तरि कृत् ।। 3.4.67 ।।
किमर्थमिदमुच्यते ? कर्त्तरिकृद्वचनमनोदेशे स्वार्थविज्ञानात् । यत्र वचनेनार्थो निर्दिश्यते तत्र प्रत्यासत्त्या प्रकृत्यर्थ एव प्रत्ययो भवति, तद्यथा---`गुप्तिज्किद्भ्यः सन्', `यावादिभ्यः कन्' इति, एवमिमेकृतः स्वार्थे स्युः, स्वार्थे मा भूवन् कर्त्तरि स्युरिति । ननु च यमिच्छति स्वार्थे, आह तं भावे घञ् भवतीति ? तन्नियमार्थं भविष्यति---घञेव भावे नान्यः कृदिति । असति ह्यतेतस्मिन्सूत्रे घञित्येतावत्सूत्रं कर्त्तव्यम्---धातोर्घञ् भवतीति, तत्रानिर्दिष्टार्थत्वाद्भाव एव घ़ञ भविष्यतीति; ततः `पदरुजविश' इति द्वितीयं सूत्रं कर्त्तव्यम्, ततश्च `भावे' इति न कर्त्तव्यम्, क्रियमाणं तु नियमार्थं भविष्यति---घञेव भावे नान्यः कृदिति, ततश्चान्यः कृद्धात्वर्थाक्षिप्ते कर्त्तरि भविष्यति । स्यादेतत्---कर्मादीनामपि धात्वर्थेनाक्षेपात्तेष्वपि कृतः स्युरिति ? न; `धः कर्मणि ष्ट्रन्', `करणाधिकरणयोर्ल्युट्', `दाशगाघ्नौ सम्प्रदाने', `भीमादयोऽपादाने' इत्यत्र `ष्ट्रनेव कर्मणि नान्यः' इत्यादिको नियमो विज्ञास्यते । यद्येकं कर्मादि नियतं प्रत्ययास्त्वनियता इति कारकान्तरेऽपि ष्ठ्रनादयः स्युः ? नैष दोषः; एकमिदं वाक्यम्---धः कर्मणि ष्ट्रनिति, तेन च कर्मणि विधीयमानः कथं कारकान्तरेऽपि स्यात् ! द्वितीयोऽपि वा नियमो विज्ञास्यते---कर्मण्येव ष्ट्रनिति, एवं सर्वत्र । य इदानीमतोऽन्यः प्रत्ययः शेषः सोऽन्तरेणापि वचनं कर्त्तर्येव भविष्यति । `कर्त्तरि भुवः खिष्णुच्खुकञौ' `कर्त्तरि चर्षिदेवतयोः' इत्युभयत्रापि करणनिवृत्त्यर्था कर्तृश्रुतिर्विध्यर्थैवेति खिष्णुजादिषु कर्तृनियमो न भविष्यति । तदेव तर्हि प्रयोजनम्---स्वार्थे मा भूवन्निति ? ननु चोक्तम्---`भावे इति नियमो विज्ञास्यते' इति ? स्वार्थादन्यः स भावो धात्वर्थस्य सिद्धता नाम । शुद्धे स्वार्थे कृतः स्युः, लः कर्मणि च भावे चेति । अयं तर्हि नियमो भविष्यति---ल एव भावे इति ? नायं नियमः शक्यो विज्ञातुम्, कर्तृकर्मणोर्निर्देशेन निर्दिष्टार्थत्वात् लकाराः स्वार्थे न स्युः, `अकर्म्केभ्यः' इति च वक्ष्यामीत्येवमर्थमेतत्स्यात् । अतः सुष्ठूक्तम्---कर्त्तरि कृद्वचनमनादेशे स्वार्थविज्ञानादिति ।
अत्र च द्वैधम्---एतद्वाक्यनिरपेक्षैः स्वैर्विधायकैर्वाक्यैर्विहितानां कृतां पश्चादेनेनार्थ आदिश्येत ? कृदुत्पत्तिवाक्यानां वायं शेषः स्यात् ण्वुल्तृचौ कर्त्तरि नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः कर्त्तरीति ? तत्राद्ये पक्षे यथानेन तृजादीनामर्थ आदिश्यते, तथा ख्युनादीनामप्यादिश्येत; विशेषानुपादानात् । ततश्चैतेऽप्यनेन कर्त्तरि च स्युः, स्वेषु स्वेषु विधिवाक्येषु करणादीनामप्युपादानात्करणादिषु च । ननु च ख्युनादिषु करणादिरर्थो विशेषविहितत्वात् कर्त्तुश्च बाधको भविष्यति ? न; नानावाक्यत्वात् । इह `दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्याय' इति अभिन्नकालत्वादेकं वाक्यं विशिष्टदानस्य प्रतिपादकमिति तक्रेण दधि बाध्यते । यदा तु पूर्वाह्णे ब्राह्मणभोजनप्रकरणे `दधि ब्राह्मणेभ्यो दीयताम्' इत्युच्यते, अपराह्णे तु `तक्रं कौण्डिन्याय दीयताम्' इति, न तदा बाध्यबाधकभावः । तथास्मिन्पक्षेऽपि कालभेदेन वाक्यद्वयोच्चारणाद्वाध्यबाधकभावो न लभ्यते । तस्माद् दुष्ट एवायं पक्ष इति द्वितीयं पक्षमाश्रित्याह---कृदुत्पत्तिवाक्यानामयं शेषः स्यादिति । प्रागुक्तो दोषस्तदवस्थ एव ? तत्राह---येष्वित्यादि । कुत एतदित्याह---अर्थाकाङ्क्षत्वादिति । येषु वाक्येष्वर्थो न निर्दिश्यते तान्यर्थाकाङ्क्षाणि । तथा हि---`ण्वुल्तृचौ भवतः' इत्युक्तेऽर्थविषया आकाङ्क्षा जायते---क्वैतौ भवति इति ? `कर्तरि कृत्' इत्यस्याकाङ्क्षा भवति---कः कृत् कर्त्तरि भवतीति ? अतस्तृजादिविध्यनुपस्थाने शेषशेषिणोरुभयोरप्याकाङ्क्षापूतये ततस्तत्रैवोपतिष्ठत इत्यर्थः । ख्युनादिवाक्येष्विति । उपतिष्ठत इत्यनुषङ्गः । कारणमाह---साक्षादर्थनिर्देशे सति तेषां निराकाङ्क्षत्वादिति । न च रक्तपटन्यायेनाकाङ्क्षोत्थापनेनोप्रस्थानं युज्यते; स्वत एव साकाङ्क्षे तृजादिविध्यनुपस्थानेन शेषस्यापि चरितार्थत्वात् । रक्तः पटो भवतीत्यत्र तु पटो भवतीत्यस्य निराकाङ्क्षत्वेऽपि रक्तपदार्थस्य साकाङ्क्षत्वादाङ्क्षोत्थापनेनान्वयः । न च विदेशस्थानां कथमेकवाक्यत्वमिति वाच्यम्; शास्त्रे विदेशस्थानामप्यवान्तरवाक्यानामाकाङ्क्षावशादेकवाक्यत्वदर्शनात् । यथा ---द्वितीयेऽध्याये लुगुच्यते, तस्य चतुर्थषष्ठयोरलुगपवादः `गोत्रेऽलुगचि', `अलुगुत्तरपदे' इति ।।
भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा ।। 3.4.68 ।।
भव्य इति । `अचो यत्', गुणः, `वान्तो यि प्रत्यये' इति वान्तादेशः । गेयो माणवकः साम्नामिति । एतेन `कै गै शब्दे' इत्यस्येदं निपातनम्, न `गाङ् गतौ' इत्यस्येति दर्शयति । एतच्च निपातनाल्लभ्यते । `ईद्यति' इतीत्वम् । जन्य इति । `अचो यत्' इत्यत्र `तकिशसिचतियतिजनीनामुपसङ्ख्यानम्' इति वचनाद्यत् । आप्लाव्य इति । `ओरावश्यके' । आपात्य इति । `ऋहलोर्ण्यत्' ।।
लः कर्मणि च भावे चाकर्मकेभ्यः ।। 3.4.69 ।।
`लः' इति लङ्लटोरकारानुबन्धयोः सामान्येन ग्रहणमेकवचनं चेति शङ्कामपाकरोति---ल इत्युत्सृष्टानुबन्धसामान्यमेकं गृह्यत इति । प्रथमाबहुवचनं चैतदिति । सामान्यस्यैकत्वेऽपि `जात्याख्यायामेकस्मिन् बहुवचनम्' । अथादेशापेक्षया षष्ठ्येकवचनं कस्मान्नाश्रीयते---लः लस्य य आदेश इति, यथा---`लः परस्मैपदम्' इति ? उच्यते; एवं विज्ञायमाने लादेशानामनेनार्थो निदिश्येत, ततश्चाम्विषयस्य लकारस्यार्थो न निर्दिष्टः स्यात्, लुगत्रादेशः । न चाबावरूपस्य तस्यार्थादेशनं युज्यते, ततश्चासौ `कर्त्तरि कृत्' इति कर्तर्येव स्यात् । ननु च तस्य आमः' इति लुकापहारे सत्यनुप्रयोगे ये लादेशास्तैरेव भावादीनामभिव्यक्तिर्भविष्यति ? नैतदस्ति; यदा ह्यम्विषयो लकारः कर्तर्येवेति स्थितम्, तदा विरोधाद्भावकर्मवाचिप्रत्ययपरोऽनुप्रयोगो नैव प्राप्नोति, श्रुतस्यैव च संबन्धोपपत्तावादेश इत्यध्याहारो न युक्तः । तस्मात्प्रथमाबहुवचननान्तमेव युक्तम् । तत्र द्विविधो लकारः---तिङ्भावी, अतिङ्भावी च । तत्र तिङ्भावनिनः कृत्संज्ञानिषेधात् `कर्तरि कृत्' इत्यस्यानुपस्थानात्स्वार्थे भावे विधानं प्राप्नोति, अतिङ्भाविनस्तु `कर्तरि कृत्' इति वचनात्कर्त्तर्येव साधुत्वं प्राप्नोति, न भावकर्मणोः---आस्यमानं शय्यमानमित्यादाविति वचनमिदमारभ्यते ।
ननु च भावकर्मणोरात्मनेपदं विधीयते, शेषात्कर्तरि परस्मैपदम्, ततश्च लकारस्य भावकर्मकर्त्तारोऽर्था अनुमास्यन्ते । यद्वा लकारस्य प्रयोगेऽसमवायादादेशानामेव तेऽर्था भविष्यन्ति, नार्थ एतेन ? इत्याशङ्क्याह---सकर्मकेभ्यो भावे न भवन्तीति । अनारभ्यमाण एतस्मिन्यथा भावे विधीयमाना घञादयः सकर्मकेभ्योऽपि भावे भवन्ति---ओदनस्य पाकः, सूत्रस्य कृतिरिति, तथा `भावकर्मणोः, इत्यनेन भावे आत्मनेपदं सकर्मकेभ्योऽपि स्यात्, ततश्तच पच्यते यवगूं देवदत्तेनेति प्रयोगः प्राप्नोति, अतः `भावे चाकर्मकेभ्यः' इति वक्ष्यामीत्ययमारब्धः । अथ तत्रैव `भावकर्मणोरकर्मकात्' इत्युच्यते, तत्राकर्मकग्रहणं कर्तव्यं स्यात्, ननु चेहापि क्रियते ? इहावश्यं कर्तव्यम्---`तयोरेव कृत्यक्तखलर्था भावे चाकर्मकेभ्यः' इति, तस्मात्सकर्मकेभ्यो भावे मा भूदित्यवमर्थमयमारम्भ इति स्थितम् । किं चाम्विषयस्य लकारस्यार्थादेशनार्थमपीदं वक्तव्यम्; इतरथा पूर्वोक्तदोषप्रसङ्गादित्यलमियता ।।
तयोरेव कृत्यक्तखलर्थाः ।। 3.4.70 ।।
तयोर्भावकर्मणोरिति । पूर्वसूत्रे साक्षात् श्रुतयोर्भावकर्मणोस्तच्छब्देन परामर्शः, न चकारेण संनिधापितस्य कर्तुरिति भावः । अत एवोत्तरसूत्रे पुनः `कर्तरि च' इत्युक्तम् । यदि ह्यनन्तरवाक्ये चकारेण संनिधापितस्य कर्तुर्भावस्य चात्र इत्यवमर्शः स्यात् तत्र कर्तृग्रहणमनर्थकं स्यात् ; कर्तर्यनेनैव सिद्धत्वात् । एवकार इत्यादि । कृत्त्वात्कर्तरि कृत्याः प्राप्ता एवकारेण कर्तुरवकृष्यन्ते=व्यावर्त्त्यन्ते । ननु च तक्रकौण्डिन्यन्यायेन न कर्तुरप कर्षो भविष्यति, यथा `वडवाया वृषे वाच्ये' इत्यत्र वक्ष्यते---अपत्ये प्राप्तस्ततोऽपकृष्य वृषे विधीयते, अपत्ये त्वणेव भवति इति ? सत्यम् ; न्यायप्राप्त एवाथं एवकारेणानूद्यते ।
शयितमिति । `निष्ठाशीङ्ष्विदिमिदिक्ष्विदिधृषः' इत्यकित्त्वाद्गुणो भवति । भावे चाकमकेभ्य इति वर्त्तत इति । वयं तु ब्रूमः---एवकारः कर्तुरपकर्षणाय न कर्तव्य इत्युक्तम्, तस्यात्रोपयोगः---ययोर्भावकर्मणोर्लकार उक्तस्तयोरेवान्यूनानतिरिक्तयोः कृत्यादयो भवन्तीति । यदि च सकर्मकेभ्यो भावे स्युस्तयोस्तादृशयोरेव तु न कृताः स्युरिति ।।
आदिकर्मणि क्तः कर्त्तरि च ।। 3.4.71 ।।
कर्मधारयः, कर्मशब्दश्च क्रियावचन इत्याह---आदिभूतः क्रियाक्षण आदिकर्मेति । साधनकर्म तु न गृह्यते, आदिशब्देन विशेषणात् । बहूनां समवाये आदिमध्यान्तभावः, साधनकर्म कत्वेमेवेति कि तत्रादिशब्देन । तस्मिन्नादिकर्मणि भूतत्वेन विवक्षित इति । एतेन `निष्ठा' इत्यनेनैवादिकर्मणि क्तः सिद्धः, न पुनरादिकर्मणि निष्ठा वक्तव्येति दर्शयति । आद्ये हि क्रियाक्षणे भूते समूहरूपारोपादेकदेशे समूहे चेति न्यायाद्वा धात्वर्थ एव भूतो भवतीति युक्त एव क्तः । प्रकृतः कटं देवदत्त इति । प्रारब्धवानित्यथः । प्रकृतं देवदत्तेनेति । अत्र कर्मणोऽविवक्षितत्वेन धातोरकर्मकत्वाद्भाव एव क्तः । एवं प्रभुक्तं देवदत्तेनेत्यत्रापि ।।
गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च ।। 3.4.72 ।।
अनूषित इति । `वसति क्षुधोरिट्' । अनुप्राप्य जातोऽनुजातः । एवमनुजीर्णः । सकर्मकेभ्यः कर्माविवक्षायां भावे क्तः ।।
दाशगोघ्नौ संम्पदाने ।। 3.4.73 ।।
गोघ्न इति । अत्र दानपूर्वके हनेन हन्तिर्वर्तते । अर्घार्ह इति । अर्घः=मधुपर्कः, तदङ्गत्वेन गोहननं विहितम् । एतावद् गोरालम्भनस्थानम्---अतिथिः, पितरः, विवाहश्चेति । यदि सम्प्रदाने गोघ्न इति निपात्यते चाण्डालादेरपि तेनाभिधानं प्राप्नोति, अस्मै अपि ह्यागताय गां दातुमर्हन्ति सुहृदादयः ? अत आह---निपातनसामर्थ्यादिति । असत्यपि चेति । यथाऽपचन्नपि योग्यतया `पाचकः' इत्युच्यते, तथेहापीत्यर्थः ।।
भीमादयोऽपादाने ।। 3.4.74 ।।
उणादिप्रत्ययान्ता एत इति । बाहुल्यादेतदुक्तम्, प्रस्कन्दनप्रपतनयोरप्यौणादिकत्वात् । ताभ्यामन्यत्रोणादय इति पर्युदासे प्राप्त इति । यद्यप्यसत्यस्मिन्सूत्रेऽपादानस्य प्रकृतत्वात्ताभ्यामिति निर्देशो नोपपद्यो तथाप्ययमर्थस्तावत्तत्र वक्तव्यः---ततोऽपादानाच्चान्यत्रोणादय इति, ततश्च स्यादेव पर्युदास इत्यर्थः ।।
ताभ्यामन्यत्रोणादयः ।। 3.4.75 ।।
ननु च `अन्यत्रोणादयः' इत्यप्युक्ते प्रकृतत्वादेव ताभ्यामन्यत्रेति विज्ञास्यते ? अत आह---सम्प्रदानार्थ इति । कृषित इत्यादिना कर्मणि वृत्तिं दर्शयति । अत्रेडागमश्चिन्त्यः । एवं तनित इत्यत्रआपि ।
केचिदाहुः---`यस्य विभाषा' इतीट्प्रतिषेधोऽनित्यः, कृतिनृत्योरीदित्करणात् । तद्धि `श्वीदितो निष्ठायाम्' इतिट्प्रतिषेधार्थं क्रियते तत्र `सेऽसिचि कृति' इति विभआषितेट्त्वादेव `यस्य विभाषा' इतीट्प्रतिषेधो भविष्यतीति किमीदित्करणेन ।
अपर आह---चुरादावदन्तौ कृपितनी पठितव्याविति ।।
क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ।। 3.4.76 ।।
स्वनिकायप्रसिद्धिरिति । यथा यूपचषालादयो याज्ञिकानामेव प्रसिद्धास्तथा वैयाकरणानां निकाये एषां प्रसिद्धिः । निघण्टुषु तु अभ्यवहारपर्यायतया प्रत्यवसानशब्दस्य पाठो वैयाकरणप्रसिद्धिमूलः । इदमेषामासितमिति । `अधिकरणवाचिनश्च' इति षष्ठी ।
कथमित्यादि । कर्तरि निष्ठां मन्यमानस्य प्रश्नः । अकारो मत्वर्थीय इति । अर्शआदेराकृतिगणत्वादच् प्रत्यय इत्यर्थः ।
इह द्विर्गत्यर्थाकर्मकग्रहणं च क्तग्रहणं च क्रियते, सकृदेव तु शक्यं कर्तुम्, कथम् ? एवं वक्ष्यामि---`क्त्वोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः, ततो गत्यर्थाकर्मकेभ्यः कर्तरि च, चकारादधिकरणे च, अनुवृत्ताच्चकाराद्यथाप्राप्तं च, ततः श्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च, कर्तरीत्येव, एतेभ्यश्च कर्तरि क्तो भवति चकाराद्यथाप्राप्तं च, अधिग्रहणग्रहणं तु नात्रानुवर्तते, योगविभागकरणसामर्थ्यात्, तत आदिकर्मणि च कर्तरि क्तो भवति चकाराद्यथाप्राप्तं च, ततो दाशगोघ्नावित्यादि ? तथा तु न कृतमित्येव ।।
लस्य ।। 3.4.77 ।।
अकार उच्चारणार्थ इति । नानुबन्धः, अन्यथा लङ्लंटोरेव ग्रहणं स्यात् ; ततश्च परस्मैपदानां णलादयः, `लोटो लङ्वत्', `एरुः' इत्यादिकार्यविधानमनुपपन्नं स्यात् ; लिङ्लोटोस्तिबादीनामभावात् । लकारमात्रं स्थानित्वेनाधिक्रियत इति । ननु चेत्संज्ञायां लोपः प्राप्नोति ? वचनसामर्थ्यात्सत्यामपीत्संज्ञायां लोपो न भविष्यति । एवमपि लित्स्वरः प्राप्नोति ? णलो लित्करणं ज्ञापकम्---न लादेशेषु लित्स्वरो भवतीति । किञ्चेदमिति । लकारमात्रस्य ग्रहणं प्राप्नोतीति मन्यमानस्य प्रश्नः । `धात्वधिकारोऽनुवर्तते' इति वक्ष्यमाणाभिप्रायेणाह---दश लकारा इति । अक्षरसमाम्नाये ययानुपूर्व्याऽकारादयःष तदानुपूर्वोविशिष्टैरकारादिभिरनुबन्धैः कथ्यन्ते; न तु विधानक्रमेणेत्यर्थः ।
लकारमात्रस्य ग्रहणं कस्मान्न प्राप्नोतीति । विशेषानुपादानात्प्राप्नोत्येवेति भावः । वर्णग्रहणेषु चार्थवद्ग्रहणपरिभाषा न प्रवर्तते, तथा च यस्येति लोपोऽनर्थकस्यापि भवति---दैवदत्तिरिति, अकुर्वह्यत्रेति यणादेशः । धात्वधिकारोऽनुवर्तत इति । धातुग्रहणमनुवर्तत इत्यर्थः । एवमप्यग्निचिल्लुनाति---अत्रापि प्राप्नोति ? विहितविशेषणं धातुग्रहणम् । एवमपि `शामामलिभ्यो लः' औणादिकः---शाला, माला, मल्लः, अत्रापि प्राप्नोति ? उणादयोऽव्युत्पन्नानि प्रातिपदिकानि । तथापि परिहारान्तरमाह---कर्त्रादय इति । `लः कर्मणि च' इत्यत्र निर्दिष्टा अर्थाः कर्तृकर्मभावा इहानुवर्तन्ते, तैश्च लकारो विशिष्यते---कर्त्रादिषु विहितस्य लस्येति, तेन विशिष्टविषयस्यैव लस्य ग्रहणम्, न सर्वस्य ।।
तिप्तस्झिसिप्थस्थामब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।। 3.4.78 ।।
तिबादीनां समाहारद्वन्द्वः । पकारः स्वरार्थ इति । प्रदर्शनमेतत्, `सार्वधातुकमपित्' इत्याद्यपि प्रयोजनम् । इटष्टकार इत्यादि । ननु `इटोऽत्' इत्यत्र लिङित्यनुवर्तते, तेनेकारस्यात्वविधानेऽपि नास्त्यतिप्रसङ्गः ? एवमपि तिबाद्यवयवस्य प्राप्नोति, यथा `एरुः' इत्येतल्लोट इत्यनुवृत्तावपि तिबाद्यवयस्य भवति । न हि तत्रावयवषष्ठी, लिङ इति तु स्थानषष्ठीत्यत्र प्रमाणमस्ति । अथ `आद्यन्तौ टकितौ' इति देशविध्यर्थष्टकारः कस्मान्न भवतीत्याह---तिबादिमिरित्यादि । तुल्यत्वम्=सदृशत्वम्, तच्चैकयोगनिर्दिष्टत्वेन लस्येत्येका षष्ठी, तत्र तिबादयः सप्तदशादेशाः स्थाने योगं प्रयोजयन्ति, तानेको नोत्सहते विहन्तुमित्यर्थः । महिङो ङकार इत्यादि । तिङित्युपलक्षणम् । तङित्यपि प्रत्याहारो भवति । चिनुमहे इत्यादौ तु गुणप्रतिषेधार्थो न भवति ; सार्वधातुकमपित्' इत्यनेनैव सिद्धत्वात् । यत्र ह्यार्धधातुकम्एषिषिमहीति, तत्र ङित्त्वार्थः कस्मान्न भवति ? प्रत्याहारे चरितार्थस्य समुदायानुबन्धस्यावयवानुबन्धत्वे प्रमाणाभावात् । तृनि कथम् ? तस्यापि हि नकार `न लोकाव्यय' इत्यत्र प्रत्याहारे चरितार्थः, `औङ आपः' इत्यत्र च वक्ष्यते---`सामान्यग्रहणार्थो ङकारः, अन्यथा निरनुबन्धकस्य प्रथमाद्विवचनस्यैव ग्रहणं स्याद्, न सानुबन्धकस्यौटः' इति, तच्च विरुध्यते; तस्यापि टकारस्य सुडिति प्रत्याहारे चरितार्थतया औकारस्य निरनुबन्धकत्वात् । तस्मान्महिङो ङकारः प्रत्याहारार्थः, न त्ववयवानुबन्ध इत्याचार्याणां स्मृतिपरम्परैवात्र शरणम् ।।
टित आत्मनेपदानां टेरे ।। 3.4.79 ।।
टितो लकारस्य स्थआने इति । एतेन टितः, आत्मनेपदानामिति व्यधिकरणे षष्ठ्याविति दर्शयति । यदि तु प्रत्येकसंबन्धादेकवचनमित्याश्रित्य टितामात्मनेपदानामित्याश्रीयते, अकुर्वीत्यत्रापि प्रसज्येतेति भावः ।
प्रकृतैरित्यादि । य एते तिबादयः प्रकृतास्तेषआं मध्ये यान्यात्मनेपदानि विहितानीत्येवमात्मनेपदानि विशिष्यन्ते । न च तिबादीनां मध्ये शानच् सन्निविशिष्टस्ततो न तस्य प्रसङ्ग इत्यर्थः । एवं च तङामित्येव वक्तव्यम् । केचित्तु `आने मुक्' इति निर्देशं ज्ञापकं वर्णयन्ति---तिङामेवैत्वं नान्येषामिति; इतरथा ह्यानयीति वक्तव्यं स्यात् । नेति वयम्, योऽलादेश आनः `पूङ्यजोः शानन्' तस्यायं निर्देशः स्याद्---वयमानः, यजमान इति ।।
थासः से ।। 3.4.80 ।।
पेचिषे इति । लिट्, `अत एकहलमध्ये' इत्यादिना एत्वाभ्यासलोपौ, क्रादिनियमादिट् । इह `थः सः' इति वक्तव्यम्, थकारस्य सकारे कृते परभागस्य टेरेत्वे सति सिद्धमिष्टम् । पचथः पचथ अत्रापि प्राप्नोति ? `आत्मनेपदानाम्' इति वर्तते । एवमप्याथामस्थकारस्य प्राप्नोति ? धातोरिति वर्तते---धातोरनन्तरो यस्थकार इति । इहापि तहि न प्राप्नोति---पचसे, चिनुषे इति ? विकरणेन व्यवधानात् । क्व तर्हि स्यात् ? य एते लुग्विकरणाः, श्लुविकरणाः, श्नम्विकरणाः । तस्मात् `थासः से' इति वक्तव्यम् । एवमपि सशब्द एवादेशो विधेयो टेरेत्वेनैव सिद्धम् ? ज्ञापकार्थम् । एतज्ज्ञापयति---आत्मनेपदानां य आदेशास्तेषां टेरेत्वं न भवतीति । तेन पक्ता, पक्तारौ, पक्तार इति डारौरसामेत्वं न भवति ।।
लिटस्तझयोरेशिरेच् ।। 3.4.81 ।।
पूर्वसूत्रे ज्ञापितम्---आत्मनेपदादेशानां टेरेत्वं न भवतीति, तेन इशिरच् इत्येतावादेशौ न विहितौ । शकारः सर्वादेशार्थ इति । अन्यथा धातोरित्यधिकाराद् `आदेः परस्य'इति तकारस्य प्रसज्येत । अथ `शे' इत्येव कस्मान्नोक्तम्, शइरेजिति ह्युक्ते मात्रालाघवं भवति ? नैवं शक्यम् ; `शे' इति प्रगृह्यसंज्ञा स्यात् । इह च पपे सोममिति पिबादेशः प्राप्नोति, जग्ले मम्ले इत्यादौ चात्वं न स्यात् । एशि तु न दोषः, `वर्णे यत्स्यात्तच्च विध्यात्तदादौ' इति न्यायात् ।।
परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ।। 3.4.82 ।।
तिबादीनामिति । एतच्च प्रकरणाल्लभ्यते, तेन क्वसोर्णलादयो न भवन्ति, विधानसामर्थ्याद्वा क्वसोर्णलाद्यभावः । लकारः स्वार्थ इति । अन्यथा प्रत्ययस्य पित्त्वादनुदात्तत्वेऽपि धातुस्वरे कृते द्विः प्रयोगो द्विर्वचनमिति द्वयोरप्युदात्तत्वं प्राप्नोति । `अनुदात्तं पदमेकवर्जम्' इति नास्ति, यौगपद्येन सम्भवः पर्यायेण प्रसज्येत । णकारो वृद्ध्यर्थ इति । इदमन्यथासिद्धम्, `णलुत्तमो वा' इत्यत्र योगविभागः---अल् णिद्भवतीति, तत उत्तमो वा---वा णिद्भवतीति । पपाचेति । कथमयं सर्वादशः, यावता `नानुबन्धकृतमनेकाल्त्वम्', ततश्च `धातोः' इत्यधिकाराद् `आदेः परस्य' इति वकारस्य प्राप्नोति ? अनित्त्वात्सिद्धम् ? न ह्ययं णल्विधानसमये प्रत्यय इत्यनित्त्वाद् णकारस्यानेकालत्वात्सर्वादेशः, ततो णकारस्योत्संज्ञेत्यानुपूर्व्यात्सिद्धम् । ननु च णकारो न कर्तव्य इत्युक्तम् ? एवं तर्हि लकार आदौ क्रियते तस्याप्यनित्त्वात्सिद्धम्, ल उत्तमो वेति वक्तव्यम्, एवम् आत औ लस्येति, हल्ङ्यादिसूत्रे चाप्यपृक्तं हलिति हल्ग्रहणं लिङ्गं सर्वादशो णलिति, तद्धि पपाचेत्यादौ मा भूदिति । सर्वादेशत्वे च तदुपपद्यते । पपक्थेति । क्रादिनियमात्प्राप्त इट् `उपदेशेऽत्वतः' इति प्रतिषेधान्न भवति । क्वचित्पेचिथेति पाठः, `ऋतो भारद्वाजस्य' इति नियमादिट्, `थलि च सेटि' इत्येत्वाभ्यासलोपो । पेचेति । धातोरित्यधिकारात् `तस्मादित्युत्तरस्य `आदेः परस्य' इति थकारस्याकारे द्वयोरतो गुणे पररूपत्वम् ।।
विदो लटो वा ।। 3.4.83 ।।
विद ज्ञाने इति । सत्ताविचारार्थयोस्त्वात्मनेपदित्वात्तिबादीनामसम्भवः, लाभार्थस्यापि विकरणेन व्यवधानादनन्तराणामसम्भव इति भावः ।।
ब्रुवः पञ्चानामादित आहो ब्रुवः ।। 3.4.84 ।।
पञ्च णलादय इति । आदेशा अपि पञ्चैव, तत्राप्यादितो णलादयः पञ्च, न पुनरिच्छातः पञ्चेत्यर्थः । कथं पुनद्वितीयं पञ्चग्रहणमादिग्रहणं चान्तरेणादेशेष्वयं विशेषो लभ्यते, ननु सर्वैरेव णलादिभिः पञ्चानां स्थाने युक्तम्भवितुम् ? उच्यते; पूर्वसूत्रे तावद्यथासङ्ख्यं प्रवर्तते, ततश्च तत्रैव निर्ज्ञातः स्थानिविशेषेण णलादीनां सम्बन्धः, त एवेहानुवर्तन्त इत्यत्रापि तथैव भविष्यति, ततश्च स्थानिसम्बन्धादिति पूर्वसूत्रे स्थानिविशेषेण सम्बन्धस्य निर्ज्ञातत्वादित्यर्थः । आत्थेति । `आहस्थः' । परेषामिति । थादीनाम् । ननु च `ब्रुवः' इति यदेतत्पञ्चम्यन्तं तदेवार्थाद्विभक्तिविपरिणामो भवतीत्यादेशसम्बन्धे षष्ठ्यन्तं विज्ञास्यते, नार्थो ब्रुव इति पुनर्वचनेन ? तत्राह---ब्रुव इति । पुनर्वचनमित्यादि । परस्मैपदानामेव हि स्यादिति । असति श्रुते सम्बन्धिनि विभक्तिविपरिणामो भवति, इह तु परस्मैपदानामिति श्रुतत्वात्तेषामेव स्यादित्यर्थः ।।
लोटो लङ्वत् ।। 3.4.85 ।।
लोटो लङ्वत्कार्यं भवतीति । अत्र लोडादेशेषु लोट्शब्दो वर्तते, लङादेशेषु च लङ्शब्दः, लोडादेशानां लङादेशवत्कार्यं भवतीत्यर्थः, तदाह---तामादयः सलोपश्चेति । यद्यप्येते लङ्याहत्य न विहितास्तथापि लङिदृष्टत्वादतिदिश्यन्ते । अडाटौ कस्मान्न भवति इति । लङ्येवाहत्य विहितत्वात्, प्रत्युत तचोरेवातिदेशो युक्त इति प्रश्नः । तथा झेर्जुसादेश इति । कस्मान्न भवतीति विभक्तिविपरिणामेनानुषङ्गः । `लङः शाकटायनस्य' इति जुस्भावोऽपि लङ एवाहत्य विहितः । इह तु जाग्रतु, विदन्तु `सिजभ्यस्तविदिभ्यश्च' इति लङि दृष्टो जुस्भावः प्राप्नोति । वाग्रहणमनुवर्तत इति । लोट इत्युपमेये षष्ठीनिर्देशादुपमानं पष्ठ्यन्तं विज्ञायते---लङो यत्कार्यं तल्लोटो भवतीति, न तु लङि यत्कार्यं तल्लोटीत्यडाटोः परिहारान्तरम् । झेर्जुस्भावस्य तु परिहारान्तरम् `लङः शाकटायनस्य' इत्यत्र स्वयमेव वक्ष्यति ।।
एरुः ।। 3.4.86 ।।
लोडादेशानामिकारस्येति । अथ तु---लोडादेशो य इकारस्तस्य इत्यर्थोऽभिप्रेतः स्यादिट इत्येव ब्रूयात, `तुह्योः विदाङ्कुर्वन्तु' इति च निर्देशोऽनुपपन्नः स्याद् । अथेदानीमिटोऽपि व्यपदेशिवद्भावेनेत्वं कस्मान्न भवति ? पुनः प्रसङ्गविज्ञानात् टेरेत्वं भविष्यति । न वोच्चारणसामर्थ्यादिति । यदि हिन्योरुत्वं स्यात् `सेर्हुः' `मेर्नुः' इत्येव ब्रूयाद्, एवं हि प्रक्रियालाघवं भवतीति भावः । `आनि लोट्', हुझल्भ्यो हेधिः' इति लिङ्गं हिनयोरुत्वाभावस्य ।।
सेर्ह्यपिच्च ।। 3.4.87 ।।
लुनीहीति । पित्त्वाभावान्डित्त्वे सति `ई हल्यघोः' इतीत्वं भवति । राघ्नुहीत्यत्र गुणाभावः । इह सेहिर्ङिच्चेति वक्तव्यम् । नन्वेवं ङित्त्वान्ङित्कार्यं भवतु, स्थानिवद्भावेन पित्त्वमप्यस्तीत्यनुदात्तत्वमपि प्राप्नोति ? `ङिच्च पिन्न भवति' इति वचनान्न भविष्यति, यथा---अपि स्तुयाद्राजानमिति, अत्र `उतो वृद्धिर्लुकि हलि' इति पिति विधीयमाना वृद्धिर्न भवति । ब्रूताद्भवानिति, ब्रुव इण्न भवति । किं च नाप्रप्ते पित्त्वे ङित्त्वमारभ्यमाणं तद्वाधिष्यते ।।
वाच्छन्दसि ।। 3.4.88 ।।
अपित्त्वं विकल्प्यत इति । अनन्तरत्वात् । नादेश इति, व्यवहितत्वात् । युयोधीति । `बहुलं छन्दसि' इति शपः श्लौ द्विर्वचनम् । अत्र पित्त्वान् ङित्त्वाभावे `अङितश्च' इति धिभावः ।।
मेर्निः ।। 3.4.89 ।।
उत्वलोपयोरपवाद इति । यथाक्रमम् `एरुः' `लोटो लङ्वत्' इति प्राप्तयोः, `इतश्च' इतीकारलोपस्यापि लङि दृष्टत्वादतिदेशतः प्राप्तिः । वयं तु ब्रूमः---`लोटो लङ्वत्' इति प्राप्तस्यामादेशस्यापवाद इति ।।
आमेतः ।। 3.4.90 ।।
लोट्सम्बन्धिन इति । लोडादेशसम्बन्धिन इत्यर्थः । एतेन लोटैकारो विशेष्यत इति दर्शयति । एकारेण तु लोटि विशेष्यमाणे तदन्तविधौ सत्येकारान्तस्य लोट आम्विधीयमानोऽनेकाल्त्वात्सर्वादेशः स्यात्, तत्र हि `निर्दिश्यमानस्यादेशा भवन्ति' इति परिहारो वाच्यः स्यादित्यर्थः ।।
आडुत्तमस्य पिच्च ।। 3.4.92 ।।
स चोत्तमपुरुषः पिद्भवतीति । आट एव पित्त्वं कस्मान्न विज्ञायते, तुल्यविभक्तिकयोहि युक्तः सम्बन्धः---आट् पिदिति ? निर्थकत्वात् । अनुदात्तत्वं तावदागमत्वादेव सिद्धम् ; करवाणि, मार्जानीत्यादौ गुणवृद्ध्योरपि प्रत्यय एव निमित्तं न त्वागमः ।।
एत ते ।। 3.4.93 ।।
इह कस्मादिति । गुणस्यान्तवद्भावेन लोड्ग्रहणेन ग्रहणादस्ति प्रसङ्ग इति भावः । बहिरङ्गलक्षणत्वादिति । द्विपदाश्रयत्वाद् गुणस्य बहिरङ्गत्वम्, ऐकारस्त्वेकपदाश्रयत्वादन्तरङ्गः, अत एव हेतोः `आमेतः' इत्ययमपि विधिर्न भवति ।।
लेटोऽडाटौ ।। 3.4.94 ।।
पर्यायेणति । न यौगपद्येन; अड्विधानसामर्थ्यात्, अन्यथा सवर्णदीर्घत्वे सत्यड्विधानमकिञ्चित्करं स्यात् ।
आत ए ।। 3.4.95 ।।
करवैते इति । `छन्दस्युभयथा' इति सार्वधातुकत्वाद्विकरणः, आर्द्धधातुकत्वान् ङित्त्वाभावे विकरणस्य गुणः, करोतेश्चोत्वाभावः, पवैते, अश्नवैथे, प्रवैते, विग्रन्थैथे ।।
वैतोऽन्यत्र ।। 3.4.96 ।।
एतद्विषयमिति । षष्ठीसमासः । एवंविषयमिति तु युक्तः पाठः । उदाहरणानि `उपसंवादाशङ्कयोश्च' इत्यत्र व्युत्पादितानि ।
दधस इति । `थासः से', शपः श्नुः, अट्, `घोर्लोपो लेटि वा' इत्याकारलोपः ।।
इतश्च लोपः परस्मैपदेषु ।। 3.4.97 ।।
परस्मैपदग्रहणमित्यादि । अन्यथा टेरेत्वस्यावकाशः---अन्ये लकाराः, लेट्यपीकारादन्यत्र इतो लोपस्य---परस्मैपदानि; इडादिषूभयप्रसङ्गे परत्वादितो लोपः स्यात् ।।
स उत्तमस्य ।। 3.4.98 ।।
करवाव, करवामेति । पूर्ववद्गुणोत्वाभावौ, `लेटोऽडाटौ' इत्याट् । उत्तरग्रहणमित्यादि । इह वस्मस्ग्रहणमेव कर्तव्यम् । `तत्रायमप्यर्थः---स इति न वक्तव्यं भवति, `अलोऽन्त्यस्य' इत्येव सिद्धम् । यदा च पुरुषान्तरस्य स्थाने वस्मसौ भवतः, एतयोश्च स्थाने सकारान्तं पुरुषान्तरम्, तदापि वाग्रहणानुवृत्त्यैव लोपालोपौ यथादर्शनं व्यवस्थितौ भविष्यतः । यथाक्रियमाणेऽप्युत्तम प्रहणे वाग्रहणं चानुवर्तते, उत्तरत्र नित्यग्रहणं स्यात् `नित्यं ङितः' ।।
लिङः सीयुट् ।। 3.4.102 ।।
लिङ्शब्दोऽत्र लिङादेशेषु स्थानिवद्भावात् प्रयुक्त इत्याह लिङादेशानामिति । सीयुट्सकारस्यार्धदातुके लिङि श्रवणम्, सार्वधातुके `लिङः सलोपोऽन्त्यस्य' इति सलोपः । यकारस्याजादिषु श्रवणम्, अन्यत्र लोपः ।।
यासुट् परस्मैपदेषूदात्तो ङिच्च ।। 3.4.103 ।।
परस्मैपदविषयस्येति । लिङः परेषा परस्मैपदानामसम्भवात् । सीयुटोऽपवाद इति । नाप्राप्ते तस्मिन्नारम्भात्, तेन यासुटि कृते तस्य तिङ्भक्तत्वात्तदादेः सीयुट्प्रसङ्ग इति न चोदनीयम् । सत्यपि हि सम्भवे सामान्यविधेर्वशेषविधिर्बाधकः । कथं तर्हि कृषीष्ट इत्यादिषु सुटि कृते सीयुड् भवति, ननु तत्रापि सुटा सींयुड् बाधनीयः ? अत्र परिहारं सुड्विधौ वृत्तिकारः स्वयमेव वक्ष्यति । आगमत्वादनुदात्तत्वै प्राप्त इति । अत एव यासुडुदात्तवचनाद्विज्ञायते---आगमा अनुदात्ता भवन्तीति, अन्यथा यासुटः प्रत्ययभक्तत्वात्प्रत्ययस्वरेणैव सिद्धमुदात्तत्वम् । नैतदस्ति ज्ञापकम्, यानि पिद्वचनानि तदर्थमेतत्स्यात् । यद्येतावत्प्रयोजनम्, अपिदित्येव ब्रूयात् ! तदेतदुदात्तवचनं ज्ञापकमेव---आगमा अनुदात्ता भवन्तीति । तत्र तत्कार्याणां सम्भवादिति । ग्रहिज्यादिसूत्रेऽपि धातोः स्वरूपग्रहणे तत्प्रत्ययो कार्यविज्ञानात्प्रत्ययस्यैव ग्रहणम् । कुर्यादिति । विकरणाश्रयो धातोर्गुणः, `अत उत्सार्वधातुके' इत्युत्वम्, `ये च' इत्युकारलोपः । कुर्युरिति । झेर्जुस्, `लिङः सलोपोऽनन्त्यस्य' `उस्यपदान्तात्' ।
स्थानिविद्भावादेवेति । `सार्वधातुकमपित्' इत्यतिदेशादिति नोक्तम् ; पिदर्थत्वान् ङिद्वचनम्य । यासुटो ङिद्वचनमिति । यासुडादेर्लिङो ङिद्वचनमित्यर्थः । इदानीमेव ह्युक्तम्--ङित्त्वं तु लिङ एव विधीयते इति ? एतच्च ज्ञापनम्---`पिच्च ङिन्न भवति' इत्येतदनाश्रित्योच्यते । तदाक्षयणे तु स्थानिवद्भावेन प्राप्तं ङित्त्वमौपदेशिकेन पित्त्वेन बाध्यते इति प्राप्त्यर्थमेव ङिद्वचनं स्यात् ।।
किदाशिषि ।। 3.4.104 ।।
तस्य यासुट्...किद्वद्भवतीति । तस्य यासुड् भवति स च लिङ्किद्वद्भवतीत्यर्थः । अन्यथा `प्रत्ययस्येदं कित्त्वम्' इत्यनन्तरग्रन्थेन विरोधः स्यात् । प्रयोजनाभावादिति । `वचिस्वपि' इत्यत्रापि `धातोः स्वरूपग्रहणे' इति प्रत्यस्यैवेदं ग्रहणं स्यात्; अन्यथा वाच्यति वाचिकं कथयति, वाग्जहातीत्यत्रापि स्यात् । गुणवृद्धिप्रतिषेधस्तुल्य इति । किमर्थं तर्हि कित्त्वविधानमित्यत आह---सम्प्रसारणमिति । जगर्यादिति । `जाग्रोऽविचिण्णल्ङित्सु' इति गुणः ।।
झस्य रन् ।। 3.4.105 ।।
झस्येत्यकारोच्चारणात्सङ्घातस्यैव ग्रहणं न वर्णस्य, अन्यथान्तादेशविधाविव `झः' इत्येव ब्रूयादिति मन्यमान आह---लिङादेशस्य झस्येति । झोऽन्तापवाद इति । झकारस्य योऽन्तादेशस्तस्यापवाद इत्यर्थः । `झोऽन्तः' इत्यस्य वा विधेरपवाद इत्यर्थः । ननु झवर्णस्यान्तादेशः समुदायस्य रन्निति कथं भिन्नविषययोर्बाध्यबाधकभावः ? विरोधात्, येन नाप्राप्तिन्यायाच्च । झोऽन्तापवाद इत्युपलक्षणम् ; कृषीरन्, तृषीरन्नित्यत्र `आत्मनेपदेष्वनतः' इत्यस्याप्यपवादः । ननु चापवदाविप्रतिषेधादद्भाव एव प्राप्नोति, न; प्रतिपदविधेर्बलीयस्त्वात्, प्रतिपदविहितो हि रन्भावः । यद्वा---कृषीरन्, तृषीरन्नित्यत्रापि प्रवर्त्ततामद्भावः, सत्यपि तु तस्मिन्पुनः प्रसङ्गविज्ञानात्सङ्घातस्य रन् भविष्यति ।।
इटोऽत् ।। 3.4.106 ।।
नैवायमादेशावयव इति । ते नास्तेत्संज्ञया प्रयोजनम्, स्वयमेव निवृत्तत्वादित्यर्थः । प्रत्युतेसंज्ञायां स्वरितत्वं स्यात्, `न विभक्तौ तुस्माः' इत्यत्राभ्युपगमवादेनोक्तम्---`किमोदिटोदिति चात्र प्रातेषेधो न भवत्यनित्यत्वादस्य' इति । अर्थवद्ग्रहण इत्यादि । ल स्थाने य इडिति विशेषणादप्यागमस्येटो ग्रहणाभावः ।।
सुट् तिथोः ।। 3.4.107 ।।
`तिथोः' इति सप्तमी वा स्यात् ? षष्ठी वा ? आद्ये पक्षे `यस्मिन्विधिस्तदादावल्ग्रहणे' इति तकारथकारोदेर्लिङादेशस्य सुटा भाव्यमिति कृषीष्ट कृषीष्ठा इत्यत्रैव स्यात्, कृषीयास्तां कृषीयास्थामित्यत्र न स्यात्; सुटा च सीयुटो बाधः स्यात्, उभयोरपि लिङआदेशभक्तत्वादिति द्वितीयं पक्षमाश्रित्याह---लिङ्सम्बन्धिनोस्तकारथकारयोरिति । एतदेव स्पष्टयति---तकारथकाराविति । लिङ् तद्विशेषणमिति । लिङ्शब्देन तदादेशा उच्यन्ते । एवं लिङ्संबन्धिनोरित्यत्रापि कृषीष्टेति । विध्यादौ लिङि सार्वधातुकत्वात् `लिङः सलोपः' इति लोपेन सुटः श्रवणाभावादाशिषु लिङेवोदाहृतः ।।
झेर्जुस् ।। 3.4.108 ।।
झोऽन्तापवाद इति । पूर्ववद् व्याख्येयम् । जागृयुरित्यादौ च पूर्ववदेव `अदभ्यस्तात्' इत्यस्यापि बाधः । पचेयुरिति । `अतो येयः' इतीयादेशः, शपा सह `आद्गुणः' ।।
सिजभ्यस्तविदिभ्यश्च ।। 3.4.109 ।।
सत्ताविचारणार्थयोर्विदोरात्मनेपदित्वादसम्भव एव झेः, लाभार्थस्यापि विकरणेन व्यवधानादनन्तरस्य झेरसम्भवः, तस्माल्लुग्विकरणस्यैव विदेर्ग्रहणमित्याह---वेत्तेश्चेति । अभ्यस्तविदिग्रहणमसिजर्थमिति । न चैवं लोडादिष्वपि प्रसङ्ग इत्याह---ङित इति चानुवर्तत इति ।।
आतः ।। 3.4.110 ।।
सिच आकारान्ताच्च परस्य झेरिति । द्वाभ्यामनन्तरस्येत्यर्थः । कथमिति । आतः सिचा व्यवधानाद् द्वाभ्यामानन्तर्य न सम्भवतीति प्रश्नः । सिज्लुगन्ताद् झेर्जुस् भवतीत्युक्तं भवति । अभूवन्निति । `भुवो वुग्लुङ्लिटोः' इति वुक् । तुल्यजातीयापेक्षत्वाच्चेति । द्वाभ्यामानन्तर्यस्याश्रवणात् सिज्लुगन्तस्य ग्रहणमित्युक्तम् । तेन---सिज्लुगन्ताद्यदि भवति आत एवेति नियमाश्रयणात् श्रूयमाणे सिचि अकार्षुरित्यादावनाकारान्तादपि भवत्येवेत्यर्थः ।।
लङः शाकटायनस्यैव ।। 3.4.111 ।।
अयुः, अवुरिति । शपो लुक्, `उस्यपदान्तात्' इति पररूपत्वम् ।।
लङेवेति । लुड्लिङोस्तावद्भवितव्यम्, लृङस्तु स्यप्रत्ययेन झेर्व्यवधानमिति भावः । यान्तु, वान्त्विति । `लोटो लङ्वत्' इत्यत्र तु वाग्रहणानुवृत्त्याप्ययमर्थः साधितः । ननु च लङ्ग्रहणाद्यत्नज्जुस्भावोऽयं लोटो मा भूत्, `सिजभ्यस्त' इत्ययं तु स्यादेव ? तत्राह---सिजभ्यस्तेत्यादि । कथमित्यत्राह---जुस्भावमात्रं हीति । कथं पुनः `आतः' इत्यनुवर्तमाने जुस्भावमात्रं मुख्येन लङा शक्यं विशेषयितुम् ? `लङः' इति योगविभागः कर्तव्य इति मन्यते । ननु च `आत इत्येतत्सिज्ग्रहणानुवृत्त्या नियमार्थम्' इत्युक्तम् , ततश्चायुरित्यत्र केनचिदप्राप्तत्वाद्विध्यर्थमेतत्किमेवकारेण ? इत्यत्राह---एवकार उत्तरार्थ इति । `लिट् च', `लिङाशिषि' इत्यत्रास्य प्रयोजनं दर्शयिष्यति ।।
द्विषश्च ।। 3.4.112 ।।
द्विषिरदादिः ।।
तिङ्शित्सार्वधातुकम् ।। 3.4.113 ।।
तरति नयतीति । तिङः सार्वधातुकत्वाच्छप्, शपः सार्वधातुकत्वाद्धातोर्गुणः । रोदितीति । शपो लुकि `रुदादिभ्यः सार्वधातुके' इतीट् । पवमानो यजमान इति । पूर्ववच्छब्गुणौ ।।
आर्धधातुकं शेषः ।। 3.4.114 ।।
धातुसंशब्दनेनेति । धातुशब्दमुच्चार्येत्यर्थः । अत्र हि यङ्विधौ यद्धातुग्रहणं शमिधातोरिति वा, यच्च धातोरिति, तदुभयमनुवर्तते; तत्रैकेनाधातुप्रत्ययो व्यावर्त्यते, अपरेण धातुप्रत्ययो विशिष्यते, धातोरित्येवं यो विहित इति, तेनायमर्थः । लूभ्याम्, लुभिः, जुगुप्सते इति । यद्यप्यत्र धातोरेव विहिस्तथापि धातुशब्दमुच्चार्य न विहित इति भवति प्रत्युदाहरणम् । शेषग्रहणम्---तिङ्शितोर्मा भूत; अन्यथैकसंज्ञाधिकाराभावात्प्रत्ययादिसंज्ञानामिव समावेशः स्यात् ।
सद्येवकारोऽनुवर्तते शक्यं शेषग्रहणमकर्तुम् ।।
लिट् च ।। 3.4.115 ।।
पेचिथ, शेकिथेति । `ऋतो भारद्वाजस्य' इति नियमादिट्, `थलि च' सेटि' इत्येत्वाभ्यासलोपौ । जग्ले मम्ल इति । आर्धधातुकत्वात् `आतो लोप इटि च' इत्याकारलोपः । यदुक्तम्---सार्वधातुकसंज्ञाया अपवाद इति, तद्विघटयति---ननु चेति । सत्यमित्यादिना अपवादत्वं समर्थयते ।।
छन्दस्युभयथा ।। 3.4.117 ।।
सर्वमेव प्रकरणमिति । `तिङ्सित्सार्वधातुकम्' इत्यारभ्य चतुः सूत्रीप्रकरणम् ।
भूभावो न भवतीति । तदानीभेवार्धधातुकत्वात् `श्नसोरल्लोपः' इत्यस्याभावः ।।
इति श्रीहरदत्तमिश्रविरचितायां पदमञ्जर्यां तृतीयाध्यायस्य चतुर्थः पादः
********************-------------------