काशिका/सप्तमोऽध्यायः/प्रथमः पादः

विकिस्रोतः तः


अथ सप्तमाध्याये प्रथम पादः

युवोरनाकौ ।। <7-1-1> ।।
यु, वु - इत्येतयोरुत्सृष्टविशेषणयोरनुनासिकयणोः प्रत्यययोर्ग्रहणम्, तयोः स्थाने यथासङ्ख्यमन, अक - इत्येतावादेशौ भवतः । योरनः, वोरकः । नन्द्यादिभ्यो ल्युः(3-1-134/2896) - नन्दनः । रमणः । सायमादिभ्यष्ट्युट्युलौ तुट्(4-3-23/1391) - सायन्तनः । चिरन्तनः । ण्वुल्तृचौ - कारकः । हारकः । वासुदेवार्जुनाभ्यां वुन्(4-3-98/1478) - वासुदेवकः । अर्जुनकः । अनुनासिकयणोरिति किम्? ऊर्णाया युस्(5-2-123/1929) ऊर्णायुः । `भुजिमृङ्भ्यां युक्त्युकौ(उ.308) - भुज्युः, मृत्युरिति । एवमादीनां हि यणोऽनुनासिकत्वं न प्रतिज्ञायते, `प्रतिज्ञानुनासिक्याः पाणिनीयाः(व्या.प.99) । इह युवोः इति निर्द्देशाद् द्वन्द्वैकवद्भावपक्षे अनित्यमागमशासनम् इति नुम् न क्रियते । नपुंसकलिङ्गता वा `लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य(चा.प.73) इति न भवति । इतरेतरपक्षे तु छान्दसत्वाद् वर्णलोपो द्रष्टव्यः ।।
युवोश्चेद् द्वित्वनिर्देशो द्वित्वे यण्तु प्रसज्यते ।
अथ चेदेकवद्भावः कथं पुंवद्भवेदयम् ।।
द्वित्वे नैगमिको लोप एकत्वे नुमनित्यता ।
अशिष्यत्वाद्धि लिङ्गस्य पुंस्त्वं वेह समाश्रितम् ।।
</7-1-1>
आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् ।। <7-1-2> ।।
आयन्, एय्, ईन्, ईय्, इय् - इत्येते आदेशा भवन्ति यथासंख्यं फ, ढ, ख, छ, घ - इत्येतेषां प्रत्यादीनाम् । फ इत्येतस्यायनादेशो भवति - नडादिभ्यः फक्(4-1-99/1101) नाडायनः , चारायणः । ढस्य एयादेशो भवति - स्त्रीभ्यो ढक्(4-1-130/1130), सौपर्णेयः, वैनतेयः । खस्य ईनादेशो भवति - कुलात्खः(4-1-139/1162), आढ्यकुलीनः, श्रोत्रियकुलीनः । छस्य ईयादेशो भवति - वृद्धाच्छः(4-2-114/1337), गार्गीयः, वात्सीयः । घ इत्येतस्येयादेशो भवति - क्षत्त्राद्घः(4-1-138/1161) क्षत्त्रियः । प्रत्ययग्रहणं किम्? फक्कति । ढौकते । खनति । छिनत्ति । घूर्णते । आदिग्रहणं किम्? ऊरुदघ्नम् । जानुदघ्नम् । एते आयन्नादयः प्रत्ययोपदेशकाल एव भवन्ति । कृतेष्वेतेषु प्रत्ययाद्युदात्तत्वं भवति । तथा च घच्छौ च(4-4-117/3463) इति घचश्चित्करणमर्थवद्भवति । शङ्खः, षण्ढः - इत्येवमादीनां हि उणादयो बहुलम्(3-3-1/3139) इति बहुलवचनादादेशा न भवन्ति । ऋतेरीयङ्(3-1-29/2422) इति वा वचनं ज्ञापकम् - धातुप्रत्ययानामादेशाभावस्य । एजेः खश्(3-2-28/2941), पदरुजविशस्पृशो घञ्(3-3-16/3182) - इत्येवमादिषु तु इत्संज्ञया भवितव्यम् । तद्धितेषु हि खकारघकारयोरादेशवचनमवकाशवदितीत्संज्ञां बाधितुं नोत्सहते । आयन्नीनोर्नकारस्येत्संज्ञायां प्राप्तायां प्रतिविधातव्यम्, नित्कार्यं हि सम्भवति ।।
</7-1-2>
झोऽन्तः ।। <7-1-3> ।।
प्रत्ययग्रहणमनुवर्त्तते, आदिग्रहणं निवृत्तम् । प्रत्ययावयवस्य झस्य अन्त इत्ययमादेशो भवति । कुर्वन्ति । सुन्वन्ति । चिन्वन्ति । `अद्य श्वो विजनिष्यमाणाः पतिभिः सह शयान्तै(वासि.गृ.13-24) । `जॄविशिभ्यां झच्(उ.413) - जरन्तः, वेशन्तः ।
प्रत्ययस्य इत्येव - उज्झिता । उज्झितुम् । उज्झितव्यम् । अस्मिन्नप्यन्तादेशे कृते प्रत्ययाद्युदात्तत्वं भवति । तथा च - झचश्चित्करणमर्थवद्भवति ।।
</7-1-3>
अदभ्यस्तात् ।। <7-1-4> ।।
अभ्यस्तादङ्गादुत्तरस्य झकारस्य अत् इत्ययमादेशो भवति । ददति, ददतु । दधति, दधतु। जक्षति, जक्षतु । जाग्रति, जाग्रतु । अन्तादेशापवादोऽयम् , जुसादेशेन तु बाध्यते - अदधुः, अजागरुः । अत्राप्यादेशे कृते प्रत्ययाद्युदात्तत्वं भवति ।।
</7-1-4>
आत्मनेपदेष्वनतः ।। <7-1-5> ।।
आत्मनेपदेषु यो झकारस्तस्यानकारान्तादङ्गादुत्तरस्य अत् इत्ययमादेशो भवति । चिन्वते । चिन्वताम् । अचिन्वत । पुनते । लुनते । लुनताम् । अलुनत । आत्मनेपदेष्विति किम् ? चिन्वन्ति, लुनन्ति । अनत इति किम्? च्यवन्ते । प्लवन्ते । नित्यत्वादत्र विकरणे कृते झोऽन्तादेशेन भवितव्यमित्यदादेशो न भवति । अनकारान्तेनाङ्गेन झकारविशेषणं किम्? इह मा भूत् - `अद्य श्वो विजनिष्यमाणाः पतिभिः सह शयान्तै(वासि.गृ.13-24) ।।
</7-1-5>
शीङो रुट् ।। <7-1-6> ।।
शीङोऽङ्गादुत्तरस्य झादेशस्यातो रुडागमो भवति । शेरते । शेरताम् । अशेरत । रुडयं परादिः क्रियते, स यदि झकारस्यैव स्यात्, अदादेशोन स्यादिति , अत एवायमादेशस्यागमो विधीयते ।
सानुबन्धग्रहणमयङ्‌लुगर्थम् । तेनेह न भवति - व्यतिशेश्यते ।।
</7-1-6>
वेत्तेर्विभाषा।। <7-1-7> ।।
वेत्तेरङ्गादुत्तरस्य झादेशस्यातो विभाषा रुडागमो भवति । संविद्रते, संविदते । संविद्रताम्, संविदताम् । समविद्रत, समविदत । वेत्तिरिति लुग्विकरणस्य ग्रहणं किम्? इह मा भूत् - विन्ते, विन्दाते, विन्दते इति ।।
</7-1-7>
बहुलं छन्दसि ।। <7-1-8> ।।
छन्दसि विषये बहुलं रुडागमो भवति । `देवा अदुह्र(मै.सं.4-2-13) । गन्धर्वा अप्सरसो अदुह्र । दुहेर्लङि झकारस्यादादेशे कृते रुट् । लोपस्त आत्मनेपदेषु इति तकारलोपः । न च भवति - अदुहत । बहुलवचनादन्यत्रापि भवति - `अदृश्रमस्य केतवः(ऋ.1-50-3) । ऋदृशोऽङि गुणः(7-4-16/2406) इत्येतदपि बहुलवचनादेवात्र न भवति ।।
</7-1-8>
अतो भिस ऐस् ।। <7-1-9> ।।
अकारान्तादङ्गादुत्तरस्य भिस ऐसित्ययमादेशो भवति । वृक्षैः । प्लक्षैः । अतिजरसैः । जरामतिक्रान्तैरिति विगृह्य समाते कृते ह्रस्वत्वे च भिस ऐसादेशो भवति । एकदेशविकृतमनन्यवद्भवति इति जरशब्दस्य जरसादेशः । `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य(व्या.प.12) इति परिभाषेयमनित्या, कष्टाय क्रमणे(3-1-14/2670) इति निर्देशात् । अत इति किम्? अग्निभिः । वायुभिः । तपरकरणं किम्? खट्वाभिः । मालाभिः ।।
`एत्वं भिसि परत्वाच्चेदत ऐस् क्व भविष्यति ।
कृतेऽप्येत्वे भौतपूर्व्यादैस्तु नित्यस्तथा सति ।।(म.भा.3-244) अतः इत्यधिकारः - जसः शी(7-1-17/214) इति यावत् ।।
</7-1-9>
बहुलं छन्दसि ।। <7-1-10> ।।
छन्दसि विषये बहुलमैसादेशो भवति । अत इत्युक्तम्, अनतोऽपि भवति - नद्यैरिति । अतो न भवति - देवेभिः सर्वेभिः प्रोक्तमिति ।।
</7-1-10>
नेदमदसोरकोः ।। <7-1-11> ।।
इदम् , अदस् - इत्येतयोरककारयोर्भिस ऐस्न भवति । एभिः । अमीभिः । अकोरिति किम्? इमकैः । अमुकैः । अकोरित्येतदेव प्रतिषेधवचनं ज्ञापकम् - `तन्मध्यपतितस्तद्‌ग्रहणेन गृह्यते(व्या.प.21) इति । इदमदसोः कात् इति नोक्तम्, विपरीतोऽपि नियमः सम्भाव्येत - इदमदसोरेव कादिति । ततश्चेह न स्यात् - सर्वकैः , विश्वकैः । इह च स्यादेव - एभिः, अमीभिः । प्रतिषेधकरणं विपरीतनियमनिवृत्त्यर्थम् ।।
</7-1-11>
टाङसिङसामिनात्स्याः ।। <7-1-12> ।।
अकारान्तादङ्गादुत्तरेषां टाङसिङसाम् इन, आत्, स्य - इत्येते आदेशा भवन्ति यथासंख्यम् । टा इत्येतस्येनादेशो भवति - वृक्षेण, प्लक्षेण। ङसि इत्येतस्य आत् - वृक्षात्, प्लक्षात् । ङस् इत्येतस्य स्यादेशो भवति - वृक्षस्य, प्लक्षस्य । अत इति किम्? सख्या । पत्या । अतिजरसिनः ,अतिजरसादिति केचिदिच्छन्ति । यथा तु भाष्ये तथा नैतदिष्यत इति लक्ष्यते ।।
</7-1-12>
ङेर्यः ।। <7-1-13> ।।
ङेः इति चतुर्थ्येकवचनस्य ग्रहणम् । अकारान्तादङ्गादुत्तरस्य ङे इत्येतस्य य इत्ययमादेशो भवति । वृक्षाय । प्लक्षाय । अत इति किम्? सख्ये, पत्ये । `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य(व्या.प.12) इति परिभाषेयमनित्या, तेन दीर्घो भवति ।।
</7-1-13>
सर्वनाम्नः स्मै ।। <7-1-14> ।।
अकारान्तात्सर्वनाम्न उत्तरस्य ङेः स्मै इत्ययमादेशो भवति । सर्वस्मै । विश्वस्मै । यस्मै । कस्मै । तस्मै । अतः इत्येव - भवते । अथो अत्रास्मै - इत्यन्वादेशोऽशादेशे एकादेशः प्राप्नोति तत्रान्तरङ्गत्वादेकादेशात्पूर्वं स्मैभावः क्रियते, पश्चादेकादेश इति ।।
</7-1-14>
ङसिङ्योः स्मात्स्मिनौ ।। <7-1-15> ।।
ङसि, ङि इत्येतयोरकारान्तात् सर्वनाम्न उत्तरयोः स्मात्, स्मिन् - इत्येतावादेशौ भवतः । ङसीत्येतस्य स्मात् - सर्वस्मात्, विश्वस्मात्, यस्मात्, तस्मात्, कस्मात् । ङीत्येतस्य स्मिन् - सर्वस्मिन् , विश्वस्मिन्, यस्मिन्, तस्मिन् , अन्यस्मिन् । अत इत्येव - भवतः । भवति । सर्वनाम्न इत्येव - वृक्षात् । वृक्षे ।।
</7-1-15>
पूर्वादिभ्यो नवभ्यो वा ।। <7-1-16> ।।
पूर्वादिभ्यो नवभ्यः सर्वनाम्न उत्तरयोर्ङसिङ्योः स्मात्, स्मिन् - इत्येतावादेशौ वा भवतः । पूर्वस्मात्, पूर्वात् । पूर्वस्मिन् , पूर्वे । परस्मात्, परात् । परस्मिन् , परे । अवरस्मात्, अवरात् । अवरस्मिन्, अवरे । दक्षिणस्मात्, दक्षिणात् । दक्षिणस्मिन्, दक्षिणे । उत्तरस्मात्, उत्तरात् । उत्तरस्मिन् , उत्तरे । अपरस्मात् , अपरात् । अपरस्मिन्, अपरे । अधरस्मात्, अधरात्। अधरस्मिन् , अधरे । स्वस्मात्, स्वात्। स्वस्मिन्, स्वे । अन्तरस्मात्, अन्तरात् । अन्तरस्मिन , अन्तरे । नवभ्य इति किम्? त्यस्मात् । त्यस्मिन् ।।
</7-1-16>
जसः शी ।। <7-1-17> ।।
अकारान्तात्सर्वनाम्न उत्तरस्य जसः शी इत्ययमादेशो भवति । सर्वे। विश्वे । ये । के । ते । दीर्घोच्चारणमुत्तरार्थम् - त्रपुणी । जतुनी ।।
</7-1-17>
औङ आपः ।। <7-1-18> ।।
आबन्तादङ्गादुत्तरस्यौङः शी इत्ययमादेशो भवति । खट्वे तिष्ठतः । खट्वे पश्य । बहुराजे । कारीषगन्ध्ये । ङकारः सामान्यग्रहणार्थः - औटोऽपि ग्रहणं यथा स्यात् ।
`औकारोऽयं शीविधौ ङिद्‌गृहीतो ङिच्चास्माकं नास्ति कोऽयं प्रकारः ।
सामान्यार्थः, तस्य चासञ्जनेऽस्मिन्ङित्कार्थं ते श्यां प्रसक्तं स दोषः । ङित्त्वे विद्याद्वर्णनिर्देशमात्रं वर्णे यत्स्यात्तच्च विद्यात्तदादौ ।
वर्णश्चायं तेन ङित्त्वेऽप्यदोषो निर्देशोऽयं पूर्वसूत्रेण वा स्यात् ।।(म.भा.3-247)
</7-1-18>
नपुंसकाच्च ।। <7-1-19> ।।
नपुंसकादड्गादुत्तरस्य औङः शी इत्यमादेशो भवति । कुण्डे तिष्ठति । कुण्डे पश्य । यस्येति(6-4-148/311)लोपः प्राप्तः ।

  • श्यां प्रतिषेधो वक्तव्यः *।

 इति न भवति - दधिनी, मधुनी, त्रपुणी, जतुनी ।।
</7-1-19>
जश्शसोः शिः ।। <7-1-20> ।।
नपुंसकादङ्गादुत्तरयोर्जश्शसोः शि इत्यादेशो भवति । कुण्डानि तिष्ठन्ति । कुण्डानि पश्य । दधीनि । मधूनि । त्रपूणि । जतूनि । जसा सहचरितस्य शसो ग्रहणादिह न भवति-कुण्डशो ददाति । वनशः प्रविशन्तीति ।।
</7-1-20>
अष्टाभ्य औश् ।। <7-1-21> ।।
अष्टाभ्यः इति कृताकारोऽष्टन् - शब्दो गृह्यते । तस्मादुत्तरयोर्जश्शसोः औश् इत्ययमादेशो भवति । अष्टौ तिष्ठन्ति । अष्टौ पश्य । कृताकारस्य ग्रहणं किम्? अष्ट तिष्ठन्ति । अष्ट पश्य । एतदेव कृतात्वस्य ग्रहणं ज्ञापकम् - अष्टन आ विभक्तौ(7-2-84/371) इति आत्त्वविकल्पस्य । षड्भ्यो लुक्(7-1-22/261) इत्यस्यायमपवादः, नाप्राप्ते तस्मिन्निदमारभ्यते । यस्तु सुपो धातुप्रातिपदिकयोः(2-4-71/650) इति , तस्मिन्प्राप्ते चाप्राप्ते चेति स न बाध्यते - अष्टपुत्रः, अष्टभार्य इति । तदन्तग्रहणमत्रेष्यते-परमाष्टौ, उत्तमाष्टौ । प्रियाष्टानः इत्यत्रात्वस्याभावादौश्त्वं न भवति ।।
</7-1-21>
षड्‌भ्यो लुक् ।। <7-1-22> ।।
षट्संज्ञकेभ्य उत्तरयोर्जश्शसोर्लुग्भवति । षट् तिष्ठन्ति । षट् पश्य । पञ्च । सप्त । नव । दश । षट्प्रधानात्तदन्तादपि भवति - परमषट् । उत्तमषट् । यत्र तूपसर्जनं षट्, ततो न भवति - प्रियषषः, प्रियपञ्चान इति ।।
</7-1-22>
स्वमोर्नपुंसकात् ।। <7-1-23> ।।
सु, अम् - इत्येतयोर्नपुंसकादुत्तरयोर्लुग्भवति । दधि तिष्ठति । दधि पश्य । मधु तिष्ठति । मधु पश्य । त्रपु । जतु । तद्‌ब्राह्मणकुलमित्यत्र लुका त्यदाद्यत्वं बाध्यते पूर्वविप्रतिषेधेन, नित्यत्वाद्वा । लुको हि निमित्तम् अतोऽम्(7-1-24/309) इति लक्षणान्तरेण विहन्यते , न पुनस्त्यदाद्यत्वेनैव । यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यं भवति।।
</7-1-23>
अतोऽम् ।। <7-1-24> ।।
अकारान्तान्नपुंसकाद् उत्तरयोः स्वमोः अम् इत्ययमादेशो भवति । कुण्डं तिष्ठति । कुण्डं पश्य । वनम् । पीठम् । मकारः कस्मान्न क्रियते दीर्घत्वं प्राप्नोति(7-3-102/202) ।।
</7-1-24>
अद्‌ड्‌ डतरादिभ्यः पञ्चभ्यः ।। <7-1-25> ।।
डतरादिभ्यः परयोः स्वमोरद्ड् इत्ययमादेशो भवति । कतरत्तिष्ठति । कतरत्पश्य । कतमत्तिष्ठति । कतमत्पश्य
। इतरत् । अन्यतरत् । अन्यत् । पञ्चभ्य इति किम्? नेमं पश्य । डित्करणं किम् कतरत् तिष्ठतीत्यत्र पूर्वसवर्णदीर्घो मा भूत् । इह तु कतरत्पश्येति स्थानिवद्भावादमि पूर्वत्वेनापि सिद्ध्यति । एवं तर्हि तकारादेश एव कस्मान्न विधीयते हे कतरदिति सम्बुद्धेर्लोपो मा भूत् ।
अपृक्तश्चेदमो दोषो निवृत्ते डतरादिषु ।
अद्‌डित्त्वाड्डतरादीनां न लोपो नापि दीर्घता ।।
</7-1-25>
नेतराच्छन्दसि ।। <7-1-26> ।।
इतरशब्दादुत्तरयोः स्वमोश्छन्दसि विषये अद्डादेशो न भवति । `इतरमितरमण्डमजायत(मै.1-6-12) । वार्त्रघ्नमितरम् । छन्दसीति किम्? इतरत्काष्ठम् । इतरत्कुड्यम् । अतोऽम्(7-1-24/309) - इत्यस्मादनन्तरमितराच्छन्दसीति वक्तव्यम् । नेतराच्छन्दसि इति वचनं योगविभागार्थम् ।

  • एकतराद्धि सर्वत्र छन्दसि भाषायां प्रतिषेध इष्यते *(म.भा.3-250)। एक तरं तिष्ठति । एकतरं पश्येति ।।

</7-1-26>
युष्मदस्मद्भ्यां ङसोऽश् ।। <7-1-27> ।।
युष्मदस्मद् - इत्येताभ्यामुत्तरस्य ङसः अश् -- इत्ययमादेशो भवति । तव स्वम् । मम स्वम् । शित्करणं सर्वादेशार्थम् अन्यथा ह्यादेशव्यपदेशप्रकॢप्त्यर्थमादेरेव स्यात्, ततश्च योऽचि(7-2-89/392) इत्येतन्न स्यात् ।।
</7-1-27>
ङे प्रथमयोरम् ।। <7-1-28> ।।
ङे इत्यविभक्तिको निर्देशः । ङे इत्येतस्य प्रथमयोश्च विभक्त्योः प्रथमाद्वितीययोर्युष्मदस्मद्भ्यामुत्तरयोः अम् इत्ययमादेशो भवति । तुभ्यं दीयते । मह्यं दीयते । प्रथमयोः - त्वम् , अहम् । युवाम्, आवाम् । यूयम् , वयम् । त्वाम्, माम् । युवाम् , आवाम् ।।
</7-1-28>
शसो न ।। <7-1-29> ।।
युष्मदस्मद्भ्यामुत्तरस्य शसो नकारादेशो भवति । युष्मान् ब्राह्मणान् । अस्मान् ब्राह्मणान् । युष्मान् ब्राह्मणीः । अस्मान् ब्राह्मणीः । युष्मान् कुलानि । अस्मान्कुलानि । तस्माच्छसो नः पुंसि(6-1-103/196) इति सिद्धे स्त्रीनपुंसकार्थं वचनम् । अलिङ्गे वा युष्मदस्मदी ।।
</7-1-29>
भ्यसो भ्यम् ।। <7-1-30> ।।
युष्मदस्मद्भ्यामुत्तरस्य भ्यसः भ्यम् इत्ययमादेशो भवति । युष्मभ्यं दीयते । अस्मभ्यं दीयते । भ्यमादेशे कृते शेषेलोपे च बहुवचने झल्येत्(7-3-103/205) इत्येत्वं प्राप्नोति, तद् `अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य(व्या.प.38) इति न भवति । केचित् पुनरभ्यमादेशमेत्वनिवृत्त्यर्थं कुर्वन्ति । येषां तु शेषेलोपष्टिलोपः , तेषामभ्यमादेश एव । उदात्तनिवृत्तस्वरश्चादेरेव भवति ।।
</7-1-30>
पञ्चम्या अत् ।। <7-1-31> ।।
पञ्चम्या भ्यसो युष्मदस्मद्भ्यामुत्तरस्य अत् इत्ययमादेशो भवति । युष्मद् गच्छन्ति । अस्मद् गच्छन्ति ।।
</7-1-31>
एकवचनस्य च ।। <7-1-32> ।।
पञ्चम्या एकवचनस्य युष्मदस्मद्भ्यामुतरस्य अत् इत्ययमादेशो भवति । त्वद् गच्छन्ति । मद् गच्छन्ति ।।
</7-1-32>
साम आकम् ।। <7-1-33> ।।
साम इति षष्ठीबहुवचनमागतसुट्कं गृह्यते । तस्य युष्मदस्मद्भ्यामुत्तरस्य आकम् इत्ययमादेशो भवति । युष्माकम् । अस्माकम् । अथ किमर्थमागतसुट्को गृह्यते, न ह्यादेशविधानकाले सुड् विद्यते तस्यैव तु भाविनः सुटो निवृत्त्यर्थम् । आदेशे कृते हि शेषेलोपे युष्मदस्मदोरकारान्तत्वात्सुट् प्राप्नोति, स स्थान्यन्तर्भूतत्वान्निवर्तते । दीर्घोच्चारणं सवर्णदीर्घार्थम् । अकमि तु सति ह्रस्वकरणे तद्विधानसामर्थ्यादेव सवर्णदीर्घत्वं न प्राप्नोति । तत्सामर्थ्यमेत्वं प्रति भविष्यतीति अकारकरणमेत्वनिवृत्त्यर्थमिति अतो गुणे(6-1-97/191) पररूपत्वं स्यात् ।।
</7-1-33>
आत औ णलः ।। <7-1-34> ।।
आकारान्तादङ्गादुत्तरस्य णल औकारादेशो भवति । पपौ । तस्थौ । जग्लौ । मम्लौ । अत्रौत्वमेकादेशः, स्थानिवद्भावः, द्विर्वचनम् - इत्यनेन क्रमेण कार्याणि क्रियन्ते । एकादेशादनवकाशत्वादौत्वं द्विर्वचनादपि परत्वादेकादेश इति ।
</7-1-34>
तुह्योस्तातङाशिष्यन्यतरस्याम् ।। <7-1-35> ।।
तु, हि - इत्येतयोराशिषि विषये तातङादेशो भवत्यन्यतरस्याम् । जीवताद्भवान् । जीवतात्त्वम् । जीवतु भवान् । जीव त्वम् । ङित्करणं गुणवृद्धिप्रतिषेधार्थमिति सर्वादेशस्तातङ् भवति । ङित्त्वाच्चास्य स्थानिवद्भावाद्यत्पित्त्वं प्राप्नोति , तन्निवर्त्तते, ङिच्च पिन्न भवति । तेन ब्रुव ईट्(7-3-93/2452) इति ब्रूताद्भवान् - इतीण्न भवति । आशिषीति किम्? ग्रामं गच्छतु भवान् । गच्छ त्वम् ।
तातङि ङित्वं संक्रमकृत्स्यादन्त्यविधिश्चेतच्च तथा न ।
हेरधिकारे हेरधिकारो लोपविधौ तु ज्ञापकमाह।।
तातङो ङित्त्वसामर्थ्यान्नायमन्त्यविधिः स्मृतः ।
न तद्वदनङादीनां तेन तेऽन्त्यविकारजाः ।।
</7-1-35>
विदेः शतुर्वसुः ।। <7-1-36> ।।
`विद ज्ञाने(धा.पा.1065) - इत्येतस्माद्धातोरुत्तरस्य शतुर्वसुरादेशो भवति । विद्वान्, विद्वांसौ, विद्वांसः । स्थानिवद्भावादुगित्कार्ये सिद्धे वसोरुकारकरणम् वसोः सम्प्रसारणम्(6-4-131/435) इत्यत्र क्वसोरपि सामान्यग्रहणार्थम् । `एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य(व्या.प.52) इत्येतदपि न भवति तथा सत्युकारकरणमनर्थकं स्यात् । अन्यतरस्यांग्रहणं केचिदनुवर्त्तयन्ति । विदन्, विदन्तौ , विदन्तः ।।
</7-1-36>
समासेऽनञ्पूर्वै क्त्वो ल्यप् ।। <7-1-37> ।।
समासेऽनञ्पूर्वे क्त्वा इत्येतस्य ल्यप् इत्ययमादेशो भवति । प्रकृत्य । प्रहृत्य । पार्श्वतः कृत्य । नानाकृत्य । द्विधाकृत्य । समास इति किम्? कृत्वा । हृत्वा । अनञ्पूर्व इति किम्? अकृत्वा । अहृत्वा । परमकृत्वा । उत्तमकृत्वा । अनञ् इति हि नञाऽन्यदनञ् नञ्सदृशमव्ययं परिगृह्यते । तेन नञ् अनव्ययं चानञ् न भवति । स्नात्वाकालकादिषु मयूरव्यंसकादिषु निपातनाल्ल्यबादेशो न भवति । अथ वा - समासे इति निर्धारणे सप्तमी । तेन क्त्वान्तः समास एव परिगृह्यते । स च येन विधिस्तदन्तस्य(व्या.प.3) इत्यनेन तदन्तविधिना, नतु `कृद्ग्रहणे गतिकारकपूर्वस्यापि(व्या.प.126) इति । तथा च अनञ्पूर्वे इत्युच्यते । गतिकारकपूर्वस्यैव तु ग्रहणे सति नञ्पूर्वस्य प्रसङ्ग एव नास्ति, नञ्न गतिः , न च कारकमिति । प्रधाय, प्रस्थायेत्यादिषु हिप्रभृतीन् अन्तरङ्गानपि विधीन्बहि रङो ल्यब्बाधत तएव - इति ज्ञापितमेतत् ।।
</7-1-37>
क्त्वापि छन्दसि ।। <7-1-38> ।।
समासेऽनञ्पूर्वे क्त्वा इत्येतस्य क्त्वा इत्ययमादेशो भवति, अपिशब्दाल्ल्यबपि भवति छन्दसि विषये । `कृष्णं वासो यजमानं परिधापयित्वा(काठ.सं.11-10) । `प्रत्यञ्चमर्कं प्रत्यर्पयित्वा(अ.वे.2-12-55) । ल्यबपि भवति -
`उद्धृत्य जुहोति(काठ.सं.6-8) । वा छन्दसि इति नोक्तम्, सर्वोपाधिव्यभिचारार्थम् । तेनासमासे ल्यबभवति - अर्च्य तान् देवान् गतः । छन्दोऽधिकारः आज्जसेरसुक्(7-1-50/3572) इति यावत् ।।
</7-1-38>
सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः ।। <7-1-39> ।।
छन्दसि विषये सुपां स्थाने सु, लुक् , पुर्वसवर्ण, आ, आत्, शे, या, डा, ड्या, याच्, आल् - इत्येते आदेशा भवन्ति । सु - `अनृक्षरा ऋजवः सन्तु पन्थाः(ऋ.10-85-23) । पन्थान इति प्राप्ते ।

  • सुपां सुपो भवन्तीति वक्तव्यम् *(म.भा.3-256)। `धुरि दक्षिणायाः(ऋ.1-164-9) । दक्षिणायामिति प्राप्ते ।
  • तिङां तिङो भवन्तीति वक्तव्यम् *(म.भा.3-256)।

`चषालं ये अश्वयूपायतक्षति(ऋ.1-162-6) । तक्षन्तीति प्राप्ते । लुक् - `आर्द्रे चर्मन्(तै.1-5-9-3), `लोहिते जर्मन्(काठ.संय24-2) । चर्मणीति प्राप्ते । हविर्द्धाने यत्सुन्वन्ति तत्सामिधेनीरन्वाह । यस्मिन्सुन्वन्ति तस्मिन्सामिधेनीरिति प्राप्ते । पूर्वसवर्णः - `धीती(ऋ.1-164-8) । मती । `सुष्टुती(ऋ.2-32-4) । धीत्या, मत्या, सुष्टुत्या इति प्राप्ते। आ - `उभा यन्तारौ(तै.सं.4-6-9-3) । उभौ यन्तारौ इति प्राप्ते । आत् - न ताद् ब्राह्मणाद् निन्दामि । तान् ब्राह्मणानिति प्राप्ते । शे - `न युष्मे बाजवन्धवः(ऋ.8-68-19) । `अस्मे इन्द्राबृहस्पती(ऋ.4-49-4) । यूयं वयमिति प्राप्ते । यूयादेशः , वयादेशश्च छान्दसत्वान्न भवति । या - `उरुया(मै.3-7-8) । धृष्णुया । उरुणा, धृष्णुनेति प्राप्ते । डा - `नाभा पृथिव्याम्(अ.7-61-1) । नाभौ वृथिव्यामिति प्राप्ते । ड्या - `अनुष्ट्या च्यावयतात्(मै.4-13-4-25) । अनुष्टुभेति प्राप्ते । याच् - `साधुया(ऋ.10-66-12) । साध्विति सोर्लुकि प्राप्ते । आल् - `वसन्ता यजेत(मै.2-3-4) । वसन्त इति प्राप्ते ।

  • इयाडियाजीकारणामुपसंख्यानम् *(म.बा.3-256)। इया - `उर्विया परिधानम्(ऋ.10-10-2) । दार्विया । उरुणा, दारुणेति प्राप्ते । डियाच् - `सुक्षेत्रिया । `सुगात्रिया(ऋ.1-97-2) । सुक्षेत्रिणा, सुगात्रिणेति प्राप्ते । ईकारः - `दृतिं न शुष्कं सरसी शयानम्(ऋ.7-10-3-2) । सरसि शयानमिति प्राप्ते ।
  • आङयाजयारामुपसंख्यानम् *(म.भा.3-256)। आङ् - `प्रबाहवा(ऋ.2-38-2) । प्रबाहुनेति प्राप्ते । अयाच् - `स्वप्नया सचसे जनम्(अ.5-7-8) । स्वनेति प्राप्ते । अयार्‌-`सिन्धुमिव नवया(ऋ.1-97-8) । नावेति प्राप्ते ।।

</7-1-39>
अमो मश् ।। <7-1-40> ।।
अम् इति मिबादेशो गृह्यते । तस्य छन्दसि विषये मशादेशो भवति । `वधीं पुत्रम्(ऋ.1-165-8) । क्रमीं वृक्षस्य शाखाम् । लुङि बहुलं छन्दस्यमाङ्योगेऽपि(6-4-75/3546) इत्यडागमाभावः । शित्करणं सर्वादेशार्थम् । मकारस्यापि हि मकारवचनमनुस्वारनिवृत्त्यर्थं स्यात् ।।
</7-1-40>
लोपस्त आत्मनेपदेषु ।। <7-1-41> ।।
आत्मनेपदेषु यस्तकारस्तस्य छन्दसि विषये लोपो भवति । `देवा अदुह्र(मै.4-2-1) । गन्धर्वाप्सरसो अदुह्र । अदुहतेति प्राप्ते । `दुहामश्विभ्यां पयो अघ्न्येयम्(ऋ.1-164-27) । दुग्‌धामिति प्राप्ते । `दक्षिणतः शये(काठ.20-6) । शेत इति प्राप्ते । अपीत्यधिकारन्न भवति - तत्र आत्मानमनृतं कुरुते । आत्मनेपदेष्विति किम्? `वत्सं दुहन्ति कलशं चतुर्बिलम्(तै.ब्रा.3-7-4-16) ।।
</7-1-41>
ध्वमो ध्वात् ।। <7-1-42> ।।
छन्दसि विषये ध्वमो ध्वादित्ययमादेशो भवति । `अन्तरेवोष्प्राणं वारयध्वात्(मै.3-4-13) । वारयध्वमिति प्राप्ते ।।
</7-1-42>
यजध्वैनमिति च ।। <7-1-43> ।।
यजध्वम् इत्येतस्य एनमित्येतस्मिन्परतो मकारलोपो निपात्यते वकारस्य च यकारश्छन्दसि विषये । `यजध्वैनं प्रियमेधाः(ऋ.8-2-37) । यजध्वमेनमिति प्राप्ते ।।
</7-1-43>
तस्य तात् ।। <7-1-44> ।।
तशब्दस्य लोण्मध्यमपुरुषबहुवजनस्य स्थाने तात् इत्ययमादेशो भवति । `गात्रंगात्रमस्या नूनं कृणुतात्(ंै.4-13-4-25) । कृणुतेति प्राप्ते । `ऊवध्य गोहं पार्थिवं खनतात्(मै.4-13-4-25) । खनतेति प्राप्ते । `अस्मान्रक्षः संसृजतात्(मै.4-13-4-25) । संसृजतेति प्राप्ते । `सूर्यं चक्षुर्गमयतात्(मै.4-13-4-24) । गमयतेति प्राप्ते ।।
</7-1-44>
तप्तनप्तनथनाश्च ।। <7-1-45> ।।
तस्य इति वर्त्तते । छन्दसि विषये तस्य स्थाने तप्, तनप्, तन, थन - इत्येते आदेशा भवन्ति । तप् - `शृणोत ग्रावाणः(तै.1-3-13-1) । शृणुतेति प्राप्ते । `सुनोत(ऋ.7-32-8) । सुनुतेति प्राप्ते । तनप् - `संवरत्रा दधातन(ऋ.10-101-5) । दत्तेति प्राप्ते । तन - `जुजुष्टन(ऋ.4-36-7) । जुषतेति प्राप्ते । छान्दसत्वात् श्लुः । थन - `यदिष्ठन(ऋ.10-63-6) । यदिच्छतेति प्राप्ते । पित्करणमङित्त्वार्थम् ।।
</7-1-45>
इदन्तो मसि ।। <7-1-46> ।।
छन्दसि विषये मसित्ययं शब्द इकारान्तो भवति । मसः सकारान्तस्य इकारगमो भवति, सच तस्यान्तो भवति । तद्‌ग्रहणेन गृह्यत इत्यर्थः । `पुनस्त्वां दीपयामसि(अ.वे.12-2-5) । दीपयाम इति प्राप्ते । `शलभं भञ्चयामसि(पै.5-20-4) । भञ्जयाम इति प्राप्ते । `त्वयि रात्रिं वासयामसि(शौ.19-47-9) । वासयाम इति पाप्ते ।
</7-1-46>
क्त्वो यक् ।। <7-1-47> ।।
क्त्वा इत्येतस्य यगागमो भवति छन्दसि विषये । `दत्त्वाय सविता धियः(ऋ.10-85-33) । दत्त्वेति प्राप्ते । क्त्त्वापि छन्दसि(7-1-38/3360) इत्यस्यानन्तरमिदं कस्मान्नोच्यते समासे इति तत्रानुवर्त्तते ।।
</7-1-47>
इष्ट्वीनमिति च ।। <7-1-48> ।।
इष्ट्वीनम् - इत्ययं शब्दो निपात्यते छन्दसि विषये । यजेः क्त्वाप्रत्ययान्तस्य ईनमादेशोऽन्त्यस्य निपात्यते । `इष्ट्वीनं देवान्(आश्व.श्रौ.पृ.204) । इष्ट्वा देवानिति प्राप्ते । पीत्वीनमित्यपीष्यते । चकारस्यानुक्तसमुच्चयार्थत्वात्सिद्धम् ।।
</7-1-48>
स्नात्व्यादयश्च ।। <7-1-49> ।।
स्नात्वी इत्येवमादयः शब्दा निपात्यन्ते छन्दसि विषये । `स्नात्वी मलादिव(मै.सं.3-11-10) । स्नात्वेति प्राप्ते । `पीत्वी सोमस्य वावृधे(ऋ.3-40-7) । पीत्वेति प्राप्ते । प्रकारार्थोऽयमादिशब्दः ।।
</7-1-49>
आज्जसेरसुक् ।। <7-1-50> ।।
अवर्णान्तादङ्गादुत्तरस्य जसेरसुगागमो भवति छन्दसि विषये । `ब्राह्मणासः पितरः सोम्यासः(ऋ.6-75-10) । ब्राह्मणाः सोम्या इति प्राप्ते । `ये पूर्वासो य उपरासः(ऋ.10-15-2) - इत्यत्र परत्वादसुकि पुनः प्रसङ्गविज्ञानाच्छोभावः प्राप्तः, `सकृद्‌गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव(व्या.प.40) इति न भवति ।।
</7-1-50>
अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि ।। <7-1-51> ।।
छन्दसि इत्यतः प्रभृति निवृत्तम् । अश्व, क्षीर, वृष, लवण- इत्येतेषामङ्गानामात्मप्रीतिविषये क्यचि परतोऽसुगागमो भवति । अश्वस्यति वडवा । क्षीरस्यति माणवकः । वृषस्यति गौः (म.भा.3-258)।
लवणस्यत्युष्ट्रः । आत्मप्रीताविति किम् अश्वीयति । क्षीरीयति । वृषीयति । लवणीयति ।

  • अश्ववृषयोर्मैथुनेच्छायामिति वक्तव्यम् *(म.भा.3-258)।
  • क्षीरलवणयोर्लालसायामिति वक्तव्यम् *(म.भा.3-258)। तृष्णातिरेकः - लालसा । अन्यत्रात्मप्रीतावपि न भवति । अपर आह -
  • सर्वप्रातिपदिकेभ्यो लालसायामसुग्वक्तव्यः *(म.भा.3-258)। दध्यस्यति, मध्वस्यति, इत्येवमाद्यर्थम् । अपर आह -
  • सुग्वक्तव्यः *(म.भा.3-258)। दधिस्यति, मधुस्यति - इत्येवमाद्यर्थम् ।।

</7-1-51>
आमि सर्वनाम्नः सुट् ।। <7-1-52> ।।
आत् इति वर्त्तते । अवर्णात्सर्वनाम्न उत्तरस्यामः सुडागमो भवति । सर्वेषाम् । विश्वेषाम् । येषाम् । तेषाम् । सर्वासाम् । यासाम् । तासाम् । आदित्येव - भवताम् । आमि इति षष्ठीबहुवचनं गृह्यते, न ङेराम्नद्याम्नीभ्यः(8-3-116/2471) इति, तस्य हि परत्वादाड्याट्स्याटो भवन्ति । यश्च किमेतिङव्ययघादामुः(5-4-11/2004) आमश्च लिटि न तौ सर्वनाम्नः स्तः । सानुबन्धकाविति वा, तौ न गृह्येते । आमि इति सप्तमीनिर्द्देश उत्तरार्थः । इह तु सर्वनाम्नः इति पञ्चमीनिर्द्देशात् तस्मादित्युत्तरस्य(1-1-67/41) इति षष्ठीप्रक्लृप्तिर्भविष्यति ।।
</7-1-52>
त्रेस्त्रयः ।। <7-1-53> ।।
त्रि इत्येतस्य आमि परे त्रय इत्ययमादेशो भवति । त्रयाणाम् । त्रीणामित्यपि छन्दसीष्यते - त्रीणामपि समुद्राणामिति ।।
</7-1-53>
ह्रस्वनद्यापो नुट् ।। <7-1-54> ।।
ह्रस्वान्तान्नद्यन्तादाबन्ताच्चोत्तरस्यामो नुडागमो भवति । ह्रस्वान्तात्तावत् -- वृक्षाणाम् । प्लक्षाणाम् । अग्नीनाम् । वायूनाम् । कर्तॄणाम् । नद्यन्तात् - कुमारीणाम् । किशोरीणाम् । गौरीणाम् । शार्ङ्गरवीणाम् । लक्ष्मीणाम् । ब्रह्मबन्धूनाम् । वीरबन्धूनाम् । मालानाम् । बहुराजानाम् । कारीषगन्ध्यानाम् ।।
</7-1-54>
षट्‌चतुर्भ्यश्च ।। <7-1-55> ।।
षट्संज्ञकेभ्यश्चतुः शब्दाच्चोत्तरस्यामो नुगाडमो भवति । षण्णाम् । पञ्चानाम् । सप्तानाम् । नवानाम् । दशानाम् । चतुर्णाम् । रेफान्तायाः संख्यायाः षट्संज्ञा न विहिता, षड्भ्यो लुक्(7-1-22/261) इति लुग्मा भूत् । बहुवचननिर्द्देशादत्र संख्याप्रधानस्य ग्रहणं भवति - परमषण्णाम् । परमपञ्चानाम् । परमसप्तानाम् । परमचतुर्णाम् । उपसर्जनीभूतायास्तु संख्याया न भवति - प्रियषषाम् , प्रियपञ्चाम् , प्रियचतुरामिति ।।
</7-1-55>
श्रीग्रामण्योश्छन्दसि ।। <7-1-56> ।।
श्री, ग्रामणी - इत्येतयोश्छन्दसि विषये आमो नुडागमो भवति । `श्रीणामुदारो धरुणो रयीणाम्(ऋ.10-45-5) । `अप्यत्र सूतग्रामणीनाम्(काठ.28-3) । श्रीशब्दस्य वामि(1-4-5/304) इति विकल्पेन नदीसंज्ञा, तत्र नित्यार्थं वचनम् । सूतग्रामणीनामिति - यदा सूताश्च ग्रामण्यश्च सूतग्रामण्यो भवन्ति, तदर्थमिदं वचनम् । यदा तु सूतश्च ग्रामणीश्च सूतग्रामणि, सूतग्रामणि च सूतग्रामणि च सूतग्रामणि चेति सूतग्रामणीनामिति, तदा ह्रस्वादित्येव सिद्धम् ।।
</7-1-56>
गोः पादान्ते ।। <7-1-57> ।।
गो इत्येतस्मादृक्पादान्ते वर्त्तमानादुत्तरस्यामो नुडागमो भवति । `विद्मा हि त्वा सत्पतिं
शूरगोनाम्(ऋ.10-47-2) । पादान्त इति किम्? `गवां गोत्रमुदसृजो यदङ्गिरः(ऋ.2-23-18) । `सर्वे विधयश्छन्दसि विकल्प्यन्ते(पु.प.35) इति पादान्तेऽपि क्वचिन्न भवति । `हन्तारं शात्रूणां कृधि विराजं गोपतिं गवाम्(ऋ.10-166-1) ।।
</7-1-57>
इदितो नुम् धातोः ।। <7-1-58> ।।
इदितो धातोर्नुमागमो भवति । कुडि - कुण्डिता, कुण्डितुम् , कुण्डितव्यम्, कुण्डा । हुडि - हुण्डिता, हुण्डितुम् , हुण्डितव्यम्, हुण्डा । इदित इति किम्? पचति । पठति । अयं धातूपदेशावस्थायामेव नुमागमो भवति - कुण्डा, हुण्डेति गुरोश्च हलः(3-3-103/3280) इत्यकारप्रत्ययो यथा स्यात् । तथा हि - धिन्विकृण्व्योर च(3-1-80/2332) इति प्रत्ययविधावेव नुमनुषक्तयोर्ग्रहणम् । धातुग्रहणं चेह क्रियते - धातूपदेशकाल एव नुमागमो यथा स्यादित्येवमर्थम् । तासिसिचोरिदित्कार्यं नास्ति - इत्युच्चारणार्थो निरनुनासिक इकारः पठ्यते ।
अमंस्तेत्येवमादौ हि हनः सिच्(1-2-24/2697) इति कित्त्वविधानसामर्थ्यान्नकारलोपो न भवति । मन्ता - इत्यत्रापि असिद्धवदत्राभात्(6-4-22/2183) इति टिलोपस्यासिद्धत्वान्नलोपो न भवति । इह कस्मान्न भवति - भेत्ता, छेत्तेति `इरितां समुदायस्येत्संज्ञा(7-2-4/2268.वा.) इतीदित्त्वं नास्ति । अवयवशोऽपीत्संज्ञायां सत्याम् गोः पादान्ते(7-1-57/3574) इतोऽन्तग्रहणमनुवर्त्तयितव्यम् । तेनान्तेदितो धातवो गृह्यन्ते ।।
</7-1-58>
शे मुचादीनाम् ।। <7-1-59> ।।
शे प्रत्यये परतो मुचादीनां नुमागमो भवति । मुच्लृ - मुञ्चति । लुप्लृ - लुम्पति । विद्‌लृ -- विन्दति । लिपि - लिम्पति । सिच् - सिञ्चति । कृती - कृन्तति । खिद - खिन्दसि । पिश - पिंशति । शे इति किम्? मोक्ता, मोक्तुम् , मोक्तव्यम् । मुचादीनामिति किम्? तुदति, नुदति ।

  • शेतृम्फादीनामुपसंख्यानं कर्त्तव्यम् *(म.भा.3-261)। के पुनस्तृम्फादय? `तृफ तृम्फ तृप्तौ(धा.पा.1308,1309) । `दृफ दृम्फ उत्क्लेशे(धा.पा.1314,1315), `गुफ गुम्फ ग्रन्थे(धा.पा.1318,1319) `उभ उम्भ पूरणे(धा.पा.1320,1321) , `शुभ शुम्भ शोभार्थे(धा.पा.1322,1323) - इत्यत्र ये सानुषङ्गास्तृम्फादयः , तेषाम् अनिदितां हल उपधायाः क्ङिति(6-4-24/415) इत्यनुनासिकलोपे कृते नुम्विधीयते, स च विधानसामर्थ्यान्न लुप्यते - तृम्फति, दृम्फति, गुम्फति, उम्भति, शुम्भति । ये तु निरनुषङ्गाः, तेषां तृफति, दृफति, गुफति, उभति , शुभतीत्येवं भवति ।।

</7-1-59>
मस्जिनशोर्झलि ।। <7-1-60> ।।
मस्जि, नशि - इत्येतयोरङ्गयोर्झलादौ प्रत्यये नुमागमो भवति । मङ्‌क्ता , मङ्‌क्तुम्, मङ्क्तव्यम् । नंष्टा, नंष्टुम्, नंष्टव्यम् । झलीति किम्? मज्जनम् । नशनम् । `मस्जेरन्त्यात्पूर्वं नुममिच्छन्त्यनुषङ्गादिलोपार्थम्(8-2-21/2541.वा.) । मग्नः । मग्नवान् ।
</7-1-60>
रधिजभोरचि ।। <7-1-61> ।।
रधि, जभि - इत्येतयोरजादौ प्रत्यये नुमागमो भवति । रन्धयति । रन्धकः । साधुरन्धी । रन्धंरन्धम् । रन्धो वर्त्तते । जम्भयति । जम्भकः । साधुजम्भी । जम्भंजम्भम् । जम्भो वर्त्तते । परापि सती वृद्धिर्नुमा बाध्यते नित्यत्वात् । अचीति किम्? रद्धा । जभ्यम् ।।
</7-1-61>
नेट्यलिटि रधेः ।। <7-1-62> ।।
इडादावलिटि प्रत्यये परे रधेर्नुमागमो न भवति । रधिता । रधितुम् । रधितव्यम् । इटीति किम्? रन्धनम्, रन्धकः । अलिटिति किम्? ररन्धिव, ररन्धिम । नुमि कृते संयोगान्तत्वाद् असंयोगाल्लिट् कित्(1-2-5/2242) इति कित्त्वं नास्तीति नलोपो न भवति । अथ क्वसौ कथं भवतितव्यम्? रेधिवानिति ।
कथम्? एत्वाभ्यासलोपयोः कृतयोरिडागमः क्रियते, ततो नुमागमः, तस्यौपदेशिककित्त्वाश्रयो लोपः । अथ इटि लिटीत्येवं नियमः कस्मान्न क्रियते - लिट्येवेटि नान्यत्रेति विपरीतमप्यवधारणं सम्भाव्येत - इट्येव लिटि नान्यत्रेति । तथा हि सति ररन्धेत्यत्र न स्यात्, रधितेत्यत्र च स्यादेव ।।
</7-1-62>
रभेरशब्लिटोः ।। <7-1-63>।।
रभेरङ्गस्य शब्लिड्‌वर्जितेऽजादौ प्रत्यये परतो नुमागमो भवति । आरम्भयति । आरम्भकः । साध्वारम्भी । आरम्भमारम्भम् । आरम्भो वर्त्तते । अशब्लिटोरिति किम्? आरभते । आरेभे । अचीत्येव - आरब्धा ।।
</7-1-63>

लभेश्च ।। <7-1-64>।।
लभेश्चाजादौ प्रत्यये शब्लिड्वर्जिते नुमागमो भवति । लम्भयति । लम्भकः । साधुलम्भी । लम्भंलम्भम् । लम्भो वर्त्तते । अशब्लिटोरित्येव - लभते । लेभे । अचीत्येव - लब्धा । लभेश्च पृथग्योगकरणमुत्तरार्थम् ।।
</7-1-64>
आङो यि ।। <7-1-65> ।।
आङ उत्तरस्य लभेर्यकारादिप्रत्ययविषये नुमागमो भवति आलम्भ्या गौः । आलम्भ्या वडवा । प्राक्प्रत्ययोत्पत्तेर्नुमि कृते विहितमदुपधत्वमिति ऋहलोर्ण्यत्(3-1-124/2872) इति ण्यत्प्रत्ययः, तत्र कृदुत्तरपदप्रकृतिस्वरत्वेनान्तस्वरितत्वं भवति । यति तु पुनरुत्तरपदाद्युदात्तत्वं स्यात् । आङ इति किम्? लभ्यम् । `कथमग्निष्टोम आलभ्य(मै.3-9-5) इति `सर्वे विधयश्छन्दसि विकल्प्यन्ते(पु.प.35) । अथ वा - आलभ्य इत्यत्र नुमि कृतेऽनुषङ्गलोपः क्रियते ।।
</7-1-65>
उपात्प्रशंसायाम् ।। <7-1-66> ।।
उपादुत्तरस्य लभेः प्रशंसायां गम्यमानायां यकारादिप्रत्ययविषये नुमागमो भवति । उपलम्भ्या भवता विद्या । उपलम्भ्यानि धनानि । ण्यत्प्रत्ययान्तत्वादन्तस्वरितत्वमेव । प्रशंसायामिति किम्? उपलभ्यमस्माद् वृषलात्किञ्चित् । पोरदुपधत्वाद्यत्प्रत्ययान्तमिदम् ।।
</7-1-66>
उपसर्गात्खल्घञोः ।। <7-1-67> ।।
उपसर्गादुत्तरस्य लभेः खल्घञोः परतो नुमागमो भवति । ईषत्प्रलम्भः । सुप्रलम्भः । दुष्प्रलम्भः । घञि - प्रलम्भः , विप्रलम्भः । सिद्धे सत्यारम्भो नियमार्थः - उपसर्गादेव लभेः खल्घञोः परतो नुमागमो भवति, नान्यत्र । ईषल्लभः । लाभो वर्त्तते ।।
</7-1-67>
न सुदुर्भ्यां केवलाभ्याम् ।। <7-1-68> ।।
 सु, दुर् - इत्येताभ्यां केवलाभ्यामन्योपसर्गरहिताभ्यामुपसृष्टस्य लभेः खल्घञोः परतो नुमागमो न भवति । सुदुर्लभम् । सुलभम् । दुर्लभम् । घञि - सुलाभः , दुर्लाभः । केवलाभ्यामिति किम्? सुप्रलम्भः । दुष्प्रलम्भः । सुदुर्भ्याम् इति तृतीयां मत्वा केवलग्रहणं क्रियते । पञ्चम्यां हि व्यवहितत्वादेवाप्रसङ्गः । अतिसुलभमित्यत्र कर्मप्रवचनीयत्वादतेः केवल एव सुशब्द उपसर्ग इति भवति प्रतिषेधः । यदा त्वतिशब्दो न कर्मप्रवचनीयः, तदा नुम्भवत्येव - अतिसुलम्भ इति पञ्चमीनिर्देशपक्षेऽप्येवमर्थं केवलग्रहणं कर्त्तव्यम् ।।
</7-1-68>
विभाषा चिण्णमुलोः ।। <7-1-69> ।।
चिण्, णमुल् - इत्येतयोर्विभाषा लभेर्नुम्भवति । अलाभि, अलम्भि। लाभंलाभम् । लम्भंलम्भम् । व्यवस्थितविभाषा चेयम्, तेनानुपसृष्टस्य विकल्पः । उपसृष्टस्य नित्यं नुम्भवति - प्रालम्भि, प्रलम्भम् ।।
</7-1-69>
उगिदचां सर्वनामस्थानेऽधातोः ।। <7-1-70> ।।
उगितामङ्गानां धातुवर्जितानामञ्चतेश्च सर्वनामस्थाने परतो नुमागमो भवति । भवतु - भवन्तौ , भवन्तः । ईयसुन् - श्रेयान्, श्रेयांसौ, श्रेयासः । शतृ - पचन् , पचन्तौ, पचन्तः । अञ्चतेः - प्राङ्, प्राञ्चौ , प्राञ्चः । उगिदचामिति किम्? दृषत्, दृषदौ, दृषदः । सर्वनामस्थान इति किम्? भवतः पश्य । श्रेयसः पश्य। अञ्चतिग्रहणं नियमार्थम् - अञ्चतेरेव धातोरन्यस्य मा भूत् । उखास्रत् । पर्णध्वत् । अधातोरिति किम्? अधातुभूतपूर्वस्य यथा स्यात् । गोमन्तमिच्छति गोमत्यति, गोमत्यतेरप्रत्ययः - गोमान् । अत्र हि धातुत्वादञ्चतिग्रहणान्न स्यात् ।।
</7-1-70>
युजेरसमासे ।। <7-1-71> ।।
युजेरसमासे सर्वनामस्थाने परतो नुमागमो भवति । युङ्, युञ्जौ, युञ्जः । असमासे इति किम्? अश्वयुक्, अश्वयुजौ, अश्वयुजः । युजेः इतीकारनिर्देशाद् `युज समाधौ(धा.पा.1178) इत्यस्य ग्रहणं न भवति - युजमापन्ना ऋषयः ।।
</7-1-71>
नपुंसकस्य झलचः ।। <7-1-72> ।।
नपुंसकस्य झलन्तस्याजन्तस्य च सर्वनामस्थाने परतो नुमागमो भवति । उदश्विन्ति । शकृन्ति । यशांसि । पयांसि । अजन्तस्य - कुण्डानि । वनानि । त्रपूणि । जतूनि । नपुंसकस्येति किम्? अग्निचिद् ब्राह्मणः । झलच इति किम्? बहुपुरि । बहुधुरि । विमलदिवि । चत्वारि । अहानि । उगितो झलन्तस्य नपुंसकस्य परत्वादेनेनैव नुम्भवति । श्रेयांसि, भूयांसि, कुर्वन्ति, कृषन्ति ब्राह्मणकुलानि ।

  • बहूर्जि प्रतिषेधो वक्तव्यः *(म.भा.3-265)। बहूर्जि ब्राह्मणकुलानि । अन्त्यात्पूर्वं नुमेक इच्छन्ति । बहूर्ञ्जि ब्राह्मणकुलानि ।।

</7-1-72>
इकोऽचि विभक्तौ ।। <7-1-73> ।।
इगन्तस्य नपुंसकस्याड्गस्याजादौ नुमागमो भवति । त्रपुणी । जतुनी । तुम्बुरुणी । त्रपुणे । जतुने । तुम्बुरुणे । इक इति किम्? कुण्डे । पीठे । अचीति किम्? उत्तरार्थम् । यद्येवम् , तत्रैव कर्त्तव्यम् इह तु करणस्य एतत्प्रयोजनम् - हे त्रपो इत्यत्र नुम् मा भूदिति, न ङिसम्बुद्ध्योः(8-2-8/352) इति नलोपप्रतिषेधः स्यात् । ननु च न लुमताङ्गस्य(1-1-63/263) इति प्रत्ययलक्षणे प्रतिषिद्धे विभक्तिरेव नास्ति एतदेवाज्ग्रहणं ज्ञापकम् - प्रत्ययलक्षणप्रतिषेधोऽत्र न भवतीति । तथा च - सम्बुद्धिगुणः क्रियते । विभक्ताविति किम्? तौम्बुरवं चूर्णम् ।
इकोऽचि व्यञ्जने मा भूदस्तु लोपः स्वरः कथम्।
स्वरो वै श्रूयमाणेऽपि लुप्ते किं न भविष्यति।
रायात्वं तिसृभावश्च व्यवधानान्नुमा अपि ।
नुड् वाच्य उत्तरार्थं तु इह किञ्चित्रपो इति ।।(म.भा.3-267)
</7-1-73>
तृतीयादिषु भाषितपुंस्कं पुंवद् गालवस्य ।। <7-1-74> ।।
तृतीयादिषु विभक्तिष्वजादिषु भाषितपुंस्कमिगन्तं नपुंसकं गालवस्याचार्यस्य मतेन पुंवद्भवति । यथा पुंसि ह्रस्वनुमौ न भवतः ,तद्वदत्रापि न भवत इत्यर्थः । ग्रामणीर्ब्राह्मणः, ग्रामणि ब्राह्मणकुलम् । ग्रामण्या ब्राह्मणकुलेन, ग्रामणिना ब्राह्मणकुलेन । ग्रामण्ये ब्राह्मणकुलाय, ग्रामणिने ब्राह्मणकुलाय । ग्रामण्यो ब्राह्मणकुलात्, ग्रामणिनो ब्राह्मणकुलात् । ग्रामण्यो ब्राह्मणकुलस्य, ग्रामणिनो ब्राह्मणकुलस्य । ग्रामण्योर्ब्राह्मणकुलयोः, ग्रामणिनोर्ब्राह्मणकुलयोः । ग्रामण्यां ब्राह्मणकुलानाम् - नुमचिर(8-2-24/280.वा.) इति पूर्वविप्रतिषेधेन नुट्, ग्रामणीनां ब्राह्मणकुलानाम् । ग्रामण्यां ब्राह्मणकुले, ग्रामणिनि ब्राह्मणकुले । शुचिर्बाह्मणः, शुचि ब्राह्मणकुलम् ।
शुचिना ब्राह्मणकुलेन । शुचये ब्राह्मणकुलाय, शुचिने ब्राह्मणकुलाय । शुचेर्ब्राह्मणकुलात्, शुचिनो ब्राह्मणकुलात् । शुचेर्ब्राह्मणकुलस्य, शुचिनो ब्राह्मणकुलस्य । शुच्योर्ब्राह्मणकुलयोः, शुचिनोर्ब्राह्मणकुलयोः। शुचौ ब्राह्मणकुले, शुचिनि ब्राह्मणकुले । तृतीयादिष्विति किम्? ग्रामणिनी ब्राह्मणकुले । शुचिनी ब्राह्मणकुले । भाषितपुंस्कमिति किम्? त्रपुणे, जतुने ।
इह कस्मान्न भवति - पीलुर्वृक्षः, पीलु फलम् - फीलुने फलायेति समानायामाकृतौ यद्भाषितपुंस्कं तुल्ये प्रवृत्तिनिमित्ते तस्य पुंवद्भावः । इह तु वृक्षाकृतिः प्रवृत्तिनिमित्तं पुंसि शब्दस्य, फलाकृतिर्नपुंसके । तदेतदेवं कथं भवति - भाषितपुंस्कमिति भाषितः पुमान्यस्मिन्नर्थे प्रवृत्तिनिमित्ते स भाषितपुंस्कशब्देनोच्यते, तद्योगादभिधेयमपि यद् नपुंसकं तदपि भाषितपुंस्कम् । तस्य प्रतिपादकं यच्छब्दरूपं तदपि भाषितपुंस्कमिति । इक इत्येव - कीलालपा ब्राह्मणः । कीलालपं ब्राह्मणकुलम् । कीलालपेन ब्राह्मणकुलेन । अचीत्येव - ग्रामणीभ्यां ब्राह्मणकुलाभ्याम् ।।
</7-1-74>
अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः ।। <7-1-75> ।।
अस्थि, दधि, सक्थि, अक्षि - इत्येतेषां नपुंसकानां तृतीयादिष्वजादिषु विभक्तिषु परतोऽनङित्ययमादेशो भवति , स चोदात्तो भवति । अस्थ्ना, अस्थ्ने । दध्ना, दध्ने । सक्थ्ना, सक्थ्ने । अक्ष्णा, अक्ष्णे । अस्थ्यादय आद्युदात्ताः, तेषामनङादेशः स्थानिवद्भावादनुदात्तः स्यादित्युदात्तवचनम् । तत्र भसंज्ञायामल्लोपे कृते उदात्तनिवृत्तिस्वरेण विभक्तिरुदात्ता भवति । एतैरस्थ्यादिभिर्नपुंसकैरनपुंसकस्याप्यङ्गस्य तदन्तग्रहणमिष्यते प्रियास्थ्ना ब्राह्मणेन, प्रियदध्ना । तृतीयादिष्विति किम्? अस्थिनी, दधिनी । अचीत्येव -अस्थिभ्याम्, दधिभ्याम् ।
</7-1-75>
छन्दस्यपि दृश्यते ।। <7-1-76> ।।
अस्थिदधिसक्थ्यक्ष्णामनङ् छन्दस्यपि दृश्यते । यत्र विहितस्ततोऽन्यत्रापि दृश्यते । अचि इत्युक्तम्, अनजादावपि दृश्यते - `इन्द्रो दधीचो अस्थभिः(ऋ.1-84-13) । `भद्रं पश्येमाक्षभिः(वा.सं.25-21) । तृतीयादिषु इत्युक्तम्, अतृतीयादिष्वपि दृश्यते - अस्थान्युत्कृत्य जुहोति । विभक्तौ इत्युक्तम्, अविभक्तावपि दृश्यते - अक्षण्वता लाङ्गलेन । `अस्थन्वन्तं यदनस्था बिभर्ति(ऋ.1-164-4) ।।
</7-1-76>
ई च द्विवचने ।। <7-1-77> ।।
द्विवचने परतश्छन्दसि विषयेऽस्थ्यादीनामीकारादोशो भवति, स चोदात्तः। अक्षी ते इन्द्र पिङ्गले कपेरिव । `अक्षीभ्यां ते नासिकाभ्याम्(ऋ.10-163-1) । अक्षी - इत्यत्र नुम्परत्वादीकारेण बाध्यते, तत्र कृते `सकृद्‌गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव(व्या.प.40) इति पुनर्नुम्न क्रियते ।।
</7-1-77>
नाभ्यस्ताच्छतुः ।। <7-1-78> ।।
अभ्यस्तादङ्गादुत्तरस्य शतुर्नुम्न भवति । ददत् , ददतौ, ददतः । दधत् , दधतौ, दधतः । जक्षत्, जक्षतौ, जक्षतः । जाग्रत्, जाग्रतौ , जाग्रतः । शतुरनन्तर ईकारो न विहित इति व्यवहितस्यापि नुमः प्रतिषेधो विज्ञायते ।।
</7-1-78>
वा नपुंसकस्य ।। <7-1-79> ।।
 अभ्यस्तादङ्गादुत्तरो यः शतृप्रत्ययस्तदन्तस्य नपुंसकस्य वा नुमागमो भवति । ददति ददन्ति कुलानि । दधति दधन्ति कुलानि । जक्षति जक्षन्ति कुलानि । जाग्रति जाग्रन्ति कुलानि ।।
</7-1-79>
आच्छीनद्योर्नुम् ।। <7-1-80> ।।
अवर्णान्तादङ्गादुत्तरस्य शतुर्वा नुमागमो भवति शीनद्योः परतः । तुदती कुले, तुदन्ती कुले । तुदती ब्राह्मणी, तुदन्ती ब्राह्मणी। याती कुले, यान्ती कुले । याती ब्राह्मणी, यान्ती ब्राह्मणी । करिष्यती कुले, करिष्यन्ती कुले ।
करिष्यति ब्राह्मणी, करिष्यन्ती ब्राह्मणी । अत्रान्तरङ्गत्वादेकादेशे कृते व्यपवर्गाभावादवर्णान्तादङ्गादुत्तरस्य शतुरिति न युज्यते वक्तम्, `उभयत आश्रये नान्तादिवत्(व्या.प.51) इत्यन्तादिवद्भावोऽपि नास्ति , भूतपूर्वगत्याश्रयणे वा - अदती, घ्नतीत्येवमादिष्वतिप्रसङ्ग इति अत्र समाधिं केचिदाहुः - शतुरवयवे शतृशब्दो वर्त्तते, अवर्णान्तादङ्गादुत्तरो यः शत्रवयव इति । अपरे पुनराहुः - आत् इत्येतेन शीनद्यावेव विशेष्येते, अवर्णान्तादङ्गादुत्तरे ये शीनद्यौ तयोः परतः शत्रन्तस्य नुम्भवतीति । तत्र येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यादिति तकारेणैव व्यवधानमाश्रयिष्यते । आदिति किम्? कुर्वती । सुन्वती । शीनद्योरिति किम्? तुदताम् । नुदताम् ।
</7-1-80>
शप्श्यनोर्नित्यम् ।। <7-1-81> ।।
शप् , श्यन् - इत्येतयोः शतुः शीनद्योः परतो नित्यं नुमागमो भवति । पचन्ती कुले, पचन्ती ब्राह्मणी । दीव्यन्ती कुले, दीव्यन्ती ब्राह्मणी । सीव्यन्ती कुले, सीव्यन्ती ब्राह्मणी । नित्यग्रहणम् वा इत्यस्याधिकारस्य निवृत्त्यर्थम् । इहारम्भसामर्थ्यान्नित्यमुत्तरत्र विकल्प एवेत्याशङ्क्येत ।।
</7-1-81>
सावनडुहः ।। <7-1-82> ।।
सौ परतोऽनडुहोऽङ्गस्य नुमागमो भवति । अनड्‌वान् । हे अनड्वन् । अत्र केचित् आत् - इत्यधिकारादाममोः कृतयोर्नुमं कुर्वन्ति । तेन नुमाऽमामौ न बाध्येते, आमम्भ्यां च नुमिति । अपरे तु - सत्यपि सामान्यविशेषत्वे आममोर्नुमश्च समावेशमिच्छन्ति, न बाध्यबाधकभावम्, यथा - चिचीषत्यादिषु दीर्घत्वद्विर्वचनयोरिति ।।
</7-1-82>
दृक्स्ववस्वतवसां छन्दसि ।। <7-1-83> ।।
दृक्, स्ववस्, स्वतवस् - इत्येतेषां सौ परतो मुमागमो भवति छन्दसि विषये । ईदृङ् । तादृङ् । यादृङ् । सदृङ् । स्ववान् । स्वतवान्पायुरग्ने ।।
</7-1-83>
दिव औत् ।। <7-1-84> ।।
दिव - इत्येतस्य सौ परतः औत् इत्यमादेशो भवति । द्यौः । दिविति प्रातिपदिकमस्ति निरनुबन्धकम् । धातुस्तु सानुबन्धकः, स इह न गृह्यते - अक्षद्यूः ।।
</7-1-84>
पथिमथ्यृभुक्षामात् ।। <7-1-85> ।।
पथिन्, मथिन्, ऋभुक्षिन् - इत्येतेषामङ्गानां सौ परत आकार आदेशो भवति । पन्थाः । मन्थाः । ऋभुक्षाः । स्थानिन्यनुनासिकेऽपि आकारोऽनुनासिको न भवति । भाव्यमानेन सर्वानां ग्रहणं न भवतीति शुद्धो ह्ययमुच्चार्यते ।।
</7-1-85>
इतोऽत्सर्वनामस्थाने ।। <7-1-86> ।।
पथ्यादीनामिकारस्य स्थाने अकारादेशो भवति सर्वनामस्थाने परतः । पन्थाः, पन्थानौ, पन्थानः, पन्थानम्, पन्थानौ। मन्थाः, मन्थानौ, मन्थानः, मन्थानम्, मन्थानौ । ऋभुक्षाः, ऋभुक्षाणौ, ऋभुक्षाणः, ऋभुक्षाणम्, ऋभुक्षाणौ । आत् इति वर्त्तमाने पुनरद्वचनं षपूर्वार्थम् । ऋभुक्षणमित्यत्र वा षपूर्वस्य निगमे(6-4-9/3541) इति दीर्घविकल्पः ।।
</7-1-86>
थो न्थः ।। <7-1-87> ।।
पथिमथोस्थकारस्य स्थाने न्थ - इत्ययमादेशो भवति सर्वनामस्थाने परतः । पन्थाः, पन्थानौ, पन्थानः । मन्थाः, मन्थानौ, मन्थानः ।
</7-1-87>
भस्य टेर्लोपः ।। <7-1-88> ।।
पथ्यादीनां भसंज्ञकानां टेर्लोपो भवति । पथः, पथा, पथे । मथः, मथा, मथे । ऋभुक्षः, ऋभुक्षा , ऋभुक्षे । सर्वनामस्थाने इत्यनुवर्त्तमानमपि विरोधादिह न सम्बद्ध्यते ।।
</7-1-88>
पुंसोऽसुङ् ।। <7-1-89> ।।
पुंस इत्येतस्य सर्वनामस्थाने परतोऽसुङित्ययमादेशो भवति । पुमान् । पुमांसौ । पुमांसः । इह परमपुमानिति प्रागेव च प्रत्ययोत्पत्तेः समासान्तोदात्तत्वमुत्पन्नायां विभक्तौ असुञित्यनिष्टः स्वरः प्राप्नोति? तदर्थमसुङि उपदेशिवद्वचनं कर्त्तव्यम् । तेन परमपुमानित्यन्तोदात्तो भवति । पुमानित्ययं पुनराद्युदात्त एव ।।
</7-1-89>
गोतो णित् ।। <7-1-90> ।।
गोशब्दात्परं सर्वनामस्थानं णिद्भवति । णित्कार्यं तत्र भवतीत्यर्थः । गौः, गावौ, गावः । तपरकरणं किम्? चित्रगुः। शबलगुः । कथं हे चित्रगो, हे शबलगव इति `अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य(व्या.प.34) इति सम्बुद्धिजसोर्गुणे कृते णित्त्वं न भवति । अथ वा - गोतः इति सम्बन्धलक्षणा षष्ठी, गोतः सम्बन्धि यत्सर्वनामस्थानमिति । यच्च तदर्थस्यैकत्वादिषु सर्वनामस्थानं तद् गोः सर्वनामस्थानमित्युच्यते । चित्रगुशब्दात्तु सर्वनामस्थानं तदन्यपदार्थस्यैकत्वादीनाह । तपरकरणं तु निर्देशार्थमेव । केचित् `ओतो णित् इति पठन्ति । द्योशब्दादपि यत्सर्वनामस्थानं विद्यते तदर्थम् । द्यौः, द्यावौ, द्यावः । गोतः इत्येतदेव तपरकरणनिर्देशादोकारान्तोपलक्षणं द्रष्टव्यम् । वर्णनिर्देशेषु हि तपरकरणं प्रसिद्धम् ।।
</7-1-90>
णलुत्तमो वा ।। <7-1-91> ।।
उत्तमो णल्वा णिद् भवति । णित्कार्यं तत्र वा भवतीत्यर्थः । अहं चकार, अहं चकर । अहं पपाच, अहं पपच ।।
</7-1-91>
सख्युरसम्बुद्धौ ।। <7-1-92> ।।
असम्बुद्धौ यः सखिशब्दः तस्मात्परं सर्वनामस्थानं णिद्वद्भवति । सखायौ । सखायः । असम्बुद्धाविति किम्? हे सखे ।।
</7-1-92>
अनङ् सौ ।। <7-1-93> ।।
सखिशब्दस्य सौ परतोऽनङित्ययमादेशो भवति, स चेत्सुशब्दः सम्बुद्धिर्न भवति । सखा । असम्बुद्धाविति किम्? हे सखे ।।
</7-1-93>
ऋदुशनस्पुंरुदंसोऽनेहसां च ।। <7-1-94> ।।
ऋकारान्तानामङ्गानाम्, उशनस्, पुरुदंसस्, अनेहस् - इत्येतेषां चासम्बुद्धौ सौ परतोऽनङादेशो भवति । कर्त्ता । हर्त्ता । माता । पिता । भ्राता । उशना । पुरुदंसा । अनेहा । असम्बुद्धावित्येव - हे कर्त्तः । हे मातः । हे पितः । हे पुरुदंसः । हे अनेहः । हे उशनः । उशनसः सम्बुद्धावपि पक्षेऽनङ् इष्यते - हे उशनन् । न ङिसम्बुद्ध्योः(8-2-8/352) इति नलोपप्रतिषेधोऽपि पक्ष इष्यते - हे उशन । तथा चोक्तम् -
सम्बोधने तूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम् ।
माध्यन्दिनिर्वष्टि गुणं त्विगन्ते नपुंसके व्याघ्रपदां वरिष्ठः ।। इति तपरकरणमसन्देहार्थम् ।।
</7-1-94>
तृज्वत्क्रोष्टुः ।। <7-1-95> ।।
क्रोष्टुशब्दस्तुन्प्रत्ययान्तः संज्ञाशब्दः सर्वनामस्थानेऽसम्बुद्धौ परतः तृज्वद्भवति । तृजन्तस्य यद्रूपं तदस्य
भवतीत्यर्थः । रूपातिदेशोऽयम् । प्रत्यासत्तेश्च क्रुशेरेव तृजन्तस्य यद्रूपं तदतिदिश्यते । तच्च क्रोष्टृ इत्येतदन्तोदात्तम् । क्रोष्टा, क्रोष्टारौ, क्रोष्टारः, क्रोष्टारम्, क्रोष्टारौ । सर्वनामस्थाने इत्येव - क्रोष्टून् । असम्बुद्धौ इत्येव - हे क्रोष्टो ।।
</7-1-95>
स्रियां च ।। <7-1-96> ।।
असर्वनामस्थानार्थमारम्भः । स्त्रियां च क्रोष्टुशब्दस्य तृज्वद् भवति । क्रोष्ट्री । क्रोष्ट्रीभ्याम्, क्रोष्ट्रीभिः । क्रोष्टुशब्दं केचिद् गौरादिषु पठन्ति, ते ङीषि प्रत्यये तृज्वद्भावं कुर्वन्ति । तेषां पञ्चभिः क्रोष्ट्रीभिः क्रीतैः पञ्चक्रोष्टृभी रथैरिति स्त्रीशब्दस्य लुकि कृते न सिद्ध्यति, तत्र प्रतिविधेयम् । ये तु गौरादिषु न पठन्ति, तेषां स्त्रियामित्यर्थनिर्देशः - स्त्रियां वर्त्तमानः क्रोष्टुशब्दः तृज्वद्भवति । कृतेऽतिदेशे, ऋन्नेभ्यो ङीप्(4-1-5/306) इति ङीप्प्रत्ययः । तत्र उदात्तयणो हल्पूर्वात्(6-1-174/3720) इत्यन्तोदात्त एव क्रोष्ट्रीशब्दो भवति ।।
</7-1-96>
विभाषा तृतीयादिष्वचि ।। <7-1-97> ।।
तृतीयादिषु विभक्तिष्वजादिषु क्रोष्टुर्विभाषा तृज्वद्भवति । क्रोष्ट्रा, क्रोष्टुना। क्रोष्ट्रे, क्रोष्टवे । क्रोष्टुः, क्रोष्टोः । क्रोष्टरि, क्रोष्टौ । क्रोष्ट्रोः , क्रोष्ट्‌वोः । तृतीयादिष्विति किम्? क्रोष्टून् । अचीति किम्? क्रोष्टुभ्याम् ।
क्रोष्टुभिः ।

  • तृज्वद्भावात्पूर्वविप्रतिषेधेन नुम्नुटौ भवतः *(म.भा.3-276)। प्रियक्रोष्टुनेऽरण्याय । हतक्रोष्टुने वृषलकुलाय । नुट् - क्रोष्टूनाम् ।।

</7-1-97>
चतुरनडुहोरामुदात्तः ।। <7-1-98> ।।
चतुर्, अनडुह् - इत्येतयोः सर्वनामस्थाने परत आमागमो भवति, स चोदात्तः । चत्वारः । अनड्वान्, अनड्‌वाहौ, अनड्‌वाहः , अनवड्‌वाहम् । तदन्तविधिरत्रेष्यते । प्रियचत्वाः, प्रियचत्वारौ, प्रियचत्वारः । प्रियान॰्‌वान्, प्रियानड्‌वाहौ, प्रियानड्‌वाहः ।* अनडुहः स्त्रियां वेति वक्तव्यम् *(म.भा.3-276)। अनुडुही, अनड्वाही। गौरादिपाठात्सिद्धम् ।।
</7-1-98>
अम्सम्बुद्धौ ।। <7-1-99> ।।
सम्बुद्धौ परतश्चतुरनडुहोरमागमो भवति । पूर्वस्यायमपवादः । हे प्रियचत्वः । हे पियानड्‌वन् ।।
</7-1-99>
ॠत इद्धातोः ।। <7-1-100> ।।
ॠकारान्तस्य धातोरङ्स्य इकारादेशो भवति । किरति । गिरति । आस्तीर्णम् । विशीर्णम् । धातोरिति किम्? मातॄणाम् । पितॄणाम् । लाक्षणिकस्याप्यत्र ग्रहणमिष्यते । चिकीर्षतीत्यत्रापि यथा स्यादिति धातुग्रहणं क्रियते ।।
</7-1-100>
उपधायाश्च ।। <7-1-101> ।।
उपधायाश्च ॠकारस्य इकारादेशो भवति । कीर्त्तयति, कीर्त्तयतः, कीर्त्तयन्ति ।।
</7-1-101>
उदोष्ठ्यपूर्वस्य ।। <7-1-102> ।।
ओष्ठ्यः पूर्वो यस्माद् ॠकारादसावोष्ठ्यपूर्वस्तदन्तस्य धातोरङ्गस्य उकारादेशो भवति । पूर्त्ताः पिण्डाः । पुपूर्षति । मुमूर्षति । सुस्वूर्षति । दन्त्योष्ठ्यपूर्वोऽप्योष्ठ्यपूर्वो भवतीति अत्रापि भवति -- वुवूर्षति ॠत्विजम् , प्रावुवूर्षति कम्बलम् । ओष्ठ्यो ह्यत्र प्रत्यासत्तेरङ्गावयव एव गृह्यते, तेन `ॠ गतौ(धा.पा.1498) इत्यस्य सम्पूर्वस्य समीर्णमिति भवति ।

  • इत्त्वोत्त्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन *(म.भा.3-27)। आस्तरणम्, आस्तारकः । निपरणम्, निपारकः ।

निगरणम्, निगारकः ।।
</7-1-102>
बहुलं छन्दसि ।। <7-1-103> ।।
 छन्दसि विषये ॠकारान्तस्य धातोरङ्गस्य बहुलमुकारादेशो भवति । ओष्ठ्यपूर्वस्य इत्युक्तम् , अनोष्ठ्यपूर्वस्यापि भवति - `मित्रावरुणौ ततुरिः(ऋ.1-145-3) । `दूरे ह्यध्वा जगुरिः(ऋ.10-108-1) । ओष्ठ्यपूर्वस्यापि न भवति - पप्रितमम्, वव्रितमम् । क्वचिद् भवति - `पपुरिः(ऋ.1-46-4) ।।
             इत्युपाध्यायश्रीवामनकृतायां काशिकावृत्तौ
                 सप्तमाध्यायस्य प्रथमः पादः
</7-1-103>